योगशतकम्
वररुचिः


कृत्स्नस्य तन्त्रस्य गृहीतधाम्नश्चिकित्सिताद्विप्रसृतस्य दूरम् ।
विदग्धवैद्यप्रतिपूजितस्य करिष्यते योगशतस्य बन्धः ॥ १ ॥
परीक्ष्य हेत्वामयलक्षणानि चिकित्सितज्ञेन चिकित्सिकेन ।
निरामदेहस्य हि भैषजानि भवन्ति युक्तान्यमृतोपमानि ॥ २ ॥
छिन्नोद्भवाम्बुधरधन्वयवासविश्वैर्दुःस्पर्शपर्पटकमेघकिराततिक्तैः ।
मुस्ताटरूषकमहौषधधन्वयासैः क्वाथं पिबेदनिलपित्तकफज्वरेषु ॥ ३ ॥
क्षुद्रामृतानागरपुष्कराह्वयैः कृतः कषायः कफमारुतोत्तरे ।
सश्वासकासारुचिपार्श्वरुक्करे ज्वरे त्रिदोषप्रभवेऽपि शस्यते ॥ ४ ॥
आरग्वधग्रन्थिकमुस्ततिक्ताहरीतकीभिः क्वथितः कषायः ।
सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च ॥ ५ ॥
द्राक्षाभयापर्पटकाब्दतिक्ताक्वाथं सशम्याकफलं विदध्यात् ।
प्रलापमूर्छाभ्रमदाहमोहतृष्णान्विते पित्तभवे ज्वरे तु ॥ ६ ॥
निदिग्धिकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम् ।
जीर्णज्वरारोचककासशूलश्वासाग्निमान्द्यार्दितपीनसेषु ॥ ७ ॥
दुरालभापर्पटकप्रियङ्गुभूनिम्बवासाकटुरोहिणीनाम् ।
क्वाथं पिबेच्छर्करयावगाढं तृष्णाश्रपित्तज्वरदाहयुक्तः ॥ ८ ॥
फलत्रिकं दारुनिशाविशालामुस्तं च निष्क्वाथ्य निशांशकल्कम् ।
पिबेत्कषायं मधुसंप्रयुक्तं सर्वप्रमेहेषु समुत्थितेषु ॥ ९ ॥
सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश्च कृतः कषायः ।
सामे सशूले च सशोणिते च चिरप्रवृत्तेऽपि हितोऽतिसारे ॥ १० ॥
शुण्ठीं समुस्तातिविषागुडूचीं पिबेज्जलेन क्वथितां समांशाम् ।
मन्दानलत्वे सततामयानामामानुबन्धे ग्रहणीगदे च ॥ ११ ॥
पुनर्नवादार्व्यभयागुडूचीः पिबेत्समूत्रा महिषाक्षयुक्ताः ।
त्वग्दोषशोफोदरपाण्डुरोगस्थौल्यप्रसेकोर्ध्वकफामयेषु ॥ १२ ॥
मुस्ताखुपर्णीफलदारुशिग्रुक्वाथः सकृष्णाकृमिशत्रुकल्कः ।
मार्गद्वयेनापि चिरप्रवृत्तान् कृमीन्निहन्यात्कृमिजांश्च रोगान् ॥ १३ ॥
एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः ।
शृतं पिबेदश्मजतुप्रधानं सशर्करे साश्मरिमूत्रकृच्छ्रे ॥ १४ ॥
एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तण्डुलजलैर्लुलितानि पीत्वा ।
यद्वा गुडेन सहितान्यवलेह्यमानान्यासन्नमृत्युरपि जीवति मूत्रकृच्छ्री ॥ १५ ॥
हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम् ।
क्वाथं पिबेन्माक्षिकसंप्रयुक्तं कृच्छ्रे सदाहे सरुजे विबन्धे ॥ १६ ॥
