रत्नावदानम्-२
रत्नावदानम्-२ [[लेखकः :|]] |
(र्म् २४८)
xx महिषावदान
अथ स पार्थिवोऽसोकः कृताञ्जलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ २०.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ २०.२{२} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः ।
उपगुप्तो नरेंद्रं तं समालोक्यैवमादिशत् ॥ २०.३{३} ॥
साधु शृणु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि सर्वे लोकप्रबोधने ॥ २०.४{४} ॥
तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ २०.५{५} ॥
षडभिज्ञो जगन्नाथो मारजित्तु तथागतः ।
पुरैकसमये सार्द्धं भिक्षुभिः श्रावकैः सह ॥ २०.६{६} ॥
चैलकैर्भिक्षुणीभिश्चैवमुपासिकागणैरपि ।
उपासाकैस्तथान्यैश्च सद्धर्मगुणवांछिभिः ॥ २०.७{७} ॥
बोधिसत्वैर्महासत्वैर्ब्रह्मेन्द्रादिसुराधिपैः ।
सर्वे लोकाधिपैश्चापि दानवेन्द्रैः शुभार्थिभिः ॥ २०.८{८} ॥
नागेन्द्रैर्गरुडेन्द्रैश्च यक्षगंधर्वकिन्नरैः ।
ग्रहै विद्याधरैश्चापि तथान्यैश्च वृषार्थिभिः ॥ २०.९{९} ॥
स्तूय मानार्च्यमानश्च वंद्यमानोऽभिनंदितः ।
सर्वसत्वहितार्थेन जनपदेषु सर्वतः ॥ २०.१०{१०} ॥
सद्धर्मं समुपादिश्य प्रचचार ससांघिकः ।
तथा च कोशले राष्ट्रे वरं धर्ममुपादिशत् ॥ २०.११{११} ॥
ततोऽन्यत्रापि सद्धर्ममुपदेष्टुं ततोऽचरत् ।
तत्रान्यस्मिन् वने प्राप्तो भगवान् स ससांघिकः ॥ २०.१२{१२} ॥
सर्वत्र मंगलं कृत्वा प्रचचार शनैः क्रमात् ।
तत्राराण्ये महान् यूथो महिषीणां समाचरत् ॥ २०.१३{१३} ॥
तत्रैको महिषश्चण्डो वलवीर्यसमन्वितः ।
महाशृंगो महाकायः प्रत्यवसन्मदोत्कटः ॥ २०.१४{१४} ॥
तत्रासन् पंचमात्राणि महिषपालशतानि च ।
सर्वे तन्महिषीयूथमनुरक्ष्याध्युवासत ॥ २०.१५{१५} ॥
तदैकस्मिन् दिने तत्र भगवान् स ससंघिकः ।
प्रचरंस्तत्प्रदेशे तं महिषीयुथमैक्षत ॥ २०.१६{१६} ॥
तदा ते महिषीपाला तं मुनींद्रं ससंघिकम् ।
समुपायातमालोक्य दूरादेवमघोषयन् ॥ २०.१७{१७} ॥
भगवान्मात्र समायाहि पथान्येन व्रजाधुना ।
अस्त्यत्र महिषो दुष्टस्तत्सहसा चरान्यत ॥ २०.१८{१८} ॥
(र्म् २४९)
इति तैः शब्दितं श्रुत्वा भगवान् स मुनीश्वरः ।
ससंघः समुपाश्रित्य तां दृष्ट्वैवमह्हाषत ॥ २०.१९{१९} ॥
अल्पोत्सुकाभवत्वत्र भगवन्तः किं कुतो भयम् ।
कालज्ञोऽहं जिनेन्द्रोऽस्मि तदर्थेऽत्र समाचरे ॥ २०.२०{२०} ॥
तदा स महिषो दुष्टस्तं मुनीन्द्रं ससांघिकम् ।
दूराद्दृष्ट्वा समुत्थाय प्रदुद्राव तदन्तिके ॥ २०.२१{२१} ॥
तत्र तद्गंधमाघ्राय दृष्ट्वा तं रक्तचीवरम् ।
रुषा लांगूलमुन्नाम्य संमुखः प्राभ्यधावत ॥ २०.२२{२२} ॥
तत्र तेन जिनेन्द्रेण पञ्चसिंहा महोद्धताः ।
अभिनिर्माय तत्पृष्ठे स्थापिता भीमरूपिणः ॥ २०.२३{२३} ॥
तथा निर्माय तत्राग्निस्कंधौ द्वावतिप्रोज्वलौ ।
उभयोः पार्श्वयोस्तस्य स्थापितो भीमनिस्वनौ ॥ २०.२४{२४} ॥
तथात्र कूटसंकाशो निर्माय महती शिला ।
उपरिष्टात्प्रतिष्ठाप्य दर्शिता तस्य भीतये ॥ २०.२५{२५} ॥
तत्र स महिषोऽद्राक्षीत्तान् सिंहान् पृष्ठसंस्थितान् ।
पार्श्वयोरुभयोरग्निस्कंधौरुपरितां शिलाम् ॥ २०.२६{२६} ॥
एवं स महिषो दुष्टो महाभयमुपस्थितम् ।
समन्ततः समालोक्य प्रविखेटाभिमोहितः ॥ २०.२७{२७} ॥
तत्र स त्रसितो दृष्ट्वा परायितुं चतुर्दिशः ।
समन्ततो भयाद्विग्नस्तस्थौ त्राणनिराश्रयः ॥ २०.२८{२८} ॥
ततः स चकितस्तस्य मुनीन्द्रस्याभिसंमुखम् ।
उपेत्य चरणौ नत्वा शरणं समुपाययौ ॥ २०.२९{२९} ॥
तत्र तद्भयभिन्नास्यः परिखिन्नाशयो रुदन् ।
भगवंतं तमालोक्य तस्थौऽत्राणाश्रयो पुरः ॥ २०.३०{३०} ॥
तदा स भगवान् दृष्ट्वा महिष्यं तमुपस्थितम् ।
शरणागतमालोक्य धर्ममेवमुपादिशत् ॥ २०.३१{३१} ॥
भद्रमुखेति संस्काराः सर्वेऽनित्या भवे ध्रुवाः ।
सर्वधर्मा अनात्मनः शान्तं निर्वाणमेव हि ॥ २०.३२{३२} ॥
इति धर्मरवं श्रुत्वा स तत्पुण्यानुभावतः ।
पूर्वजन्मप्रवृत्तांतं स्मृत्वा प्ररुरोदानुतापितः ॥ २०.३३{३३} ॥
एवं तं रुदितं दृष्ट्वा भगवान् स मुनीश्वर ।
बोधयितुं समाश्वास्य पुनर्गाथेऽभ्यभाषत ॥ २०.३४{३४} ॥
इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते ।
अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम् ॥ २०.३५{२५} ॥
साधु प्रसाद्यतां चित्तं मयि कारुणिके जिने ।
तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसि ॥ २०.३६{२६} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स महिषस्तदा ।
सर्वं स्मृत्वा पुरावृत्तं मनसैवं व्यचिंतयत् ॥ २०.३७{२७} ॥
हा मया दुर्धियाज्ञेन त्यक्त्वा सद्धर्मसंयमम् ।
क्रोधाग्निना स्वयं दग्धा संतापरेऽपि तापिता ॥ २०.३८{२८} ॥
येनाहं हा परिभ्रष्टः सद्धर्ममणिनाऽधुना ।
विषरागाग्निसंतप्तः कृष्णाहिरिव दुर्मतिः ॥ २०.३९{२९} ॥
(र्म् २५०)
तदत्र किं करिष्यामि तिर्यक्जातिरिहाधुना ।
किं ममानेन कायेन दुःखे पापानुसाधिना ॥ २०.४०{३०} ॥
यत्र पुण्यं सुखं नास्ति तत्र किं जीवितेन मे ।
वरमेवाद्य मे मृत्युर्न त्वेवं चिरजीवितम् ॥ २०.४१{३१} ॥
अवश्यं मृत्युमाप्नुयां सर्वेषां मरणं ध्रुवम् ।
तदत्र मे शरीरे का स्नेहता जीवितेऽपि वा ॥ २०.४२{३२} ॥
धिक्कायं जीवितं चापि येन पुण्यं न साध्यते ।
पुण्यमेव भवे सारं सर्वत्र सत्सुखप्रदम् ॥ २०.४३{३३} ॥
पुण्यं विनात्रा संसरे किं श्रीसंपत्सुखान्विते ।
सर्वं विहाय गंतव्यं पुण्यामेकं तदानुगः ॥ २०.४४{३४} ॥
पुण्यमेव जगन्मित्रं पुण्यमेव सदानुगः ।
पुण्यमेव महत्सारं पुण्यमेव हितार्थदम् ॥ २०.४५{३५} ॥
तस्मात्पुण्यं प्रयत्नेन साधनीयं भवे सदा ।
सर्वत्र सुखताहेतु पुण्यमेवेति कथ्यते ॥ २०.४६{३६} ॥
तत्पुण्यरत्नसंप्राप्त्यै बुद्धस्य शरणं गतः ।
सर्वथा स्मरणं कृत्वा भजेयेह समाहितः ॥ २०.४७{३७} ॥
इत्येवं मनसा ध्यात्वा महिषः स प्रबोधितः ।
तं बुद्धं श्रीघनं नत्वानुस्मृत्वाभजान्मुदा ॥ २०.४८{३८} ॥
ततः स भगवान्स्तस्य दृष्ट्वाशयविशुद्धताम् ।
सद्धर्मं समुपादिश्य ससंघः स्वाश्रमे ययौ ॥ २०.४९{३९} ॥
तत्राश्रमे समासीनो भगवान् सससांघिकः ।
सर्वसत्वहितार्थेन संबोधिधर्ममादिशत् ॥ २०.५०{४०} ॥
तद्धर्मदेशनां श्रोतुं सर्वे लोकाः समागताः ।
ब्रह्मशक्रादयो देवा लोकपालाश्च दानवाः ॥ २०.५१{४१} ॥
ग्रहा विद्याधराः सिद्धा यक्षगंधर्वकिन्नराः ।
गरुडा नागराजाश्च राक्षसाश्च शुभार्थिनः ॥ २०.५२{४२} ॥
ऋषयो ब्राह्मणाश्चापि नृपा राजकुमारकाः ।
वैश्याच्च मंत्रिणोऽमात्या गृहस्थाश्च महाजनाः ॥ २०.५३{४३} ॥
वणिजः सार्थवाहाश्च शिल्पिनः पौरिका अपि ।
ग्राम्या जानपदाश्चापि तीर्थ्याः कार्पटिका अपि ॥ २०.५४{४४} ॥
एवमन्येऽपि लोकाश्च सद्धर्मगुणवां छिनः ।
सर्वे ते समुपागत्य तत्राश्रमे समाविशत् ॥ २०.५५{४५} ॥
तत्र तं श्रीघनं दृष्ट्वा भिक्षुसंघपुरस्कृतम् ।
नत्वा प्रदक्षिणीकृत्वा समानर्चुर्यथाक्रमम् ॥ २०.५६{४६} ॥
ततस्ते प्रणतिं कृत्वा परिवृत्य समंततः ।
तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ २०.५७{४७} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थिताम् ।
आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ २०.५८{४८} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे ते संप्रबोधिताः ।
धर्मविशेषमाज्ञाय त्रिरत्नं सर्वदाभजन् ॥ २०.५९{४९} ॥
तत्र स महिषः पूर्वजन्मवृत्तिमनुस्मरन् ।
तदा तद्देहमुत्स्रष्टुं मनसैवं व्यचिंतयत् ॥ २०.६०{५०} ॥
हा दुष्टेन मया पूर्वमाचितं घोरपातकम् ।
(र्म् २५१)
तेनाहं महिषो दुष्टो भवाम्यत्र यथोदितम् ॥ २०.६१{५१} ॥
तदत्र किं प्रकुर्वीय पशुस्तत्पापशोधणम् ।
तत्त्रिरत्नमनुस्मृत्वा चरेयाहमुपोषधम् ॥ २०.६२{५२} ॥
दत्वात्राहमिमं कायं सत्वेभ्यः श्रद्धयाऽधुना ।
मनसा सुगतं ध्यात्वा मर्तुं तिष्ठेय सांप्रतम् ॥ २०.६३{५३} ॥
तदिमं देहमुत्कृत्य त्वग्मान्सरुधिरादिकम् ।
अस्थिमज्जादि सर्वं च भुजन्तु प्राणिनो मुदा ॥ २०.६४{५४} ॥
ये ये सत्वा इमं देहं भुजन्ति सुरसं मुदा ।
ते ते सर्वे सदा धर्मं कृत्वा यान्तु सुरालायम् ॥ २०.६५{५५} ॥
तथैतत्पुण्यपाकेन मुक्त्वास्मान् पापकाश्रयात् ।
आसाद्य सद्गतौ जन्म भजेयं सुगतं सदा ॥ २०.६६{५६} ॥
इति ध्यात्वा विनिश्चित्य महिषः स प्रसन्नधीः ।
त्यक्त्वाहारं तपश्वीव बुद्धं स्मृत्वाचरत्तपः ॥ २०.६७{५७} ॥
तथा स महिषो ध्यात्वा त्रिरत्नं चाभ्यनुस्मरन् ।
देहं त्यक्त्वा विशुद्धात्मा सुरालयं समाययौ ॥ २०.६८{५८} ॥
तत्र स्वर्गे स उत्पन्नो महासुखसमन्वितः ।
विस्मिताभिप्रसन्नात्मा तदैवं समचिंतयत् ॥ २०.६९{५९} ॥
अहो हि जायते सौख्यं कुतश्च्युत्वा कुहाचरे ।
कस्य पुण्यविपाकेन ममैवं जायते शुभम् ॥ २०.७०{६०} ॥
इति चिंतयतस्तस्य महिषपूर्विणस्तथा ।
विस्मयाक्रांतचित्तस्य समुत्पन्नाभवन्मतिः ॥ २०.७१{६१} ॥
अहो तिर्यग्गतेश्च्युत्वा देवलोक इहासरे ।
संबुद्धस्मृतिपुण्येन देवो भवामि सांप्रतम् ॥ २०.७२{६२} ॥
तदहं तस्य मुनीन्द्रस्य द्रष्टुं गछेय सांप्रतम् ।
श्रद्धया समुपाश्रित्य सद्धर्मं शृणुयां पुनः ॥ २०.७३{६३} ॥
इति महिषपूर्वी स देवपुत्रः प्रमोदितः ।
तत्र तस्य मुनीन्द्रस्य दर्शने गंतुमैछत ॥ २०.७४{६४} ॥
ततः स मुदितः स्नात्वा शुद्धदिव्यांवरावृतः ।
दिव्यगंधानुलिप्तांगो दिव्यालंकारभूषितः ॥ २०.७५{६५} ॥
दिव्यपूजोपहाराणि गृहीत्वा देवगणैः सह ।
तस्यां रात्रौ मुनीन्द्रस्य भासयन्नाश्रमे ययौ ॥ २०.७६{६६} ॥
तत्र तं श्रीघनं दृष्ट्वा मुदितः समुपासरन् ।
नत्वा प्रदक्षिणीकृत्य समानर्च्च यथाविधिः ॥ २०.७७{६७} ॥
ततस्तस्य मुनीन्द्रस्य सांजलिः स प्रणम्य च ।
सद्धर्मदेशनां श्रोतुं पुरतः समुपाश्रयत् ॥ २०.७८{६८} ॥
तथा ते तत्सहायाश्च देवपुत्राः प्रसादिताः ।
भगवंतं सांजलयः उपाश्रयन् ॥ २०.७९{६९} ॥
ततः स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् ।
आर्य्यसत्यसमारभ्य सद्धर्मं समुपादिशत् ॥ २०.८०{७०} ॥
तत्सद्धर्मामृतं पीत्वा सह देवैः प्रमोदितः ।
देवो महिषपूर्वि स धर्मविशेषमाप्तवान् ॥ २०.८१{७१} ॥
सत्कायदुष्टिभूमीन्ध्रं विंशतिशिखरोद्गतम् ।
निर्भिद्य ज्ञानवज्रेण श्रोतआपत्तिमाययौ ॥ २०.८२{७२} ॥
(र्म् २५२)
तातः स दृष्टसत्यस्तं भगवन्तं मुनीश्वरम् ।
कृतांजलिः पुटो नत्वा त्रिरुदानमुदानयत् ॥ २०.८३{७३} ॥
भगवन्निदमस्माकं कृतं न जनकेन हि ।
न मात्रा न च राज्ञापि नान्येन केन चित्खलु ॥ २०.८४{७४} ॥
भवतैव यदस्माकं कृतपापविशोधनम् ।
तेनाभिशोषिताशेषरुधिराश्रुसारित्परिः ॥ २०.८५{७५} ॥
लंघिता अस्थिशैलाश्च पिहिता पापपद्धतिः ।
विवृताः स्वर्गमार्गाश्च मोक्षमार्गश्च दर्शितः ॥ २०.८६{७६} ॥
मयाप्तं विमलं चक्षुः शान्तमार्यपदं तथा ।
दुःखार्णवः समुत्तीर्णो बोधिमार्गोऽपि दृश्यते ॥ २०.८७{७७} ॥
तद्भवतां कृपादृष्टेः प्रसादान्मम सांप्रतम् ।
संसारजन्म साफल्यं बुद्धपुत्रास्म्यहं यतः ॥ २०.८८{७८} ॥
अद्यारभ्य सदा नित्यं भवतां शरणं गतः ।
बोधौ चित्तं समाधाय चरिष्यामि शुभां चरिम् ॥ २०.८९{७९} ॥
तदत्रानुग्रहं कृत्वा भवाञ्छास्ता जगगुरुः ।
कृपया सर्वदा पश्यन्नेवं मां त्रातुमर्हति ॥ २०.९०{८०} ॥
इति संप्रार्थितं तेन सुपर्वणा निशम्य सः ।
शास्ता तस्याशयं शुद्धं समलोक्यैवमादिशत् ॥ २०.९१{८१} ॥
सधो शृणु हितं वक्ष्ये सदा भद्रं यदीछसि ।
त्रिरत्नं शरणं गत्वा भज नित्यं समादरात् ॥ २०.९२{८२} ॥
ये बुद्धशरणं कृत्वा भजंति श्रद्धया सदा ।
मारचर्याभिमुक्तास्ते संप्रयांति जिनालयम् ॥ २०.९३{८३} ॥
ये धर्मं सौगतं नित्यं शृण्वन्ति श्रद्धया मुदा ।
सर्वपापाभिमुक्तास्ते संप्रयान्ति सुखावतीम् ॥ २०.९४{८४} ॥
ये च संघे प्रकुर्वन्ति सत्कारं श्रद्धयादरात् ।
ते सर्वे दुर्गतेर्मुक्त्वा संप्रयान्ति सुरालयम् ॥ २०.९५{८५} ॥
त्रिरत्नशरणं कृत्वा ये भजन्ति सदादरात् ।
दुर्गतिं ते न गछंति सदा गछंति सद्गतिम् ॥ २०.९६{८६} ॥
सद्गतौ ते सदा स्थित्वा त्रिरत्नं शरणं गताः ।
कृत्वा लोकहितं सौख्यं भुक्त्वा रमन्ति सर्वदा ॥ २०.९७{८७} ॥
ततः पारमिताः सर्वाः परिपूर्य यथाक्रमम् ।
त्रिविधां बोधिमासद्य निर्वृतिं समवाप्नुयुः ॥ २०.९८{८८} ॥
इति निर्वाणसत्सौख्यः प्राप्तुं यदि समिछसि ।
त्रिरत्नं शरणं कृत्वा भज नित्यं समाहितः ॥ २०.९९{८९} ॥
एतत्पुण्यानुभावेन परिशुद्धस्त्रिमंडलः ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २०.१००{९०} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स परिबोधिताः ।
तथेत्यभ्यनुमोदित्वा पुनरेवमभाषत ॥ २०.१०१{९१} ॥
अद्य मे सफलं संपूरितं मनोरथम् ।
बोधिरत्नाभिसंपन्नो बुद्धपुत्रोऽस्मि सांप्रतम् ॥ २०.१०२{९२} ॥
सर्वदा भवतामेव शरणेऽहं समास्थितः ।
त्रिरत्नभजनं कुर्वञ्चरिष्ये बोधिसंवरम् ॥ २०.१०३{९३} ॥
इति संप्रार्थनां कृत्वा देवपुत्रः स मोदितः ।
(र्म् २५३)
श्रीघनं तैः पुनर्नत्वा ससहायो दिवं ययौ ॥ २०.१०४{९४} ॥
तत्र स्वर्गे स संप्राप्तो देवैः सह समाश्रितः ।
त्रिरत्नस्मरणं कुर्वन् सौख्यं भुक्त्वा समाचरत् ॥ २०.१०५{९५} ॥
तस्यां रात्रौ महत्कान्तिं प्रभां दृष्ट्वा सविस्मयाः ।
सर्वे ते महिषीपाला वभूवुः शंकिताशयाः ॥ २०.१०६{९६} ॥
ततः प्रातः समुत्थाय सर्वे ते कौतुकान्विताः ।
संमील्य सहसा तत्र बुद्धाश्रमे उपाचरन् ॥ २०.१०७{९७} ॥
तत्र तं श्रीघनं दृष्ट्वा सर्वे ते प्रतिमोदिताः ।
कृतांजलिपुटो नत्वा समुपतस्थुरादरात् ॥ २०.१०८{९८} ॥
तदा स भगावान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आदिमध्यांतकल्याणं दिदेश धर्ममुत्तमम् ॥ २०.१०९{९!} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे ते प्रतिबोधिताः ।
भगवंतं पुनर्नत्वा पप्रछुरेवमादरात् ॥ २०.११०{१००} ॥
भगवन्नद्य रात्रौ क इहाश्रमे प्रभासयन् ।
भवतां समुपायातस्तत्समादेष्टुमर्हति ॥ २०.१११{१} ॥
इति तैर्महिषीपालैः परिपृष्टे स सर्ववित् ।
भगवांस्तान् समालोक्य पुरावृत्तिमुपादिशत् ॥ २०.११२{२} ॥
योऽत्रासौ महिषो दुष्टो दृष्ट्वास्मान् समुपद्रुतः ।
समन्ततो भयं दृष्ट्वा त्रस्तो मे शरणं गतः ॥ २०.११३{३} ॥
तदा मद्धर्ममाकर्ण्य पूर्वजातिमनुस्मरन् ।
मयि चित्तं प्रसाद्यैव त्यक्त्वाहारा त्यजन् तनुम् ॥ २०.११४{४} ॥
ततोऽस्मत्स्मृतिपुण्येन पापमुक्तो विशुद्धधीः ।
स्वर्गलोके समुत्पन्नो देवो भवति सांप्रतम् ॥ २०.११५{५} ॥
स एष देवपुत्रोऽद्य निशायामत्र भासयन् ।
देवलोकैः सहायातो दर्शनाय ममालाये ॥ २०.११६{६} ॥
मत्सद्धर्मं समाकर्ण्य दृष्टसत्यः स हर्षितः ।
देवसंघैः सह स्वर्गे स्वालये प्रगतस्तथा ॥ २०.११७{७} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वातिविस्मयोद्धताः ।
सर्वे ते महिषीपाला मिथ एवं समब्रुवन् ॥ २०.११८{८} ॥
अहो चित्र हि यन्नाम तिर्य्यग्योनिगतोऽपि सः ।
बुद्धं सद्गुरुमासाद्य धर्मं श्रुत्वाभवत्सुधीः ॥ २०.११९{९} ॥
सद्गुरौ सुगते चित्तं प्रसाद्य विरताशनः ।
त्रिरात्नस्मरणं कृत्वा प्राणं त्यक्त्वा दिवं ययौ ॥ २०.१२०{१०} ॥
ततोऽपीह समागत्य संबुद्धं शरणं गतः ।
अभ्यर्च्य धर्ममाकर्ण्य दृष्टसत्यो दिवं ययौ ॥ २०.१२१{११} ॥
स्वर्गेऽपि तत्तथा नित्यं सद्गुरोः शरणं गतः ।
श्रद्धया भजनं कुर्वं छुभेऽचरत्समाहितः ॥ २०.१२२{१२} ॥
धन्योऽयं सुगतः शास्ता सर्वसत्वशुभंकरः ।
यत्र चित्तं प्रसाद्यैव पशुरपि दिवं गतः ॥ २०.१२३{१३} ॥
वयं तु मानवाः सर्वे कथमेनं मुनीश्वरम् ।
सद्गुरुं समुपासाद्य श्रद्धया न भजेमहि ॥ २०.१२४{१४} ॥
(र्म् २५४)
तथा सद्धर्ममाकर्ण्य प्रसादादस्य सद्गुरोः ।
अत्कृत्य सर्वदा भद्रं न लाभेम कथं वयम् ॥ २०.१२५{१५} ॥
विशेषधर्ममाज्ञाय दृष्टसत्याः समाहिताः ।
त्रिरत्नभजनं कृत्वा नूनं गछेम सद्गतिम् ॥ २०.१२६{१६} ॥
तदत्र सद्गुरोरस्य मुनीन्द्रस्याधुना वयम् ।
सर्वेऽपि श्रद्धयाभ्यर्च्य भजेमहि समादरात् ॥ २०.१२७{१७} ॥
तत्साद्धर्मं समाकर्ण्य श्रद्धया समुपस्थिताः ।
त्रिरत्नभजनं कृत्वा चरेमहि शुभे सदा ॥ २०.१२८{१८} ॥
तदादौ सुगतस्यास्य ससंघस्याऽधुना वयम् ।
यथार्हभोजनेनात्र पूजयेम प्रपुष्टये ॥ २०.१२९{१८!} ॥
इति संभाषणां कृत्वा सर्वे ते प्रतिमोदिताः ।
तथेति संमतं कृत्वा तत्र बुद्धाश्रमे ययुः ॥ २०.१३०{१९} ॥
तत्र तं श्रीघनं दृष्ट्वा ससंघं तं प्रमोदिताः ।
सर्वसांजलयो नत्वा प्रार्थयन्नेवमादरात् ॥ २०.१३१{२०} ॥
भगवन्नाथ सर्वज्ञ भगवंतं ससंघिकम् ।
पूजयितुं समिछामस्तन्नत्रानुग्रहं कुरु ॥ २०.१३२{२१} ॥
इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तेषां पुण्याभिसंवृद्ध्यै तूष्णीभूत्वाध्युवास तत् ॥ २०.१३३{२२} ॥
तथाध्युवासितं मत्वा सर्वे ते परिहर्षिताः ।
पादौ तस्य मुनीन्द्रस्य नत्वा निजालयं ययुः ॥ २०.१३४{२३} ॥
तत्र ते मुदिताः सर्वे दधिक्षीरोदनादिकम् ।
यथार्हभोज्यसामग्रिं सहसा समसाधयन् ॥ २०.१३५{२४} ॥
ततस्ते समये गत्वा तत्र बुद्धाश्रमे मुदा ।
ससांघिकं मुनीन्द्रं तं प्रणत्वैवं न्यवेदयन् ॥ २०.१३६{२५} ॥
भगवन्नाथ सर्वज्ञ समयो वर्त्ततेऽधुना ।
तत्संघ भगवान् पूजां प्रतिग्रहितुमर्हति ॥ २०.१३७{२६} ॥
इति तैः प्रार्थिते सर्वे भगवान् सससांघिकः ।
उत्थाय भोजनक्षेत्रे उपाचरान् प्रभासयन् ॥ २०.१३८{२७} ॥
तत्र पाद्यं समादाय संबुद्धप्रमुखाः क्रमात् ।
सर्वे ते सांघिकास्तत्र स्वस्वासने समाश्रयन् ॥ २०.१३९{२८} ॥
तां बुद्धप्रमुखान् सर्वान् सांघिकान् स्वासनाश्रितान् ।
दृष्ट्वा ते मुदिता सर्वे सामानर्चुर्यथाक्रमम् ॥ २०.१४०{२९} ॥
ततस्ते सुरसैर्भोज्यैः क्षीरोदनैः सव्यंजनैः ।
प्रणीतैर्भगवंतं तं ससंघं समतोषयन् ॥ २०.१४१{३०} ॥
ततस्तं सुगतं तृप्तं ससांघिकं समीक्ष्य ते ।
तत्पात्राण्यपनीयाशु तद्धस्तादि समशोधयन् ॥ २०.१४२{३१} ॥
ततः सपूगताम्बुरामहौषधरसायनम् ।
संबुद्धप्रमुखेभ्यस्ते संघेभ्यः प्रददुर्मुदा ॥ २०.१४३{३२} ॥
ततस्ते महिषीपालाः कृतांजलिपूटा मुदा ।
श्रीघनं तं ससंघं च नत्वा समुपतस्थिरे ॥ २०.१४४{३३} ॥
तथा तन् समुपासीनान् सर्वान् दृष्ट्वा स सर्ववित् ।
(र्म् २५५)
आर्यधर्मं समादिश्य बोधिमार्गेऽभ्ययोजयत् ॥ २०.१४५{३४} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे तेऽभ्यनुमोदिताः ।
संबुद्धशासने तत्र प्रव्रजितुं समीक्षिरे ॥ २०.१४६{३५} ॥
ततास्ते महिषीपालाः सर्वे कृत्वाभिसंमतम् ।
कृतांजलिपुटा नत्वा प्रार्थयन् तं मुनीश्वरम् ॥ २०.१४७{३६} ॥
भागवं नाथ सर्वज्ञ भवतां शासने वयम् ।
प्रव्रजितुं समिछामस्तन्नोऽन्वाहर्तुमर्हति ॥ २०.१४८{३७} ॥
इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तान् विशुद्धाशयान् सर्वान् समालोक्यैवमादिशत् ॥ २०.१४९{३८} ॥
मातापित्रोर्विनानुज्ञां प्रव्रज्यां न ददाम्यहम् ।
तदनुज्ञां समादाय प्रेत दास्यामि वस्तदा ॥ २०.१५०{३९} ॥
इत्यादिष्टे मुनीन्द्रेण सर्वे ते प्रतिनंदिताः ।
तं मुनीन्द्रं प्रणत्वाशु स्वस्वगेहं ययुर्मुदा ॥ २०.१५१{४०} ॥
तत्र ते सहसा गत्वा समातापितृवांधवान् ।
परिबोध्य प्रयत्नेन प्राप्यानुज्ञां समाचरम् ॥ २०.१५२{४१} ॥
तत्र ते सहसा गत्वा भगवत उपासृताः ।
पादौ सांजलयोर्नत्वा प्रार्थयन्नेवमादरात् ॥ २०.१५३{४२} ॥
भगवन् सर्ववित्पितृप्राप्तानुज्ञाः समागताः ।
तत्रानुग्रहमाधाय प्रव्रज्यां दातुमर्हति ॥ २०.१५४{४३} ॥
इति तैः प्रार्थिते शास्ता भगवान् सव्यपाणिना ।
तेषां शिरस्सुसंस्पृष्ट्वा समालोक्यैवमादिशत् ॥ २०.१५५{४४} ॥
समेत भिक्षवः सर्वे यूयं श्रद्धासमंगिताः ।
प्रव्रज्याव्रतमाधाय चरत ब्रह्मचारिकाम् ॥ २०.१५६{४५} ॥
इत्यादिष्टे मुनीन्द्रेण सर्वे ते मुण्डिता वभुः ।
खिक्खिरीपात्रधर्त्तारः काखायचीवरावृताः ॥ २०.१५७{४६} ॥
ततः शस्तुः प्रसादेन सर्वे ते विमलाशयाः ।
प्रलब्धबोधिसच्चित्ताः शुद्धशीला जितेंद्रियाः ॥ २०.१५८{४७} ॥
भित्वाविद्यागुणाः सम्यक्प्राप्तविद्याविशारदाः ।
प्रतिसंवित्सुसंप्राप्ताः सत्यमार्गसमन्विताः ॥ २०.१५९{४८} ॥
समाधिधारणीविद्या घटमानाः समाहिताः ।
क्षमान्विताः शुभात्मानो योगिनो भिक्षवोऽभवन् ॥ २०.१६०{४९} ॥
ततस्ते सर्वसंसारं मत्वानित्यं चालाचलम् ।
दृष्ट्वा च सर्वसंस्कारगतीरहिविघातिनीः ॥ २०.१६१{५०} ॥
सर्वक्लेशगणान् हित्वा जित्वा मारगणानपि ।
साक्षादर्हत्वमासाद्य प्रचेरुर्ब्रह्मचारिकाः ॥ २०.१६२{५१} ॥
ततस्ते भिक्षवः सर्वे परिशुद्धत्रिमंडलाः ।
वीतसंगा महाभिज्ञा निर्विकल्पा निरंजनाः ॥ २०.१६३{५२} ॥
समलोष्टकसौवर्णाः सत्कारलाभनिस्पृहाः ।
अकाशसमचित्ताङ्गा भवे लाभपराङ्मुखाः ॥ २०.१६४{५३} ॥
देवासुरादि लोकानां त्रैधातुकनिवासिनाम् ।
पूज्या मान्याश्च वंद्याश्च बभूवुर्बोधिचारिणः ॥ २०.१६५{५४} ॥
(र्म् २५६)
तद्दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः ।
भगवंतं मुनिं नत्वा पप्रच्बुस्तत्पुराकृतम् ॥ २०.१६६{५५} ॥
भगवन् कानि कर्माणि तेन महिषपूर्विणा ।
कृतानि देवपुत्रेण यैरसौ महिषोऽभवत् ॥ २०.१६७{५६} ॥
एभिश्च महिषीपालैः किं कर्म प्रकृतैः पुरा ।
येनार्हत्वं समासाद्य भवंति ब्रह्मचारिणः ॥ २०.१६८{५७} ॥
एतत्सर्वं समादिश्य भवाञ्छास्तात्र सांप्रतम् ।
अस्माकमपि चेतांसि प्रबोधयितुमर्हति ॥ २०.१६९{५८} ॥
इति तैर्भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
तान् सर्वान् सांघिकान् भिक्षून् समालोक्यैवमादिशत् ॥ २०.१७०{५९} ॥
शृणुत भिक्षवः सर्वे तेन महिषपूर्विणा ।
पुरा कृतानि कर्माणि तानि वक्ष्यामि सांप्रतम् ॥ २०.१७१{६०} ॥
एभिश्च महिषिपालैः पुरा यानि कृतान्यपि ।
तानि सर्वाणि कर्माणि वक्ष्यामि च तथाऽधुना ॥ २०.१७२{६१} ॥
तद्यथाभूत्पुरा बुद्धः काश्यपोऽर्हन्स्तथागतः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायाकः ॥ २०.१७३{६२} ॥
भगवान् स तदा पूर्य्यां वराणस्या उपाश्रमे ।
मृगदावे समाश्रित्य विजहार ससांघिकः ॥ २०.१७४{६३} ॥
तदा तस्य मुनीन्द्रस्य शासने त्रिपिटो यतिः ।
भिक्षुरेको महाविज्ञो निश्चयार्थविशारदः ॥ २०.१७५{६४} ॥
तदैकसमये भिक्षुपंचशतैः पुरस्कृतः ।
स सभायां समासीनः सद्धर्मं समुपादिशत् ॥ २०.१७६{६५} ॥
तस्य ते भिक्षवः शिक्षाः शैक्षाश्च संश्चयान्विताः ।
त्रिपिटार्थं परिज्ञातुं पप्रछुस्तं गुरुं मुहुः ॥ २०.१७७{६६} ॥
एवं तैर्भिक्षुभिः पृष्टे स गुरुः प्रतिरोषितः ।
तान् सर्वाञ्छ्रावकाञ्छिष्याञ्छैक्षांश्च पर्यभाषत ॥ २०.१७८{६७} ॥
ततस्ते श्रावकाः सर्वे दृष्ट्वा तं रुषितं गुरुम् ।
प्रणत्वा विनयं कृत्वा पुनरेवमभासिरे ॥ २०.१७९{६८} ॥
भवन्त मा कृथा रोषं प्रसीदस्व कृपानिधे ।
व्याख्यातं भवता सम्यक्तदस्माभि न बुध्यते ॥ २०.१८०{६९} ॥
तद्भूयोऽपि भवानेतदर्थं सम्यक्सुविस्तरम् ।
अस्मच्चेतं प्रबोधार्थं समुपादेष्टुमर्हति ॥ २०.१८१{७०} ॥
इति तैः प्रार्थिते भूयस्त्रिपिटः सोऽतिरोषितः ।
तथा ताञ्छ्रावकान् सर्वान् परिभाष्यैवमब्रवीत् ॥ २०.१८२{७१} ॥
अरे रे महिषा यूयं तत्किं जानीथ मद्वचः ।
तद्भूयः किं प्रवक्ष्यामि यच्छ्रुत्वापि न बुध्यते ॥ २०.१८३{७२} ॥
इति तेनोदितं श्रुत्वा सर्वे ते परिरोषिताः ।
तं गुरुं यतिमर्हन्तमपि प्रत्यवदस्तथा ॥ २०.१८४{७३} ॥
यद्वयं महिषाः सर्वे तद्भवान्महिषाधिपः ।
यदस्माकं यथा शास्त तथा भवतु पालकः ॥ २०.१८५{७४} ॥
इति तैः श्रावकैः सर्वैः शिक्षैः शैक्षं च रोषितैः ।
सद्गुरोरन्तिके कोपाद्यत्खलं प्रतिभाषितम् ॥ २०.१८६{७५} ॥
एतत्पापाभिशंकार्त्ताः पश्चात्तापाभितापिनः ।
(र्म् २५७)
तमर्हन्तं गुरुं नत्वा पुनरेवं वभाषिरे ॥ २०.१८७{७६} ॥
अहो मूढा वयं सर्वे यत्कोपात्सद्गुरोरपि ।
प्रत्याख्याय वयोऽस्माभिः प्रत्युत्तरं प्रदीयते ॥ २०.१८८{७७} ॥
तदेतत्पातकं घोरं कथं वयं शहेमहि ।
तद्भवान् कृपयास्माकं क्षंतुमर्हति सर्वथा ॥ २०.१८९{७८} ॥
तथा जन्मांतरे चापि भवन्तमेव सद्गुरुम् ।
कल्याणमित्रमासाद्य प्राप्नुयाम सुसंवरम् ॥ २०.१९०{७९} ॥
इति संप्रार्थनां कृत्वा सर्वे ते भिक्षवस्तथा ।
तस्य गुरोरुपाश्रित्य धर्मं श्रुत्वाभजन् सदा ॥ २०.१९१{८०} ॥
ततस्ते समये सर्वे श्रावकास्त्रिपिटोऽपि सः ।
कालं गताः पुनर्जन्म लेहिरे दुर्गतौ ततः ॥ २०.१९२{८१} ॥
खलवाक्कर्मपाकेन पंचजन्मशतान्यपि ।
स त्रिपिटपतिः शास्ता महिषोऽयं सभाभवत् ॥ २०.१९३{८२} ॥
सर्वे ते श्रावकाश्चापि यथा वाक्कर्मदोषतः ।
तथेमे महिषीपला वभूवुः सर्वदा भवे ॥ २०.१९४{८३} ॥
अत्रापि महिषो दुष्टस्त्रिपिटोऽसौ भवत्यपि ।
इमेऽपि महिषीपाला भवन्ति भिक्षवोऽपि ते ॥ २०.१९५{८४} ॥
यच्चायं महिषोऽप्यत्र काश्यपकृतपुण्यतः ।
दृष्ट्वा मां सुप्रसन्नात्मा नत्वा मे शरणं गतः ॥ २०.१९६{८५} ॥
एतत्पुण्यविपाकेन देवपुत्रो भवत्ययम् ।
आर्यसत्यं समासाद्य दृष्टसत्यो सुधीरपि ॥ २०.१९७{८६} ॥
इमेऽपि महिषीपालाः काश्यपपुण्यपाकातः ।
प्रव्रज्यार्हत्वमासाद्य भवन्ति ब्रह्मचारिणः ॥ २०.१९८{८७} ॥
एवं कर्मविपाकैर्हि सर्वेऽपि जन्तवो भवे ।
सुखदुःखानि भुंजाना भ्रमन्ति भवचारके ॥ २०.१९९{८८} ॥
नाग्निभिर्दह्यते कर्मं वायुभिर्वा न शुष्यते ।
क्लिद्यते नोदकैश्चापि क्षीयते नापि भूमिषु ॥ २०.२००{८९} ॥
अभुक्तं क्षीयते नैव कर्मं क्वापि कथं चन ।
सर्वत्रापि भवेन्नैव कर्मणो गतिरन्यथा ॥ २०.२०१{९०} ॥
शुभस्य कर्मणः पाके शुभतैव सदा भवे ।
तथा कृष्णस्य पाके च दुःखतैव सदा भवे ॥ २०.२०२{९१} ॥
मिश्रितानां तथा पाके मिश्रितानि फलान्यपि ।
एवं मत्वा शुभेष्वेव चरितव्यं सदा भवे ॥ २०.२०३{९२} ॥
येनैव यत्कृतं कर्मं तेनैव भुज्यते फलम् ।
अवश्यं परिबोक्तव्यं संसारे कर्मणः फलम् ॥ २०.२०४{९३} ॥
न नस्यंति हि कर्माणि कल्पकोटिशतैरपि ।
सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु ॥ २०.२०५{९४} ॥
इति मत्वात्र संसारे त्रिरत्नं शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं भजध्वं सर्वथादरात् ॥ २०.२०६{९५} ॥
ये भजंति सदा नित्यं त्रिरत्नं शरणं गताः ।
दुर्गतिं ते न गछंति यान्त्येव सद्गतिं सदा ॥ २०.२०७{९६} ॥
इत्यादिष्टैः मुनीन्द्रेण श्रुत्वा ते संघिका मुदा ।
(र्म् २५८)
सर्वे लोकाश्च सत्कृत्य त्रिरत्नं सर्वदाभजम् ॥ २०.२०८{९७} ॥
एतन्मे गुरुणाख्यातं तथा मयोच्यतेऽधुना ।
त्वयाप्येवं महाराज चरितव्यं सदा शुभे ॥ २०.२०९{९८} ॥
प्रजाश्चापि सदा धार्मं श्रावायित्वा प्रबोधयन् ।
बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ २०.२१०{९९} ॥
तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २०.२११{१००} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेतिऽभ्यनुमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ २०.२१२{१} ॥
इदं नरा ये महिषावादानं शृण्वंति ये चपि निशामयंति सुखानि भुक्त्वा खलु तेऽत्र सर्वे सम्यांति नूनं सुगतालयं ते ॥ २०.२१३{२} ॥
++ इत्यवदानतत्वे महिषावदानं समाप्तम् ++
(र्म् २५९)
xxइ नाविकावदान
अथाशोको महिनाथ उपगुप्तं यतिं गुरुम् ।
कृतांजलिपुटो नत्वा पुनरेवमभाषत ॥ २१.१{१} ॥
भदंत श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ २१.२{२} ॥
संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः ।
उपगुप्तो नरेंद्रं तं समालोक्यैयमब्रवीत् ॥ २१.३{३} ॥
साधु शृणु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ २१.४{४} ॥
पुरैकसमये बुद्धो भगवान् स मुनीश्वरः ।
सर्वज्ञः सुगतः शस्ता धर्मराजो विनायकः ॥ २१.५{५} ॥
ससंघो हासयन् तत्र मगधे चारिकां चरन् ।
सर्वत्र भद्रतां कृत्वा गंगातीरमुपाश्रयन् ॥ २१.६{६} ॥
तत्र स भगवान् सर्वै भिक्षुसंघैः पुरस्कृतः ।
सभामध्यासनासीनो धर्ममादेष्टुमैछत ॥ २१.७{७} ॥
तत्सद्धर्मामृतं पातुं सर्वलोकास्तदागताः ।
ब्रह्मशक्रादयो देवा लोकपाला गणादयः ॥ २१.८{८} ॥
दैत्येंद्रो गरुडा नागा यक्षगंधर्वकिंनराः ।
सिद्धा विद्याधराश्चापि राक्षसाश्च महर्द्धिकाः ॥ २१.९{९} ॥
ऋषयो ब्राह्मणाश्चापि योगिनो यतयोऽपि च ।
राजानः क्षत्रिया भूपा राजपुत्राश्च तीर्थिकः ॥ २१.१०{१०} ॥
वैश्याश्चा मंत्रिणोऽमात्याः श्रेष्ठिनः पौरिकाः प्रजाः ।
गृहस्थाः साधवो भद्राः सार्थवाहमहाजनाः ॥ २१.११{११} ॥
वणिजाः शिल्पिनश्चापि ग्राम्या जानपदा अपि ।
तथान्येऽपि समायाताः सद्धर्मश्रवणार्थिनः ॥ २१.१२{१२} ॥
तत्र ते समुपायाता दृष्ट्वा तं श्रीघनं मुदा ।
नत्वा प्रदक्षिणीकृत्य समानर्चुर्यथाक्रमम् ॥ २१.१३{१३} ॥
ततः सर्वेऽपि ते लोकाः परिवृत्य समंततः ।
समाहिताः समुद्वीक्ष्य धर्मं श्रोतुं समाश्रयन् ॥ २१.१४{१४} ॥
तदा स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् ।
बोधिचर्यां समारभ्य सद्धर्मं समुपादिशत् ॥ २१.१५{१५} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः ।
धर्माविशेषमाज्ञाय त्रिरत्नं प्राभजन् सदा ॥ २१.१६{१६} ॥
ततः स भगवान् दृष्ट्वा सर्वाल्लोकाञ्छुभाश्रितान् ।
तथान्यत्र शुभं कर्तुं गंगातीरमुपाचरत् ॥ २१.१७{१७} ॥
ससंघो भगावंस्तत्र गंगातीर उपासृतः ।
नविकान् समुपाहूय समालोक्यैवमब्रवीत् ॥ २१.१८{१८} ॥
(र्म् २६०)
नाविका गन्तुमिछामि गंगापारमितोऽधुना ।
तन्मामिमां नदीं गंगां समुत्तारयत द्रुतम् ॥ २१.१९{१९} ॥
इति तत्प्रार्थितं श्रुत्वा सर्वे ते नाविका अपि ॥ २१.२०{२०} ॥
ससांघिकं मुनीन्द्रं तननादृत्यैवमब्रुवन् ।
तरपण्यं विनास्माभिः कश्चि दिशा न तारितः ॥ २१.२१{२१} ॥
यदीछति भवान्स्तर्त्तुं तरपण्यं प्रयछतु ।
इति तैर्भाषितं श्रुत्वा भगवान् स मुनीश्वरः ॥ २१.२२{२२} ॥
तान् सर्वान्नाविकान् दृष्ट्वा पुनरेवमभाषत ।
अहमपि भवंतोऽत्र नाविकोऽस्मि ति मन्यताम् ॥ २१.२३{२३} ॥
मया हि तारितो नंदो महारागनदीकृतः पुरा ।
द्वेषाब्धिपतितो दुष्टोऽङ्गुलिमालोऽपि तारितः ॥ २१.२४{२४} ॥
मानवो मानकूपारपतितस्तारितो मया ।
मोहोदधिनिमग्नश्चोरुविल्वीकाश्यपस्तथा ॥ २१.२५{२५} ॥
एवमन्येऽपि लोकाश्च क्लेशाब्धे तारिता मया ।
कस्य चिदपि सत्वस्य तरपण्यं न किं चन ॥ २१.२६{२६} ॥
गृह्यते याच्यते नापि मया क्वापि कदा चन ।
तथा यूयमपीहास्मान् सर्वान् भिक्षून्निमांदकी ॥ २१.२७{२७} ॥
अगाढां सहसा तार्य पारे नयतुमर्हथ ।
एवं तेन मुनीन्द्रेण प्रार्थितेऽपि न के चन ॥ २१.२८{२८} ॥
नाविकास्ते मुनीन्द्रं तं तारयितुं समीछिरे ।
अत्र कश्चित्सुधीः साधुर्नाविकस्तं मुनीश्वरम् ॥ २१.२९{२९} ॥
महाभिज्ञं परिज्ञाय नत्वोवाच कृतांजलिः ।
भगवन्नाथ सर्वज्ञ भवन्तं सर्वसांघिकान् ॥ २१.३०{३०} ॥
अप्यहं तारयिष्यामि तत्प्रसीदतु मे सदा ।
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ॥ २१.३१{३१} ॥
सर्वान्स्तान् सांघिकान् भिक्षून् समालोक्यैवमादिशत् ।
भिक्षवो नावमारुह्य यूयं सर्वे समाहिताः ॥ २१.३२{३२} ॥
इमां गंगां समुत्तीर्य तिष्ठत तीरमाश्रिताः ।
इत्यादिष्टे मुनीन्द्रेण सर्वे ते भिक्षुसंघिकाः ॥ २१.३३{३३} ॥
सहसा नावमारुह्य संनिषेदुः समाहिताः ।
तदा स नाविको दृष्ट्वा सर्वान्नौकासमाश्रितान् ॥ २१.३४{३४} ॥
तां नावं सहसा गंगामध्ये संप्रापयन् क्रमात् ।
तदा स भगवान्नृद्ध्या विहायसा स्वयं चरन् ॥ २१.३५{३५} ॥
तदग्रतः समुत्तीर्य तीरभूमौ समाश्रयन् ।
तद्दृष्ट्वा नाविका सर्वे ते सलोकाः सविस्मयाः ।
पश्चात्तापाग्निसंतप्ताः पश्यन्त एव तस्थिरे ॥ २१.३६{३६} ॥
सोऽपि च नावीको दृष्ट्वा तं मुनीन्द्रं विहायसा ।
सहसा तीरमासद्य स्थितं पश्यन्न्यषीदत् ॥ २१.३७{३७} ॥
ततः सा निश्चरा नौका स्तम्भितैव जलाश्रिता ।
तद्दृष्ट्वा नाविकः सोऽतिविस्मयाकुलतोऽभवत् ॥ २१.३८{३८} ॥
ततस्तैः श्रीघनं तीरसमासीनं स नाविकः ।
(र्म् २६१)
दृष्ट्वा तत्स्मृतिमाधाय प्रणनाम कृतांजलिः ॥ २१.३९{३९} ॥
ततः सासंचरा नौका वायुसंप्रेरिता द्रुतम् ।
सहसा तीरमासाद्य तस्थौ तत्र सुनिश्चरा ॥ २१.४०{४०} ॥
ततस्ते भिक्षवः सर्वे समुत्तीर्य वहित्रतः ।
सहसा तीरमागत्य संबुद्धान्तिकमाययुः ॥ २१.४१{४१} ॥
तत्र स भगवान् दृष्ट्वा सर्वांस्तान् समुपागतान् ।
सद्धर्मं समुपादेष्टुं तस्थौ सभासनाश्रितः ॥ २१.४२{४२} ॥
ततः स नाविकश्चापि दृष्ट्वा तं श्रीघनं मुनिम् ।
भिक्षुसंघसभासीनं प्रणतुं समुपाचरन् ॥ २१.४३{४३} ॥
तत्र स साञ्जलिर्नत्वा सर्वान् तन् सांघिकान् क्रमात् ।
पादाम्बुजौ मुनीन्द्रस्य प्रणनाम प्रमोदितः ॥ २१.४४{४४} ॥
तत्र ते नाविकाश्चापि सर्वे ते विस्मयान्विताः ।
तद्धर्मदेशनां श्रोतुं मुदिताः समुपाचरन् ॥ २१.४५{४५} ॥
तत्र तं श्रीघनं दृष्ट्वा ससंघं संप्रमोदिताः ।
नत्वा प्रदक्षिणीकृत्य समुपतस्थुरादरात् ॥ २१.४६{४६} ॥
ततः स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् ।
आर्य्यसत्यसमारभ्य सद्धर्मं समुपादिशत् ॥ २१.४७{४७} ॥
ततद्धर्मामृतं पीत्वा नाविकः संप्रमोदितः ।
विज्ञाय धर्मवैशेष्यं सद्धर्माभिरतो भवेत् ॥ २१.४८{४८} ॥
ततः सत्कायभूमीन्ध्रं विंशतिशिखरोद्गतम् ।
निर्भिद्य ज्ञानवज्रेण धर्मदृष्टि समाप्तवान् ॥ २१.४९{४९} ॥
ततः स श्रोतआपत्तिफलप्राप्तः प्रसन्नधीः ।
तं मुनीन्द्रं समालोक्य त्रिरुदानमुदानयत् ॥ २१.५०{५०} ॥
भगवन् यत्मया प्राप्तं धर्मचक्षुः सुनिर्मलम् ।
शान्तं पदमार्यकान्तं तीर्णश्चापि भवार्णवः ॥ २१.५१{५१} ॥
सत्कायदृष्टिशैलाश्च लंघिताः सांप्रतं मया ।
पिहितो पापमार्गो मे स्वर्गमार्गः प्रकाशितः ॥ २१.५२{५२} ॥
मोक्षमार्गोऽपि संप्राप्तो भवतां कृपयाऽधुना ।
तथा भवान् सदा नित्यं मां परित्रातुमर्हति ॥ २१.५३{५३} ॥
एवं हि न कृतं मात्रा नापि पित्रा कृतं मम ।
न सुहृदिष्टमित्रैश्च वांधवैः स्वजनैरपि ॥ २१.५४{५४} ॥
श्रमणैर्ब्राह्मणैश्चापि गुरुभिश्च न वा नृपैः ।
तथान्यैश्च महाविज्ञैर्न कृतमार्यदेशनाम् ॥ २१.५५{५५} ॥
भवतैव कृतं नाथ सत्यमार्गोपदेशनाम् ।
तदार्यसत्यसंप्राप्त आर्यमार्गं लभाम्यहम् ॥ २१.५६{५६} ॥
अद्य मे सफलं जन्म बुद्धपुत्रोऽस्मि सांप्रतम् ।
इत्युक्त्वा स मुनीन्द्रं तं प्रणत्वा प्राभ्यनंदत ॥ २१.५७{५७} ॥
ततः स नाविकस्तत्र त्रिरत्नं शरणं गतः ।
सत्कृत्य समुपाश्रित्य प्राभजन् सर्वदा मुदा ॥ २१.५८{५८} ॥
तत्समीक्ष्य परश्चापि नाविकोऽत्यनुतापितः ।
(र्म् २६२)
तत्र तस्य मुनीन्द्रस्य सत्कारं कर्तुमैछत ॥ २१.५९{५९} ॥
ततः स नाविकस्तत्र समुत्थायानुमोदितः ।
भगवंतं प्रणत्वैव संप्रबोधयत्कृतांजलिः ॥ २१.६०{६०} ॥
भगवन् यन्मया लोभप्रलुप्तधर्मचेतसा ।
तरपण्यं विना गंगां तारितो न भवानपि ॥ २१.६१{६१} ॥
तन्महानपराधो मे भवत्यत्राहि जायते ।
तत्क्षमतां जगन्नाथ क्षमारत्नाकरो भवान् ॥ २१.६२{६२} ॥
यच्चात्र भवतां पूजां कर्तुमिछामि सांप्रतम् ।
तान्ममानुग्रहं कृत्वा प्रतिग्रहीतुमर्हति ॥ २१.६३{६३} ॥
इति संप्रार्थितं तेन श्रुत्वा स भगवान्मुनिः ।
तथेति प्रतिमोदित्वा तूष्णीभूत्वाध्युवास तत् ॥ २१.६४{६४} ॥
तथाधिवाशितं शास्त्रा नाविकः संप्रमोदितः ।
स पूजाभोज्यसामाग्रीं सहसा समसाधय ॥ २१.६५{६५} ॥
ततः स भगवंतं तं ससांघिकं यथाक्रमम् ।
अभ्यर्च्य सुरसैः शुद्धैर्भोजनैः समतोषयत् ॥ २१.६६{६६} ॥
ततस्ते सांघिकाः सर्वे संबुद्धप्रमुखा अपि ।
तद्भोज्यं सुरसं भुक्त्वा समातृप्तिं समाययुः ॥ २१.६७{६७} ॥
ततः स नाविको दृष्ट्वा तृप्तं मुनिं ससांघिकम् ।
अपनीयाशु पात्राणि तद्धस्तादि व्यशोधयत् ॥ २१.६८{६८} ॥
ततः पूगादि तांबूलमहौषधरसायनम् ।
दत्वा स नाविकस्तत्र सांजलिः प्रार्थयत्क्षमाम् ॥ २१.६९{६९} ॥
ततः स सांजलिर्नत्वा ससंघं तं मुनीश्वरम् ।
बोधिचित्तं समालम्व्य तत्पुरः समुपाश्रयत् ॥ २१.७०{७०} ॥
ततः स भगवांस्तस्य नाविकस्य मनोगतम् ।
बोध्यभिलाषमालोक्य तदा स्मितं व्यमुंचत ॥ २१.७१{७१} ॥
ततस्तस्य मुनींद्रस्य नानावर्णा मरीचयः ।
मुखपद्माद्विनिर्याताः प्रसेरुर्भुवनत्रये ॥ २१.७२{७२} ॥
या अधस्ताद्गतास्तत्र नरकेषु समंततः ।
ताः सौम्या रश्मयः सर्वाः प्रसृत्य समहासयन् ॥ २१.७३{७३} ॥
तत्र ताभिः परिस्पृष्टाः सर्वे ते नरकाश्रिताः ।
महत्सौख्यं समासाद्य विस्मिता एवमब्रुवन् ॥ २१.७४{७४} ॥
अहो चित्रं महत्सौख्यमधुना जायते कथम् ।
कुतश्चेयं प्रभा जाता कस्य चेह समागताः ॥ २१.७५{७५} ॥
यत्प्रभाभिः परिस्पृष्टा वयं सौख्यसमन्विताः ।
सर्वे दुःखाभिनिर्मुक्तास्तदिदं महदद्भुतम् ॥ २१.७६{७६} ॥
किं नु च्युता इतोऽहो स्विदन्यत्रोपगता वयम् ।
यन्नो दुःखानि शांयंते जायंते ससुखान्यपि ॥ २१.७७{७७} ॥
इति चिंतासमाक्रान्तहृदयास्ते सविस्मयाः ।
षर्वेऽप्येकत्र संमील्य भाषंत उपतस्थिरे ॥ २१.७८{७८} ॥
एवं सर्वेऽपि ते सत्वाः सर्वत्र नरकेष्वपि ।
निर्दुःखा सुखसंपन्ना उपतस्थुः सविस्मयाः ॥ २१.७९{७९} ॥
तदा तेषां प्रबोधार्थं निर्माय भगवान्मुनिम् ।
(र्म् २६३)
प्रत्येकं नराकेष्वेवं सर्वत्रापि व्यसर्जयत् ॥ २१.८०{८०} ॥
तं बुद्धं निर्मितं दृष्ट्वा सार्वे ते नरकाश्रिताः ।
भूयोऽतिविस्मयाक्रांतहृदयाश्चैवमब्रुवन् ॥ २१.८१{८१} ॥
न ह्येवेतच्च्युतास्सर्वे नाप्यान्यत्र गता वयम् ।
इहैव नरके स्थाने स्थिताः सर्वे वयं खलु ॥ २१.८२{८२} ॥
यदिहायं समायातः पुरुषो पूर्वदर्शनः ।
नूनमस्य प्रभाकान्तिरियमत्राभिप्रसृता ॥ २१.८३{८३} ॥
तदस्माकं हि दुःखानि प्रशान्तां समंततः ।
महत्सौख्यानि जयन्ते नूनमस्यानूभावतः ॥ २१.८४{८४} ॥
अयं हि सुगतो बुद्धः सर्वसत्वानुकंपकः ।
सर्वान्नो दुःखितान् दृष्ट्वा समुद्धर्तुमिहागतः ॥ २१.८५{८५} ॥
तदस्य शरणं गत्वा वयं सर्वे समादरात् ।
सत्कृत्य श्रद्धया नत्वा यथाशक्ति भजेमहि ॥ २१.८६{८६} ॥
इति संभाष्य ते सर्वे नारकीयास्तथा मुदा ।
सहसा तं पुरोगत्वा प्रणत्वैवं वभाषिरे ॥ २१.८७{८७} ॥
नमस्ते भगवन्नाथ शरणं ते व्रजामहे ।
एवमस्मान् सदा दृष्ट्वा कृपया त्रातुमर्हसि ॥ २१.८८{८८} ॥
इति संप्रार्थनां कृत्वा सर्वे ते प्रतिमोदिताः ।
तस्यैव शरणं कृत्वा प्रभेजिरे समाहिताः ॥ २१.८९{८९} ॥
एतत्पुण्यपरीतास्ते सर्वे विमुक्तपापकाः ।
नरकेभ्यः समुत्थाय सहसा सद्गतिं ययुः ॥ २१.९०{९०} ॥
एवं ता रस्मयः सर्वा नरकेभ्यः समंततः ।
सर्वान् सत्वान् संुद्धृत्य प्रत्याययुर्मुनेः पुरः ॥ २१.९१{९१} ॥
याश्चाप्युर्द्धगताभासप्रसृताः ताः समंततः ।
अवभास्य दिशः सर्वान् समहाराजिकालयाः ॥ २१.९२{९२} ॥
सर्वान् देवालयान् यावदकनिष्ठं भवालयम् ।
अवभास्यमरान् सर्वान् गाथाभिः समचोदयत् ॥ २१.९३{९३} ॥
अनित्यं खलु संसारे सर्वं शून्यमनात्मकम् ।
इति मत्वात्र संसारे चरत सर्वदा शुभे ॥ २१.९४{९४} ॥
निष्क्रामतारभध्वं तद्युज्यध्वं बुद्धशासने ।
धुनीत मृत्युसैन्यानि नडागारमिव द्विपः ॥ २१.९५{९५} ॥
यो ह्यस्मिन् सौगते धर्मे चरिष्यति समाहितः ।
स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ २१.९६{९६} ॥
इति तच्छब्दमाकर्ण्य सर्वे देवाः प्रबोधिताः ।
त्रिरत्नशरणं कृत्वा प्रभेजिरे समाहिताः ॥ २१.९७{९७} ॥
एवं ता रस्मयः सर्वाः सर्वान् देवान् समंततः ।
चोदयित्वा ततस्तत्र प्रत्याययुर्मुनेः पुरः ॥ २१.९८{९८} ॥
तत्र ता रस्मयः सर्वा एकीभूता सुपिण्डिताः ।
मुनेः प्रदक्षिणीकृत्य भ्रुमध्येऽन्तर्हितोऽभवत् ॥ २१.९९{९९} ॥
तद्दृष्ट्वा ते सांघिकाः सर्वे लोकाश्चान्येऽपि विस्मिताः ।
शास्ता किमादिशेद्धार्ममिति ध्यात्वा निषेदिरे ॥ २१.१००{१००} ॥
(र्म् २६४)
तदानंदः समुत्थाय शास्तारं तं मुनीश्वरम् ।
कृतांजलिपुटो नत्वा पप्रछैवं पुरः स्थितः ॥ २१.१०१{१} ॥
भगवन्नाथ सर्वज्ञ भवद्वक्त्रात्सुधाकरात् ।
नाना वर्णाः प्रभाः कांता विनिःसृत्य प्रसारिताः ॥ २१.१०२{२} ॥
सर्वांस्त्रैधातुकान्नवभास्य समंततः ।
पुनः प्रत्यागाताः सर्वा एकीभूता सुपिंडिता ॥ २१.१०३{३} ॥
तव प्रदक्षिणीकृत्य भ्रुमध्ये प्रविसंति ताः ।
नाहेतुप्रत्यये बुद्धा दर्शयन्ति स्मितं क्वचित् ॥ २१.१०४{४} ॥
तद्भवान् हेतुना केन स्मितं मुंचसि सांप्रतम् ।
यद्दृष्ट्वा सांघिकः सर्वे इमे लोकाश्च विस्मिताः ॥ २१.१०५{५} ॥
शास्ता किमादिशेद्धर्ममिति संदिग्धमानसाः ।
कुतूहलसमाक्रांतहृदयाः सद्गुणार्थिनः ॥ २१.१०६{६} ॥
त्वत्सद्धर्मामृतं पातुमिछन्ति तृषिता इव ।
यदर्थेऽत्र भवान् स्मितं दर्शयति सरस्मिकम् ॥ २१.१०७{७} ॥
तदर्थं समुपादिश्य सर्वाल्लोकान् प्रबोधय ।
इत्यानंदवच श्रुत्वा भगवान् स मुनीश्वरः ।
तमानंदं सभां चापि समालोक्यैवमादिशत् ॥ २१.१०८{८} ॥
एवमेतत्तथानंद नाहेतुप्रत्ययं क्वचित् ।
संबुद्धाः सुगताः सर्वे प्रविकुर्वन्ति संस्मितम् ॥ २१.१०९{९} ॥
यदर्थेऽहमिहानंद स्मितं मुंचामि सांप्रतम् ।
तदर्थं समुपाख्यामि शृणुत यूयमादरात् ॥ २१.११०{१०} ॥
यदनेन सतानंद नाविकेन प्रसादिना ।
ससंघोऽहं समभ्यर्च्य वंदितो बोधिचेतासा ॥ २१.१११{११} ॥
अनेन कुशलेनायं नाविकोऽपि भविष्यति ।
संसारोत्तरणो नाम प्रत्येकबुद्ध आत्मवित् ॥ २१.११२{१२} ॥
एवं मत्वा महत्पुण्यं त्रिरत्नं सत्कृतोद्भवम् ।
सत्कृत्य श्रद्धया नित्यं त्रिरत्नं भजतादरात् ॥ २१.११३{१३} ॥
त्रिरत्नेषु कृतं पुण्यं न क्षिणोति कदा चन ।
व्रतपुण्यविपाकेन संबुद्धपदमाप्नुयात् ॥ २१.११४{१४} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः ।
तथेत्यभ्यनुमोदित्वा त्रिरत्नं सर्वदाभजेत् ॥ २१.११५{१५} ॥
एवं शास्त्रा मुनीन्द्रेण व्याकृतमात्मनस्तदा ।
श्रुत्वा स नाविको बुद्धः प्राभ्यनंदत्प्रसादितः ॥ २१.११६{१६} ॥
तदारभ्य सदा नित्यं नाविकः संप्रमोदितः ।
त्रिरत्नशरणं कृत्वा सत्कृत्य श्रद्धयाभजत् ॥ २१.११७{१७} ॥
सर्वे लोकाश्च तद्दृष्ट्वा सद्धर्मगुणवांछिनः ।
सत्कृत्य श्रद्धया नित्यं त्रिरत्नं प्राभजन्मुदा ॥ २१.११८{१८} ॥
ततश्च स जगच्छास्ता भगवान् सह सांघिकैः ।
तथान्यत्र शुभं कर्तुं प्रतस्थे सांप्रभासयन् ॥ २१.११९{१९} ॥
इति मे गुरुणादिष्टं मया प्रचक्ष्यते तव ।
तथात्र त्वं महाराज त्रिरत्नं सर्वदा भज ॥ २१.१२०{२०} ॥
प्रजाश्चापि तथा धर्मे बोधयित्वा प्रसादयन् ।
(र्म् २६५)
बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ २१.१२१{२१} ॥
तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २१.१२२{२२} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेत्यभ्यनुमोदित्वा प्राभ्यनंदत्सपार्षदः ॥ २१.१२३{२३} ॥
यच्छास्त्राख्यातं तथेदं यतिवरकथितं नाविकस्यावदानं
शृण्वन्ति श्रावयन्ति प्रमुदितमनसः श्रद्धया ये प्रसन्नाः ।
ते सर्वे शुद्धभावा जिनगुणरूचनो बोधिचर्या चरन्ते ।
भुक्त्वा सौख्यानि नित्यं मुनिवरनिलये संप्रयान्ति प्रमोदम् ॥ २१.१२४{२४} ॥
++ इत्यवदानतत्वे नाविकावदानं समप्तम् ++
(र्म् २६६)
