योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ११४


चतुर्दशाधिकशततमः सर्गः ११४
श्रीवसिष्ठ उवाच ।
परस्माद्ब्रह्मणः पूर्वं मनः प्रथममुत्थितम् ।
मननात्मकमाभोगि तत्स्थमेव स्थितिं गतम् ।। १
पुष्पकोश इवामोदो महोर्मिरिव सागरे ।
रश्मिजालमिवादित्ये मनो ब्रह्मणि राघव ।। २
तस्यादृश्यात्मतत्त्वस्य विस्मृत्यैव गतं स्थितिम् ।
नान्यस्मादागतं राम जगद्रज्जुभुजङ्गवत् ।। ३
आदित्यव्यतिरेकेण यो भावयति राघव ।
रश्मिजालमिदं ह्येतत्तस्यान्यदिव भास्वतः ।। ४
कनकव्यतिरेकेण केयूरं येन भावितम् ।
केयूरमेव तत्तस्य न तस्य कनकं हि तत् ।। ५
आदित्याव्यतिरेकेण रश्मयो येन भाविताः ।
आदित्य एव ते तस्य निर्विकल्पः स उच्यते ।। ६
सलिलव्यतिरेकेण तरङ्गो येन भावितः ।
तरङ्गबुद्धिरेवैका स्थिता तस्य न वारिधीः ।। ७
सलिलाव्यतिरेकेण तरङ्गो येन भाव्यते ।
अम्बुसामान्यताबुद्धिर्निर्विकल्पः स उच्यते ।। ८
कनकाव्यतिरेकेण केयूरं येन भाव्यते ।
कनकैकमहाबुद्धिर्निर्विकल्पः स उच्यते ।। ९
पावकव्यतिरेकेण ज्वालाली येन भाविता ।
तस्याग्निबुद्धिर्गलति ज्वालाधीरेव तिष्ठति ।। १०
ज्वालाजालाभ्रलेखेव रञ्जिता सा तथा स्थितिः ।
तामेवास्थां समादत्ते तद्गतान्याकुला मतिः ।। ११
पावकाव्यतिरेकेण ज्वालाली येन भाव्यते ।
तस्याग्निबुद्धिरेकास्ति निर्विकल्पः स उच्यते ।। १२
यो निर्विकल्पः सुमहान्सोऽसंक्षीणमहामतिः ।
प्राप्तव्यं तेन संप्राप्तं नासौ वस्तुषु मज्जति ।। १३
नानातामखिलां त्यक्त्वा शुद्धचिन्मात्रकोटरे ।
संवेद्येन विनिर्मुक्ते संवित्तत्त्वे स्थितो भव ।। १४
स्वयमेवात्मनैवात्मा शक्तिं संकल्पनामिकाम् ।
यदा करोति स्फुरता स्पन्दशक्तिमिवानिलः ।। १५
तदा पृथगिवाभासं संकल्पकलनामयम् ।
मनो भवति विश्वात्मा भावयन्स्वाकृतिं स्वयम् ।। १६
तत्संकल्पात्मकं चेतो यथेदमखिलं जगत् ।
संकल्पयति संकल्पैस्तथैव भवति क्षणात् ।। १७
कीटत्वमब्जजत्वं च मेरुत्वं मरुतां तथा ।
मनो जीवमहंकारबुद्धिचित्तादिनामकम् ।। १८
संकल्पतो द्वितैकत्वमेत्य चेतो जगत्स्थितिम् ।
तनोति तस्यां तदनु नानातां गच्छति स्वयम् ।। १९
संकल्पमयमेवेदं जगदाभोगि दृश्यते ।
न सत्यं न च मिथ्यैव स्वप्नजालमिवोत्थितम् ।। २०
जन्तोर्यथा मनोराज्यं विविधारम्भभासुरम् ।
ब्राह्मं तथेदं विततं मनोराज्यं विराजते ।। २१
यथाभूतार्थभावित्वात्तदेतत्प्रविलीयते ।
परमार्थेन दृष्टं चेत्तदिदं नैव किंचन ।। २२
दृश्यं त्वपरमार्थेन प्रयाति शतशाखताम् ।
जलमूर्मितरङ्गादिकलनार्हं परिस्फुरन् ।। २३
यथाम्बुधिर्वपुर्धत्ते स्वभावेन तथा चितः ।
कुर्वन्कर्मसहस्राणि ह्यणुचित्स्पन्दनादृते ।। २४
नापूर्वं कुरुते किंचित्किंचिद्भेदमतस्त्यजन् ।
गच्छन्श्रृण्वन्स्पृशन्जिघ्रन्वदन्व्यवहरन्स्वपन्।।२५
नापूर्वं विद्यते किंचित्सत्यमित्येव भावयन् ।
यद्यत्करोषि तद्विद्धि चिन्मात्रममलं ततम् ।। २६
ब्रह्म प्रबृंहिताकारं तस्मादन्यन्न विद्यते ।
पदार्थजाते सर्वस्मिन्संवित्सारमये स्थिते ।। २७
संविदेवेदमखिलं जगन्नान्यास्ति कल्पना ।
संवित्स्फुरणमात्रेऽस्मिञ्जगज्जालकनामनि ।। २८
इदमन्यदिदं चान्यदिति मिथ्याग्रहः कुतः ।
संभवादखिलाकारेष्वेकस्या एव संविदः ।
संवेद्यमपि नास्त्येव बन्धमोक्षावतः कथम् ।। २९
मोक्षोऽयमेष खलु बन्ध इति प्रसह्य
चिन्तां निरस्य सकलां विफलाभिमानाम् ।
मौनी वशी विगतमानमदो महात्मा
कुर्वन्स्वकार्यमनहंकृतिरेव तिष्ठ ।। ३०
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० परमार्थोपदेशो नाम चतुर्दशाधिकशततमः सर्गः ।। ११४।।