वासागुडूचीचतुरङ्गुलानामेरण्डतैलेन पिबेत्कषायम् ।
क्रमेण सर्वाङ्गजमप्यशेषं जयेदसृग्वातभवं विकारम् ॥ १७ ॥
रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रान्वितं तण्डुलतोयपीतम् ।
असृग्दरं सर्वभवं निहन्ति श्वासं च भार्गी सह नागरेण ॥ १८ ॥
एरण्डबिल्वबृहतीद्वयमातुलुङ्गपाषाणभित्त्रिकटमूलकृतं कषायः ।
सक्षारहिङ्गुलवणोरुहुतैलमिश्रः श्रोण्यंसमेढ्रहृदयस्तनरुक्षु पेयः ॥ १९ ॥
हिङ्गूग्रगन्धाविडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम् ।
भागोत्तरं चूर्णितमेतदिष्टं गुल्मोदराजीर्णविसूचिकासु ॥ २० ॥
चूर्णं समं रुचकहिङ्गुमहौषधानां शुण्ठ्यम्बुना कफसमीरणसंभवासु ।
हृत्पार्श्वपृष्ठजठरार्तिविसूचिकासु पेयं तथा यवरसेन च विड्विबन्धे ॥ २१ ॥
पूतीकपत्रगजचिर्भिटचव्यवह्नि व्योषं च संस्तरचितं लवणोपधानम् ।
दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु ॥ २२ ॥
द्विरुत्तरा हिङ्गु वचा सकुष्ठा सुवर्चिका चेति विडं च चूर्णम् ।
उष्णाम्बुनानाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम् ॥ २३ ॥
शृङ्गीकटुत्रिकफलत्रयकण्टकारीभार्गीसपुष्करजटा लवणानि पञ्च ।
चूर्णं पिबेदशिशिरेण जलेन हिक्काश्वासोर्ध्ववातकसनारुचिपीनसेषु ॥ २४ ॥
नादेयीकुटजार्कशिग्रुबृहतीस्नुग्बिल्वभल्लातक-
व्याघ्रीकिंशुकपारिभद्रकजटापामार्गनीपाग्निकान् ।
वासामुष्ककपाटलाः सलवणा दग्ध्वा रसं पाचितं
हिङ्ग्वादिप्रतिवापमेतदुचितं गुल्मोदरप्लीहिषु ॥ २५ ॥
चव्यम्लवेतसकटुत्रिकतित्तिडीकतालीसजीरकतुगादहनैः समांशैः ।
चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं वैस्वर्यपीनसकफारुचिषु प्रशस्तम् ॥ २६ ॥
तालीसचव्यमरिचं सदृशं द्विरंशं मूलं तुगां मगधजां त्रिगुणां च शुण्ठीम् ।
कृत्वा गुडत्रिगुणितां गुडिकां सुगन्धां कासाग्निमान्द्यगुदजज्वररुक्षु दद्यात् ॥ २७ ॥
सुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्धितमूर्ध्वमन्त्यात् ।
खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठहृदामयेषु ॥ २८ ॥
सिन्धूत्थहिङ्गुत्रिफलायवानीव्योषैर्गुडांशैर्गुडिकां प्रकुर्यात् ।
तैर्भक्षितैस्तृप्तिमवाप्नुवन्न भुञ्जीत मन्दाग्निरपि प्रभूतम् ॥ २९ ॥
अयस्तिलत्र्यूषणकोलभागैः सर्वैः समं माक्षिकधातुचूर्णम् ।
तैर्मोदकः क्षौद्रयुतोऽनुतक्रः पाण्ड्वामये दूरगतेऽपि शस्तः ॥ ३० ॥