xxइइ गन्धमादनावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा प्रार्थयच्चैवमादरात् ॥ २२.१{१} ॥
भदंत श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ २२.२{२} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः ।
तमशोकं महीपालं समालोक्यैवमादिशत् ॥ २२.३{३} ॥
साधु शृणु महाराज यथा मे गुरुभाषितम् ।
तथाहं संप्रवक्ष्यामि तव पुण्यविवृद्धये ॥ २२.४{४} ॥
पुरैकस्मिन् दिने तत्र राजगृहे ससांघिकः ।
भगवान् स जगन्नाथः पिण्डार्थं समुपाविशत् ॥ २२.५{५} ॥
तदा राजगृहे तत्र गृहपतेः सुतो महान् ।
तस्यैका दासिका भद्रा सत्यधर्मानुचारिणी ॥ २२.६{६} ॥
सा स्वाम्यङ्गानुलेपार्थं लोहितचंदनं तदा ।
सुरभिगणसंयुक्तं पिपेष प्रस्तरे मुदा ॥ २२.७{७} ॥
तस्मिन्नेव क्षणे तत्र स संबुद्धः ससांघिकः ।
भासयं मंगलं कृत्वा तद्गृहं निकषाचरत् ॥ २२.८{८} ॥
तथायातं मुनीन्द्रं तं श्रुत्वा सा दारिका मुदा ।
सहसा निर्गता गेहात्तत्र द्रष्टुमुपाचरन् ॥ २२.९{९} ॥
तत्र सा समुपागत्य प्राद्राक्षीत्तं मुनीश्वरम् ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनपरिभूषितम् ॥ २२.१०{१०} ॥
शतसूर्याधिकाभासं शतचंद्रामृतप्रभम् ।
व्यामप्रभासमुज्वालं रत्नांगमिव जंगमम् ॥ २२.११{११} ॥
दृष्ट्वा सा दासिका तत्र मुदिता विस्मयान्विता ।
सुचिरं तं समालोक्य तस्थौ निश्चलमानसी ॥ २२.१२{१२} ॥
तत्र सा सुचिरं दृष्ट्वा दासिकाभिप्रमोदिता ।
सत्कारं कर्त्तुमिछन्ती शास्तुरेवं व्यचिंतयत् ॥ २२.१३{१३} ॥
अहो भाग्यं मुनीन्द्रोऽयं दृश्यते यन्मयाधुना ।
तदस्य किं भजिष्यामि दरिद्रा प्रेषिका ह्यहम् ॥ २२.१४{१४} ॥
कुत्र वा द्रक्ष्यते भूयो मुनीन्द्रोऽयं जगद्गुरुः ।
धिग्मे जन्मापि येनात्र किं चित्पुण्यं न साध्यते ॥ २२.१५{१५} ॥
किं ममानेन देहेन येनेदृशं मुनीश्वरम् ।
प्राप्य किं चित्प्रदत्वापि पुण्यं प्राप्तुं न शक्यते ॥ २२.१६{१६} ॥
अनेन जीवितेनापि किं ममात्र प्रयोजनम् ।
येन दुःखानि भुक्त्वैव किं चित्पुण्यं न साध्यते ॥ २२.१७{१७} ॥
पुण्यं विनात्र संसारे सौख्यं प्राप्तुं कथं कुह ।
तत्पुण्यं प्राप्यते केन विना दानव्रतः क्वचित् ॥ २२.१८{१८} ॥
(र्म् २६७)
किं चात्र दास्यते दानं किं चिद्द्रव्यं न मे गृहे ।
व्रतं वा किं करिष्यामि पराधीना हि दासिका ॥ २२.१९{१९} ॥
तदत्र किं सुखं लप्स्ये किं चिद्दानं व्रतं विना ।
सर्वथाहं विनष्टा स्यां को मां रक्षेद्भवान्तरे ॥ २२.२०{२०} ॥
पुण्येन सद्गतिं यायां पापेन दुर्गतिं सदा ।
इति हेतोः प्रकर्त्तव्यं दानं किं चिदपि व्रतम् ॥ २२.२१{२१} ॥
तर्ह्येतद्विद्यते हस्ते लोहितचंदनं मम ।
एतेनापि मुनीन्द्रस्य भजेयं चरणाम्बुजौ ॥ २२.२२{२२} ॥
इति ध्यात्वा विनिश्चित्य दरिका सा प्रसादिता ।
सहसा स्वगृहं गत्वा तच्चंदनं समाग्रहीत् ॥ २२.२३{२३} ॥
तच्चंदनं समादाय दासिका सा व्यचिन्तयत् ।
यदिदं स्वामिनो द्रव्यं तदनुज्ञां विना कथम् ॥ २२.२४{२४} ॥
यदि स्वामि विजानाति तदा मे कुपितो रुषा ।
निर्भत्स्य ताडयित्वा मां गृहान्निष्कासयेदप्ल् ॥ २२.२५{२५} ॥
तदात्र किं चरिष्यामि दासिकाहं निराश्रया ।
अवश्यं भाविनो भावा भवन्ति महतामपि ॥ २२.२६{२६} ॥
यदि मे कुपितः स्वामी परत्र किं करिष्यति ।
प्रसन्नो यदि वा स्वामी कल्याणं स्यादिहापि मे ॥ २२.२७{२७} ॥
कुपितो व प्रसन्नो वा भवत्वत्रैव मे प्रभुः ।
स्वामी भर्त्तानुशास्तैव परत्र किं करिष्यति ॥ २२.२८{२८} ॥
बुद्धस्तु जगतां स्वामी भर्त्ता नाथोऽनुकंपकः ।
प्रभु धर्मानुशास्ता मे परत्रेहाप्यवेत्सदा ॥ २२.२९{२९} ॥
तदत्र किं ममानेन स्वामिनापि करिष्यते ।
तदेतच्चंदनेनापि भजेयं तं मुनीश्वरम् ॥ २२.३०{३०} ॥
इति ध्यात्वा विनिश्चित्य दासिका सा प्रमोदिता ।
लोहितचंदनेनोभौ पाणौ प्रलिप्य सेत्वया ॥ २२.३१{३१} ॥
गृहाद्वहिर्विनिर्गत्वा भगवतेऽन्त उपागता ।
पादयोरुभयोस्तेन चंदनेन लिलेप सा ॥ २२.३२{३२} ॥
ततः सा दारिका नारी कृतांजलिपुटो मुदा ।
पादौ तस्य मुनेर्नत्वा पुरतः समुपाश्रयत् ॥ २२.३३{३३} ॥
तत्र स भगवान् दृष्ट्वा तस्या भक्तिरतं मनः ।
तच्चंदनसौरभ्यैस्तत्पुरं समपूरयत् ॥ २२.३४{३४} ॥
ततस्तद्गंधमाघ्राय सर्वे पौराः सविस्मयाः ।
कस्येदं गंधमायातमिति प्रोक्त्वा प्रचेरिरे ॥ २२.३५{३५} ॥
ततस्तद्वृत्तिमाज्ञाय सर्वे लोकाः प्रमोदिताः ।
तद्द्रष्टुं सहसा तत्र भगवतोऽन्तिकमुपाययुः ॥ २२.३६{३६} ॥
तत्र सर्वेऽपि ते लोका दृष्ट्वा तं श्रीघनं मुनिम् ।
नत्वा प्रदक्षिणीकृत्वा समुपतस्थुरादरात् ॥ २२.३७{३७} ॥
तदा स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् ।
आर्य्यसत्यं समारभ्य दिदेश धर्ममुत्तमम् ॥ २२.३८{३८} ॥
तद्धार्मदेशनां श्रुत्वा सर्वे लोकाः प्रबोधितः ।
त्रिरत्नशरणं कृत्वा सदा भजितुमीछिरे ॥ २२.३९{३९} ॥
तत्सद्धर्मामृतं पीत्वा दासिका सा प्रबोधिता ।
(र्म् २६८)
सांजलिस्तं मुनिं नत्वा प्रणिधानं व्यधात्तथा ॥ २२.४०{४०} ॥
एतत्पुण्यविपाकेन संसारेऽत्र पुनर्भवे ।
प्रत्येकां बोधिमासाद्य निर्वाणपदमाप्नुयाम् ॥ २२.४१{४१} ॥
एवं बुद्धपदं प्राप्त्यै प्रणिधानं कृतं तया ।
दृष्ट्वा स भगवांस्तत्र स्मितं प्रादुर्व्यधात्तदा ॥ २२.४२{४२} ॥
ततस्तस्य मुनेर्वक्त्रान्नानावर्णाः सुरस्मयः ।
विनिर्गता दिशः सर्वा भासयन्तः प्रसेरिरे ॥ २२.४३{४३} ॥
या अधस्ताद्गताभासाः सर्वत्र नरकेष्वपि ।
अवभास्य शुभं कृत्वा सर्वत्र संप्रसंसिरे ॥ २२.४४{४४} ॥
तत्र सत्वान् परिस्पृश्य कृत्वा सर्वान् सुखान्वितान् ।
संबुद्धदर्शनं दत्वा संप्रेषयन् सुरालायम् ॥ २२.४५{४५} ॥
याश्चाप्युर्द्धं गताभासताः सर्वांश्च सुरालयन् ।
अवभास्यामरान् सर्वान् समुद्घुष्याभ्यचोदयन् ॥ २२.४६{४६} ॥
अनित्यं खलु संसारं सर्वं शून्यं निरात्मकम् ।
इति मत्वात्र कर्त्तव्यं संबुद्धभजनं सदा ॥ २२.४७{४७} ॥
निष्क्रामत रभध्वं तत्सद्धर्मं बुद्धशासने ।
मारचर्यां परित्यज्य चरत भद्रचारिकाम् ॥ २२.४८{४८} ॥
योऽप्रमत्तश्चरत्यत्र संबुद्धशासने व्रतम् ।
स विहाय पुनर्जातिं दुःखस्यांतं करिष्यति ॥ २२.४९{४९} ॥
इति मत्वात्र संसारे परिशुद्धत्रिमण्डलाः ।
त्रिरत्नं शरणं कृत्वा भजध्वं श्रद्धया सदा ॥ २२.५०{५०} ॥
एतद्घोषं समाकर्ण्य सर्वे देवाः प्रमोदिताः ।
त्रिरत्नस्मरणं कृत्वा प्राचरन् सर्वदा शुभे ॥ २२.५१{५१} ॥
ततस्ते रश्मयः सर्वे भासयन्तः समंततः ।
प्रत्यागता मुनीन्द्रस्य पुरतः समुपाश्रयन् ॥ २२.५२{५२} ॥
तत्र ते रश्मयः सर्वेऽप्येकीभूताः सुपिण्डिताः ।
शास्तुः प्रदक्षिणीकृत्य भ्रुवोऽन्तरे तिरोदधौ ॥ २२.५३{५३} ॥
तद्दृष्ट्वा ते सभासीनाः सर्वे लोकाः सविस्मयाः ।
शास्ता किमादिशेद्धर्ममिति ध्यात्वा समाश्रयन् ॥ २२.५४{५४} ॥
तत्रानंदः समालोक्य सर्वांल्लोकान् सविस्मयान् ।
सांजलिस्तं जगन्नाथं प्रणत्वैवं समब्रवीत् ॥ २२.५५{५५} ॥
भगवन् हेतुना केन स्मितं मुंचति सांप्रतम् ।
नाहेतुप्रत्ययं बुद्धाः स्मितं मुंचंति सर्वदा ॥ २२.५६{५६} ॥
यद्भवतः स्मिते वक्त्रान्नानावर्णाः सुरश्मयः ।
निर्गताः सर्वलोकेषु प्रसृता अवभास्यत ॥ २२.५७{५७} ॥
इमे सर्वत्र भद्राणि कृत्वा सत्वांश्च भद्रितान् ।
प्रत्यागता भवदुर्णामध्ये चान्तर्दधन्ति हि ॥ २२.५८{५८} ॥
एतदद्भुतमालोक्य सर्वे लोका इमेऽधुना ।
शास्ता किमादिशेद्धर्ममिति ध्यात्वा समास्थिताः ॥ २२.५९{५९} ॥
भवद्धर्मामृतं पातुं सर्वे सद्धर्मवांछिनः ।
भवन्तमेव संवीक्ष्य संतिष्ठन्ते समाहिताः ॥ २२.६०{६०} ॥
(र्म् २६९)
भगवंस्तद्यदर्थे त्वं स्मितं मुंचसि सांप्रतम् ।
तदर्थं समुपादिश्य सर्वाल्लोकान् प्रबोधय ॥ २२.६१{६१} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्चरः ।
तमानंदं सभां चापि समालोक्यैवमादिशत् ॥ २२.६२{६२} ॥
एवमेतन्महानंद सर्वेऽपि सुगता जिनाः ।
नाहेतुप्रत्ययं क्वापि स्मितं मुंचंति सर्वदा ॥ २२.६३{६३} ॥
यदर्थेऽहमिहानंद स्मितं मुंचामि सांप्रतम् ।
तदर्थं संप्रवक्ष्यामि सर्वे शृण्वंतु सादरम् ॥ २२.६४{६४} ॥
पश्यानंदानया नार्य्या दारिकया मम पदोः ।
लोहितचंदनेनैवं प्रलिप्य सत्कृतिः कृता ॥ २२.६५{६५} ॥
एतत्पुण्यविपाकेन दारिकेयं भविष्यति ।
प्रत्येकसुगतो गन्धमादनो नाम सर्ववित् ॥ २२.६६{६६} ॥
यथेयं मयि संबुद्धचित्तं प्रसाद्य मोदिता ।
प्रणिधानं करोत्येवं प्रत्येकबोधिमाप्स्यति ॥ २२.६७{६७} ॥
एवं मत्वा महत्पुण्यं संबुद्धभजनोद्भवम् ।
सत्कृत्य श्रद्धया नित्यं त्रिरत्नं भजमादरात् ॥ २२.६८{६८} ॥
त्रिरत्नभजनोद्भूतं पुण्यमहत्तरं बहु ।
यथेछाबोधिसंभारपूरणं निर्वृतिं प्रदम् ॥ २२.६९{६९} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वेऽनुमोदिताः ।
त्रिरत्नभजनं कर्तुं प्राभ्यनन्दन् सदापि ते ॥ २२.७०{७०} ॥
तदा सा दासिकाप्येवं शास्त्रा व्याकृतमात्मनः ।
श्रुत्वाभिनंदिता भूयो ननाम तं मुनीश्वरम् ॥ २२.७१{७१} ॥
ततः सा स्वामिना दत्तं द्रव्यमादाय सत्वरा ।
तदर्हभोजनैः पूर्णं पात्रं कृत्वा मुदाचरत् ॥ २२.७२{७२} ॥
तत्र सा मुदिता तस्मै मुनीन्द्राय प्रदापयत् ।
सांजलिः प्रणतिं कृत्वा स्वगेहं समुपाचरत् ॥ २२.७३{७३} ॥
ततः स भगवान् पृष्टे पिण्डपात्रं तयार्चितम् ।
ससंघं स्वाश्रमे गत्वा व्यहरद्धर्ममादिशत् ॥ २२.७४{७४} ॥
तत्र सा दासिका भद्रा त्रिरत्नं शरणं गता ।
सत्कृत्य श्रद्धया नित्यं प्राभजन् सर्वदा मुदा ॥ २२.७५{७५} ॥
एवं मे गुरुणाख्यातं श्रुतं मयात्र कथ्यते ।
तथा त्वमपि राजेंद्र त्रिरत्नं सर्वदा भज ॥ २२.७६{७६} ॥
तथा राजं प्रजाश्चापि बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ २२.७७{७७} ॥
तथा तं मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २२.७८{७८} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः ।
तथेत्यभ्यनुमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ २२.७९{७९} ॥
इदं नरा ये चि च गंधमादनावदानमत्र प्रथितं प्रसादिताः ।
शृण्वन्ति ये चापि निशामयन्ति सर्वे सुखाढ्याः प्रचरन्ति सद्गतौ ।
(र्म् २७०)
++ इति रत्नावदानतत्वे गंधमादनावदानं समाप्त ++
(र्म् २७१)
xxइइइ प्रेतिकायाः कथा
अथाशोको महाराजः सांजलिः संप्रमोदितः ।
उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ २३.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ २३.२{२} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हं महामतिः ।
उपगुप्तो नरेंद्रं तैः समालोक्यैवमादिशत् ॥ २३.३{३} ॥
साधु शृणु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा बुद्धानुमोदय ॥ २३.४{४} ॥
पुरा स भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ २३.५{५} ॥
भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश्च चैलकैः ।
उपासकैः शुभाचारैरुपासिकागणैरपि ॥ २३.६{६} ॥
बोधिसत्वैर्महासत्वैः संबोधिचारिकोद्यमैः ।
तथान्यैस्तीर्थिकैश्चापि संबुद्धगुणवांछिभिः ॥ २३.७{७} ॥
राजगृहपुरोपान्ते वेणुवने मनोरमे ।
जिनाश्रमे महोद्याने करंदकनिवापके ॥ २३.८{८} ॥
सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् ।
सद्धर्मदेशनां कुर्वन् विजहार विरोचयन् ॥ २३.९{९} ॥
तत्सद्धर्मदेशनां श्रोतुं तत्र सर्वे समागताः ।
देवा दैत्याश्च नागेन्द्रा यक्षगंधर्वकिन्नराः ॥ २३.१०{१०} ॥
ग्रहा विद्याधराः सिद्धा लोकपालगणा अपि ।
ऋषयो ब्राह्मणाश्चापि राजानः क्षत्रियात्मजाः ॥ २३.११{११} ॥
वैश्याश्च मंत्रिणोऽमात्या गृहाधिपा महाजनाः ।
पौरिकाः सार्थवाहाश्च वणिजः शिल्पिनोऽपि च ॥ २३.१२{१२} ॥
ग्राम्या जानपदाश्चापि तथा कार्पटिकादयः ।
सर्वे ते समुपायातास्तत्राश्रमे उपाविशन् ॥ २३.१३{१३} ॥
तत्र सभासनासीनं श्रीघनं तं मुनीश्वरम् ।
व्यामप्रभाविरोचं तं भिक्षुसंघैः पुरस्कृतम् ॥ २३.१४{१४} ॥
दृष्ट्वा ते मुदिताः सर्वे प्रणत्वा समुपागताः ।
कृत्वा प्रदक्षिणान्येनं समानर्चु यथाक्रमम् ॥ २३.१५{१५} ॥
ततस्सर्वेऽपि ते लोकाः परिवृत्य समंततः ।
तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ २३.१६{१६} ॥
तदा स भगवान् दृष्ट्वा सर्वान्स्तान् समुपाशृतान् ।
आर्य्यसत्यं समार्गांगं सद्धर्मं समुपादिशन् ॥ २३.१७{१७} ॥
तात्सद्धर्मामृतं पीत्वा सर्वे ते संप्रबोधिताः ।
(र्म् २७२)
धर्मविशेषमाज्ञाय बोधिचर्यां समीछिरे ॥ २३.१८{१८} ॥
तदैकस्मिन् दिने भिक्षुरायुष्मान्नारदाभिधः ।
भिक्षार्थं पात्रमादाय राजगृहपुरे ययौ ॥ २३.१९{१९} ॥
तत्र स नारदो भिक्षुः पिंडार्थं समुपाचरन् ।
गृहस्थेन समालोक्य नीत्वा गेहे मुदासने ॥ २३.२०{२०} ॥
प्रतिस्थाप्य समभ्यर्च्य सुप्रणीतरसान्वितैः ।
तीलोदनैः सुधाकल्पैः पानैश्च प्रतिपूजितः ॥ २३.२१{२१} ॥
तद्भुक्त्वा स यतिस्तुष्टो दत्वा तस्मै शुभाशिषम् ।
समुत्थाय ततोऽरण्ये विहर्त्तुं निर्जनेऽचरत् ॥ २३.२२{२२} ॥
तत्र स नारदो योगी गृध्रकूटनगान्तिके ।
ददर्श प्रेतिकामेकां राक्षसीमिव भीषणाम् ॥ २३.२३{२३} ॥
वृक्षमूले स्थितां रक्तविन्दुव्याप्ताम्वरावृताम् ।
अस्थिशकलसंकीर्णे प्रेतालये निवासिनीम् ॥ २३.२४{२४} ॥
स्वात्मजानपि भक्षन्तीं क्षुत्पिपासाग्निदाहिनाम् ।
कृशाङ्गीं विकृताकारां कर्वुरमुक्तकेशिनीम् ॥ २३.२५{२५} ॥
दृष्ट्वा स नारदस्तत्र समुपासृत्य तत्पुरः ।
प्रेतिकां तां समालोक्य पप्रछैवं पुराकृतम् ॥ २३.२६{२६} ॥
किं त्वया प्रकृतं घोरं पातकं पूर्वजन्मसु ।
येनैवं दुःसहमनुभवसि सांप्रतम् ॥ २३.२७{२७} ॥
इति तेनार्हता पृष्टे प्रेतिका सा रुदन्त्यपि ।
नारदं तं यतिं दृष्ट्वा शनैरेवमभाषत ॥ २३.२८{२८} ॥
भदन्त किं मया ह्यत्र वक्ष्यते यत्पुराकृतम् ।
दिवारात्रौ पंचपुत्रान् प्रसूता मे प्रभक्षिता ॥ २३.२९{२९} ॥
तेनापि न संतुष्टा बुभुक्षिता प्रवर्द्धते ।
तद्भवांस्तं जगद्विज्ञं पृछता मत्पुराकृतम् ॥ २३.३०{३०} ॥
स मुनीन्द्रो जगच्छास्तादिशेत्तेऽस्मत्पुराकृतम् ।
आदित्ये हि समुद्याते दीपेन किं प्रयोजनम् ॥ २३.३१{३१} ॥
तथास्मत्प्रकृतं पापं श्रुत्वान्येन नरादयः ।
सत्वाः संत्रसिता एवं कुर्यु न के चन ॥ २३.३२{३२} ॥
सर्वे तेऽपि दिशेत्पापान् विरम्य शीलसंवृताः ।
त्रिरत्नशरणं कृत्वा प्रभजेयुः सदाद्रिताः ॥ २३.३३{३३} ॥
इति तयोदितं श्रुत्वा नारदः स प्रबोधितः ।
तथेति सहसा गत्वा तत्र वेणुवनेऽसरत् ॥ २३.३४{३४} ॥
तदा स भगवांस्तत्र ध्यानालयात्समुत्थितः ।
सभामध्यासनासीनः सद्धर्मं समुपादिशत् ॥ २३.३५{३५} ॥
तस्मिन्नवसरे तत्र नारदः सत्वरान्वितः ।
दूरात्तं श्रीघनं पश्यन् सहसा समुपाचरन् ॥ २३.३६{३६} ॥
तमेव समुपायातं नारदं स मुनीश्वरः ।
दृष्ट्वारात्समुपामंत्र्य पुनरेवमभाषत ॥ २३.३७{३७} ॥
एहि ते स्वागतं भिक्षो कुतस्त्वं समुपागतः ।
किमर्थमिह येनैवं प्रायासि तद्वदस्व मे ॥ २३.३८{३८} ॥
इत्यादिष्टे मुनीन्द्रेण नारदः स कृतांजलिः ।
समुपेत्य मुनीन्द्रं तं प्रणत्वैवं न्यवेदयत् ॥ २३.३९{३९} ॥
(र्म् २७३)
भगवन् भवतां पादौ द्रष्टुमिह समाचरे ।
अद्याहं निर्जनेऽरण्ये विहर्तुं समुपाचरे ॥ २३.४०{४०} ॥
तत्राहं प्रेतिकामेकां राक्षसीमिव भीषणाम् ।
कृशाङ्गीं विकृताकारां रक्तविन्दुऽन्वितांवराम् ॥ २३.४१{४१} ॥
अनेका अस्थिषंकीर्णे प्रेतालये इव स्थिताम् ।
पश्यामि तामुपासृत्य परिपृछामि तत्कृतम् ॥ २३.४२{४२} ॥
किं त्वया प्रकृतं पापं पूर्वजन्मसु दारुणम् ।
येनेदृग्महादुःखमनुभवसि सांप्रतम् ॥ २३.४३{४३} ॥
इति पृष्टे मयाथासौ प्रेतिका दुःखतापिनी ।
रुदन्ती मां समालोक्य शनैरेवमभाषत ॥ २३.४४{४४} ॥
भदन्त किं वदिष्यामि यन्मया पातकं कृतम् ।
येनेदृशं महादुःखमनुभवामि सांप्रतम् ॥ २३.४५{४५} ॥
पंचपुत्रानहं रात्रौ दिवा पंच तथापरान् ।
प्रसूय तां प्रभक्ष्यामि नास्ति तृप्तिस्तथापि मे ॥ २३.४६{४६} ॥
एवं क्षुत्पिपासाग्नितीव्रतापाभिदाहिता ।
दिवारात्रिं महद्दुःखं भुक्त्वा तिष्ठामि जंगले ॥ २३.४७{४७} ॥
तत्पुरा किं कृतं घोरं पातकमतिदारुणम् ।
मयापि ज्ञायते नात्र परिपृछ मुनीश्वरम् ॥ २३.४८{१४८} ॥
सर्वज्ञस्त्रिजगच्छास्ता भगवान् स मुनीश्वरः ।
यन्मया प्रकृतं पापं तत्सर्वं समुपाविशेत् ॥ २३.४९{४९} ॥
इति तयोदितं श्रुत्वा तथेति परिबोधितः ।
भवन्तमत्र संप्रष्टुं समागछामि सांप्रतम् ॥ २३.५०{५०} ॥
किं तया प्रकृतं घोरं पातकमतिदारुणम् ।
येनैवं दुःसहं दुःखं भुक्त्वा चरति साधुना ॥ २३.५१{५१} ॥
तत्सर्वं समुपादिश्य प्रबोधयितुमर्हति ॥ २३.५२{५२} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
नारदं तं महाभिज्ञं समालोक्यैवमादिशेत् ॥ २३.५३{५३} ॥
नारद प्रेतिका सातितीव्रपातकसाधिनी ।
यदीच्छेस्तत्कृतं श्रोटुं शृणु वक्ष्यामि तेऽधुना ॥ २३.५४{५४} ॥
तद्यथाभूत्पुरा पुर्य्यां वाराणस्यां महाजनः ।
श्रेष्ठी प्राढ्यो महच्छ्रीमाच्छ्रीदोपमो धनाधिपः ॥ २३.५५{५५} ॥
स कुलधर्मिणीं भार्यामुपयेमे यथाविधिम् ।
ततः स कांतया सार्द्धं तया रेमे प्रमोदयन् ॥ २३.५६{५६} ॥
तस्यैवं रममाणस्य क्रीडतः सुचिरादपि ।
तस्यामेकोऽपि पुत्रो वा पुत्री वा नाभ्यजायत ॥ २३.५७{५७} ॥
ततः स गृहभृच्छ्रेष्ठी सन्ततिदर्शनोत्सुकः ।
तन्निराशाभिसंतप्तमूर्छितोऽभूद्यथातुरः ॥ २३.५८{५८} ॥
कपोलं स्वभुजे स्थाप्य शोकागारे व्यवस्थितः ।
संपच्चिन्ताविषण्णास्यो मनसैवं व्यचिंतयत् ॥ २३.५९{५९} ॥
हा दैव किं मया पापं सुकृतं दुःकृतं पुरा ।
यन्ममैवं विधं दुःखं सुखं चात्र प्रजायते ॥ २३.६०{६०} ॥
अनेकद्रव्यसंपत्तिसमुदितं गृहं मम ।
(र्म् २७४)
तत्र भोक्ता तु नैकोऽपि पुत्रोऽस्ति दुहितापि न ॥ २३.६१{६१} ॥
तत्सर्वं स्वापतेयं हि ममात्ययान्नराधिपः ।
अपुत्रकमिति कृत्वा सर्वस्वं सर्वथा हरेत् ॥ २३.६२{६२} ॥
यन्मयानेकयत्नेन साधितं रक्षितं च तत् ।
सर्वमेव निरर्थेन विनष्टं मे भविष्यति ॥ २३.६३{६३} ॥
तदत्र किं करिष्यामि यस्योपायं न मन्यते ।
सर्वथाहं विनष्टोऽस्मि को मां रक्षेदिहाधुना ॥ २३.६४{६४} ॥
एवं चिन्ताविषण्णास्यं स्वामिनं तं गृहाधिपम् ।
दृष्ट्वा सा रमणी भार्या समालोक्यैवमब्रवीत् ॥ २३.६५{६५} ॥
स्वामिन्नत्र किमेव त्वं तिष्ठसे दुःखचिन्तया ।
किं तव जायते दुःखं तद्वदस्व ममाग्रतः ॥ २३.६६{६६} ॥
इति भार्योदितं श्रुत्वा स गृहस्थो विनिश्वसन् ।
तं भार्यां रमणीकान्तां समालोक्यैवमब्रवीत् ॥ २३.६७{६७} ॥
प्रियेऽत्र किं वदिष्यामि यस्योपायं न मन्यते ।
यन्मेऽस्ति महती संपदस्या भोक्ता न विद्यते ॥ २३.६८{६८} ॥
नूनं मदत्ययाद्राजा ममैताः सर्वसंपदः ।
अपुत्रस्य नृपाधीना इति कृत्वा हरिष्यति ॥ २३.६९{६९} ॥
यन्ममैता महायत्नैः साधिता वन्दिता अपि ।
तत्सर्वं हि निरर्थेन विनक्ष्यति निरत्ययात् ॥ २३.७०{७०} ॥
एतन्मे जायते दुःखं तदत्र किं वदेय हि ।
को ममैतन्महच्छल्यं हृदयेऽत्र समुद्धरेत् ॥ २३.७१{७१} ॥
इति चिन्ताविषण्णात्र हृदयं दह्यते मम ।
तेनैवमत्र तिष्ठामि विषदग्धो यथातुरः ॥ २३.७२{७२} ॥
इति भर्त्रोदितं श्रुत्वा सा भार्या रमणी प्रिया ।
स्वामिनं तं समालोक्य बोधयितुं समब्रवीत् ॥ २३.७३{७३} ॥
एतदर्थे विषादत्वं मा कृथाः सर्वथा प्रिये ।
उपायां कुरु तत्प्राप्त्यै यदि संततिमिछसि ॥ २३.७४{७४} ॥
उपायमपि सिद्ध्येत देवतानां प्रसादतः ।
तद्देवताः समाराध्य याचस्व सन्ततिं मुदा ॥ २३.७५{७५} ॥
तदा देवप्रसादेन जयेन्नौ सन्ततिः खलु ।
पुत्रो वा यदि वा पुत्री जाता स्यात्सफलं भवे ॥ २३.७६{७६} ॥
इति मे वचनं श्रुत्वा कुलस्थितिं यदीछसि ।
देवताराधनं कृत्वा भजस्व संततीछया ॥ २३.७७{७७} ॥
इति भार्योदितं श्रुत्वा स गृहस्थः प्रबोधितः ।
तथेत्यभ्यनुमोदित्वा तथा कर्त्तुं समैछत ॥ २३.७८{७८} ॥
ततः स गृहभृच्छ्रेष्ठी भार्यया सह मोदितः ।
स्वकुलेशं समभ्यर्च्य सन्तानं समयाच तत् ॥ २३.७९{७९} ॥
तथापि श्रेष्ठिनस्तस्य भार्याभून्नैव गर्भिणी ।
ततः स परिखिन्नात्मा तस्थावेवं निराशया ॥ २३.८०{८०} ॥
ततः सा रमणी भार्या निराशाखिन्नमानसम् ।
स्वामिनं तं समालोक्य पुनरेवमभाषत ॥ २३.८१{८१} ॥
स्वामिन्मात्र विषादत्वं कृथा धैर्यं समाश्रय ।
विषादो क्लीयते चित्तं क्षीणद्त्तो न वीर्यभाक् ॥ २३.८२{८२} ॥
(र्म् २७५)
वीर्यं विनात्र संसारे किं चित्कार्यं न सिद्ध्यते ।
तस्माद्वीर्यं समालम्ब्य भज देवान् समाहितः ॥ २३.८३{८३} ॥
यदि पुत्रो न जाताः स्यात्पुत्री वापि न जायते ।
पुण्यं तु वर्द्ध्यते नूनं देवताराधनादपि ॥ २३.८४{८४} ॥
इति मत्वात्र संसारे सदा सौख्यं यदीछसि ।
सर्वान् देवान् समभ्यर्च्य भजस्वा श्रद्धयादरात् ॥ २३.८५{८५} ॥
इति भार्योदितं श्रुत्वा भर्त्ता श्रेष्ठी स बोधितः ।
तथेति प्रतिभाषित्वा देवानर्चितुमैछत ॥ २३.८६{८६} ॥
तथा सन्तानमिछेन् स गृहस्थो भर्य्यया मुदा ।
विधिं स्रष्टारमाराध्य संततिं समयाचत ॥ २३.८७{८७} ॥
तथापि तस्य भार्या सा गर्भिणी नोऽभवच्चिरम् ।
ततश्च स विभग्नाशस्तस्थौ शोकविषादितः ॥ २३.८८{८८} ॥
तटोऽपि भार्यया भूयः प्रेर्य्यमाणः स बोधितः ।
विश्वंभरं समभ्यर्च्य ययाच संततिं तथा ॥ २३.८९{८९} ॥
तथापि साभवन्नैव दोहदलक्षणाङ्किता ।
ततश्चासौ गृहस्थोऽभून्निराशापरिखेदितः ॥ २३.९०{९०} ॥
तथा स भार्यया भूयः प्रेरितः परिबोधितः ।
महेश्वरं समभ्यर्च्य संततिं समयाचत ॥ २३.९१{९१} ॥
तथेन्द्रं च समाराध्य प्रार्थयत्संततिं मुदा ।
एवं लोकाधिपान् सर्वान् ग्रहान् सर्वानहूरपि ।
समाराध्य समभ्यर्च्य प्रार्थयत्सन्ततिं तथा ॥ २३.९२{९२} ॥
ततश्चैवं महाकालं कुमारं च गणाधिपम् ।
भैरवं मातृकाश्चापि प्रार्थयद्वंशमर्चयन् ॥ २३.९३{९३} ॥
एवमन्यानपि देवान् विहारमण्डपाश्रयान् ।
मठसत्राश्रमारामशृंगाटकप्रतिष्ठितान् ॥ २३.९४{९४} ॥
उद्यानपर्वतारण्याक्षत्रसीमादिसंस्थितान् ।
सर्वजलाश्रयस्थांश्च सर्वान्नागाधिपानपि ॥ २३.९५{९५} ॥
रथ्याचत्वरमार्गादिप्रतिस्थितान् समुत्सुकः ।
सर्वान् देवान् समाराध्य ययाचैवं स संततिम् ॥ २३.९६{९६} ॥
तथापि श्रेष्ठिनस्तस्य भार्यायां सुचीरादपि ।
तस्यां नैवाभवत्किं चिद्दोहदोत्पत्तिलक्षणम् ॥ २३.९७{९७} ॥
ततः स गृहभृच्छ्रेष्ठी दृष्ट्वा वंशनिरन्तरम् ।
निराशाप्रतिखिन्नात्मा तस्थावेवं यथातुरः ॥ २३.९८{९८} ॥
एतद्दुःखविभिन्नास्यं दृष्ट्वा सा रमणी प्रिया ।
स्वामिनं तं समीक्षन्ती पुनरेवमभाषत ॥ २३.९९{९९} ॥
स्वामिन्नत्र विषादेन किं चित्कार्यं न सिद्ध्यते ।
इति मत्वा यथाकामं सौख्यं भुक्त्वा समाचर ॥ २३.१००{१००} ॥
यदावाभ्यां कृतं पापं तत्फलं भुज्यतेऽधुना ।
तदत्र किं करिष्यावो दैवं हि वलवान् भवे ॥ २३.१०१{१} ॥
यदभावि भवेन्नैव भावि चेन्नान्यथा क्वचित् ।
अवश्यं भाविनो भावा भवन्ति सर्वथा भवे ॥ २३.१०२{२} ॥
इति मत्वात्र संसारे भुक्त्वा सौख्यं यथेछया ।
त्रिरत्नभजनं कृत्वा चर सत्यं समाहितः ॥ २३.१०३{३} ॥
(र्म् २७६)
तेहैव सर्वदा भद्रमिहामुत्रापि सर्वतः ।
क्रमाद्बोधिपदं प्राप्य निर्वृतिं समवाप्स्यति ॥ २३.१०४{४} ॥
इति भार्यासमाख्यातं श्रुत्वा श्रेष्ठी स बोधितः ।
त्रिरत्नभजनं कृत्वा कञ्चित्कालं व्यलंघयत् ॥ २३.१०५{५} ॥
ततस्तस्य सुहृन्मित्रमुपागत्य पुरः स्थितः ।
तत्संतानसमुत्पत्यै तन्मित्रमेवमब्रवीत् ॥ २३.१०६{६} ॥
भो मित्र शृणु मे वाक्यं यत्ते हितं मयोच्यते ।
सर्वथास्यां प्रियायां ते संतानं विद्यते न हि ॥ २३.१०७{७} ॥
तदुपायं तु कर्त्तव्यं संततिं प्रतिपत्तये ।
निर्वंशस्य हि संसारे निरर्थं सर्वसाधनम् ॥ २३.१०८{८} ॥
तत्संतानसमुत्पत्यै द्वितीयं पुत्रभाविनीम् ।
अपरां युवतीं भार्यां विवह विधिना पुनः ॥ २३.१०९{९} ॥
कदा चित्तव भाग्येन सा पुत्रं जनयेदपि ।
तदा ते सफलं जन्मः कुलस्थितिर्भवेदपि ॥ २३.११०{१०} ॥
इति मित्रोदितं श्रुत्वा स गृहस्थः प्रबोधितः ।
तथा हीति प्रतिज्ञाय तं मित्रमभ्यमानयत् ॥ २३.१११{११} ॥
ततः स गृहभृच्छ्रेष्ठी निरीक्ष्य पुत्रभाविनीम् ।
अपरां युवतीं कांतामुपयेमे यथाविधिः ॥ २३.११२{१२} ॥
ततः स कुलिकः श्रेष्ठी तया सार्द्धं प्रमोदितः ।
यथाकामं सुखं भुक्त्वा रराम परिचारयन् ॥ २३.११३{१३} ॥
ततस्तस्य गृहस्थस्य यथाकामं प्रभुंजतः ।
समये सा प्रिया भार्या वभूव गर्भिणीऽचिरात् ॥ २३.११४{१४} ॥
ततः क्रमात्प्रवृद्धोऽभूद्गर्भस्तस्या दिने दिने ।
तदा सा गर्भसंजातं परिज्ञायाभ्यनन्दत ॥ २३.११५{१५} ॥
ततः सा भद्रिका कान्ता स्वामिनं तं प्रमोदिता ।
रहसि समुपामंत्र्य समालोक्यैवमब्रवीत् ॥ २३.११६{१६} ॥
दिष्ट्यार्य्यपुत्र वृद्धोऽसि गर्भे मे जायते शिशुः ।
दक्षिणपार्श्वसंस्थायत्तदयं दारको भवेत् ॥ २३.११७{१७} ॥
इति भार्योदितं श्रुत्वा स गृहस्थोऽभिनंदितः ।
सव्यवाहुं समुत्सार्य मुदैवं समुदाहरत् ॥ २३.११८{१८} ॥
हा मेऽभिलषितं सिद्ध्येत्पश्येयं संततेर्मुखम् ।
सांप्रतं नावजातोऽस्मि कुलस्थितिर्भवेदपि ॥ २३.११९{१९} ॥
कृत्यानि मे प्रकुर्वीत विभृयाच्च भृतः प्रति ।
दायाद्यं प्रतिपद्येत वंशो पि स्याच्चिरस्थितः ॥ २३.१२०{२०} ॥
यन्मया प्रकृतं दानं यच्च पुण्यं प्रसाधितम् ।
एतद्विपाककौशल्यमेतयोरनुगछतु ॥ २३.१२१{२१} ॥
एवं स मुदितः श्रेष्ठी तां भार्यां भद्रिकां प्रियाम् ।
सुपथ्योपचारसंयुक्तैराहारैः समपोषयत् ॥ २३.१२२{२२} ॥
दूष्यैश्चीनांशुकैः पट्टैः कोमलैस्सौरभान्वितैः ।
नानारत्नाभ्यलंकारैर्मण्डयित्वाभ्यमोदयत् ॥ २३.१२३{२३} ॥
एवं तां भद्रिकां कान्तां पथ्योपचारभूषणैः ।
पोषितां मण्डितां कृत्वा प्रामाणयत्प्रसादयन् ॥ २३.१२४{२४} ॥
(र्म् २७७)
एवं तां गर्भिणीं भर्तुर्बहुमानाभिनंदिताम् ।
दृष्ट्वा सा प्रथमा भार्या भूय एवं व्यचिंतायत् ॥ २३.१२५{२५} ॥
यद्येषा युवती कांता जनयेदतिसंततिम् ।
तदेतत्सर्वसंपत्तिरधीनास्या भवेदपि ॥ २३.१२६{२६} ॥
एषैव हि प्रधाना स्यात्सर्वलोकप्रमाणिका ।
कोऽपि प्रमाणयेन्नैव जरतीं मामपुत्रिताम् ॥ २३.१२७{२७} ॥
तदत्रास्याः सपत्न्या मे यथा स्याद्गर्भशातनम् ।
तथोपायं प्रकर्त्तव्यं सुगुप्तेन मयाधुना ॥ २३.१२८{२८} ॥
कामरागाग्नितप्तस्य नास्ति किं चिद्धि पातकम् ।
सर्वमपि प्रकर्त्तव्यं भोक्तव्यं सर्वतोऽपि च ॥ २३.१२९{२९} ॥
ततः सा प्रमदा दुष्टा तस्या गर्भाभिशातनम् ।
द्रयं पानाभिसंयुक्तं ददौ विश्रम्भवादिनी ॥ २३.१३०{३०} ॥
तत्सपत्न्यार्पितं पानं दृष्ट्वा सा भद्रिकार्जवा ।
हस्ताभ्यां सहसादाय पपौ तृष्णार्दिता यथा ॥ २३.१३१{३१} ॥
तदेतत्पीतमात्रेण तस्या गर्भो विघूर्णितः ।
सहसाभिद्रवीभूतः प्रसश्रावाभ्यशोषतः ॥ २३.१३२{३२} ॥
ततः सा भद्रिका नारी भर्त्तारं तं सबांधवम् ।
सहसा समुपामंत्र्य पुनरेवं न्यवेदयत् ॥ २३.१३३{३३} ॥
स्वामिंस्तवानया पत्न्या प्रियया गर्भशातनम् ।
पानमौषधसंयुक्तं सादरं मे प्रदीयते ॥ २३.१३४{३४} ॥
तत्तद्दत्तं सविश्वासं गृहीत्वा पीयते मया ।
तत्पानपीतमात्रेण गर्भो मे स्रस्यतेऽधुना ॥ २३.१३५{३५} ॥
तदत्र किं करिष्यामि यतो मे नश्यते शिशुः ।
यदर्थं प्रकृतं दानं तत्सर्वं निस्फलं तव ॥ २३.१३६{३६} ॥
इत्याख्यातं तया पत्न्या श्रुत्वा श्रेष्ठी स रोषितः ।
तां सहसाहूय परिभाष्यैवमालपत् ॥ २३.१३७{३७} ॥
हा रे रे दुर्मते दुष्टे घोरपातकसाधिनी ।
एवमपि महाघोरं पातकं प्रकृतं त्वया ॥ २३.१३८{३८} ॥
यदर्थे देवताः सर्वास्समाराध्याभियाचिताः ।
नानाविधानयत्नानि प्रकृतानि ममानिशम् ॥ २३.१३९{३९} ॥
सर्वाण्येतानि यत्नानि त्वया व्यर्थीकृतानि हि ।
तदत्र किं त्वया पत्न्या पापिष्ठया व्रजाधुना ॥ २३.१४०{४०} ॥
मया त्वं पापिनी त्यक्ता मा तिष्ठेह गृहे मम ।
इत्युक्तं स्वामिना तेन श्रुत्वा सा दुरिताशया ।
सज्ञातेः स्वामिनस्तस्य पुररेवमभाषत ॥ २३.१४१{४१} ॥
किमेवं वदसे स्वामिन्न मयेदं कृतं खलु ।
मया न मन्यते नूनं तदिदं त्वं विचारय ॥ २३.१४२{४२} ॥
यदि दत्तं मया द्रव्यमस्या गर्भाभिशातनम् ।
प्रेतीभूतात्मजान् पुत्राञ्जातां जातान् दिवानिशम् ॥ २३.१४३{४३} ॥
प्रभुक्त्वैवं महद्दुःखे चिरेयु दुर्गतौ सदा ।
इत्येवं शपथं कृत्वा स्वामिनं तमबोधयत् ॥ २३.१४४{४४} ॥
इति प्रोक्तं तया पत्न्या श्रुत्वा श्रेष्ठी स बोधितः ।
(र्म् २७८)
चिराशापरिमुक्तात्मा मृता प्रेतालये यायौ ॥ २३.१४५{४५} ॥
एषैव प्रेतिका श्रेष्ठिभार्या दुराशया ।
स्वकृतकर्मभोग्यानि भुक्त्वैवं भ्रमतेऽधुना ॥ २३.१४६{४६} ॥
यदीर्ष्यया तया तस्याः प्रकृतं गर्भशातनम् ।
तेन सा दुष्कृताकारा प्रेतीभूता चरत्यपि ॥ २३.१४७{४७} ॥
यच्च तया मृषावाचा शपथः प्रकृता यथा ।
तथा तत्कर्मपाकेन दुर्गतौ भ्रमते सदा ॥ २३.१४८{४८} ॥
पंचपुत्रान् दिवारात्रिं प्रसूय सा क्षुधान्विता ।
सर्वांस्तां स्वात्मजान् वालानपि भुक्त्वा न तृप्यते ॥ २३.१४९{४९} ॥
एवं सा पापिनी प्रेती जातां जतांस्तथात्मजान् ।
भुक्त्वा क्षुधाग्निसंदगधा भ्रमेत्प्रेतालये सदा ॥ २३.१५०{५०} ॥
एवं नारद विज्ञाय विरम्य पातकात्सदा ।
मृषावादाच्च सद्धर्मे चरितव्यं शुभार्थिभिः ॥ २३.१५१{५१} ॥
सद्धर्मस्य विपाके हि सर्वदा मंगलं भवे ।
पातकस्य सदा दुःखं विश्रिते स्य तथोभयम् ॥ २३.१५२{५२} ॥
इति मत्वा सदा यूयं त्रिरत्नं शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं प्रभजध्वं समाहिताः ॥ २३.१५३{५३} ॥
ये बुद्धशरणं कृत्वा भजन्ति श्रद्धया मुदा ।
ते सर्वे दुर्गतिं हित्वा संप्रयान्ति जिनालये ॥ २३.१५४{५४} ॥
ये च शृण्वन्ति सद्धर्मं मानयन्ति च सादरम् ।
तेऽपि क्लेशान् विनिर्जित्य संयांति सौगतालये ॥ २३.१५५{५५} ॥
ये संघं शरणं कृत्वा सत्कृत्य प्रभजन्ति ते ।
सर्वेऽपि दुर्गतेर्मुक्त्वा संप्रयान्ति सुखावतीम् ॥ २३.१५६{५६} ॥
एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ २३.१५७{५७} ॥
इत्यादिष्टं मुनींद्रेण श्रुत्वा स नारदः सुधीः ।
ससंघः सर्वदा लोकाश्च तथेति प्रत्यपद्यत ॥ २३.१५८{५८} ॥
ततः स नारदो भिक्षुः कृतांजलिः पुरोगतः ।
भगवंतं प्रणत्वा च पप्रछ तद्विशोधनम् ॥ २३.१५९{५९} ॥
भगवन् सा पापिनी प्रेती ततः प्रेतालयात्कदा ।
तद्घोरपातकान्मुक्ता संयायात्सद्गतौ कथम् ॥ २३.१६०{६०} ॥
तदुपायं जगच्छास्त समुपादेष्टुमर्हति ।
येनासौ दुर्गातेर्मुक्ता सहसा सद्गतिं व्रजेत् ॥ २३.१६१{६१} ॥
इति संप्रार्थिते तेन नारदेन स सर्ववित् ।
भगवांस्तं सभां चापि समालोक्यैवमादिशत् ॥ २३.१६२{६२} ॥
शृणु नारद तस्यास्तत्पातकपरिशोधनम् ।
उपायं समयं चापि प्रवक्ष्याम्यधुना तथा ॥ २३.१६३{६३} ॥
यदा लोकेश्वरो नाथः सर्वसत्वानुकंपकः ।
बोधिसत्वो महासत्वस्त्रैधातुकाधिपेश्वरः ॥ २३.१६४{६४} ॥
सुखावत्या विनिर्गत्य सर्वाल्लोकान् प्रभासयन् ।
सर्वान् सत्वान् समुद्धर्तुं प्रेतलोके समाचरेत् ॥ २३.१६५{६५} ॥
तदा तत्प्रभया स्पृष्टा सातिसौख्यसमन्विता ।
किमद्य मे महत्सौख्यमिति प्रोक्त्वाभ्यचिंतयत् ॥ २३.१६६{६६} ॥
(र्म् २७९)
अहो सौख्यं समुत्पन्नं प्रभावेयं प्रसारिता ।
नूनमत्र महासत्वः सत्वानुद्धर्तुमागताः ॥ २३.१६७{६७} ॥
यस्येदृक्सत्कृपादृष्टिः सत्वेष्वेवं प्रसर्य्यति ।
तस्यैव शरणं गत्वा भजेयं सर्वदादरात् ॥ २३.१६८{६८} ॥
इति ध्यात्वा विनिश्चित्य सा प्रेती प्रतिविस्मिता ।
तस्यैवा स्मरणं कृत्वा तिष्ठे दृष्टं समुत्सुका ॥ २३.१६९{६९} ॥
तदा स भगवांस्तत्र लोकनाथः कृपामयः ।
प्रेतलोकान् समूद्धर्तुमुपाचरेत्प्राभासयः ॥ २३.१७०{७०} ॥
तं प्रभासंतमायातं दृष्ट्वा सर्वेऽपि प्रेतकाः ।
सहसा समुपेत्यैवं प्रार्थयेयुः समादरात् ॥ २३.१७१{७१} ॥
स्वागतं भगवन्नाथ प्रसीद परमेश्वर ।
कृपयास्मान् समालोक्य प्रेतलोकान् समुद्धर ॥ २३.१७२{७२} ॥
सर्वदा भवतामेव शरणं संव्रजामहे ।
तत्कृत्वा परिशुद्धान्नः सर्वा प्रेरय सद्गतौ ॥ २३.१७३{७३} ॥
इति तत्प्रार्थिते सर्वे लोकनाथः कृपानिधिः ।
सद्धर्मं समुपादिश्य पुनरेवमुपादिशेत् ॥ २३.१७४{७४} ॥
यदीछथ सदा सौख्यं यूयं सर्वे समाहिताः ।
त्रिरत्नं स्मरणं कृत्वा भजत श्रद्धया मुदा ॥ २३.१७५{७५} ॥
तदैतत्पातकैर्मुक्तास्सर्वे यूयं पवित्रिताः ।
सहसा सद्गतिं प्राप्ता भवेत बोधिचारिणः ॥ २३.१७६{७६} ॥
इत्यादिष्टं जगच्छास्त्रा लोकनाथेन तेन ते ।
सर्वेऽपि प्रेतिकाः श्रुत्वा तथा कर्तुं समीछिरे ॥ २३.१७७{७७} ॥
तदा ते प्रेतिकाः सर्वे परिशुद्धाशया मुदा ।
त्रिरत्नं शरणं कृत्वा स्मृत्वा भजेयुरानताः ॥ २३.१७८{७८} ॥
तदा तत्स्मृतिपुण्येन सर्वे ते प्रेतिकास्ततः ।
प्रेतलोकात्समुत्थाय संयास्यन्ति सुखावतीम् ॥ २३.१७९{७९} ॥
तत्रामिताभनाथस्य सर्वे ते शरणं गताः ।
भजन्तो धर्ममाकर्ण्य चरिष्यंति शुभाचरिम् ॥ २३.१८०{८०} ॥
ततः सर्वेऽपि ते सत्वा बोधिसत्वाः शुभंकराः ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयुः ॥ २३.१८१{८१} ॥
तदा सा पापिनी प्रेती सर्वपापविमोचिता ।
प्रेतलोकात्समुत्थाय सद्गतिं समवाप्स्यति ॥ २३.१८२{८२} ॥
एवं मत्वात्र संसारे सद्गतिं सुखवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ २३.१८३{८३} ॥
त्रिरत्नभजनोद्भूतं पुण्यं न क्षिणुयात्क्वचित् ।
सर्वक्लेशान् विनिर्दह्य प्रापयेत्सौगतं पदम् ॥ २३.१८४{८४} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स नारदो यतिः ।
ससांघिकसभालोकस्तथेति प्राभ्यनंदत ॥ २३.१८५{८५} ॥
इति मे गुरुणादिष्टं मयात्र वक्ष्यते ।
मत्वा राजंस्त्वमप्येवं त्रिरत्नं भज सर्वदा ॥ २३.१८६{८६} ॥
प्रजाश्चापि तथा धर्मं श्रावायित्वा प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ २३.१८७{८७} ॥
(र्म् २८०)
ततस्ते सर्वदा भद्रं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं शिवां प्राप्य संबुद्धपदमाप्नुयाः ॥ २३.१८८{८८} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोको नराधिपः ।
तथा हीति प्रतिज्ञाय प्राभ्यनन्दत्सपार्षदः ॥ २३.१८९{८९} ॥
ये चेदं प्रेतिकायाः सुगतकथितमिदं श्रद्धया येऽवदानं शृण्वंति श्रावयन्ति प्रमुदितमनसस्ते नराः सर्व एवम् ।
कृत्वा रत्नत्रयस्य प्रभजनमनिशं बोधिचित्तं समाप्य कृत्वा लोकेषु भद्रं सकलगुणभरा बौद्धलोके प्रयान्ति ।
++ इति रत्नावदानतत्वे प्रेतिकायाः कथा समाप्तम् ++
(र्म् २८१)
xxइव्प्रेतीभूतमहर्द्धिकावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं यतिं नत्वा प्रार्थयच्च तथादरात् ॥ २४.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथा मे समुपादिश ॥ २४.२{२} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हं सुधीर्यतिः ।
नृपतिं तं महीपालं संपश्यन्नेवमादिशत् ॥ २४.३{३} ॥
साधु शृणु महाराज यथा मे गुरुणोदितम् ।
तथाहं संप्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ २४.४{४} ॥
तद्यथा भगवाञ्छास्ता श्रीघनः स मुनीश्वरः ।
सर्वज्ञः सुगतो नाथो धर्मराज विनायकः ॥ २४.५{५} ॥
भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश्च चैलकैः ।
उपासकैः शुभाचारैरुपासिकागणैरपि ॥ २४.६{६} ॥
बोधिसत्वैर्महासत्वैस्तथान्यैर्बोधिवांछिभिः ।
ब्रह्मदेवासुरेन्द्रैश्च यक्षगंधर्वकिंनरैः ॥ २४.७{७} ॥
सिद्धैर्विद्याधरैश्चापि नागेन्द्रै गरुडैरपि ।
सर्वै लोकाधिपैश्चापि तथान्यैश्च महर्षिभिः ॥ २४.८{८} ॥
ब्राह्मणै राजभि राजकुमारैश्च शुभार्थिभिः ।
वैश्यै मंत्रिगणैश्चापि तथामात्यगणैरपि ॥ २४.९{९} ॥
श्रेष्ठिभिः पौरिकैश्चपि गृहस्थैश्च महाजनैः ।
वणिग्भिः सार्थवाहैश्च तथा शिल्पिगणैरपि ॥ २४.१०{१०} ॥
ग्राम्यै जानपदैश्चापि कार्पटिकैः सतीर्थिकैः ।
तथान्यैः सुजनै विज्ञैः सद्धर्मगुणवांछिभिः ॥ २४.११{११} ॥
सेविताभ्यर्चितस्तत्र वेणुवने मनोरमे ।
करंदकनिवापाख्ये विहारे सौगताश्रमे ॥ २४.१२{१२} ॥
सद्धर्मं समुपादिश्य विजहार प्रभासयन् ।
सर्वसत्वहितार्थेन रत्नराशिमिवोज्वलन् ॥ २४.१३{१३} ॥
तदैव समये तत्र राजगृहे पुरोत्तमे ।
आसीद्गृहपते श्रेष्ठी महाजनो महाधनः ॥ २४.१४{१४} ॥
श्रिमां श्रीदोपमः सर्वद्रव्यसंपत्समान्वितः ।
स सदृशात्कुला भार्यां स्वकुलधर्मचारिणीम् ॥ २४.१५{१५} ॥
सुभद्रांगां समानीय विधिनोदवहन्मुदा ।
ततः स गृहभृत्कन्ता भार्यया कांतया तथा ॥ २४.१६{१६} ॥
यथाकामं रतिं भुक्त्वा चक्रीड परिचारयन् ।
ततस्तस्य गृहस्थस्य यथाकामं प्रभुंजतः ॥ २४.१७{१७} ॥
समये सा प्रिया भार्या बभूव गर्भधारिणी ॥ २४.१८{१८} ॥
(र्म् २८२)
ततः सा समयेऽसूत दारकं सुंदरांशिकम् ।
तच्छ्रुत्वा स पिता श्रेष्ठी मुदा द्रष्टुमुपाचरन् ॥ २४.१९{१९} ॥
तत्र स समुपेत्याशु दारकं तं शुभांशिकम् ।
दृष्ट्वा संमुदितः पश्यन्नेव तस्थावतृप्तितः ॥ २४.२०{२०} ॥
ततो ज्ञातीन् समाहूय कृत्वा जातिमहं शिशोः ।
अस्य नामप्रसिद्धेन क्रियतामित्यभाषत ॥ २४.२१{२१} ॥
तच्छ्रुत्वा ज्ञातयः सर्वे ते कृत्वा समतं तथा ।
तं श्रेष्ठिनं समाहूय पुर एवं समब्रुवन् ॥ २४.२२{२२} ॥
यदयं दारको जातो नक्षत्र उत्तराभिधे ।
तेनोत्तर इति ख्यातो भवतु भवदात्मजः ॥ २४.२३{२३} ॥
इति तैर्ज्ञातिभिः ख्यातं श्रुत्वा स गृहभृत्तथा ।
तेनैव नामधेयेन प्राख्यापयत्तमात्मजम् ॥ २४.२४{२४} ॥
ततः स दारकोऽष्टाभि धात्रिभिः प्रतिपालितः ।
दिने दिने प्रवृद्धोऽभू ह्रदस्थमम्बुजं यथा ॥ २४.२५{२५} ॥
ततः प्रवर्द्धमानः स गुरुभिः शिक्षितः क्रमात् ।
लिप्यादि सर्वविद्यानां द्रुतं पारं समाययौ ॥ २४.२६{२६} ॥
तदा स उत्तरो विज्ञः सवयोभिः सहान्वितः ।
चरमानः पुरे तत्र लोकमनोहरो वभौ ॥ २४.२७{२७} ॥
यदा स उत्तरः प्रौढयौवनमदनाश्रयः ।
तदा तस्य पिता श्रेष्ठी दैवात्कालं समाययौ ॥ २४.२८{२८} ॥
ततस्तस्य गृहे तत्र स उत्तरस्तदात्मजः ।
स्वामी संपत्तिसंप्राप्तो गृहि लोकाधिपोऽभवत् ॥ २४.२९{२९} ॥
ततः स कुलवृत्तिस्थो व्यवहारविचक्षणः ।
क्रयविक्रयकार्याणि कृत्वा द्रव्यं समर्जयत् ॥ २४.३०{३०} ॥
स एकस्मिन् दिने तत्र वेणुवने जिनाश्रमे ।
संबुद्धं श्रीघनं द्रष्टुं धर्मार्थी समुपाचरत् ॥ २४.३१{३१} ॥
तत्र स समुपासृत्याद्राक्षीत्तं श्रीघनं मुनिम् ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमंडितम् ॥ २४.३२{३२} ॥
व्यामप्रभाविरोचंतं समंतभद्ररूपिणम् ।
रत्नराशिमिवोज्वालं रत्नाद्रिमिव जंगमम् ॥ २४.३३{३३} ॥
सभामध्यासनासीनं भिक्षुसंघपुरस्कृतम् ।
धर्मामृतप्रवर्षन्तं सर्वलोकैर्नमस्कृतम् ॥ २४.३४{३४} ॥
दृष्ट्वा स मुदितस्तत्र सांजलिः पुरतो व्रजन् ।
पादौ तस्य मुनीन्द्रस्य प्रणत्वैकान्त आश्रयन् ॥ २४.३५{३५} ॥
तत्र तस्याशयं शुद्धं दृष्ट्वा स भगवांस्तथा ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ २४.३६{३६} ॥
तत्सद्धर्मामृतं पीत्वा स उत्तरः प्रमोदितः ।
पुनः पादौ मुनेर्नत्वा प्रत्याययौ स्वमालयम् ॥ २४.३७{३७} ॥
एवं स उत्तरो विज्ञः प्रतिदिनं जगद्गुरोः ।
द्रष्टुं धर्मामृतं वापि पातुं नित्यमुपाचरत् ॥ २४.३८{३८} ॥
तथा तस्य मुनीन्द्रस्य पीत्वा धर्मामृतं तदा ।
(र्म् २८३)
संबुद्धशासने तत्र प्रव्रजितुं समैछत ॥ २४.३९{३९} ॥
ततः स उत्तरस्तस्य मुनीन्द्रस्य पुरोगतः ।
पादाब्जौ सांजलिर्नत्वा प्रव्रज्यां समयाचत ॥ २४.४०{४०} ॥
भगवन्नाथ सर्वज्ञ भवतां शरणं व्रजे ।
तत्प्रव्रज्यां व्रतं मह्यं दातुमर्हति सांप्रतम् ॥ २४.४१{४१} ॥
इति संप्रार्थिते तेन भगवान्मुनीश्वरः ।
उत्तराख्यं कुमारं तं समालोक्यैवमादिशत् ॥ २४.४२{४२} ॥
कुमार शासने बौद्धे प्रव्रजितुं यदीछसि ।
अनुज्ञां मातुरासाद्य प्रागछ दास्यते तदा ॥ २४.४३{४३} ॥
इत्यादिष्टे मुनीन्द्रेण स उत्तरः प्रबोधितः ।
तथेति चरणौ तस्य मुनेर्नत्वा गृहं ययौ ॥ २४.४४{४४} ॥
तत्र गृहे समासाद्य स उत्तरः प्रमोदितः ।
जनन्याश्चरणौ नत्वा सांजलिरेवमब्रवीत् ॥ २४.४५{४५} ॥
मातरद्य विहारेऽहं गछामि सौगताश्रमे ।
तत्र शास्तु मुखाब्जोत्थमार्यधर्मामृतं पिबे ॥ २४.४६{४६} ॥
तत्सद्धर्मामृतं पीत्वा तृष्णा मे वर्द्ध्यते पुनः ।
तत्सद्धर्मं समालब्धुमिछामि परितुष्टये ॥ २४.४७{४७} ॥
धन्यास्ते हि शुभात्मानः परिशुद्धत्रिमंडलाः ।
संबुद्धशासने स्थित्वा सदा धर्मं पिबन्ति ये ॥ २४.४८{४८} ॥
अहमपि सदा तत्र संबुद्धशासने चरन् ।
तत्सद्धर्मामृतं लब्धुमिछामि जननी ध्रुवम् ॥ २४.४९{४९} ॥
तत्प्रव्रज्याव्रतं धृत्वा चरितुं सौगताश्रमे ।
इछामि सांप्रतं मातस्तदनुज्ञां प्रदेहि मे ॥ २४.५०{५०} ॥
इति पुत्रादितं श्रुत्वा मता सा प्रहताशया ।
चिरं तमात्मजं दृष्ट्वा रुदन्त्यैवमभाषत ॥ २४.५१{५१} ॥
किमेव वदसे पुत्र मैवं मे पुरतो वदः ।
किमर्थं स्वगृहं त्यक्त्वा प्रव्रजितु त्वमिछसि ॥ २४.५२{५२} ॥
किं ते दुःखं कुतो जातं मया किं चिन्न दृश्यते ।
त्वया तु दृश्यते यत्तद्वक्तव्यं पुरतो मम ॥ २४.५३{५३} ॥
अद्यापि तव तातस्य शोकाधिः शाम्यते न मे ।
तथापि मां कथं त्यक्तुमिछसि सांप्रतं सुते ॥ २४.५४{५४} ॥
इति मात्रोदितं श्रुत्वा स उत्तरः कुमारकः ।
मातरं तं समालोक्य बोधयितुं समब्रवीत् ॥ २४.५५{५५} ॥
मातस्त्वत्कृपया मेऽत्र किं चिद्दुःखं न विद्यते ।
गृहेऽपि महती संपदस्ति भोग्यं यथेछया ॥ २४.५६{५६} ॥
अनित्यं खलु संसारं क्षणध्वंसि शरीरकम् ।
अनित्यं जीवितं विद्युत्संपातमिव न ध्रुवम् ॥ २४.५७{५७} ॥
संपच्चापि स्थिरा नैवं कस्य श्री सर्वदा स्थिरा ।
सर्वेषामपि जंतूनां सर्वत्र मरणं ध्रुवम् ॥ २४.५८{५८} ॥
सर्वेऽपि प्राणिनः काले त्यक्त्वा सर्वान् परिग्रहान् ।
ज्ञातिवंधुसुहृत्मित्रान्नपि यांति यमालयैः ॥ २४.५९{५९} ॥
(र्म् २८४)
एकोऽपि विद्यते नैव मृत्युप्राप्ते सहानुगः ।
धर्म एव तदैकः स्यात्त्रातानुगो यमालये ॥ २४.६०{६०} ॥
धर्मेण रक्ष्यते तत्र यमदूतैरधिष्ठिते ।
तदत्र सर्वथा नित्यं कर्त्तव्यं धर्ममेव हि ॥ २४.६१{६१} ॥
धर्मवान्नत्र संसारे भ्रमन्नपि सदा सुखी ।
सर्वत्र सत्सुखान्येव प्रभुक्त्वा याति सद्गतिम् ॥ २४.६२{६२} ॥
तत्रापि सर्वदा सौख्यं भुक्त्वा कृत्वा च मंगलम् ।
सर्वसत्वहितार्थेन सद्धर्माण्येव साधयेत् ॥ २४.६३{६३} ॥
एतत्पुण्यविपाकैः स सद्गुरुं समुपाश्रयेत् ।
सद्गुरोस्तु प्रसादेन बोधिचित्तं लभेत्तदा ॥ २४.६४{६४} ॥
ततो बोधिचरीं प्राप्य बोधिसत्वो भवेत्सुधीः ।
ततः सत्वहितार्थेन बोधिचर्यां समाचरेत् ॥ २४.६५{६५} ॥
ततः पारमिताः सर्वाः परिपूर्य यथाक्रमम् ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयात् ॥ २४.६६{६६} ॥
इत्यादिष्टं मुनीन्द्रेण सर्वज्ञेन हितार्थिना ।
श्रुतं मया परिज्ञाय तथा चरितुमिछ्यते ॥ २४.६७{६७} ॥
एतत्पुण्यविभागत्वमपि प्राप्तुं यदीछसि ।
तदनुज्ञां प्रदत्वा मे चित्तं मातः प्रतोषय ॥ २४.६८{६८} ॥
इति पुत्रोदितं श्रुत्वा माता सा विहताशया ।
वियोगदुःखसंकार्त्ता विलपन्त्येवमब्रवीत् ॥ २४.६९{६९} ॥
हा पुत्र कथमेकान्ते मां विहातुं त्वमिछसि ।
