योगावतारः
योगावतारः [[लेखकः :|]] |
योगावतारः
नमस्तारायै
श्रुत्वा शास्त्रमुदारं निश्चित्य पारमार्थिकं तत्त्वम् ।
मृद्वासनोपविष्टः सश्रद्धो योगमारभेद्[योगी] ॥ १ ॥
ग्राह्यग्राहकमुभयं नोभयमहमेव निर्वृतिर्मग्न इति ।
बहुविधविकल्पजालं प्रविज्ञाय मनःसमापत्तिः ॥ २ ॥
ज्ञेयं विलोक्य सकलं मा योगमेव निर्भासम् ।
प्रविवाच्ये देहे यत्तत्तथताज्ञानवज्रेण ॥ ३ ॥
सर्वाकारविवर्जितमाद्यन्तविभागरहितमविकल्पम् ।
निमर्लसहस्रदीधितिनिर्भिन्नमेति सर्वं गगनमिव ॥ ४ ॥
स्वाकारमात्रशेषं पश्यति चित्तं स्वमाद्यनुत्पन्नम् ।
येनापि पश्यतीदं तदपि तथैवावलोकयति ॥ ५ ॥
सोऽनुपलम्भोऽचित्तं तथताज्ञानं तत्कोटिञ्च ।
एवं तमसोऽभ्यासात्प्रज्ञावेदितनिरोधमाप्नोति ॥ ६ ॥
ताभिर्युक्तो योगी सत्त्वार्थमनेकधा कुरुते ।
अस्मिन् परिनिष्पन्ने तिष्ठति योगी सदार्यमध्वानम् ॥ ७ ॥
दनघवायौ निष्कम्प्यं क्लेशमाराद्यैः ।
प्रज्ञापारमितां वास्मिन् सर्वदा प्रवृत्तस्य ॥ ८ ॥
सिद्ध्यन्त्यन्ये बहवः समाधियोगदानरागाद्याः ॥ ९ ॥
॥ योगावतारः समाप्तः ॥
॥ कृतिरियमार्यदिग्नागपादानामिति ॥