गुडेन शुण्ठीमथवोपकुल्यां पथ्यातृतीयामथ दाडिमं च ।
आमेष्वजीर्णेषु गुदामयेषु वर्चोविबन्धेषु च नित्यमद्यात् ॥ ३१ ॥
हरीतकीनागरमुस्तचूर्णं गुडेन सार्धं गुटिका विधेया ।
निवारयत्यास्यविधारितेयं श्वासं प्रवृद्धं प्रबलं च कासम् ॥ ३२ ॥
वटप्ररोहं मधु कुष्ठमुत्पलं सलाजचूर्णं गुडिकां प्रकल्पयेत् ।
सुसंहिता सा वदनेन धारिता तृष्णां प्रवृद्धामपि हन्ति सत्वरम् ॥ ३३ ॥
मनःशिलामागधिकोषणानां चूर्णं कपित्थाम्लरसेन युक्तम् ।
लाजैः समांशैर्मधुनावलीढं छर्दिं प्रसक्तामसकृन्निहन्ति ॥ ३४ ॥
दूर्वारसो दाडिमपुष्पजो वा घ्राणप्रवृत्तेऽसृजि नस्यमुक्तम् ।
स्तन्येन वालक्तरसेन वापि विण्मक्षिकानां च निहन्ति हिक्काम् ॥ ३५ ॥
धात्रीरसः सर्जरसः सपाक्यः सौवीरपिष्टश्च तदासुतश्च ।
भवन्ति सिध्मानि यथा न भूयस्तथैवमुद्वर्तनकं करोति ॥ ३६ ॥
दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः ।
त्रिभिः प्रलेपैरपि बद्धमूलां दद्रुं च कण्डुं च विनाशयन्ति ॥ ३७ ॥
गण्डीरिकचित्रकमार्कवार्ककुष्ठद्रुमत्वग्लवणैः समूत्रैः ।
तैलं पचेन्मण्डलकुष्ठदद्रुदुष्टव्रणारुक्किटिमापहारि ॥ ३८ ॥
सिन्दूरगुग्गुलुरसाञ्जनसिक्थतुत्थैस्तुल्यांशकैः कटुकतैलमिदं विपक्वम् ।
कच्छूं स्रवत्पिटकिकामथवापि शुष्कामभ्यञ्जनेन सकृदुद्धरति प्रसह्य ॥ ३९ ॥
सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः ।
तैलं ज्वरे षड्गुणतक्रसिद्धमभ्यञ्जनाच्छीतविदाहनुत्स्यात् ॥ ४० ॥
सर्पिर्गुडूचीवृषकण्टकारीक्वाथेन कल्केन च सिद्धमेतत् ।
पेयं पुराणज्वरकासशूलश्वासाग्निमान्द्यग्रहणीगदेषु ॥ ४१ ॥
वृषखदिरपटोलपत्रनिम्बत्वगमृततामलकीकषायकल्कैः ।
घृतमभिनवमेतदाशु सिद्धं जयति विसर्पमदाश्रकुष्ठगुल्मान् ॥ ४२ ॥
त्वङ्मांसशोणितगतैर्दोषैः प्रकुपितैर्जनितः
सर्वाङ्गशारीरशोषविशेषो विसर्पः ।
मदो मद्यात्मो मद्यपानजनितविकारः ॥ ४३ ॥
अमृतापटोलपिचुमर्दधावनीत्रिफलाकरञ्जवृषकल्कवारिभिः ।
घृतमुत्तमं विधिविपक्वमादृतः प्रपिबन्निदं जयति कुष्ठमातुरः ॥ ४४ ॥
खण्डान् कुष्माण्डकानामथ पचनविधिस्विन्नशुष्काज्यभृष्टान्
न्यस्येत्खण्डे विपक्वे समरिचमगधाशुण्ठ्यजाजीत्रिगन्धान् ।
लेहोऽयं बालवृद्धानिलरुधिरकृशस्त्रीप्रसक्तक्षतानां
तृष्णाकासास्रपित्तश्वसनगुदरुजाछर्दितानां च शस्तः ॥ ४५ ॥
विपाच्य मूत्राम्ब्लमधूनि दन्तीपिण्डीतकृष्णाविडधूमकुष्ठैः ।
