योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः १२०


विंशाधिकशततमः सर्गः १२०
मनुरुवाच ।
शास्त्रसज्जनसंपर्कैः प्रज्ञामादौ विवर्धयेत् ।
प्रथमा भूमिकैषोक्ता योगस्यैव च योगिनः ।। १
विचारणा द्वितीया स्यात्तृतीयाऽसङ्गभावना ।
विलापनी चतुर्थी स्याद्वासनाविलयात्मिका ।। २
शुद्धसंविन्मयानन्दरूपा भवति पञ्चमी ।
अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तोऽत्र तिष्ठति ।। ३
स्वसंवेदनरूपा च षष्ठी भवति भूमिका ।
आनन्दैकघनाकारा सुषुप्तसदृशस्थितिः ।। ४
तुर्यावस्थोपशान्ताथ मुक्तिरेवेह केवलम् ।
समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् ।। ५
तुर्यातीता तु यावस्था परा निर्वाणरूपिणी ।
सप्तमी सा परिप्रौढा विषयः स्यान्न जीवताम् ।। ६
पूर्वावस्थात्रयं त्वत्र जाग्रदित्येव संस्थितम् ।
चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् ।। ७
आनन्दैकघनीभावात्सुषुप्ताख्या तु पञ्चमी ।
असंवेदनरूपाथ षष्ठी तुर्यपदाभिधा ।। ८
तुर्यातीतपदावस्था सप्तमी भूमिकोत्तमा ।
मनोवचोभिरग्राह्या स्वप्रकाशपदात्मिका ।। ९
अन्तः प्रत्याहृतिवशाच्चेत्यं चेन्न विभावितम् ।
मुक्त एवास्य संदेहो महासमतया तया ।। १०
यद्भोगसुखदुःखांशैरपरामृष्टपूर्णधीः ।
सशरीरोऽशरीरो वा भवत्येवंमतिः पुमान् ।। ११
न म्रिये न च जीवामि नाहं सन्नाप्यसन्नयम् ।
आत्मारामो नरस्तिष्ठेत्तनमुक्तत्वमुदाहृतम् ।। १२
व्यवहार्युपशान्तो वा गृहस्थो वाथवैककः ।
अहं न किंचिच्चिदिति मत्वा जीवो न शोचति ।। १३
अलेपकोऽहमजरो नीरागः शान्तवासनः ।
निर्मलोऽस्मि चिदाकाश इति मत्वा न शोचति ।।१४
अहमन्तादिरहितः शुद्धो बुद्धोऽजरामरः ।
शान्तः समासमाभास इति मत्वा न शोचति ।। १५
तृणाग्रेष्वम्बरे भानौ नरनागामरेषु च ।
यत्तदस्ति तदेवेति मत्वा भूयो न शोचति ।। १६
तिर्यगूर्ध्वमधस्तान्मे व्यापको महिमा चितः ।
तस्यानन्तविलासस्य ज्ञात्वेति क इव क्षयी ।। १७
बद्धवासनमर्थो यः सेव्यते सुखयत्यसौ ।
यत्सुखाय तदेवाशु वस्तु दुःखाय नाशतः ।। १८
अविनाभावनिष्ठत्वं प्रसिद्धं सुखदुःखयोः ।
तनुवासनमर्थो यः सेव्यते वा विवासनम् ।। १९
नासौ सुखायते नासौ नाशकाले न दुःखदः ।

क्षीणवासनया बुद्ध्या यत्कर्मक्रियतेऽनघ ।। २०
तद्दग्धबीजवद्भूयो नाङ्कुरं प्रविमुञ्चति ।
देहेन्द्रियादिना कर्म करणौघेन कल्प्यते ।। २१
एकः कर्ता च भोक्ता च क इवाङ्गोपपद्यते ।
भावनां सर्वभावेभ्यः समुत्सृज्य समुत्थितः ।। २२
शशाङ्कशीतलः पूर्णो भाति भासेव भास्करः ।
क्रियमाणा कृता कर्मतूलश्रीर्देहशाल्मलेः ।। २३
ज्ञानानिलसमुद्भूता प्रोड्डीय क्वापि गच्छति ।
सर्वैव हि कला जन्तोरनभ्यासेन नश्यति ।। २४
एषा ज्ञानकला त्वन्तः सकृज्जाता दिने दिने ।
वृद्धिमेति बलादेव सुक्षेत्रव्युप्तशालिवत् ।। २५
एकः स्फुरत्यखिलवस्तुषु विश्वरूप
आत्मा सरःसु जलधिष्विव तोयमच्छम् ।
संशान्तसंकलनभूरिकलापमेकं
सत्तांशमात्रमखिलं जगदङ्ग विद्धि ।। २६
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे पू० सप्तभूमिकाविभागो नाम विंशत्यधिकशततमः सर्गः ।। १२० ।।