नान्यो मे विद्यते पुत्रस्त्वमेवैकोऽस्ति नंदनः ॥ २४.७०{७०} ॥
पितापि तव मां त्यज्य दैवाद्यातो यमालयम् ।
त्वमपि मां परित्यक्त्वा कुत्र गंतुं तथेछसि ॥ २४.७१{७१} ॥
हा पुत्र कथमज्ञोऽसि केनात्र त्वं प्रवंच्यसे ।
किं पश्यन् हेतुना केन प्रव्रजितुं त्वमिछसि ॥ २४.७२{७२} ॥
हा पुत्र केन मूढोऽसि यदेता द्रव्यसंपदः ।
त्यक्त्वा परगृहे भिक्षां याचित्वा भोक्तुमिछसि ॥ २४.७३{७३} ॥
हा पुत्र त्वं कुमारोऽसि तत्प्रव्रज्यां चरेः कथम् ।
प्रव्रजितो गृहं त्यक्त्वा बहिर्देशे सदाश्रयेः ॥ २४.७४{७४} ॥
तत्कथं त्यक्त्वा बहिर्देशे समाश्रयेः ।
शाणकंटावृतो मुंदो मृत्वात्र धरेश्वरः ॥ २४.७५{७५} ॥
शीतवातातपाक्रान्ते कथं दुःखं सहेः सुत ।
क्षुत्पिपासाग्निसंतप्तः दुःखं कस्तेऽभिशामयेत् ॥ २४.७६{७६} ॥
श्मशानेषु शवान्यस्यन् कथमेकश्चरेः सुत ।
जंगले निर्जनेऽरण्ये एकाकी निवसेः कथम् ॥ २४.७७{७७} ॥
तथा भूतालये शून्यगेहेव निवसेः कथम् ।
तथामित्रेषु देशेषु कथमेकोरिव च्चरे ॥ २४.७८{७८} ॥
ज्वरादि रोगसंतप्ते कस्तव परिचारयेत् ।
को वा ते कृपया दद्यात्पथ्यमाहारमौषधम् ॥ २४.७९{७९} ॥
यदि दैवाद्विपत्तिः स्यात्तदा कः परिशोधयेत् ।
इति समीक्ष्य मा पुत्र प्रव्रज्याव्रत उत्सह ।
(र्म् २८५)
ममात्र वचनं श्रुत्वा सुखं भुक्त्वा गृहे वस ॥ २४.८०{८०} ॥
इति मात्रोदितं श्रुत्वा स पुत्रश्चैवमब्रवीत् ।
दैवभावा भवन्त्येव सर्वत्रापि जगत्स्वपि ॥ २४.८१{८१} ॥
एकोऽपि विद्यते नात्र सुहृन्मित्रसहानुगः ।
धर्म एव सहायः स्यात्सर्वत्र मरणे ध्रुवम् ॥ २४.८२{८२} ॥
इति सद्धर्मसंप्राप्त्यै प्रव्रज्याव्रतमुत्तमम् ।
चरितव्यं भवेद्विज्ञैर्निर्वृतिपदवांछिभिः ॥ २४.८३{८३} ॥
इति तेन मुनीन्द्रेण समादिष्टं निशम्यते ।
मात तस्मा तथात्रैतद्व्रतं चरितुमिछ्यते ॥ २४.८४{८४} ॥
तदत्र सौगते धर्मे मां नियोक्तुं यदीछसि ।
तदनुज्ञां प्रदानं मे कृपया दातुमर्हति ॥ २४.८५{८५} ॥
इति पुत्रार्थितं श्रुत्वा माता सा गद्गदस्वरा ।
स्नेहदुःखाग्निसंतप्ता दृष्ट्वैवं सुतमब्रवीत् ॥ २४.८६{८६} ॥
हा पुत्र कथमेव त्वं निर्दयास्यतिनिष्ठुरः ।
यद्वृद्धां जननीं दृष्ट्वा कारुण्यं नास्ति ते हृदि ॥ २४.८७{८७} ॥
तदत्र यदि ते पुत्र दयास्ति मयि मातरि ।
यावज्जीवाम्यहं तावद्गृहे वस मया सह ॥ २४.८८{८८} ॥
यावच्चैतन्महत्संपत्स्वगृहे स्थिरा तव ।
तावद्यथेप्सितं सौख्यं भुक्त्वा रमं समाचर ॥ २४.८९{८९} ॥
अवश्यं मरणं यायां कस्य मृत्युर्भवे न हि ।
तदा मयि मृतायां तु प्रव्रजस्व यथेछया ॥ २४.९०{९०} ॥
संपच्चापि भवेत्क्षीणा कस्य संपत्सदा स्थिरा ।
तदा संपत्परिक्षीणे भिक्षान्नादो व्रतं चर ॥ २४.९१{९१} ॥
यद्येवं प्रार्थितेऽपि त्वं विलंघ्य वचनं मम ।
निर्दयानिष्ठुरस्वान्तः प्रव्रजसि हठादपि ॥ २४.९२{९२} ॥
तदाहं ते पुरोगत्वा सौगतशासनेऽपि हि ।
त्यक्त्वाहारं विषं भुक्त्वा यास्यामि मरणं ध्रुवम् ॥ २४.९३{९३} ॥
इति मे वचनं सत्यं विज्ञायेह त्वमात्मज ।
मया सह गृहे सौख्यं भुक्ष्व कुत्रापि मा व्रज ॥ २४.९४{९४} ॥
इति मे वचनं श्रुत्वा यथाकामं सुखं गृहे ।
भुक्त्वा नित्यं सदोत्साहैश्चरं रम स्वमात्मज ॥ २४.९५{९५} ॥
इति मात्रोदितं श्रुत्वा स उत्तरोऽभिशंकितः ।
तथेति प्रतिबुद्धित्वा तस्थौ गेहे निराशितः ॥ २४.९६{९६} ॥
ततश्चैकदिने प्रातः समुत्थाय स उत्तरः ।
संबुद्धं तं मुनिं द्रष्टुं विहारे समुपाचरत् ॥ २४.९७{९७} ॥
तत्र तं श्रीघनं दृष्ट्वा स उत्तरः प्रमोदितः ।
नत्वा प्रदक्षिणीकृत्य सांजलिस्समुपाश्रयत् ॥ २४.९८{९८} ॥
ततः स भगवांच्छास्ता दृष्ट्वा तस्य मनोगतम् ।
बोधयितुं समालोक्य तमेवं समुपालपत् ॥ २४.९९{९९} ॥
कुमार किं विषण्णोऽसि यन्मनोऽन्तर्गतं तव ।
तन्ममाग्रे समाख्याहि पूरयामि यदीहितम् ॥ २४.१००{१००} ॥
इत्यादिष्टे मुनीन्द्रेण स उत्तरः समुत्थितः ।
पादौ तस्य मुनेर्नत्वा सांजलिरेवमब्रवीत् ॥ २४.१०१{१} ॥
(र्म् २८६)
सर्वज्ञ भगवञ्छास्तर्विजानीयाद्भवान्मम ।
यन्मनोऽन्तर्गतं सर्वं यथाप्यहं निवेदये ॥ २४.१०२{२} ॥
भगवन्नाथ सर्वज्ञ न मे माता प्रबोधिता ।
तदनुज्ञां न मे दातुमिछति प्रार्थितापि सा ॥ २४.१०३{३} ॥
तद्भवान्मे यथा योग्यं व्रतं संबोधिसाधनम् ।
अन्यथापि प्रदत्वात्र प्रबोधयितुमर्हति ॥ २४.१०४{४} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
तं विशुद्धाशयं दृष्ट्वा समाश्वास्यैवमादिशत् ॥ २४.१०५{५} ॥
मा कुमार विषादत्वं कृथा धैर्यं समाश्रय ।
अवश्यं समये प्राप्ते ब्रह्मचारी भविष्यसि ॥ २४.१०६{६} ॥
तावद्गृहे सदा दानं कृत्वार्थिभ्यो यथेप्सितम् ।
त्रिरत्नस्मरणं कृत्वा शुभे चर समाहितः ॥ २४.१०७{७} ॥
एतत्पुण्यविपाकेन समये समुपागते ।
प्रव्रज्याव्रतमासाद्य निर्वाणपदमाप्स्यसि ॥ २४.१०८{८} ॥
इति मत्वा कुमारात्र यावज्जीवति सा प्रसूः ।
तावद्गृहे सदा दानं कृत्वा शुभे चरन् वस ॥ २४.१०९{६} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स उत्तरः सुधीः ।
तथेति प्रतिविज्ञप्य प्रससाद प्रबोधितः ॥ २४.११०{१०} ॥
ततः स उत्तरो नत्वा सांजलिस्तं मुनीश्वरम् ।
सुप्रसन्नमुखाम्भोजस्तन्मनाः स्वगृहं ययौ ॥ २४.१११{११} ॥
तत्र स स्वगृहे स्थित्वा स्वकुलवृत्तिसाधनैः ।
प्रतिसार्यापणं तत्र चकार क्रयविक्रयम् ॥ २४.११२{१२} ॥
तत्र मुलाधिकं लाभं यल्लब्धं गणवन्धनम् ।
तत्सर्वं स सुतस्तस्या मातुर्हस्ते समर्पयत् ॥ २४.११३{१३} ॥
ततः स उत्तरः पुत्रो मातरं तां प्रसादयन् ।
तल्लब्धं सकलं द्रव्यं दत्वैवं प्रत्यबोधयत् ॥ २४.११४{१४} ॥
शृणु मातर्ममानेन द्रव्येन स्वजनां जनान् ।
अर्थिनः कृपणान् विप्रान्मानयित्वाभितोषय ॥ २४.११५{१५} ॥
इति पुत्रोदितं श्रुत्वा माता सा अतिकुंचिका ।
लुब्धा मत्सराक्रांतहृदयैवमभाषत ॥ २४.११६{१६} ॥
पुत्र पित्रा प्रयत्नेन संपदस्ते समर्जिताः ।
त्वमेताः संपदः सर्वा दत्वार्थिभ्यो व्ययिष्यसि ॥ २४.११७{१७} ॥
यावत्पित्रार्जितं द्रव्यं तावन्मया न दास्यते ।
तावत्मात्रं तवाधीनं यावत्त्वया समर्जितम् ॥ २४.११८{१८} ॥
यावज्जिवाम्यहं तात न ते दास्यामि किं चन ।
मृतायां मयि तत्सर्वं तवाधीनं भवेत्तदा ॥ २४.११९{१९} ॥
इत्युक्त्वा सा प्रसूस्तस्य मात्सर्य्यकलुषाशया ।
सर्वद्रव्यं प्रयत्नेन गुप्तीकृत्यात्यरक्षत ॥ २४.१२०{२०} ॥
किं चिदर्थिभ्यो सा कुधी ददौ ।
गुप्तीकृत्य प्रयत्नेन तद्द्रव्यं समगोपयत् ॥ २४.१२१{२१} ॥
दृष्ट्वा च सार्थिनः सर्वान् स्वगृहं समुपागतान् ।
सहसा समुपाश्रित्य परिभाष्याभ्यनिन्दयत् ॥ २४.१२२{२२} ॥
(र्म् २८७)
अरे माया न गेहेऽस्मिं यूयं प्रेता इवागताः ।
नित्यं परगृहे पिंडं भोक्तुं भ्रमथ भूतवत् ॥ २४.१२३{२३} ॥
एवं तानर्थिनः सर्वान् सा नारी दुरिताशया ।
नैकधा विप्रलापेन परिभाष्याभ्यनिंदयत् ॥ २४.१२४{२४} ॥
एवं मात्रा प्रतिक्रुष्य विप्रलापाभिनिंदितान् ।
श्रुत्वा स उत्तरः पुत्रो मातरं तामभाषत ॥ २४.१२५{२५} ॥
अरे मात किमेव त्वमर्थिनः परिभाषसे ।
धिक्त्वां धर्मपरिभ्रष्टां कथं न नरके पतेः ॥ २४.१२६{२६} ॥
यदि त्वं वांछसे सौख्यमिहामुत्रापि सर्वदा ।
कृपणानर्थिनः सर्वान् संप्रदानैः प्रमोदय ॥ २४.१२७{२७} ॥
यद्येवं क्रियते मातः संगतिः सर्वदावयोः ।
अन्यथा चेत्ततो नौ स्याद्विभिन्नभोजनाश्रयः ॥ २४.१२८{२८} ॥
यद्यस्ति ते मया सार्द्धं सर्वदा भोजने रतिः ।
यथेप्सितं सदार्थिभ्यो दत्वा चर शुभे वृषे ॥ २४.१२९{२९} ॥
इति तेनात्मजेनापि प्रत्याख्यतं निशम्य सा ।
माता लज्जाविभिन्नास्या तमात्मजमभाषत ॥ २४.१३०{३०} ॥
यद्येवं नन्दनार्थिभ्यः सर्वस्वमपि दित्ससि ।
तत्स्वद्रव्याणि सर्वाणि दास्यामि तद्यथेप्सितम् ॥ २४.१३१{३१} ॥
इत्युक्त्वा सा प्रसू नारी तमात्मजं मृषागिरा ।
बोधयित्वा गृहे तानि द्रव्याणि समगोपयेत् ॥ २४.१३२{३२} ॥
ततः सा प्रमदा दुष्टा मिथ्यावाचा तमात्मजम् ।
अद्य यतोऽर्थिनो भिक्षून्स्तोषयामीत्यबोधयत् ॥ २४.१३३{३३} ॥
एवं मिथ्यया वाचा बोधयन्ती तमात्मजम् ।
स्वयमेव प्रभुक्त्वा च तद्द्रव्यं सर्वं गोपयत् ॥ २४.१३४{३४} ॥
कस्मै चिदर्थिने किं चिदपि सा न ददौ कुधीः ।
सा केभ्योऽपि वलिं दातुं नैवोत्सेहे कदा चन ॥ २४.१३५{३५} ॥
एवं सा दुर्मतिर्लुब्धा मत्सराक्रान्तचेतसा ।
परिभाष्यार्थिनः सर्वान्निंदयन्त्यशुभेऽचरत् ॥ २४.१३६{३६} ॥
एवं केवलपापानि प्राचित्वा सा दुराशया ।
काले निराशया दुःखार्त्ता मृता प्रेतालये ययौ ॥ २४.१३७{३७} ॥
तत्र प्रेतगतिप्राप्ता प्रेतीभूता दुराकृतिः ।
स्वकेशप्रतिछन्नांगा शूचीमुखा कृशांगिका ॥ २४.१३८{३८} ॥
अस्थियंत्रवदुच्छ्राया पर्वतसंनिभोदरा ।
क्षुत्पिपासाग्निसंतप्ता दग्धस्थूणासमांगिका ॥ २४.१३९{३९} ॥
आर्त्तस्वरा विरावन्ती क्रंदन्ती सा समंततः ।
अन्नपान हि मार्गन्ती पर्यभ्रमदितस्ततः ॥ २४.१४०{४०} ॥
ततः स उत्तरो मातुः कृत्वाग्निसंस्कृतिं तदा ।
स्नानशौचादि कर्मां कुर्वञ्छोकं व्यनोदयत् ॥ २४.१४१{४१} ॥
ततः स उत्तरो विजो मातृशोकं व्यनोदयत् ।
अर्थिभ्यो वांछितं दत्वा बहुपुण्याण्युपार्जयत् ॥ २४.१४२{४२} ॥
ततः कामविरक्तः स संसारभोगनिस्पृहः ।
(र्म् २८८)
निर्वृतिपदसंप्रात्यै प्रव्रजितुं समैछत ॥ २४.१४३{४३} ॥
ततः स मुदितो गत्वा वेणुवने जिनाश्रमे ।
दृष्ट्वा तं श्रीघनं नत्वा सांजलिः समुपाचरत् ॥ २४.१४४{४४} ॥
तत्र प्रदक्षिणीकृत्वा ससंघं तं मुनीश्वरम् ।
प्रणत्वा पुरतः स्थित्वा सांजलिरेवमब्रवीत् ॥ २४.१४५{४५} ॥
भगवन्नाथ सर्वज्ञ विजानीयाद्भवानपि ।
यन्मे सा जननी विघ्ना सांप्रतं प्रलयं गता ॥ २४.१४६{४६} ॥
तदत्र भगवच्छास्तर्भवतां शरणं व्रजे ।
तन्मेऽनुग्रहमाधाय प्रव्रज्यां दातुमर्हति ॥ २४.१४७{४७} ॥
इति संप्रर्थिते तेन भगवान् स मुनीश्वरः ।
सव्यकरेण तन्मूर्द्ध्नि संस्पृश्यैवं समादिशत् ॥ २४.१४८{४८} ॥
एहि चर कुमारात्र ब्रह्मचर्यं समाहितः ।
इत्युक्त्वा भगवां छास्ता सांघिके तं समग्रहीत् ॥ २४.१४९{४९} ॥
एहीत्युक्ते मुनीन्द्रेण मुंडितोऽभूत्स उत्तरः ।
खिक्खिरीपात्रभृच्छुद्धकाषायचीवरावृतः ॥ २४.१५०{५०} ॥
ततः शास्तुः प्रसादात्स परिशुद्धस्त्रिमंडलः ।
निःक्लेशयविशुद्धात्मा संसारविरतोत्सवः ॥ २४.१५१{५१} ॥
समाधिधारणीविद्याघटमानो विचक्षणः ।
हित्वाविद्यागणं सर्वविद्यागुणान्तमाप्तवान् ॥ २४.१५२{५२} ॥
विदित्वा सर्वसंसारगतिं विद्युत्क्षणस्थितिम् ।
मत्वा च सर्वसंस्कारगतिर्ऽनेकविघातिनिम् ॥ २४.१५३{५३} ॥
सर्वक्लेशगणां जित्वा सर्वान्मारगणानपि ।
साक्षादर्हत्वमासाद्य श्रावकबोधिमाप्तवान् ॥ २४.१५४{५४} ॥
ततः स सुविशुद्धात्मा वीतरागो जितेंद्रियः ।
आकाशनिर्मलस्वान्तः सर्वलोष्टककांचनः ॥ २४.१५५{५५} ॥
वासीचंदनकल्पांशो निर्विकल्पो निरंजनः ।
सर्वसत्वहिताधानः संबुद्धगुणसाधकः ॥ २४.१५६{५६} ॥
सदेवासुरलोकानां सर्वेषां प्राणिनामपि ।
वंद्यः पूज्योऽभिमान्यश्च ब्रह्मचारी बभूव सः ॥ २४.१५७{५७} ॥
ततः सोऽर्हन्महाभिज्ञो गंगातिरे शुभस्थले ।
पर्णकुट्यां समाश्रित्य तस्थौ ध्यानसमाहितः ॥ २४.१५८{५८} ॥
तत्रैकस्मिन् दिने तस्य माता सा प्रेतिका सती ।
नग्न स्वरोमसंछन्ना दघस्थूणाविवर्णिता ॥ २४.१५९{५९} ॥
सूचीमुखास्थियंत्रेव पर्वतसन्निभोदरा ।
क्षुत्पिपासाग्निदग्धांगा पानाहारगवेषिनी ॥ २४.१६०{६०} ॥
आर्तस्वरं विरावन्ती क्रंदन्ती समुपागता ।
आयुष्मन्तं तमर्हन्तं पश्यन्ती समुपाश्रयत् ॥ २४.१६१{६१} ॥
एवं तां समुपासीनां दृष्ट्वा स उत्तरो यतिः ।
का त्वमेवंविधायाता वदस्वेत्यन्वपृछत ॥ २४.१६२{६२} ॥
इति तेनोदितं श्रुत्वा सा प्रेती पुरतः स्थिता ।
उत्तरं तं यतिं पुत्रं समालोक्यैवमब्रवीत् ॥ २४.१६३{६३} ॥
अहं ते जननी स्निग्धा ययासि जनितः सुतः ।
अन्नपानविविक्तास्मि प्रेतीभूताऽधुना चरे ॥ २४.१६४{६४} ॥
पंचविंशति वर्साणि यांति कालगता ह्यहम् ।
(र्म् २८९)
नाभिजानामि पाणीयं कुतो भक्तस्य दर्शनम् ॥ २४.१६५{६५} ॥
सफलां पुष्पितां वृक्षं दृष्ट्वा गछामि दूरतः ।
सर्वेऽपि निष्फला शुष्का विपुष्पाश्च भवन्ति ते ॥ २४.१६६{६६} ॥
सरांसि चाम्बुपूर्णाणि दृष्ट्वा गछामि दूरतः ।
तानि सर्वाणि शुष्कानि भवन्ति तत्क्षणादपि ॥ २४.१६७{६७} ॥
भेदं तस्य महासौख्यं वृक्षमूलश्रितस्य ते ।
विद्यते सर्वदाप्यत्र किं त्वया प्रकृतं शुभम् ॥ २४.१६८{६८} ॥
तदत्र कृपया पश्यन् कारुण्यं जनयन् सुत ।
मात्रे तृषार्दितायै मे शीताम्बु दातुमर्हसि ॥ २४.१६९{६९} ॥
इति तयार्थितं श्रुत्वा स उत्तरः सविस्मयः ।
तां प्रेतीं सुचिरं दृष्ट्वा शंकितश्चैवमब्रवीत् ॥ २४.१७०{७०} ॥
मातस्तर्हि क्षणं प्राप्ते त्वया पारुष्यभूतया ।
दानानि न कृतान्येव पुण्यानि वा चितानि न ॥ २४.१७१{७१} ॥
अन्यकृतानि दानानि पुण्यानि भाषितानि च ।
दृष्ट्वा श्रुत्वापि ते चित्ते क्रोधाग्निर्ज्वलितस्तदा ॥ २४.१७२{७२} ॥
किं चिन्नापि शुभं कर्म कृत्वापुण्यं त्वयार्जितम् ।
परेणापि कृतं दृष्ट्वा श्रुत्वापि नानुमोदितम् ॥ २४.१७३{७३} ॥
एतत्कर्मविपाकेन जननी त्वं मृताधुना ।
प्रेतीभूतान्नपानेन वियुक्ता भ्रमसे भवे ॥ २४.१७४{७४} ॥
इदानिं किं करिष्यामि त्वं चात्र किं करिष्यसि ।
तदा सर्वाहितं प्रोक्तं त्वया तत्र श्रुतं न तत् ॥ २४.१७५{७५} ॥
इति तेनात्मजेनोक्तं श्रुत्वा सा प्रतिबोधिता ।
विगलदश्रुरुक्षाक्षा तं पुत्रमेवमब्रवीत् ॥ २४.१७६{७६} ॥
न मया हि कृतं दानं पुण्यं न चाभिसाधितम् ।
दृष्ट्वानुमोदितं नापि मात्सर्यपरिभूतया ॥ २४.१७७{७७} ॥
यद्यद्द्रव्यं त्वया पुत्र मम हस्ते समर्पितम् ।
तत्तत्सर्वं मया वंधिखदायां परिगोपितम् ॥ २४.१७८{७८} ॥
तदिदानिं समुद्धृत्य ज्ञातिहस्ते समर्पय ।
तेन तं सुगतं बुद्धं ससंघं भोजयात्मज ॥ २४.१७९{७९} ॥
दक्षिणादेशनां चापि मम नाम्नाभिकारय ।
तदा प्रेतगतेर्मुक्ता यायामहं सुरालयम् ॥ २४.१८०{८०} ॥
इति तयोदितं श्रुत्वा स उत्तरोऽनुबोधितः ।
एवमस्त्विति संश्रुत्य पुनस्तामेवमब्रवीत् ॥ २४.१८१{८१} ॥
ससंघं सुगतं तेन भोजयिष्यामि सांप्रतम् ।
किं तु त्वयाम्व तत्रापि स्थातव्यं सुगतांतिके ॥ २४.१८२{८२} ॥
इति तेनोदितं श्रुत्वा सा प्रेती लज्जयान्विता ।
तमर्हन्तं समालोक्य पुर एवमभाषत ॥ २४.१८३{८३} ॥
यदहं पुत्र नग्नास्मि प्रेती विभ्रन्सिताकृती ।
तत्कथं समुपाश्रित्य स्थास्यामि श्रीघनांतिके ॥ २४.१८४{८४} ॥
इति तयोदितं श्रुत्वा स उत्तरो महामतिः ।
तां प्रेतीं समुपालोक्य पुनरेवमभाषत ॥ २४.१८५{८५} ॥
क्रियमाने यदा पापे लज्जा नास्ति तदा तव ।
फलभोजनकालेऽत्र किमेवं लज्जसेऽधुना ॥ २४.१८६{८६} ॥
इति तद्वचनं श्रुत्वा सा प्रेती प्रतिबोधिता ।
(र्म् २९०)
तथा गमिष्यामीति प्रोक्त्व त्वरितं विज्ञालयं ययौ ॥ २४.१८७{८७} ॥
ततः स उत्तरो गत्वा ज्ञातीनाहूय तद्वृतिम् ।
यथामात्रोदितं ख्याय सर्वमेव न्यवेदयत् ॥ २४.१८८{८८} ॥
तच्छ्रुत्वा ज्ञातिवर्गास्ते सर्वऽतिविस्मयान्विताः ।
तथा तद्द्रव्यमादाय सर्वं तस्यानुपाहरन् ॥ २४.१८९{८९} ॥
तद्द्रव्यं सर्वमालोक्य स उत्तरः प्रमोदितः ।
सर्वेषामपि गोत्राणां पुनरेवं समब्रवीत् ॥ २४.१९०{९०} ॥
भवन्तो ज्ञातयः सर्वे द्रव्येनैतेन सांप्रतम् ।
ससांघिकं मुनीन्द्रं तं भोजयिष्यामि पूजयन् ॥ २४.१९१{९१} ॥
तदेतत्सर्वमादाय यदा प्रकंपिताशयाः ।
संघभोज्यार्हसामग्रीं साधयित्वा प्रदत्त मे ॥ २४.१९२{९२} ॥
इति संप्रार्थितं श्रुत्वा सर्वे ते ज्ञातयस्तथा ।
संघभोज्यार्हसामग्रीं सर्वद्रव्यैरसाधयत् ॥ २४.१९३{९३} ॥
तद्दृष्ट्वा मुदितः सोऽर्हनुत्तरः संप्रसन्नधीः ।
शास्तुर्निमंत्रणं कर्तुं विहारे समुपाचरत् ॥ २४.१९४{९४} ॥
तत्र स समुपाश्रित्य तं मुनीन्द्रं ससांघिकैः ।
प्रणत्वा साञ्जलिस्तत्र पुरः स्थित्वा न्यमंत्रयत् ॥ २४.१९५{९५} ॥
भगवन्नाथ सर्वज्ञ भगवंतं ससांघिकम् ।
पूजयितुं समिछामि श्वोऽनुगृहीतुमर्हति ॥ २४.१९६{९६} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
तमुत्तरं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ २४.१९७{९७} ॥
ततः स उत्तरो मत्वा भगवताधिवासितम् ।
तं मुनीन्द्रं पुनर्नत्वा ज्ञातीनां पुरतो ययौ ॥ २४.१९८{९८} ॥
तत्र स उत्तरस्तेषां च निमंत्रणम् ।
कृत्वा तत्र पुनस्तेषां पुर एवमभाषत ॥ २४.१९९{९९} ॥
संघभोज्ये प्रवृत्तेऽत्र यूयं सर्वे समागताः ।
प्रेतीभूतां ममाम्बां तामवलोकितुमर्हथ ॥ २४.२००{१००} ॥
इत्युक्त्वा स्वाश्रमं गत्वा स उत्तरः प्रसादितः ।
ध्यानागारसमासीनस्तस्थौ ध्यानसमाहितः ॥ २४.२०१{१} ॥
ततः प्रातः समुत्थाय ज्ञातीनां पुरतो गतः ।
पूजोपचारसामग्रीं सहसा समसाधयत् ॥ २४.२०२{२} ॥
ततः स उत्तरः प्राह्ने विहारे समुपासरन् ।
भगवंतं मुनीन्द्रं तं प्रणत्वैवमभाषत ॥ २४.२०३{३} ॥
भगवन् सर्वविच्छास्तः समयो वर्त्ततेऽधुना ।
तत्ससंघो भवानत्र विजयितुं समर्हति ॥ २४.२०४{४} ॥
इति संप्रार्थिते तेन गंडीमाकोटयन्मुनिः ।
तच्छब्दचोदितास्तत्र स च संघा उपासरन् ॥ २४.२०५{५} ॥
तत्र ते ज्ञातयः सर्वे लोका अन्येऽपि हर्षिताः ।
तत्र प्रेतां समायातां तां द्रष्टुं समुपागताः ॥ २४.२०६{६} ॥
तदा स भगवांस्तत्र ससांघिकः समागताः ।
तद्दत्तं पाद्यमादाय शुद्धासने समाश्रयत् ॥ २४.२०७{७} ॥
(र्म् २९१)
तां दृष्ट्वा ज्ञातयः सर्वे लोका अन्येऽपि खेटिताः ।
हा पापमिति भाषन्ते तस्थुः सद्धर्मवांछया ॥ २४.२०८{८} ॥
तदा ते ज्ञातयः सर्वे भगवंतं ससांघिकम् ।
यथाक्रमं समभ्यर्च्य भोजनैः समतोषयत् ॥ २४.२०९{९} ॥
ततस्ते सांघिकाः सर्वे संबुद्धप्रमुखा अपि ।
तत्प्रणीतरसं भोज्यं भुक्त्वा तृप्तिं समाययुः ॥ २४.२१०{१०} ॥
ततोऽपनीय पात्राणि शोधयित्वा भुजादिकम् ।
तेषां पूगादि ताम्बूलगणं ते प्रददुर्मुदा ॥ २४.२११{११} ॥
तत्र स उत्तरो भिक्षुर्ज्ञातिभिस्तै सहान्वितः ।
भगवंतं ससंघं तं प्रणत्वा समुपाश्रयत् ॥ २४.२१२{१२} ॥
तत्र स भगवान् दृष्ट्वा तमुत्तरमुपाश्रितम् ।
दाक्षिणादेशनां तस्याः प्रेत्या नाम्ना समादिशत् ॥ २४.२१३{१३} ॥
इतो दानाद्धि यत्पुण्यं तत्प्रेतीमुपगछतु ।
उत्तिष्ठतामियं प्रेती प्रेतलोकात्ततो द्रुतम् ॥ २४.२१४{१४} ॥
इति शुभाशिषं दत्वा भगवान् स मुनीश्वरः ।
आर्य्यसत्यं समारभ्य सद्धर्मं च समादिशत् ॥ २४.२१५{१५} ॥
तदार्य्यधर्ममाकर्ण्य सर्वे लोकाः प्रबोधिताः ।
धर्मविशेषमाज्ञाय बभूवुः सत्यदर्शिनः ॥ २४.२१६{१६} ॥
सापि प्रेती समानीय तत्सद्धर्मामृतं मुदा ।
सुप्रसन्नाशया स्मृत्वा त्रिरत्नं शरणं ययौ ॥ २४.२१७{१७} ॥
ततः सा भूतलोकेऽभूज्जाता भूतमहर्द्धिका ।
तत्रापि साभवद्दुष्टा मात्सर्य्यरुक्षिताशया ॥ २४.२१८{१८} ॥
ततः स भगवांस्तस्मात्ससांघिकः प्रभासयन् ।
गत्वा स्वाश्रममाश्रित्य तस्थौ धर्ममुपादिशन् ॥ २४.२१९{१९} ॥
ततः स बुद्धिमान् विज्ञ आयुष्मान् यतिरुत्तरः ।
कुत्रासौ जायते माताधुनेति समपश्यत ॥ २४.२२०{२०} ॥
एवं स उत्तरो विज्ञः समभीक्ष्य समंततः ।
ददर्श तां संप्रजातां भूतमहर्द्धिकालये ॥ २४.२२१{२१} ॥
दृष्ट्वा स उत्तरः पुत्रो मातरं तां च भौतिकाम् ।
सहसा समुपाश्रित्य समामंत्र्यैवमब्रवीत् ॥ २४.२२२{२२} ॥
किमम्बास्ति त्वया शक्तिरपि दानेषु सांप्रतम् ।
यदीछसि सदा भद्रं कुरु दानमिहाधुना ॥ २४.२२३{२३} ॥
इति तेनोदितं श्रुत्वा सा च भूतमहर्द्धिका ।
उत्तरं तं सुतं दृष्ट्वा पुनरेवमभाषत ॥ २४.२२४{२४} ॥
नाद्यापि विद्यते दानेऽभिलाषं मम नंदन ।
तत्किं चिदपि वा द्रव्यं प्रदातुं नाहमुत्सहे ॥ २४.२२५{२५} ॥
इति तेनोदितं श्रुत्वायुष्मान् स उत्तरो यतिः ।
दृष्ट्वा तां मातरं भूतमहर्द्धिकामभाषत ॥ २४.२२६{२६} ॥
अद्यापि ते तिष्ठति तच्छरीरं विवृद्धनिर्मान्सत्वगस्थिचर्मा लोभांधकारावृतलोचनाया निवर्तितं यत्तव प्रेतलोके ।
धिक्त्वां प्रदुष्टामिह किं वदेयमद्यापि यत्त्वं दुरिताशयासि ।
(र्म् २९२)
केनात्र ते पापनिमग्नचित्तं संशोधितं पुण्यकरोद्धृतं स्यात् ॥ २४.२२७{२७} ॥
सदापि चैवं नरके निवासा भवेत्कदा त्वं परिमोक्ष्यसेऽतः ।
अहो हि दुर्बुद्धिदुराशयानां मनो न केनापि विशुद्ध्यते वै ॥ २४.२२८{२८} ॥
एवं बहुप्रकारेण परिभाष्योत्तरः स ताम् ।
तदङ्गात्यमलीमेकामाकृष्यापहरद्वलात् ॥ २४.२२९{२९} ॥
ततस्तां यमलीं सोऽर्हं संघाय समकल्पयत् ।
तत्र मूल्येन तां क्रीत्वा भिक्षुमानवके न्यसेत् ॥ २४.२३०{३०} ॥
तत्रापि निशि सा गत्वा यमलीं तामुपाहरत् ।
तथापहृतां भिक्षुरुत्तराय न्यवेदयत् ॥ २४.२३१{३१} ॥
तच्छ्रुत्वा चोत्तरो गत्वा परिभाष्य वलेन ताम् ।
अपहृत्य पुनस्तस्मै भिक्षवे समकल्पयत् ॥ २४.२३२{३२} ॥
भूयोऽपि निशि सा गत्वा यमलीं तामुपाहरत् ।
तथा स उत्तरश्चापि तस्याश्च तामपाहरत् ॥ २४.२३३{३३} ॥
एवं त्रिधा निशायां सा तत्र गत्वाहरच्च ताम् ।
उत्तरश्चापहृत्यैव तां तस्मै भिक्षवे ददौ ॥ २४.२३४{३४} ॥
तेनापि भिक्षुणादाय चतुदिक्सांघिकाय सा ।
पाद्यलेपानिकायां संसीवित्वा प्रतिपादिता ॥ २४.२३५{३५} ॥
तत्र तां सीवितां दृष्ट्वा सा च भूतमहर्द्धिता ।
अपहृतविभग्नाशा रुदन्ती स्वालयं ययौ ॥ २४.२३६{३६} ॥
तच्चित्ताग्निप्रतप्ता सा स्मृत्वा तं सुतमुत्तरम् ।
कालं गता ततोऽन्यत्र यक्षलोकेऽलभज्जनुः ॥ २४.२३७{३७} ॥
एवं मत्वा महत्पापमूलं मात्सर्य्यमेव हि ।
तत्मात्सर्यं परित्यज्य कर्त्तव्यं दानमादरात् ॥ २४.२३८{३८} ॥
दानेन शुद्ध्यते चित्तः शुद्धचित्तः सुधीकृतिः ।
क्रमाद्बोधिचरिं धृत्वा संबुद्धपदमाप्नुयात् ॥ २४.२३९{३९} ॥
एवं विज्ञाय सर्वत्र यदीछन्ति सदा शुभम् ।
मात्सर्यं विषवत्त्यक्त्वा चरितव्यं सदा शुभे ॥ २४.२४०{४०} ॥
इति मे गुरुणाख्यातं श्रुतं तथा मयोच्यते ।
त्वं चाप्येवं परिज्ञाय चरितव्यं शुभे सदा ॥ २४.२४१{४१} ॥
प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयितुं सदार्हसि ॥ २४.२४२{४२} ॥
तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २४.२४३{४३} ॥
इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिभाषित्वा प्राभ्यनंदत्सपार्षदः ॥ २४.२४४{४४} ॥
इदं नरा ये मुदिताश्च भूतमहर्द्धिकायानुवदानमत्र ।
मुदा निशम्य प्रतिमोदयन्ते प्रयांति ते श्रीघनसंनिवासे ॥ २४.२४५{४५} ॥
++ इति रत्नावदानत्वे प्रेतीभूतमहर्द्धिकावदानं समाप्तम् ++
(र्म् २९३)
xxव्दूतावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनरेवमवोचत् ॥ २५.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ २५.२{२} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः ।
उपगुप्तो नरेंद्रं तं समामंत्र्यैवमादिशत् ॥ २५.३{३} ॥
शृणु राजन्महाभाग यथा मे गुरुभाषितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चात्रानुमोदय ॥ २५.४{४} ॥
तद्यथा भगवान् बुद्धः श्रीघनः स मुनीश्वरः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ २५.५{५} ॥
भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश्च चेलकैः ।
उपासकगणैश्चापि तथा चोपासिकागणैः ॥ २५.६{६} ॥
राजगृहपुरोपान्ते गृद्धकूटे नगोत्तमे ।
वेणुवने महोद्याने करंदकनिवापके ॥ २५.७{७} ॥
सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् ।
सद्धर्मं समुपादिश्य विजहार प्रभासयन् ॥ २५.८{८} ॥
तत्सद्धर्मामृतं पातुं सर्वे लोका उपागताः ।
देवा दैत्याश्च नागाश्च यक्षगंधर्वकिन्नराः ॥ २५.९{९} ॥
ग्रहा विद्याधराः सिद्धा राक्षसा गरुडा अपि ।
लोकपालगणाश्चापि तीर्थिकाश्च महर्षयः ॥ २५.१०{१०} ॥
ब्राह्मणाः क्षत्रिया भूपा वैश्याश्च मांत्रिणोऽपि च ।
अमात्याः श्रेष्ठिनश्चापि गृहस्थाश्च महाजनाः ॥ २५.११{११} ॥
वणिजः सार्थवाहाश्च शिल्पिनः पौरिकास्तथा ।
ग्राम्या जानपदाश्चापि तथा कार्पटिका अपि ॥ २५.१२{१२} ॥
तथान्येऽपि जनाश्चैवं सर्वे तत्र समागताः ।
दृष्ट्वा तं श्रीघनं नत्वा समभ्यर्च्य यथाक्रमम् ॥ २५.१३{१३} ॥
कृतांजलिपुटाः सर्वे परिवृत्योपतस्थिरे ।
ततः स भगवां दृष्ट्वा सर्वांस्तां समुपस्थितान् ।
आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ २५.१४{१४} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः ।
धर्मवैशेषमाज्ञाय बभूवुर्बोधिसाधिनः ॥ २५.१५{१५} ॥
एवं स भगवांस्तत्र नित्यं सद्धर्ममादिशन् ।
वर्षासु व्यहरल्लोकहितं कृत्वा ससांघिकः ॥ २५.१६{१६} ॥
तस्मिंस्तु समये तत्र श्रावस्त्यां पुरि सत्तमः ।
अनाथपिंडदः श्रेष्ठी गृहपतिर्महाजनः ॥ २५.१७{१७} ॥
त्रिरत्नभक्तिमान् दाता संबुद्धदर्शनोत्सुकः ।
प्रसेनजिन्महीपालं प्रणत्वा प्रार्थयत्तथा ॥ २५.१८{१८} ॥
जय देव महारज जानीयात्तद्भवानपि ।
(र्म् २९४)
यदस्माभि मुनीन्द्रोऽसौ सुचिरं नाभिदृश्यते ॥ २५.१९{१९} ॥
तत्तस्मात्र मुनीन्द्रस्य दर्शने तृषिता वयम् ।
भगवंतं मुनीन्द्रं तं द्रष्टुमिछामहेऽधुना ॥ २५.२०{२०} ॥
तद्भवान् समुपामंत्र्य भगवंतं जगद्गुरुम् ।
अत्र लोकहितार्थाय विजयितुं समर्हति ॥ २५.२१{२१} ॥
इति संप्रार्थितं तेन गृहाधिपतिना सदा ।
श्रुत्वा स भूपती राजा तं गृहपतिमब्रवीत् ॥ २५.२२{२२} ॥
किं त्वया श्रूयते साधो भगवान् स मुनीश्वरः ।
एतर्हि तिष्ठते कुत्र वर्षासु सह सांघिकैः ॥ २५.२३{२२!} ॥
इति राज्ञोदितं श्रुत्वा सोऽनाथपिण्डदो गृही ।
तं नरेंद्रं समालोक्य पुनरेवमभाषत ॥ २५.२४{२३} ॥
श्रुतं मया महाराज भगवान् स ससांघिकम् ।
राजगृहेऽधुना प्रावृत्समयेऽप्यवतिष्ठते ॥ २५.२५{२४} ॥
इति तेन समाख्यातं श्रुत्वा स नृपतिस्ततः ।
दूतमेकं समाहूय पुर एवमुपालपत् ॥ २५.२६{२५} ॥
एहि त्वं भो महासाधो श्रुत्वा मे वचनं द्रुतम् ।
तत्र राजगृहे गत्वा भगवत उपाचर ॥ २५.२७{२६} ॥
अस्माकं वचनैस्तस्य शास्तुः पादाम्बुजे नमः ।
नत्वा देहादि सर्वत्र कौशल्यं परिपृछ च ॥ २५.२८{२७} ॥
एवं चापि मुनेस्तस्य पुरो विज्ञापयादरात् ।
कौशल्ये नृपती राजा भगवंतं द्रष्टुमिछति ॥ २५.२९{२८} ॥
तथा सर्वेऽपि लोकाश्च श्रावस्त्यायाश्च पौरिकाः ।
त्रिरत्नदर्शनं कर्तुमभिवांछन्ति सांप्रतम् ॥ २५.३०{२९} ॥
भवद्धर्मामृतं चापि पातुमिछंति सर्ववित् ।
तत्ससंघो भवांस्तत्र कृपयागंतुमर्हति ॥ २५.३१{३०} ॥
इति रज्ञोदितं श्रुत्वा तथेति प्रतिमोदितः ।
तं नृपं सांजलिर्नत्वा द्रुतं राजगृहं ययौ ॥ २५.३२{३१} ॥
तत्र राजगृहे गत्वा स दूतः प्रतिनंदितः ।
विलोक्य सुप्रसन्नात्मा गृध्रकूटे उपाचरत् ॥ २५.३३{३२} ॥
तत्र स दूरतो दृष्ट्वा भगवंतं प्रमोदितः ।
उपेत्य सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ २५.३४{३३} ॥
भगवन्नाथ सर्वज्ञ वंदे ते चरणाम्बुजे ।
यदर्थेऽहमिहायामि तज्जानीयाद्भवां जिनः ॥ २५.३५{३४} ॥
तथाप्यहं जगच्छास्तुः पुरो विज्ञापयामि तत् ।
भगव सर्वविद्राजा प्रसेनजित्सुकौशलः ॥ २५.३६{३५} ॥
भवतां वंदते पादौ कुशलं चापि पृछते ।
तथा च भगवन् सर्वे श्रावस्त्येयाश्च पौरिकाः ॥ २५.३७{३६} ॥
वंदंते भवतां पादौ पृछंते चापि कौशलम् ।
नृपादि सर्वलोकाश्च भवतां दर्शनोत्सुकाः ॥ २५.३८{३७} ॥
त्रिरत्नं द्रष्टुमिछाम इत्येवं प्रवदन्ति ते ।
भवद्धर्मामृतं चापि पातुमिछंति तेऽधुना ॥ २५.३९{३८} ॥
नृपतिप्रमुखाः सर्वे तृष्णार्दिता इवामृतम् ।
तत्साधु भगवांस्तत्र श्रावस्त्यां पुरि सांप्रतम् ।
(र्म् २९५)
अनुकम्पामुपादाय विजयतां ससांघिकः ॥ २५.४०{३९} ॥
इत्युक्ते तेन दूतेन भगवान् स मुनीश्वरः ।
तं दूतं पुरुषं दृष्ट्वा समामंत्र्येवमादिशत् ॥ २५.४१{४०} ॥
भो पुरुष महाराजो बिम्बिसारो नृपाधिपः ।
यद्यनुज्ञां ददात्यत्र तदा यास्याम्यहं ध्रुवम् ॥ २५.४२{४१} ॥
तत्साधु नृपतेस्तस्य बिम्बिसारस्य भूभृतः ।
अनुज्ञाप्रार्थनां कृत्वा गछायास्याम्यहं तदा ॥ २५.४३{४२} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स दूत आदरात् ।
तथेति तं मुनिं नत्वा राज्ञोऽन्तिकमुपाचरत् ॥ २५.४४{४३} ॥
तत्र स समुपाश्रित्य बिम्बिसारं नराधिपम् ।
सांजलिः पुरतो गत्वा प्रणत्वैवं न्यवेदयत् ॥ २५.४५{४४} ॥
जय देव महाराज प्रसीदानुग्रहं कुरु ।
प्रसेनजिन्महीभर्तुर्दूतोऽहं समुपागतः ॥ २५.४६{४५} ॥
महाराज महीपाल प्रसेनजित्स कौशलः ।
भगवतो मुनीन्द्रस्य दर्शनमभिवांछति ॥ २५.४७{४६} ॥
तथा सर्वेऽपि लोकाश्च श्रावस्त्र्येयाः सपौरिकाः ।
त्रिरत्नस्य जगद्भर्तुः प्रष्टुमिछन्ति सांप्रतम् ॥ २५.४८{४७} ॥
तदस्य त्रिजगच्छास्तुर्भगवतो भवान् प्रभो ।
तत्रानुगमनेऽनुज्ञां कृपया दातुमर्हति ॥ २५.४९{४८} ॥
इति तेनार्थितं श्रुत्वा बिम्बिसारः स भूपतिः ।
तं दूतं समुपालोक्य चिरेणैवमभाषत ॥ २५.५०{४९} ॥
सधो स भगवान्स्तत्र यदि गंतुं समिछति ।
तदत्र किं वदिष्यामि यत्रेछेत्तत्र गछतु ॥ २५.५१{५०} ॥
इति राज्ञा समादिष्टं श्रुत्वा दूतः स मोदितः ।
बिम्बिसारं नरेंद्रं तं नत्वा ययौ जिनान्तिके ॥ २५.५२{५१} ॥
तत्र स सहसा गत्वा श्रीघनं तं मुनीश्वरम् ।
कृतांजलिपुटो नत्वा प्रार्थयदेवमादरात् ॥ २५.५३{५२} ॥
भगवंस्तेन भूपेन ह्यनुज्ञातोऽसि सांप्रतम् ।
तत्ससंघो भगवांस्तत्र विजयितुं समर्हति ॥ २५.५४{५३} ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
एनं दूतं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ २५.५५{५४} ॥
ततः स भगवान् वर्षात्रिमासान्त ससांघिकः ।
सर्वत्र मंगलं कृत्वा प्रतस्थे संप्रभासयन् ॥ २५.५६{५५} ॥
तदा स पुरुषो दूतस्तद्विहाराद्विनिर्गतः ।
सहसा रथमारुह्य संप्रतस्थे पुरः पथि ॥ २५.५७{५६} ॥
तत्र स भगवंतं पद्भ्यां संप्रस्थितं पथि ।
दृष्ट्वैव सहसा तस्माद्रथात्स्वयमवातरत् ॥ २५.५८{५७} ॥
तत्र स सहसोपेत्य भगवन्तं मुनीश्वरम् ।
सांजलिः पुरतो गत्वा प्रणत्वैवमवोचत ॥ २५.५९{५८} ॥
प्रसीदतु जगन्नाथ ममानुकम्पया भवान् ।
इदं रथं समारुह्य विजयतां ससांघिकः ॥ २५.६०{५९} ॥
इति तेनोदितं श्रुत्वा भगवान् स जगद्गुरुः ।
तं दूतं पुरुषं दृष्ट्वा तत्रैवं समुपादिशत् ॥ २५.६१{६०} ॥
ऋद्धिपादरथेनाहं सम्यग्व्यायामवर्त्तिना ।
(र्म् २९६)
प्रचरामि महीं कृत्स्नामक्षतः क्लेशकष्टकैः ॥ २५.६२{६१} ॥
इत्यादिष्टं मुनीन्द्रेण स दूतः प्रतिबोधितः ।
भूयोऽपि सांजलिर्नत्वा प्रार्थयत्तं मुनीश्वरम् ॥ २५.६३{६२} ॥
यद्यपि भगवानृद्धियानयायी तथापि तु ।
ममानुग्रहमाधातुं गृह्यतामनुकम्पया ॥ २५.६४{६३} ॥
इति तेनार्थितं श्रुत्वा भगवान् ससांघिकः ।
ऋद्ध्या रथोपरि स्थित्वा संप्रतस्थे प्रभासयन् ॥ २५.६५{६४} ॥
तत्र मार्गेषु सर्वत्र भगवान् ससांघिकः ।
भासयन्मंगलं कृत्वा श्रावस्तीपुरमाययौ ॥ २५.६६{६५} ॥
तत्र स पुरुषो दूतः सहसा प्रचरन् पुरः ।
प्रसेनजिन्नरेन्द्रस्य गत्वैवं संन्यवेदयत् ॥ २५.६७{६६} ॥
जय देव महाराज दिष्ट्या वर्द्धस्व सांप्रतम् ।
यदसौ भगवांच्छास्ता ससंघोऽत्र समागतः ॥ २५.६८{६७} ॥
इति तेनोदितं श्रुत्वा प्रसेनजित्स भूपतिः ।
तत्र सर्वत्र मार्गेषु शोधयित्वाभ्यशोधयत् ॥ २५.६९{६८} ॥
छत्रध्वजवितानैश्च समंततोऽभ्यमंडयत् ।
ततः स नृपति राजा तूर्यसंगीतिवादनैः ।
सजनो भगवन्तं तं प्रत्युद्ययौ महोत्सवैः ॥ २५.७०{६९} ॥
तत्र समुदितो राजा समंत्रिजनपौरिकः ।
दूरात्तं श्रीघनं दृष्ट्वा पद्भ्यां चरन्नुपाचरत् ॥ २५.७१{७०} ॥
तत्रोपेत्य स भूपालः ससंघन् तं मुनीश्वरम् ।
प्रणत्वा सांजलिः स्थित्वा पुरो दृष्ट्वैवमब्रवीत् ॥ २५.७२{७१} ॥
भगवन्नाथ सार्वज्ञ कच्चिच्च कुशलं तनौ ।
भवतां विषये ह्यत्र विहरस्व ससांघिकः ॥ २५.७३{७२} ॥
तथा सर्वेऽपि लोकाश्च समंत्रिजनपौरिकाः ।
सांजलयः प्रणत्वैवं प्रार्थयंस्तं मुनीश्वरम् ॥ २५.७४{७३} ॥
स्वागतं भगवंच्छास्त विजयस्व कृपानिधे ।
सदात्र स्वाश्रमे स्थित्वा विहरस्वानुकम्पया ॥ २५.७५{७४} ॥
इत्युक्त्वा सर्वलोकास्ते नृपतिप्रमुखा मुदा ।
पूजादि मंगलोत्साहैः प्रावेशयंस्ततः पुरे ॥ २५.७६{७५} ॥
ततः स भगवान् दृष्ट्वा सर्वांस्तान् संप्रमोदितान् ।
नृपतिप्रमुखान् दत्वा भद्राशिषं समाचरत् ॥ २५.७७{७६} ॥
तत्र स भगवांस्तस्याः श्रावस्त्या गोपुरान्तिके ।
अवतीर्य यथा पद्भ्यां प्रचक्राम ससांघिकः ॥ २५.७८{७७} ॥
तत्र स श्रीघनो नाथः प्रभासयन् समंततः ।
सर्वेषां भद्रतां कुर्वन् प्रविवेश ससांघिकः ॥ २५.७९{७८} ॥
प्रविष्टे नगरे तत्र संबुद्धे सुगते जिने ।
तत्पुण्यसुप्रभाव्याप्ते सर्वत्राप्यभवच्छुभम् ॥ २५.८०{७९} ॥
अंधा रूपाणि प्राद्राक्षुर्वधिराः शुश्रुवु रवम् ।
ये च हीनेंद्रियास्तेऽपि सर्वे पूर्णेन्द्रिया वभुः ॥ २५.८१{८०} ॥
क्षुधाग्निपरितप्तांगास्तेऽभवन् परितृप्तिताः ।
पिपासापरिदग्धांगास्तेऽप्यासन् संप्रतर्पिताः ॥ २५.८२{८१} ॥
कुचेला दुर्भगांशा ये शुद्धांशुकाः शुभांशिकाः ।
(र्म् २९७)
चिररोगातुरा येन नीरोगा वलिनोऽभवन् ॥ २५.८३{८२} ॥
उन्मत्ताः स्मृतिमंतश्च दरिद्रा धनिनोऽभवन् ।
चिरवैरानुवद्धा ये तेऽप्यासन्मैत्रभाविनः ॥ २५.८४{८३} ॥
चंडालाश्च दयावन्तः क्रोधिनः क्षान्तिभाविनः ।
लब्धाश्च निःस्पृहा आसनीर्ष्यालवश्च साधवः ॥ २५.८५{८४} ॥
मत्सरिणश्च दातारः कृपणाः संतोषिताशयाः ।
अधर्मकामसंरक्तास्ते धर्मकामसाधिनः ॥ २५.८६{८५} ॥
मृषावादरता ये च तेऽप्यासन् सत्यभाषिणः ।
पैशुन्याभिरता ये च तेऽपि विश्रम्भभोजनाः ॥ २५.८७{८६} ॥
संभिन्नलापिनो दुष्टास्तेऽपि संतः समार्जवाः ।
पारुष्यंवादिनः क्रूरास्ते आसन् प्रियवादिनः ॥ २५.८८{८७} ॥
येऽभिध्यालवस्तेऽपि सज्जना कीर्तिमानिनः ।
व्यापादनिरता ये च तेऽपि सत्वहितार्थिनः ॥ २५.८९{८८} ॥
मिथ्यादृष्टिचरा ये च ते धर्मसत्यदृष्टयः ।
बोधिचर्यासमुत्साहाः सर्वे पुण्यार्थिनोऽभवन् ॥ २५.९०{८९} ॥
एवमन्येऽपि ये सत्वा दुःखिनः पापसंरताः ।
सर्वे ते सुखिनः संतः सद्धर्मवांछिनोऽभवन् ॥ २५.९१{९०} ॥
सुगंधिनः सुखस्पर्शाः शीतला वायवो ववुः ।
प्रसेदिरे दिशः सर्वाः पुष्पाणि ववृषुर्घनाः ॥ २५.९२{९१} ॥
सुरदुंदुभयो नेदुः प्रससार महोदधिः ।
प्रचचार मही षड्धा प्रजुज्वलुः शुभाग्नयः ॥ २५.९३{९२} ॥
बभूवुः पादपाः सर्वे फलपुष्पाभरानत्ताः ।
अष्टांगगुणयुक्ताम्बुपरिपूर्णजलाश्रयाः ॥ २५.९४{९३} ॥
अनेकधातुरत्नादि निधयः प्रचकासिरे ।
निस्पन्नशस्यसंपन्ना बह्हूव वसुधा तदा ॥ २५.९५{९४} ॥
बहुक्षीरप्रदा गाव औषधयो गुणान्विताः ।
रसाश्च सुगुणा आसन् फलानि सुरसानि च ॥ २५.९६{९५} ॥
एवं तत्र सुभद्राणि सर्वत्राप्यभवंस्तदा ।
उपद्रवाश्च सर्वेऽपि सर्वत्र विलयं गताः ॥ २५.९७{९६} ॥
सर्वे विघ्नगणा दुष्टा तेऽप्यत्र विलयं ययुः ।
सर्वे सत्वाः सुखाढ्याश्च प्रचेरिरे प्रहर्षिताः ॥ २५.९८{९७} ॥
एवं तदा मुनीन्द्रस्य प्रभावेन समंततः ।
सद्धर्ममंगलोत्साहं बभूव निरुपद्रवम् ॥ २५.९९{९८} ॥
एवं स भगवांस्तत्र कृत्वा भद्रं प्रभासयन् ।
प्रदक्षिणक्रमेणैवं प्रचक्राम नृपालये ॥ २५.१००{९९} ॥
तत्र शोधान्तरे रम्ये प्रासादे परिशोधिते ।
छत्रध्वजवितानैश्च मण्डिते विसृतासने ॥ २५.१०१{१००} ॥
प्रविश्य पाद्यमादाय नृपदत्तं ससांघिकः ।
भगवान् भासयंस्तत्र शुद्धासने समाश्रयन् ॥ २५.१०२{१} ॥
तथा ते सांघिकाश्चापि सर्वे दत्तं महीभुजा ।
स्वयं समादाय स्वस्वासने समाश्रयत् ॥ २५.१०३{२} ॥
एवं तत्र समासीनं श्रीघनं तं ससांघिकम् ।
नृपतिप्रमुखाः सर्वे लोका दृष्ट्वा प्रमोदिताः ॥ २५.१०४{३} ॥
(र्म् २९८)
सर्वपूजोपहारांगैः समभ्यर्च्य यथाविधिः ।
यथार्हभोजनैश्चापि प्रणीतैः समतोषयन् ॥ २५.१०५{४} ॥
ततस्तं सुगतं तृप्तं ससमहं स नराधिपः ।
दृष्ट्वापनीय पात्राणि तद्धस्तादीनशोधयत् ॥ २५.१०६{५} ॥
ततः क्रमुकताम्बूलमहौषद्धिरसायनम् ।
दत्वा क्षमार्थनां कृत्वा ननाम तं ससांघिकम् ॥ २५.१०७{६} ॥
तत्र समुदितो राजा तस्य शास्तुर्जगद्गुरोः ।
पुरो नीचासनासीनो तस्थौ श्रोतुं वृषं मुदा ॥ २५.१०८{७} ॥
तथा मंत्रिजनाद्याश्च सर्वे लोकाः प्रमोदिताः ।
नत्वा तं श्रीघनं तत्र धर्मं श्रोतुमुपाश्रयन् ॥ २५.१०९{८} ॥
ततः स भगवां दृष्ट्वा सर्वांस्तान् समुपाश्रितान् ।
नृपतिं तं समामंत्र्य सद्धर्मं समुपादिशत् ॥ २५.११०{९} ॥
शृणु राजन्महाभाग सर्वदारोग्यमस्तु वः ।
सर्वे सत्वाश्च सद्धर्मनिरता सन्तु सर्वदा ॥ २५.१११{१०} ॥
एवं त्वं भो महाराज साधयित्वा प्रयत्नतः ।
सर्वां सत्वां शुभे धर्मे योजयित्वाभिपालय ॥ २५.११२{११} ॥
एवं लोके शुभं कृत्वा बोधिचर्यां समाहितः ।
त्रिरत्नभजनं कृत्वा चिनु धर्मं समादरात् ॥ २५.११३{१२} ॥
अनित्यं खलु संसारं क्षणध्वंसि शरीरकम् ।
जीवितं च क्षणस्थायि धर्म एव सहानुगः ॥ २५.११४{१३} ॥
इति मत्वा महाराज क्लेशान् दुर्जयान् वलैः ।
जित्वा सत्वांच्छुभे स्थाप्य पालय सद्वृषं चिनुः ॥ २५.११५{१४} ॥
धर्मेण सद्गतिं यायाः सद्गतौ सर्वदा सुखम् ।
भुक्त्वा बोधिचरिं धृत्वा चरं बोधिमवाप्नुयाः ॥ २५.११६{१५} ॥
एवं विज्ञाय राजेंद्र स्वयं धर्मे समाहितः ।
सर्वसत्वहितं कृत्वा चर नित्यं समाहितः ॥ २५.११७{१६} ॥
इत्यादिश्य नरेंद्राय सलोकाय शुभाशिषम् ।
ससंघो भगवान् बुद्धः स्वाश्रमे गंतुमुत्थितः ॥ २५.११८{१७} ॥
भासयं सकलांल्लोकां भद्रं कृत्वा समंततः ।
स्वाश्रमाभिमुखस्तस्मात्प्रतस्थे क्रमतः पुरात् ॥ २५.११९{१८} ॥
तत्र सर्वेऽपि लोका नृपतिप्रमुखा अपि ।
शास्तुस्तस्य ससंघस्य प्रानुययुः सहोत्सवैः ॥ २५.१२०{१९} ॥
तथा स भगवान् गत्वा ससांघिको नृपादिभिः ।
लोकैः सह महोत्साहैः स्वाश्रमं समुपाययौ ॥ २५.१२१{२०} ॥
तत्र जेतवनोद्याने विहारे समुपाश्रितः ।
ससांघिकः सभासीनः स शास्ता धर्ममादिशत् ॥ २५.१२२{२१} ॥
तद्धर्मदेशनां श्रुत्वा तत्रैव ते नृपादयः ।
सर्वे लोकाः प्रमोदन्तो रात्रौ न्यूषुः सहोत्सवैः ॥ २५.१२३{२२} ॥
तस्यामेव निशायां स दूतोऽल्पायूर्ज्वरान्वितः ।
त्रिरत्नस्मरणं कुर्वन् देहं त्यक्त्वा दिवं ययौ ॥ २५.१२४{२३} ॥
(र्म् २९९)
तत्र स्वर्गे समुत्पन्नः स दूतो विस्मयान्वितः ।
कुतश्च्युतः कुहोत्पन्नः कथमिति व्यचिंतयत् ॥ २५.१२५{२४} ॥
तदा स मनसाद्राक्षीन्मनुष्येभ्यश्च्युतास्म्यहम् ।
इह स्वर्गे समुत्पन्नः संबुद्धभजनादिति ॥ २५.१२६{२५} ॥
अथ स दूतपूर्वी स देवपुत्रः प्रसादितः ।
संबुद्धस्य गुणान् स्मृत्वा पुनरेवं व्यचिंतयत् ॥ २५.१२७{२६} ॥
अहो ह्यहं मुनीन्द्रस्य प्रसादाद्दिवि सांप्रतम् ।
जातोऽस्मि तन्मुनीन्द्रस्य कुर्यां संदर्शनं पुनः ॥ २५.१२८{२७} ॥
इति हि दूतपुर्वी स देवपुत्रो विचिंतयन् ।
स्नात्वा सुगंधिलिप्तांगं शुद्धाम्वरावृतः सुधीः ॥ २५.१२९{२८} ॥
मौलिकुण्डलमालादि दिव्यालंकारभूषितः ।
दिव्यपूजोपचारां धृत्वा देवं सहाचरत् ॥ २५.१३०{२९} ॥
तस्यामेव निशायां स देवपुत्रः सुरैः सह ।
अवभास्य प्रभास्तस्मिज्जेतारण्ये उपाचरत् ॥ २५.१३१{३०} ॥
तत्रोद्याने विहारे तं भगवंतं मुनीश्वरम् ।
आलोक्य सांजलिर्नत्वा पुरतः समुपाचरत् ॥ २५.१३२{३१} ॥
ततस्तं श्रीघनं नाथं समभ्यर्च्य यथाविधिः ।
नत्वा प्रदक्षिणीकृत्य सांजलिः समुपाश्रयत् ॥ २५.१३३{३२} ॥
अथ स भगवांस्तस्य दृष्ट्वा चित्तं विशोधितम् ।
आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ २५.१३४{३३} ॥
तदार्य्यधर्ममाकर्ण्य देवपुत्रः स बोधितः ।
धर्मविशेषमाज्ञाय दृष्टसत्योऽभवंस्ततः ॥ २५.१३५{३४} ॥
सत्कायदृष्टिभूमीन्ध्रं विंशतिशिखरोद्गतम् ।
प्रभित्वा ज्ञानवज्रेण सद्धर्मं साधनोत्सुकः ॥ २५.१३६{३५} ॥
परिशुद्धाशयः श्रोतआपत्तिफलमाप्तवान् ।
शास्तुस्तस्य पदौ नत्वा सांजलिरेवमब्रवीत् ॥ २५.१३७{३६} ॥
भगवन्निदमस्माकं गुरुभिर्न कृतं खलु ।
न मात्रा नापि पित्रा वा न ज्ञातिमित्रवांधवैः ॥ २५.१३८{३७} ॥
न चेष्टैर्ब्राह्मणैर्वापि न चापि पूर्वप्रेतकैः ।
न राज्ञा श्रमणैश्चान्यैर्देवैरपि कृतं खलु ॥ २५.१३९{३८} ॥
यदस्माकं कृतं भद्रं भवतास्थिशिरोच्चयाः ।
लंघिता रुधिरा चाब्धिरुछोषिताश्च सांप्रतम् ॥ २५.१४०{३९} ॥
पिहितो पापमार्गश्च स्वर्गमार्गश्च वैवृतः ।
दर्शितो मोक्षमार्गोऽपि तीर्णो दुःखार्णवापि च ॥ २५.१४१{४०} ॥
प्रसादाद्भवतामद्य प्राप्तं शुद्धेंद्रियं मया ।
शान्तमार्यपदं कांतं संबोधिगुणसाधनम् ॥ २५.१४२{४१} ॥
अद्य मे सफलं जन्म भवतां दर्शनादिह ।
सद्धर्मश्रवणादद्य बुद्धपुत्रोऽस्मि सांप्रतम् ॥ २५.१४३{४२} ॥
इत्युक्त्वा दूतपुर्वी स देवपुत्रः प्रमोदितः ।
तस्य शास्तुर्जगद्वंधोः पादौ नत्वा कृतांजलिः ॥ २५.१४४{४३} ॥
त्रिधा प्रदक्षिणीकृत्य समभिनंदिताशयः ।
ततोऽनुज्ञां समासाद्य सुरैः सह दिवं ययौ ॥ २५.१४५{४४} ॥
(र्म् ३००)
तत्र स्वर्गे स सम्यातः सुरम्ये स्वालये स्थितः ।
त्रिरत्नभजनं कृत्वारमं देवैः सहावसत् ॥ २५.१४६{४५} ॥
तत्र दृष्ट्वावभासं तं प्रसेनजित्स कौशलः ।
विस्मितः प्रातरुत्थाय विहारे समुपाचरत् ॥ २५.१४७{५६!} ॥
तत्र तं श्रीघनं दृष्ट्वा नृपतिः स प्रमोदितः ।
नत्वा प्रदक्षिणीकृत्य सांजलिः समुपाश्रितः ॥ २५.१४८{५७} ॥
ततः स नृप उत्थाय सूत्तरासङ्गमुद्वहन् ।
जानुभ्यां भुवि संस्थित्वा प्रार्थयत्तं मुनीश्वरम् ॥ २५.१४९{५८} ॥
भगवन्नत्र निशायां को भवतां समुपागतः ।
तद्भवतां समुपादिश्या मां बोधयितुमर्हति ॥ २५.१५०{५९} ॥
इति संप्रार्थिते राज्ञा भगवान् स मुनीश्वरः ।
नृपतिं तं महीपालं समालोक्यैवमादिशत् ॥ २५.१५१{६०} ॥
अन्यो न हि स राजेंद्र योऽद्य रात्राविहागातः ।
अपि तु तावको दूतो देवभूतः स आगतः ॥ २५.१५२{६१} ॥
इत्यादिष्टे मुनीन्द्रेण नृपतिः स सविस्मयः ।
भगवंतं पुनर्नत्वा तत्कर्म पर्यपृछतः ॥ २५.१५३{६२} ॥
भवन् किं कदा तेन दूतेन सुकृतं कृतम् ।
येनासौ दिवि संजातो दृष्टसत्यो भवत्यपि ॥ २५.१५४{६३} ॥
तद्भवान् भगवंच्छास्त यत्तेन सुकृतं कृतम् ।
तत्सर्वं समुपाख्याय बोधयितुमनाशयम् ॥ २५.१५५{६४} ॥
इति संप्रार्थिते राज्ञा भगवान् स जगद्गुरुः ।
कौशलं तं महाराजं समालोक्यैवमादिशत् ॥ २५.१५६{६५} ॥
शृणु राजन्महाभाग तेन देवेन यत्कृतम् ।
तदत्र संप्रवक्ष्यामि तव चित्तप्रबोधने ॥ २५.१५७{६६} ॥
यत्त्वया प्रेषितो दूतो मयि राजगृहे स्थिते ।
येन संप्रार्थितं श्रुत्वा तथा ह्यहं समागतः ॥ २५.१५८{६७} ॥
स साधुस्तावको दूतो मया सार्द्धमिहागतः ।
सद्धर्मदेशनां श्रुत्वा श्रद्धाभक्तिसमन्वितः ॥ २५.१५९{६८} ॥
त्रिरत्नभजनं कृत्वा प्राचरच्छासने मम ।
आल्पायुष्को ह्यसौ भद्री विहारेऽत्र निवासितः ॥ २५.१६०{६९} ॥
कालधर्माभिसंयुक्ते त्यक्त्वा देहं दिवं ययौ ॥ २५.१६१{७०} ॥
स ह्यसौ तावको दूतो रात्रावद्येह भासयन् ।
मम संदर्शनं कर्तुं देवलोकैः सहागतः ॥ २५.१६२{७१} ॥
मम पूजां विधायासौ कृत्वा चापि प्रदक्षिणाम् ।
नत्वा सादरमाश्रित्य सद्धर्मं श्रद्धयाशृणोत् ॥ २५.१६३{७२} ॥
मत्सद्धर्मामृतं पीत्वा दृष्टसत्यः प्रमोदितः ।
नत्वा मां स पुनः स्वर्गे देवलोकैः सहाचरत् ॥ २५.१६४{७३} ॥
तत्र स स्वालये रम्ये स्थित्वा देवैः सहारमन् ।
त्रिरत्नभजनं कुर्वन् प्राचरं वसते सुखम् ॥ २५.१६५{७४} ॥