वर्तिं कराङ्गुष्ठनिभां घृताक्तां गुदे रुजानाहहरीं विदध्यात् ॥ ४६ ॥
सशर्करं कुङ्कुममाज्यभृष्टं नस्यं विधेयं पवनासृगुत्थे ।
भ्रूकर्णशङ्खाक्षिशिरोऽर्धशूले दिनाभिवृद्धिप्रभवे च रोगे ॥ ४७ ॥
पथ्याक्षधात्रीफलमध्यबीजैस्त्रिद्व्येकभागैर्विदधीत वर्तिम् ।
तयाञ्जयेदश्रुमतिप्रवृद्धमक्ष्णोर्हरेत्कष्टमपि प्रकोपम् ॥ ४८ ॥
हरीतकीसैन्धवतार्क्ष्यशैलैः सगैरिकैः स्वच्छजलप्रपिष्टैः ।
बहिष्प्रलेपं नयनस्य कुर्यात्सर्वाक्षिरोगोपशमार्थमेतत् ॥ ४९ ॥
ससैन्धवं लोध्रमथाज्यभृष्टं सौवीरपिष्टं सितवस्त्रबद्धम् ।
आश्च्योतनं तन्नयनस्य कुर्यात्सदाहकण्डूं च रुजं निहन्यात् ॥ ५० ॥
हन्त्यर्जुनं शर्करयाब्धिफेनो नक्तान्धतां गोशकृता च कृष्णा ।
रसाञ्जनं व्योषयुतं च पिल्लं तापीसमुत्थं मधुना च शुक्रम् ॥ ५१ ॥
पुष्पाख्यतार्क्ष्यससितोदधिफेनशङ्खसिन्धूत्थगैरिकशिलामरिचैः समांशैः ।
पिष्टैस्तु माक्षिकरसेन रसक्रियेयं हन्त्यर्मकाचतिमिरार्जुनवर्त्मरोगान् ॥ ५२ ॥
मुस्तोशीररजोयवासमरिचाः सिन्धूद्भवं कट्फलं
दार्वीतुत्थकशङ्खफेननलदं कालानुसार्यञ्जनम् ।
तुल्यं चूर्णितमायसे विनिहितं क्षौद्रान्वितं शस्यते
कण्ड्वर्मामयरक्तराजितिमिरे पिल्लोपदेहेषु च ॥ ५३ ॥
मञ्जिष्ठामधुकोत्पलोदधिकफत्वक्सेव्यगोरोचना-
मांसीचन्दनशङ्खपत्रगिरिमृत्तालीसपुष्पाञ्जनैः ।
सर्वैरेव समांशमञ्जनमिदं शस्तं सदा चक्षुषः
कण्डूत्क्लेदमलाश्रुशोणितरुजापिल्लार्मशुक्रापहम् ॥ ५४ ॥
क्वाथः समुस्तातिविषेन्द्रदारुकलिङ्गपाठाकटुरोहिणीनाम् ।
गोमूत्रसिद्धो मधुना च युक्तः पेयो गलव्याधिषु सर्वजेषु ॥ ५५ ॥
यवाग्रजं तेजवतीं सपाठां रसाञ्जनं दारुनिशां सकृष्णाम् ।
क्षौद्रेण कुर्याद्गुटिकां मुखेन तां धारयेत्सर्वगलामयेषु ॥ ५६ ॥
दार्वीगुडूचीसुमनाप्रवालाद्राक्षायवासत्रिफलाकषायः ।
क्षौद्रेण युक्तः कवलग्रहोऽयं मुखस्य पाकं शमयत्युदीर्णम् ॥ ५७ ॥
कुष्ठं दार्वी लोध्रमब्दं समङ्गा पाठा तिक्ता तेजनी पीतिका च ।
चूर्णं शस्तं घर्षणं तद्द्विजानां रक्तस्रावं हन्ति कण्डूरुजं च ॥ ५८ ॥
सौवीरशुक्तार्द्रकमातुलुङ्गमांसै रसैर्गुग्गुलुसैन्धवश्च ।
पक्त्वा तु तैलं कटुकं निषिञ्चेत्तत्कर्णयोः कर्णरुजोपशान्त्यै ॥ ५९ ॥
वासानिम्बपटोलपर्पटफलश्रीचव्यदार्व्यम्बुदैः
तिक्तोशिरदुरालभात्रिकटुकत्रायन्तिकाचन्दनैः ।
सर्पिः सिद्धमथोर्ध्वजत्रुविकृतिघ्राणाक्षिशूलादिषु
