योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ११६
षोडशाधिकशततमः सर्गः ११६
श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ चित्तेऽहंकारनामनि ।
गलिते वा गलद्रूपे लिङ्गं सत्त्वस्य किं भवेत् ।। १
श्रीवसिष्ठ उवाच ।
बलादपि हि संजाता न लिम्पन्त्याशयं सितम् ।
लोभमोहादयो दोषाः पयांसीव सरोरुहम् ।। २
मुदिताद्याः श्रियो वक्रं न मुञ्चन्ति कदाचन ।
गलत्यहंकारमये चित्ते गलति दुष्कृते ।। ३
वासनाग्रन्थयश्छिन्ना इव त्रुट्यन्त्यलं शनैः ।
कोपस्तानवमायाति मोहो मान्द्यं हि गच्छति ।। ४
कामः क्लमं गच्छति च लोभः क्वापि पलायते ।
नोल्लसन्तीन्द्रियाण्युच्चैः खेदः स्फुरति नोच्चकैः ।। ५
न दुःखान्यपब्रंहन्ति न वल्गन्ति सुखानि च ।
सर्वत्र समतोदेति हृदि शैत्यप्रदायिनी । ६
सुखदुःखादयस्त्वेते दृश्यन्ते यदि वा मुखे ।
दृश्यन्त एव तुच्छत्वान्नानुलिम्पन्ति ते मनः ।। ७
चित्ते गलति गीर्वाणगणस्य स्पृहणीयताम् ।
साधुर्गच्छत्युदेत्यस्य समता शीतचन्द्रिका ।। ८
उपशान्तं च कान्तं च सेव्यमप्रतिरोधि च ।
निभृतं चोर्जितं स्वच्छं वहतीत्थं महद्वपुः ।। ९
भावाभावविरुद्धोऽपि विचित्रोऽपि महानपि ।
नानन्दाय न खेदाय सतां संसृतिविभ्रमः ।। १०
बुद्ध्यालोकेन साध्येऽस्मिन्वस्तुन्यस्तमितापदि ।
प्रवर्तते न यो मोहात्तं धिगस्तु नराधमम् ।। ११
विश्रान्तिमाप्तुमुचितां चिरमंग दुःख-
रत्नाकरं जननसागरमुत्तितीर्षोः ।
कोऽहं कथं जगदिदं च परं च किं स्या-
त्किं भोगकैरिति मतिः परमोऽभ्युपायः ।। १२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० गलितचित्तलक्षणकथनं नाम षोडशाधिकशततमः सर्गः ।। ११६ ।।