एतत्पुण्यविपाकेन दूतः स तावकः कृती ।
स्वर्गे सौख्यं चिरं भुक्त्वा क्रमाद्बोधिमवाप्स्यति ॥ २५.१६६{७५} ॥
(र्म् ३०१)
एवं विज्ञाय राजेंद्र संसारेऽत्र महत्सुखम् ।
यदीछसि सदा भद्रे चरितव्यं त्वयादरात् ॥ २५.१६७{७६} ॥
भद्रं तु जायते शीघ्रं त्रिरत्नभजनोद्यमात् ।
तत्त्रिरत्नमुपाश्रित्य भज नित्यं समाहितः ॥ २५.१६८{७७} ॥
त्रिरत्ने यत्कृतं कर्मं तन्नैव क्षिणुया क्वचित् ।
यावद्बोधिपदं दद्या एवं महत्तरं वृषम् ॥ २५.१६९{७८} ॥
ये त्रिरत्नं भजन्त्यत्र न ते गछन्ति दुर्गतिम् ।
सदैव सद्गतिं यान्ति बोधिं च समवाप्नुयुः ॥ २५.१७०{७९} ॥
तिस्रो हीमाः समाख्याता अग्राः प्रज्ञप्तयो नृप ।
यत्र किं चित्कृतं कर्म तद्विपाको महान् स्मृताः ॥ २५.१७१{८०} ॥
तद्यथा कतमास्तिस्रो अग्राः प्रज्ञप्तयः स्मृताः ।
त्रिरत्ने प्रकृता यास्ता अग्राः प्रज्ञप्तयः स्मृताः ॥ २५.१७२{८१} ॥
तद्यथा सर्वसत्वानां त्रैधातुकनिवासिनाम् ।
बुद्ध एव महानग्रो ज्येष्ठः श्रेष्ठो वरोत्तमः ॥ २५.१७३{८२} ॥
ये बुद्धश्रद्धया भक्त्या प्रभजंति प्रसादिताः ।
सर्वेऽत्यग्रप्रसन्नास्ते ज्येष्ठाः श्रेष्ठा वरोत्तमाः ॥ २५.१७४{८३} ॥
तदग्राभिप्रसन्नानां विपाकोऽप्यग्र उत्तमः ।
तथा धर्माश्च ये सर्वे संस्कृता वाप्यसंकृताः ॥ २५.१७५{८४} ॥
तेषामपि च सर्वेषां बुद्धधर्माग्र उच्यते ।
तत्र धर्मे प्रसन्ना ये तेऽग्रे हि संप्रसन्निताः ।
तदग्राभिप्रसन्नानां विपाकोऽप्यग्र उच्यते ॥ २५.१७६{८५} ॥
ये च संघा गणास्तेषां बुद्धसंघोऽग्र उच्यते ।
तत्र संघे प्रसन्ना ये तेऽग्रेऽभिसंप्रसादिनः ॥ २५.१७७{८६} ॥
तेषामग्रप्रसन्नानां विपाकोऽप्यग्र उच्यते ।
एताः प्रज्ञप्तयस्तिस्रो ह्यग्राः ख्यातो मुनीश्वरैः ॥ २५.१७८{८७} ॥
तदत्र श्रद्धया राज त्रिरत्ने संप्रसन्नधीः ।
सत्कारैः समुपाश्रित्य भज नित्यं समादरात् ॥ २५.१७९{८८} ॥
एतत्पुण्यमसंख्येयमप्रमेयं महत्तरम् ।
सर्वसत्वमहासौख्यगुणसंपत्तिदायकम् ॥ २५.१८०{८९} ॥
एवं मत्वा महत्पुण्यं सर्वान् सत्वान् प्रबोधयत् ।
त्रिरत्नभजनोत्साहैश्चारयस्व शुभे नृप ॥ २५.१८१{९०} ॥
एवं ते सर्वदा भद्रं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २५.१८२{९१} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स नृपतिर्मुदा ।
तथेति हि प्रतिज्ञाय प्राभ्यनंदत्प्रसादितः ॥ २५.१८३{९२} ॥
ततः स नृप उत्थाय नत्वा तं जगदीश्वरम् ।
महानंदमहोत्साहैः स्वपुरं सजनो ययौ ॥ २५.१८४{९३} ॥
तत्र स नृपती राजा प्रासादतलमाश्रितः ।
स मंत्रिपौरिकान् सर्वान् समामंत्र्यैवमादिशत् ॥ २५.१८५{९४} ॥
मंत्रिणः पौरिकाः सर्वे शृणुध्वं वचनं मम ।
(र्म् ३०२)
यदि वांछास्ति वो भद्रे त्रिरत्नं भजतादरत् ॥ २५.१८६{९५} ॥
यवदयं जगच्छास्ता विहरत्यत्र सांघिकः ।
तावदस्य मुनीन्द्रस्य भजत सर्वदोत्सवैः ॥ २५.१८७{९६} ॥
विहारे सर्वदा गत्वा श्रद्धया समुपाश्रिताः ।
तत्सद्धर्मामृतं पीत्वा मुदा चरत सद्वृतौ ॥ २५.१८८{९७} ॥
सर्वांश्च सौगतान् भिक्षून् सर्वोपकरणैरपि ।
सत्कृत्य श्रद्धयामंत्र्य मानयध्वं सदादरात् ॥ २५.१८९{९८} ॥
एतन्मे वचनं श्रुत्वा त्रिरत्नशरणं गताः ।
संबोधिप्रणिधानेन चरत बोधिचारिकाम् ॥ २५.१९०{९९} ॥
तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं समासाद्य लभत सौगतिं गतिम् ॥ २५.१९१{१००} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते मंत्रिणो जनाः ।
सर्वे वीरादयो लोकास्तथेति प्रतिशुश्रुवुः ॥ २५.१९२{१} ॥
तदा सर्वेऽपि ते लोकाः सद्धर्मसाधनोद्यताः ।
त्रिरत्नभजनं कृत्वा प्रचेरिरे समोदिताः ॥ २५.१९३{२} ॥
तदारभ्य सदा तत्र मंगलं निरुपद्रवम् ।
सर्वत्र सर्वदाप्यासीत्त्रिरत्नस्यानुभावतः ॥ २५.१९४{३} ॥
इति मे गुरुणादिष्टं तथा ते कथ्यते मया ।
त्वमप्येवं सदा राजन् त्रिरत्नं शरणं गतः ॥ २५.१९५{४} ॥
सद्धर्मं समुपाश्रित्य चर नित्यं सदा शुभे ।
लोकाश्चापि महाराज बोधयित्वा प्रयत्नतः ।
त्रिरत्नशरणे स्थाप्य पालनीयाः सदा त्वया ॥ २५.१९६{५} ॥
एवं ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २५.१९७{६} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः ।
तथेत्यभ्यनुमोदित्वा प्राभ्यनंदत्सपार्षदः ॥ २५.१९८{७} ॥
दूतावदानं यदिदं मुदा ये शृण्वंति ये चापि निशामयन्ति ।
ते सर्व एवं त्रिदिवे व्रजन्ति संबुद्धलोकेऽपि सरन्ति चान्ते ॥ २५.१९९{८} ॥
++ इति श्रिरत्नावदानतत्वे दूतावदानं समाप्तम् ++
(र्म् ३०३)
xxवि तैर्थिकावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं तमर्हन्तं प्रणत्वैवमब्रवीत् ॥ २६.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ २६.२{२} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा स सुगतात्मजः ।
उपगुप्तो नरेंद्रं तं समामंत्र्यैवमादिशत् ॥ २६.३{३} ॥
साधु शृणु महाराज यथा मे गुरुणोदितम् ।
तथात्राहं प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ २६.४{४} ॥
तद्यथा भगवांच्छास्ता श्रीघनोऽर्हन्मुनीश्वरः ।
सर्वज्ञः सुगतो नाथो धर्मराजो विनायकः ॥ २६.५{५} ॥
भिक्षुभिः श्रावकैः सार्द्धं तथा सर्वैश्च सांघिकैः ।
तत्रैव जेतकोद्याने विहारे व्यहरत्पुरा ॥ २६.६{६} ॥
तद्धर्मदेशनां श्रोतुं सर्वे लोकैः समागतैः ।
देवदानवगंधर्वैर्यक्षकिन्नरराक्षसैः ॥ २६.७{७} ॥
सिद्धैर्विद्याधरैश्चापि नागेन्द्रैर्गरुडैरपि ।
लोकपालैः ससैन्यैश्च ब्राह्मणैश्च महर्षिभिः ॥ २६.८{८} ॥
योगिभिर्यतिभिश्चापि निर्ग्रन्थिभिश्च तापसैः ।
राजभिः क्षत्रियैश्चापि तथा राजकुमारकैः ॥ २६.९{९} ॥
वैश्यैश्च मंत्रिभिः श्रेष्ठैर्गृहस्थैश्च महाजनैः ।
वणिग्भिः सार्थवाहैश्च शिल्पिभिः पौरिकैरपि ॥ २६.१०{१०} ॥
ग्राम्यैर्जानपदैश्चापि कार्पटिकैस्तथापरैः ।
त्रिरत्नदर्शनोत्साहैः सद्धर्मगुणवांछिभिः ॥ २६.११{११} ॥
सत्कृतो मानितो नित्यं पूज्यमानोऽभिवंदितः ।
सर्वसत्वहितार्थेन वर्षं धर्मामृतं सदा ॥ २६.१२{१२} ॥
तदा तत्र पुरे राजा प्रसेनजिन्नृपाधिपः ।
संबुद्धशासनं धृत्वा त्रिरत्नमभजन्मुदा ॥ २६.१३{१३} ॥
तद्दृष्ट्वा तीर्थिकाः सर्वे ईर्ष्यारोषाहताशयाः ।
संमील्य सौगतं धर्मं प्रतिक्षिप्यैवमब्रुवन् ॥ २६.१४{१४} ॥
भवन्तो यदयं बुद्धः सर्वज्ञ ऋद्धिमान् कृती ।
तत्सर्वानिमां लोकान् स्वं धर्मे संनियोजयेत् ॥ २६.१५{१५} ॥
तदास्मद्वचनं श्रोतुमपीछेन्नात्र कश्चन ।
सर्वे नः श्रावकाश्चापि भजेयुः सुगतं जिनम् ॥ २६.१६{१६} ॥
तदा सर्वे वयं लोकै निंद्यमानः समंततः ।
कथमत्र चरिष्यामस्तदन्यत्र चरेमहि ॥ २६.१७{१७} ॥
इति सर्वैरपि प्रोक्ते तीर्थिकोपासको द्विजः ।
सर्वान्स्तान्स्तीर्थिकं दृष्ट्वा पुनरेवमभाषत ॥ २६.१८{१८} ॥
(र्म् ३०४)
भवंतो म विषीदत्वं कर्तुमर्हति सर्वथा ।
तदुपायं करिष्यामि येनान्यत्र चरेज्जिनः ॥ २६.१९{१९} ॥
इति तान्स्तीर्थिकान् सर्वान् बोधयित्वा स दुर्मतिः ।
नृपतेरन्तिके गत्वा सादरमेवमब्रवीत् ॥ २६.२०{२०} ॥
शृणु राजन्महाभाग यद्धितं ते तदुच्यते ।
तथा त्वया समाधाय चरितव्यं सदादरात् ॥ २६.२१{२१} ॥
यदयं मुण्डितो भिक्षुः कुलधर्मविनाशकृत् ।
जातिधर्मपरिभ्रष्टः संसारवृत्तिनिंदकः ॥ २६.२२{२२} ॥
मायावी कुत्सिताचारो दुःशीलो लोकवंचकः ।
स्वयं नष्टः परांश्चापि नाशयितुमिहागतः ॥ २६.२३{२३} ॥
तदस्य दर्शनं राजं कर्त्तव्यं न कदा चन ।
ग्रहीतव्यं न नामापि श्रोतव्यं नापि तद्वचः ॥ २६.२४{२४} ॥
सत्कारं न च कर्त्तव्यं दातव्यं नापि किं चन ।
आश्रमेऽपि न गन्तव्यं स्थातव्यं न तदन्तिके ॥ २६.२५{२५} ॥
दर्शनं ये प्रकुर्वन्ति तस्य भिक्षोर्दुरात्मनः ।
ते सर्वे नरके यायुः सद्गतिं न कदा चन ॥ २६.२६{२६} ॥
ये च शृण्वन्ति तद्वाक्यं सर्वे ते निलयं गताः ।
तीव्रदुःखाभिसंतप्ता वसेयुरनुतापिताः ॥ २६.२७{२७} ॥
सत्कारं ये च कुर्वंति सर्वे ते विलयं गताः ।
दरिद्रा दुर्गतिं गत्वा भ्रमेयुर्निहताशयाः ॥ २६.२८{२८} ॥
ये च दानं प्रकुर्वन्ति तत्राशिर्लुहिताशयाः ।
तेऽपि च नरके याता दुःखान्येवमवाप्नुयुः ॥ २६.२९{२९} ॥
तदाश्रमे च गछंति सर्वे ते दुरिताङ्किताः ।
कुष्ठादि रोगसंतप्ता यायुश्च निरयेऽचिरात् ॥ २६.३०{३०} ॥
ये च तैः सह तिष्ठन्ति ते सर्वे पापसंगिताः ।
तीव्रदुःखाग्निसंदग्धा चरेयु निरये सदा ॥ २६.३१{३१} ॥
गृह्नन्ति ये च मन्नाम तेषां गेहेषु सर्वदा ।
लक्ष्मीर्मैव श्रयेत्तत्र नैरृतिरेव संश्रयेत् ॥ २६.३२{३२} ॥
ये बुद्धं भजन्त्यत्र ते ते सर्वेऽप्यधर्मिणः ।
कदापि सद्गतिं नैव यांति दूरगतिमेव हि ॥ २६.३३{३३} ॥
इति मत्वा महाराज सदा भद्रं यदीछसि ।
सत्कारं दर्शनं तस्य कर्त्तव्यं नैव के चन ॥ २६.३४{३४} ॥
किं धर्मं सौगतं धर्मं यन्मिथ्या परिकल्पितम् ।
तत्तस्य दुर्यतेर्धर्मं श्रोतव्यं नैव केन चित् ॥ २६.३५{३५} ॥
यस्य धर्मो हि सर्वत्र वेदशास्त्रे न गण्यते ।
स किं धर्मात्मको बुद्धस्तत्तत्र मंगलं न हि ॥ २६.३६{३६} ॥
इति तेनोदितं श्रुत्वा स परिबोधितः ।
त्रिरत्नभजनोत्साहशैथिल्यक्षुभितोऽभवत् ॥ २६.३७{३७} ॥
ततस्तस्य वचः श्रुत्वा तीर्थिकोपासकस्य सः ।
नृपतिस्तैर्थिके धर्मेऽभिललाष प्रसादितः ॥ २६.३८{३८} ॥
(र्म् ३०५)
तत्रैको गृहभृच्छ्रेष्ठी संबुद्धोपासकः सुधीः ।
तं तीर्थ्योपासकं दृष्ट्वा बोधयितुमभाषत ॥ २६.३९{३९} ॥
किमेवं दुर्मते बुद्धो धर्मराजोऽपि निंद्यते ।
मा मैवं वदतामत्र त्वमेव नरकं व्रजेः ॥ २६.४०{४०} ॥
यो लोके समुत्पन्नः सर्वक्लेशान् विनिर्जयन् ।
जित्वा मारगणान् सर्वान् संबोधिज्ञानमाप्तवान् ॥ २६.४१{४१} ॥
सर्वै ब्रह्मादिभिर्लोकैः संस्तुतो वंदितोऽर्चितः ।
मानितः सत्कृतो बुद्धस्त्वयैव निंद्यते कथम् ॥ २६.४२{४२} ॥
येनैव त्रिजगल्लोकां पुत्रवत्प्रतिपालितम् ।
पूजनीयः कथं नाथं धर्मराजो मुनीश्वरः ॥ २६.४३{४३} ॥
बुद्ध एव जगन्नाथो दयालुः सद्गुणाकरः ।
सर्वसत्वहिताधानोऽद्वयवादी विनायकः ॥ २६.४४{४४} ॥
सर्वज्ञः सुगतो भद्ररूपः सर्वहितार्थभृत् ।
सर्वविद्याधिपः शास्ता संबोधिमार्गदेशकः ॥ २६.४५{४५} ॥
निर्जितक्लेश आत्मज्ञः षडभिज्ञो जगद्गुरुः ।
संबुद्धोऽर्हञ्जिनस्त्रायी धर्मराजो मुनीश्वरः ॥ २६.४६{४६} ॥
ततः स भगवान्नेव सर्वत्रैधातुकेष्वपि ।
अग्रः श्रेष्ठो महाञ्जेष्ठो नान्यः कश्चिदतोऽधिकः ॥ २६.४७{४७} ॥
तस्मादस्य मुनीन्द्रस्य सत्कारं श्रद्धया सदा ।
शरणगमनं कृत्वा श्रोतव्यं धर्ममादरात् ॥ २६.४८{४८} ॥
ये बुद्धे शरणं यान्ति न ते गछंति दुर्गतिम् ।
सर्वदा सद्गतौ सौख्यं भुक्त्वा यान्ति जिनालये ॥ २६.४९{४९} ॥
शृण्वन्ति ये च तद्धर्मं तेऽपि नो यान्ति दुर्गतिम् ।
सदा स्वर्गे सुखं भुक्त्वा यायुश्चान्ते सुनिर्वृतिम् ॥ २६.५०{५०} ॥
भजन्ति ये च संघेषु तेऽपि न यान्ति दुर्गतिम् ।
सदा धर्मरताः सौख्यं भुक्त्वा यान्ति सुखावतिम् ॥ २६.५१{५१} ॥
एवं ये ये त्रिरत्नानां सर्वदा शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं भजन्ति बोधिमानसाः ॥ २६.५२{५२} ॥
सर्वे ते सद्गुणाधाराः सर्वसत्वहितार्थिनः ।
क्रमाद्बोधिचरीः पूर्य संबुद्धपदमाप्नुयुः ॥ २६.५३{५३} ॥
तेनायं भगवान्नेव जगन्नाथो जगद्गुरुः ।
धर्मराजो जगद्भर्त्ता जगत्त्रायी विनायकः ॥ २६.५४{५४} ॥
तेनास्य सद्गुरोः शास्तुः श्रद्धया शरणं गताः ।
सद्धर्मं सर्वदा श्रुत्वा कर्तुमर्हति सत्कृतिम् ॥ २६.५५{५५} ॥
ये चाप्यस्य मुनीन्द्रस्य प्रतिक्षिपन्ति शासनम् ।
सद्गतिं नैव ते यान्ति दुर्गतिमेव सर्वदा ॥ २६.५६{५६} ॥
इति मत्वा न कर्त्तव्या बुद्धे निंदा कथं चन ।
त्रिरत्नभजनान्येव कर्त्तव्यानि शुभार्थिभिः ॥ २६.५७{५७} ॥
ये त्रिरत्नं भजन्त्यत्र सर्वे ते बोधिभागिनः ।
बोधिसत्वा महासत्वा भवेयुः सुगतात्मजाः ॥ २६.५८{५८} ॥
तेन तेऽपि महासत्वास्त्रिरत्नोपासका अपि ।
श्रद्धया प्रणतिं तेसां कर्त्तुमर्हन्ति सर्वदा ॥ २६.५९{५९} ॥
इति तेनोदितं श्रुत्वा तीर्थिकोपासकश्च सः ।
(र्म् ३०६)
तं बुद्धोपासकं दृष्ट्वा पुनरेवमभाषत ॥ २६.६०{६०} ॥
आ किमेवं त्वया प्रोक्तं किं बुद्धोऽतापसाऽयतिः ।
पूरणो ब्रह्मविज्ञस्तपस्वी संयमी सुधीः ॥ २६.६१{६१} ॥
तत्तस्य पूरणस्याग्रे बुद्धः किं वक्तुमुत्सहेत् ।
बालकानेव वञ्चित्वा ह्यसद्धर्म्मे युनक्ति सः ॥ २६.६२{६२} ॥
पूरण एव सर्वेषां यतीनां ब्रह्मचारिणाम् ।
ऋद्धिमतां महानग्रो मात्रैकश्चित्ततोऽधिकः ॥ २६.६३{६३} ॥
इति तेनोदितं श्रुत्वा स बुद्धोपासकस्ततः ।
तीर्थिकोपासिकं दृष्ट्वा पुनरेव तमब्रवीत् ॥ २६.६४{६४} ॥
अरे किं ज्ञायते तस्य संबुद्धस्य गुणस्त्वया ।
येनैव कृपया दृष्ट्वा पालितं पुत्रवज्जगत् ॥ २६.६५{६५} ॥
यस्य लोके दया नास्ति तेन किं पाल्यते जगत् ।
केवललोभसत्कारं हेतुनादोम्भिको हि सः ॥ २६.६६{६६} ॥
तपस्वी योगवित्प्राज्ञ ऋद्धिमान् सिद्धिमानपि ।
यस्य नास्ति दया सत्वे स किं शास्ता जगद्गुरुः ॥ २६.६७{६७} ॥
यो दृष्ट्वा सकलान् सत्वान् कृपया संप्रबोधयन् ।
सद्धर्मे योजयत्यत्र स एव जगतां गुरुः ॥ २६.६८{६८} ॥
तस्मादत्र जगच्छास्ता सर्वसत्वहितार्थभृत् ।
बुद्ध एव जगन्नाथो जगत्त्रायी जगद्गुरुः ॥ २६.६९{६९} ॥
नास्ति बुद्धसमः कश्चित्सर्वसत्वहितंकरः ।
तेन ब्रह्मादिदेवैः स वंदनीयो मुनीश्वरः ॥ २६.७०{७०} ॥
यतोऽयं श्रीघनः त्रायी षडभिज्ञो विनायकः ।
मुनीन्द्रोऽर्हं सुभद्रांशस्तेन तस्याधिको हि कः ॥ २६.७१{७१} ॥
तेनायं सुगतो बुद्धो धर्मराजस्तथागतः ।
सत्कृत्य श्रद्धया सर्वे भजनीयः शुभेछुभिः ॥ २६.७२{७२} ॥
इति तेनोदितं श्रुत्वा तीर्थिकोपासकोऽथ सः ।
रोषाग्निपरिदग्धास्यस्तं बौद्धमेवमब्रवीत् ॥ २६.७३{७३} ॥
आ एवमुच्यते कोऽत्र पूरणात्पर उत्तमः ।
यतीर्विज्ञो महाभिज्ञः स एव त्रिजगद्गुरुः ॥ २६.७४{७४} ॥
इति तेनोदितं श्रुत्वा संबुद्धोपासकोऽपि सः ।
सांजलिः प्रणतिं कृत्वा भूमावेवं तमब्रवीत् ॥ २६.७५{७५} ॥
बुद्धादन्यो विशिष्टः कस्त्रैधातुभुवनेष्वपि ।
बहुधा किं प्रवादेन बुद्ध एव जगत्प्रभुः ॥ २६.७६{७६} ॥
तेनेत्युक्ते स रुष्टात्मा तीर्थिकोपासकस्तदा ।
कोपाग्निपरिदग्धांगस्तं बुद्धमेवमब्रवीत् ॥ २६.७७{७७} ॥
यदि बुद्धो विशिष्टः स्यात्पूरणादर्हतो यतेः ।
सर्वस्वं मे तवाधीनं दासश्चापि भवाम्यहम् ॥ २६.७८{७८} ॥
यदि बुद्धाद्विशिष्टो हि पूरणोऽर्हं महामतिः ।
सर्वस्वं ते ममाधीनं दासश्चापि भवेः खलु ॥ २६.७९{७९} ॥
इति तेनोदिते तत्र संबुद्धोपासकोऽपि सः ।
तथेति वंधनिक्षेपं कृत्वा स्वीकरणं व्यधात् ॥ २६.८०{८०} ॥
तयोरेतत्प्रवादत्वं प्रसेनजिन्नराधिपः ।
(र्म् ३०७)
मत्वामात्यान् समाहूय पुररेवमभाषत ॥ २६.८१{८१} ॥
गछध्वं मंत्रिणः सर्वे बुद्धतैर्थिकयोरपि ।
निर्णयित्वा विवादत्वे मिमांसा क्रियतामिह ॥ २६.८२{८२} ॥
इति राज्ञा समादिष्टं श्रुत्वा ते मंत्रिणो जनाः ।
सहसा तज्जनान् सर्वान् समाहूयैवमादिशत् ॥ २६.८३{८३} ॥
भवन्तो नृपतेरेवमाज्ञां श्रुत्वा समाहिताः ।
सर्वत्र विजिते घण्टानादैश्चोदय तद्द्रुतम् ॥ २६.८४{८४} ॥
इति तैर्मंत्रिभिः प्रोक्तैः श्रुत्वा ते सजनास्तथा ।
घण्टावघोषनं कृत्वा सर्वत्रैवं घोषयन् ॥ २६.८५{८५} ॥
शृण्वन्तु पौरिकाः सर्वे इतोऽह्नि सप्तमेऽहनि ।
बौद्धतैर्थिकसंवादे मिमांसात्र भविष्यति ॥ २६.८६{८६} ॥
ये येऽत्र द्रष्टुमिछन्ति सर्वे ते समुपागताः ।
बुद्धस्य तीर्थिकस्यापि प्रभावं द्रष्टुमर्हत ॥ २६.८७{८७} ॥
एवं ते विजिते तत्र सर्वत्र विषयेष्वपि ।
घण्टावघोषणं कृत्वा मंत्रिणां पुर आययुः ॥ २६.८८{८८} ॥
ततस्ते सजनाः सर्वे राज्ञोऽन्तिकमुपागताः ।
प्रणत्वैतत्प्रवृत्तांतं पुरतः संन्यवेदयन् ॥ २६.८९{८९} ॥
ततोऽह्नि सप्तमे प्राप्ते सर्वे लोकाः समागताः ।
विस्तीर्णे भूतले रम्ये तद्द्रष्टुमुपतस्थिरे ॥ २६.९०{९०} ॥
तथा देवा अनेके च तद्दर्शनकुतूहलाः ।
अन्तरीक्षे समाश्रित्य संतस्थुः प्रतिमोदिताः ॥ २६.९१{९१} ॥
एवं सर्वेषु लोकेषु नृपमंत्रिजनादिषु ।
नैकशतसहस्रेषु सन्निपातेषु सर्वतः ॥ २६.९२{९२} ॥
तीर्थिकोपासकस्तत्र स गोमये प्रलेषिते ।
मंडले गंधपुष्पादिपूजांगैः समपूजयत् ॥ २६.९३{९३} ॥
ततः स सांजलिर्नत्वा जानुभ्यां भुवि संस्थितः ।
उद्वहन्नुत्तरासंगं प्रार्थयदेवमादरात् ॥ २६.९४{९४} ॥
येन सत्येन षड्विज्ञाः शास्तारः पूरणादयः ।
भगवंतो महाभिज्ञा अर्हन्तो ब्रह्मचारिणः ॥ २६.९५{९५} ॥
अनेन सत्यभावेन सर्वानेतान् यतीश्वरान् ।
एतत्पूजोपहाराणि प्रानुगंछंतु संमुखम् ॥ २६.९६{९६} ॥
एवं संप्रार्थनां कृत्वा तीर्थिकोपासको मुदा ।
तानि पंचोपहाराणि प्रादाय गगणेऽक्षिपत् ॥ २६.९७{९७} ॥
तेन क्षिप्रक्षिप्तमात्राणि तानि सर्वाणि भूतले ।
पतितान्यस्तंगतान्येव सहसादर्शने ययुः ॥ २६.९८{९८} ॥
तद्दृष्ट्वा ससुरा लोकाः सर्वे ते भूमिपादयः ।
उच्चैर्नादैर्हसन्तस्तं तैर्थिकमेव मेनिरे ॥ २६.९९{९९} ॥
तद्दृष्ट्वा धिक्प्रवादं च श्रुत्वा स तैर्थिकोऽपतत् ।
ततश्चिरात्समुत्थाय लज्जाभिन्नमुखाशयः ॥ २६.१००{१००} ॥
त्रसितोऽधोमुखोद्रष्टो निष्प्रभः परिकंपितः ।
भ्रस्तस्कंधः करे कण्डं स्थाप्य तस्थौ विमुर्छितः ॥ २६.१०१{१} ॥
तद्दृष्ट्वा स प्रसन्नात्मा बुद्धोपासको मुदा ।
प्रकृत्वा मण्डलं तत्र गोमयप्रतिलेपिते ॥ २६.१०२{२} ॥
(र्म् ३०८)
पंचोपहारपूजंगैः समभ्यर्च्य यथाविधिः ।
उद्वहन्नुत्तरासङ्गं जानुभ्यां भुवि संस्थितः ॥ २६.१०३{३} ॥
सांजलिः पुरतः स्थित्वा संबुद्धं तं मुनीश्वरम् ।
स्मृत्वा नत्वा तथा सत्यं प्रार्थयदेवमादरात् ॥ २६.१०४{४} ॥
यतोऽयं भगवान् बुद्धः सर्वलोकविनायकः ।
तेन सत्येन सर्वाणि पुष्पाणीमानि सूदकम् ॥ २६.१०५{५} ॥
इदं सौरभ्यधूपं च भगवन्तं मुनीश्वरम् ।
संबुद्धं श्रीघनं नाथं प्राभियान्तु विहायसा ॥ २६.१०६{६} ॥
इति संप्रार्थनां कृत्वा स बुद्धोपासको मुदा ।
तानि सर्वोपहाराणि प्रादाय गगणेऽक्षिपत् ॥ २६.१०७{७} ॥
तानि तेन प्रक्षिप्तानि सर्वाणि गगणेऽसरन् ।
तानि सर्वाणि पुष्पाणि छत्रीभूत्वाचरन् क्रमात् ॥ २६.१०८{८} ॥
धूपो मेघवदम्भोऽपि वैडूर्य्यवत्तदाचरत् ।
तद्दृष्ट्वा जनता सर्वा महाश्चर्य्यं प्रलेहिरे ॥ २६.१०९{९} ॥
क्रमेण तानि सर्वाणि प्रचरन्ति विहायसा ।
झटिति जेतकारण्ये विहारे संमुखं ययुः ॥ २६.११०{१०} ॥
दृष्ट्वा सजनकायोऽपि प्रतिहार्यं तदद्भुतम् ।
जयशब्दं प्रकुर्वन्तः पश्यन्तोऽनुययुर्मुदा ॥ २६.१११{११} ॥
तत्र सर्वाणि पुष्पाणि छत्रीभूत्वा जगद्गुरोः ।
संबुद्धस्य जगच्छास्तुरुपरि समुपाश्रयन् ॥ २६.११२{१२} ॥
तद्धूपमग्रतस्तस्य तस्थौ कृत्वा प्रदक्षिणाम् ।
पदाम्बुजं तदम्भोऽपि पपात वियतः सरत् ॥ २६.११३{१३} ॥
तत्समालोक्य सर्वे ते द्विजादि पौरिका जनाः ।
प्रसादिता मुनीन्द्रस्य सभायां समुपाचरन् ॥ २६.११४{१४} ॥
सर्वे प्रदक्षिणीकृत्य कृतांजलिपुटा मुदा ।
भगावन्तं मुनिं नत्वा सर्वे ते समुपाश्रयन् ॥ २६.११५{१५} ॥
स बुद्धोपासकश्चापि नत्वा तं श्रीघनं मुदा ।
तत्सद्धर्मामृतं पातुमुपतस्थौ कृतांजलिः ॥ २६.११६{१६} ॥
तीर्थिकोपासकः सोऽपि तद्दृष्ट्वा विस्मयान्विताः ।
महद्बुद्धानुभावत्वं मत्वा द्रष्टुमुपाश्रयत् ॥ २६.११७{१७} ॥
ततः स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् ।
आर्यसत्यमुपादिश्य पुनरेवमुपादिशत् ॥ २६.११८{१८} ॥
शृणुध्वं साधवः सर्वे आर्यधर्मं समुच्यते ।
यत्त्रिरत्नं समाख्यातं तत्त्रिलोक्ये महत्तरम् ॥ २६.११९{१९} ॥
तद्यथा सर्वलोकानां त्रैधातुकनिवासिनाम् ।
सर्वेषामपि भद्रार्थं सद्धर्मं संप्रकाशये ॥ २६.१२०{२०} ॥
स संबुद्धो जगच्छास्ता सर्वसत्वहितंकरः ।
जगन्नाथो जगत्त्राता बुद्धरत्नमिदं वरम् ॥ २६.१२१{२१} ॥
अत्र यैः श्रद्धया कर्मं दानादि सुकृतं कृतम् ।
तेषामग्रप्रसन्नानां विपाकैः फलमुत्तमम् ॥ २६.१२२{२२} ॥
अप्रमेयमसंख्येयं संबोधिपददायकम् ।
(र्म् ३०९)
एवं मत्वात्र संबुद्धं भजत सर्वदा मुदा ॥ २६.१२३{२३} ॥
यावतश्चात्र संसारे संस्कृता वाप्यसंस्कृताः ।
धर्मास्तेषां महानग्रो विरागो धर्ममुत्तमः ॥ २६.१२४{२४} ॥
धर्मरत्नमिदं येऽत्र प्रभजन्ति प्रसादिताः ।
तेषामग्रप्रसन्नानां विपाके फलमुत्तमम् ॥ २६.१२५{१२} ॥
अप्रमेयमसंख्येयं संबोधिज्ञानदायकम् ।
तदेतत्सौगतं धर्मं श्रुत्वा भजंति संवरम् ॥ २६.१२६{१३} ॥
यावन्तश्चात्र त्रैलोक्ये संघाः पूगा गणाः स्मृताः ।
तेषामग्रो महान् ख्यातो बुद्धसंघो जगद्वरः ॥ २६.१२७{१४} ॥
संघरत्नमिदं येऽत्र भजन्ति श्रद्धया मुदा ।
तेषामग्रप्रसन्नानां विपाके फलमुत्तमम् ॥ २६.१२८{१५} ॥
अप्रमेयमसंख्येयं संबोधिमार्गचालकम् ।
तदत्र सौगते संघे भजत श्रद्धयादरात् ॥ २६.१२९{१६} ॥
इदं रत्नत्रयं ख्यातं सर्वसत्वशुभंकरम् ।
वाञ्छितार्थप्रदं सिद्धं संबोधिज्ञानदायकम् ॥ २६.१३०{१७} ॥
तदेतत्त्रितयं रत्नं संबोधिपदवांछिभिः ।
सत्कृत्य श्रद्धया नित्यं पूजनीयं समादरात् ॥ २६.१३१{१८} ॥
ये त्रिरत्नं सदा नित्यं पूजयन्ति प्रसादिताः ।
न ते मारवशं याता भवंति बोधिलाभिनः ॥ २६.१३२{१९} ॥
इति मत्वा त्रिरत्नं तद्दृष्ट्वा कृत्वानुमोदनाम् ।
साञ्जलिप्रणतिं कृत्वा दूराद्वन्दितुमर्हथ ॥ २६.१३३{२०} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते ब्राह्मणादयः ।
सर्वे लोकाः प्रसीदन्तस्त्रिरत्नशरणं ययुः ॥ २६.१३४{२१} ॥
तत्र के चिज्जना भद्राः संबुद्धशरणं गताः ।
शिक्षापदं समादाय प्राचरत्सौगतं व्रतम् ॥ २६.१३५{२२} ॥
के चिद्भद्राशया विज्ञा संबुद्धशरणं गताः ।
प्रव्रज्याव्रतमादाय प्राचरद्ब्रह्मचारिकाम् ॥ २६.१३६{२३} ॥
ततः क्लेशान् विनिर्जित्य संसारभोग्यनिस्पृहाः ।
साक्षादर्हत्पदं प्राप्य बभूव ब्रह्मचारिणः ॥ २६.१३७{२४} ॥
एतत्सर्वं समालोक्य तीर्थिकोपासकोऽपि सः ।
विस्मितः सुप्रसन्नात्मा त्रिरत्नं शरणं ययौ ॥ २६.१३८{२५} ॥
ततः स तैर्थिकस्तस्य मुनीन्द्रस्य पदाम्बुजे ।
साञ्जलिप्रणतश्चैवं प्रणिधानं व्यधान्मुदा ॥ २६.१३९{२६} ॥
अद्यारभ्य सदाप्यस्य मुनीन्द्रस्य जगद्गुरोः ।
सद्धर्मं समुपाश्रित्य त्रिरत्नोपासको भवे ॥ २६.१४०{२७} ॥
एतत्पुण्यविपाकेन लोकेऽन्धेऽपरिनायके ।
संबोधिज्ञानमासाद्य भवेयं सुगतो जिनः ॥ २६.१४१{२८} ॥
अतीर्णां तारयिष्यामि मोचयिष्याम्यमोचितान् ।
सर्वानाश्वासयिष्यामि ह्यनाश्वस्तान् सुदुःखिनः ॥ २६.१४२{२९} ॥
सत्वान्निर्वापयिष्यामि भवालयादनिर्वृतान् ।
करिष्यामि सदा भद्रं त्रैधातुभुवनेष्वपि ॥ २६.१४३{३०} ॥
(र्म् ३१०)
इति तेन कृतं बोधिप्रणिधानं स्वचेतसा ।
मत्वा स भगवान् स्मितं विससर्ज सरश्मिकम् ॥ २६.१४४{३१} ॥
तदा ता रश्मयः पंचवर्णाः सर्वाः समंततः ।
लोकेषु प्रसृता भद्रं सौख्यं कृत्वा प्रसेरिरे ॥ २६.१४५{३२} ॥
या अधस्ताद्गताभासो सर्वत्र नरकेषु ताः ।
प्रसृता अवभास्यैवं भद्रसौख्यं प्रचक्रिरे ॥ २६.१४६{३३} ॥
तत्प्रभाभिः परिस्पृष्टा सर्वे ते नरकाश्रिताः ।
निर्दुःखा सौख्यमासाद्य विस्मयं समुपाययुः ॥ २६.१४७{३४} ॥
ततस्ते नारकाः सत्वाः सर्वे ते नरके स्थिताः ।
एकैकनरकेष्वेवं संमील्य संवभाषिरे ॥ २६.१४८{३५} ॥
अहो चित्रं किमद्यैवं महत्सौख्यं प्रजायते ।
इतश्च्युताः किमन्यत्र समुत्पन्ना वयं खलु ॥ २६.१४९{३६} ॥
इति संवादिनां तेसां सर्वेषां संप्रबोधने ।
भगवान्निर्मितं बुद्धं प्रेरयन्नरके प्रति ॥ २६.१५०{३७} ॥
तं दृष्ट्वा नारकाः सर्वे विस्मिताः संप्रसादिताः ।
भूय एकत्र संमील्य मिथ एवं वभाषिरे ॥ २६.१५१{३८} ॥
अहो वयमितश्च्युत्वा नैवान्यत्र गताः खलु ।
किं त्वस्यापूर्वरूपस्य प्रभावान्नः शुभायते ॥ २६.१५२{३९} ॥
नूनमयं जगन्नाथो बुद्धोऽस्मान् दुःखपीडितान् ।
समीक्ष्य कृपया दृष्ट्या समुद्धर्त्तुमिहागतः ॥ २६.१५३{४०} ॥
तदस्यात्र वयं सर्वे सत्कृत्य श्रद्धयादरात् ।
सर्वदा शरणं गत्वा भक्तुमर्हामहेऽधुना ॥ २६.१५४{४१} ॥
इति संभाषणां कृत्वा सर्वे ते संप्रसादिताः ।
अस्यैव शरणं गत्वा प्रणत्वा संप्रभेजिरे ॥ २६.१५५{४१!} ॥
ततस्ते नारकाः सर्वे तत्पापपरिमोचिताः ।
परिशुद्धाः शुभात्मानः सद्गतिं सहसा ययुः ॥ २६.१५६{४२} ॥
एवं तान्नारकान् सर्वाः समुद्धृत्य प्रभाश्च ताः ।
सर्वाः प्रत्यागतास्तत्र संबुद्धस्य पुरोऽसरन् ॥ २६.१५७{४३} ॥
एवमूर्द्धं गतायाश्च रश्मयस्ताः समंततः ।
सर्वान् देवालयां लोकानवभास्य प्रसेरिरे ॥ २६.१५८{४४} ॥
यावद्भवाग्रपर्यन्तमवभास्य समंततः ।
प्रसारिताः ततो गाथा निसृताः समचोदयन् ॥ २६.१५९{४५} ॥
अनित्यं खलु संसारं दुःखं शून्यमनात्मकम् ।
पुण्यमेव जगत्सारं तत्पुण्यं चिनुतादरात् ॥ २६.१६०{४६} ॥
निष्क्रामतारभध्वं तद्युज्यध्वं बुद्धशासने ।
धुनीत मृत्युसैन्यानि चरत सौगतं व्रतम् ॥ २६.१६१{४७} ॥
यो ह्यस्मिन् सौगते धर्मे चरिष्यति समाहितः ।
स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ २६.१६२{४८} ॥
तत्त्रिरत्नं सदा यूयं संस्मृत्वा शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं भजत बोधिप्राप्तये ॥ २६.१६३{४९} ॥
एवं तद्घोषमाकर्ण्य सर्वदेवाः प्रबोधिताः ।
त्रिरत्नं शरणं कृत्वा प्रभेजिरे सदादरात् ॥ २६.१६४{५०} ॥
(र्म् ३११)
एवं ता रश्मयो देवाञ्चोदयित्वा समंततः ।
पुनः प्रत्यागतास्तत्र बुद्धान्तिकमुपाययुः ॥ २६.१६५{५१} ॥
तत्र ता रश्मयः सर्वा एकीभूत्वाभिपिण्डिताः ।
त्रिधा प्रदक्षिणीकृत्य सूष्णीषेऽन्तर्दधुर्मुनेः ॥ २६.१६६{५२} ॥
तद्दृष्ट्वा ससभालोकाः सर्वे ते विस्मयान्विताः ।
शास्ता किमादिशेद्धर्ममिति ध्यात्वा निषेदिरे ॥ २६.१६७{५३} ॥
अथायुष्मान्महानन्दो मत्वा तल्लोकचिंतितम् ।
उत्थाय सांजालिर्नत्वा पप्रछ तं मुनीश्वरम् ॥ २६.१६८{५४} ॥
विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः ।
नाकारणे शंखमृणालगौरं स्मितमुपदेशयन्ति जिना जितारयः ॥ २६.१६९{५५} ॥
तत्कालं स्वयमेवमधिगम्य धीर बुद्ध्या श्रोतॄणां श्रमण जिनेंद्र काङ्क्षितानां धीरभिर् ।
मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः ॥ २६.१७०{५६} ॥
नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः ।
यस्यार्थे स्मितमुपदर्शयंति धीरास्तं श्रोतुं समभिलषन्ति जनोघाः ॥ २६.१७१{५७} ॥
तद्भवान् सर्वसत्वानां चित्ताभिपरिबोधने ।
यदभिलषितं कार्यं तदुपदेष्टुमर्हति ॥ २६.१७२{५८} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
आयुष्मन्तं तमानंदं समालोक्यैवमादिशत् ॥ २६.१७३{५९} ॥
एवमेतन्महानंद नाहेतुप्रत्ययं जिनाः ।
संबुद्धाः सुगताः सर्वे दर्शयन्ति स्मितं क्वचित् ॥ २६.१७४{६०} ॥
शृण्वानंद यदर्थेऽहं स्मितं मुञ्चामि सांप्रतम् ।
तदर्थं संप्रवक्ष्यामि सर्वसत्वप्रबोधने ॥ २६.१७५{६१} ॥
पश्यसि यदयं श्रेष्ठी तीर्थिकोपासको मुदा ।
ममात्र शरणं गत्वा प्रणिधानं करोति हि ॥ २६.१७६{६२} ॥
एतत्पुण्यविपाकेन त्रिकल्पान्तमनात्मवित् ।
क्रमाद्बोधिचारीः सर्वाः परिपूर्य भवेत्सुधीः ॥ २६.१७७{६३} ॥
ततः क्लेशगणाञ्जित्वा सर्वान्मारगणानपि ।
बोधिं प्राप्याचलो नाम तथागतो भविष्यति ॥ २६.१७८{६४} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदादि भिक्षवः ।
सर्वे ते सुप्रसन्नास्याः प्राभ्यनन्दन् सविस्मयाः ॥ २६.१७९{६५} ॥
तथा तेन मुनीन्द्रेण व्याख्यातं स तैर्थिकः ।
श्रुत्वानुमोदनां कृत्वा प्राभ्यनन्दन् सविस्मयः ॥ २६.१८०{६६} ॥
ततः स सर्वदा नित्यं सत्कृत्य श्रद्धया मुदा ।
त्रिरत्नभजानं कृत्वा प्राचरत्सौगतं व्रतम् ॥ २६.१८१{६७} ॥
इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते ।
त्वमप्येवं महाराज त्रिरत्नसेवको भव ॥ २६.१८२{६८} ॥
प्रजाश्चापि तथा राजं बोधयित्वा प्रयत्नतः ।
त्रिरत्नभजनोत्साहे संचारयितुमर्हसि ॥ २६.१८३{६९} ॥
तथा ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् ।
(र्म् ३१२)
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयात् ॥ २६.१८४{७०} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
सत्यमिति प्रतिज्ञाय प्राभ्यनान्दत्स पार्थिकः ॥ २६.१८५{७१} ॥
शृण्वन्तीदं नरा ये मुनिवरकथितं तैर्थिकस्यावदानं ये चापि श्रावयन्ति प्रमुदितमानसः श्रद्धया भक्तियुक्ताः ।
ते सर्वे बोधिसत्वाः सकलगुणभरा भद्रचर्या चरन्तो भुक्त्वा सत्सौख्यभद्रं जिनवरनिलये संप्रयान्ति प्रमोदाः ॥ २६.१८६{७२} ॥
++ इति श्रीरत्नावदानतत्वे तैर्थिकावदानं समाप्तम् ++
(र्म् ३१३)
xxविइ मालिकावदान
अथाशोको महीनाथः कृतांजलिपुटो मुदा ।
उपगुप्तं तमर्हन्तं प्रणत्वा प्रार्थयत्पुनः ॥ २७.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथादेष्टुं त्वमर्हति ॥ २७.२{२} ॥
इति तेन नरेन्द्रेण प्रार्थितं स यतीश्वरः ।
उपगुप्तो नरेन्द्रन् तं समालोक्यैवमादिशत् ॥ २७.३{३} ॥
शृणु साधु महाराज यथा मे गुरुणोदितम् ।
तथाहं तत्प्रवक्ष्यामि तव पुण्यविवृद्धये ॥ २७.४{४} ॥
तद्यथा भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो मुनीश्वरः ॥ २७.५{५} ॥
एकस्मिन् समये तत्र श्रावस्त्या उपकण्ठिके ।
जेतारण्ये महोद्याने विहारे श्रावकैः सह ॥ २७.६{६} ॥
भिक्षुभिश्चैलकैश्चापि भिक्षुणीभिरुपासकैः ।
उपासिकाभिरन्यैश्च बोधिसत्वगणैरपि ॥ २७.७{७} ॥
सर्वसत्वहितार्थेन बोधिचर्यं प्रकाशयन् ।
सद्धर्मं समुपादिश्य विजहार प्रभासयन् ॥ २७.८{८} ॥
तत्सद्धर्मामृतं पातुं सर्वे लोकाः समागताः ।
शक्रादयोऽपि देवेन्द्रा ब्रह्मादिलोकपालकाः ॥ २७.९{९} ॥
दैत्येंद्रा गरुडा नागा यक्षगंधर्वकिंनराः ।
सिद्धा विद्याधराश्चापि राक्षसाश्च महर्द्धिकाः ॥ २७.१०{१०} ॥
ऋषयो ब्राह्मणा चापि क्षत्रियाश्च नराधिपाः ।
वैश्या राजकुमाराश्च मंत्रिणोऽमात्यका जनाः ॥ २७.११{११} ॥
गृहस्थाः सार्थवाहाश्च वणिजः शिल्पिनोऽपि च ।
पौरा जानपदा ग्राम्या अन्ये कार्पटिका अपि ॥ २७.१२{१२} ॥
सर्वे ते समुपागत्य तत्र तं श्रीघनं मुनिम् ।
दृष्ट्वा प्रदक्षिणीकृत्य प्रणत्वा समुपाचरन् ॥ २७.१३{१३} ॥
यथाक्रमं समभ्यर्च्य नत्वा सांजलयो मुदा ।
परिवृत्य पुरस्कृत्य सर्वे ते समुपाश्रयन् ॥ २७.१४{१४} ॥
तान् सर्वान् समुपासीनां दृष्ट्वा स भगवान्मुनिः ।
आर्यसत्यं समारभ्य दिदेश धर्ममुत्तमम् ॥ २७.१५{१५} ॥
तद्धर्मं समुपाकर्ण्य सर्वे ते संप्रबोधिताः ।
धर्मवैशेषमाज्ञाय बभुवुर्बोधिवांछिताः ॥ २७.१६{१६} ॥
तदा तत्र पुरे राजा प्रसेनजित्कौशलः ।
यदा न सुगतस्तत्र तदा तीर्थिकभागभूत् ॥ २७.१७{१७} ॥
यदा तु सुगतस्तत्र ससांघिकः समागतः ।
तदा स नृपतिर्नित्यं श्रीघनं तं सदाभजत् ॥ २७.१८{१८} ॥
तस्मिंश्च समये तत्र कश्चिदारामिको वनात् ।
(र्म् ३१४)
नवं पद्मैः समादाय राज्ञे दातुं पुरेऽविशत् ॥ २७.१९{१९} ॥
तत्रैकपथि तं दृष्ट्वा तीर्थिकोपासिको मुदा ।
सहसा तस्य पुरो गत्वा प्रार्थयत्तं सरोरुहम् ॥ २७.२०{२०} ॥
भो मालिन्निदं पद्मं यदि विक्रेतुमिछसि ।
उचितं मूल्यमादाय मह्यं दातुं त्वमर्हसि ॥ २७.२१{२१} ॥
इति तेनार्थितं श्रुत्वा मालिकः लुभिताशयः ।
यदीछति भवान् दद्यामिति तं दातुमैछत ॥ २७.२२{२२} ॥
तस्मिन्नेव क्षणे तत्र गृहस्थोऽनाथपिण्डदः ।
पुष्पार्थी समुपायातो मालिकं तमपृछत ॥ २७.२३{२२} ॥
भो मालिन्निदं पद्मं यदि विक्रेतुमिछति ।
द्विगुणं मूल्यमादाय भवान्मे दातुमर्हति ॥ २७.२४{२३} ॥
इति तेनोदितं श्रुत्वा तीर्थिकोपासकोऽपि सः ।
तद्द्विगुणेन मूल्येन तद्पद्मं समयाचत ॥ २७.२५{२४} ॥
इति तेनार्थितं श्रुत्वा स चाप्यनाथपिण्डदः ।
तद्द्वैगुण्येन मूल्येन कमलं तमयाचत ॥ २७.२६{२५} ॥
तच्छ्रुत्वा तैर्थिकः सोऽपि मददर्पाभिमानिनः ।
तत्त्रिगुणमूल्येन गृहीतुं तं समैछत ॥ २७.२७{२६} ॥
तद्दृष्ट्वा स गृहस्थेणानाथपिण्डदोत्सही ।
चतुर्गुणेन मूल्येन पद्मं तमभ्ययाचत ॥ २७.२८{२७} ॥
एवं तौ गृहपती सो थ यावच्छतसहर्स्रकैः ।
मूल्य तं पद्ममादाय मालिनं तं ययाचतुः ॥ २७.२९{२८} ॥
तद्दृष्ट्वारामिकः सऽपि प्रवर्द्धयन् परस्परम् ।
तयोर्द्वयोरदत्वैव मनसैवं व्यचिंतयत् ॥ २७.३०{२९} ॥
अयं गृहपतिः श्रेष्ठो ह्यनाथपिण्डदः सुधीः ।
अचपलो महाधीरः स्थिरसत्वो विचक्षणः ॥ २७.३१{३०} ॥
कस्यार्थे न्विदं पद्ममियन्मूल्येन याचते ।
नूनमत्र महद्धेतुर्भविष्यति न संशयः ॥ २७.३२{३१} ॥
तदेतत्परिपृछाव दास्यामि सद्गुणार्थिने ॥ २७.३३{३२} ॥
इति ध्यात्वा स्वचित्तेन स आरामिक उत्सुकः ।
तैर्थिकं तं समालोक्य पप्रछैवं समादरात् ॥ २७.३४{३३} ॥
भो पुरुष भवान् कस्य कार्यस्यार्थे इदं कजम् ।
इयन्मूल्येन विक्रेतुमिछति तद्वदस्व मे ॥ २७.३५{३४} ॥
इति तेनोदितं श्रुत्वा स तैर्थिकः प्रमोदितः ।
आरामिकं तमालोक्य प्रबोधयितुमब्रवीत् ॥ २७.३६{३५} ॥
यः श्रीपतिर्जगद्भर्त्ता नारायनो जनार्दनः ।
तस्य पूजां करिष्यामि तदिदं देहि मेऽम्बुजम् ॥ २७.३७{३६} ॥
इति तेनोदितं श्रुत्वारामिको सानुबोधितः ।
अनाथपिण्डदं तं च दृष्ट्वा कार्यमपृछत ॥ २७.३८{३७} ॥
भो साधो भवंश्चापि किमर्थमिदमम्बुजम् ।
बहुमूल्यैव समाहर्त्तुमिछति तद्वदस्व मे ॥ २७.३९{३८} ॥
इति तद्वचनं श्रुत्वा सोऽनाथपिण्डदः सुधीः ।
आरामिकं तमालोक्य प्रबोधयितुमब्रवीत् ॥ २७.४०{३९} ॥
साधु साधु महाभाग यदिदं ते सरोरुहम् ।
बहुमूल्येन वांछामि तदर्थं कथ्यते शृणु ॥ २७.४१{४०} ॥
(र्म् ३१५)
योऽत्र शौद्धोदनी राजा चक्रवर्त्ती नृपाधिपः ।
सर्वसत्वहितार्थेन संबोधिसाधनोद्यतः ॥ २७.४२{४१} ॥
सर्वत्र भुवने लोके क्लेशाकुलासमाहिते ।
बोधिचर्याविहीनेऽत्र म्लेछधर्मप्रवर्त्तते ॥ २७.४३{४२} ॥
बोधिचर्यां स्वयं धृत्वा प्रकाशयितुमुद्यतः ।
सर्वराज्यं परित्यज्य सर्वांश्चापि परिग्रहान् ॥ २७.४४{४३} ॥
वैराग्यधर्ममाश्रित्य संसारभोगनिस्पृहः ।
गयाशीर्षे नगे गत्वा कृत्वा तपः सुदुष्करम् ॥ २७.४५{४४} ॥
ततो लोके हितं कर्तुं समुत्थाय समाहितः ।
बोधिवृक्षतलासीनस्तस्थौ ध्यानसमाहितः ॥ २७.४६{४५} ॥
तत्र मारगणान् सर्वाञ्जित्वा क्लेशगणानपि ।
संबोधिज्ञानमासाद्य बुद्धो भवति सांप्रतम् ॥ २७.४७{४६} ॥
सोऽयं बुद्धो जगच्छास्ता जगन्नाथो जगद्गुरुः ।
जगद्भर्त्ता जगत्त्रायी धर्मराजा मुनीश्वरः ॥ २७.४८{४७} ॥
सर्वज्ञः सुगतः श्रिमान् षडभिज्ञो विनायकः ।
सत्यवादी महाधीरः सत्यधर्मशुभार्थभृत् ॥ २७.४९{४८} ॥
समन्तभद्ररूपांशः सौम्यरूपो जितेंद्रियः ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमंडितः ॥ २७.५०{४९} ॥
भगवाञ्छ्रीघनो ब्रह्मविहारिको गुणाकरः ।
सर्वत्रैधातुकाधीशःसर्वदुष्टप्रशान्तकृत् ॥ २७.५१{५०} ॥
सर्वमारविजेतार्हं संबोधिमार्गदेशकः ।
वाञ्छितार्थप्रदातारश्चिंतामणिगुणाधिकः ॥ २७.५२{५१} ॥
शुद्धशीलः शुभाचारः क्षान्तिव्रतधरः सुधीः ।
सर्वसत्वहितोद्योगी निःक्लेशः सर्वजित्कृती ॥ २७.५३{५२} ॥
समाधिध्यानसंरक्तः संबोधिधर्मभास्करः ।
प्रज्ञानिधिर्महाविज्ञः सर्वविद्याविशारदः ॥ २७.५४{५३} ॥
सर्वोपायविधानज्ञः प्रणिधिपारतारकः ।
त्रैलोकविजयी वीरः संबोधिकार्यपूरकः ॥ २७.५५{५४} ॥
विज्ञानोर्मिसमाधिस्थः संबोधिज्ञानरत्नभृत् ।
सर्वसत्वशुभंकारी सर्वाकारस्वरूपिकः ॥ २७.५६{५५} ॥
शाक्यमुनिर्महाबुद्धो जिनेश्वरस्तथागतः ।
सर्वसत्वहितार्थेन सर्वत्र समुपाचरन् ॥ २७.५७{५६} ॥
भासयन् सकलान् लोकान् भद्रं कृत्वा समंततः ।
इहापि सर्वसत्वानां भद्रं कर्तुं समागतः ॥ २७.५८{५७} ॥
सांप्रतं जेतकारामे विहारे सह सांघिकैः ।
सद्धर्ममादिशन्नित्यं विहरति प्रभासयन् ॥ २७.५९{५८} ॥
तस्य पूजामहं कर्तुमिछामि सांप्रतं खलु ।
तदर्थे बहुमूल्येन याचामीदं सरोरुहम् ॥ २७.६०{५९} ॥
तद्भवान्मूल्यमादाय देहि मे इदमम्बुजम् ।
यथाभिलषितं द्रव्यं दास्यामि ते प्रसाणयन् ॥ २७.६१{६०} ॥
श्रद्धयेदं प्रदत्तं चेत्त्वयाहं संप्रमोदितः ।
एतत्पुण्यविपाकेन बोधिचित्तमवाप्स्यसि ॥ २७.६२{६१} ॥
सर्वदा सद्गतिं यायाद्दुर्गतिं न कदा चन ।
क्रमाद्बोधिचरीः पूर्य संबोधिमपि प्राप्नुयाः ॥ २७.६३{६२} ॥
(र्म् ३१६)
एवं मत्वा भवान् साधो यदि संबोधिमिछति ।
यथाभिलषितं द्रव्यमादायेदं प्रदेहि मे ॥ २७.६४{६३} ॥
इति तेनार्थितं श्रुत्वा स मालिकः प्रमोदितः ।
तं गृहस्थमनाथानां भर्त्तारमेवमब्रवीत् ॥ २७.६५{६४} ॥
अहो बुद्धो महाभिज्ञो दृश्यते न कदा चन ।
ईदृग्महद्गुणं चापि श्रुयते न क्वचिन्मया ॥ २७.६६{६५} ॥
तदहं तं जगन्नाथं द्रष्टुमिछामि सांप्रतम् ।
तत्सद्धर्मामृतं पातुं वांछा मे जायते खलु ॥ २७.६७{६६} ॥
तस्मात्तत्र स्वयं गत्वा संबुद्धं तं मुनीश्वरम् ।
अनेन पुण्डरीकेन पूजयिष्येऽहमादरात् ॥ २७.६८{६७} ॥
तद्भवान् कृपया साधो संबुद्धस्य जगद्गुरोः ।
नीत्वा मामाश्रमे तत्र सद्धर्मे योक्तुमर्हति ॥ २७.६९{६८} ॥
इति तेनार्थितं श्रुत्वा सोऽनाथपिण्डदो मुदा ।
मालिकं तं समालोक्य पुनरेवमभाषत ॥ २७.७०{६७} ॥
साधु साधु महाभाग कुरुष्वेवं यदीछसि ।
प्रागछ त्वं मया सार्द्धं पूजये तं मुनीश्वरम् ॥ २७.७१{६८} ॥
इत्युक्त्वा मालिकं तं स गृहपतिः प्रसादयन् ।
आदाय जेतकारामे विहारे समुदाचरत् ॥ २७.७२{६९} ॥
तत्र तेन सहायेभ्य सोऽनाथपिण्डदो गृही ।
सांजलिस्तं जगन्नाथं नत्वैकान्ते समाश्रयत् ॥ २७.७३{७०} ॥
ततः स मालिको द्राक्षीच्छ्रीघनं तं मुनीश्वरैः ।
सभामध्यासनासीनं भिक्षुसंघपुरस्कृतम् ॥ २७.७४{७१} ॥
द्वात्रिंशल्लक्षणाशीतिव्यांजनप्रतिमण्डितम् ।
रत्नराशिमिवोज्वालं व्योमप्रभाभ्यलंकृतम् ॥ २७.७५{७२} ॥
समंतभद्ररूपांशं सौम्यरूपं शुभेन्द्रियम् ।
दृष्ट्वा स मुदितो नत्वा कृत्वा त्रिधा प्रदक्षिणम् ॥ २७.७६{७३} ॥
तत्पद्मं पुरतः क्षिप्त्वा कृतांजलिः पुरो मुदा ।
नत्वा पादौ मुनेस्तस्य तत्रैकान्ते समाश्रयत् ॥ २७.७७{७४} ॥
क्षिप्तमात्रं च तत्पद्मं सहसाकाशं संसरन् ।
छत्रीभूत्वा मुने मूर्द्ध्नरुपरिस्थं व्यराजत ॥ २७.७८{७५} ॥
तद्दृष्ट्वा ते सभालोकः सर्वे ते विस्मयान्विताः ।
अहो बुद्धस्य माहात्म्यमिति प्रोक्त्वा प्रसेदिरे ॥ २७.७९{७६} ॥
तद्दृष्ट्वा मालिकः सऽतिविस्मयानंदिताशयः ।
उत्थाय सहसा शस्तुः पादयो न्यपतन्नतः ॥ २७.८०{७७} ॥
ततः स सांजलिर्नत्वा पादाब्जवोर्जगद्गुरोः ।
संबुद्धपदलाभाय प्रणिधानं व्यधाद्धृदो ॥ २७.८१{७८} ॥
एतत्पुण्यविपाकेन लोकेऽन्धेऽपरिनायके ।
क्लेशाकुले विनष्टेऽहं भूयासं सुगतो जिनः ॥ २७.८२{७९} ॥
स्वयं तर्त्तुमशक्तानं तारयिता भवोदधिम् ।
तथा क्लेशाब्धिमग्नानां समुद्धर्त्ता विमोचाकाः ॥ २७.८३{८०} ॥
धर्मेऽनाश्वसितानं च सादाश्वासयितापि वै ।
अदृष्टबोधिमार्गानां दर्शयिता भवेय हि ॥ २७.८४{८१} ॥
(र्म् ३१७)
इति तेन कृतं मत्वा प्रणिधानं स सर्ववित् ।
भगवान्मुदितः प्राविरकार्षीत्स स्मितं तदा ॥ २७.८५{८२} ॥
तत्र स्मिते मुनीन्द्रस्य मुखपद्माद्विनिर्गताः ।
सुरश्मयः पंचवर्णाः प्रसेस्रुस्त्रिजगत्स्वपि ॥ २७.८६{८३} ॥
या अधस्ताद्गताभासस्ता सर्वनरकेष्वपि ।
अवभास्य शुभं कृत्वा प्रचक्रु दुःखनाशणम् ॥ २७.८७{८४} ॥
तत्प्रभाभिः परिस्पृष्ट्वा सर्वे ते नरकाश्रिताः ।
दुःखमुक्ता सुखस्पृष्टा विस्मिता एवमब्रुवन् ॥ २७.८८{८५} ॥
अहो किं नु महासौख्यमस्माकं जायतेऽधुना ।
इतश्च्युताः कुहान्यत्र समुत्पन्ना वयं नु किम् ॥ २७.८९{८६} ॥
इति चिन्तापरितानां तेषां चित्तप्रबोधने ।
भगवान्निर्मितं बुद्धं प्रेषयत्प्रति नैरयम् ॥ २७.९०{८७} ॥
तद्दृष्ट्वा नरकस्थास्ते सर्वेऽतिविस्मयान्विताः ।
परस्परं समालोक्य पुनरेवं वभाषिरे ॥ २७.९१{८८} ॥
भवन्तो नो इतश्च्युत्वा नान्यत्र संगता वयम् ।
इहैव नरके स्थाः स्म कुत्रापि चलिता न हि ॥ २७.९२{८९} ॥
किं त्वयं समुपायाता ह्यपूर्वदर्शनः पुमान् ।
नूनमस्यानुभावेन जायते शुभताऽधुना ॥ २७.९३{९०} ॥
नूनमयं महासत्वो दृष्ट्वास्मान् दुःखपीडितान् ।
कृपया सर्वथोद्धर्त्तुं नरकेऽत्र समागतः ॥ २७.९४{९१} ॥
तदस्य समुपाश्रित्य प्रकृत्वा शरणं सदा ।
प्रणत्वा श्रद्धया नित्यं भजेमहि समादरात् ॥ २७.९५{९२} ॥
इति संभाष्य ते सर्वे नारकीयाः प्रबोधिताः ।
तं बुद्धं शरणं गत्वा प्रणत्वा प्राभजन्मुदा ॥ २७.९६{९३} ॥
तद्भजनोद्भवैः पुण्यैः सर्वे ते नरकोत्थिताः ।
सहसा सद्गतिं याता बभूवुर्धर्मभाजनाः ॥ २७.९७{९४} ॥
एवं ता रश्मयः सर्वाः सर्वांस्तान्नरकाश्रितान् ।
समुद्धृत्य पुनस्तत्र जगच्छास्तुरुपाययुः ॥ २७.९८{९५} ॥
या चाप्यूर्द्ध्वं गताभासस्तावभास्य दिशोऽष्ट च ।
यावद्भवाग्रपर्यन्तमवभास्याभिप्रासरन् ॥ २७.९९{९६} ॥
गाथाभिश्च सुरान् सर्वान् दिव्यकायसुखारतान् ।
समन्ततो महच्छब्दं रुच्चैरेवमचोदयन् ॥ २७.१००{९७} ॥
अनित्यं सर्वसंसारं दुःखं शून्यमनात्मकम् ।
इति मत्वा शुभे धर्मं सर्वदा चरतादरात् ॥ २७.१०१{९८} ॥
निष्क्रामतारभध्वं तद्युज्यध्वं बुद्धशासने ।
त्रिरत्नशरणं कृत्वा भजध्वं सर्वदादरात् ॥ २७.१०२{९९} ॥
यो ह्यस्मिं सौगते धर्मे चरिष्यति समाहितः ।
स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ २७.१०३{१००} ॥
एतच्छब्दं समाकर्ण्य सर्वे देवाः प्रबोधिताः ।
त्रिरत्नशरणं कृत्वा प्रभेजिरे समाहिताः ॥ २७.१०४{१} ॥
एवं ताः रश्मयः पंचः सर्वांल्लोकान् सुरानपि ।
त्रिरत्नशरणे स्थाप्य पुनर्मुनेरुपाययुः ॥ २७.१०५{२} ॥
तत्र ता रश्मयः सर्वा एकीभूता च पिण्डिताः ।
(र्म् ३१८)
जिनं प्रदक्षिणीकृत्य तदुष्णीषे विशेत्पुनः ॥ २७.१०६{३} ॥
तद्दृष्ट्वा ते सभालोकाः सर्वे ते विस्मयान्विताः ।
किमादेशेन्मुनीन्द्रोऽयमिति ध्यात्वा निषेदिरे ॥ २७.१०७{२} ॥
अथा युष्मान् स आनन्दो मत्वा तेषां वितर्कितम् ।
उत्थाय सांजलिर्नत्वा भगवन्तं तमब्रवीत् ॥ २७.१०८{५} ॥
भगवन् भवता केन हेतुना सृज्यते स्मितम् ।
नाहेतु सुगताः सर्वे विहसन्ति कदा चन ॥ २७.१०९{६} ॥
यदर्थे हेतुना स्मितं भवान्मुंचति सांप्रतम् ।
तदर्थं श्रोतुमिछन्ति सर्वे लोका इमे खलु ॥ २७.११०{७} ॥
यदर्थेन भवान् स्मितं प्रकरोति जगद्गुरो ।
तदर्थं समुपादिश्य सर्वान् लोकान् प्रबोधय ॥ २७.१११{८} ॥
इत्यानन्दोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
सर्वान् लोकान् समालोक्य तमानंदं चाब्रवीत् ॥ २७.११२{९} ॥
एवमेतन्महानंद नाहेतुप्रत्ययं क्वचित् ।
सर्वबुद्धाः प्रमुंचन्ति स्मितं किंचित्कदा चन ॥ २७.११३{१०} ॥
पश्य त्वं यदयं साधु आरामिकः प्रसादितः ।
ममैवं श्रद्धया पूजां करोति श्रद्धया मुदा ॥ २७.११४{११} ॥
एतत्पुण्यविपाकेन मालिकोऽयं सुबुद्धिमान् ।
बोधिचित्तं समासाद्य बोधिचर्यां चरन् क्रमात् ॥ २७.११५{१२} ॥
सर्वाः पारमिताः पूर्य्य सर्वान्मारगणान् विनिजयन् ।
सम्यक्षंबोधिमासाद्य निःक्लेशोऽर्हन्मुनीश्वरः ॥ २७.११६{१३} ॥
दशबलो जगन्नाथः सर्वसत्वहितार्थभृत् ।
पद्मोत्तमोऽभिधो बुद्धस्तथागतो भविष्यति ॥ २७.११७{१४} ॥
यदयं मम सद्धर्मसाधनेऽभिप्रसादितः ।