त्वग्दोषज्वरविद्रधिव्रणरुजाशुक्रेषु वै चेष्यते ॥ ६० ॥
दार्वीपर्पटनिम्बवत्सककणादुःस्पर्शयष्टीवृषास्
त्रायन्तीत्रिफलापटोलकटुकाभूनिम्बरक्ताम्बुदाः ।
एषां कल्ककषायसाधितमिदं सर्पिः प्रशस्तं दृशः
पित्तासृक्प्रभवेषु शुक्रतिमिरेषूर्ध्वेषु च व्याधिषु ॥ ६१ ॥
शुक्लैरण्डान्मूलमथोग्रा शतपुष्पा पुष्पोद्भूतं यच्च बृहत्यास्तगरं च ।
तैलं सिद्धं तैः सपयस्कैस्तिमिरघ्नं नस्यं श्रेष्ठं व्याधिषु चोर्ध्वेष्वपरेषु ॥ ६२ ॥
क्वाथे मुष्ककभस्मनोऽनलशिखादग्धं क्षिपेच्छङ्खकं
तत्तेनैव पुनर्जलेन विपचेत्क्षारं स तैले विधिः ।
युञ्ज्यात्तद्व्रणदुष्टिषु व्रणरुजास्वर्शस्सु नाडीषु च
त्वग्दोषेषु भगंदरेषु विविधे कण्ठामये च स्थिरे ॥ ६३ ॥
निशासयष्टीमधुपद्मकोत्पलैः प्रियङ्गुकासावरलोध्रचन्दनैः ।
विपाच्य तैलं पयसा प्रयोजयेत्क्षतेषु संरोपणदाहनाशनम् ॥ ६४ ॥
जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा-
मञ्जिष्ठाभयसिक्थतुत्थमधुकैर्नक्ताह्वबीजैः समैः ।
सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविनो
गम्भीराः सरुजा व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ॥ ६५ ॥
शिरीषपुष्पं स्वरसेन भावितं सहस्रकृत्वो मरिचं सिताह्वयम् ।
प्रयोजयेदञ्जनपाननावनैर्विमोहितानामपि सर्पदंशिनाम् ॥ ६६ ॥
मयूरपित्तेन तु तण्डुलीयकं काकाण्डयुक्तं प्रपिबेदनल्पम् ।
विषाणि संस्तावरजङ्गमानि सोपद्रवाण्यप्यचिरेण हन्ति ॥ ६७ ॥
तैलं तिलानां पललं गुडं च क्षीरं तथार्कं सममेव पीतम् ।
आलर्कमुग्रं विषमाशु हन्ति सद्योद्भवं वायुरिवाभ्रवृन्दम् ॥ ६८ ॥
आगारधूमो महिषाक्षयुक्तः सवाजिगन्धाघृततण्डुलीयकः ।
गोमूत्रपिष्टो ह्यगदो निहन्ति विषाणि संस्थावरजङ्गमानि ॥ ६९ ॥
मांसीसेव्यालकौन्तीजलजलदशिलारोचनापद्मकेशी-
स्पृक्काचण्डाहरिद्रागदसितपलितासृग्लतापद्मकैलाः ।
तुल्या गौराष्टभागाश्चतुरिभकुसुमा वर्तयः सर्वभोग्याः
कृत्यालक्ष्मीपिशाचज्वरविषमगदा घ्नन्ति चन्द्रोदयाख्याः ॥ ७० ॥
सिद्धार्थत्रिफलाशिरीषकटभीश्वेताकरञ्जामृता-
मञ्जिष्ठारजनीद्वयत्रिकटुकं श्यामा वचा हिङ्गु च ।
शस्तं छागलमूत्रपिष्टमगदं सर्वग्रहोत्सादनं
कृत्योन्मादपिशाचराक्षसहरं पानादिभिः सेवितम् ॥ ७१ ॥
कर्पासास्थिमयूरपत्रबृहतीनिर्माल्यपिण्डीतकैस्
त्वग्वांशीवृषदंशविट्तुषवचाकेशाहिनिर्मोचकैः ।
