रत्नाकाङ्क्षा
एकस्मिन् नगरे एकः वीरः राजा आसीत्। स दयालुः कृपालुः च आसीत्। एकदा स स्नातुं सरस्तीरम् अगच्छत्। तत्र सः अपश्यत् सिंहेन एका मृगी गृह्यते। सः राजा सिंहं हत्वा मृगीं ररक्ष। तत्पश्चात् सा मृगी निजस्वरूपे प्रत्यागच्छत्। सा मृगी एका अप्सरा आसीत् या स्वपतिना सह विहारार्थम् अस्मिन् अरण्ये प्राविशत्। सा राजानं तस्याः प्राणरक्षार्थं यत्किञ्चिदपि याचनाय अवदत्। राजा विचार्य एकम् अद्वितीयं रत्नम् अयाचत। सा तं राजानम् अद्वितीयं रत्नं दत्वा अन्तरधीयत। राजा रत्नं प्राप्य अतीव प्रसन्नः बभूव। स प्रसन्नवदनं स्वराज्यम् अगच्छत्। स्वप्रासादे गत्वा स राज्ञीः तत् रत्नम् अदर्शयत्। रत्नं दृष्ट्वा सर्वासां राज्ञीनां हृदयेसु लोभः बभूव। तिसृभिः राज्ञीभिः तं प्राप्तुं प्रयासकर्मम् आरभ्यत। प्रथमा निजगुप्तचराय आदिशत गच्छ तत् रत्नम् अत्र आनय इति। द्वितीया सुरूपतमा निजपत्युः निकटं गत्वा तस्मै उल्लपति स्म। तृतीया अन्ययोः राज्ञ्योः भोजने विषम् अक्षिपत्। अत्र प्रथमायाः राज्ञ्याः गुप्तचरं रत्नं चोरयित्वा तस्यै ददौ। सा रत्नम् अगोपायत् भोजनं च कृत्वा अम्रियत। तथा दितीयायै रत्नं दातुं राजा वचनम् अयच्छत्। सा प्रसन्नतया स्वभोजनं राज्ञे अयच्छत् यत् भुक्त्वा सः अपि अम्रियत। राजा निजवचनं पूर्णम् अकृत्वा एव अम्रियत अतः सः प्रेतरूपेण भ्रमति। प्रथमा राज्ञी चौरकर्मात् नरकम् अगच्छत्। मन्त्रिणः तृतीयां राज्ञीं राजहत्यारोपेण देशात् बहिः अप्रेषयन्। तस्मिन् राज्ये राज्ञः अभावे गृहविद्रोहं बभूव। भयङ्करात् युद्धात् संपूर्णं राज्यं व्यनश्यत्। द्वितीया रूपवती राज्ञी शृङ्गारहीना सन्यासिनी च भूत्वा अवसत्। रत्नं कुत्र अस्ति। कोऽपि न जानाति।
~ डोकानियोपनामको मोहितः।