संबोधिप्रणिधिं धृत्वा करोति श्रद्धयार्चनाम् ॥ २७.११८{१५} ॥
एवं ये श्रद्धया नित्यं त्रिरत्नं शरणं गताः ।
भजन्ति ते जनाः सर्वे भवेयुः सुगतात्मजाः ॥ २७.११९{१६} ॥
ततस्ते सर्वसत्वानां हितार्थेषु समुद्यताः ।
बोधिसत्वा महासत्वा भविष्यंति गुणाकराः ॥ २७.१२०{१७} ॥
ततः पारमिताः सर्वाः परिपूर्य यथाक्रमम् ।
ततः संबोधिमासाद्य भवेयुः सुगता अपि ॥ २७.१२१{१८} ॥
एवं मत्वात्र संसारे संबोधिज्ञानवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ २७.१२२{१९} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदादयोऽपि ते ।
भिक्षवः सांघिकाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥ २७.१२३{२०} ॥
सर्वे लोकाश्च ते सर्वे श्रुत्वैवं श्रीघनोदितम् ।
त्रिरत्नशरणं कृत्वा प्रभेजिरेऽनुमोदिताः ॥ २७.१२४{२१} ॥
एवं शास्त्रा मुनीन्द्रेण व्याकृतं स्वयमात्मनः ।
श्रुत्वा सभान्तिकश्चापि प्राभ्यनन्दत्प्रमोदितः ॥ २७.१२५{२२} ॥
तदारभ्य सदा नित्यं मालिकः सोऽनुमोदितः ।
त्रिरत्नभजनं कृत्वा प्राचरद्बोधिचारिकाम् ॥ २७.१२६{२३} ॥
ततः सानाथपिण्डोऽपि तेन सह प्रमोदितः ।
सांजलिस्तं जगन्नाथं नत्वा स्वे निलये ययौ ॥ २७.१२७{२४} ॥
(र्म् ३१९)
तत्र स मालिको गेहे भार्यया सह मोदितः ।
त्रिरत्नशरणं कृत्वा प्राचरत्सर्वदा शुभम् ॥ २७.१२८{२५} ॥
ततस्तं सौगते धर्मेऽनुचरन्तं निशम्य सः ।
तीर्थिकोपासिको रुष्टो उपेत्य पर्यभाषत ॥ २७.१२९{२६} ॥
अरे रे दुर्मते पापिन् किमेवं चरसेऽशुभे ।
सर्वथा त्वं परिभ्रष्टो नरके दुःखमाप्स्यसि ॥ २७.१३०{२७} ॥
यदपात्रे दुराचारे मिथ्याधर्माभिभाषिनी ।
उपेत्य भजनं कृत्वा विनोषि किल्विषं महत् ॥ २७.१३१{२८} ॥
भजन्ते ये नरा बुद्धं न ते गछन्ति सद्गतिम् ।
दुर्गतिमेव ते याताश्चरन्त्यशुभे सदा ॥ २७.१३२{२९} ॥
कदा चिदपि तद्गेहे भद्रं न जायते क्वचित् ।
लक्ष्मीश्चापि वसेन्नैव यतो धर्मो विनश्यते ॥ २७.१३३{३०} ॥
किं चिन्नास्ति शुभाचारं तस्य भिक्षाशिनोऽयतेः ।
किमेवं श्रद्धया नित्यं भजसे सद्गुरोरिव ॥ २७.१३४{३१} ॥
कृपणो यः स्वयं भ्रष्टः परांश्च भ्रंशयेदिह ।
अधर्मे येऽपि सद्धर्ममित्याख्यायाभिवंचते ॥ २७.१३५{३२} ॥
स किं शास्ता सुधीर्विज्ञो धर्मराजो मुनीश्वरः ।
सद्भिर्न पूजनीयोऽसौ निंदनीयो हि दुर्गतिः ॥ २७.१३६{३३} ॥
इति सत्यं मयाख्यातं हितार्थं ते शुभार्थिनः ।
यदि धर्मेऽस्ति ते वांछा श्रुत्वास्मद्वचनं चर ॥ २७.१३७{३४} ॥
तद्बुद्धसंगतिं त्यक्त्वा तीर्थे स्नात्वा समाहितः ।
ब्रह्मणं विष्णुमीशानं भज नित्यं यथाविधिम् ॥ २७.१३८{३५} ॥
ब्राह्मणं ये भजंत्यत्र सर्वे ते ब्रह्मचारिणः ।
परिशुद्धाशया भद्रा संप्रयान्ति सुरालयम् ॥ २७.१३९{३१} ॥
ये भजन्ति सदा विष्णुं न ते गछंति दुर्गतिम् ।
सद्गतिं सर्वदा याता भवन्ति मनुजाधिपाः ॥ २७.१४०{३२} ॥
ये भजन्ति महारुद्रं न ते गछन्ति नारके ।
सर्वसौख्यानि संभुक्त्वा यान्ति चान्ते शिवालयम् ॥ २७.१४१{३३} ॥
एवं मत्वात्र संसारे यदि सौख्यं सदेछसि ।
तदेताण्त्रिजगन्नाथान् भज नित्यं प्रपूजयन् ॥ २७.१४२{३४} ॥
एतन्मे वचनैः श्रुत्वा भज तान् सद्गुरून् यतीन् ।
तेषां सद्धर्ममाकर्ण्य चर नित्यं शुभे व्रते ॥ २७.१४३{३५} ॥
तथा ते मंगलं नित्यं सर्वदात्र भवेद्ध्रुवम् ।
अन्ते पापविनिर्मुक्ताः प्रयान्ति त्रिदशालयम् ॥ २७.१४४{३६} ॥
इति तेनोदितं श्रुत्वा मालिकः स विरोषितः ।
तैर्थिकं तं समारभ्य परिभाष्यैवमब्रवीत् ॥ २७.१४५{३७} ॥
आ किमेवं वदस्यत्र मा मैवं वदथाः पुनः ।
त्वमेव नरकं याया निन्दसे यन्मुनीश्वरम् ॥ २७.१४६{३८} ॥
शृण्वत्राहं प्रवक्ष्यामि संबुद्धे गुणमल्पकम् ।
विस्तरेण कथं वक्तुं शक्यतेऽल्पशिया मया ॥ २७.१४७{३९} ॥
तथापि कथ्यतेऽल्पत्वात्तवाभिबोधने मया ।
(र्म् ३२०)
श्रुत्वा त्वया विचार्यैव सदसच्च परीक्ष्यताम् ॥ २७.१४८{४०} ॥
संबुद्ध एव भगवान् सुगुणी न विष्णुः संशस्यते न हिरण्यगर्भः ।
तेषां सुभद्रचरितातिशयप्रभावाञ्छ्रुत्वा विचारयत को गुणवान्न वेति ॥ २७.१४९{४१} ॥
विष्णुः समुद्यततहो विघृणैः प्रमायी
रुद्रो विभूत्यजकयोलधरः प्रमत्तः ।
एकान्तशान्तचरिताशयस्तु बुद्धः
कं पूजयेमहि सुशान्तमशान्तरूपम् ॥ २७.१५०{३६!} ॥
दुर्योधनादि नृपनाशकरः स चक्री हरस्त्रिपूरनाशकः पिनाकी ।
क्रौंचं गुहोऽपि दृढशक्ति हते चकार बुद्धस्तोकवलमयस्तु जगतां हितेषी ॥ २७.१५१{६७} ॥
पीड्याममायमयमेव तु रक्षणीयो वध्यो यमित्यपि सुरोत्तमनीतिरेषा ।
निःश्रेयसात्युदयसौख्यहितैकबुद्धिर्बुद्धस्य नैवरिदवोनहिवम् ॥ २७.१५२{६८} ॥
रागादि दोषजनितानि वचान्सि विष्णोरुन्मत्तचेष्टितकराणि च यानि शम्भोः ।
निःशेषदोषशमकारिततथागतस्य वंद्यत्वमर्हति च कोऽत्र विचारयध्वम् ॥ २७.१५३{६९} ॥
यश्चोद्यतः परिवधाय घृणां विहाय त्राणाय यश्च जगतः कृपया प्रवृत्तः ।
रागी च यो भवति यश्च विमुक्तरागः पूज्यंस्तयोः क इह तं वदतानुचिन्त्य ॥ २७.१५४{७०} ॥
शक्रं वज्रधरं बलं हलधरं कृष्णं च चक्रायुधं स्कंदं शक्तिधरं श्मशानविलयं रुद्रं त्रिशूलायुधम् ।
एतान् दुःखभयाङ्कितान् गतघृणान् बालान् विचित्रायुधान्नित्यं प्राणिवधोद्युते प्रहरणान् कस्तान्नमस्येद्बुधः ॥ २७.१५५{७१} ॥
न यः शूलं धत्ते न च सुरतिमङ्के सुवदनां न चक्रं शक्तिं वा न च कुलिशमुग्रं रव हलं विनिर्मुक्तं क्लेशैः परहितविधानाद्यतधियम् ।
शरण्यं लोकानं तमृषिमुपयातास्मि शरणम् ॥ २७.१५६{७२} ॥
रुद्रो रागवशात्स्त्रियं वहति यो हिंस्या ह्रिया वर्जिता विष्णुः क्रूरतरः कृतघ्नचरितः स्कंधः स्वयंज्ञाति ह ।
क्रूरास्या महिषान्तकृन्नरवशा मान्साशिनी पार्वती पानेप्सी च विनायको दशबलो स्रस्तो ह्यदोषः सुहृत् ॥ २७.१५७{७३} ॥
वंधुर्नभे स भगवान्न रिपुर्न चान्यः शास्ता त्रिलोकगुरुरेकतमोऽपि धीरः श्रुत्वा वचःसुचरितातिशयप्रभावं बुद्धं गुणातिशयलोभतयाश्रिताः स्मः ॥ २७.१५८{७४} ॥
नास्माकं सुगतः पिता न रिपवस्तीर्थ्यांधनं नैव ते ।
दत्तं तेन तथागतेन च हृतं किंचित्कणादादिभिः ।
किं त्वेकांतजगद्धितः स भगवान् बुद्धो यतश्चामलं वाक्यं सर्वमलापहारिच यतस्तद्भिक्तवंतो वयम् ॥ २७.१५९{७५} ॥
हितेषी यो नित्यं सततमुपकारीव जगतः कृतं येन स्वास्थ्यं बहुविधरुजार्त्तस्य जगतः ।
(र्म् ३२१)
गूढं यश्च ज्ञे भयं करतलमिवावैति सकलं प्रपद्यध्वं सन्तस्तेमृषिवरदरं भक्तिमनसः ॥ २७.१६०{७६} ॥
असर्वभावेन यदृच्छया वा परानुवृत्य विचिकित्सया वा ।
ये तं नमस्यन्ति मुनीन्द्रचंद्रं तेऽप्यामरीसंपदमाप्नुवंति ॥ २७.१६१{७७} ॥
पौराणीश्रुतिनेष लोकमहितो बुद्धः किलायं हरिर्दृष्ट्वा जन्मजराविपत्तिवशगं लोकं कृपाभ्युद्यतः ।
जातः शाक्यकुलेन्दुरच्युतमतिस्त्राता नृणां गौतमः शास्तारं हितमेव कस्तमधुना नावैति मूढो जनः ॥ २७.१६२{७८} ॥
यदा रागद्वेषादसुरसुरदारापहरणं कृतं मायाद्वित्वं धरणिहरणाशक्तमतिना ।
तदा पूज्यो वन्द्यो हरिरपरिमुक्तोऽबुधतया विनिर्मुक्तं बुद्धं न नमति जनो माहवहुलः ॥ २७.१६३{७९} ॥
चतुर्जलधिमेखलाकुरतम्बभारालसां महीं महतीं विसृज्य हरयेवापकष्टां वलिः ।
प्रदाय मुनये तु पांशुलवमप्यशोको नृपः क्षितिं सकलचंद्रमण्डलतराञ्च संप्राप्तवान् ॥ २७.१६४{८०} ॥
यक्षपातो न मे बुद्धेन द्वेषटकपिलादिषु ।
मुक्तिमच्च वचो यस्य कार्यस्तस्य परिग्रहः ॥ २७.१६५{८१} ॥
अवश्यमेषां कतमोऽपि सर्ववित्जगर्द्धितैकान्तविशालसारः ।
स एव मृग्यो ह्यतिसूक्ष्मचेतसा जनेन शेषैः किमनर्थपण्डितैः ॥ २७.१६६{८२} ॥
यस्यापि किञ्चिन्न हि दोषलेशं शरद्गुणाः सन्ति जगद्धितार्थे ।
ब्रह्मापि विष्णुतिरिणो हरिर्वा समेहि शास्ता शुभकारिमित्रम् ॥ २७.१६७{८३} ॥
यस्य न विद्यते दोषो विद्यन्ते सकला गुणाः ।
सर्वज्ञः स जगच्छास्ता तमहं शरणं व्रजे ॥ २७.१६८{८४} ॥
योऽस्मिन् सुदृष्ट्यात्संरक्ष्यति जगच्छुभे ।
तस्याहं शरणं गत्वा भजामि सततं मुदा ॥ २७.१६९{८५} ॥
यं दृष्ट्वा सुप्रसन्नास्ते भवन्ति निर्मलाशयाः ।
तमेव सुगतं नाथं भजामि शरणं गतः ॥ २७.१७०{८६} ॥
येनैव त्रिजगल्लोकं पुत्रवत्प्रतिपालितम् ।
तमेव त्रिजगन्नाथं भजामि शरणं ततः ॥ २७.१७१{८७} ॥
यस्मै सुश्रद्धया दत्तं तत्फलं बोधिसाधनम् ।
तमेव श्रीघनं भक्त्या भजामि शरणं गतः ॥ २७.१७२{८८} ॥
यस्माद्धर्मामृतं पीत्वा सर्वे सत्वाः प्रमोदिनः ।
तमेव संति सर्वेऽपि दुःखछेदनसद्गुणाः ।
तमेव श्रीप्रदातारं भजामि श्रद्धयादरात् ॥ २७.१७३{८९} ॥
बुद्ध एव जगच्छास्ता बुद्ध एव जगद्गुरुः ।
बुद्ध एव जगन्नाथो बुद्ध एव मुनीश्वरः ॥ २७.१७४{९०} ॥
तदहं सर्वभावेन बुद्धस्य शरणं गतः ।
श्रद्धया धर्ममासाद्य भजामि बोधिप्राप्तये ॥ २७.१७५{९१} ॥
ये बुद्धं शरणं यान्ति न ते गछन्ति दुर्गतिम् ।
निर्मुक्तपापकाः सौख्यं भुक्त्वा यांति जिनालयम् ॥ २७.१७६{९२} ॥
(र्म् ३२२)
शृण्वन्ति सौगतं वाक्यं ये ते न यान्ति दुर्गतिम् ।
समन्तभद्रसौख्यानि भुक्त्वा यांति सुखावतिम् ॥ २७.१७७{९३} ॥
भजन्ति लोकनाथं ये तेऽपि न यान्ति दुर्गतिम् ।
पापमुक्ताः सुखान्येव भुक्त्वा यांति सुरालयम् ॥ २७.१७८{९४} ॥
एतद्रत्नत्रयं लोके उत्पन्नं सद्गुणाकरम् ।
तदहं शरणं गत्वा भजामि समुपासिकः ॥ २७.१७९{९५} ॥
एतत्पुण्यविपाकेन सर्वसत्वहितार्थकः ।
क्रमाद्बोधिचराः पूर्य संबुद्धपदमाप्नुयात् ॥ २७.१८०{९६} ॥
तदाहं सुगतो भूत्वा सर्वसत्वशुभार्थभृत् ।
सत्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्नुयात् ॥ २७.१८१{९७} ॥
एवं विज्ञाय सद्धर्मं यदीछति भवानपि ।
त्रिरत्नशरणं गत्वा भज नित्यं समादरात् ॥ २७.१८२{९८} ॥
एतत्पुण्यविपाकेन सदा त्वं सद्गतिं ततः ।
बोधिं चापि समासाद्य संबुद्धपदमाप्नुयाः ॥ २७.१८३{९९} ॥
इति तेन समाख्यातं श्रुत्वा स परिबोधितः ।
तैर्थ्यधर्मं प्रतिक्षिप्य संबुद्धश्रावकोऽभवत् ॥ २७.१८४{१००} ॥
तदारभ्य सदा नित्यं सद्धर्मश्रवणोत्सुकः ।
विहारे समुपाश्रित्य प्राभजत्तं मुनीश्वरम् ॥ २७.१८५{१} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
त्वं चाप्येवं महाराज त्रिरत्नं सर्वदा भज ॥ २७.१८६{२} ॥
प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ २७.१८७{३} ॥
एतत्पुण्यविपाकेन सदा ते मंगलं भवेत् ।
क्रमाद्बोधिचरीः पूर्य संबुद्धपदमाप्नुयाः ॥ २७.१८८{४} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ २७.१८९{५} ॥
शृण्वन्तीदं मुदा ये जिनवरकथितं मालिकस्यावदानं ये चापि श्रावयन्ति प्रमुदितमनसः श्रद्धया भद्रकामाः ।
ते सर्वे लोकनाथास्त्रिमलकलिजिता बोधिसत्वा महेशा भुक्त्वा सौख्यं सदान्ते जिनवरनिलये संप्रयान्ति प्रसन्नाः ।
++ इति रत्नावदानतत्वे मालिकावदानं समाप्तम् ++
(र्म् ३२३)
xxविइइ पाञ्चालराजावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं भिक्षुं नत्वैवं पुनरब्रवीत् ॥ २८.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ २८.२{२} ॥
इति संप्रार्थिते राज्ञा स उपगुप्त आत्मवित् ।
तमशोकं महीपालं समामंत्र्यैवमब्रवीत् ॥ २८.३{३} ॥
साधु शृणु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ २८.४{४} ॥
तद्यथासौ जगच्छास्ता शाक्यसिंहस्तथागतः ।
सर्वज्ञः सुगतो नाथो धर्मराजा मुनीश्वरः ॥ २८.५{५} ॥
एकस्मिन् समये तत्र श्रावस्त्या बहिराश्रमे ।
विहारे जेतकोद्याने विजहार ससांघिकः ॥ २८.६{६} ॥
तदा स भगवांस्तत्र भिक्षुसंघैः पुरस्कृतः ।
सभामध्यासनासीनो धर्ममादेष्टुमारभत् ॥ २८.७{७} ॥
तद्धर्मदेशनां श्रोतुं सर्वे लोकाः समागताः ।
देवा दैत्याश्च नागाश्च यक्षगंधर्वकिन्नराः ॥ २८.८{८} ॥
सिद्धा विद्याधराश्चापि गरुडा राक्षसा अपि ।
ऋषयो ब्राह्मणा विज्ञा राजानः क्षत्रिया अपि ॥ २८.९{९} ॥
वैश्या राजकुमाराश्च मंत्रिणश्च महाजनाः ।
वणिजः सार्थवाहाश्च गृहस्थाः शिल्पिनोऽपि च ॥ २८.१०{१०} ॥
ग्राम्या जानपदाश्चापि कार्पटिकादयोऽपि च ।
तीर्थिका अपि ते सर्वे जेतारामे उपागताः ॥ २८.११{११} ॥
विहारे तं जगन्नाथं दृष्ट्वा सांजलयो मुदा ।
नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमम् ॥ २८.१२{१२} ॥
ततस्ते मुदिताः सर्वे परिवृत्य समंततः ।
तत्सद्धर्मामृतं पतुमुपतस्थुः समाहिताः ॥ २८.१३{१३} ॥
तदा स भगवान् दृष्ट्वा सर्वान्स्तान् समुपस्थितान् ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ २८.१४{१४} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः ।
संबुद्धं शरणं कृत्वा प्रचेरुर्बोधिसंवरम् ॥ २८.१५{१५} ॥
तस्मिन्नवसरे तत्र पंचाल उत्तराधिपः ।
दक्षिणाधिपपंचालं पराजेतुमुपाक्रमत् ॥ २८.१६{१६} ॥
तयोः पंचालयो राज्ञो विरुद्धास्यभिमानिनोः ।
महायुद्धमभून्नित्यं परस्परविघातनम् ॥ २८.१७{१७} ॥
प्रवर्त्तिते सदा युद्धे तयो राज्ञो हि मानिनोः ।
दुर्भिक्षमपि तत्राभूद्बहुलोकविघातनम् ॥ २८.१८{१८} ॥
(र्म् ३२४)
तदा तौ क्षत्रियौ क्रूरौ परस्परविघातिनौ ।
विरुद्धमानसौ वीरौ वैरशाम्यं न जग्मतः ॥ २८.१९{१९} ॥
तद्दृष्ट्वा नृपती राजा प्रसेनजिन् स कौशलः ।
तद्वैरशमनोपायं चिरं ध्यात्वा व्यचिंतयत् ॥ २८.२०{२०} ॥
यदेतौ नृपती वीरौ नित्यं युद्धाभिकांक्षिणौ ।
संबोधिसाधनं धर्मं श्रोतुं नैवाभिवांछत ॥ २८.२१{२१} ॥
सर्वेऽपि मंत्रिणोऽमात्याः सर्वे लोकाश्च योधिनः ।
संबुद्धदर्शने चापि नात्रागछन्ति के चन ॥ २८.२२{२२} ॥
एवं तेषां सदा नित्यं हिंसाकर्माभिरागिणाम् ।
सद्धर्मे श्रवणे वापि गोचरं नैव विद्यते ॥ २८.२३{२३} ॥
धर्मं विनात्र संसारे किं सारं जन्म मानुषे ।
परस्परं निहत्यैव यास्यंति नरके ध्रुवम् ॥ २८.२४{२४} ॥
धिग्जन्म मानुषे तेषां केवलं पापसाधनम् ।
ये क्लेशमानदर्प्यान्धा न पश्यंति मुनीश्वरम् ॥ २८.२५{२५} ॥
ये चात्र सौगतं धर्मं न शृण्वन्ति कदा चन ।
कथं ते भद्रचर्यायां गोचरं समवाप्नुयुः ॥ २८.२६{२६} ॥
सदा ते मारचर्यायां स्थित्वा क्लेशाभिमानिनः ।
बोधिचर्यां प्रतिक्षिप्य चरेयुः कामचारिणः ॥ २८.२७{२७} ॥
ततः स्वयं परिभ्रष्टा भ्रंशयन्तः परानपि ।
यथेछया चरन्तस्ते चिनुयुर्बहुपातकम् ॥ २८.२८{२८} ॥
ततस्ते क्लेशसंतप्ताः स्वपरार्थाभिघातिनः ।
तीव्रदुःखाग्निसंतप्ताः पतेयुर्नरके ध्रुवम् ॥ २८.२९{२९} ॥
नरकेषु भ्रमन्तस्ते सदा दुःखाभिभोजिनः ।
पश्चात्तापाग्निसंतप्ताश्चरेयुराभवं तथा ॥ २८.३०{३०} ॥
तदेषां सर्वलोकानां भद्रार्थं हितकारणम् ।
सर्वथोपायमाधातुमर्हामि सांप्रतं द्रुतम् ॥ २८.३१{३१} ॥
यावदेतौ नृपौ वीरौ विरुद्धौ नोपशाम्यतः ।
तावदत्र भुवि क्वापि मंगलं न भवेत्सदा ॥ २८.३२{३२} ॥
तदेतौ नृपती तावद्बोधयित्वा प्रयत्नतः ।
मैत्रस्नेहसंबद्धौ कुर्यां निर्वैरभाविनौ ॥ २८.३३{३३} ॥
एतौ हि क्षत्रियौ वीरौ पांचालौ मानगर्वितौ ।
अनयोर्मित्रवंधं को बोधयित्वा करिष्यति ॥ २८.३४{३४} ॥
बुद्ध एव जगच्छास्ता धर्मराजः प्रबोधयन् ।
अनयोश्चिरवैर्याग्निं शमयितुं प्रशक्नुयात् ॥ २८.३५{३५} ॥
तदत्र सहसा गत्वा प्रार्थयेयं मुनीश्वरम् ।
नूनं बुद्धानुभावात्तौ नृपौ मित्रत्वमाप्स्यतः ॥ २८.३६{३६} ॥
इति निश्चित्य राजा स प्रसेनजित्समुत्थितः ।
विहारे सहसा गत्वा ननाम तं मुनीश्वरम् ॥ २८.३७{३७} ॥
तत्र स पुरतो गत्वा सांजलिः समुपाश्रयन् ।
एतत्सर्वप्रवृत्तांतं निवेद्यैवमभाषत ॥ २८.३८{३८} ॥
भगवन्नाथ सर्वज्ञ विजानीयाद्भवानपि ।
यत्तौ पांचालभूपालौ विरुद्धौ भवतोऽधुना ॥ २८.३९{३९} ॥
यदेतयोर्विरुद्धे त सर्वे लोका विरोधिताः ।
तदत्र सर्वदा युद्धं प्रवर्त्तते दिवानिशम् ॥ २८.४०{४०} ॥
(र्म् ३२५)
तत्तेसां सर्वलोकानां सद्धर्मे गोचरं कदा ।
सदा युद्धाभिसक्तास्ते साधयेयुः शुभं कथम् ॥ २८.४१{४१} ॥
तदत्र भगवाञ्च्छास्ता बोधयंस्तौ नराधिपौ ।
संबोधिमार्गमादिश्य शुभे चारयितुमर्हति ॥ २८.४२{४२} ॥
इति संप्रार्थिते तेन राज्ञा स भगवान्मुनिः ।
तस्य राज्ञे नरेंद्रस्य तूष्णीभूत्वाध्युवास तत् ॥ २८.४३{४३} ॥
ततः स नृपती राजा मत्वा शास्त्राधिवासितम् ।
सांजलिस्तं मुनिं नत्वा मुदितः स्वालयं ययौ ॥ २८.४४{४४} ॥
ततः स भगवान् पात्रमादाय चीवरावृतः ।
भासयन् भद्रतां कुर्वन् प्रतस्थे सह सांघिकैः ॥ २८.४५{४५} ॥
एवं सर्वत्र मार्गेषु भासयं स मुनीश्वरः ।
कृत्वा भद्रं क्रमेणैवं वाराणसीमुपाचरत् ॥ २८.४६{४६} ॥
तत्र स भगवां प्राप्तो भाभिः संभासयन् क्रमात् ।
चरं कृत्वा सुभद्रत्वं मृगदावे उपाचरत् ॥ २८.४७{४७} ॥
तत्र स भगवान् प्रातः ससंघः सौगताश्रमे ।
सभामध्यासनासीनः सद्धर्मं समुपादिशत् ॥ २८.४८{४८} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः ।
त्रिरत्नं शरणं कृत्वा प्रभेजिरे समादरात् ॥ २८.४९{४९} ॥
तदा दक्षिणपांचालनृपतिः स प्रमोदितः ।
संबुद्धदर्शनं कर्तुं मृगदावे उपाचरत् ॥ २८.५०{५०} ॥
तत्र तं श्रीघनं दृष्ट्वा नृपतिः स प्रमोदितः ।
सांजलिः पुरतो गत्वा नत्वैकान्ते उपाश्रयत् ॥ २८.५१{५१} ॥
तस्मिन्नवसरे तत्र मृगदावे समाश्रितः ।
भगवान्निति शुश्राव पांचालौत्तराधिपः ॥ २८.५२{५२} ॥
स उत्तरपांचालो नृपतिः प्रतिरोषितः ।
तं नृपं याम्यपांचालं पराजेतुमुपाचरत् ॥ २८.५३{५३} ॥
तत्र स नृपतिर्वीरश्चतुरंगवलैः सह ।
जयवाद्यमहोत्साहैः सहसा समुपाचरत् ॥ २८.५४{५४} ॥
तत्र स याम्यपांचालराजा तं रिपुमागतम् ।
निशम्य सहसोत्थाय नत्वा ह तं मुनीश्वरम् ॥ २८.५५{५५} ॥
भगवन्नाथ सर्वज्ञ स मे वैरा इहागतः ।
तदत्र किं करिष्यामि तदनुज्ञां ददातु मे ॥ २८.५६{५६} ॥
इति तेन नरेन्द्रेण प्रार्थिते स जिनेश्वरः ।
दृष्ट्वा तं याम्यपांचालं समाश्वास्यैवमादिशत् ॥ २८.५७{५७} ॥
नृपते मा विभेषी त्वं धैर्य्यमालम्ब्य तिष्ठत ।
तदुपायं करिष्यामि येनासौ ते वशे चरेत् ॥ २८.५८{५८} ॥
इत्यादिश्य स सर्वज्ञश्चतुरङ्गबलान्वितम् ।
महत्सैन्याधिपं वीरं निर्मायऽप्रेषयत्ततः ॥ २८.५९{५९} ॥
स सैन्याधिपतिर्वीरश्चतुरङ्गबलैः सह ।
चरन्नुत्तरपांचालमभियोद्धुमुपाचरत् ॥ २८.६०{६०} ॥
तन्महत्सैन्यमायातं समालोक्याभ्युपद्रुतम् ।
सर्व उत्तरपांचालसैन्या भीताः पराययुः ॥ २८.६१{६१} ॥
तद्दृष्ट्वोत्तरपांचालनृपतिश्चापि खेटितः ।
एकाकी रथमारुह्य भगवत्संमुखेऽचरत् ॥ २८.६२{६२} ॥
(र्म् ३२६)
तत्र स दूरतो दृष्ट्वा श्रीघनं तं सभाश्रितम् ।
अवतीर्य रथात्तत्र मृगदावे उपाचरत् ॥ २८.६३{६३} ॥
तत्र स नृपति राजा समुपेत्य कृतांजलिः ।
त्रिधा प्रदक्षिणीकृत्य ननाम शरणं गतः ॥ २८.६४{६४} ॥
ततश्चिरात्समुत्थाप्य स पांचलो नराधिपः ।
तत्सद्धर्मामृतं पातुं तत्रैकान्ते समाश्रयत् ॥ २८.६५{६५} ॥
तदा स भगवान् दृष्ट्वा नृपतिं तं समाश्रितम् ।
आर्य्यसत्यं समारभ्य दिदेश धर्ममुत्तमम् ॥ २८.६६{६६} ॥
तदार्यसत्यमाकर्ण्य नृपतिः सोऽभिबोधितः ।
संसारसाधनं धर्मं पुनः श्रोतुं समैछत ॥ २८.६७{६७} ॥
ततः स नृपती राजा समुत्थाय कृतांजलिः ।
प्रणत्वा भगवंतं तं प्रार्थयदेवमादरात् ॥ २८.६८{६८} ॥
भगवन्नाथ सर्वज्ञ भवतां शरणं व्रजे ।
तन्मेऽत्रानुग्रहं कृत्वा सम्यगादेष्टुमर्हति ॥ २८.६९{६९} ॥
यदत्र भगवन् सत्वाः प्रवर्त्तन्तो भवोदधौ ।
सुखदुःखाभिभुंजानो भ्रमंते षड्गतौ कथम् ॥ २८.७०{७०} ॥
कर्मणा केन देवाः स्युर्मानुषाः केन कर्मणा ।
दैत्याश्च कर्मणा केन तत्सम्यक्समुपादिश ॥ २८.७१{७१} ॥
तिर्यञ्चः कर्मणा केन प्रेताश्च केन कर्मणा ।
नारकाः कर्मणा केन तत्सर्वं समुपादिश ॥ २८.७२{७२} ॥
तत्राप्यनेकरूपाश्च सर्वे भिन्नाशया अपि ।
निहीनमध्यमोत्कृष्टाः सुखदुःखान्विता अपि ॥ २८.७३{७३} ॥
एतत्सर्वं समाख्याय भवाञ्छास्ता जगद्गुरुः ।
संसारगतिसंचारं प्रबोधयितुमर्हति ॥ २८.७४{७४} ॥
इति संप्रार्थिते तेन राज्ञा स भगवान् सुधीः ।
तं विशुद्धाशयं भूपं दृष्ट्वैवं समुपादिशत् ॥ २८.७५{७५} ॥
साधु शृणु महाराज संसारगतिचारणम् ।
सम्यग्धर्मं प्रवक्ष्यामि युष्माकं परिबोधने ॥ २८.७६{७६} ॥
कायवाग्मानसं कर्मकृतं यच्च शुभाशुभम् ।
लोकस्तस्य फलं भुक्ते कर्त्ता नान्योऽस्ति कस्य चित् ॥ २८.७७{७७} ॥
इति सर्वे कृपाविष्टास्त्रैलोक्ये गुरवो जिनाः ।
उक्तवन्तस्तथा तद्धि कर्मणो यस्य यत्फलम् ॥ २८.७८{७८} ॥
कर्मं कर्तुं विहातुं च सदसद्गतिहेतुकम् ।
लोभमोहभयक्रोधा ये नरा नरघातिनः ॥ २८.७९{७९} ॥
संवद्ध्यान्याञ्च हि सन्ति संजीवं यान्ति ते ध्रुवम् ।
संवत्सरसहस्राणि बहून्यपि हताहताः ॥ २८.८०{८०} ॥
संजीवन्ति यतस्तत्र तेन संजीव उच्यते ॥ २८.८१{८१!} ॥
मातापितृसुहृद्वंधुमित्रद्रोहकराश्च ये ।
पैशुन्यानृतवत्तारः कालसूत्राभिगामिनः ॥ २८.८२{८२} ॥
कालसूत्रेण संसूड्य पाट्यन्ते दारुवद्यतः ।
ज्वलद्भिः क्रकचैस्तत्र कालसूत्रस्ततः स्मृतः ॥ २८.८३{८३} ॥
दावादौ दहनैर्दाहं देहिनां विदधाति ये ।
स तीव्रज्वलनैर्जन्तुस्तप्यते तपने रटन् ॥ २८.८४{८४} ॥
(र्म् ३२७)
तीव्रं तपनसंतापं तनोत्येव निरंतरम् ।
यत्ततोऽन्वर्थमालोके ख्यातस्तपनसंज्ञया ॥ २८.८५{८५} ॥
धर्माधर्मविपर्यासं नास्तिको यः प्रकाशयन् ।
संतापयति चान्यांश्च तप्यते स प्रतापने ॥ २८.८६{८६} ॥
प्रतापयति तत्रस्थान् सत्वान्स्तीव्रेण वह्निना ।
तपनातिशयनोऽसौ प्रोक्तस्तस्मात्प्रतापनः ॥ २८.८७{८७} ॥
अजैडकशृगालांश्च शशाखुमृगासुकरान् ।
अन्यांश्च प्राणिनो घ्नंति संघातं यान्ति ते नराः ॥ २८.८८{८८} ॥
संहतास्तत्र घात्यंते सम्यग्वाहैव वंययः ।
तस्मात्संघात इत्येवं विख्यातोऽन्वर्थसंज्ञया ॥ २८.८९{८९} ॥
कायवाग्मानसं तापं ये कुर्वन्तीह देहिनाम् ।
कटुक्यपटिका ये च रौरवं यान्ति ते नाराः ॥ २८.९०{९०} ॥
तीव्रेण वह्निना तत्र दह्यमाना निरंतरम् ।
रौद्रं रवं विमुंचन्ति यतस्तस्मात्स रौरवम् ॥ २८.९१{९१} ॥
देवद्विजगुरोर्द्रव्यं हृतं यैर्दुःखिनामिह ।
ते महारौरवं यान्ति ये चान्यस्वापहारिणः ॥ २८.९२{९२} ॥
रौद्रत्वाद्वह्निदाहस्य रवस्य च महत्तया ।
रौरवो हि महांस्तस्य मन्त्व रौरवादपि ॥ २८.९३{९३} ॥
कृत्वा गुणाधिके तीव्रमपकारं निहत्य च ।
मातापितृगुरुन् कल्पमवीचौ पच्यते ध्रुवम् ॥ २८.९४{९४} ॥
अस्थीन्यपि विशीर्य्यन्ते रौद्राग्नौ तत्र देहिनाम् ।
यतो न वीचिः सौख्यस्य नावीचिरुदाहृतः ॥ २८.९५{९५} ॥
मिथोद्रोहरता ये त्रणे घ्नन्तीव देहिनः ।
पापादसिनखास्ते तु जायन्ते दुःखभागिनः ॥ २८.९६{९६} ॥
नखा एवासयस्तेषामायसा ज्वलिताः खराः ।
तैरन्योन्यं निकृन्तन्ति यत्तेनासिनखाः स्मृताः ॥ २८.९७{९७} ॥
लोहज्वलिततीक्ष्णाग्राः षोडशाङ्गुलकण्टकाः ।
बलादारोह्यत ह्रंदन् शाल्मलीः पालदारिकः ॥ २८.९८{९८} ॥
लोहदम्ष्ट्रा महाकाया ज्वलितास्तीव्रभैरवाः ।
अश्लिष्य भक्षयन्त्येनं परदारोपहारिणम् ॥ २८.९९{९९} ॥
आरटन्तोऽपि खाद्यन्ते श्वगृध्रोलूकवायसैः ।
अशिवं कुर्वते छिन्ना विश्वासघाटिनो नराः ॥ २८.१००{१००} ॥
अयोगुडानि भुज्यन्ते प्रतप्तानि पुनः पुनः ।
याप्यन्ते क्वथितं ताम्रं ये परस्वापहारिणः ॥ २८.१०१{१} ॥
क्रूरैः श्वभिरयोद्रंष्ट्रैः कृत्यन्ते विवशा भृशम् ।
वर्षकोटि रटन्तोऽपि ये नराः खेटके रताः ॥ २८.१०२{२} ॥
मत्स्यादीञ्जलजान् हत्वा ज्वलन्त्यम्रद्रवोदकाम् ।
याति वैतरणीं शश्वद्वह्निना दह्यते नरः ॥ २८.१०३{३} ॥
ये स्वार्थलवसंमूढो व्यवहारमधार्मिकम् ।
करोति नरके क्रदन् स चक्रेणाभिपीड्यते ॥ २८.१०४{४} ॥
पीडा वहुभिराकारैः कृता यैर्दुःखिनामिह ।
पीड्यन्ते ते चिरं तप्तैर्यत्र मुद्गरपर्वतैः ॥ २८.१०५{५} ॥
भेदका धर्मसेतूनां ये चासन्मार्गवाहिनः ।
(र्म् ३२८)
क्षुरधाराचितं मार्गं गत्वा क्रामन्ति ते नराः ॥ २८.१०६{६} ॥
नखैः संचूर्ण्य यूकादीञ्चूर्ण्यन्ते मेषपर्वतै ।
भूयो भूयो महाकायाः क्रन्दन्तस्ते शरच्छतम् ॥ २८.१०७{७} ॥
व्रतं यस्तु समाश्रित्य संपन्नो परिरक्षति ।
शीर्यमानमान्सास्थिः कुकुंले पच्यते ध्रुवम् ॥ २८.१०८{८} ॥
अणुनापि हि यः कश्चिन्मिथ्याजीवेन जीवति ।
भक्ष्यते क्रिमिभिश्चण्डैः संमग्नो गूथमृत्तिके ॥ २८.१०९{९} ॥
दृष्ट्वापि व्रीहिमध्यस्थान् प्राणिनश्चूर्णयन्ति ये ।
आयसै मुखलैस्तप्तैः क्षोभ्यन्ते ते पुनः पुनः ॥ २८.११०{१०} ॥
अत्यन्तक्रोधनाः क्रूराः शठाः पापाभिकांक्षिणः ।
परव्यसनकृष्ट्वा च जायन्ते यमराक्षसाः ॥ २८.१११{११} ॥
सर्वेषामेव दुःखानां वीजं मृद्वाभिभेदतः ।
कायवाग्मानसं कर्म पापं यत्तदण्वपि वर्त्तयेत् ।
++ नरककाण्डं समाप्तम् ++
हंसपारावतादीनं खराणामपि रागिणाम् ।
येन रागेण जायन्ते मूढाः कीटादियोनिषु ॥ २८.११२{१} ॥
सर्प्पाः क्रोधोपनाहाभ्यां मारस्तब्धा मृगाधिपाः ।
अभिमानेन जायन्ते गदामाश्वादियोनिषु ॥ २८.११३{२} ॥
मात्सर्येर्ष्यादि दोषेण वानराः प्रेतदेहिनः ।
जायन्ते मुखरा धृष्टाश्चपलात्मानश्च वायसाः ॥ २८.११४{३} ॥
वधवंधनमात्सर्यैर्गवाश्वादिषु देहिनः ।
जायन्ते क्रूरकर्माणो लूताः खर्ज्जूरवृश्चिकः ॥ २८.११५{४} ॥
व्याघ्रमार्जारगोमायुऋक्षगृध्रवृगादायः ।
जायन्ते प्रेतमन्सादोः क्रोधना मत्सरा नराः ॥ २८.११६{५} ॥
दातारः क्रोधनाः क्रूरा नरा नागमहर्द्धिकाः ।
भवान्तत्यागिनो दर्प्पात्क्रोधाच्च गरुडेश्वराः ॥ २८.११७{६} ॥
कृतं यत्पापकं कर्म स्वयं वाक्कायमानसम् ।
तिर्यञ्चस्तेन जायन्ते तन्मनोगतिमाकृथाः ॥ २८.११८{७} ॥
++ इति तिर्यक्काण्डं समाप्तम् ++
भक्ष्यभोज्यापहर्तारो ये क्षुद्रा दानवर्जि ।
भवन्ति कुणपाहाराः प्रेतास्ते कटपूतनाः ॥ २८.११९{१} ॥
विहेठयन्ति ये बाला वंचयन्त्यपि तृष्णया ।
तेऽपि गर्भमलाहारा जायन्ते कटपूतनाः ॥ २८.१२०{२} ॥
हीनाचारातिदीनाश्च मत्सरा नित्यकांक्षिणः ।
जायंते ये नराः प्रेताऽष्टास्ते गलगण्डकाः ॥ २८.१२१{३} ॥
दानं निवारयत्येव न हि किं तिद्ददाति यः ।
क्षुत्क्षामासौ महाकुक्षिः प्रेतः शूचिमुखो भवेत् ॥ २८.१२२{४} ॥
धनं रक्षति वंशार्थे न भुंक्ते न ददाति यः ।
दत्तादायी ततः प्रेतः श्राद्धभोक्ता स जायते ॥ २८.१२३{५} ॥
यः परस्वापहारेप्सुर्दत्वा चैवानुतप्यते ।
भोक्ता विट्श्लेष्मवान्तानां प्रेत्य प्रेतः स जायते ॥ २८.१२४{६} ॥
अप्रियं वक्ति यः क्रोधाद्वाक्यं मर्मविभेदतम् ।
ब्बवन्त्युल्कामुखः प्रेतः सुचिरं तेन कर्मणा ॥ २८.१२५{७} ॥
(र्म् ३२९)
कुरुते कलहं यस्तु निष्कृपः क्रूरमानसः ।
क्रिमिकीटपतङ्गादेः प्रेतेऽसौ ज्योतिको भवेत् ॥ २८.१२६{८} ॥
ग्रामकूटौ ददात्येव यो जनं पीडयन्त्यपि ।
कुम्भाण्डो विकृताकारः पूयाहारश्च जायते ॥ २८.१२७{९} ॥
निर्दयाः प्राणिनो घ्नन्ति भक्ष्यार्थं ये ददन्त्यपि ।
मांसाहाराश्च तेऽवश्यं भवन्ति प्रेतराक्षसाः ॥ २८.१२८{१०} ॥
गंधमालारता नित्यं मंदक्रोधाः प्रदायकाः ।
गंधर्वाः प्रेत्य जायन्ते देवानां रतिहेतवः ॥ २८.१२९{११} ॥
क्रोधनाः पिशुनः किञ्चिदर्थार्थं यः प्रयछति ।
स पिशाचं प्रदुष्टात्मा जायते विकृताननः ॥ २८.१३०{१२} ॥
नित्यप्रदुष्टाश्चपलाः परपीडाकरा नराः ।
संप्रदानरता नित्यं भूताः प्रेत्य भवन्ति ते ॥ २८.१३१{१३} ॥
क्रूराः क्रूद्धाः प्रदातारः प्रिया सर्वसुरा च ये ।
जायन्ते प्रेत्य यक्षास्तु क्रूरात्मानः सुराप्रियाः ॥ २८.१३२{१४} ॥
मातापितृगुरून् यानैर्ये नयन्ति यथेप्सितम् ।
विमानचारिणो यक्षा जायंते सुसुखान्विताः ॥ २८.१३३{१५} ॥
तृष्णामात्सर्यदोषेण प्रेता भवन्त्यमी सदा ।
यक्षादयः शुभैः क्लिष्टैरतस्तान् परिवर्जयेत् ॥ २८.१३४{१६} ॥
++ इति प्रेतकाण्डं समाप्तम् ++
देवासुरमनुष्येषु दीर्घमायुरहिंसया ।
जायते हिन्सया स्वल्पामतो हिंसां विवर्जयेत् ॥ २८.१३५{१} ॥
कुष्ठरोगज्वरोन्मादा ये चान्ये व्याधयो नृणाम् ।
भवन्ति भूतप्रयुक्तेस्ते वधवंधनताडनैः ॥ २८.१३६{२} ॥
यो न हर्त्ता परस्वानां न वञ्चवित्प्रयछति ।
महतापि प्रयत्नेन स द्रव्यं नाधिगछति ॥ २८.१३७{३} ॥
अदत्तं वित्तमादाय दानानि च ददाति यः ।
स प्रेत्य द्रव्यवान् भूत्वा भूयो भवति निर्धनः ॥ २८.१३८{४} ॥
यो न हर्त्ता न दाता च न चातिकृपणो नरः ।
कृत्स्नेन महता द्रव्यं स्थिरं स लभते ध्रुवम् ॥ २८.१३९{५} ॥
न हर्त्ता यः परस्वानां त्यागवान् वीतमत्सरः ।
अहार्यं विपुलं वित्तमिष्टं च लभते नरः ॥ २८.१४०{६} ॥
आयुर्वर्णवलोपेतः श्रीमान् रोगविवर्जितः ।
सुखी च स लभेन्नित्यं यो ददातीह भोजनम् ॥ २८.१४१{७} ॥
सलज्जो रूपवान् भोगी सुछायः प्राणिनां प्रियः ।
स भवेद्वस्त्रलाभी च यो वासान्सि प्रयछति ॥ २८.१४२{८} ॥
आवासं यो ददातीह सुप्रसन्नेन चेतसा ।
प्रासादाः सर्वकामाश्च जायन्ते तस्य देहिनः ॥ २८.१४३{९} ॥
उपानत्संक्रमादीनि ये प्रयछन्ति मानवाः ।
भवन्ति सुखिनो नित्यं यानानि च लभन्ति ते ॥ २८.१४४{१०} ॥
वापीकूपतडागादीन् कारयित्वा जलाश्रयान् ।
सुखिनस्त्यक्तसंतापा निःपिपासा भवन्ति ते ॥ २८.१४५{११} ॥
पुष्पैरभ्यर्चितः श्रीमान् शरण्यः सर्वदेहिनाम् ।
समृद्धितः स स्यादारामं यः प्रयछति ॥ २८.१४६{१२} ॥
विद्यादानेन पण्डित्यं प्रज्ञाभ्यासेन चाप्यते ।
भैषज्याभयदानेन रोगमुक्तस्तु जायते ॥ २८.१४७{१३} ॥
(र्म् ३३०)
दीपदानेन चक्षुष्मान् वाद्यदानेन सुस्वरः ।
शयनासनदानेन सुखी भवति मानवः ॥ २८.१४८{१४} ॥
गवादीन्न् यो ददातीह भोज्यं रससमन्वितम् ।
बलवान् वर्णवान् भोगी दीर्घायुः स भवेन्नरः ॥ २८.१४९{१५} ॥
कन्यादानेन समान्यां लाभी स्यात्परिवारवान् ।
धनधान्यसमृद्धस्तु भूमिदानेन जायते ॥ २८.१५०{१६} ॥
पत्रं पुष्पं फलं तोयमभयं वचनं प्रियम् ।
यद्यदेवेप्सितं शक्त्या दातव्यं तत्तदर्थिनः ॥ २८.१५१{१७} ॥
क्लेशयित्वा ददातीह स्वकार्थं वा ह येन वा ।
यशःसौख्याभिलाखाद्वा स क्लिष्टं लभते फलम् ॥ २८.१५२{१८} ॥
स्वकार्यं निरपेक्षेण कृपाविष्टेन चेतसा ।
परार्थं यो ददातीह सोऽक्लिष्टं फलमश्नुते ॥ २८.१५३{१९} ॥
यत्किञ्चिद्दीयतेऽन्यस्मै यथाकालं यथाविधिम् ।
तेन तेन प्रकारेण तत्सर्वमुपतिष्ठते ॥ २८.१५४{२०} ॥
परानन्वपहत्येवं सर्वकालं यथेप्सितम् ।
अक्लेशयित्वा दातव्यं हितं धर्माविरोधियत् ॥ २८.१५५{२१} ॥
एवं हि दीयमानस्य दानस्यैव फलादयः ।
दानं हि सर्वसौख्यानामनन्यत्कारणं मतम् ॥ २८.१५६{२२} ॥
विरजः परदारेभ्यो दारानिष्टानवाप्नुयात् ।
स्वेभ्योऽप्यदेशकालौ च वर्जयेत्पुंस्त्वमर्छति ॥ २८.१५७{२३} ॥
परदारेषु संसक्तं चित्तं यो न नियछति ।
अनंगेषु चक्ष्येत स पुमां स्त्रीत्वमर्छति ॥ २८.१५८{२४} ॥
स्त्रीत्वं जुगुप्सते या तु सुशीलमन्दरागिणी ।
पुंस्त्वमाकांक्षते नित्यं सा नारी नरतां व्रजेत् ॥ २८.१५९{२५} ॥
यस्तु सम्यग्निरातङ्कं ब्रह्मचर्यं निषेवते ।
तेजस्वी सद्गुणः श्रीमान् देवैरपि स लक्ष्यते ॥ २८.१६०{२६} ॥
दृढस्मृतिरसंमूढो मघवानो निषेवनात् ।
जायते सत्यवादी च यशःसौख्यान्वितः पुमान् ॥ २८.१६१{२७} ॥
भिन्नानामपि सत्वानां भेदं नैव करोति यः ।
अभेद्यपरिवारोऽसौ जायते स्थिरमानसः ॥ २८.१६२{२८} ॥
यस्त्वाज्ञां कुरुते नित्यं गुरूणां हृष्टमानसः ।
हिताहिताभिधायी च स स्यादादेयवाक्कृती ॥ २८.१६३{२९} ॥
नीचापरायमानेन विपर्यासेन चोद्गतः ।
भवन्ति सुखिनः सौख्यं दुःखं दत्वा च दुःखिनः ॥ २८.१६४{३०} ॥
परप्रपञ्चाभिरताः शठाश्चानृतवादिनः ।
कुब्जवामनतां यान्ति ये च रूपाभिमानिनः ॥ २८.१६५{३१} ॥
जडो विज्ञानमात्सर्याद्भवेन्मूकः प्रियाप्रियः ।
वाधिर्यं याति मूढात्मा हितवाक्याभिगूढकः ॥ २८.१६६{३२} ॥
दुःखं पापस्य पुण्यस्य सुखं मिश्रस्य मिश्रितम् ।
सर्वं सादृश्यनिःस्यन्दमभ्युह्यं कर्मणः फलम् ॥ २८.१६७{३३} ॥
++इति मनुष्य कांदं समाप्तम् ++
शठ्येन मायया नित्यं चरत्यकृतकिल्बिषः ।
कलिप्रियः प्रदाता च स भवेदसुरेश्वरः ॥ २८.१६८{१} ॥
(र्म् ३३१)
++ इत्यसुरकाण्डम् ++
नात्मना यः सुखाकांक्षी न च कृव्येत परिग्रहम् ।
ग्रहाणामग्रणी चासौ महाराजिकतां व्रजेत् ॥ २८.१६९{१} ॥
मातापितृकुलज्येष्ठपूजकस्यागवान् कृती ।
हृष्यमे यो न कलहैस्त्रिदशेषु स जायते ॥ २८.१७०{२} ॥
न विग्रहे रता नैव कलहे हृष्टमानसाः ।
एकान्तकुशलोद्युक्ता ये च मोयापगास्तु ते ॥ २८.१७१{३} ॥
बहुश्रुता धर्मधराः सुप्रज्ञा मोक्षकांक्षिणः गुणैर् ।
ये परिहृष्णाश्च नरास्ते तुषितोपगाः ॥ २८.१७२{४} ॥
शीलप्रदानविनये प्रवृत्ता ये स्वयं नराः ।
महोत्साहाश्च तेऽवश्यं निर्माणरतिगामिनः ॥ २८.१७३{५} ॥
अदीनसत्वा मे श्रेष्ठाः प्रदाने दमसंयमैः ।
गुणाधिकाश्च ये यान्ति परनिर्मिततां ध्रुवम् ॥ २८.१७४{६} ॥
शीलेन स्वर्गमाप्नोति ध्यानेन च विशेषतः ।
यथाभूतपरिज्ञानात्पर्यन्ते वो पुनर्भवः ॥ २८.१७५{७} ॥
शुभाशुभफलं कर्म यदेतत्कथितं स्फुटम् ।
शुभेन लभ्यते सौख्यं दुःखं त्वशुभसंभवम् ॥ २८.१७६{८} ॥
मृत्युर्व्याधिर्जरा चैव चिन्तनीयमिदं त्रयम् ।
विप्रयोगा प्रियैः सार्द्धं कर्मणां च स्वकं फलम् ॥ २८.१७७{९} ॥
एवं विरागमाप्नोति विविक्तः पुण्यमर्छति ।
पापं च नार्जयेदेवं तच्च संक्षेपतः शृणु ॥ २८.१७८{१०} ॥
सम्यक्परार्थकरणं परानर्थविवर्जनम् ।
पुण्यं विपर्ययात्पापभुक्तमेव मुनीश्वरैः ॥ २८.१७९{११} ॥
++ इति देवकाण्डं समाप्तम् ++
एवं मत्वा महाराज षड्गतिकारिकां भवे ।
संबोधिधर्ममाधाय चरितव्यं सदा शुभे ॥ २८.१८०{१} ॥
ये संबोधिव्रतं धृत्वा प्रचरन्ति समाहिताः ।
सर्वसत्वहितार्थेन बोधिसत्वा भवन्ति ते ॥ २८.१८१{२} ॥
एवं विज्ञाय राजेन्द्र सदा भद्रं यदीछसि ।
त्रिरत्नं शरणं कृत्वा भज नित्यं समादरात् ॥ २८.१८२{३} ॥
एतत्पुण्यविपाकेन सर्वक्लेशन् विनिर्जयन् ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २८.१८३{४} ॥
इति तेन मुनीन्द्रेण समाख्यातं निशम्य सः ।
राजाप्युत्तरपांचालः प्रव्रजितुं समैछत ॥ २८.१८४{५} ॥
ततः स नृपती राजा समुत्थाय कृतांजलिः ।
भगवन्तमानत्वा प्रार्थयदेवमादरात् ॥ २८.१८५{६} ॥
भगवन्नाथ सर्वज्ञ भवतां शरणं गतः ।
संबोधिव्रतमाधाय प्रेछामि चरितुं सदा ॥ २८.१८६{७} ॥
यद्भवाञ्जगतां शास्ता संबोधिधर्मदेशिकः ।
तन्मेऽनुग्रहतां कृत्वा प्रव्रज्यां दातुमर्हति ॥ २८.१८७{८} ॥
इति संप्रार्थिते तेन राज्ञा स भगवान् सुधीः ।
तस्य राज्ञो मनःशुद्धं विज्ञायैवमुपादिशत् ॥ २८.१८८{९} ॥
साधु राजन्महाभाग यदीछसि शुभां गतिम् ।
एहि चर समाधाय चर मे शासने व्रतम् ॥ २८.१८९{१०} ॥
इत्यादिश्य मुनीन्द्रोऽसौ पाणिना तच्छिरः स्पृशन् ।
(र्म् ३३२)
संबुद्धे शासने धर्मे तं नरेंद्रं समग्रहीत् ॥ २८.१९०{११} ॥
एहीति तेन शास्त्रोक्ते नृपतिः स प्रबोधितः ।
खिक्खिरीपात्रधरो भिक्षुऽभूच्चीवरावृतः ॥ २८.१९१{१२} ॥
ततः स भूपतिश्चापि विरक्तो भोग्यनिस्पृहः ।
निःक्लेशः परिशुद्धात्मा बभूव विजितेंद्रियः ॥ २८.१९२{१३} ॥
साक्षादर्हत्वमासाद्य ब्रह्मचारी निरंजनः ।
संबोधिपदमासाद्य संबुद्धः श्रावकोऽभवत् ॥ २८.१९३{१४} ॥
ततः स ब्रह्मविद्योगी त्रैधातुवासिनामपि ।
सदेवासुरलोकानां वन्द्यो मान्योऽभवद्गुरुः ॥ २८.१९४{१५} ॥
ततो दक्षिणपांचालराजा स प्रतिमोदितः ।
उत्थाय सांजलिर्नत्वा प्रार्थ्यत्तं मुनीश्वरम् ॥ २८.१९५{१६} ॥
भगवन्नाथ सर्वज्ञ कृपया मे प्रसीदतु ।
त्रैमास्यं भक्तुमिछामि तत्कुरुतामनुग्रहम् ॥ २८.१९६{१७} ॥
इति संप्रार्थिते राज्ञा भगवान् स मुनीश्वरः ।
नृपतिं तं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ २८.१९७{१८} ॥
ततः स नृपती राजा भगवताध्युवासितम् ।
विदित्वा सर्वसामग्रीं सहसा समसाधयत् ॥ २८.१९८{१९} ॥
ततः स राजा भगवंतं ससांघिकम् ।
यथार्हभोजनैर्नित्यं समभ्यर्च्यऽभ्यतोषयत् ॥ २८.१९९{२०} ॥
विचित्रचीवरैश्चापि श्रीघनं तं ससांघिकम् ।
आछाद्य सांजलिर्नत्वा प्रणिधानं मुदा व्यधात् ॥ २८.२००{२१} ॥
एतत्पुण्यविपाकेन लोकेऽंधेऽपरिनायके ।
सद्धर्मभास्करः शास्ता संबुद्धोऽर्हं भवेय हि ॥ २८.२०१{२२} ॥
एवं तेन नरेन्द्रेण प्रणिधानं कृतं मुदा ।
मत्वा स भगवान् स्मितं प्रामुञ्चच्छुभरोचिषम् ॥ २८.२०२{२३} ॥
तत्स्मितसमुत्पन्नाः पंचवर्णाः सुरश्मयः ।
प्रसारितास्त्रिलोकेषु भासयन्त्यः प्रचेरिरे ॥ २८.२०३{२४} ॥
तद्रस्मिसंपरिस्पृष्टाः सर्वेऽपि नारकाश्रिताः ।
निर्मुक्तवेदनाखेदा महत्सौख्यं प्रलेभिरे ॥ २८.२०४{२५} ॥
तदा ते विस्मिताः सर्वे नारकीयाः प्रमोदिताः ।
किमेवं जायते सौख्यमिति ध्यात्वा निषेदिरे ॥ २८.२०५{२६} ॥
ततः स भगवांस्तेषां विस्मयाक्रांतचेतसाम् ।
मनांसि परिबोधार्थं प्रैषयत्तत्र नैर्मितम् ॥ २८.२०६{२७} ॥
तदा ते नारकाः सर्वे दृष्ट्वा तं सुगतं मुदा ।
उपेत्य प्रणतिं कृत्वा प्राभजञ्छरणं गताः ॥ २८.२०७{२८} ॥
ततस्तत्पुण्यलिप्तास्ते सर्वे विमुक्तपापकाः ।
परिशुद्धाः शुभात्मानः सद्गतिं समुपाययुः ॥ २८.२०८{२९} ॥
ततस्ता रश्मयः सर्वा अवभास्य समंततः ।
अकनिष्ठालयं यावत्प्रसृताः समभासयन् ॥ २८.२०९{३०} ॥
गाथाघोषैश्च सर्वत्र सर्वान् देवान् प्रमोदिनः ।
बोधयित्वा शुभे धर्मे प्रतिष्ठाप्य पचेरिरे ॥ २८.२१०{३१} ॥
ततस्ता रश्मयः सर्वा पिण्डीभूता मुनेः पुरः ।
त्रिधा प्रदक्षिणीकृत्वा महोष्णीषे समाविशत् ॥ २८.२११{३२} ॥
तद्दृष्ट्वा ते सभालोकाः सर्वेऽतिविस्मयोद्धताः ।
(र्म् ३३३)
शास्ता किमादिशेद्धर्ममिति ध्यात्वा निषेदिरे ॥ २८.२१२{३३} ॥
इति तेषां मनस्तर्कं मत्वानंदः समुत्थितः ।
उपेत्य सांजलिर्नत्वा प्रार्थयेत्तं मुनीश्वरम् ॥ २८.२१३{३४} ॥
भगवन् हेतुना केन स्मितं मुंचति सांप्रतम् ।
नाहेत्वप्रत्ययं स्मितं न मुंचंति मुनीश्वराः ॥ २८.२१४{३५} ॥
तद्यदर्थे भवान् स्मितं मुंचतीमे सभाजनाः ।
श्रोतुमिछंति सर्वे तदर्थमादेष्टुमर्हति ॥ २८.२१५{३६} ॥
इत्यानंदोदितं श्रुत्वा भगवान् स जगद्गुरुः ।
सर्वांल्लोकान् समालोक्य तमानंदं समब्रवीत् ॥ २८.२१६{३७} ॥
एवमेव सदानंद सर्वे बुद्धा मुनीश्वराः ।
नाहेतुप्रत्ययं स्मितं विमुंचन्ति कदा चन ॥ २८.२१७{३८} ॥
पश्यतामयमानंद राजातिसंप्रसादितः ।
सत्कृत्य श्रद्धयास्माकं त्रैमास्यं भजते मुदा ॥ २८.२१८{३९} ॥
एतत्पुण्यविपाकेन राजायं सद्गुणाकरः ।
क्रमात्पारमिताः सर्वाः परिपूर्य बलान्वितः ॥ २८.२१९{४०} ॥
सर्वक्लेशगणाञ्जित्वा माराञ्चापि विनिर्जयन् ।
बोधिमासाद्य सर्वज्ञस्तथागतो मुनीश्वरः ॥ २८.२२०{४१} ॥
सर्वविद्याधिपः शास्ता धर्मराजो विनायकः ।
विजयो नाम संबुद्धो भविष्यति भवान्तरे ॥ २८.२२१{४२} ॥
एवमानंद विज्ञाय बुद्धक्षेत्रशुभंकृतम् ।
तद्विपाके महत्सौख्यं भद्रं संबोधिसाधनम् ॥ २८.२२२{४३} ॥
त्रिरत्नशरणं कृत्वा सत्कारैः श्रद्धया सदा ।
संबोधिवाञ्छिभिर्लोकैश्चरितव्यं शुभे मुदा ॥ २८.२२३{४४} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदादयोऽपि ते ।
सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रसादिताः ॥ २८.२२४{४५} ॥
सोऽपि दक्षिणपांचालो राजा श्रुत्वा प्रमोदितः ।
त्रिरत्नभजनं कृत्वा प्रचचार शुभे सदा ॥ २८.२२५{४६} ॥
तदारभ्य सदा तत्र मंगलं निरुपद्रवम् ।
समंततो महोत्साहं कृतयुग इवाभवत् ॥ २८.२२६{४७} ॥
इति मे गुरुणाख्यातं श्रुतं मया तथाऽधुना ।
कथ्यतेऽत्र त्वयाप्येवं चरितव्यं शुभे सदा ॥ २८.२२७{४८} ॥
प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालनीयाः सदा त्वया ॥ २८.२२८{४९} ॥
तथा ते सर्वदा भद्रं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ २८.२२९{५०} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः ।
तथेत्यभ्यनुमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ २८.२३०{५१} ॥
राज्ञो पाञ्चालयोर्यन्मुनिकथितमिदं तत्प्रसिद्धावदानम् ।
शृण्वन्ति श्रावयन्ति प्रमुदितमनसः श्रद्धया ये प्रसन्नाः ।
सर्वे ते बोधिसत्वाः सकलगुणधराः सर्वसंपत्सुखाढ्याः ।
कृत्वा लोकेषु भद्द्रं मुनिवरनिलये संप्रयान्ति प्रमोदाः ॥ २८.२३१{५२} ॥
(र्म् ३३४)
++ इति रत्नावदानतत्वे पांचालराजावदनं समाप्तम् ++
(र्म् ३३५)
xxइx उपपादुकावदान
अथाशोको महीपालः समुपेत्य कृतांजलिः ।
उपगुप्तं यतिं नत्वा प्रार्थयदेवमादरात् ॥ २९.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथाख्यातुं च मेऽर्हति ॥ २९.२{२} ॥
इति संप्रर्थितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः ।
उपगुप्तो नरेंद्रं तं समालोक्यैवमादिशत् ॥ २९.३{३} ॥
साधु शृणु महराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्यनुमोदय ॥ २९.४{४} ॥
तद्यथा भगवान् बुद्धा शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ २९.५{५} ॥
एकस्मिन् समये मातुर्मायादेव्या हितेछया ।
सद्धर्मं समुपादेष्टुं प्राचरत्त्रिदशालये ॥ २९.६{६} ॥
तत्र स भगवान् गत्वा सुरम्ये नंदने वने ।
पारिजाततले पाण्डुसच्छिलायामुपाश्रयत् ॥ २९.७{७} ॥
तत्र शक्रादयो देवाः सर्वे तं सद्गुणाकरम् ।
शाक्यमुनिं समालोक्य मुदिताः समुपाचरन् ॥ २९.८{८} ॥
तत्र तं श्रीघनं दृष्ट्वा सर्वे देवाः प्रमोदिताः ।
त्रिधा प्रदक्षिणीकृत्य साञ्जलयः प्रणेमिरे ॥ २९.९{९} ॥
ततो देवाधिपः शक्रो दिव्यरत्नमयासनम् ।
संबुद्धस्य जगच्छास्तुः प्राज्ञापयच्छुभोज्ज्वलम् ॥ २९.१०{१०} ॥
तत्र स भगवान् दृष्ट्वा दिव्यरत्नमहोज्वले ।
आरुह्य समुपाश्रित्य समातस्थौ प्रभासयन् ॥ २९.११{११} ॥
तदा सा जननी माता मायादेवी समागता ।
तमात्मजं जगन्नाथं संदृष्ट्वा समुपाचरत् ॥ २९.१२{१२} ॥
तत्र स भगवान् दृष्ट्वा मातरं तां समागताम् ।
उत्थाय समुपासृत्य प्रणत्वैवमभाषत ॥ २९.१३{१३} ॥
स्वागतं कुशलं मातरारोग्यमस्तु ते सदा ।
त्वत्मुखं द्रष्टुमायामि तत्प्रसादितुमर्हसि ॥ २९.१४{१४} ॥
अत्रासने समाश्रित्य निषीदैकाग्रमानसा ।
उपदिक्ष्यामि सद्धर्मं तच्छृणुष्व समाहिता ॥ २९.१५{१५} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा जननी सती ।
मायादेवी समालोक्य तमात्मजं समव्रावीत् ॥ २९.१६{१६} ॥
प्रायामि ते मुखं द्रष्टुं कुशलं ते सदात्मज ।
तन्ममानुग्रहार्थेन धर्ममादेष्टुमर्हसि ॥ २९.१७{१७} ॥
इत्युक्त्वा सा सती मायादेवी माता जगद्गुरोः ।
उपासनं समाश्रित्य निससाद समाहिता ॥ २९.१८{१८} ॥
ततः शक्रादयो देवाः सर्वे ते संप्रहर्षिताः ।
(र्म् ३३६)
पूजांगैस्तं जगन्नाथं मायादेवीं च प्रार्चयन् ॥ २९.१९{१९} ॥
ततः पादान्स्तयोर्नत्वा कृत्वा च त्रिप्रदक्षिणम् ।
परिवृत्य पुरस्कृत्वा धर्मं श्रोतुमुपाश्रयन् ॥ २९.२०{२०} ॥
ततस्त भगवान् दृष्ट्वा तान् देवान् समुपस्थितान् ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ २९.२१{२१} ॥
ततश्च भगवांस्तेषां देवानां सुखमानिनम् ।
संबोधिसाधनं पुनरेवमुपादिशत् ॥ २९.२२{२२} ॥
अनित्यं खलु संसारे दुःखं शून्यं ह्यनात्मकम् ।
कामे किंचित्सुखं नात्र क्लेशसंघे समाकुले ॥ २९.२३{२३} ॥
इति मत्वात्र संसारे सदा सौख्यं यदीछथ ।
बोधिचर्याव्रतं धृत्वा संचरध्वं सदा शुभम् ॥ २९.२४{२४} ॥
निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने ।