गोशृङ्गीद्विपदन्तहिङ्गुमरिचैस्तुल्यैश्च धूपः कृतः
स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नः स्मृतः ॥ ७२ ॥
त्रिकटुकदलकुङ्कुमग्रन्थिकक्षारसिंहीनिशाकुष्ठसिद्धार्थयुग्माम्बुशक्राह्वयैः
सितलशुनफलत्रिकोशीरतिक्तावचातुत्थयष्टीबलालोहिताख्याशिलापद्मकैः ।
दधितगरमधूकसारप्रियाह्वाविषाख्याविषातार्क्ष्यशैलैः सचव्यामरैः कल्कितैः
घृतमनवमशेषमूत्राम्बुसिद्धं स्मृतं भूतरावं तु पानेन तत्स्याद्ग्रहघ्नं परम् ॥ ७३ ॥
नतमधुककरञ्जलाक्षापटोलीसमङ्गावचापाटलीहिङ्गुसिद्धार्थसिंहीनिशायुग्लतारोहिणी-
फलखदिरकटुत्रिकाकाण्डदारुक्रिमिघ्नाजगन्धामराङ्कोल्लकोशातकीशिग्रुनिम्बाम्बुदेन्द्राह्वयैः ।
गदशुकतरुपुष्पबीजाम्बुयष्ट्यद्रिकर्णीनिकुम्भाग्निबिल्वैः
समैः कल्कितैर्मूत्रवर्गेण सिद्धं घृतं
विधिविनिहितमाशु सर्वैः क्रमैर्योजितं हन्ति सर्वग्रहोन्मादकुष्ठज्वरांस्तन्महाभूतरावं स्मृतम् ॥ ७४ ॥
दार्वी हरिद्रा कुटजस्य बीजं सिंही च यष्टीमधुकं च तुल्यम् ।
क्वाथः शिशोः स्तन्यकृते च दोषे सर्वातिसारेषु च सर्वजेषु ॥ ७५ ॥
बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पली च ।
क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु ॥ ७६ ॥
शृङ्गीं सकृष्णातिविषां विचूर्ण्य लेहं विदध्यान्मधुना शिशूनाम् ।
कासज्वरच्छर्दिभिरर्दितानां समाक्षिकां चातिविषामथैकाम् ॥ ७७ ॥
धात्रीचूर्णस्य कंसं स्वरसपरिगतः क्षौद्रसर्पिः समांशं
कृष्णामानीसिताष्टप्रसृतयुतमिदं स्थापितं भस्मराशौ ।
वर्षान्ते तत्समश्नन् भवति विपलितो रूपवर्णप्रभावी
निर्व्याधिर्बुद्धिमेधास्मृतिवचनबलस्थैर्यसत्त्वैरुपेतः ॥ ७८ ॥
यष्टीतुगासैन्धवपिप्पलीभिः सशर्कराभिस्त्रिफला प्रयुक्ता ।
आयुःप्रदा वृष्यतमातिमेध्या भवेज्जराव्याधिविनाशनी च ॥ ७९ ॥
चूर्णं श्वदंष्ट्रामलकामृतानां लिहेत्ससर्पिर्मधुना च युक्तम् ।
वृष्यः स्थिरः शान्तविकारदुःखः समाशतं जीवति कृष्णकेशः ॥ ८० ॥
निम्बस्य तैलं प्रकृतिस्थमेवं नस्यां निषिक्तं विधिना यथावत् ।
मासेन तत्क्षीरघृतोपयोज्यं जराप्रभूतं पलितं निहन्ति ॥ ८१ ॥
गोक्षुरकः क्षुरकः शतमूली वानरि नागबलातिबला च ।
चूर्णमिदं पयसा निशि पेयं यस्य गृहे प्रमदाशतमस्ति ॥ ८२ ॥
मधुकां मधुना घृतेन च प्रलिहन् क्षीरमनुप्रयोजयेत् ।
लभते च न धातुसंक्षयं प्रमदानां च शतं च गच्छति ॥ ८३ ॥
यष्टीकषायं लवणाग्रयुक्तं कलिङ्गकृष्णाफलकल्कमिश्रम् ।
