योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ११७


सप्तदशाधिकशततमः सर्गः ११७
श्रीवसिष्ठ उवाच ।
भवतामादिपुरुष इक्ष्वाकुर्नाम भूपतिः ।
इक्ष्वाकुवंशप्रभव यथा मुक्तस्तथा श्रृणु ।। १
इक्ष्वाकुर्नाम भूपालः स्वराज्यं परिपालयन् ।
कदाचिदेकान्तगतो मनसा समचिन्तयत् ।। २
जरामरणसंक्षोभसुखदुःखभ्रमस्थितेः ।
अस्य दृश्यप्रपञ्चस्य को हेतुः स्यादिति स्वयम् ।। ३
जगतो न विवेदासौ कारणं चिन्तयन्नपि ।
अथैकदा पृच्छदसौ ब्रह्मलोकागतं मनुम् ।। ४
पूजितं स्वसभासंस्थं भगवन्तं प्रजापतिम् ।
इक्ष्वाकुरुवाच ।
मां योजयति धार्ष्ट्येन भगवन्करुणानिधे ।। ५
भवत्प्रसाद एवायं भवन्तं प्रष्टुमञ्जसा ।
कुतः सर्गोऽयमायातः स्वरूपं चास्य कीदृशम् ।। ६
कियदेतज्जगत्कस्य कदा केनेति कथ्यते ।
अहं कथं च विषमादस्मात्संसृतिविभ्रमात् ।। ७
विमुच्येय घनास्तीर्णाज्जालादिव विहंगमः ।
मनुरुवाच ।
अहो नु चिरकालेन विवेके सुविकासिनि ।। ८
वितथानर्थविच्छेत्ता सारः प्रश्नस्त्वया कृतः ।
यदिदं दृश्यते किंचित्तन्नास्ति नृप किंचन ।। ९
यथा गन्धर्वनगरं यथा वारि मरुस्थले ।
यत्तु नो दृश्यते किंचित्तन्न किंचिदिव स्थितम् ।।१०
मनःषष्ठेन्द्रियातीतं यत्स्यादपि न किंचन ।
अविनाशं तदस्तीह तत्सदात्मेति कथ्यते ।। ११
इयं तु सर्वदृश्याढ्या राजन्सर्गपरंपरा ।
तस्मिन्नेव महादर्शे प्रतिबिम्बमुपागता ।। १२
भाः स्वभावसमुत्पन्ना ब्रह्मस्फुरणशक्तयः ।
काश्चिद्ब्रह्माण्डतां यान्ति काश्चिद्गच्छन्ति भूतताम् ।।
अन्यास्त्वन्यत्वमायान्ति भवत्येवं जगत्स्थितिः ।
न बन्धोऽस्ति न मोक्षोऽस्ति ब्रह्मैवास्ति निरामयम् ।
नैकमस्ति न च द्वित्वं संवित्सारं विजृम्भते ।। १४
एकं यथा स्फुरति वारि तरङ्गभङ्गै-
रेवं परिस्फुरति चिन्न च किंचिदेव ।
त्वं बन्धमोक्षकलने प्रविमुच्य दूरे
स्वस्थो भवाऽभवभयोऽभयसार एव ।। १५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० इक्ष्वाकुमनुसंवादे सप्तदशाधिकशततमः सर्गः ।। ११७ ।।