मारचर्य्यां परित्यज्य चरध्वं बोधिचारिकाम् ॥ २९.२५{२५} ॥
यः सत्वहितार्थेन बोधिचर्यां चरिष्यति ।
स सम्यग्बोधिमासाद्य संबुद्धपदमाप्स्यति ॥ २९.२६{२५} ॥
एवं मत्वात्र संसारे सर्वे यूयं समाहिताः ।
त्रिरत्नभजनं कृत्वा चरध्वं बोधिसंवरम् ॥ २९.२७{२६} ॥
ये त्रिरत्नं भजन्त्यत्र न ते गछंति दुर्गतिम् ।
सदा सद्गतिसंयाताः क्रमाद्बोधिमवाप्नुयुः ॥ २९.२८{२७} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वेऽपि तेऽमराः ।
सत्यमेव परिज्ञाय प्राभ्यनन्दन् प्रबोधिताः ॥ २९.२९{२८} ॥
ततः शक्रः समुत्थाय कृतांजलिः ।
भगवंतं तमानम्य प्रार्थयदेवमादरात् ॥ २९.३०{२९} ॥
भगवन्नाथ सर्वज्ञ सर्वदेह सुरालये ।
सद्धर्मं नः समादिश्य भवन् विहर्तुमर्हति ॥ २९.३१{३०} ॥
वयं सर्वे सुरा नित्यं भवतां शरणं गताः ।
सद्धर्मं सर्वदाकर्ण्य चरिष्यामः शुभां चरिम् ॥ २९.३२{३१} ॥
ततः सापि महामायादेवि माता समुत्थिता ।
उपेत्य सांजलिर्नत्वा भगवन्तं तमब्रवीत् ॥ २९.३३{३२} ॥
धन्योऽसि यत्त्वया पुत्र प्रतिज्ञातं यथापुरा ।
तथा त्वं पूर्यते सर्वं सर्वार्थसिद्धिरस्तु ते ॥ २९.३४{३३} ॥
सदात्र देवलोकानां हितार्थे च प्रबोधयन् ।
सद्धर्मं समुपादिश्य विहर संप्रभासयन् ॥ २९.३५{३४} ॥
इति मात्रार्थितं श्रुत्वा भगवान् स जगद्गुरुः ।
जननीं तां सभां चापि समालोक्यैवमादिशत् ॥ २९.३६{३५} ॥
मातर्नैकहितार्थेनबोधिचर्यां दधामि हि ।
सर्वेषामपि सत्वानां हितार्थेऽहं जिनो भवे ॥ २९.३७{३६} ॥
तदत्र सर्वदा नैवं तिष्ठेयं त्रिदशैः सह ।
वर्षा मासत्रयं स्थातुमिछामि धर्ममादिशन् ॥ २९.३८{३७} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा जननी मुदा ।
तथास्त्विति प्रभाषित्वा प्राभ्यनंदत्प्रबोधिता ॥ २९.३९{३८} ॥
तथा स भगवान्स्तत्र बोधिचर्यां प्रकाशयन् ।
सद्धर्मं समुपादिश्य तस्थौ मासत्रयं दिवि ॥ २९.४०{३९} ॥
(र्म् ३३७)
सर्वशक्रादयो देवास्त्रिरत्नशरणं गताः ।
सत्कृत्य श्रद्धया नित्यं धर्मं श्रुत्वा प्रभेजिरे ॥ २९.४१{४०} ॥
तदा तत्र सदा स्वर्गे मंगलं निरुपद्रवम् ।
सद्धर्मसाधनोत्साहं प्रावर्त्तते समंततः ॥ २९.४२{४१} ॥
तस्मिंश्चा समये तत्र स्रावस्त्या वहिराश्रमे ।
जेतोद्याने विहारे स मौद्गल्यायन आश्रयत् ॥ २९.४३{४२} ॥
तदा ते सांघिकाः सर्वे तं मौद्गल्यायनं यतिम् ।
विहारे संस्थितं दृष्ट्वा धर्मं श्रोतुं समीछिरे ॥ २९.४४{४३} ॥
ततस्ते सांघिकाः सर्वे लोकाश्चान्येऽपि सज्जनाः ।
तत्सद्धर्मदेशनां श्रोतुं मुदिताः समुपाचरन् ॥ २९.४५{४४} ॥
तत्र सर्वेऽपि ते लोकास्तं मौद्गल्यायनं गुरुम् ।
समभ्यर्च्य समानम्य धर्मं श्रोतु]मुपाश्रयन् ॥ २९.४६{४५} ॥
तान् दृष्ट्वा समुपासीनान् स मौद्गल्यो जिनात्मजः ।
आदिमध्यांतकल्याणं दिदेश धर्ममुत्तमम् ॥ २९.४७{४६} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाश्च सांघिकाः ।
सद्धर्म्मसाधनोद्युक्ता वभूवुः परिबोधिताः ॥ २९.४८{४७} ॥
अथ ते भिक्षवः सर्वे कृतांजलिः पुटो मुदा ।
तं मौद्गल्यायनं नत्वा पप्रछुरेवमादरात् ॥ २९.४९{४८} ॥
भदन्त भगवं छास्ता कुत्रेदानीं समाश्रितः ।
सद्धर्मं समुपादिश्य विहरति न मन्यते ॥ २९.५०{४९} ॥
तदस्माकं मनान्स्यत्र भगवाञ्छास्ता यतः स्थितः ।
तत्सत्यं समुपादिश्य प्रबोधयितुमर्हति ॥ २९.५१{५०} ॥
इति तैः प्रार्थितं श्रुत्वा स मौद्गल्यायनः सुधीः ।
सर्वान्स्तान् संघिकान् भिक्षून् समालोक्यैवमब्रवीत् ॥ २९.५२{५१} ॥
श्रुतं मया भवन्तोऽसौ भगवाञ्छास्ताऽधुना दिवि ।
ततो मातुः सुराणां चा तिष्ठते धर्ममादिशत् ॥ २९.५३{५२} ॥
ततो वर्षात्रिमासान्ते भगवान् स जगद्गुरुः ।
अत्र लोकहितं कर्तुमवतरेत्स्वयं खलु ॥ २९.५४{५३} ॥
इति तेनार्हताख्यातं श्रुत्वा ते सांघिका जनाः ।
सर्वेऽप्य्ऽभ्यनुमोदन्तः स्वस्वालयं समाचरन् ॥ २९.५५{५४} ॥
सदा ते सांघिकास्तस्य मौद्गल्यस्य महामतेः ।
सद्धर्मं सर्वदाकर्ण्य भजन्तः समुपाश्रयन् ॥ २९.५६{५५} ॥
ततो वर्षात्रिमासान्ते सर्वे ते सांघिका जनाः ।
अपि तं मौद्गल्यमानत्वा प्रार्थयदेवमादरात् ॥ २९.५७{५६} ॥
भवन्तात्र भवाञ्छास्ता विजानीयाज्जगद्गुरोः ।
द्रष्टुमिछामहे शास्तुः सद्धर्मं तृषिता वयम् ॥ २९.५८{५७} ॥
चिरदृष्टो यदस्माभिर्भगवां स मुनीश्वरः ।
तदस्याग्रमुनीन्द्रस्य दर्शनं दातुमर्हति ॥ २९.५९{५८} ॥
तदस्मदनुकम्पार्थं भवनृद्धिप्रभावतः ।
गत्वा स्वर्गे मुनीन्द्रस्य सहसा समुपक्रमेत् ॥ २९.६०{५९} ॥
तत्र गत्वा भवाच्छास्तुर्मुनीन्द्रस्य जगद्गुरोः ।
अस्माकं वचनैश्चापि वंदतां चरणाम्बुजौ ॥ २९.६१{६०} ॥
(र्म् ३३८)
देहे च कौशलं सौख्यं पृछतां वचनैश्च नः ।
एवं चापि पुरः शास्तुर्निवेदितुं समर्हति ॥ २९.६२{६१} ॥
भगवं नाथ सर्वज्ञ ते जाम्बूद्वीपिका नराः ।
भवन्तं द्रष्टुमिछन्ति सद्धर्मामृतलालसाः ॥ २९.६३{६२} ॥
यद्भवान् सर्वसत्वानां हितं कर्तुं समुद्यतः ।
तद्भगवान्मनुष्याणां धर्ममादेष्टुमर्हति ॥ २९.६४{६३} ॥
नराः स्वर्गे समागंतुं शक्नुवन्ति न के चन ।
देवास्तु सर्वलोकेषु प्रचरन्ति यथेछया ॥ २९.६५{६४} ॥
तद्भगवान्मनुष्याणां हितार्थायानुकम्पया ।
सद्धर्मं समुपादेष्टुं जम्बुद्वीपमवातरेत् ॥ २९.६६{६५} ॥
वयं सर्वे सदा नित्यं भवतां शरणं गताः ।
सत्कृत्य श्रद्धया धर्म्मं श्रुत्वा संप्रभजेमहि ॥ २९.६७{६६} ॥
एवं शास्तर्महाविज्ञ गत्वा तत्र सुरालये ।
भगवंतं जगन्नाथं संप्रार्थ्येह समानय ॥ २९.६८{६७} ॥
इति तैः प्रार्थितैः श्रुत्वा स मौद्गल्यो महार्द्धिमान् ।
एवमिति प्रतिज्ञाय तूष्णीभूत्वाध्युवास तत् ॥ २९.६९{६८} ॥
अथ ते सांघिकाः सर्वे लोकाश्चापि महात्मना ।
तेनाधिवासितं मत्वा मुदिताः स्वस्वालयं ययुः ॥ २९.७०{६९} ॥
अथ सोऽर्हं महाभिज्ञो मौद्गल्यन आत्मवित् ।
स्वर्गे गंतुं समाधाय समाधिं विदधे क्षणम् ॥ २९.७१{७०} ॥
ततः स ऋद्धिवीर्येण सुपर्ण इव खेऽगमत् ।
भासयन् सहसा गत्वा दिवि शास्तुरुपाचरत् ॥ २९.७२{७१} ॥
तत्र तं समुपायातं दृष्ट्वा स भगवान्मुदा ।
स्वागतं प्रेहि मौद्गल्य निषीदेति समब्रवीत् ॥ २९.७३{७२} ॥
इत्यादिष्टे मुनीन्द्रेण स मौद्गल्यः प्रमोदितः ।
साञ्जलिः पादयोः शास्तुः प्रणत्वैवं समब्रवीत् ॥ २९.७४{७३} ॥
भगवन्नाथ सर्वज्ञ प्रागतोऽहं मुदा दिवि ।
भवतां दर्शनं कर्तुं तत्प्रसीद दयानिधे ॥ २९.७५{७४} ॥
कच्चित्ते कुशलं शास्तः किञ्चिद्वाधापि नैव हि ।
यात्रा सुखं वलं वीर्यं कच्चित्काये न चान्यथा ॥ २९.७६{७५} ॥
भवानपि विजानीयाद्यदर्थेऽहमिहागतः ।
तथापि भगवन्नत्र विज्ञापयेय सर्वथा ॥ २९.७७{७६} ॥
भवतां सांघिकैः सर्वैर्लोकैश्चापि महाजनैः ।
भवन्तं द्रष्टुमिछद्भिः प्रेषितोऽहमिहागतः ॥ २९.७८{७७} ॥
ते सर्वे सांघिका लोका भवतां चरणाम्बुजे ।
वन्दन्ति कौशलं काये परिपृछन्ति चादरात् ॥ २९.७९{७८} ॥
एवं चापि वदन्ते ते सर्वे लोकाश्च सांघिकाः ।
सद्धर्मश्रवणोत्साहरहिता विकलाशयाः ॥ २९.८०{७९} ॥
भगवान् सर्वसत्वानां हितार्थे बोधिमाप्तवान् ।
तत्तथात्र मनुष्याणां धर्ममादेष्टुमर्हति ॥ २९.८१{८०} ॥
ततः स्वर्गे समागंतुं शक्नुवन्ति न के चन ।
देवास्तु सर्वलोकेषु प्रचरन्ति यथेछया ॥ २९.८२{८१} ॥
तद्भगवान्मनुष्यानां हितार्थायानुकम्पया ।
(र्म् ३३९)
सद्धर्मं समुपादेष्टुं जम्बूद्वीपमवातरेत् ॥ २९.८३{८२} ॥
वयं सर्वे सदा नित्यं भवतां शरणं गताः ।
सत्कृत्य श्रद्धया धर्मं श्रुत्वा संप्रभजेमहि ॥ २९.८४{८३} ॥
एवमस्मद्वचोभिस्त्वं गत्वा तत्र सुरालये ।
भगवंतं जगन्नाथं संप्रार्थ्येह समानय ॥ २९.८५{८४} ॥
इति तैः प्रार्थ्यमानेऽहं तथेति प्रतिबोधितः ।
भवतां विज्ञापनां कर्तुं सहसा समुपाचरे ॥ २९.८६{८५} ॥
तद्भगवन्मनुष्याणां हितानुकम्पयाधुना ।
सद्धर्मं समुपादेष्टुं भुव्येव तर्त्तुमर्हति ॥ २९.८७{८६} ॥
इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तं मौद्गल्यायनं दृष्ट्वा तूष्णीभूत्वाध्युवास तत् ॥ २९.८८{८७} ॥
तस्मिंश्च समये तत्र सर्वे शक्रादयोऽमराः ।
सद्धर्मं श्रवणोत्साहाः समागाताः समंततः ॥ २९.८९{८८} ॥
कृत्वा पूजां मुनीन्द्रस्य प्रणत्वा चरणाम्बुजे ।
परिवृत्य पुरस्कृत्य धर्मं श्रोतुमुपाश्रयन् ॥ २९.९०{८९} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वन् समुपाश्रितान् ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ २९.९१{९०} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे शक्रादयोऽपि ते ।
देवाः संहर्षिता बोधिचर्याभिवाञ्छितोऽभवन् ॥ २९.९२{९१} ॥
तत्समीक्ष्य स मौद्गल्यः किञ्चिद्विहसितो मुदा ।
भगवंतं मुनीन्द्रं तं दृष्ट्वैवं समचिंतयत् ॥ २९.९३{९२} ॥
इहापि भगवान्नेवं समाकीर्णसभाश्रितः ।
सद्धर्मं समुपादिश्य विहरति यथाभुवि ॥ २९.९४{९३} ॥
अथ स भगवांस्तस्य मौद्गल्यस्य महामतेः ।
मनश्चिन्तितमाज्ञाय तं मौद्गल्यं समब्रवीत् ॥ २९.९५{९४} ॥
न मे मौद्गल्य सत्कारवंधितं भवते मनः ।
अपि त्वहं यथेछामि तथा सर्वं समृद्ध्यति ॥ २९.९६{९५} ॥
आयान्त्विहामराः सर्वे इति मया यदेच्छ्यते ।
तदा सर्व इमे देवा आगछंति समंततः ॥ २९.९७{९६} ॥
गछन्तु च सुराः सर्वे इति मया यदेह्यते ।
तदा सर्व इमे देवा गछंति च स्वमालयम् ॥ २९.९८{९७} ॥
एवं मे सर्वकार्येषु मनोऽभिलषितं यथा ।
तथात्र सर्वकार्याणि सिद्ध्यंते हि सदा तदा ॥ २९.९९{९८} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा मौद्गल्य आत्मवित् ।
शास्तुः पादाम्बुजौ नत्वा सांजलिः समुपाश्रयत् ॥ २९.१००{९९} ॥
ततः सभां सुरां कीर्णां स मौद्गल्यायनो यतिः ।
तार सर्वां संनिरीक्ष्यैवं भगवन्तमभाषत ॥ २९.१०१{१००} ॥
विचित्रा भगवन् देवापर्षदियं विराजते ।
नूनमिमे सुराः सर्वे संबुद्धपदलाभिनः ॥ २९.१०२{१} ॥
सन्ति ह्यस्यां सभायां ये संबुद्धे संप्रसादिताः ।
कायभेदादिहोत्पन्नास्ते संबोधिलाभिनः ॥ २९.१०३{२} ॥
सन्ति धर्मे प्रसन्ना ये आर्यशीलैः समन्विताः ।
कायभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.१०४{३} ॥
(र्म् ३४०)
सन्ति संघे प्रसन्ना ये आर्यधर्मानुचारिणः ।
कायभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.१०५{४} ॥
इति मौद्गल्यसंप्रोक्तं श्रुत्वा स भगवांस्तथा ।
तं मौद्गल्यायनं दृष्ट्वानुवर्णयन् सामादिशत् ॥ २९.१०६{५} ॥
एवमेतद्धि मौद्गल्य विचित्रेयं महासभा ।
सुरेन्द्रप्रमुखा देवा यत्र सन्ति प्रमोदिताः ॥ २९.१०७{६} ॥
सन्ति बुद्धे प्रसन्ना ये संबोधिसाधनोत्सहाः ।
कायभेदादिहोत्पन्नास्ते संबोधिपदोन्मुखाः ॥ २९.१०८{७} ॥
सन्ति धर्मे प्रसन्ना ये आर्यशीलसमाचराः ।
कायभेदादिहोत्पन्नास्तेऽपि संबोधिगामिनः ॥ २९.१०९{८} ॥
संति संघे प्रसन्ना ये आर्यसत्यसमन्विताः ।
कायभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.११०{९} ॥
एवं शास्त्रा समाख्यातं श्रुत्वा देवाधिपोऽपि सः ।
भगवंतं समालोक्य मौद्गल्यं च तथाब्रवीत् ॥ २९.१११{१०} ॥
विचित्रा भगवन् देवपर्षदियं विराजते ।
यत्र सन्ति महासत्वाः संबोधिसाधनोद्यताः ॥ २९.११२{११} ॥
सन्ति बुद्धे प्रसन्ना ये श्रद्धया शरणं गताः ।
कायभेदादिहोत्पन्नास्ते संबुद्धपदलाभिनः ॥ २९.११३{१२} ॥
संति धर्मे प्रसन्ना ये श्रद्धया शरणं गताः ।
कायभेदादिहोत्पन्नास्ते संबुद्धपदलाभिनः ॥ २९.११४{१३} ॥
सन्ति धर्मे प्रसन्ना ये श्रद्धया शरणं गताः ।
कायभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.११५{१४} ॥
संति संघे प्रसन्ना ये श्रद्धया शरणं गताः ।
कायभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.११६{१५} ॥
इति देवाधिपाख्यातं श्रुत्वान्यापि सुरात्मजः ।
मौद्गल्यं श्रीघनं चापि शक्रं चैक्ष्यैवमब्रवीत् ॥ २९.११७{१६} ॥
विचित्रेयं महासत्व देवसभा विराजते ।
सन्ति यत्र महात्मानः संबोधिसाधोद्यताः ॥ २९.११८{१७} ॥
सन्ति संघे प्रसन्ना ये सत्कृत्य प्रभजन्ति ते ।
देहभेदादिहोत्पन्ना भवंति बोधिलाभिनः ॥ २९.११९{१८} ॥
सन्ति धर्मे प्रसन्ना ये भजन्ति श्रद्धया मुदा ।
देहभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.१२०{१९} ॥
सन्ति बुद्धे प्रसन्ना ये भजंति शरणं गताः ।
देहभेदादिहोत्पन्नास्तेऽपि संबोधिलाभिनः ॥ २९.१२१{२०} ॥
एवमेतत्समाख्यातं मौद्गल्येन महात्मना ।
मुनीन्द्रशक्रदेवैश्च श्रुत्वा सर्वे सुरा मुदा ॥ २९.१२२{२१} ॥
प्रबोधिताः परिज्ञाय संबुद्धशरणं ययुः ।
तत्र सर्वेऽपि ते देवास्त्रिरत्नभजनोद्यताः ॥ २९.१२३{२२} ॥
तत्पुण्यैः श्रोतआपत्तिफलं साक्षात्समाययुः ॥ २९.१२४{२३!} ॥
ततस्तां श्रीघनं नात्वा मौद्गल्यं च प्रसादिताः ।
ते शक्रादयो देवाः सर्वे स्वस्वालयां ययुः ॥ २९.१२५{२४} ॥
अथ सोऽर्हन्महाभिज्ञो मौद्गल्यायन आत्मवित् ।
भगवन्तं तमानम्य सांजलिरेवमब्रवीत् ॥ २९.१२६{२५} ॥
भगवन्नाथ सर्वज्ञ भवत्कार्य्यं प्रसिद्ध्यति ।
(र्म् ३४१)
अत्र सर्वे सुरा भद्रैश्चरन्ति बोधिमानसाः ॥ २९.१२७{२६} ॥
तत्तत्रापि मनुष्याणां हिताय भगवानपि ।
जम्बुद्वीपेऽधुना शास्तः समवतर्त्तुमर्हति ॥ २९.१२८{२७} ॥
इति संप्रार्थिते तेन मौद्गल्येन महात्मना ।
भगवांस्तं महासत्वं मौद्गल्यमेवमादिशत् ॥ २९.१२९{२८} ॥
साधु गछाधुना तत्र जम्बुद्वीपे निजाश्रमे ।
गत्वा लोकसभामध्ये स्थित्वैवं संप्रबोधय ॥ २९.१३०{२९} ॥
अवतरेज्जगद्वन्धुरितोऽह्नि सप्तमे दिवः ।
सांकाशे नगरे ह्यापज्जुरे वन उदुम्वरे ॥ २९.१३१{३०} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा मौद्गल्य आत्मवित् ।
तथेति प्रतिविज्ञप्य तथा कर्तुं समैछत ॥ २९.१३२{३१} ॥
अथ स ऋद्धिमान् योगी मौद्गल्यायन आत्मवित् ।
सांजलिस्तं मुनिं नत्वा समाधिं विदधे तदा ॥ २९.१३३{३२} ॥
ततः सोऽर्हं महाभिज्ञो मौद्गल्योऽन्तर्हितो दिवि ।
क्षणात्पक्षी यथाकाशाज्जम्बुद्वीपमवातरत् ॥ २९.१३४{३३} ॥
तत्र जेताश्रमे सोऽर्हन्नवतार्य निजाश्रमे ।
शुभासनसमासीनः प्रभासयन्न्यषीदत ॥ २९.१३५{३४} ॥
तं दृष्ट्वासन आसीनं मौद्गल्यं समुपागतम् ।
मत्वा ते सांघिकाः सर्वे मुदिताः समुपाचरन् ॥ २९.१३६{३५} ॥
तच्छ्रुत्वा मुदिताः सर्वे लोकाश्चापि नृपादयः ।
विहारे जेतकारामे सहसा समुपाचरन् ॥ २९.१३७{३६} ॥
तत्रासनसमासीनं मौद्गल्यं तं महर्द्धिकम् ।
दृष्ट्वा सर्वेऽपि ते नत्वा परिवृत्योपतस्थिरे ॥ २९.१३८{३७} ॥
ततस्ते भिक्षवः सर्वे मौद्गल्यं तं महर्द्धिकम् ।
कृतांजलिपुटा नत्वा पप्रछुरेवमादरात् ॥ २९.१३९{३८} ॥
भदन्त कुशलं कच्चिद्भवतोऽपि जगद्गुरोः ।
कुत्र स भगवान् धर्ममादिशंस्तिष्ठते दिवि ॥ २९.१४०{३९} ॥
कदा स भगवांच्छास्ता स्वर्गादिह समाचरेत् ।
कथं चापि समाख्याति तत्सर्वं समुपादिश ॥ २९.१४१{४०} ॥
इति तैः प्रार्थितं श्रुत्वा स मौद्गल्यायनो यतिः ।
तां सर्वान् संघिकाल्लोकांश्चापि दृष्ट्वैवमब्रवीत् ॥ २९.१४२{४१} ॥
भवन्तः कुशलं शास्तु मुनीन्द्रस्य ममापि च ।
युष्माकमपि नाम्नोऽहमवन्दं तं मुनीश्वरम् ॥ २९.१४३{४२} ॥
परिजातमुपाश्रित्य सेन्द्रदेवैः समर्चितः ।
मातुः स भगवान् धर्ममादिशंस्तिष्ठते दिवि ॥ २९.१४४{४३} ॥
यथा युष्माभिराख्यातं तथा निवेदितं मया ।
श्रुत्वा स भगवांच्छास्ता ममैवं समुपादिशत् ॥ २९.१४५{४४} ॥
इतोऽह्नि सप्तमे स्वर्गादवतरेय भूतले ।
सांकाशनगरोपापज्जुरे वने उदुम्वरे ॥ २९.१४६{४५} ॥
इत्यादिश्य मुनीन्द्रेण प्रेषितोऽहमिहाचरे ।
एतद्यूयं परिज्ञाय प्राभ्यनन्दत सांप्रतम् ॥ २९.१४७{४६} ॥
इति तेनार्हताख्यातं श्रुत्वा ते संघिका मुदा ।
सेवं नृपादि लोकाश्च प्राभ्यनन्दन् प्रमोदिताः ॥ २९.१४८{४७} ॥
(र्म् ३४२)
ततस्ते सांघिकाः सर्वे लोका भूपादयोऽपि च ।
सांकाशनगरोपापज्जुरे वने उपाचरन् ॥ २९.१४९{४८} ॥
तदा स भगवांस्तत्र स्वर्गे सेन्द्रान् सुरानपि ।
मातरं समुपामंत्र्य पुर एवमुपादिशत् ॥ २९.१५०{४९} ॥
मातः सेन्द्रादि देवाश्च यूयं सर्वे समादरात् ।
त्रिरत्नभजनं कृत्वा प्रचरध्वं सदा शुभे ॥ २९.१५१{५०} ॥
गछेयं सांप्रतं धर्ममुपदेष्टुं महीतले ।
नृणामपि हितार्थेन गन्तुमिछामि नान्यथा ॥ २९.१५२{५१} ॥
इत्यादिष्टं मुनीन्द्रेण सर्वे सेन्द्राः सुरा अपि ।
मातापि सांजलिर्नत्वा प्रार्थयत्तं मुनीश्वरम् ॥ २९.१५३{५२} ॥
भगवन्नाथ सर्वज्ञ कोऽस्माकं धर्ममादिशेत् ।
तदत्र कृपया धर्ममादेष्टुं स्थातुमर्हति ॥ २९.१५४{५३} ॥
इति तैः प्रार्थिते भूयो भगवान् स मुनीश्वरः ।
मातरं तान् सुरान् सर्वान् दृष्ट्वैवं च समादिशत् ॥ २९.१५५{५४} ॥
मातर्नाहं सदैकत्र तिष्ठेयं धर्ममादिशन् ।
सर्वसत्वहितार्थेन संबुद्धोऽस्मि जगद्गुरुः ॥ २९.१५६{५५} ॥
तन्मातरहमालोक्य मर्त्यानां हितकाम्पया ।
सद्धर्मामृतसंदानं दातुं गछामि सांप्रतम् ॥ २९.१५७{५६} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा माता सुरा अपि ।
सेन्द्राः सर्वेऽपि ते शास्तुः पादाम्बुजे प्रणेमिरे ॥ २९.१५८{५७} ॥
ततस्ते त्रिदशाः सर्वे मातापि तस्य तायिनः ।
त्रिधा प्रदक्षिणीकृत्य नत्वा स्वस्वालयं ययुः ॥ २९.१५९{५८} ॥
ततः स भगवांस्तत्र देवालये समाहितः ।
तत्समाधिं समाधाय क्षणादन्तर्हितोऽचरत् ॥ २९.१६०{५९} ॥
ततः स भगवांस्तत्र जम्बुद्वीपे प्रभासयन् ।
सांकाशनगरोपापज्जुरे दावे उदुम्वरे ॥ २९.१६१{६०} ॥
अवतीर्य क्षणात्तत्र शुद्धासने सुरास्तृते ।
समाधाय समासीनस्तस्थौ ध्यानसमाहितः ॥ २९.१६२{६१} ॥
तं दृष्ट्वा स्वासनासीनं श्रीघनं समुपागतम् ।
सर्वे ते सांघिका लोका भूपादयोऽप्युपाचरन् ॥ २९.१६३{६२} ॥
तत्र तं श्रीघनं नत्वा सर्वे ते संप्रमोदिताः ।
त्रिधा प्रदक्षिणीकृत्य समभ्यर्च्योपतस्थिरे ॥ २९.१६४{६३} ॥
ब्रह्मशक्रादि देवाश्च यक्षगंधर्वकिन्नराः ।
दैत्या विद्याधरा नागा गरुडाः सिद्धादयोऽपि च ॥ २९.१६५{६४} ॥
श्रीघनं समायातं द्रष्टुं सर्वे समागताः ।
नत्वा प्रदक्षिणीकृत्य समभ्यर्च्योपतस्थिरे ॥ २९.१६६{६५} ॥
तत्रोपपादुको भिक्षुर्भगवन्तं ससांघिकम् ।
देवादि सर्वलोकांश्च भोजयितुं न्यमंत्रयत् ॥ २९.१६७{६६} ॥
भगवानपि देवादि लोकाः सर्वे प्रसादिताः ।
तस्यानुग्रहमाधातुं तथेति प्रत्यमोदयन् ॥ २९.१६८{६७} ॥
अथ स भगवांस्तत्र भोजनसमयागते ।
संघमेलापने गण्डीमाकोटयन् प्रनादिनीम् ॥ २९.१६९{६८} ॥
तद्गण्डीदेशनाकाले तस्य भिक्षोर्यथेहितम् ।
तथासनां वस्त्राणि दिव्यानि रुचिरानि च ॥ २९.१७०{६९} ॥
(र्म् ३४३)
पूजाङ्गान्यपि दिव्यानि भोज्यपानामृतान्यपि ।
सर्वाण्युपचारवस्तूनि पुनः प्रादुर्बभूविरे ॥ २९.१७१{७०} ॥
तदा स भिक्षुरालोक्य सर्वसामग्रसंयुतम् ।
भगवंतं ससंघं तं नत्वैवं प्रार्थयन्मुदा ॥ २९.१७२{७१} ॥
भगवन् भोजनस्यात्र समयो वर्त्ततेऽधुना ।
तत्ससंघो भवानत्र स्वस्वासने निषीदतु ॥ २९.१७३{७२} ॥
ततः स भगवांस्तत्र पाद्यं गृह्य ससांघिकः ।
स्वस्वासने समारुह्य समाश्रयद्यथाक्रमम् ॥ २९.१७४{७३} ॥
तथा देवादि लोकाश्च सर्वस्वस्वासनेषु तत् ।
यथाक्रमं समाश्रित्य संनिषेदुः प्रसादिताः ॥ २९.१७५{७४} ॥
तान् बुद्धप्रमुखान् सर्वान् स्वस्वासनसमाश्रितान् ।
दृष्ट्वा स मुदितो भिक्षुर्यथाविधिं समर्चयत् ॥ २९.१७६{७५} ॥
ततो दिव्योपचारैस्तैर्भोज्यपानामृतादिभिः ।
तान् बुद्धप्रमुखान् सर्वन् यथेछैः समतोषयत् ॥ २९.१७७{७६} ॥
संबुद्धप्रमुखाः सर्वे संघा लोकाः सुरादयः ।
तद्दिव्यभोजनं भुक्त्वा विस्मितास्तृप्तिमाययुः ॥ २९.१७८{७७} ॥
ततः स भिक्षुरालोक्य सर्वान्स्तान् संप्रतोषितान् ।
तत्पात्राण्यपनीत्वा तद्धस्तादीन् समशोधयत् ॥ २९.१७९{७८} ॥
ततः स भिक्षुरोषध्यताम्बूलादि रसायनैः ।
तान् बुद्धप्रमुखान् सर्वान् संमोदितानकारयत् ॥ २९.१८०{७९} ॥
तत्रोपपादुको भिक्षुः सांजलिः संप्रमोदितः ।
ससांघिकं मुनीन्द्रं तं नत्वा तत्पुर आश्रयत् ॥ २९.१८१{८०} ॥
ततः स भगवांस्तस्य भिक्षोर्मत्वा शुभाशयम् ।
आर्यसत्यं समारभ्य दिदेश धर्ममुत्तमम् ॥ २९.१८२{८१} ॥
तद्धर्मदेशनां श्रुत्वा स उपपादुको यतिः ।
भित्वाऽविद्यागणं प्राप्तविद्याभिज्ञापदो भवन् ॥ २९.१८३{८२} ॥
पंचगण्डमयं देहं संसारमतिचञ्चलम् ।
विदित्वा सर्वसंस्कारगतीश्चापि विघातिनीः ॥ २९.१८४{८३} ॥
क्लेशान्मारगणाञ्चापि जित्वार्हत्वमवाप्तवान् ।
ततः सोऽर्हं महाभिज्ञः परिशुद्धत्रिमंडलः ॥ २९.१८५{८४} ॥
जितेंद्रियो विशुद्धात्मा निर्विकल्पो निरंजनः ।
संसारलाभसत्कारनिस्पृहस्त्रिजगत्स्वपि ॥ २९.१८६{८५} ॥
वंद्यः पूज्योऽभिमान्योऽभूद्ब्रह्मचारी जिनात्मजः ॥ २९.१८७{८६} ॥
तद्दृष्ट्वा भिक्षवः सर्वे विस्मयाकुलिताशयः ।
भगवंतं तमानम्य पप्रछुस्तत्पुराकृतम् ॥ २९.१८८{८७} ॥
भगवन् किं पुरानेन भिक्षुणा सुकृतं कृतम् ।
येनोपपादुकोऽर्हं च भवत्ययं महासुधीः ॥ २९.१८९{८८} ॥
यच्चाप्यस्य यतेर्भिक्षोः प्रार्थितं तत्समृध्यति ।
एतत्सर्वं समाख्याय सर्वानस्मान् प्रबोधय ॥ २९.१९०{८९} ॥
एवं तैर्भिक्षुभिः प्रार्थिते स मुनीश्वरः ।
तान् सर्वान् सांघिकाल्लोकान् समालोक्यैवमादिशत् ॥ २९.१९१{९०} ॥
शृणुध्वं भिक्षवानेन भिक्षुणा यत्पुराकृतम् ।
तत्सर्वं संप्रवक्ष्यामि युष्मच्चित्तप्रबोधने ॥ २९.१९२{९१} ॥
(र्म् ३४४)
पुरासीन् भगवान् बुद्धो विपश्ची नाम सर्ववित् ।
धर्मराजो जगच्छास्ता तथागतो मुनीश्वरः ॥ २९.१९३{९२} ॥
स संबुद्धो जगन्नाथो वन्धुमतो महीपतेः ।
वन्धुमत्या महापूर्य्या राजधान्या उपाश्रये ॥ २९.१९४{९३} ॥
जिनाश्रमे महोद्याने सर्वसत्वहितेछया ।
सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ २९.१९५{९४} ॥
तस्य विपश्चिनः शास्तुः सांघिकाः पंचभिक्षवः ।
अन्यस्मिन्महोद्याने वर्षासु व्यहरन्स्तदा ॥ २९.१९६{९५} ॥
तत्रैकभिक्षुणा तेषां चतुर्णां ब्रह्मचारिणाम् ।
वैयावृत्यकृतं कर्म सुप्रसन्नानुचारिणा ॥ २९.१९७{९६} ॥
ततस्ते भिक्षवस्सर्वे चत्वारस्तत्प्रसाधनात् ।
सर्वविद्यासमुद्युक्ताः समाधिसाधनोद्यताः ॥ २९.१९८{९७} ॥
क्लेसान्मारगणाञ्जित्वा परिशुद्धत्रिमण्डलाः ।
साक्षादर्हत्त्वसंप्राप्ता बभूवु ब्रह्मवित्तमाः ॥ २९.१९९{९८} ॥
तानर्हतो महाभिज्ञान् दृष्ट्वा स पंचमो यतिः ।
मुदितस्तच्चरणान्नत्वा प्रणिधानं तथा व्यधात् ॥ २९.२००{९९} ॥
यदेतेभिर्ममागम्य साक्षादर्हत्त्वमागतम् ।
एतद्धर्मविपाकेन प्रव्रज्यार्हत्त्वमाप्नुयाम् ॥ २९.२०१{१००} ॥
सर्वोपकरणैर्द्रव्यैरवैकल्यं यथेहितम् ।
तत्तथा सर्वमप्येव सर्वत्रापि समृद्ध्यतु ॥ २९.२०२{१} ॥
एतत्पुण्यविपाकेन स भिक्षुः पंचमः सुधीः ।
अयमेव महाभिज्ञो भवति हीति मन्यताम् ॥ २९.२०३{२} ॥
पुनरपि भवत्यत्र येनायमुपपादुकः ।
तत्कर्मं प्रवक्ष्यामि शृणुत यूयमादरात् ॥ २९.२०४{३} ॥
पुरासीद्भगवान् बुद्धः काश्यपो नाम सर्ववित् ।
अर्हन्नाथो जगच्छास्ता धर्मराजस्तथागतः ॥ २९.२०५{४} ॥
स संबुद्धो महापूर्या वाराणस्या उपाश्रमे ।
मृगदावेऽदिशद्धर्मं विजहार ससांघिकः ॥ २९.२०६{५} ॥
तस्मिंश्च समये तत्र वाराणस्यं गृहाधिपः ।
आसीत्तस्य प्रिया भार्य्या गर्भिणी गर्भपीडिता ॥ २९.२०७{६} ॥
प्रसूतिसमयेऽक्रन्ददार्त्तस्वरा विलापिता ।
तस्या आर्त्तरवं श्रुत्वा स भर्त्ता करुणार्दितः ।
शोकालये समुद्विग्नः निश्रित्यैवं व्यचिंतयत् ॥ २९.२०८{७} ॥
हा दुःखं गर्ब्भपीडास्या जायते किं करिष्यते ।
एवं दुःखं हि संसारे रोगिणां भवचारिणाम् ॥ २९.२०९{८} ॥
मातुरेवं महद्दुःखं गर्ब्भस्थस्य शिशोर्न किम् ।
एतद्दुःखमहं सोढुं न शक्नुयां कथं चन ॥ २९.२१०{९} ॥
तदत्र काश्यपस्याहं शासने शरणं गतः ।
प्रव्रज्य संवरं धृत्वा चरेयं संवृतिं सदा ॥ २९.२११{१०} ॥
इति निश्चित्य स श्रेष्ठी गत्वा काश्यपशासने ।
प्रव्रज्य संवरं धृत्वा चचार संवृतिं सदा ॥ २९.२१२{११} ॥
ततः काले समाघ्राते श्रेष्ठी स परिखेदितः ।
त्रिरत्नस्मरणं कृत्वा प्रणिधानं व्यधात्तदा ॥ २९.२१३{१२} ॥
एतत्पुण्यविपाकेन सर्वदात्र पुनर्भवे ।
(र्म् ३४५)
मातुर्गर्भे ह्यजायेयं भवेयमुपपादुकः ॥ २९.२१४{१३} ॥
एतेन प्रणिधानेन काश्यपशरणं गतः ।
त्रिरत्नभजनैः कृत्वा प्रचचार समाहितः ॥ २९.२१५{१४} ॥
एतत्पुण्यविपाकेन सार्थवाहः स सन्मतिः ।
भवत्ययं महाभिज्ञः सांप्रतमुपपादुकः ॥ २९.२१६{१५} ॥
यथानेन तदा तत्र प्रणिधानं कृतं मुदा ।
तथात्र शासने बौद्धे प्रव्रज्यार्हत्त्वमाप्यते ॥ २९.२१७{१६} ॥
एवं हि मन्यतां सर्वे संसारे कर्म यत्कृतम् ।
तत्फलं भुज्यते नूनं यथेहितं तथा ध्रुवम् ॥ २९.२१८{१७} ॥
येनैव यत्कृतं कर्मं तेनैव भुज्यते फलम् ।
अभुक्तं क्षीयते नैव कृतकर्मफलं क्वचित् ॥ २९.२१९{१८} ॥
नाग्निभिर्दह्यते कर्मं क्रियते नापि चोदकैः ।
वायुभिः शुष्यते नापि क्षीयते नैव भूमिषु ॥ २९.२२०{१९} ॥
अन्याथापि भवेन्नैव यत्कृतं तत्फलं खलु ।
सर्वत्र भुज्यते सर्वैर्जन्तुभिर्भवचारिभिः ॥ २९.२२१{२०} ॥
कृष्णस्य कर्मणः पाके दुःखतैव सदा भवे ।
शुभस्य सुखता नित्यं मिश्रितस्यापि मिश्रितम् ॥ २९.२२२{२१} ॥
एवं मत्वात्र संसारे सर्वदा सुखवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ २९.२२३{२२} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवस्तथा ।
सत्यमिति परिज्ञाय प्राभ्यनन्दन् प्रबोधिताः ॥ २९.२२४{२३} ॥
सोऽपि भिक्षुः परिज्ञाय श्रुत्वैवं सुगतोदितम् ।
प्रबोधितः प्रसन्नात्मा प्राचरन् सर्वदा शुभे ॥ २९.२२५{२४} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
श्रुत्वा राजन्स्त्वयाप्येवं चरितव्यं शुभे सदा ॥ २९.२२६{२५} ॥
प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः ।
प्रेरयित्वा शुभे धर्मे पालनीयास्त्वयादरात् ॥ २९.२२७{२६} ॥
एवं ते सर्वदा राजन् सर्वत्रापि शुभं भवेत् ।
क्रमेण बोधिमासद्य संबुद्धपदमाप्नुयाः ॥ २९.२२८{२७} ॥
इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिविज्ञप्य प्राभ्यनंदत्सपार्षदः ॥ २९.२२९{२८} ॥
यदावदानं ह्युपपादुकस्य शृण्वंति ये चापि निशामयंति ।
सर्वेऽपि ते क्लेशविमुक्तदेहा भुक्त्वा सुखं यान्ति जिनालयं ते ॥ २९.२३०{२९} ॥
++ इति श्रीरत्नावदानतत्वे उपपादुकावदानं समाप्तम् ++
(र्म् ३४६)
xxx अनित्यतासूत्र
अथाशोको महीपालः कृतांजलिः पुरोगतः ।
उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ ३०.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ ३०.२{२} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हं सुधीर्यतिः ।
उपगुप्तो नरेंद्रं तं समामंत्र्यैवमब्रवीत् ॥ ३०.३{३} ॥
साधु शृणु महाराज तव पुण्यप्रवृद्धये ।
याथा मे गुरुणाख्यातं तथा मया प्रवक्ष्यते ॥ ३०.४{४} ॥
तद्यथा भगवान् बुद्धः शाक्यसिंहो महामुनिः ।
एकस्मिन् समये तत्र श्रावस्त्या बहिराश्रमे ॥ ३०.५{५} ॥
जेतोद्याने मनोरम्ये विहारे मणिमण्डिते ।
सर्वलोकहितार्थेन विजहार ससांघिकः ॥ ३०.६{६} ॥
तत्र स भगवांच्छास्ता सभास्थितः प्रभासयन् ।
तां सर्वान् सांघिकान् दृष्ट्वा समामंत्र्यैवमादिशत् ॥ ३०.७{७} ॥
अनित्या भिक्षवः सर्वे संस्कारा अध्रुवाः क्षणाः ।
विपरिणामधर्माणोऽस्थिरा नास्वासिका अपि ॥ ३०.८{८} ॥
यावन्तो भिक्षवः सत्वाश्चतुर्योनिसमुद्भवाः ।
भौतिकाः प्राणिनः सर्वे जंगमा अचला अपि ॥ ३०.९{९} ॥
एतेऽपि प्राणिनः सर्वे संस्कारभवचारिणः ।
स्वकृतकर्मभुंजानो भ्रमन्ति षड्गतिष्वपि ॥ ३०.१०{१०} ॥
यावन्तः प्राणिनः सत्वाः सर्वेषु नरकेष्वपि ।
स्वकृतकर्मभुंजानो भ्रमंति दुःखपीडिताः ॥ ३०.११{११} ॥
ते सर्वेऽपि स्वदैवांत्ते काले मृत्युं व्रजन्त्यपि ।
कृतकर्मानुसारेण पुनर्भवे भ्रमंति ते ॥ ३०.१२{१२} ॥
कस्य न जन्म मृत्युश्च मरणांतं हि जीवितम् ।
यावंतः प्रेतिकाः सत्वाः सर्वे प्रेतालयेष्वपि ॥ ३०.१३{१३} ॥
स्वकृतकर्मभुंजानो भ्रमंति दुःखपीडिताः ।
ते च सर्वेऽपि कर्मांते काले मृत्युं प्रयांत्यपि ॥ ३०.१४{१४} ॥
कृतकर्मानुसारेण पुनर्जन्म लभंति ते ।
सर्वेषामपि जन्तूनां संस्कारगतिचारिणाम् ॥ ३०.१५{१४!} ॥
कस्य न जन्म मृत्युश्च मरणांतं हि जीवितम् ।
तिर्यग्गतिषु यावंतस्तिर्यञ्चुः प्राणिनश्च ते ॥ ३०.१६{१५} ॥
सर्वेऽपि कर्मभुंजानो भ्रमंति स्वकृतानुगाः ।
ते च सर्वेऽपि कर्मान्ते काले मृत्युं व्रजंत्यपि ॥ ३०.१७{१६} ॥
ते च कर्मानुसारेण पुनर्जन्म लभन्त्यपि ।
(र्म् ३४७)
सर्वेषामपि जंतूनां संस्कारगतिचारिणाम् ॥ ३०.१८{१७} ॥
कस्य न जन्म मृत्युश्च मरनांतं हि जीवितम् ।
यावन्तो मनुजाः सत्वा मर्त्यलोकेषु भूमिषु ।
स्वकृतकर्मभुंजाना भ्रमंति सुखदुःखिताः ॥ ३०.१९{१८} ॥
ते च सर्वेऽपि कर्मान्ते काले मृत्युं प्रयांत्यपि ।
ते च कर्मानुसारेण पुनर्जन्म लभंत्यपि ॥ ३०.२०{१९} ॥
ये चापि ब्राह्मणा धीराः सर्वे शास्त्रविचक्षणाः ।
षट्कर्मनिरता विज्ञाश्चतुर्ब्रह्मविहारिणः ॥ ३०.२१{२०} ॥
तेऽपि सर्वे स्वकर्मानुभुंजानो भवचारिणः ।
प्रयांति समये मृत्युं कस्य मृत्युर्भवे न हि ॥ ३०.२२{२१} ॥
यावन्तो ऋषयो धीराः पंचाभिज्ञागुणाब्धयः ।
ते सर्वे समये मृत्युं प्रयांति भवचारिणः ॥ ३०.२३{२२} ॥
ये चापि तीर्थिका धीरा महत्कष्टतपोधराः ।
तेऽपि च समये मृत्युं गछंति भवगामिनः ॥ ३०.२४{२३} ॥
ये धीरा योगिनश्चापि योगध्यानसमाहिताः ।
तेऽपि सर्वे प्रयांत्येव समये मरणं ध्रुवम् ॥ ३०.२५{२४} ॥
ये चाप्युपासका धीराः शुद्धशीला व्रतंधराः ।
ते चापि समये सर्वे प्रयांति मरणं ध्रुवम् ॥ ३०.२६{२५} ॥
ये चापि क्षत्रिया वीरा राजानो लोकपालकाः ।
तेऽपि सर्वे प्रयांत्येव समये मरणं ध्रुवम् ॥ ३०.२७{२६} ॥
ये चापि मंत्रिणो विज्ञा हितार्थं मंत्रदेशकाः ।
तेऽपि सर्वे प्रयांत्येव समये मरणं ध्रुवम् ॥ ३०.२८{२७} ॥
ये चाप्येवं महामात्या राज्यपालनतत्पराः ।
ते सर्वे प्रयान्त्येव समये मरणं ध्रुवम् ॥ ३०.२९{२८} ॥
ये च भट्टा महावीरा दुष्टमर्दनतत्पराः ।
तेऽपि सर्वे प्रयान्त्येव समये मरणं ध्रुवम् ॥ ३०.३०{२९} ॥
ये चापि धनिनः श्रेष्ठाः साधवो भद्रकारकाः ।
तेऽपि सर्वे प्रयान्त्येव समये मरणं ध्रुवम् ॥ ३०.३१{३०} ॥
ये चापि वणिजो धीराः सार्थवाहा धनाधिपाः ।
तेऽपि सर्वे प्रयान्त्येव समये मरणं ध्रुवम् ॥ ३०.३२{३१} ॥
ये चापि शिल्पिनो विज्ञा हितार्थं गुणसाधकाः ।
तेऽपि सर्वे प्रगछंति समये मरणं ध्रुवम् ॥ ३०.३३{३२} ॥
ये चापि कृषिकर्त्तारः प्राणहितार्थसाधकाः ।
तेऽपि सर्वे व्रजन्त्येव मरणं समये ध्रुवम् ॥ ३०.३४{३३} ॥
ये च वैश्याः प्रजानाथाः सर्वद्रव्यहितंकराः ।
तेऽपि सर्वे व्रजन्त्येव समये मरणं ध्रुवम् ॥ ३०.३५{३४} ॥
ये चापि सद्गुणाधाना दैवज्ञा विधिवित्तमाः ।
ते चापि समये सर्वे प्रयांति मरणं ध्रुवम् ॥ ३०.३६{३५} ॥
ये च वैद्या महाविज्ञाः सर्वरोगशमंकराः ।
तेऽपि सर्वे व्रजन्त्येव मरणं समये ध्रुवम् ॥ ३०.३७{३६} ॥
ये चपि भौतिका विज्ञाः सर्वभूतप्रशांतकाः ।
(र्म् ३४८)
तेऽपि सर्वे विसंयोगाद्व्रजंति मरणं ध्रुवम् ॥ ३०.३८{३७} ॥
ये चापि मंत्रिणो वीराः सर्वे कर्मार्थसाधकाः ।
तेऽपि सर्वे विसंयोगात्प्रयांति मरणं ध्रुवम् ॥ ३०.३९{३८} ॥
एवमन्येऽपि लोकाश्च निहीनमध्यमोत्तमाः ।
सर्वे मृत्युं प्रयान्त्येव कस्य मृत्युर्वशे खलु ॥ ३०.४०{३९} ॥
गंधर्वाश्च महावीरा देवाधिका महर्द्धिकाः ।
तेऽपि सर्वे व्रजन्त्येव निस्सारा मरणं ध्रुवम् ॥ ३०.४१{४०} ॥
कुम्भाण्डाश्च महावीरा महाभीमा महावलाः ।
तेऽपि काले प्रयान्त्येव सर्वत्र मरणं ध्रुवम् ॥ ३०.४२{४१} ॥
नागाश्चापि महाभिमा गरुडाश्चा महर्द्धिकाः ।
तेऽपि सर्वे प्रयान्त्येव काले मृत्युं भवेद्ध्रुवम् ॥ ३०.४३{४२} ॥
यक्षाश्चापि महावीरा देवासुरमहर्द्धिकाः ।
तेऽपि सर्वे प्रयान्त्येव काले मृत्युं निरुद्यमाः ॥ ३०.४४{४३} ॥
किन्नराश्च महावीराः खगामिनो महर्द्धिकाः ।
तेऽपि सर्वे निरुत्साहाः काले यान्ति यमालयम् ॥ ३०.४५{४४} ॥
सिद्धाश्चापि महावीराः सर्वकार्यार्थसाधकाः ।
तेऽपि सर्वे व्रजन्त्येव काले मृत्युं निरुद्यमाः ॥ ३०.४६{४५} ॥
साध्याश्चापि महाधीरः सर्वहितार्थसाधकाः ।
तेऽपि सर्वे प्रयान्त्येव मरणं सर्वदा ध्रुवम् ॥ ३०.४७{४६} ॥
राक्षसाश्च महाभीमा महावीर्यपराक्रमाः ।
तेऽपि सर्वे प्रयान्त्येव निवीर्या मरणं ध्रुवम् ॥ ३०.४८{४७} ॥
एवमन्येऽपि सत्वाश्च सिंहव्याघ्रादि जंतवः ।
पशवः पक्षिणश्चापि क्रिमिकीटादयोऽपि च ॥ ३०.४९{४८} ॥
अण्डजाः स्वेदजाश्चैव सर्वेऽपि प्राणिनोऽपि ते ।
काले दैवानुभोक्तारो व्रजन्ति मरणं ध्रुवम् ॥ ३०.५०{४९} ॥
दैत्याश्चापि महावीरा माहावीर्या महर्द्धिकाः ।
तेऽपि सर्वे प्रयांत्येवं समये मरणं ध्रुवम् ॥ ३०.५१{५०} ॥
शक्रादयोऽपि देवेन्द्राः सार्वे देवाः सुधांशिनः ।
तेऽपि काले दिवश्च्युत्वा भ्रमंति षड्गतिष्वपि ॥ ३०.५२{५१} ॥
अप्सरसोऽपि दिव्यांगा यथाकाम सुखंचराः ।
ताश्चापि समये सर्वाश्च्युत्वा यांति यमालयम् ॥ ३०.५३{५२} ॥
विद्याधरा महाभिज्ञा यथेछा सुखचारिणः ।
तेऽपि सर्वे निरुत्साहाः काले यांति यमान्तिके ॥ ३०.५४{५३} ॥
एवमन्येऽपि लोकाश्च जन्मिनो भवचारिणः ।
सर्वेऽपि कर्मभुंजानः काले मृत्युं व्रजन्त्यपि ॥ ३०.५५{५४} ॥
रसातलचरा ये स्वकृतकर्मभोजिनः ।
तेषामपि च सर्वेषां मरनांतं हि जीवितम् ॥ ३०.५६{५५} ॥
कामधातुचरा ये च स्वकृते कर्मचारिणः ।
तेषामपि च सर्वेषां मरणांतं हि जीवितम् ॥ ३०.५७{५६} ॥
रूपधातुगता ये चा ध्यानभोगसमाहिताः ।
तेषामपि च सर्वेषां मरणांतं हि जीवितम् ॥ ३०.५८{५७} ॥
ये चाप्यारूपिणो देवा निरालोक्या निरंजनाः ।
तेषामपि च सर्वेषां मरनांतं हि जीवितम् ॥ ३०.५९{५८} ॥
ये चापि भिक्षवोऽर्हन्तो वीतक्लेशा जितेंद्रियाः ।
(र्म् ३४९)
मारचर्याविनिर्मुक्ता निर्विकल्पा निरंजनाः ॥ ३०.६०{५९} ॥
तेषामपि च सर्वेषां मरणांतं हि जीवितम् ।
कस्य मृत्युर्भवे नास्ति जन्मिनो मरणं ध्रुवम् ॥ ३०.६१{६०} ॥
प्रत्येकसुगता ये च निःक्लेशा विजितेंद्रियाः ।
निर्विकल्पा निरासंगा एकांतध्यानचारिणः ॥ ३०.६२{६१} ॥
तेषामपि च सर्वेषां मरणांतं हि जीवितम् ।
कस्य नास्ति भवे मृत्युर्जातस्य मरणं ध्रुवम् ॥ ३०.६३{६२} ॥
बोधिसत्वा महासत्वाः सर्वसत्वहितंकराः ।
महाभिज्ञा महाधीराश्चतुर्ब्रह्मविहारिणः ॥ ३०.६४{६३} ॥
दशभूमीश्वरा नाथा दशपारमितारताः ।
सत्वार्थवशिताप्राप्ता धारणीबलसंयुताः ॥ ३०.६५{६७} ॥
तेषामपि च सर्वेषां मरनांतं हि जीवितम् ।
कस्य नास्ति भवे मृत्युर्जन्मिनो मरणं ध्रुवम् ॥ ३०.६६{६८} ॥
तथागताश्च संबुद्धाः सर्वज्ञाः सुगता जिनाः ।
मारजितो जगन्नाथाः षडभिज्ञा मुनीश्वराः ॥ ३०.६७{६९} ॥
धर्मराजाः सुशास्तारो दशवला विनायकाः ।
समंतभद्रकर्त्तारश्चतुर्ब्रह्मविहारिणः ॥ ३०.६८{७०} ॥
ते सर्वे भगवन्तोऽपि त्रैधातुभुवनेष्वपि ।
बोधिचर्यां कृत्वा समादिश्य सद्धर्मं च समंततः ॥ ३०.६९{७१} ॥
सर्वत्र मंगलं कृत्वा कृत्वा धर्ममयं जगत् ।
बोधिमार्गे प्रतिष्ठाप्य सर्वसत्वाञ्छुभान्वितान् ॥ ३०.७०{७२} ॥
सर्वसंबुद्धकार्याणि समाप्य परिनिवृताः ।
सुपरिशुद्धनिर्वाणं समये संव्रजन्त्यपि ॥ ३०.७१{७३} ॥
एवं मत्वात्र संसारे सर्वेषां मरणं ध्रुवम् ।
सर्वान् संस्कारजान् दुःखान्स्त्यक्तुं प्रारभतोद्यमम् ॥ ३०.७२{७४} ॥
अनित्या वत संस्कारा अविद्याकल्पनोद्भवाः ।
क्लेशाश्रया महादुःखमूला विध्वंसिनोऽशुभाः ॥ ३०.७३{७५} ॥
तस्मात्संसारदुःखानि त्यक्तुमिछंति ये नराः ।
ते मायासंरतिं त्यक्त्वा चरंतु बुद्धशासने ॥ ३०.७४{७६} ॥
ये बुद्धशासने भक्त्या त्रिरत्नं शरणं गताः ।
संबोधिसंवरं धृत्वा संचरंते समाहिताः ॥ ३०.७५{७७} ॥
ते सर्वे शुभात्मानो निःक्लेशा विमलाशयाः ।
बोधिचर्यां समासाद्य कुर्युस्सत्वहितं सदा ॥ ३०.७६{७८} ॥
ततः पारमिताः सर्वाः परिपूर्य यथाक्रमम् ।
सम्यक्षंबोधिमासाद्य भवेयुः सुगता जिनाः ॥ ३०.७७{७९} ॥
ततः सर्वत्र लोकेषु कृत्वा लोके सुभद्रताम् ।
बोधिमार्गे जगल्लोकं प्रतिष्ठाप्य प्रयत्नतः ॥ ३०.७८{८०} ॥
ततो निर्वाणमासाद्य निर्विशेरं जिनालये ।
तदा ते विमलात्मानो निलीनाः स्यु निजालये ॥ ३०.७९{८१} ॥
एवं मत्वा निजानंदं प्राप्तुं संबोधिसाधने ।
त्रिकाये वीर्यमुत्थाप्य चरन्तु बुद्धशासने ॥ ३०.८०{८२} ॥
(र्म् ३५०)
किं कायेन विना धर्मं वाचापि किं विना गुणम् ।
मनसो किं विना वीर्य्यं किं वीर्यं संवरं विना ॥ ३०.८१{८३} ॥
यथा पुष्पं तथा देहं यथा पक्वफलं तनुः ।
क्षणाच्च्युत्वायते भुमौ तथा किं शोभते तनुः ॥ ३०.८२{८४} ॥
कुम्भकारकृतं यद्वन्मृन्मयं मामभाजनम् ।
तद्वद्देहं क्षणध्वंसि मत्वा चरन्तु संवरम् ॥ ३०.८३{८५} ॥
कदलीस्तम्भसंकाशं निस्सारं भेदनो सहम् ।
मत्वा देहं समुत्थाय चरन्तु सौगतं वृसम् ॥ ३०.८४{८६} ॥
फेनपिण्डोपमं कायं निर्गुणं क्षणभंगुरम् ।
मत्वा वीर्यमहोत्साहं धृत्वा चरंतु संवरम् ॥ ३०.८५{८७} ॥
आयुर्देहे स्थिरं नैव तृणं पत्रगताम्बुवत् ।
मत्वा संबोधिसंप्राप्त्यै चरन्तु सौगतं व्रतम् ॥ ३०.८६{८८} ॥
ये सौगतव्रतं धृत्वा चरंति बोधिलब्धये ।
दुर्गतिं न गछंति गछंति सद्गतिं सदा ॥ ३०.८७{८९} ॥
तस्मादिछंति ये भद्रं संसारे बोधिसाधनम् ।
ते त्रिरत्नं सदा भक्त्या भजंतु शरणं गताः ॥ ३०.८८{९०} ॥
त्रिरत्नभजनोत्पन्नं पुण्यं न क्षिणुते क्वचित् ।
एतत्पुण्यबलेनैव जीयते सर्वपातकम् ॥ ३०.८९{९१} ॥
पुण्यमेव जगन्मित्रं पाप एव जगद्रिपुः ।
तत्पुण्यमित्रमाराध्य जयंतु पापकं रिपुम् ॥ ३०.९०{९२} ॥
पुण्यवान् पुरुषः श्रेष्ठः सर्वत्र जगते सदा ।
यथाभिलषितं सौख्यं भुक्त्वा यांति सुखावतिम् ॥ ३०.९१{९३} ॥
इत्येवं भगवानाह श्रुत्वा ते सर्वसांघिकाः ।
सत्यमिति परिबुद्ध्वा प्रचेरुः सौगतं व्रतम् ॥ ३०.९२{९४} ॥
एतन्मे गुरुणाख्यातं तथा तत्र मयोच्यते ।
त्वयाप्येवं महाराज चरितव्यं शुभे वृषे ॥ ३०.९३{९५} ॥
प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः ।
शुभे धर्मे प्रतिष्ठाप्य पालनीयाः सदादरात् ॥ ३०.९४{९६} ॥
तथा ते मंगलं नित्यं सर्वत्रापि भवेत्सदा ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३०.९५{९७} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः ।
तथेत्युक्त्वा प्रणत्वा च प्राभ्यनदत्सपार्षदः ॥ ३०.९६{९८} ॥
अनित्यतासूत्रमिदं सुभाष्यं शृण्वन्ति ये चापि नराः प्रसन्नाः ।
सुखानि भुक्त्वा शुभधर्मरक्ताः सम्यांति चान्ते सुगतालये ते ॥ ३०.९७{९९} ॥
++ इति श्रीरत्नावदानतत्वेऽनित्यतासूत्रं परिसमाप्तम् ++
(र्म् ३५१)
xxxइ प्रेतीभूतावदान
अथाशोको महीपालः कृतांजलिः पुरःस्थितः ।
उपगुप्तं तमानम्य मुदैवं पुनरब्रवीत् ॥ ३१.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ ३१.२{२} ॥
इति संप्रार्थिते राज्ञा स यतीशः प्रसन्नधीः ।
तमशोकं महाराजं समालोक्यैवमादिशत् ॥ ३१.३{३} ॥
शृणु साधु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ ३१.४{४} ॥
तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञोऽर्हञ्जगच्छास्ता धर्मराजस्तथागतः ॥ ३१.५{५} ॥
पुरैकसमये तत्र श्रावस्त्या बहिराश्रमे ।
जेतवने महोद्याने विहारे मणिमंडिते ॥ ३१.६{६} ॥
सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् ।
सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ ३१.७{७} ॥
तत्र ते भिक्षवोऽर्हन्तः सांघिकाश्चैलका अपि ।
बोधिसत्वा महासत्वाः सर्वसत्वहितार्थिनः ॥ ३१.८{८} ॥
भिक्षुण्यः शुद्धशीलाश्च व्रतिनश्च शुभाशयाः ।
त्रिरत्नसेवकाः श्राद्धा उपासका उपासिकाः ॥ ३१.९{९} ॥
सर्वेऽपि सांघिकास्तत्र सद्धर्मं श्रोतुमागताः ।
क्रमात्तं श्रीघनं नत्वा कृत्वा त्रिधा प्रदक्षिणाम् ॥ ३१.१०{१०} ॥
तत्सभायां क्रमेणैव पुरस्कृत्य समंततः ।
कृतांजलिपुटो दृष्ट्वा समुपतस्थुरादरात् ॥ ३१.११{११} ॥
तदा तत्र सुरेंद्राश्च सशक्रोजमहेश्वरः ।
सर्वेऽपि लोकपालाश्च ससैन्यबलवाहनः ॥ ३१.१२{१२} ॥
असुरेन्द्राः ससैन्याश्च यक्षगंधर्वकिंनराः ।
राक्षसा गरुडा नागाः सिद्धा विद्याधरादयः ॥ ३१.१३{१३} ॥
एवमन्येऽपि लोकाश्च ब्राह्मणाश्च महर्षयः ।
यतयो योगिनश्चापि तीर्थिकाश्च तपश्विनः ॥ ३१.१४{१४} ॥
राजानः क्षत्रियाश्चापि नृपो राजकुमारकाः ।
वैश्याश्च मंत्रिणः श्रेष्ठा अमात्याश्च महाजनाः ॥ ३१.१५{१५} ॥
सेनान्यः सबलाश्चापि गृहस्थाः पौरिका जनाः ।
वणिजः सार्थवाहाश्च धनिनः शिल्पिनोऽपि च ॥ ३१.१६{१६} ॥
अन्ये जानपदाश्चापि ग्राम्याः कार्पटिका अपि ।
एवमन्येऽपि लोकाश्च सद्धर्मगुणवांछिनः ॥ ३१.१७{१७} ॥
सर्वे तत्र समायाता दृष्ट्वा तं श्रीघनं मुनिम् ।
नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य क्रमान्मुदा ॥ ३१.१८{१८} ॥
ततः सर्वेऽपि ते नत्वा पुरस्कृत्य समंततः ।
तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ ३१.१९{१९} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
(र्म् ३५२)
बोधिचर्यां समारभ्य दिदेश धर्ममुत्तमम् ॥ ३१.२०{२०} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः ।
संबोधिसाधनोत्साहं लब्ध्वा संमुमुदुर्भृशम् ॥ ३१.२१{२१} ॥
तस्मिंश्च समये तत्र श्रावस्त्ये यो गृहाधिपः ।
आढ्यो महाधनः श्राद्धः श्रीमाञ्च्छ्रीदोपमः कृती ॥ ३१.२२{२२} ॥
स तदा तत्र संबुद्धं श्रीघनं तं मुनीश्वरम् ।
द्रष्टुं जेताश्रमे रम्ये विहारे समुपाचरत् ॥ ३१.२३{२३} ॥
तत्र सभासमासीनं श्रीघनं तं मुनीश्वरम् ।
दृष्ट्वा स मुदितः श्रेष्ठी प्रणत्वा समुपाचरत् ॥ ३१.२४{२४} ॥
तत्र प्रदक्षिणीकृत्वा प्रणत्वा सांजलिर्मुदा ।
तत्सद्धर्मामृतं पातुं पुरतः समुपाश्रयत् ॥ ३१.२५{२५} ॥
तं दृष्ट्वा समुपासीनं भगवान् स मुनीश्वरः ।
मत्वा तस्याशयं शुद्धमार्यसत्यमुपादिशत् ॥ ३१.२६{२६} ॥
तदार्यसत्यमाकर्ण्य स श्रेष्ठी प्रतिबोधितः ।
संसारविरतस्तत्र प्रव्रजितुं समैछत ॥ ३१.२७{२७} ॥
तत्र स सुप्रसन्नात्मा श्रेष्ठी मुदा समुत्थितः ।
सांजलिस्तं मुनिं नत्वा प्रव्रज्यां समयाचत ॥ ३१.२८{२८} ॥
भगवन्नाथ सर्वज्ञ भवतां शरणं व्रजे ।
तत्प्रव्रज्यां व्रतं मह्यं कृपया दातुमर्हति ॥ ३१.२९{२९} ॥
इति संप्रार्थिते तेन दृष्ट्वा स भगवान्मुनिः ।
तस्याशयं विशुद्धत्वं समालोक्यैवमादिशत् ॥ ३१.३०{३०} ॥
यदि श्राद्धास्ति ते वत्स सौगतशासने व्रते ।
एहि चर समाधाय ब्रह्मचर्यं व्रतोत्तमम् ॥ ३१.३१{३१} ॥
इत्युक्त्वा स जगच्छास्ता सव्यहस्तेन तच्छिरः ।
संस्पृष्ट्वा शासने बौद्धे श्रेष्ठिनं तं समग्रहीत् ॥ ३१.३२{३२} ॥
तत्र प्रव्रजितस्तेन मुनीन्द्रेण स मुण्डितः ।
खिक्खिरीपात्रधृग्भिक्षु रराज चीवरावृतः ॥ ३१.३३{३३} ॥
ततः स भिक्षुरात्मज्ञो लाभी लोकाभिपूजितः ।
आगृहीतपरिष्कारा लब्धद्रव्यं समाचिनोत् ॥ ३१.३४{३४} ॥
तल्लब्धं संचितं द्रव्यं स सह ब्रह्मचारिभिः ।
संविभागं गुरोः किंचिदप्यकरोत्कदा चन ॥ ३१.३५{३५} ॥
तथा स मत्सराक्रान्तहृदयो दुरिताशयः ।