सक्षौद्रमेतद्वमनं प्रयोज्यं घ्राणास्यकण्ठश्रवणामयेषु ॥ ८४ ॥
हरीतकीभिः क्वथितं सुवीरं दन्त्यङ्घ्रिकृष्णाविडचूर्णयुक्तम् ।
विरेचनं सोरुबुतैलमेतन्निरत्ययं योज्यमथामयघ्नम् ॥ ८५ ॥
रास्नाराठफलत्रयामृतलतायुक्पञ्चमूलीबला-
मांसक्वाथयुतः सतैललवणक्षौद्रांशसर्पिर्गुडः ।
पुष्पाह्वाघनकुष्ठबिल्वफलिनीकृष्णावचाकल्कितो
वस्तिः काञ्जिकदुग्धमूत्रसहितो वातामयेभ्यो हितः ॥ ८६ ॥
तैलं बलाक्वथितकल्कसुगन्धिगर्भसिद्धं पयोदधितुषोदकमस्तुचुक्रैः ।
तद्वत्सहाचरसरण्यमृतावरीभिः प्रत्येकपक्वमनुवाससमीरणघ्नम् ॥ ८७ ॥
नस्यं विदध्याद्गुडनागरं वा ससैन्धवां मागधिकामथोवा ।
घ्राणास्यमन्याहनुबाहुपृष्ठशिरोक्षिकण्ठश्रवणामयेषु ॥ ८८ ॥
श्रेष्ठः पर्पटको ज्वरेषु विहितस्तृष्णासु पञ्चाम्लिको
लाजा च्छर्दिषु वस्तिजेषु गिरिजो मेहेषु धात्रीरसः ।
रास्ना वातगदेषु मूत्रमुदरे प्लीहामये पिप्पली
संधाने कृमिहा विषे शुकतरुः शोफे तथा गुग्गुलुः ॥ ८९ ॥
वृषोऽश्रपित्ते कुटजोऽतिसारे भल्लातमर्शस्सु गरेषु हेम ।
स्थूलेषु दारुः कृमिषु क्रिमिघ्नं हरीतकी पाण्डुगदेषु शस्यते ॥ ९० ॥
अक्ष्यामयेषु त्रिफला वदन्ति शूलेषु सर्वेषु तथा रसोनम् ।
कुष्ठेषु नित्यं खदिरस्य सारं सर्वेषु कासेषु निदिग्धिकां च ॥ ९१ ॥
शंसन्ति वाजीकरणे श्वदंष्ट्रामुरःक्षते नागबला बलां च ।
रसायनेष्वामलकं सदेवग्रहेषु रोगेषु शिलाह्वयं च ॥ ९२ ॥
इत्येते विधिविहिताः प्रसिद्धयोगाः सिद्ध्यर्थं विनिगदिता भिषग्वराणाम् ।
दृष्ट्वैतान् कथमचिकित्सकोऽपि युञ्ज्यादित्यर्थं पुनरपि वक्ष्यतेऽत्र किंचित् ॥ ९३ ॥
संधारणानशनजागरणोच्चभाषाव्यायामयानकटुतिक्तकषायरूक्षैः ।
चिन्ताव्यवायभयलङ्घनशोकशीतैर्वायुः प्रकोपमुपयाति घनागमे च ॥ ९४ ॥
कट्वाम्लमद्यलवणोष्णविदाहितीक्ष्णक्रोधानलातपपरिश्रमशुष्कशाकैः ।
क्षाराद्यजीर्णविषमाशनभोजनश्च पित्तं प्रकोपमुपयाति घनात्यये च ॥ ९५ ॥
स्वप्नाद्दिवा मधुरशीतलमत्समांसगुर्वाम्लपिच्छलतिलेक्षुपयोविकारैः ।
स्निग्धातितृप्तिलवणोदकपानभक्षैः श्लेष्मा प्रकोपमुपयाति तथा वसन्ते ॥ ९६ ॥
इत्येवमेते क्रमशो द्विशो वा दोषाः प्रवृद्धा युगपत्त्रयो वा ।
कुर्वन्ति रोगान् विविधान् शरीरे संख्यातु संज्नाविगताननेकान् ॥ ९७ ॥
पारुष्यसंकोचनतोदशूलश्यामत्वमङ्गव्यथभङ्गचेष्टान् ।
सुप्तत्वशीतत्वखरत्वशोषान् कर्माणि वायोः प्रवदन्ति तज्ज्ञाः ॥ ९८ ॥
