योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ११३


त्रयोदशोत्तरशततमः सर्गः ११३
श्रीराम उवाच ।
मिथ्यानरप्रसङ्गेन किं मायापुरुषः प्रभो ।
कथितोऽयं त्वया व्योमरक्षण च किमुच्यते ।। १
श्रीवसिष्ठ उवाच ।
श्रृणु राम यथाभूतमेतत्प्रकटयामि ते ।
मिथ्यापुरुषवृत्तान्तकथा या कथिताधुना ।। २
मायायन्त्रमयः प्रोक्तो यः पुमान्रघुनन्दन ।
एनं त्वं तमहंकारं विद्धि शून्याम्बरोत्थितम् ।। ३
यस्मिन्नाकाशकोशेऽस्मिन्साधो जगदिदं स्थितम् ।
तदनन्तमसच्छून्यं सर्गादौ भवति स्वयम् ।। ४
अन्तःस्थितसुदुर्लक्ष्यब्रह्म व्योम्नोऽथ शब्दवत् ।
तस्मादुदेत्यहंकारः पूर्वं स्पन्द इवानिलात् ।। ५
वृद्धिं यातः स गगने कल्पयत्यात्मतां गतः ।
अनात्मात्माभिधानेन तेनासौ यतते ततः ।। ६
अनात्मात्मैकरक्षार्थं देहान्नानाविधानसौ ।
भूयोभूयो विनाशेऽपि सृजत्याकुलतां गतः ।। ७
स एव मायापुरुषो मिथ्यापुरुष एव सः ।
असदेवोदितो व्यर्थोऽप्यहंकारो हि मायया ।। ८
कूपकुण्डचतुःशालकुम्भादीन्देहकानसौ ।
कृत्वा रक्षित आत्मेति याति तद्व्योम्नि भावनम् ।। ९
अहंकारस्य तस्यास्य नामानीमानि राघव ।
श्रृणु यैर्जगदाकारविभ्रमैर्मोहयत्यसौ ।। १०
जीवो बुद्धिर्मनश्चित्तं माया प्रकृतिरित्यपि ।
संकल्पः कलना कालः कला चेत्यपि विश्रुतैः ।। ११
एवमाद्यैस्तथान्यैश्च नामभिर्बहुतां गतैः ।
सहस्ररूपोऽहंकारः कल्पितार्थैर्विजृम्भते ।। १२
भूताकाशे तते शून्ये जगन्निर्भित्ति निश्चितम् ।
सुखदुःखान्यनुभवन्मिथ्यैव पुरुषः स्थितः ।। १३
यथैव मिथ्यापुरुषो रक्षन्व्योमात्मशङ्कया ।
घटाकाशादिषु क्लिष्ट एवं मा क्लेशवान्भव ।। १४
आकाशादपि विस्तीर्णः शुद्धः सूक्ष्मः शिवः शुभः ।
य आत्मा स कथं केन गृह्यते रक्ष्यतेऽथवा ।। १५
हृदयाकाशमात्रस्य शरीरक्षयसंक्षये ।
व्यर्थं भूतानि शोचन्ति नष्ट आत्मेति शङ्कया ।। १६
घटादिषु प्रणष्टेषु यथाकाशाद्यखण्डितम् ।
तथा देहेषु नष्टेषु देही नित्यमलेपकः ।। १७
शुद्धश्चिन्मात्र आत्मायमाकाशादप्यणोरणुः ।
स्वानुभूत्यंशमात्रं हि खवद्राम न नश्यति ।। १८
न जायते न म्रियते क्वचित्किंचित्कदाचन ।
जगद्विवर्तरूपेण केवलं ब्रह्म जृम्भते ।। १९
सत्यमेकं पदं शान्तमादिमध्यान्तवर्जितम् ।
भावाभावविनिर्मुक्तमिति मत्वा सुखी भव ।। २०
सर्वापदां निलयमध्रुवमस्वतन्त्र-
मासन्नपातमविवेकमनार्यमज्ञम् ।
बोधादहंकृतिपदं सकलं विमुच्य
शेषे सुबद्धपदमुत्तमतां प्रयासि ।। २१
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० मिथ्यापुरुषोपाख्यानं नाम त्रयोदशोत्तरशततमः सर्गः ।। ११३ ।।