स्वयमेव प्रभुंजानः किंचिन्नैव ददौ क्वचित् ॥ ३१.३६{३६} ॥
ततः स समये कालधर्मयुक्तो रुजातुरः ।
तद्द्रव्यसंचयं स्मृत्वा नितः प्रेतालयं ययौ ॥ ३१.३७{३७} ॥
प्रेतीभूतोऽपि स स्मृत्वा तद्द्रव्यसंचयं पुनः ।
स्वकोष्ठालय आगत्य तस्थौ स्वासन आश्रयन् ॥ ३१.३८{३८} ॥
ततस्ते भिक्षवः सर्वे तत्कोष्ठे तं मृतकं यतिम् ।
दृष्ट्वा गण्डीं पराहत्य संस्कार्तुं विधि चार्चयन् ॥ ३१.३९{३९} ॥
ततो नीत्वा बहिर्देशे संस्कृत्य वह्निनापितम् ।
ततः प्रत्यागताः सर्वे तत्कोष्ठद्वारमाययुः ॥ ३१.४०{४०} ॥
ततस्तल्लयनद्वारं विमुच्य पात्रचीवरम् ।
प्रत्यवेक्सितुमालब्धास्तं प्रेतं समपश्यत ॥ ३१.४१{४१} ॥
(र्म् ३५३)
तं प्रेतं विकृतं पात्रं धृतं चीवरप्रावृतम् ।
दृष्ट्वा ते भिक्षवः सर्वे समुद्विग्ना विचेरिरे ॥ ३१.४२{४२} ॥
ततस्ते भिक्षवः सर्वे भगवतः पुरोगताः ।
एतत्सर्वप्रवृत्तांतं प्रणत्वा संन्यवेदयत् ॥ ३१.४३{४३} ॥
तच्छ्रुत्वा भगवांस्तस्य प्रेतस्यानुग्रहार्थतः ।
स लोकोद्वेजनार्थं च तद्देशं समुपाचरत् ॥ ३१.४४{४४} ॥
तत्रासौ प्रेत आरात्तं भगवंतमुपागतम् ।
द्वात्रिंसल्लक्षणाशीतिव्यंजनप्रतिमण्डितम् ॥ ३१.४५{४५} ॥
शतसूर्य्याधिकोद्भासं व्यामाभासमलंकृतम् ।
रत्नांगमिव भद्रांशं ददर्श श्रीघनं मुनिम् ॥ ३१.४६{४६} ॥
तत्र स प्रेत आलोक्य लज्जाविभेदिताशयः ।
प्ररुदन् सांजलिर्नत्वा तस्थौ प्रसादिताशयः ॥ ३१.४७{४७} ॥
ततः स भगवान् दृष्ट्वा तं प्रेतं संप्रसादितम् ।
ब्रह्मगम्भीरनिर्घोषवचसा पर्यभाषत ॥ ३१.४८{४८} ॥
भद्रमुख त्वयैवैतदात्मवधाय दुर्धिया ।
पात्रचीवरमाधाय चरितं संवरं वृथा ॥ ३१.४९{४९} ॥
येनापायसमुत्पन्नः प्रेतीभूतो दुराकृतिः ।
किमिदानीं रुदित्वात्र स्वकृतं परिभुक्तवान् ॥ ३१.५०{५०} ॥
साध्वत्र सांप्रतं चित्तं प्रसादय ममान्तिके ।
अस्माच्चापि परिष्कारद्रव्याच्चित्तं विरागय ॥ ३१.५१{५१} ॥
मा हैवेतः पुनः कालं कृत्वा यास्यसि नैरये ।
तत्संघे शरणं गच्छ तेन त्वं सद्गतिं व्रजे ॥ ३१.५२{५२} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स प्रेत उत्थितः ।
स पात्रचीवरं द्रव्यं संघेभ्यो निरयातयत् ॥ ३१.५३{५३} ॥
ततः संघान् प्रणत्वैव भगवत्पादयो पुरे ।
निपत्य स्वकृतं पापं दिदेश सांजलिर्मुदा ॥ ३१.५४{५४} ॥
भगवन्नाथ सर्वज्ञ यत्पापं प्रकृतं मया ।
मात्सर्याक्रान्तचित्तेन महामूढेन दुर्धिया ॥ ३१.५५{५५} ॥
तत्सर्वं सांप्रतं शास्तर्दर्शयामि भवत्पुरः ।
तत्क्षमस्वापराधं मे प्रसीदतु भवान् गुरुः ॥ ३१.५६{५६} ॥
इति संप्रार्थिते तेन भगवान् स कृपान्वितः ।
तत्प्रेतं सुदृशालोक्य समपश्यच्चिरं मुदा ॥ ३१.५७{५७} ॥
ततश्च भगवांस्तस्य तदुपायविमुक्तये ।
सद्गतिप्रेरणार्थेन दक्षिणामेवमादिशत् ॥ ३१.५८{५८} ॥
एतद्दानाद्धि यत्पुण्यं तत्पुण्यं त्वमवाप्नुयाः ।
उत्तिष्ठ क्षिप्रमेतस्मात्प्रेतलोकात्सुदारुणात् ॥ ३१.५९{५९} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा प्रेतः स मोदितः ।
तथेति प्रतिनंदित्वा नत्वानुमोदितोऽभवत् ॥ ३१.६०{६०} ॥
ततः स भगवांस्तस्य प्रेतस्य शुभसाधनम् ।
सद्धर्मं समुपादिश्य ससंघः स्वाश्रये यथा ॥ ३१.६१{६१} ॥
तथा स प्रेत आकर्ण्य सद्धर्मं तज्जिनोदितम् ।
त्रिरत्नशरणं कृत्वा भेजे नित्यं प्रबोधितः ॥ ३१.६२{६२} ॥
ततः काले समाघ्रातः च प्रेतो ज्वरदाहितः ।
(र्म् ३५४)
त्रिरत्नस्मरणं कृत्वा मृतो ययौ यमालयम् ॥ ३१.६३{६३} ॥
ततः प्रेतः स सत्पुण्यैस्त्रिरत्नस्मरणोद्भवम् ।
यमेन प्रेरितस्तस्मात्प्रेतमहर्द्धिके यायौ ॥ ३१.६४{६४} ॥
तत्रापि स समुत्पन्ने विस्मितस्तं मुनीश्वरम् ।
स्मृत्वा नित्यं सदा भेजे श्रद्धया शरणं गतः ॥ ३१.६५{६५} ॥
ततः सो चिन्तयेदेवं कुतः कुत्राहमागतः ।
केन पुण्यानुभावेन महत्सौख्यं लभे न्विति ॥ ३१.६६{६६} ॥
इति चिंताहते तस्य चित्तपुण्यानुभावतः ।
त्रिरत्नस्मरणात्पुण्यादिति मेने स पुण्यभाक् ॥ ३१.६७{६७} ॥
ततश्चासौ परिज्ञाय त्रिरत्नभजनोत्सुकः ।
संबुद्धदर्शनं कर्त्तुं मनसैवं व्यचिंतयत् ॥ ३१.६८{६८} ॥
अहो मया सुखं लब्धं तत्संबुद्धप्रसादतः ।
तदिदानिं मुनींद्रं तं द्रष्टुमर्हामि सर्वथा ॥ ३१.६९{६९} ॥
इत्येवं मनसा ध्यात्वा सोऽपि प्रेतमहर्द्धिकः ।
स्नात्व शुद्धाम्वरो दिव्यरत्नालंकारभूषितः ॥ ३१.७०{७०} ॥
पंचगंधविलिप्तांगं परिशुद्धाशयः शुचिः ।
पूजापंचोपहाराणि धृत्वा जेताश्रमेऽसरत् ॥ ३१.७१{७१} ॥
तत्र जेताश्रमे भाभिरवभास्य समंततः ।
विहारे श्रीघनं द्रष्टुं मुदितः समुदाचरत् ॥ ३१.७२{७२} ॥
तत्र तं श्रीघनं दृष्ट्वानंदितः स कृतांजलिः ।
नत्वा प्रदक्षिणीकृत्य पुरतः समुपाचरत् ॥ ३१.७३{७३} ॥
ततस्तं सुगतं नाथं समभ्यर्च्य प्रमोदितः ।
नत्वा स सांजलिर्धर्मं श्रोतुमेकांत आश्रयत् ॥ ३१.७४{७४} ॥
ततः स भगवांस्तस्य दृष्ट्वा चित्तं विशोधितम् ।
बोधिचर्यां समारभ्य सद्धर्ममेवमादिशत् ॥ ३१.७५{७५} ॥
शृणु साधोऽत्र संसारे सुखदुःखार्थकारणम् ।
वक्ष्याम्येतत्परिज्ञाय समाधाय शुभे चर ॥ ३१.७६{७६} ॥
यः पुमानत्र संसारे सत्सौख्यं सर्वदेछति ।
स आदौ श्रद्धया भक्त्या त्रिरत्नशरणं गतः ॥ ३१.७७{७७} ॥
सर्वसत्वहितार्थेन दानं दद्याद्यथेप्सितम् ।
एतत्पुण्यविपाकं संबोधौ मे परिणामयेत् ॥ ३१.७८{७८} ॥
इत्थं कृतं प्रदानं यत्तद्विपाके महत्फलम् ।
क्रमाद्वृद्धितरं यायान्न क्षिणुयात्कदा चन ॥ ३१.७९{७९} ॥
एतत्पुण्यपरीतात्मा चक्रवर्त्ती नराधिपः ।
शास्ता धर्माधिपो राजा बोधिसत्वः सुधीर्भवेत् ॥ ३१.८०{८०} ॥
तदापि स महादाता सर्वसत्वहितेछया ।
त्रिरत्नभजणं कृत्वा दद्याद्दानं यथेप्सितम् ॥ ३१.८१{८१} ॥
एतत्पुण्यविपाकेन स विशुद्धाशयः सुधीः ।
सुशीलसंवरं धृत्वा त्रिरत्नं सर्वदा भजन् ॥ ३१.८२{८२} ॥
एतत्पुण्यविपाकेन स भवेत्त्रिदशाधिपः ।
तत्रापि श्रद्धया नित्यं त्रिरत्नं सर्वदा भजन् ॥ ३१.८३{८३} ॥
सर्वसत्वहितार्थेन शीलपारमिता चरन् ।
तत्पुण्यं बोधिसंप्राप्त्यै मनसा परिणामयेत् ॥ ३१.८४{८४} ॥
एतत्पुण्यविपाकेन स सुयामाधिपो भवेत् ।
(र्म् ३५५)
तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ ३१.८५{८५} ॥
सर्वसत्वहितार्थेन क्षांतिपारमिता चरन् ।
संबोधिपदलाभाय तत्पुण्यं परिणामयेत् ॥ ३१.८६{८६} ॥
एतत्पुण्यविपाकेन स भवेत्तुषिताधिपः ।
तत्रापि श्रद्धया नित्यं त्रिरत्नशरणं गतः ॥ ३१.८७{८७} ॥
सर्वसत्वहितार्थेन वीर्य्यपारमितोद्यतः ।
संबोधिपदसंप्राप्त्यै तत्पुण्यं परिणामयेत् ॥ ३१.८८{८१!} ॥
एतत्पुण्यविपाकैः स निर्माणरतियो भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतत् ॥ ३१.८९{८२} ॥
सर्वसत्वहितार्थेन ध्यानपारमितारतः ।
संबोधिज्ञानसंप्राप्त्यै तत्पुण्यं परिणामयेत् ॥ ३१.९०{८३} ॥
एतत्पुण्यविपाकैः स वशवर्तीश्वरो भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नभजनो रतः ॥ ३१.९१{८४} ॥
सर्वसत्वहितार्थेन प्रज्ञापारमितारतः ।
तत्पुण्यं बोधिसंप्राप्त्यै मनसा परिणामयेत् ॥ ३१.९२{८५} ॥
एतत्पुण्यविपाकेन स ब्रह्माधिपतिर्भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नारागणोद्यतः ॥ ३१.९३{८६} ॥
सर्वसत्वहितार्थाय समुपायविधानधृक् ।
तत्पुण्यं बोधिसंप्राप्त्यै चेतसा परिणामयेत् ॥ ३१.९४{८७} ॥
एतत्पुण्यविपाकेन महाब्रह्माधिपो भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नाराधनोद्यतः ॥ ३१.९५{८८} ॥
सर्वसत्वहितार्थाय प्रणिधानसमाहितः ।
तत्पुण्यं बोधिसंप्राप्त्यै सर्वथा परिणामयेत् ॥ ३१.९६{८९} ॥
एतत्पुण्यविपाकेन स महेशाधिपो भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ ३१.९७{९०} ॥
सर्वसत्वहितार्थेन बलपारमितोद्यतः ।
तत्पुण्यं बोधिसंप्राप्त्यै प्रध्यानं परिणामयेत् ॥ ३१.९८{९१} ॥
एतत्पुण्यविपाकेन बोधिसत्वाधिपो भवेत् ।
तत्रापि श्रद्धया नित्यं त्रिरत्नसंप्रसादितः ॥ ३१.९९{९२} ॥
सर्वसत्वहितार्थस्य ज्ञानपारमितारतः ।
तत्पुण्यैर्बोधिसंप्राप्तो धर्मराजो जिनो भवेत् ॥ ३१.१००{९३} ॥
ततः स सुगतः शास्ता जगन्नाथो विनायकः ।
सर्वज्ञोऽर्हन्महाभिज्ञस्तथागतो मुनीश्वरः ॥ ३१.१०१{९४} ॥
ततो मारगणाञ्जित्वा बोधिचर्यां प्रकाशयन् ।
सर्वसत्वाञ्छुभे स्थाप्य निर्वृतः सौगतिं व्रजेत् ॥ ३१.१०२{९५} ॥
एवं मत्वात्र संसारे य इछति शिवां गतिम् ।
स एवं श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ ३१.१०३{९६} ॥
सर्वसत्वहितार्थेन करोतु दानमादरात् ।
ततः क्रमात्स तत्पुण्यैः सर्वाः पारमिता अपि ॥ ३१.१०४{९७} ॥
परिपूर्य महाभिज्ञा प्राप्तो बोधिमवाप्नुयात् ।
इति मत्वा शुभे नित्यं चरितव्यं शुभार्थिभिः ॥ ३१.१०५{९८} ॥
शुभेन सद्गतिं याया पापेन दुर्गतीं व्रजेत् ।
पापस्तु जायते लोभात्मात्सर्यमलिनाश्रयात् ॥ ३१.१०६{९९} ॥
वोपकारां सुखेछोऽपि न किं चित्सुखमाप्नुयात् ।
सर्वदा दुर्मतिर्दुष्टो दुर्गतिनिरयाश्रयः ॥ ३१.१०७{१००} ॥
(र्म् ३५६)
सद्धर्म्मनिन्दको मूढो पापकर्मरतो भवेत् ।
तस्मात्मात्सर्य्यमुत्सृज्य सर्वसत्वहितार्थभृत् ।
संबोधिप्रणिधिं कृत्वा चरेन्नित्यं सुसंवरे ॥ ३१.१०८{१} ॥
एतत्पुण्यविपाकेन संसारसुखभाक्सदा ।
त्रिरत्नभजनोत्साही बोधिचर्यारतो भवेत् ॥ ३१.१०९{२} ॥
ततः पारमिताः सर्वाः परिपूर्य यथाक्रमम् ।
शिवां बोधिं समासाद्य संबुद्धपदमाप्नुयात् ॥ ३१.११०{३} ॥
एवं त्वं वा परिज्ञाय त्रिरत्नशरणं गतः ।
बोधिचित्तं समाधाय चर नित्यं सुसंवरे ॥ ३१.१११{४} ॥
तथा ते सर्वदा भद्रं भवेन्नित्यं समन्ततः ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३१.११२{५} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स परिबोधितः ।
तथेति हि प्रतिश्रुत्वा प्राभ्यनंदत्प्रसादितः ॥ ३१.११३{६} ॥
ततः स तं जगन्नाथं प्रणत्वा सांजलिर्मुदा ।
त्रिधा प्रदक्षिणीकृत्वा प्रणत्वा स्वालयेऽचरत् ॥ ३१.११४{७} ॥
तत्र प्राप्तः प्रसन्नात्मा सोऽपि प्रेतमहर्द्धिकः ।
त्रिरत्नं शरणं कृत्वा प्रचरन् सर्वदा मुदा ॥ ३१.११५{८} ॥
तद्रात्रौ तत्प्रभां दृष्ट्वा भिक्षवो विस्मयान्विताः ।
सर्वे ते प्रातरुत्थाय नत्वापृछन्मुनीश्वरम् ॥ ३१.११६{९} ॥
भगवन्नाथ सर्वज्ञ कोऽद्य रात्राविहागतः ।
एतद्वृत्तं समाख्याय सर्वान्नः परिबोधय ॥ ३१.११७{१०} ॥
इति तैर्भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
तान् सर्वान् सांघिकान् दृष्ट्वा बोधयितुमुपादिशत् ॥ ३१.११८{११} ॥
शृणुत भिक्षवः सर्वे योऽद्य रात्राविहागतः ।
एतत्सर्वं प्रवृत्तांतं प्रवक्ष्यामि सुविस्तरम् ॥ ३१.११९{१२} ॥
योऽसौ श्रेष्ठी महाश्राद्धः सौगते शासने मुदा ।
श्रद्धया प्रव्रजित्वात्र ब्रह्मचर्यं मुदा चरन् ॥ ३१.१२०{१३} ॥
प्रव्रजितः स मात्सर्यपरिभूतो दुराशयः ।
लब्धद्रव्यं न कस्मै चिद्ददौ किञ्चित्कदा चन ॥ ३१.१२१{१४} ॥
केवलं संचयं कृत्वा कोष्ठागारे निधाय तत् ।
गुप्तीकृत्वा प्रयत्नेन व्यभजन्नैव किं चन ॥ ३१.१२२{१५} ॥
ततः काले समाघ्राते ध्यात्वा तद्द्रव्यसंचयम् ।
मृतः प्रेतालयोत्पन्नः प्रेतोद्भवद्भयानकः ॥ ३१.१२३{१६} ॥
तद्द्रव्यसंचयं स्मृत्वा मात्सर्याकुलिताशयः ।
पुनः प्रत्यागतस्तत्र स्वालये संन्यषीदत ॥ ३१.१२४{१७} ॥
तत्र तं संस्थितं प्रेतं दृष्ट्वाहं समुपाचरन् ।
आर्यधर्ममुपादिश्य प्राबोधयं प्रसादयन् ॥ ३१.१२५{१८} ॥
ततः स सुप्रसन्नात्मा ससंघस्य ममांतिके ।
स पात्रचीवरं सर्वं तद्द्रव्यं निरयातयत् ॥ ३१.१२६{१९} ॥
एतत्पुण्यानुभावेन त्रिरत्नशरणं गतः ।
काले ततः परिच्युत्वा प्रेतमहर्द्धिकोऽभवत् ॥ ३१.१२७{२०} ॥
तत्र स सुप्रसन्नात्मा स्मृत्वा रत्नत्रयं मुदा ।
मत्सद्धर्मामृतं पातुमिह रात्रौ समागतः ॥ ३१.१२८{२१} ॥
(र्म् ३५७)
स सद्धर्मामृतं पीत्वा ममान्तिके प्रसादितः ।
संबोधिसाधनोत्साही मुदितः स्वालयेऽचरत् ॥ ३१.१२९{२२} ॥
योऽयं श्रेष्ठी न चान्यो हि रात्राविह समागतः ।
यत्स मृतोऽभवत्प्रेतस्मात्सर्यदुरिताश्रयात् ॥ ३१.१३०{२३} ॥
तस्मात्मात्सर्यमुद्धृत्य त्यजन्तु शुभवांछिनः ।
मात्सर्यं हि त्रिलोकेषु पापमूलं निगद्यते ॥ ३१.१३१{२४} ॥
एवं मत्वात्र संसारे दुःखाकरं सुखांतकम् ।
मात्सर्यं सुमदुष्टं रिपुं जयत सर्वथा ॥ ३१.१३२{२५} ॥
मात्सर्यं जीयते यैर्हि समुद्धृत्य स्वमानसात् ।
ते एव मानिनो वीराः शूराः प्राज्ञा विचक्षणाः ॥ ३१.१३३{२६} ॥
ये च जेतुं न मात्सर्यं शक्नुवंति कथं चन ।
किं ते शूरा विजेतारो विरा न क्लेशभोजिनः ॥ ३१.१३४{२७} ॥
येषां न जायते चित्ते मात्सर्यन् दुःकृताकरम् ।
ते एव सुखिनो विरा जयिनः क्लेशघातकाः ॥ ३१.१३५{२८} ॥
यावन्न जीयते चित्ते मात्सर्यं दुरिताशयम् ।
तावत्किं ते सुवीरा वा क्षणात्क्लेशानुचारिणः ॥ ३१.१३६{२९} ॥
ये च क्लेशवशा वीरा न ते धीरा विचक्षणाः ।
क्षणात्किं चिन्निमित्तेति चरेयुर्विकृताशयाः ॥ ३१.१३७{३०} ॥
ततस्ते क्लेशसंतप्ता मूढा रागाग्निदाहिताः ।
दुष्टाः क्रोधाग्निसंदग्धाः संपश्येयुर्न किं चन ॥ ३१.१३८{३१} ॥
ततस्तेऽन्धा इवालोके चरेयुर्न च सत्पथे ।
कुमार्ग एव संरक्ताः प्रचरेयुः प्रमादिताः ॥ ३१.१३९{३२} ॥
ततो दुर्जनसंरक्ता मारचर्यानुचारिणः ।
असन्मित्रोपदेशेन प्रचरेयुर्मृषादृशः ॥ ३१.१४०{३३} ॥
ततः सद्धर्मनिन्दां कृत्वा दानादि संचरे ।
विघ्नं कर्तुं समुद्योगं कुर्युर्नित्यं समाहिताः ॥ ३१.१४१{३४} ॥
ततस्ते पापिनो दुष्टा उन्मत्ता इव तायिनः ।
स्वयं नष्टाः परांश्चापि नाशयेयुः प्रवंचकाः ॥ ३१.१४२{३५} ॥
ततस्ते क्लेशसंतप्ता महोपायानुरागिणः ।
सुघोराणि पापानि कुर्यात्तिः शंकिताशयाः ॥ ३१.१४३{३६} ॥
ततो भक्षमपीछंतं भुक्त्वागम्येऽपि संरताः ।
विपरीतसमाचाराः प्रचारेयुर्विरोधिताः ॥ ३१.१४४{३७} ॥
ततस्ते पातकालीढा महादुःखाभिघातिताः ।
तीव्रातिवेदनाघ्राता मृता यायुर्यमालयम् ॥ ३१.१४५{३८} ॥
तत्र यमो महाराजा दृष्ट्वा तं दुरिताशयम् ।
सहसा कर्मशासिभ्यः समर्प्य संप्रचोदयन् ॥ ३१.१४६{३९} ॥
तत्र तैर्यमदूतास्तां गृहीत्वा सहसा बलात् ।
यथा कर्मानुसारेण शासयेयुर्यथाविधिम् ॥ ३१.१४७{४०} ॥
तत्र ते दैवभोग्यां भुक्त्वा भोक्तुं समंततः ।
चोदिता यमदूतैश्च भ्रमेयुर्नरकेष्वपि ॥ ३१.१४८{४१} ॥
तत्र ते दैवभोग्यानि भुक्त्वातितीव्रदुःखिताः ।
असह्यवेदनाक्रांता निषीदेयुः प्रखेटिताः ॥ ३१.१४९{४२} ॥
एवं ते दैवभोग्यां भुक्त्वा तथा चिरं सदा ।
(र्म् ३५८)
नरकान्नरके गत्वा दुःखान्येवाश्नुयु वभ ॥ ३१.१५०{४३} ॥
यदा ते दैवयोगान्ते तीव्रातिवेदनाहताः ।
त्रिरत्नसंस्मृतिं कृत्वा प्रणमेयुः समानताः ॥ ३१.१५१{४४} ॥
तदा तान् सुगतान् दृष्ट्वा कृपया संप्रचोदिताः ।
दृक्प्रभाभिः समुद्धृत्य प्रेषयेयुः सुरालये ॥ ३१.१५२{४५} ॥
तत्र ते सुखसंपन्नाः स्मृत्वा रत्नत्रयं मुदा ।
सर्वदा शरणं कृत्वा प्रचरेयुः समाहिताः ॥ ३१.१५३{४६} ॥
तथैतत्पुण्यपाकेन संबुद्धशासने गताः ।
श्रद्धया सत्कृतिं कृत्वा शृणुयुर्धर्ममादरात् ॥ ३१.१५४{४७} ॥
तत्सद्धर्मामृतास्वादं लब्ध्वा ते परिमोदिताः ।
बोधिचित्तं समासाद्य प्रकुर्यु दानमादरात् ॥ ३१.१५५{४८} ॥
ततस्तत्पुण्यपाकेन सुशीलाः संवरोद्यताः ।
सर्वसत्वहितं कृत्वा साधयेयुः शुभां चरिम् ॥ ३१.१५६{४९} ॥
ततो वीर्यबलेनैव जित्वा क्लेशगणान् रिपून् ।
ततस्ते विमलात्मानो ध्यात्वा योगसमाहिताः ॥ ३१.१५७{५०} ॥
प्रज्ञाब्धिपारमासाद्य ज्ञानरत्नमवाप्नुयुः ।
ततो मारगणां जित्वा परिशुद्धास्त्रिमण्डलाः ॥ ३१.१५८{५१} ॥
सम्यक्षंबोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ ३१.१५९{५२} ॥
एवं मत्वात्र संसारे मात्सर्यं मूलमेनसाम् ।
बोधिचित्तासिनोछित्वा चरितव्यं शुभे सदा ॥ ३१.१६०{५३} ॥
ततो वो मंगलं नित्यं भवेद्भवे समंततः ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्स्यथ ॥ ३१.१६१{५४} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिका मुदा ।
सर्वेऽपि प्रतिबुद्धित्वा प्राभ्यनंदन् प्रसादिताः ॥ ३१.१६२{५५} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
एवं त्वं नृप मात्सर्य्यं त्यक्त्वा चर शुभे सदा ॥ ३१.१६३{५६} ॥
प्रजाश्चापि त्वया राजन् बोधयित्वा प्रयत्नतः ।
बोधिचर्याशयाः कृत्वा प्रतिष्ठाप्याः शुभे सदा ॥ ३१.१६४{५७} ॥
एवं ते सर्वदा भद्रं भवेद्भवे समंततः ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३१.१६५{५८} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ ३१.१६६{८९!} ॥
प्रेतीभूतावदानं दुरितहृतमतैः श्रेष्ठिनो लोभिनो ये शृण्वंति श्रवयंति प्रमुदितमनसः श्रद्धयेदं मनुष्याः ।
मात्सर्यं ते विहाय त्रिमणिशरणगाः सर्वसत्वानुरागा दानं दत्वा प्रसन्नाः सततशुभचरा यान्ति बुद्धालयं ते ॥ ३१.१६७{६०} ॥
++ इति श्रीरत्नावदानतत्वे प्रेतीभूतावदानं समाप्तम् ++
(र्म् ३५९)
xxxइइ विरूपावदान
अथाशोको महराजः कृतांजलिपुटो मुदा ।
उपगुप्तं यतिं नत्वा प्रार्थयेच्चैवमादरात् ॥ ३२.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ ३२.२{२} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः ।
तमशोकं महाराजं समालोक्यैवमादिशत् ॥ ३२.३{३} ॥
साधु शृणु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ ३२.४{४} ॥
तद्यथैवं पुरैकस्मिन् समये स मुनीश्वरः ।
भगवां त्रिजगच्छास्ता धर्मराजस्तथागतः ॥ ३२.५{५} ॥
सर्वज्ञः साक्यसिंहोऽर्हं छ्राव्स्त्या बहिराश्रमे ।
जेतोद्याने विहारेऽस्मिन् विजहार ससांघिकः ॥ ३२.६{६} ॥
तदा तत्र सभामध्ये सिंहासने सुमंडिते ।
सर्वसत्वहितार्थेन धर्ममादेष्टुमाश्रयत् ॥ ३२.७{७} ॥
तत्र ते भिक्षवः सर्वे भिक्षुण्योऽपि समागताः ।
यतिनश्चैलकाश्चैवमुपासका उपासिकाः ॥ ३२.८{८} ॥
व्रतिनो बोधिसत्वाश्च संबोधिगुणलालसाः ।
निर्ग्रन्थास्तीर्थिकाश्चापि तापसाश्च महर्षयः ॥ ३२.९{९} ॥
ब्रह्मशक्रादयो देवा लोकपाला महर्द्धिकाः ।
दैत्या यक्षाश्च गंधर्वाः किन्नराश्चापि राक्षसाः ॥ ३२.१०{१०} ॥
सिद्धा विद्याधराश्चापि नागाश्च गरुडा अपि ।
साध्या ग्रहाः सताराश्च वसवश्चाप्सरोगणाः ॥ ३२.११{११} ॥
ब्राह्मणाः क्षत्रियाश्चापि नृपा राजकुमारकाः ।
वैश्याश्च मंत्रिणोऽमात्याः श्रेष्ठिनश्च महाजनाः ॥ ३२.१२{१२} ॥
गृहस्था वणिजः सार्थवाहाश्च धनिनोऽपि च ।
शिल्पिनः पौरिकाश्चापि जानपदाश्च नैर्गमाः ॥ ३२.१३{१३} ॥
ग्राम्याः कार्पटिकाश्चापि सद्धर्मश्रवणार्थिनः ।
सर्वे ते समुपागत्य विहारे समुपाविशन् ॥ ३२.१४{१४} ॥
तत्र तं श्रीघनं दृष्ट्वा सर्वे ते संप्रसादिताः ।
नत्वा प्रदक्षिणीकृत्य पुरतः समुपाचरन् ॥ ३२.१५{१५} ॥
तत्र सर्वेऽपि ते लोकाः समभ्यर्च्य यथाक्रमम् ।
तं मुनीन्द्रं प्रणत्वैव धर्मं श्रोतुमुपाश्रयन् ॥ ३२.१६{१६} ॥
ततः स भगवान् दृष्ट्वा तान् सर्वान् समुपाश्रितान् ।
बोधिचर्यां समारभ्य सद्धर्मं समुपादिशत् ॥ ३२.१७{१७} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे ते त्रिदशादयः ।
लोकाः सत्यमिति ज्ञात्वा प्राभ्यनन्दन् प्रबोधिताः ॥ ३२.१८{१८} ॥
(र्म् ३६०)
तस्मिन्नवसरे तत्र श्रावस्त्याः पौरिको गृही ।
आसीन्महाधनः श्रीमाञ्छृदोपमो महाजनः ॥ ३२.१९{१९} ॥
स स्वकुलसमारामां स्वकुलधर्मचारिणीम् ।
कांतां भार्य्यां समानीय सम्यक्व्यूहे यथाविधिः ॥ ३२.२०{२०} ॥
ततः स कामसंरक्तः सुकामिन्या तया सह ।
यथेछया सुखं भुक्त्वा रेमे नित्यं प्रचोदितः ॥ ३२.२१{२१} ॥
ततस्तस्य गृहस्थस्य यथाकामं प्रभुंजतः ।
समये सा सती भार्य गर्भिताभूत्कृशांगिका ॥ ३२.२२{२२} ॥
ततः सा समयेऽसूत दारकं दुर्भगाकृतिम् ।
दुर्वर्णं दुरिताकारं विरूपं विकृताश्रयम् ॥ ३२.२३{२३} ॥
दृष्ट्वा तं दारकं माता भिन्नाशया विषेदिताः ।
किमीदृगात्मजेनापि धिग्मामिति व्यचिंतयत् ॥ ३२.२४{२४} ॥
ततः स जनकः श्रुत्वा तं जातं विकृताश्रयम् ।
विरूपं दुर्भगाकारमित्येवं समचिंतयत् ॥ ३२.२५{२५} ॥
अहो किं प्रकृतं पापं जन्मांतरे पुरा मया ।
येनायं दुर्भगाकारो विरूपो जायते सुतः ॥ ३२.२६{२६} ॥
तदत्र किं मयोपायं कर्त्तव्यं नापि मन्यते ।
धिग्मां येन सुते जाते लज्जया मे सुखं हृतम् ॥ ३२.२७{२७} ॥
तथापि किं करिष्यामि दैवात्मे जायते ह्ययम् ।
तद्विरूपोऽपि पुत्रोऽयं पालनीयो मयात्मजः ॥ ३२.२८{२८} ॥
इति भर्त्रोदितं श्रुत्वा सा भार्य्याप्येवमब्रवीत् ।
यदाभ्यां प्रकृतं पापं तत्फलं भुज्यते खलु ॥ ३२.२९{२९} ॥
यदभावि न तद्भोग्यं भावि चेन्न तदन्यथा ।
सर्वत्र भाविनो भोग्यं भुंजते सर्वजंतवः ॥ ३२.३०{३०} ॥
तदत्राहमिमं बालं पालयेयं प्रयत्नतः ।
इत्युक्त्वा सा विभिन्नास्या नारी तस्थौ प्रलज्जिता ॥ ३२.३१{३१} ॥
तं विरूपं सुतं जातं वीक्ष्य स जनकोऽपि च ।
लज्जाविदीर्णचित्तोऽभून्निरुत्साहविषादितः ॥ ३२.३२{३२} ॥
हा मया किं कृतं पापं मन्यते न भवांतरे ।
यतोऽयं दारको जातो विरूपो दुर्भगाकृतिः ॥ ३२.३३{३३} ॥
तथापि किं करिष्यामि दैवान्नो जायते ह्ययम् ।
दैवभोग्यं प्रभोक्तव्यं सर्वैरपि हि जंतुभिः ॥ ३२.३४{३४} ॥
अवश्यं भाविनो भवन्ति सर्वदेहिनाम् ।
तदयं स्वात्मजो बालः पालनीयोत्मया मया ॥ ३२.३५{३५} ॥
इति ध्यात्वा पिता सोऽथदृष्ट्वा तस्य शिशोर्मुखम् ।
लज्जया प्रतिभिन्नास्यस्तस्थौ दैवानुचिन्तयन् ॥ ३२.३६{३६} ॥
ततो ज्ञातीन् समाहूय कृत्वा जातिमहं स च ।
पितास्य नाम विख्याते कुरुतेति समब्रवीत् ॥ ३२.३७{३७} ॥
ततस्ते ज्ञातयः सर्वे संकृत्वा समतं तथा ।
तद्गृहस्थं समामंत्र्य पुर एवमुपादिशन् ॥ ३२.३८{३८} ॥
गृहपते विरूपोऽयं पुत्रो यत्तव जायते ।
तस्माद्भवतुनाम्नायं प्रसिद्धो बालको भुवि ॥ ३२.३९{३९} ॥
(र्म् ३६१)
ततः स्नेहाद्विरूपोऽसौ मात्रा यत्नेन पालितः ।
क्रामात्पुष्टो विवृद्धाभूध्रदस्थमिव पंकजम् ॥ ३२.४०{४०} ॥
तदा यदा कुमारत्वं प्राप्तः स विकृताश्रयम् ।
स्वरूपं दर्प्पणे दृष्ट्वा विरूपो लज्जितोऽभवत् ॥ ३२.४१{४१} ॥
ततो जेह्रीयमानोऽसौ विरूपः परिमोहितः ।
पापचिंतापरितात्मा मनसैवं व्यचिंतयत् ॥ ३२.४२{४२} ॥
हा मया किं कृतं पापं येनाहं दुरिताकृतिः ।
किं ममानेन कायेन मृत्युं मेऽत्र वरं ध्रुवम् ॥ ३२.४३{४३} ॥
किं करिष्ये विरूपोऽहं क्व यास्यामि दुराकृतिः ।
किं ममानेन जीवेन केवलं दुःखभोगिना ॥ ३२.४४{४४} ॥
तदत्राहं गृहं त्यक्त्वा वनोद्याने समाश्रयन् ।
संबुद्धं सुगतं ध्यात्वा मृत्युं गच्छेय मुक्तये ॥ ३२.४५{४५} ॥
अवश्यमेव सर्वेषां जंतूनं मरणं भवे ।
तन्ममेदृग्विरूपोऽस्मिन् शरीरे जीविते स्पृहा ॥ ३२.४६{४६} ॥
यद्यत्राहं चिरं जीवी निन्दितो दुःखमाप्नुयाम् ।
तद्बुद्धं सुगतं ध्यात्वा तिष्ठेयं प्राणमुक्तये ॥ ३२.४७{४७} ॥
तत्संबुद्धं जिनं ध्यात्वा मृतोऽहं यदि सांप्रतम् ।
तत्पुण्यः परितात्मा सुगतिं गछेय सर्वथा ॥ ३२.४८{४८} ॥
ये बुद्धं सुगतं स्मृत्वा गछन्ति मृत्युमात्मना ।
दुर्गतिं ते न गछन्ति सम्यान्त्येव सुखावतीम् ॥ ३२.४९{४९} ॥
तस्मात्ते सुधियः सन्तः त्यक्त्वा यायात्कुलं गृहम् ।
संबुद्धस्मरणं ध्यात्वा तिष्ठन्ति निर्जने वने ॥ ३२.५०{५०} ॥
तथाहं तत्समालोक्य संबुद्धं शरणं गतः ।
समाधाय सदा स्मृत्वा वसेयं विजने वने ॥ ३२.५१{५१} ॥
इत्येवं मनसा ध्यात्वा विरूपः स प्रसन्नधीः ।
स संपदं गृहं त्यक्त्वा जीर्णोद्यानं समाश्रयत् ॥ ३२.५२{५२} ॥
तत्रोद्याने विविक्ते स पर्णकुट्टिं समाश्रयन् ।
भगवन्तमनुस्मृत्वा तस्थौ ध्यानसमाहितः ॥ ३२.५३{५३} ॥
तदा स भगवाञ्छास्ता तं तथा स्थितम् ।
विशुद्धाशयमालोक्य समुद्धर्तुं समुद्यतः ॥ ३२.५४{५४} ॥
ततः स भगवान्नाथो भिक्षुसंघसमन्वितः ।
तत्रोद्याने विरूपं तं पश्यन् भास्वानुपाचरत् ॥ ३२.५५{५५} ॥
तत्प्रभापरिस्पृष्टोऽसौ विरूपः सत्सुखान्वितः ।
विस्मितस्तं समायातं ससांघिकमपश्यत ॥ ३२.५६{५६} ॥
तं मुनींद्रं समालोक्य विरूपः स विमोहितः ।
जेह्रीयमान उत्थाय परायितुं ततोऽचरत् ॥ ३२.५७{५७} ॥
तत्र स भगवान् दृष्ट्वा विरूपं तं परायितम् ।
सहसर्द्ध्या दिशो मार्गे निरुध्याभ्यतिष्ठत ॥ ३२.५८{५८} ॥
तथा निरुध्यमानः स विरूपस्तेन शासिना ।
परायितुं प्रयत्नेन न शशाक कथं चन ॥ ३२.५९{५९} ॥
स परिखिन्नात्मा विरूपो लज्जिताशयः ।
पर्णकुट्टिसमासीनंस्तस्थौ भीतो दिवान्धवत् ॥ ३२.६०{६०} ॥
तत्र स भगवान् दृष्ट्वा निलीनं लज्जयासने ।
(र्म् ३६२)
संनिरोधसमापत्तिं समाधिं विदधे तदा ॥ ३२.६१{६१} ॥
ततः स भगवञ्छास्ता तत्समाधेः समुत्थितः ।
स्वयं विरूपमात्मानं निर्माय विकृताश्रयम् ॥ ३२.६२{६२} ॥
भोजनपूर्णमादाय शरावं मृन्मयं ततः ।
शनैस्तस्य विरूपस्य पर्णकुट्ट्यन्तिकेऽचरत् ॥ ३२.६३{६३} ॥
तत्र तं समुपायातं विरूपं विकृताश्रयम् ।
स विरूपः समालोक्य हर्षित एवमब्रवीत् ॥ ३२.६४{६४} ॥
स्वागतं भो सहाये हि कुत्र गन्तुमिहागतः ।
तिष्ठात्रावां सदावासे वत्स्यावहे सुखान्विता ॥ ३२.६५{६५} ॥
इति तेनोदितं श्रुत्वा भगवान् स विरूपधृक् ।
त्वां द्रष्टुमिहायामि प्रोक्त्वेति समुपाश्रयेत् ॥ ३२.६६{६६} ॥
तत्र स्थितः कथां कृत्वा भगवान् स विरूपधृक् ।
ददौ तस्मै विरूपाय सुरसामृतभोजनम् ॥ ३२.६७{६७} ॥
तत्प्रदत्तं प्रभुक्त्वान्नं स विरूपः स मोदितः ।
तत्क्षणात्परिपुष्टाङ्गो बभूव प्रीणितेन्द्रियः ॥ ३२.६८{६८} ॥
ततः स भगवाञ्छास्ता दृष्ट्वा तं संप्रमोदितम् ।
स्वरूपेण स्थितस्तत्र व्यराजत्संप्रभासयन् ॥ ३२.६९{६९} ॥
तं सौम्यभद्ररूपाङ्गं श्रीघनं शुभितेंद्रियम् ।
स विरूपः समालोक्य विस्मितश्चैवमब्रवीत् ॥ ३२.७०{७०} ॥
अहो कथं भवत्येवमभिरूपतरो भवान् ।
कस्य पुण्यविपाकान् तद्वक्तुमर्हति मे पुरः ॥ ३२.७१{७१} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
बोधयितुं विरूपं तं समालोक्यैवमादिशत् ॥ ३२.७२{७२} ॥
महाविद्यास्ति मे साधो संबोधिसाधनोत्तमा ।
चित्तप्रसादसंजातजनन्याख्या महेबलः ॥ ३२.७३{७३} ॥
तस्या एव प्रभावेन भवाम्यहं शुभेंद्रियः ।
समंतभद्ररूपाङ्गः सर्वसत्वमनोहरः ॥ ३२.७४{७४} ॥
इत्यादिश्य मुनीन्द्रः स भगवांस्तत्र शुभासने ।
सद्धर्मं समुपादेस्तुं समाश्रयत्प्रभासयन् ॥ ३२.७५{७५} ॥
ततस्ते सांघिकाः सर्वे सौम्यरूपाः शुभेंद्रियाः ।
परिवृत्य मुनीन्द्रं तं पुरस्कृत्योपतस्थिरे ॥ ३२.७६{७६} ॥
तान् सर्वान् समुपासीनान् सौम्यरूपाञ्छुभेन्द्रियान् ।
दृष्ट्वा तं सुगतं मत्वा बभूव विस्मयान्वितः ॥ ३२.७७{७७} ॥
अहो भाग्य मया लब्धं महत्पुण्यमिहाधुना ।
यन्ममार्थे मुनीन्द्रोऽयं ससांघिक उपागतः ॥ ३२.७८{७८} ॥
नूनमत्र मुनीन्द्रोऽयं मत्कर्मपरिचोदितः ।
सद्धर्मं समुपादेष्टुं ससंघः कृपयागतः ॥ ३२.७९{७९} ॥
तदहमस्य मुनीन्द्रस्य श्रद्धया शरणं गतः ।
सत्कृत्य सौगतं धर्मं श्रोतुमर्हे समाहितः ॥ ३२.८०{८०} ॥
इत्येवं मनसा ध्यात्वा विरूपः स प्रमोदितः ।
उपेत्य सांजलिर्नत्वा तं मुनीन्द्रमुपाश्रयत् ॥ ३२.८१{८१} ॥
तदा तस्य विरूपस्य बुद्धपुण्यानुभावतः ।
लक्ष्मी प्रादुरभूत्तत्र दिव्यभोगप्रदायिनी ॥ ३२.८२{८२} ॥
(र्म् ३६३)
तदा सोऽभूद्विरूपोऽपि दिव्याभिरूपसुन्दरः ।
परिशुद्धत्रिकायोऽपि सद्गुणार्थो शुभांशिकः ॥ ३२.८३{८३} ॥
ततः सोऽतिप्रसन्नात्मा दृष्ट्वैतत्महदद्भुतम् ।
मुदा तस्य मुनेः पादौ ववन्दे स कृतांजलिः ॥ ३२.८४{८४} ॥
ततः उत्थाय तं नाथं भगवंतं ससांघिकम् ।
समालोक्य प्रसन्नात्मा प्रार्थयत्स समादरात् ॥ ३२.८५{८५} ॥
भगवन् भवता शास्तः कृपादृष्टिप्रसादतः ।
प्रादुर्भूतात्र मे लक्ष्मी भवामि यातिसुंदरः ॥ ३२.८६{८६} ॥
तदेतन्महदाश्चर्यं दृष्ट्वा मे रोचते मनः ।
भवतां शरणे स्थित्वा चरितुं संवरं सदा ॥ ३२.८७{८७} ॥
तदत्र भगवन्नाथ कृपया बुद्धशासने ।
अन्वाहृत्य शुभे धर्मे नियोक्तुं मां समर्हति ॥ ३२.८८{८८} ॥
श्रद्धयाहं जगन्नाथ भवतां शरणं गतः ।
प्रव्रज्य संवरं धृत्वा चरिष्येऽत्र समाहितः ॥ ३२.८९{८९} ॥
इति तत्संप्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तस्य शुद्धाशयमालोक्य समामंत्र्यैवमादिशत् ॥ ३२.९०{९०} ॥
यदि वांछास्ति ते वत्स चरितुं सौगतं व्रतम् ।
पितुराज्ञां समासाद्य प्रागछ दास्यते तदा ॥ ३२.९१{९१} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स प्रतिहर्षितः ।
मुदा तस्य मुनेः पादौ प्रणत्वैव ततोऽचरत् ॥ ३२.९२{९२} ॥
तत्र स स्वगृहे गत्वा पादौ पितुः कृतांजलिः ।
प्रणत्वा पुरतः स्थित्वा प्रावददेवमादरात् ॥ ३२.९३{९३} ॥
ततोद्याने विरूपोऽहमिति लज्जाविषादितः ।
पर्णकुट्यां समासीनो ध्यत्वा वसामि योगवित् ॥ ३२.९४{९४} ॥
तत्र स भगवान् बुद्धः ससंघः स्वयमागतः ।
बोधयित्वामृतं भोग्यं ददाति समुपायवित् ॥ ३२.९५{९५} ॥
तद्दत्तममृतं भुक्त्वा भवामि सुंदराकृतिः ।
लक्ष्मीश्चापि समुद्भूता ममैवं जायते शुभम् ॥ ३२.९६{९६} ॥
एतत्सर्वं मुनीन्द्रस्य कृपादृष्टिप्रसादतः ।
नान्यथा हीति विज्ञाय प्रसीद सुगते सदा ॥ ३२.९७{९७} ॥
एवमेतत्महच्चित्रं दृष्ट्वा मे संप्रसादितम् ।
मनोऽद्य शासने बौद्धे चरितुं रोचते व्रतम् ॥ ३२.९८{९८} ॥
एतत्संप्रार्थनां कर्तुमिहाहं प्रागतो मुदा ।
तदत्र कृपया तात तदनुज्ञां प्रदेहि मे ॥ ३२.९९{९९} ॥
एतत्पुण्यविभागेन त्वं चापि सुगतीं व्रजेः ।
तत्र च सर्वदा सौख्यं भुक्त्वा यायाज्जिनालयम् ॥ ३२.१००{१००} ॥
इति मत्वा प्रसीदात्र मा कुरुष्व मनोऽन्यथा ।
श्रद्धयानुग्रहं कृत्वा तदनुज्ञां प्रदेहि मे ॥ ३२.१०१{१} ॥
इति संप्रार्थितं श्रुत्वा स गृहस्थः सविस्मयः ।
पिता तं स्वात्मजं दृष्ट्वा सुचिरादेवमब्रवीत् ॥ ३२.१०२{२} ॥
अहो हि भाग्यवान् पुत्र पुण्यवाञ्छाभि सांप्रतम् ।
यतोऽसौ कृपयोपेत्य बुद्धत्त्वामभिरक्षति ॥ ३२.१०३{३} ॥
तत्तेऽस्ति यदि वाञ्छति चरितुं सौगतं व्रतम् ।
तं बुद्धशरणं गत्वा व्रतं चर समाहितः ॥ ३२.१०४{४} ॥
(र्म् ३६४)
इति पित्रोदितं श्रुत्वा स विरूपः प्रसादितः ।
पादौ पित्रोः प्रणत्वैव सहसा प्राचरद्गृहात् ॥ ३२.१०५{५} ॥
ततो जेताश्रमे गत्वा स विरूपः प्रमोदितः ।
पादौ तस्य मुनेर्नत्वा प्रार्थयेदेवमादरात् ॥ ३२.१०६{६} ॥
भगवन्नाथ सर्वज्ञ लब्धानुज्ञः सामागताः ।
तद्भवान् कृपया मह्यं संवरं दातुमर्हति ॥ ३२.१०७{७} ॥
इति संप्रार्थिते तेन भगवांस्तस्य मस्तके ।
सव्यहस्तेन संस्पृष्ट्वा शासने तं समग्रहीत् ॥ ३२.१०८{८} ॥
तत्र स व्राजितः सास्त्रा विरूपो मुण्डितोऽपि सः ।
खिक्खिरिपात्रभृच्चीवरप्रावृतो वभौ ॥ ३२.१०९{९} ॥
ततः स भिक्षुरात्मज्ञः संयमी विजितेंद्रियः ।
मत्वा संसारसंस्कारगतीः क्षणविघातिनीः ॥ ३२.११०{१०!} ॥
भित्वाविद्यागणान् बोधिपक्षे धर्मेषु प्रोद्यतः ॥ ३२.१११{१०!} ॥
ततः स धारणीविद्यासमाधिनिरतो यतिः ।
सर्वक्लेशगणाञ्जित्वा साक्षादर्हत्वमाप्तवान् ॥ ३२.११२{११} ॥
संसारलाभसत्कारनिःस्पृहो निर्मलाशयः ।
परिशुद्धत्रिकायश्च निर्विकल्पो निरंजनः ॥ ३२.११३{१२} ॥
स देवासुरलोकानामपि त्रैधातुचारिणाम् ।
मान्यः पूज्योऽभिवन्द्योऽभूद्ब्रह्मचरी स योगवित् ॥ ३२.११४{१३} ॥
तदा ते भिक्षवः सर्वे दृष्ट्वा तं यतिमुत्तमम् ।
विस्मितास्तं मुनिं नत्वा पप्रछुस्तत्पुराकृतम् ॥ ३२.११५{१४} ॥
भगवन्नर्हतानेन किं कर्म प्रकृतं पुरा ।
येनायं दुरिताकारो विरूपो जायतेऽधुना ॥ ३२.११६{१५} ॥
यच्चायं भगवाच्छास्त भवता संप्रसादितः ।
लक्ष्मीवानभिरूपश्च भवति सद्गुणारतः ॥ ३२.११७{१६} ॥
यच्चायं शासने बौद्धे श्रद्धया शरणं गतः ।
सहसा क्लेशसंघारीञ्जित्वार्हत्त्वं समाप्तवान् ॥ ३२.११८{१७} ॥
तदस्य सर्ववृत्तांतं यदनेन पुराकृतम् ।
सुविस्तरं समाख्याय सर्वान्नः परिबोधय ॥ ३२.११९{१८} ॥
इति तैर्भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः ।
सर्वांस्तान् सांघिकान् भिक्षून् समालोक्यैवमादिशत् ॥ ३२.१२०{१९} ॥
शृणुत भिक्षवः सर्वे यदनेन पुराकृतम् ।
तत्सर्वैः कर्म वक्ष्यामि सर्वलोकप्रबोधने ॥ ३२.१२१{२०} ॥
यथाभूत्पुरा बुद्धः पुष्याभिधस्तथागतः ।
सर्वज्ञोऽर्हञ्जगच्छास्ता धर्मराजो मुनीश्वरः ॥ ३२.१२२{२१} ॥
स भगवाञ्जगन्नाथः कृत्वा भद्रं समंततः ।
सर्वत्र सौगतं धर्ममुपदेष्टुमुपाचरत् ॥ ३२.१२३{२२} ॥
एवं सर्वत्र लोकेषु ससांघिकः स मारजित् ।
पूर्वोत्तरदिशो भागे राजधानीमुपाश्रयत् ॥ ३२.१२४{२३} ॥
तत्र स भगवाञ्छास्ता सर्वसत्वहितार्थभृत् ।
आदिमध्यान्तकल्याणमार्यधर्ममुपादिशत् ॥ ३२.१२५{२४} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे लोकः प्रबोधितः ।
त्रिरत्नभजनं कृत्वा प्रचेरिरे शुभे सदा ॥ ३२.१२६{२५} ॥
(र्म् ३६५)
तत्र स भगवान् पुष्यो बुद्धदृष्ट्य समंततः ।
लोके पश्यन् हितं कर्तुं ददर्श द्वौ जिनात्मजौ ॥ ३२.१२७{२६} ॥
एकः शाक्यमुनिर्नाम मैत्रेयश्चापरः सुधीः ।
तस्मिन् काले उभवेतौ बोधिसत्वौ जिनात्मजौ ॥ ३२.१२८{२७} ॥
मैत्रेयस्य सुबुद्धेः स्वसंततिः परिपाकिता ।
तस्य शास्तुश्च वैनेयाः सत्वा न परिपाचिताः ॥ ३२.१२९{२८} ॥
शाक्यमुनेस्तु वैनेयाः परिपक्वा न संततिः ।
एवं स सुगतः पुष्यो दृष्ट्वैवं समचिंतयत् ॥ ३२.१३०{२९} ॥
अहो शाक्यमुनेर्न स्वसन्ततिः परिपाचिता ।
तत्स्वसन्ततिपाकार्थं चरेयाहं तदन्तिके ॥ ३२.१३१{३०} ॥
इति विचिन्त्य पुष्यः स तथागतः ससांघिकः ।
हिमवंतं गिरिं गत्वा प्रचक्राम प्रभासयन् ॥ ३२.१३२{३१} ॥
तत्र रत्नगुहायां स प्रविश्य स मुनीश्वरः ।
तेजोधातुसमापन्नो ध्यात्वा तस्थौ शुभासने ॥ ३२.१३३{३२} ॥
तस्मिंश्च समये तत्र शाक्यमुनिः स सन्मतिः ।
फलमूलसमाहर्तुं तदन्तिकमुपाचरत् ॥ ३२.१३४{३३} ॥
तत्र रत्नगुहायां तं पुष्यं तथागतं मुनिम् ।
सुपर्यङ्कसमासीनं ध्यानलीनं प्रभासितम् ॥ ३२.१३५{३४} ॥
द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिभूषितम् ।
रत्नावलिमिवोज्वालं शतसूर्य्याधिकप्रभम् ॥ ३२.१३६{३५} ॥
सौम्यं दिव्यातिरिक्ताभं समंतभद्ररूपिणम् ।
सुप्रसन्नमुखाम्भोजं धर्मराजं समैक्षत ॥ ३२.१३७{३६} ॥
तत्र तं सुगतं दृष्ट्वा शाक्यमुनिः स मोदितः ।
सहसा सांजलिर्नत्वा पूजांगैनार्चयन्मुदा ॥ ३२.१३८{३७} ॥
ततः स एकपादेन स्थित्वा सप्तनिशां मुदा ।
सांजलिः प्रणतिं कृत्वा तुष्टाव गाथयानया ॥ ३२.१३९{३८} ॥
न दिवि भुवि वा नास्मिल्लोके न वैश्रवणालये ।
न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा ॥ ३२.१४०{३९} ॥
चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम् ।
पुरुषवृषभस्य तुल्यान्यो महाश्रमणः कुतः ॥ ३२.१४१{४०} ॥
एतयो गाथया स्तुत्वा तं पुष्यं सुगतं मुनिम् ।
स शाक्यमुनिरुत्साहात्सप्तरात्रिं मुदा भजन् ॥ ३२.१४२{४१} ॥
ततः सप्तदिनान्ते स पुष्यथागतो मुदा ।
परिस्तुतस्तमालोक्य शाक्यमुनिमभाषत ॥ ३२.१४३{४२} ॥
साधु साधु महासत्व त्वमेवं यत्समुद्यतः ।
अनेन बलवीर्येण संपन्नेन द्विजोत्तम ॥ ३२.१४४{४३} ॥
नवकल्पाः परावृत्ताः संस्तुत्याद्य तथागतम् ।
क्रमात्पारमिताः पूर्य संबोधिं समवाप्नुयाः ॥ ३२.१४५{४४} ॥
इत्यादिश्य मुनीन्द्रोऽसौ पुष्यो धर्माधिपो जिनः ।
परिवृत्तो महेशाख्यैस्तत्र ध्यानारतोऽभसत् ॥ ३२.१४६{४५} ॥
सोऽपि शाक्यमुनिर्बोधिसत्वो द्विजोत्तमः सुधीः ।
तस्य पुष्यस्य सद्भक्त्य शरणस्थः सदाभजत् ॥ ३२.१४७{४६} ॥
तत्र तस्मिन् स्थिते बुद्धे देवी गुहानिवासिनी ।
(र्म् ३६६)
तद्गुहायां प्रवेष्टुम्ऽसौ न शशाक कथं चन ॥ ३२.१४८{४७} ॥
ततः सातिविरूपाक्षा विकृतांशा दुराकृतिः ।
भूत्वा तं सुगतं पुष्यं ध्यानालीनमभीषपत् ॥ ३२.१४९{४८} ॥
तथा सा सुचिरेणापि भीषपीत्वापि दुर्मतिः ।
किञ्चित्तस्य मुनेश्चित्तं चारयितुं शशाक न ॥ ३२.१५०{४९} ॥
तदा सा शंकिताखिन्ना विस्मयाहतमानसा ।
स्वरूपेणैव तं द्रष्टुं प्रणता समुपाचरत् ॥ ३२.१५१{५०} ॥
तत्र तं सुगतं पुष्यं तथागतं मुनीश्वरम् ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमण्डितम् ॥ ३२.१५२{५१} ॥
सर्वातिक्रांतसौम्याभं शतसूर्याधिकप्रभम् ।
शान्तरूपं सुभद्रांगं ध्यानालीनमपश्यत ॥ ३२.१५३{५२} ॥
दृष्ट्वैव सा प्रसादन्ती पुण्यात्मायं सुसिद्धिमान् ।
इति ध्यात्वा सुरूपेण तदन्तिकमुपाचरत् ॥ ३२.१५४{५३} ॥
तत्र सा सांजलिर्नत्वा पादौ तस्य मुनेः पुरः ।
स्थित्वा क्षमार्थनां कर्त्तुं प्रार्थयदेवमानता ॥ ३२.१५५{५४} ॥
भगवन्नाथ सर्वज्ञ यन्मया प्रकृतं त्वयि ।
तत्क्षमस्व जगन्नाथ क्षान्तिधर्माधिपोऽसि हि ॥ ३२.१५६{५५} ॥
तदत्राहं जगच्छास्तर्भवतां शरणं गता ।
सर्वदा समुपाश्रित्य भजेयं श्रद्धया मुदा ॥ ३२.१५७{५६} ॥
यदत्र ते ससंघस्य यथाविधि समर्चितुम् ।
इछाम्यहं जगन्नाथ तदध्युषितुमर्हति ॥ ३२.१५८{५७} ॥
इति तेनार्थिते पुष्यो भगवान् स मुनीश्वरः ।
तां विशुद्धाशयां दृष्ट्वा तूष्णीभूत्वाध्युवास तत् ॥ ३२.१५९{५८} ॥
तथाधिवासितं शास्त्रा मत्वा साभ्यनुमोदिता ।
आशु तद्भोज्यसामग्रीं सहसा समसाधयत् ॥ ३२.१६०{५९} ॥
ततः सा मुदितोपेत्य पूजांगैस्तं मुनीश्वरम् ।
अभ्यर्च्य भोजनैर्दिव्यैः ससंघं समतोषयत् ॥ ३२.१६१{६०} ॥
ततः सा भोजनान्तेऽपि प्रणत्वा साञ्जलिर्मुदा ।
भूत्वा क्षमापयित्वा च प्रार्थयदेवमानता ॥ ३२.१६२{६१} ॥
भगवन्नाथ सर्वज्ञ भवतां शरणे स्थिता ।
सदोपस्थानमाधाय भजिष्यामि समाहिता ॥ ३२.१६३{६२} ॥
तत्क्षमस्व जगन्नाथ यन्मयापकृतं वृथा ।
प्रसीदतु भवाञ्छास्ता संबुद्धो हि क्षमाकरः ॥ ३२.१६४{६३} ॥
इति तयार्थितं श्रुत्वा पुष्यः स भगवान्मुनिः ।
देवतां तां समालोक्य सद्धर्मं समुपादिशत् ॥ ३२.१६५{६४} ॥
शृणुष्व देवते धर्ममिहामुत्र शुभाप्तये ।
धर्मेण रक्षिता लोके सर्वत्रापि सुखी भवेत् ॥ ३२.१६६{६५} ॥
तदादौ श्रद्धया धर्मं श्रोतव्यं सौगतं वरम् ।
ततस्त्रिरत्नमभ्यर्च्य दातव्यं दानमर्थिने ॥ ३२.१६७{६६} ॥
ततः शुद्धत्रिकायः स्याच्छुद्धशीलः शुभाशयः ।
ततः सत्यसमाधानः सर्वसत्वक्षमाकरः ॥ ३२.१६८{६७} ॥
संबोधिसाधनोद्योगात्सर्वक्लेशान् विनिर्जयेत् ।
ततो ध्यानसमाधिस्थः प्रज्ञारत्नमवाप्नुयात् ॥ ३२.१६९{६८} ॥
(र्म् ३६७)
तत्सुरत्नानुभावेन सर्वमारान् विनिर्जयन् ।
सर्वसत्वहितार्थेन संबुद्धपदमाप्नुयात् ॥ ३२.१७०{६९} ॥
एवं मत्वात्र संसारे सर्वदा शुभवाञ्छिभिः ।
धर्मं श्रुत्वा सदा दानं प्रकर्त्तव्यं यथेप्सितम् ॥ ३२.१७१{७०} ॥
त्वं चाप्येवं सदा सौख्यं यदीछसि शुभान्वितम् ।
त्रिरत्नं भजनं कृत्वा कुरु दानं यथेप्सितम् ॥ ३२.१७२{७१} ॥
एतत्पुण्यं तु संबोधिप्राप्तये परिणामय ।
एतत्पुण्यविपाकेन नूनं बोधिं समाप्नुयाः ॥ ३२.१७३{७२} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा देवता मुदा ।
तथा हीतिप्रतिज्ञाय प्राभ्यनन्दत्प्रबोधिता ॥ ३२.१७४{७३} ॥
ततः स सुगतः पुष्यस्तथागतः ससांघिकः ।
प्रभासयन् समुत्थाय स्वाश्रमे समुपाश्रयत् ॥ ३२.१७५{७४} ॥
एष ह्ययं विरूपोऽसौ देवता या गुहाश्रिता ।
युष्माभिः सत्यमेवेति मन्यतां नान्यथा खलु ॥ ३२.१७६{७५} ॥
एवं मत्वात्र संसारे सर्वदा सुखवाञ्छिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ ३२.१७७{७६} ॥
शुभस्य कर्मणः पाके शुभतैवं सदा भवे ।
कृष्णस्य दुःखतैवं हि मिश्रितस्यापि मिश्रितम् ॥ ३२.१७८{७७} ॥
अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ।
येनैव यत्कृतं कर्म तेनैव भुज्यते फलम् ॥ ३२.१७९{७८} ॥
नाग्निभिर्दह्यते कर्म क्लिद्यते नापि चोदकैः ।
शुष्यते वायुभिर्नैव क्षीयते च न भूमिषु ॥ ३२.१८०{७९} ॥
नान्यथापि भवे नैव कर्म क्वापि कथं चन ।
यद्यथा प्रकृतं कर्मं तत्तथैव कुलेद्ध्रुवम् ॥ ३२.१८१{८०} ॥
यदसौ देवता तत्र गुहाश्रिता दुराशया ।
विकृताङ्गा विरूपाक्षा भूत्वा पुष्यं व्यभीषपत् ॥ ३२.१८२{८१} ॥
एतत्पापविपाकेन पंचजन्मशतान्यपि ।
विकृताङ्गो विरूपाक्षो बभूवायं भवे सदा ॥ ३२.१८३{८२} ॥
एतत्पापाविमुक्तोऽयं विरूपो विकृताकृतिः ।
विभ्रन्स्यो दुर्भगाकारो भवत्यत्रापि सांप्रतम् ॥ ३२.१८४{८३} ॥
यच्चासौ देवता पश्चात्तापसंतपिताशया ।
तस्य पुष्यस्य बुद्धस्य प्रसन्ना शरणं गता ॥ ३२.१८५{८४} ॥
श्रद्धया भोजनैर्दिव्यैः सत्कृत्य प्राभजन्मुदा ।
एतत्पुण्यविपाकेन लेभेऽनन्तं सुखं भवे ॥ ३२.१८६{८५} ॥
अत्रापि शासने बौद्धे श्रद्धया समुपागतः ।
प्रव्रज्यासंवरप्राप्तः साक्षादर्हत्वमाप्तवान् ॥ ३२.१८७{८६} ॥
इति यूयं परिज्ञाय चरध्वं सर्वदा शुभे ।
ततो बोधिं समासाद्य संबुद्धपदमाप्नुयुः ॥ ३२.१८८{८७} ॥
इत्यादिष्टं मुनीन्द्रेण सर्वे ते सांघिका अपि ।
श्रुत्वानुमोदिताः सत्यमित्युक्त्वा परिमेनिरे ॥ ३२.१८९{८८} ॥
इति मे गुरुणादिष्टं मयात्र कथ्यते ।
त्वयाप्येवं महाराज चरितव्यं शुभे सदा ॥ ३२.१९०{८९} ॥
प्रजाश्चापि तथा राजन् बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालनीयः सदादरात् ॥ ३२.१९१{९०} ॥
तेन ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् ।
(र्म् ३६८)
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३२.१९२{९१} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथा हीति प्रतिज्ञाय प्राभ्यनन्दत्प्रबोधितः ॥ ३२.१९३{९२} ॥
शास्त्रादिष्टं प्रसन्ना इदमपि मनुज ये विरूपावदानं शृण्वन्ति श्रावयन्ति प्रमुदितमनसो ये च पुण्याभिरागाः ।
सर्वे ते श्रीसमेताः सकलगुणधराः सत्सुखानि प्रभुक्त्वा संबुद्धभक्तिरक्ताः सुगतवरगृहे संप्रयान्ति प्रमोदम् ॥ ३२.१९४{९३} ॥
++ इति रत्नावदानतत्वे विरूपावदानं समाप्तम् ++
(र्म् ३६९)
xxxइं क्षेमावदान
अथाशोको महाराजः कृतांजलिः पुरः स्थितः ।
उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ ३३.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणाख्यातं तथादेष्टुं समर्हसि ॥ ३३.२{२} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः ।
अशोकं तं महीपालं समालोक्यैवमब्रवीत् ॥ ३३.३{३} ॥
शृणु राजन्महाभाग यथा मे गुरुणोदितम् ।
तथाहं तत्प्रवक्ष्यामि तव धर्मविवृद्धये ॥ ३३.४{४} ॥
तद्यथाभूत्पुरा पूर्य्यां श्रावस्त्यां कौशलाधिपः ।
प्रसेनजिदिति ख्यातो महाराजा महीपतिः ॥ ३३.५{५} ॥
वाराणस्यां तदाचारो ब्रह्मदत्ताभिधो नृपः ।
महाराजो महीपालनृपाधिपस्तदाभवत् ॥ ३३.६{६} ॥
तदा तयोर्महीभोक्त्रोः परस्परविरुद्धयोः ।
महाहवसमारंभाद्बभूव क्षुभिताशयम् ॥ ३३.७{७} ॥
तत्र स क्षत्रियो राजा प्रसेनजिन्नराधिपः ।
स्वस्त्ययनविधिं कृत्वा सर्वान्तःपुरिकान्वितः ॥ ३३.८{८} ॥
चतुरंगवलैः सार्द्धं महोत्साहं प्रणादयन् ।
वैजयन्तीं समुच्छ्राय कोशलाविषयान्ततः ॥ ३३.९{९} ॥
पर्यन्ते सहसा गत्वा वीर्योत्साहसमन्वितः ।
वध्वा काष्टपटं तत्र प्रावतस्थे पुरे यथा ॥ ३३.१०{१०} ॥
तच्छ्रुत्वा ब्रह्मदत्तोऽपि क्षत्रियो भूपतिर्नृपः ।
स्वस्त्ययनविधिं धृत्वा स्वान्तःपुरसमन्वितः ॥ ३३.११{११} ॥
चतुरंगवलैः सार्द्धं जयोत्साहं निनादयन् ।