परिस्रवस्वेदविदाहरागदौर्गन्धिसंक्लेदविपाककोपान् ।
प्रलापमूर्छभ्रमपीतभावान् पित्तस्य कर्माणि वदन्ति तज्ज्ञाः ॥ ९९ ॥
श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपान् ।
उत्सेकसंघातचिरक्रियाश्च कफस्य कर्माणि वदन्ति तज्ज्नाः ॥ १०० ॥
एतानि लिङ्गानि च तत्कृतानां सर्वामयानामपि नैकनाम्नाम् ।
कश्चिद्भवेत्प्राप्तिविशेष एषां संज्ञान्तरं येन तु संप्रयान्ति ॥ १०१ ॥
आलस्यतन्द्राहृदयाविशुद्धिदोषाप्रवृत्तिक्षुदभावमूत्रैः ।
गुरूदरत्वारुचिसुप्तताभिरामान्वितं व्याधिमुदाहरन्ति ॥ १०२ ॥
स्निग्धोष्णस्थिरवृष्यबल्यलवणस्वाद्वम्लतैलातप-
स्नानाभ्यञ्जनवस्तिमांसमदिरासंवाहनोन्मर्दनैः ।
स्नेहस्वेदनिरूहनस्यशमनस्नेहोपनाहादिकं
पानाहारविहारभेषजमिदं वातप्रशान्तिं नयेत् ॥ १०३ ॥
तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनं
ज्योत्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्पर्शनम् ।
सर्पिःक्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं
पानाहारविहारभेषजमिदं पित्तं प्रशान्तिं नयेत् ॥ १०४ ॥
रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्टीवनं
स्त्रीसेवाध्वनियुद्धजागरजलक्रीडापदाघातनम् ।
धूमात्युष्णशिरोविरेकवमनस्वेदोपवासादिकं
पानाहारविहारभैषजमिदं श्लेष्मानमुग्रं जयेत् ॥ १०५ ॥
आमं जयेल्लङ्घनकोलपेयालघ्वन्नसूपोदकतिक्तयूषैः ।
विरूक्षणस्वेदनपाचनैश्च संशोधनैरूर्ध्वमधस्तथा च ॥ १०६ ॥
हेमन्तवर्षाशिशिरेषु वायोः पित्तस्य तोयान्तनिदाघयोश्च ।
कफस्य कोपः कुसुमागमे च कुर्वन्ति तद्वै विहितं यथैषाम् ॥ १०७ ॥
कफस्य कोपे वमनं सनस्यं विरेचनं पित्तभवे विकारे ।
वातात्मके वस्तिमुदाहरन्ति संसर्गजेऽपि व्यतिमिश्रमेतत् ॥ १०८ ॥
वातोऽम्लतैललवणैर्मधुरान्नपानैः पित्तं तथा मधुरतिक्तकषायशीतैः ।
श्लेष्मापि तिक्तकटुरूक्षकषायतीक्ष्णैरामं प्रशान्तिमुपयान्त्यपतर्पणेन ॥ १०९ ॥
बुद्ध्वैतदन्यदपि यत्तदनुक्तमत्र युक्त्या स्वयं समधिगम्य यथानुरूपम् ।
रोगेषु भेषजमनल्पमतिर्विदध्याच्छास्त्रं हि किंचिदुपदेशलवं करोति ॥ ११० ॥
गुणाधिकं योगशतं निबध्य प्राप्तं मया पुण्यमनुत्तरं यत् ।
नानाप्रकारामयनीडभूतं कृत्स्नं जगत्तेन भवत्वरोगम् ॥ १११ ॥

"https://sa.wikisource.org/w/index.php?title=योगशतकम्&oldid=333597" इत्यस्माद् प्रतिप्राप्तम्