वैजयन्तीं समुच्छ्राय नद्या तीरमुपाचरत् ॥ ३३.१२{१२} ॥
तत्रैव समुपाश्रित्य वीर्योत्साहसमन्वितः ।
वध्वा काष्टपटं तत्र संतस्थे नगरे यथा ॥ ३३.१३{१३} ॥
तत्र स भूपती राजा ब्रह्मदत्तो नराधिपः ।
अग्रराज्ञ्या सहारक्तः संरेमे परिचारयन् ॥ ३३.१४{१४} ॥
तदा स महिषी राज्ञा सह क्रीडारता सती ।
स्वल्पाहाररता गौरा दोहदलक्षणं दधौ ॥ ३३.१५{१५} ॥
तथा तस्मिन् क्षणे सोऽपि प्रसेनजिन्नराधिपः ।
महिष्या सह संरक्तः प्ररेमे परिचारयन् ॥ ३३.१६{१६} ॥
तदा सापि महाराज्ञी स्वामिक्रीडानुचारिणी ।
स्वल्पाहारोत्सहा गौरा दधौ दोहदलक्षणम् ॥ ३३.१७{१७} ॥
क्रमात्तोऽपि महाराज्ञ्यां प्रवृद्धगर्भहारिते ।
पीनस्तने हरिद्राभवर्णेऽभूतां कृशाङ्गिके ॥ ३३.१८{१८} ॥
(र्म् ३७०)
ततोऽग्रमहिषी राज्ञो ब्रह्मदत्तस्य भूपतेः ।
सा सूत समये पुत्रं दिव्यांशमतिसुंदरम् ॥ ३३.१९{१९} ॥
तच्छ्रुत्वा स भूपालो ब्रह्मदत्तः प्रमोदितः ।
सहसोपेत्य तं पुत्रं दृष्ट्वा न तृप्तिमाययौ ॥ ३३.२०{२०} ॥
तस्मिन्नेव दिने तस्य प्रसेनजिन्महीपतेः ।
भार्यापि समये सूत सुतां दिव्यातिसुंदरीम् ॥ ३३.२१{२१} ॥
स्त्रीरत्नलक्षणोपेतं सुभद्रांगीमनोहराम् ।
रमोपमं शुभाकारां मनापां रतिसंनिभाम् ॥ ३३.२२{२२} ॥
तच्छ्रुत्वा स महीपालः प्रसेनजित्प्रसादितः ।
सहसोपेत्य तां पुत्रीं ददर्सातिप्रमोदितः ॥ ३३.२३{२३} ॥
तां दृष्ट्वा स नरेंद्रोऽपि मे वभूव समागतः ।
तामेव सुचिरं पश्यन्नवतस्थे सुनिश्चलः ॥ ३३.२४{२४} ॥
तयोरप्युभयो राज्ञोः स्कंधाचाराः प्रवर्त्तिताः ।
ये नित्यं तत्प्रवृत्तांतं स्वप्रभोरुपहारकाः ॥ ३३.२५{२५} ॥
ये प्रसेनजितश्चारा ब्रह्मदत्तस्य भूपतेः ।
पुत्रो जात इति श्रुत्वा परिज्ञाय प्रसेदिरे ॥ ३३.२६{२६} ॥
ते प्रसेनजितो राज्ञः सहसा समुपागताः ।
कृतांजलिपुटो नत्वा पुर एवं न्यवेदयन् ॥ ३३.२७{२७} ॥
जय देव महाराज शृणु तत्र प्रवर्त्तितम् ।
ब्रह्मदत्तस्य भूपस्य पुत्रो जातोऽधुना खलु ॥ ३३.२८{२८} ॥
सांप्रतं तत्र राजेन्द्रशुभोत्साहं प्रवर्त्तते ।
तत्त्वया सह संवंधं कृत्वा स स्वपुरं व्रजेत् ॥ ३३.२९{२९} ॥
तत्प्रसीद महाराज मा विभैषीः शुभं भवेत् ।
तेन संधिं भवान् कृत्वा विहरतां यथासुखम् ॥ ३३.३०{३०} ॥
इति तैः कथितं श्रुत्वा स प्रसेनजिन्नराधिपः ।
सत्यमेतदिति ज्ञात्वा प्रससादऽविशंकितः ॥ ३३.३१{३१} ॥
तथा ये ब्रह्मदत्तस्य गूढचाराः प्रवर्त्तिताः ।
ते प्रसेनजितः पुत्री जातेति शुश्रुवुस्तदा ॥ ३३.३२{३१} ॥
ततस्ते सहसा तत्र ब्रह्मदत्तस्य भूपतेः ।
पुरतः समुपाश्रित्य प्रणत्वैवं न्यवेदयन् ॥ ३३.३३{३३} ॥
जय देव महाराज शृणु तत्र प्रवर्त्तितम् ।
प्रसेनजिन्महीपस्य पुत्री जाताऽधुना खलु ॥ ३३.३४{३४} ॥
दारिका सा सुभद्रांगी दिव्यकामा रमोपमा ।
सर्वलक्षणसंपन्ना सुंदरी रतिसंनिभा ॥ ३३.३५{३५} ॥
तेन तत्र शुभोत्साहं प्रवर्त्ततेऽधुना प्रभो ।
तेन सहात्र संवंधं कर्त्तुमर्हति सर्वथा ॥ ३३.३६{३६} ॥
इति तैः कथितं श्रुत्वा ब्रह्मदत्तो नराधिपः ।
भद्रमिति परिज्ञाय तत्रैवं समचिंतयत् ॥ ३३.३७{३७} ॥
अहो चित्र महोत्साहो भद्रमेकस्मिन् दिवसे यतः ।
जातो मेऽत्र सुतो भद्रस्तस्यापि जायते सुता ॥ ३३.३८{३८} ॥
तत्तां भद्रां रमाकारां तं प्रसेनजितमादरत् ।
प्रार्थयित्वात्र पुत्राय सन्धिं कृत्वा चरेवहि ॥ ३३.३९{३९} ॥
इति निश्चित्य स ब्रह्मदत्तो राजा प्रसादितः ।
(र्म् ३७१)
सुजनं दूतमामंत्र्य पुर एवं समब्रवीत् ॥ ३३.४०{४०} ॥
गछ दूत महीपालं तं प्रसेनजितमादरात् ।
ममैवं वचसोपेत्य प्रार्थयस्व प्रबोधयन् ॥ ३३.४१{४१} ॥
ब्रह्मदत्तो महीपालो वदत्येवं समादरात् ।
भवता सह संवंधं कर्त्तुमिछामि सांप्रतम् ॥ ३३.४२{४२} ॥
यदेकस्मिन् दिने जातौ दारकावावयोरपि ।
सुता ते भद्रिका ख्याता मम पुत्रोऽपि भद्रिकः ॥ ३३.४३{४३} ॥
तदेतयोर्हि संवंधं कर्त्तुमर्हावहे ध्रुवम् ।
तद्भवान्मम पुत्राय स्वात्मजां दातुमर्हति ॥ ३३.४४{४४} ॥
एवं कृतेऽपि संवंधे यावज्जीवं सदावयोः ।
वैरोत्सर्गो भवेन्नूनं प्रीतिसंधिर्न भेत्स्यति ॥ ३३.४५{४५} ॥
तदावयोः सदा भद्रं विषयेषु समंततः ।
निरीतिकं शुभोत्साहं भविष्यति न संशयः ॥ ३३.४६{४६} ॥
इति मे वचसा राजा प्रसेनजित्स कौशलः ।
प्रार्थनीयस्त्वया साधो गछास्तु ते सुमंगलम् ॥ ३३.४७{४७} ॥
इत्यादिष्टं नरेन्द्रेण श्रुत्वा दूतः स बोधितः ।
तथेत्युक्त्वा नृपं नत्वा समुत्थाय ततोऽचरत् ॥ ३३.४८{४८} ॥
तत्र स सहसा गत्वा तं प्रसेनजितं नृपम् ।
उपेत्य सांजलिर्नत्वा पुरस्थ एवमब्रवीत् ॥ ३३.४९{४९} ॥
जय देव महाराज यदर्थेऽहमिहागतः ।
तदर्थं संप्रवक्ष्यामि भवां श्रोतुं समर्हति ॥ ३३.५०{५०} ॥
ब्रह्मदत्तो महाराजो भवतां कुशलं मुदा ।
पृछति सर्वदा नित्यं सर्वत्र विषयेष्वपि ॥ ३३.५१{५१} ॥
पुनरेवं स भूपालो ब्रह्मदत्तो ब्रवीत्यपि ।
भवता सह संवंधं कर्तुमिछामि सांप्रतम् ॥ ३३.५२{५२} ॥
यदेकस्मिन् दिने जातौ दारकावावयोरिह ।
सुता ते भद्रिका ख्यातो मम पुत्रोऽपि भद्रिकः ॥ ३३.५३{५३} ॥
तदेतयोर्हि संवंधं कर्तुमर्हामहे ध्रुवम् ।
तद्भवान्मम पुत्राय स्वात्मजां दातुमर्हति ॥ ३३.५४{५४} ॥
एवं कृतेऽपि संवंधे यावज्जीवं सदावयोः ।
वैरोत्सर्गो भवेन्नूनं प्रीतिसंधिर्न भेत्स्यते ॥ ३३.५५{५५} ॥
तदावयोः सदा भद्रं विषयेषु समंततः ।
निरीतिकं शुभोत्साहं भवेदेव न संशयः ॥ ३३.५६{५६} ॥
इति मे वचसा राजा प्रसेनजित्स कौशलः ।
प्रार्थनीयस्त्वया साधो गछास्तु त्वं समाहितः ॥ ३३.५७{५७} ॥
इत्यादिश्य नरेन्द्रेण ब्रह्मदत्तेन भूर्भुजा ।
प्रेषितोऽहं महाराज भवतामंतिके खलु ॥ ३३.५८{५८} ॥
तत्तेन भूपतीशेन यथादिष्टं नराधिप ।
भवानपि तथा कर्तुमर्हत्येदन्न नान्यथा ॥ ३३.५९{५९} ॥
एवं हि भवतां भद्रं यावाज्जीवं सुखैः सदा ।
सर्वत्र मङ्गलोत्साहं भवेन्नूनं न संशयः ॥ ३३.६०{६०} ॥
तद्भवानपि राजेन्द्र ब्रह्मदत्तस्य भूपतेः ।
पुत्राय स्वात्मजां भद्रां संप्रदातुमिहार्हति ॥ ३३.६१{६१} ॥
(र्म् ३७२)
इति तेन समाख्यातं श्रुत्वा स कोशलाधिपः ।
तुष्णीभूत्वा क्षणं तत्र मनसैवं व्यचिंतयेत् ॥ ३३.६२{६२} ॥
अहो मे जायते क्षेमं यदसौ क्षत्रियाधिपः ।
वैरं विहाय संवन्धं कर्त्तुमिछति सांप्रतम् ॥ ३३.६३{६३} ॥
तदहं तेन भूपेन यथादिष्टं तथाऽधुना ।
दत्वैनां स्वात्मजां भद्रां संधिं कुर्यां शुभाप्तये ॥ ३३.६४{६४} ॥
एवं कृते सदा क्षेमं सर्वत्र विषयेष्वपि ।
मम तस्यापि भूपस्य भवेन्नूनं न चान्यथा ॥ ३३.६५{६५} ॥
इति ध्यात्वा विनिश्चित्य प्रसेनजित्स कौशलः ।
तं दूतं समुपामंत्र्य समालोक्यैवमब्रवीत् ॥ ३३.६६{६६} ॥
साधो तेन नरेन्द्रेण यथादिष्टं तथादरात् ।
आज्ञां शिरसा धृतिवा करिष्यामि सदाप्यहम् ॥ ३३.६७{६७} ॥
एवं मे वचसा साधो सर्वमेतत्सुविस्तरम् ।
समाख्याय नरेन्द्रं तं प्रसादयितुमर्हसि ॥ ३३.६८{६८} ॥
इति तेन नरेन्द्रेण समाख्यातं निशम्य सः ।
दूतस्तथेति विज्ञप्य प्राभ्यनन्दत्प्रसादितः ॥ ३३.६९{६९} ॥
ततः स दूतस्तं भूपं कोशलाधिपतिं मुदा ।
नत्वा दृष्ट्वा समामंत्र्य ततोऽचरत्प्रमोदितः ॥ ३३.७०{७०} ॥
ततः स सहसा गत्वा ब्रह्मदत्तस्य भूपतेः ।
उपेत्य सांजलिः पादौ प्रणत्वेवमभाषत ॥ ३३.७१{७१} ॥
जय देव महाराज दिष्ट्या वर्द्धस्व सांप्रतम् ।
यथाभिलषितं सर्वं तत्सिद्धमिति मन्यताम् ॥ ३३.७२{७२} ॥
तद्यथा भवतादिष्टं तथा विज्ञापितं मया ।
तच्छ्रुत्वानेन भूपेन प्रमोदित्वाध्युवासितम् ॥ ३३.७३{७३} ॥
इति सत्यं समाधाय पालयस्व यथोदितम् ।
सर्वदा ते भवेद्भद्रं सर्वत्र विषयेष्वपि ॥ ३३.७४{७४} ॥
इति तेनोदितं श्रुत्वा ब्रह्मदत्तः स भूपतिः ।
प्रबोधितोऽनुमोदित्वा प्राभ्यनंदत्प्रसादितः ॥ ३३.७५{७५} ॥
ततः स भूपती राजा ब्रह्मदत्तो महोत्सवैः ।
चतुरंगवलैः सार्द्धं जयवाद्यं प्रवादयन् ॥ ३३.७६{७६} ॥
ततः संप्रस्थितो लोकैः स्तूयमानः सुरैरपि ।
प्रचरन् सहसा तत्र स्वपुरं समुपाययौ ॥ ३३.७७{७७} ॥
ततः सोऽपि महीपालः प्रसेनजित्प्रमोदितः ।
चतुरंगवलैः सार्द्धं जयोत्साहं प्रणादयन् ॥ ३३.७८{७८} ॥
ततः प्रत्यागतो लोकै स्तूयमानोऽमरैरपि ।
प्रचरन् स नृपो तत्र श्रावस्त्यां समुपाचरत् ॥ ३३.७९{७९} ॥
तत्र स्वनगरे प्राप्तः प्रसेनजित्स कौशलः ।
स्वप्रासादतलासीनः सर्वान्तपुरिकान्वितः ॥ ३३.८०{८०} ॥
तां भदरिकां सुतां दृष्ट्वा सुप्रसन्नाशयो मुदा ।
अहो क्षेमं प्रजातं मे इत्येवं मुहुरब्रवीत् ॥ ३३.८१{८१} ॥
ततस्तस्याः सुतायाः स कृत्वा जातिमहं मुदा ।
सर्वञ्ज्ञातीन् समाहूय पुर एवमुपादिशत् ॥ ३३.८२{८२} ॥
(र्म् ३७३)
भदन्तः श्रूयतामस्या भद्राया दुहितुर्मम ।
यथायुक्तं नामधेयं स्थापयत प्रसिद्धितम् ॥ ३३.८३{८३} ॥
इति तेन नरेन्द्रेण समादिष्टं निशम्यते ।
संपश्यञ्ज्ञातयस्तत्र संमील्यैवं समब्रुवन् ॥ ३३.८४{८४} ॥
यस्मिन् दिने प्रजातेयं तस्मिन्नेव दिने यतः ।
क्षेमं नो जायते तस्मात्क्षेमाभिधा भवन्त्वियम् ॥ ३३.८५{८५} ॥
इति ते ज्ञातयः सर्वे कृत्वैवं संमतं ततः ।
कौशलेन्द्रं तमामंत्र्य प्रणत्वैवं समब्रुवन् ॥ ३३.८६{८६} ॥
शृणु राजन् यदस्माकमभिप्रायं प्रचक्ष्यते ।
तदस्या नामधेयं करोतु भुवि विश्रुतम् ॥ ३३.८७{८७} ॥
यस्मिन् दिने प्रजातेयं क्षेमं भवति सर्वतः ।
तेनास्या क्रियतां नाम क्षेमेति विश्रुतं भुवि ॥ ३३.८८{८८} ॥
तथा तैर्गदितं श्रुत्वा राजा स जनको मुदा ।
तस्याः पुत्र्यास्तथा नाम क्षेमेति प्रार्थितं व्यधात् ॥ ३३.८९{८९} ॥
ततः सा दारिकाष्टाभिर्धात्रिभिः प्रतिपालिता ।
परिपुष्टा प्रवृद्धाभूद्ध्रदस्थमिव पंकजम् ॥ ३३.९०{९०} ॥
तथा स ब्रह्मदत्तोऽपि राजा स्वान्तर्गृहे गतः ।
तं पुत्रां मुहुरालोक्य प्राभ्यनंदत्प्रमोदितः ॥ ३३.९१{९१} ॥
तत्र तस्य शिशो राजा कृत्वा जातिमहं पिता ।
सर्वाञ्ज्ञातीन् समाहूय पुर एवमभाषत ॥ ३३.९२{९२} ॥
भवंतो दारकस्यास्य पुत्रस्य मे शुभाकृतेः ।
क्रियतां नामधेयन् सन्मंगलाक्षरसंयुतम् ॥ ३३.९३{९३} ॥
इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते ज्ञातयो मुदा ।
सर्वेऽप्येकत्र संगम्य मिथरेवं समब्रुवन् ॥ ३३.९४{९४} ॥
यदयं जातमात्रोऽपि क्षेमं करोति सर्वतः ।
तथास्य भवतु क्षेमंकर इत्याह्वयं ध्रुवम् ॥ ३३.९५{९५} ॥
इति ते ज्ञातयः सर्वे ब्रह्मदत्तस्य भूपतेः ।
पुरतः समुपासृत्य प्रणत्वैवं न्यवेदयन् ॥ ३३.९६{९६} ॥
शृणु राजन् यदस्माभिर्नामास्य क्रियते शिशोः ।
तन्नाम क्षेमसंपन्नं प्रथयतु भावान् भुवि ॥ ३३.९७{९७} ॥
यदयं जातमात्रोऽपि क्षेमं करोति सर्वतः ।
तेन क्षेमंकराख्योऽयं भवंतु लोकनंदनः ॥ ३३.९८{९८} ॥
एतत्तैः कथितं श्रुत्वा ब्रह्मदत्तः स भूपतिः ।
तदेव नामे पुत्रस्य तस्याकरोत्प्रविसृतम् ॥ ३३.९९{९९} ॥
ततः स दारकोऽष्टाभि धात्रिभिः प्रतिपालितः ।
परिपुष्टः प्रवृद्धोऽभूद्ध्रदस्थं कमलं यथा ॥ ३३.१००{१००} ॥
ततः क्रमात्कुमारत्वमाप्तवान् स नृपात्मजः ।
गुरूणां समुपाश्रित्य लिपी क्रमादशिक्षत् ॥ ३३.१०१{१} ॥
यथाक्रममधीत्येवं क्षेमंकरः स बुद्धिमान् ।
सर्वशास्त्रकलास्वादि विद्यापरं ययौ लघु ॥ ३३.१०२{२} ॥
ततः स दहरः कान्तः कुमारो रतिलालितः ।
(र्म् ३७४)
सवयेःसचिवैः सार्द्धं रेमे पुरे परिभ्रमन् ॥ ३३.१०३{३} ॥
तदा स दारिका क्षेमा प्रसेनजित्सुतापि च ।
क्रमादभूत्कुमारीत्वप्राप्ता कान्ताभिसुंदरी ॥ ३३.१०४{४} ॥
ततः सा भद्रिका कन्या सुमतिर्गुणलालसाः ।
गुरूणां समुपाश्रित्य क्रमाल्लिपिरशिक्षत ॥ ३३.१०५{५} ॥
यथाक्रममधीत्यैवं सा सुबुद्धिमती सती ।
सर्वशास्त्रकलाविद्यापारं ययौ विचक्षणा ॥ ३३.१०६{६} ॥
तदा सा भाविनी क्षेमा स्वसखीभिः समन्विता ।
संबुद्धभाषितं धर्ममनुश्रुत्वा मुदानमत् ॥ ३३.१०७{७} ॥
तदा स ब्रह्मदत्तस्य कुमारोऽतिविचक्षणः ।
तां क्षेमां सुंदरीं द्रष्टुं समैछद्रतिलालसः ॥ ३३.१०८{८} ॥
ततः स दूतमाहूय बोधयित्वा प्रसादयन् ।
दत्वा सुरत्नमालां तं क्षेमायाः प्रेषयेत्स्वयम् ॥ ३३.१०९{९} ॥
ततः स दूत आदाय तां मालां सहसा चरन् ।
श्रावस्त्याः पुरि संप्राप्तः क्षेमायाः सदनेऽचरत् ॥ ३३.११०{१०} ॥
तत्र स दूत आलोक्य सखीमेकामुपागताम् ।
तामुपेत्य समामंत्र्य सुगुप्तमेवमब्रवीत् ॥ ३३.१११{११} ॥
क्षेमंकरकुमारेण क्षेमाये प्रहितामिमाम् ।
रत्नमालां त्वमादाय भद्रे तस्यै समर्पय ॥ ३३.११२{१२} ॥
इत्युक्त्वा रत्नमालां तां क्षेमासखीकरे रहः ।
दत्वा स दूत आमंत्र्य सहसा स्वपुरं ययौ ॥ ३३.११३{१३} ॥
तत्र सापि सखी तस्याः क्षेमायाः पुरतो गता ।
प्राभृतं तमुपस्थाप्य रहस्येवं न्यवेदयत् ॥ ३३.११४{१४} ॥
अयि भद्रमिमं पश्य प्रहितं स्वामिना तव ।
तदिदं त्वं समाश्लिष्य पतिमिव विभावय ॥ ३३.११५{१५} ॥
इति तयोदितं श्रुत्वा सा क्षेमा लज्जिताशया ।
कामविषाग्निसंत्रस्ता तस्थौ दिनमधोमुखा ॥ ३३.११६{१६} ॥
ततः सा कन्यका क्षेमा तां सखीं पुरतः स्थिताम् ।
सुचिरात्समुपारभ्य हर्त्सयन्त्येवमब्रवीत् ॥ ३३.११७{१७} ॥
अरे रे किं वदस्येवं स्वामी मे कात्र विद्यते ।
निलज्जे वद तत्केन प्रहितं प्राभृतं तव ॥ ३३.११८{१८} ॥
इत्युक्तं सा सखी श्रुत्वा क्षेमाया दुरितुः प्रभोः ।
आजन्मे सर्ववृत्तांतं विस्तरेण न्यवेदयत् ॥ ३३.११९{१९} ॥
एवं सख्या समाख्यातं श्रुत्वा सा नृपनंदिनी ।
क्षेमा संसारसंचारसमुद्विग्नाशयाभवत् ॥ ३३.१२०{२०} ॥
तत उत्थाय सा क्षेमा कन्यापि सहसा पितुः ।
उपेत्य चरणौ नत्वा सांजलिरेवमब्रवीत् ॥ ३३.१२१{२१} ॥
तात कामार्थिनी नाहमपि तु सद्गुणार्थिनी ।
सद्गुणां साधयिष्यामि तदनुज्ञां ददातु मे ॥ ३३.१२२{२२} ॥
यदहं शासने बौद्धे प्रव्रजित्वा समाहित ।
ब्रह्मचर्यं समाधाय प्रेछामि चरितुं प्रभो ॥ ३३.१२३{२३} ॥
तद्भवां कृपया तात संबोधिव्रतसाधने ।
अनुज्ञां संप्रदत्व्मे सर्वथानुग्रहं कुरु ॥ ३३.१२४{२४} ॥
(र्म् ३७५)
इत्यर्थितं तया पुत्र्या श्रुत्वा स कोशलाधिपः ।
तां कुमारीं समालोक्य तस्थौ संदिग्धमानसः ॥ ३३.१२५{२५} ॥
ततः स जनको राजा तां क्षेमां स्वात्मजां प्रियाम् ।
बोधयितुं समामंत्र्य समालोक्यैवमब्रवीत् ॥ ३३.१२६{२६} ॥
नैवं पुत्रि मया कर्तुं शक्यते तत्क्षमस्व मे ।
यत्ते जन्मनि मे राष्ट्रे क्षेममेवं प्रजायते ॥ ३३.१२७{२७} ॥
तदापि त्वं प्रतिज्ञय ब्रह्मदत्तस्य भूपतेः ।
क्षेमंकराय पुत्राय संकल्पिता मयात्मजे ॥ ३३.१२८{२८} ॥
तद्यथा मे प्रतिज्ञातं वचनं पूरयात्मजे ।
मा कृथाः सर्वथा क्षेमे प्रव्रज्यासाधने मम ॥ ३३.१२९{२९} ॥
यथा मया प्रतिज्ञातं करिष्ये न तदन्यथा ।
मत्वेति मे वचः श्रुत्वा कुलधर्मे चरात्मजे ॥ ३३.१३०{३०} ॥
एवं पित्रोदितं श्रुत्वा सा क्षेमा प्रहताशया ।
उत्थाय स्वालये गत्वा तूष्णीभूता न्यषीदत ॥ ३३.१३१{३१} ॥
तदा स जनको राजा दूतमाहूय सादरम् ।
सर्वमेतत्प्रवृत्तांतं समाख्यायैवमब्रवीत् ॥ ३३.१३२{३२} ॥
गछ साधो नरेन्द्रस्य ब्रह्मदत्तस्य भूपतेः ।
पुर एतत्प्रवृत्तांतं निवेद्यैवं प्रबोधय ॥ ३३.१३३{३३} ॥
यदियं मे सुता क्षेमा प्रव्रजितुं समिछति ।
तदिमां सहसागत्वा भवानादातुमर्हति ॥ ३३.१३४{३४} ॥
इति राज्ञा समादिष्टं श्रुत्वा पुरः स सादरम् ।
तथेति संप्रतिज्ञाय प्रणत्वा तं ततोऽचरत् ॥ ३३.१३५{३५} ॥
तत्र स सहसा गत्वा ब्रह्मदत्तस्य भूपतेः ।
उपेत्य सांजलिर्नत्वा पुर एवं न्यवेदयत् ॥ ३३.१३६{३६} ॥
जय एव यदर्थेऽहं प्रेषितोऽत्र महीभृता ।
कोशलेन्द्रेण तद्भवां शृणोत्वेवं ब्रवीति सः ॥ ३३.१३७{३७} ॥
यदियं मे सुता क्षेमा प्रव्रजितुं समिछति ।
तदिमां सहसागत्वा भवानाहर्तुमर्हति ॥ ३३.१३८{३८} ॥
यथा मया प्रतिज्ञातं कर्त्तुं न शक्यतेऽन्यथा ।
तदहं ते कुमाराय दास्यामि स्वात्मजामिमाम् ॥ ३३.१३९{३९} ॥
एवं तेन नरेंद्रेण समाख्याय भवत्पुरः ।
प्रेषितोऽहमिति ज्ञात्वा तत्तत्रागंतुमर्हति ॥ ३३.१४०{४०} ॥
इति तेनोदितं श्रुत्वा ब्रह्मदत्तः स भूपतिः ।
तं दूतं सहसामंत्र्य पुर एवमभाषत ॥ ३३.१४१{४१} ॥
एवं चेदागमिष्यामि सपुत्रः सप्तमेऽहम् ।
यत्तत्कृत्यं हि तत्सर्वं कर्त्तव्यमिति कथ्यताम् ॥ ३३.१४२{४२} ॥
इत्यादिष्टं नरेंद्रेण ब्रह्मदत्तेन सांजलिः ।
नत्वा तथेति विज्ञप्य समुत्थाय ततोऽचरत् ॥ ३३.१४३{४३} ॥
तत्र स सहसा गत्वा स्वपुरं समुपाचरन् ।
नृपतिं सांजलिर्नत्वा पुर एवं न्यवेदयत् ॥ ३३.१४४{४४} ॥
जय देव यथादिष्टं ब्रह्मदत्तस्य भूपतेः ।
तथा विज्ञापितं सर्वं तदुक्तं याच्यते शृणु ॥ ३३.१४५{४५} ॥
(र्म् ३७६)
एवं चेदागमिष्यामि सपुत्रः सप्तमेऽहनि ।
तद्यत्कृत्यं हि तत्सर्वं साधयितुं त्वमर्हसि ॥ ३३.१४६{४६} ॥
इति तेन नरेन्द्रेण प्रतिज्ञाय निदेशितम् ।
इति सत्यं परिज्ञाय सर्वं कृत्यं प्रकारय ॥ ३३.१४७{४७} ॥
इति तेनोदितं श्रुत्वा प्रसेनजित्स भूपतिः ।
तदर्हसर्वसामग्रीं सहसा समसाधयत् ॥ ३३.१४८{४८} ॥
तदैतत्सर्ववृत्तांतं श्रुत्वा चा दारिका सुधीः ।
उद्विग्नमानसा क्षेमा मनसैवं व्यचिंतयत् ॥ ३३.१४९{४९} ॥
हा किं मयात्र कर्त्तव्यं विवाहां मे भवे यतः ।
कामभोगं परित्यज्य वांछामि सौगतव्रतम् ॥ ३३.१५०{५०} ॥
कामा हि गर्ह्यते सद्भि वर्ण्यते सौगतं व्रतम् ।
तदत्र किं करिष्यामि यन्मे न गोचरं व्रते ॥ ३३.१५१{५१} ॥
धिग्जन्म तस्य संसारे यस्य न गोचरं व्रते ।
व्रतं विनात्र किं सारं कामभोग्यै गुणैरपि ॥ ३३.१५२{५२} ॥
तदत्र क्व गमिष्यामि निमग्ना कामपंकिले ।
को मे त्राता भवेदत्र संबुद्धादपरः कृती ॥ ३३.१५३{५३} ॥
तदत्र तं जगन्नाथं सर्वज्ञं सर्वतायिनम् ।
संस्मृत्वा शरणं गत्वा प्रार्थये साधुनादरात् ॥ ३३.१५४{५४} ॥
नूनं बुद्धो जगन्नाथो जगच्छास्ता मुनीश्वरः ।
कृपया मां समालोक्य बुद्धव्रते नियोजयेत् ॥ ३३.१५५{५५} ॥
यदि मे दैवयोगेन व्रतं नैव लभेय हि ।
संबुद्धशरणोद्भूतं पुण्यं तु लभ्यते ध्रुवम् ॥ ३३.१५६{५६} ॥
संबुद्धस्मृतिजं पुण्यं न क्षिणोति कदा चन ।
संबुद्धसंवरं दद्यादिति प्रज्ञैर्निगद्यते ॥ ३३.१५७{५७} ॥
तदहं तं जगन्नाथं स्मृत्वात्र मरणं वरम् ।
न तु कामविषं भोक्ष्ये भोज्ये पुण्यामृतं ध्रुवम् ॥ ३३.१५८{५८} ॥
इति निश्चित्य सा क्षेमा स्नात्वा शुद्धाम्वरावृता ।
शरणपृष्ठमारुह्य अभवद्दिन्मुखा स्थिता ॥ ३३.१५९{५९} ॥
जानुभ्यां भुवि संस्थिता कृतांजलिपुटा मुदा ।
भगवन्तमनुस्मृत्वा नत्वैवं प्रार्थयत्त्रिधा ॥ ३३.१६०{६०} ॥
भगवन्नाथ सर्वज्ञ सर्वसत्वानुकंपक ।
ब्रह्मचारिन्महाभिज्ञ महर्षे दुरितान्तकः ॥ ३३.१६१{६१} ॥
प्रशमोपायविद्विज्ञ शान्त चित्त महामुने ।
त्वमेव हि जगन्नाथ तत्तेऽहं शरणं व्रजे ॥ ३३.१६२{६२} ॥
तन्मां भवोदधौ मग्नां कृपयोद्धर्तुमर्हति ।
इति संप्रार्थिते सत्यो कन्यया क्षेमया तया ।
भगवान् कृपया दृष्ट्या ददर्श तां शुभाशयाम् ॥ ३३.१६३{६३} ॥
ततः स भगवान् दृष्ट्वा तां क्षेमां बोधिभाविनीम् ।
ऋद्ध्याकशात्समागत्य तत्र क्षेमान्तिके ययौ ॥ ३३.१६४{६४} ॥
तत्र तं श्रीघनं दृष्ट्वा सा क्षेमा सहसोत्थिता ।
प्रज्ञप्य स्वासनं नत्वा सांजलिरेवमब्रवीत् ॥ ३३.१६५{६५} ॥
भगवन्नाथ संबुद्ध प्रविशात्रासने शुभे ।
प्रसीद कृपयपायान्मां समुद्धर्तुमर्हसि ॥ ३३.१६६{६६} ॥
(र्म् ३७७)
इति तस्यार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तां क्षेमां भद्रिकां कन्यां समालोक्यैवमादिशत् ॥ ३३.१६७{६७} ॥
मा भैषि भद्रिके कन्ये त्वदीहितं समृध्यति ।
तथा मे शरणं गत्वा चर शुभे समाहिता ॥ ३३.१६८{६८} ॥
इत्यादिश्य पुनस्तस्याः संबोधिपदसाधनम् ।
आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ ३३.१६९{६९} ॥
तदार्य्यधर्ममाकर्ण्य क्षेमा परिबोधिता ।
अनागामिफलं प्राप्ता लब्धाभिज्ञाभवत्तदा ॥ ३३.१७०{७०} ॥
ततः सा मुदिता कन्या दृष्टसत्या प्रसादिता ।
सांजलिस्तं मुनिं नत्वा प्रार्थयच्चैवमादरात् ॥ ३३.१७१{७१} ॥
भगवन् सर्वविन्नाथ सदैवं कृपया भवान् ।
दृष्ट्वा मां सौगते धर्मे नियोज्य त्रातुमर्हति ॥ ३३.१७२{७२} ॥
इत्यर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः ।
तथा हीति प्रतिज्ञाय तथार्द्ध्या चाश्रमे ययौ ॥ ३३.१७३{७३} ॥
तदा सा कन्यका क्षेमा संबुद्धशरणं गता ।
संस्मृत्य श्रद्धया नित्यं प्राचरन्मुदिता शुभे ॥ ३३.१७४{७४} ॥
तदा स ब्रह्मदत्तोऽपि पुत्रपुरोहितादिभिः ।
स्वजनैः सहसोत्साहैः श्रावस्त्यां समुपाचरत् ॥ ३३.१७५{७५} ॥
तदागतं समाकर्ण्य प्रसेनजित्स भूपतिः ।
सहसा मंगलोत्साहैः प्रत्युद्ययौ तमादरात् ॥ ३३.१७६{७६} ॥
तत्र स कोशलेशस्तं ब्रह्मदत्तं नराधिपम् ।
उपेत्य कुशलं दृष्ट्वा स्वपुरे संन्यवेशयत् ॥ ३३.१७७{७७} ॥
तत्रानेकाः समायाता लोकाः सर्वे प्रमोदिताः ।
तद्विवाहमहोत्साहं द्रष्टुं समुपतस्थिरे ॥ ३३.१७८{७८} ॥
ततः स कौशलो राजा तद्विवाहदिने शुभे ।
साधितसर्वसामग्रीं होतुः समत्यढौकयत् ॥ ३३.१७९{७९} ॥
तदा क्षेमा कुमारी सा सर्वालंकारभूषिता ।
मात्रा सह समागत्य तत्रासने समाश्रयत् ॥ ३३.१८०{८०} ॥
क्षेमंकरकुमारोऽपि सर्वालंकारभूषितः ।
पित्रा सह समागत्य तत्रासने उपाविशत् ॥ ३३.१८१{८१} ॥
ततः स विधिविद्धोता शुद्धासने समाश्रयन् ।
विधिनाग्निं समावाह्य स हव्यैः समतर्पयत् ॥ ३३.१८२{८२} ॥
ततः पुरोहितो विप्रस्तद्वेला समुपागते ।
क्षेमंकराय तां क्षेमां संकल्पयितुमारभत् ॥ ३३.१८३{८३} ॥
यथाविधि समारभ्य ब्राह्मणः स पुरोहितः ।
क्षेमाया हस्तमादाय कुमारस्यास्य प्राग्रहीत् ॥ ३३.१८४{८४} ॥
तस्मिन्नेव क्षणे तत्र सा क्षेमा सहसोद्गता ।
पक्षिवत्खं समाश्रित्य तस्थौ ध्यात्वा मुनीश्वरम् ॥ ३३.१८५{८५} ॥
तात्र सा भासयन्त्येव स्थिता चिरं समाहिता ।
प्रातिहार्याणि चित्राणि विविधान्यभ्यदर्शयत् ॥ ३३.१८६{८६} ॥
तद्दृष्ट्वा कौशलो राजा प्रसेनजित्पितापि सः ।
ब्रह्मदत्तो नरेन्द्रोऽपि पुरोहितो द्विजोऽपि सः ॥ ३३.१८७{८७} ॥
क्षेमंकरः कुमारोऽपि सर्वेऽपि ब्राह्मणाश्च ते ।
अमात्या मंत्रिणश्चापि सर्वे सैन्यगणा अपि ॥ ३३.१८८{८८} ॥
(र्म् ३७८)
पौराश्चापि स्त्रियोऽन्येऽपि दारका दारिका अपि ।
सर्वेऽतिविस्मयाक्रांतहृदया अवतस्थिरे ॥ ३३.१८९{८९} ॥
तत्र क्षेमंकरो राजकुमारो ब्राह्मणैः सह ।
तां क्षेमां सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ ३३.१९०{९०} ॥
नमस्ते भगिनि क्षेमे यत्तेऽहं कामलालसाः ।
पाणिं ग्रहीतुमिछामि तत्क्षमस्व दयानिधे ॥ ३३.१९१{९१} ॥
यदेवं त्वं महाभिज्ञापदप्राप्ता महर्द्धिका ।
यत्कामान् परिभुंजीथा इत्यस्थानमेव हि ॥ ३३.१९२{९२} ॥
तत्क्षमस्व त्वमाकाशादवतीर्य महीतले ।
सर्वलोकाभिबोधार्थं सद्धर्मं समुपादिश ॥ ३३.१९३{९३} ॥
इति संप्रार्थितं तेन कुमारेण निशम्य सा ।
क्षेमा प्रसन्नास्या तत्राकाशादवातरत् ॥ ३३.१९४{९४} ॥
तत्र सा समुपागत्य जनकाये सभासने ।
स्थित्वार्यसत्यमारभ्य सद्धर्मं समुपादिशत् ॥ ३३.१९५{९५} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः ।
सत्यमिति परिज्ञाय प्राभ्यनन्दन् प्रसादिताः ॥ ३३.१९६{९६} ॥
ततः क्षेमंकरः पित्रा सह तं कोशलाधिपम् ।
आमंत्र्य तद्गुणाहृष्टमनाः स्वं नगरं ययौ ॥ ३३.१९७{९७} ॥
ततः सा कन्यका क्षेमा साञ्जलिः पुरतो गता ।
पितुः पादाम्बुजे नत्वा प्रार्थयेदेवमादरात् ॥ ३३.१९८{९३} ॥
नाहं कामार्थिनी तात संबुद्धशरणार्थिनी ।
तदितः शासने बौद्धे गन्तुमिछामि सांप्रतम् ॥ ३३.१९९{९९} ॥
तद्यदि ते मयि प्रीतिरस्ति धार्मेऽपि वा रुचिः ।
तदत्र कृपयानुज्ञां दातुमर्हति मे पित ॥ ३३.२००{१००} ॥
इति संप्रार्थितं पुत्र्या श्रुत्वा स कौशलाधिपः ।
तां क्षेमां स्वात्मजां कन्यां चिरं दृष्ट्वैवमब्रवीत् ॥ ३३.२०१{१} ॥
किमेत्र वक्ष्यते पुत्रि यत्त्वं सद्धर्मवांछिनी ।
किं चाप्यसि महाभिज्ञावती प्रज्ञावती सुधीः ॥ ३३.२०२{१} ॥
किं तु त्वं दारिका कन्या शीतवातातपाहता ।
तत्प्रव्रज्याव्रतं वाल्ये चरितुं शक्नुयाः कथम् ॥ ३३.२०३{३} ॥
सद्धर्म यदि ते वांछा गृहे स्थित्वा समाहिता ।
त्रिरत्नभजनं कृत्वा सद्धर्मं साधयात्मजे ॥ ३३.२०४{४} ॥
त्रिरत्नभजनोद्भूतं पुण्यं सद्धर्मसाधनम् ।
तेन संबोधिमासाद्य संबुद्धपदमाप्नुयाः ॥ ३३.२०५{५} ॥
एवं मत्वा स्वगेहे त्वं शुद्धशीलव्रतावृता ।
त्रिरत्नभजनं कृत्वा चर नित्यं शुभे सदा ॥ ३३.२०६{६} ॥
इति पित्रोदितं श्रुत्वा शा क्षेमा कामनिःस्पृहा ।
पितरं तं समालोक्य पुनरेवमभाषत ॥ ३३.२०७{७} ॥
न मे तात गृहावासे क्लेशमारगणाकुले ।
क्षणं स्थातुं मनस्तेन वांछति सौगतं व्रतम् ॥ ३३.२०८{८} ॥
सर्वेऽपि सौगतः सन्तो विहारे सुगताश्रमे ।
सदा धर्मामृतं भुक्त्वा वसन्ति सद्गुणोद्यताः ॥ ३३.२०९{९} ॥
(र्म् ३७९)
त एव सद्गुणाधारा बोधिसत्वाः सुखान्विताः ।
यावज्जीवं व्रतं धृत्वा यान्ति चान्ते जिनालयम् ॥ ३३.२१०{१०} ॥
इति दृष्ट्वाहमिछामि प्रव्रजितुं जिनाश्रमे ।
तद्भवान् कृपयानुज्ञां दातुमर्हति मे प्रभो ॥ ३३.२११{११} ॥
इति संप्रार्थितं पुत्र्या श्रुत्वा स बोधितः पिता ।
तथानुमोदनां कृत्वा तां क्षेमामेवमब्रवीत् ॥ ३३.२१२{१२} ॥
किं मया वक्ष्यते वत्से त्वमेवं सत्सुभार्थिनी ।
तद्व्रज शासने बौद्धे व्रतं चर समाहिता ॥ ३३.२१३{१३} ॥
इति पित्राभ्यनुज्ञातं श्रुत्वा सा मुदिताशया ।
क्षेमा तस्य पितुः पादौ नत्वैव निर्ययौ ततः ॥ ३३.२१४{१४} ॥
ततः सा मुदिता क्षेमा सहसा तत्र जिनाश्रमे ।
गता तं श्रीघनं दृष्ट्वा मुदिता समुपाचरत् ॥ ३३.२१५{१५} ॥
तत्र सा साञ्जलिर्नत्वा सास्तारं तं मुनीश्वरम् ।
पुरतः समुपासीना प्रार्थयदेवमादरात् ॥ ३३.२१६{१६} ॥
भगवन्नाथ सर्वज्ञ भवतां शरणं व्रजे ।
तत्प्रव्रज्याव्रतं दत्वा सदा मेऽनुग्रहं कुरु ॥ ३३.२१७{१७} ॥
इत्यर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः ।
तच्छिरो दक्षहस्तेन पृष्ट्वा तामेवमब्रवीत् ॥ ३३.२१८{१८} ॥
एहि वत्से प्रगछ त्वं गौतम्याः शरणं व्रज ।
सा माता भिक्षुणीशास्ता प्रव्रज्यां ते प्रदास्यति ॥ ३३.२१९{१९} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा मुदिताशया ।
क्षेमा तस्या जगन्मातुर्गौतम्याः समुपाचरत् ॥ ३३.२२०{२०} ॥
तत्र सा समुपासृत्य दृष्ट्वा तां गौतमीं मुदा ।
कृताञ्जलिपुटो नत्वा प्रार्थयदेवमादरात् ॥ ३३.२२१{२१} ॥
जगन्मातरहं क्षेमा भवत्याः शरणं व्रजे ।
तन् प्रव्रज्याव्रतं मह्यं भवन्ती दातुमर्हति ॥ ३३.२२२{२२} ॥
इत्यर्थितं तया श्रुत्वा गौतामी सा प्रसादिता ।
तच्छिरो दक्षहस्तेन पृष्ट्वैवं तामभाषत ॥ ३३.२२३{२३} ॥
एहि भिक्षुणि वत्से शासने सौगते शुभे ।
प्रव्रज्यासंवरं धृत्वा ब्रह्मचर्यं समाचर ॥ ३३.२२४{२४} ॥
एहीति समादिष्टे गौतम्यास्य शुभाशया ।
क्षेमाभून्मुण्डिता पात्रधरा सुचीवरावृता ॥ ३३.२२५{२५} ॥
ततः सा भिक्षुणी क्षेमा सौम्यरूपा जितेन्द्रिया ।
भित्वाऽविद्यागणान् दुष्टान् प्राप्तविद्यागणाञ्छुभान् ॥ ३३.२२६{२६} ॥
समाधिधारणीविद्या घटमाना समुद्यता ।
महाभिज्ञापदप्राप्ता संबोधिपदसाधिनी ॥ ३३.२२७{२७} ॥
ततः सा सुमतीर्मत्वा भवचक्रं चलाचलम् ।
मत्वा च सर्वसंस्कारगतिश्चापि विघातिनीः ॥ ३३.२२८{२८} ॥
सर्वक्लेशगणान् हित्वा जित्वा मारगणानपि ।
साक्षादर्हत्पदं प्राप्य बभूव ब्रह्मचारिणी ॥ ३३.२२९{२९} ॥
ततः साकाशसादृश्या निर्विकल्पा निरंजना ।
वासिचंदनकल्पांशा परिशुद्धत्रिमंडला ॥ ३३.२३०{३०} ॥
संसारलाभसत्कारनिःस्पृहा सर्वदेहिनाम् ।
(र्म् ३८०)
स देवासुरलोकानां वंद्या पूज्याभवत्सती ॥ ३३.२३१{३१} ॥
ततः स भगवाञ्छास्ता सर्वज्ञोऽर्हन्मुनीश्वरः ।
सर्वान्स्तां श्रावकां भिक्षून् समामंत्र्यैवमादिशत् ॥ ३३.२३२{३२} ॥
एषाग्रा भिक्षवः सर्वभिक्षूणीनां ममाश्रमे ।
अभिज्ञाप्रतिभाणसत्प्रज्ञानां यदियं सुधीः ॥ ३३.२३३{३३} ॥
क्षेमाख्या भिक्षुणी सत्यवादिनी ब्रह्मचारिणी ।
सत्यद्वयपरिज्ञाता संबोधिपदगामिनी ॥ ३३.२३४{३४} ॥
इत्यादिष्टे मुनीन्द्रेण सर्वे ते सांघिका अपि ।
विस्मितास्तं मुनिं नत्वा पप्रछुस्तत्पुराकृतम् ॥ ३३.२३५{३५} ॥
भगवन्ननया कर्म किं पुरा सुकृतं कृतम् ।
येनेयं भद्रिका क्षेमा प्रज्ञावती महर्द्धिका ॥ ३३.२३६{३६} ॥
महाप्रज्ञावतीनां च सर्वासामपि सद्धियाम् ।
महर्द्धिप्रतिभाणानामग्रा निर्दिश्यते त्वया ॥ ३३.२३७{३७} ॥
तदिमे सांघिकाः सर्वे श्रोतुमिछंति सांप्रतम् ।
तत्सर्वं समुपादिश्य सर्वाल्लोकान् प्रबोधय ॥ ३३.२३८{३८} ॥
इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
सर्वान्स्तान् सांघिकान् भिक्षून् समालोक्यैवमादिशत् ॥ ३३.२३९{३९} ॥
शृणुत भिक्षवः सर्वे पुरा यदनया कृतम् ।
तदहं संप्रवक्ष्यामि सर्वलोकाभिबोधने ॥ ३३.२४०{४०} ॥
पुराभूत्काश्यपो नाम तथागतो मुनीश्वरः ।
सर्वज्ञोऽर्हञ्जगच्छास्ता सुगतो धर्माधिपो जिनः ॥ ३३.२४१{४१} ॥
वाराणस्यामुपारण्ये मृगदावे जिनाश्रमे ।
सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ ३३.२४२{४२} ॥
तच्छासने तदा श्रेष्ठिदुहिता शरणं गता ।
प्रव्रज्याव्रतमादाय प्रचचार समाहिता ॥ ३३.२४३{४३} ॥
सा तत्र शासने बौद्धे ददौ दानं समादरात् ।
द्वादशाब्द सहस्राणि ब्रह्मचर्यं चचार च ॥ ३३.२४४{४४} ॥
न केस्मिं विगुणेऽभ्यासं चकार सा निरुद्यमा ।
केवलं संवरं धृत्वा त्रिरत्नं सर्वदाभजत् ॥ ३३.२४५{४५} ॥
तस्यायाभूदुपाध्याया भिक्षुणी ब्रह्मचारिणी ।
सा काश्यपेन निर्दिष्टा प्रज्ञावतीगणाग्रगा ॥ ३३.२४६{४६} ॥
तत्समाकर्ण्य सा साध्वी भिक्षुणी चानुमोदिता ।
मनसैवं समाधाय प्रणिधानं व्यधान्मुदा ॥ ३३.२४७{४७} ॥
यथायमुत्तरो विप्रो व्याकृतस्तेन तायिना ।
कलौ शाक्यमुनिर्नाम तथागतो भवेदिटि ॥ ३३.२४८{४८} ॥
तदा तस्य मुनीन्द्रस्य शासने शरणं गता ।
प्रव्रज्यासंवरं धृत्वा चरेयं ब्रह्मचारिकाम् ॥ ३३.२४९{४९} ॥
अहमपि तया तत्र प्रज्ञावतीगणाधिपा ।
भवेय हि यथापीयमुपाध्याया ममाधुना ॥ ३३.२५०{५०} ॥
सदैतत्प्रणिधानेन चरंति सा शुभाशया ।
त्रिरत्नस्मरणं कृत्वा समये मरणं ययौ ॥ ३३.२५१{५१} ॥
यासौ श्रेष्ठिसुता ह्येषा क्षेमा राजसुताधुना ।
यान्मेति भिक्षवो यूयं मन्यध्वं व्रतमेव हि ॥ ३३.२५२{५२} ॥
(र्म् ३८१)
यत्तदा प्रकृतं दानं काश्यपशासनेऽनया ।
एतद्धर्मविपाकेन भवतीयं नृपात्मजा ॥ ३३.२५३{५३} ॥
यच्चापि ह्यनया तत्र ब्रह्मचर्यं सुपालितम् ।
एतत्पुण्यैरिहार्हन्ती भवतीयं किलाऽधुना ॥ ३३.२५४{५४} ॥
यद्यापि ह्यनया तत्र प्रणिधानं कृतं यथा ।
तथेयं भवति ह्यत्र प्रज्ञावतीगणाधिपा ॥ ३३.२५५{५५} ॥
एवं हि यत्कृतं येन तेनैव भुज्यते फलम् ।
अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ ३३.२५६{५६} ॥
नाग्निभिर्दह्यते कर्म क्लिद्यते नोदकैरपि ।
वायुभिः शुष्यते नैव क्षीयते नापि भूमिषु ॥ ३३.२५७{५७} ॥
न प्रणश्यंति कर्माणि जन्मकल्पशतैरपि ।
सामाग्रीं प्राप्य काले हि फलन्ति प्राणिनां खलु ॥ ३३.२५८{५८} ॥
अन्यथापि भवेन्नैव कृतकर्मफलं क्वचित् ।
कृष्णकर्मविपाके हि दुःखतैव सदा भवे ॥ ३३.२५९{५९} ॥
शुभकर्मविपाके तु सुखतैव सदा भवेत् ।
मिश्रितकर्मपाकेन मिश्रितता सदैव हि ॥ ३३.२६०{६०} ॥
यथैव यत्कृतं कर्म तथैव तत्फलं ध्रुवम् ।
एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः ॥ ३३.२६१{६१} ॥
त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ ३३.२६२{६२} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ३३.२६३{६३} ॥
एतन्मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
त्वं चाप्येवं महाराज चर नित्यं शुभे सदा ॥ ३३.२६४{६४} ॥
प्रजाश्चापि तथा राजन् बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ ३३.२६५{६५} ॥
तेन ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् ।
क्रमाद्बोधिं च संप्राप्य संबुद्धपदमाप्नुयाः ॥ ३३.२६६{६६} ॥
इति तेनार्हतादिष्टं श्रुत्वाऽशोकः स भूपतिः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ ३३.२६७{६७} ॥
क्षेमावदानं मनुजा इदं ये शृण्वंति चापि निशामयन्ति ।
ते सर्व एवं सततं सुखानि भुक्त्वा प्रयान्त्येव जिनालयन् ते ॥ ३३.२६८{६८} ॥
++ इति रत्नावदानतत्वे क्षेमावदानं समाप्तम् ++
(र्म् ३८२)
xxxइवारामिकावदान
अथाशोको महीपालः कृताञ्जलिः प्रमोदितः ।
उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ ३४.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथादेष्टुञ्च मेऽर्हति ॥ ३४.२{२} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः ।
तमशोकं महाराजं समालोक्यैवमादिशत् ॥ ३४.३{३} ॥
शृणु साधु महाराज यथा मे गुरुणोदितम् ।
तथात्राहं प्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ ३४.४{४} ॥
तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतो शास्ता धर्मराजस्तथागतः ॥ ३४.५{५} ॥
श्रावकैर्भिक्षुभिः सार्द्धं भिक्षुणीभिरुपासकैः ।
उपासिकागणैश्चापि चैलकैश्चापि तीर्थिकम् ॥ ३४.६{६} ॥
बोधिसत्वैर्महासत्वैः सर्वसत्वहितंकरम् ।
ऋषिभिर्योगिभिश्चापि यतिभिर्ब्रह्मचारिभिः ॥ ३४.७{७} ॥
श्रावस्त्या बहिरुद्याने जेतारण्ये जिनाश्रमे ।
विहारे व्यहरल्लोकहितार्थं धर्ममादिशन् ॥ ३४.८{८} ॥
तत्सद्धर्मामृतं पातुं सर्वे सत्वाः प्रमोदिताः ।
शक्रब्रह्मादयो देवाः सर्वलोकाधिपा अपि ॥ ३४.९{९} ॥
नगेन्द्रा असुरेन्द्राश्च यक्षगंधर्वकिन्नराः ।
सिद्धा विद्याधराः साध्या गरुडा राक्षसा अपि ॥ ३४.१०{१०} ॥
ब्राह्मणाः क्षत्रिया भूपा राजपुत्राश्च मंत्रिणः ।
अमात्याः श्रेष्ठिनः पौर गृहाधिपा महाजनाः ॥ ३४.११{११} ॥
वणिजः सार्थवाहाश्च शिल्पिनोऽपि शुभार्थिनः ।
ग्राम्या जानपदाश्चान्यलोकाः कार्पटिकादयः ॥ ३४.१२{१२} ॥
सर्वे ते समुपाश्रित्य विहारे तं मुनीश्वरम् ।
दृष्ट्वा साञ्जलयो नत्वा मुदिताः समुन्पाविशन् ॥ ३४.१३{१३} ॥
तत्र सर्वेऽपि ते नाथं तमभ्यर्च्य यथाक्रमम् ।
त्रिधा प्रदक्षिणीकृत्य प्रणत्वा समुपाश्रयन् ॥ ३४.१४{१४} ॥
तदा तान् समुपासीनां दृष्ट्वा स भगवाञ्जिनः ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ ३४.१५{१५} ॥
तत्सद्धर्मामृतं पीत्व सर्वे ब्रह्मादयोऽपि ते ।
लोकाः सत्यमिति मत्वा प्राभ्यनन्दन् प्रबोधिताः ॥ ३४.१६{१६} ॥
तस्मिन्नवसरे कश्चित्ऽसौऽथ आरमिकः सुधीः ।
दन्तकाष्ठं समादाय श्रावस्त्यां समुपाविशत् ॥ ३४.१७{१७} ॥
तत्र नैमित्तिको द्वारेऽवस्थितस्तमागतम् ।
दृष्ट्वा तद्दन्तकाष्ठं च समालोक्यैवमुपागमत् ॥ ३४.१८{१८} ॥
(र्म् ३८३)
वतैतद्दन्तकाष्ठं यो भक्षयिष्यति मानवः ।
नूनं णतरणं भोग्यं प्रभोक्ष्यति स भाग्यवान् ॥ ३४.१९{१९} ॥
एतत्तेनोदितं श्रुत्वा स आरमिक उन्मुखः ।
तत्रैव क्षणमाश्रित्य मनसैवं व्यचिन्तयत् ॥ ३४.२०{२०} ॥
कस्मायेतदहं दद्यां संमानो येन मे भवेत् ।
एवं ध्यात्वा पुनस्तत्र मनसैवं व्यचिन्तयत् ॥ ३४.२१{२१} ॥
यदयं भगवान् बुद्धः सर्वत्रैधातुकाधिपः ।
जगच्छास्ता जगन्नाथो धर्मराजो मुनीश्वरः ॥ ३४.२२{२२} ॥
यदस्मै दीयते किञ्चिदपि तत्फलमुत्तमम् ।
अप्रमेयमसंख्येयं महत्ख्यातं श्रुतं मया ॥ ३४.२३{२३} ॥
तदस्मै धर्मराजाय बुद्धाय सर्वतायिने ।
जगच्छास्त्रे मुनीन्द्राय दद्यां काष्ठमिदं न्वहम् ॥ ३४.२४{२४} ॥
इति ध्यात्वा विनिश्चित्य स आरमिक आदरात् ।
दन्तकाष्ठं तदादाय जेतोद्याने उपाचरत् ॥ ३४.२५{२५} ॥
तत्र तं श्रीघनं दृष्ट्वा भिक्षुसंघपुरस्कृतम् ।
विहारे स प्रसन्नास्याः प्रविष्टः समुपाचरत् ॥ ३४.२६{२६} ॥
तत्र तस्य मुनीन्द्रस्य दन्तकाष्ठं तदादरात् ।
उपस्थाप्य प्रणत्वा स सांजलिरेवमब्रवीत् ॥ ३४.२७{२७} ॥
भगवन्नाथ सर्वज्ञ ममानुग्रहकारणात् ।
दन्तकाष्ठमिमं शास्ता भवानादातुमर्हति ॥ ३४.२८{२८} ॥
एवं संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
दृष्ट्वा तत्काष्ठमादाय तस्याग्रतो व्यसृजत ॥ ३४.२९{२९} ॥
तदा तत्काष्ठमादाय स उद्यानपालको मुदा ।
तत्रैव सौगतारामे निखन्य निदधे भुवि ॥ ३४.३०{३०} ॥
तत्र निहितमात्रं तत्काष्ठं मूलप्रतिष्ठितम् ।
महच्छाखाहरित्पत्रपुष्पफलसमृद्धितः ॥ ३४.३१{३१} ॥
तत्क्षणेन महान् वृक्षो न्यग्रोधः परिमण्डलः ।
सर्वसत्वमनोहारी महामेघ इवाभवत् ॥ ३४.३२{३२} ॥
तत्र स भगवान् गत्वा तच्छायां समुपाश्रयन् ।
सभामध्यासनासीनः सद्धार्मं समुपादिशत् ॥ ३४.३३{३३} ॥
एतदद्भुतमालोक्य सर्वे लोकाः सविस्मयाः ।
तत्सद्धर्मामृतं पीत्वा प्राभ्यनन्दन् प्रमोदिताः ॥ ३४.३४{३४} ॥
तदा तत्र महात्मा स गृहीशोऽनाथपिण्डदः ।
समागत्य मुनीन्द्रं तं नत्वैवं प्रार्थयन्मुदा ॥ ३४.३५{३५} ॥
भगवन्नहमद्येह भगवन्तं ससांघिकम् ।
पूजयितुं समिछामि तन्ममानुग्रहं कुरु ॥ ३४.३६{३६} ॥
इति तत्प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तथेति तं समालोक्य तूष्णीं भूत्वाध्युवास तत् ॥ ३४.३७{३७} ॥
तदधिवासितं शास्त्र मत्वा सोऽनाथपिण्डदः ।
तत्रासनानि प्रज्ञप्य तत्सामग्रीं समानयत् ॥ ३४.३८{३८} ॥
तदा स भगवान्स्तत्र ससांघिकः समुत्थितः ।
तद्दत्तं पाद्यमादाय स्वस्वासने समाश्रयत् ॥ ३४.३९{३९} ॥
तत्रासनसमासीनं तं मुनीन्द्रं ससांघिकम् ।
(र्म् ३८४)
दृष्ट्वा स मुदितः श्रेष्ठी यथाक्रमं समर्चयेत् ॥ ३४.४०{४०} ॥
ततः शतरसै भोज्यैः सुप्रणीतैः स दीनभृत् ।
संबुद्धप्रमुखं सर्वसंघं तं समतर्पयत् ॥ ३४.४१{४१} ॥
ततः स श्रीघनं सर्वसंघं च परितुष्टितम् ।
मत्वा पनीयपात्राणि तद्धस्तादीं व्यशोधयत् ॥ ३४.४२{४२} ॥
ततः क्रमुकताम्बूलगणौषधीरसायनम् ।
दत्वा स सांजलिर्नत्वा ससंघं तमुपाश्रयत् ॥ ३४.४३{४३} ॥
ततः स भगवान् दृष्ट्वा तं गृहस्थमुपस्थितम् ।
आदिमध्याम्टकल्याणं साशिषं धर्ममादिशत् ॥ ३४.४४{४४} ॥
तद्दृष्ट्व समहोत्साहमारमिकः स मोहितः ।
नैमित्तिकसमाख्यातं सत्यं मत्वाभ्यनंदत ॥ ३४.४५{४५} ॥
ततः स सुप्रसन्नात्मा आरामिकः प्रमोदितः ।
समुत्थाय मुनीन्द्रस्य पुरतः समुपाचरत् ॥ ३४.४६{४६} ॥
तत्र तस्य मुनीन्द्रस्य पादयोः स कृताञ्जलिः ।
प्रणत्वा मनसा बोधिप्रणिधानं व्यधान्मुदा ॥ ३४.४७{४७} ॥
यदस्मै धर्मराजाय जगच्छास्त्रै जगद्भुते ।
मयात्र श्रद्धया दत्तकाष्ठमात्रं समर्प्पितम् ॥ ३४.४८{४८} ॥
एतत्पुण्यविपाकेन चरित्वाहं शुभे सदा ।
प्रत्येकां बोधिमासाद्य निर्वृतिपदमाप्नुयाम् ॥ ३४.४९{४९} ॥
इति तेन सुचित्तेन प्रणिधानं कृतं सदा ।
मत्वा स भगवान् स्मितं विससर्ज सरश्मिकम् ॥ ३४.५०{५०} ॥
ततस्ते रश्मयः सर्वा मुनिमुखाब्जनिःसृताः ।
नाना वर्णाः समन्तेषु भुवनेषु स भासयन् ॥ ३४.५१{५१} ॥
ये चाधो भुवने याताः सर्वत्र नरकेषु ते ।
अवभास्य सुखीकृत्य नारकीयान् प्रचेरिरे ॥ ३४.५२{५२} ॥
तद्रश्मिसंपरिस्पृष्टाः सर्वे ते नरकस्थिताः ।
निर्दुःखाः सुखसंपन्ना विस्मिता एवमूचिरे ॥ ३४.५३{५३} ॥
अहो चित्रं कथं दुःखं प्रस्रब्धं जायते सुखम् ।
इतश्च्युताः कुहान्यत्र संप्राप्ताः सांप्रतं वयम् ॥ ३४.५४{५४} ॥
इति संदिग्धचित्तानां तेषां नरकवासिनाम् ।
बोधार्थं निर्मितं बुद्धं भगवान् व्यसृजत्तदा ॥ ३४.५५{५५} ॥
तन्निर्मितं मुनिं दृष्ट्वा सर्वे ते नरकस्थितिताः ।
महच्चित्रसमाक्रान्तहृदयाश्चैवमूशिरे ॥ ३४.५६{५६} ॥
नैवान्यत्र गता सर्वे इहैव संस्थिता वयम् ।
किन्त्वयं पुरुषोऽपूर्वदर्शनः समुपागतः ॥ ३४.५७{५७} ॥
नूनमयं महासत्त्वः समीक्ष्यास्मान् सुदुःखिनः ।
कृपया चोदितः सर्वान् समुद्धर्त्तुमिहागतः ॥ ३४.५८{५८} ॥
तदस्य पुरुषस्यात्र सर्वैरस्माभिरादरात् ।
श्रद्धया शरणं गत्वा कर्त्तव्यं भजनं मुदा ॥ ३४.५९{५९} ॥
इति संभाष्य ते सर्वे नारकीया प्रसादिताः ।
तस्य निर्मितबुद्धस्य प्राभजञ्छरणं गताः ॥ ३४.६०{६०} ॥
(र्म् ३८५)
तदैतद्भजनोत्पन्नैः पुण्यैस्ते नरकोत्थिताः ।
निर्मुक्तपातकाः सर्वे शुद्धकाया दिवं ययुः ॥ ३४.६१{६१} ॥
एवं ते रश्मयः सर्वे सर्वान्स्तान्निरयाशृतान् ।
अवभास्य समुद्धृत्य प्रत्याययुर्मुनेः पुरः ॥ ३४.६२{६२} ॥
एवमुर्द्धगता ये च रश्मयस्ते प्रसारिताः ।
अवभास्य दिशः सर्वाः संप्रसुस्रुः सुरालयान् ॥ ३४.६३{६३} ॥
सर्वान् देवालयांश्चैवमवभास्य समन्ततः ।
गत्वाकनिष्ठपर्यन्तं सर्वान् देवानचोदयन् ॥ ३४.६४{६४} ॥
अनित्यं खलु संसारं दुःखशून्यमनात्मकम् ।
पुण्यमेव जगत्सारं मत्वा तच्चिनुतादरात् ॥ ३४.६५{६५} ॥
निष्क्रामतारभध्वं तद्युज्यध्वं बुद्धशासने ।
मारसैन्यान् विनिर्जित्य चरध्वं संवरे सदा ॥ ३४.६६{६६} ॥
योऽप्रमत्तो मुनीन्द्रस्य शासने संचरिष्यते ।
स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ ३४.६७{६७} ॥
इत्युद्घोषैः सुरान् सर्वाञ्चोदयित्वा समन्ततः ।
सर्वे ते रश्मयस्तत्र पुरः प्रत्याययुर्मुनेः ॥ ३४.६८{६८} ॥
तत्र ते रश्मयः सर्वेऽप्येकीभूताश्च पिण्डिताः ।
मुनिं प्रदक्षिणीकृत्य तदूर्णायां समाविशन् ॥ ३४.६९{६९} ॥
तद्दृष्ट्वा सभासीनाः सर्वे लोकाः सविस्मयाः ।
किं शास्तेहादिशेद्धर्ममित्येवं समचिन्तयत् ॥ ३४.७०{७०} ॥
अथानंदः समुत्थाय कृतांजलिः सविस्मयः ।
भगवन्तं तमानम्य प्रार्थयदेवमादरात् ॥ ३४.७१{७१} ॥
नाहेतुप्रत्ययं शास्तर्हसन्ति सुगताः क्वचित् ।
तत्किमर्थञ्जगन्नाथ भवान् हसति सांप्रतम् ॥ ३४.७२{७२} ॥
यद्भवतः स्मितं दृष्ट्वा सर्वे इमे सभाजनाः ।
विस्मयसमुपाक्रान्तचित्तास्तिष्ठन्ति सर्ववित् ॥ ३४.७३{७३} ॥
तद्यदर्थे भवान् स्मितं मुंचति तज्जगद्गुरो ।
समुपादिश्य सर्वेषां संशयं छेतुमर्हति ॥ ३४.७४{७४} ॥
इत्यानन्दोदितं श्रुत्वा भगवान्मुनीश्वरः ।
तमानन्दं सभां चापि समालोक्यैवमादिशत् ॥ ३४.७५{७५} ॥
एवमेतत्तथानंद यथाख्यातं त्वया किल ।
नाहेतुप्रत्ययं बुद्धा मुञ्चंति हि स्मितं क्व चित् ॥ ३४.७६{७६} ॥
यदर्थेऽहमिहानन्द स्मितं मुञ्चामि सांप्रतम् ।
तत्सत्यं संप्रवक्ष्यामि शृणुत यूयमादरात् ॥ ३४.७७{७७} ॥
यदयं श्रद्धयानन्द सुधीरुद्यानपालकः ।
दन्तकाष्ठमुपस्थाप्य सत्कारं कुरुते मम ॥ ३४.७८{७८} ॥
एतत्पुण्यविपाकेन कल्पान्यपि त्रयोदश ।
विनिपातमयं क्वापि गमिष्यति कदा चन ॥ ३४.७९{७९} ॥
सर्वदायं महासत्वः सद्धर्मसाधनोद्यतः ।
सद्गुणी सुखसंभोक्ता बोधिसत्वो भविष्यति ॥ ३४.८०{८०} ॥
ततोऽन्तेऽयं महाभिज्ञः परिशुद्धत्रिमण्डलः ।
प्रत्येकं बोधिमासाद्य प्रत्येकसुगतो जिनः ॥ ३४.८१{८१} ॥
विमलो नाम सत्वानां हितकरी शुभंकरः ।
(र्म् ३८६)
ब्रह्मचारी विशुद्धात्मा लोकनाथो भविष्यति ॥ ३४.८२{८२} ॥
एवमानंद विज्ञाय संबुद्धशासने क्वचित् ।
किञ्चिद्वापि प्रदातव्यं तत्फलं स्यान्महत्तरम् ॥ ३४.८३{८३} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिकादयः ।
सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥ ३४.८४{८४} ॥
सोऽपि चारामिकः श्रुत्वा व्याकृतं सुगतेन तत् ।
त्रिरत्नभजनं कर्तुं समैछन्मुदितः सदा ॥ ३४.८५{८५} ॥
तच्छ्रुत्वा स महादाता गृहस्थोऽनाथपिण्डदः ।
साञ्जलिस्तं जिनं नत्वा मुदितः स्वगृहं ययौ ॥ ३४.८६{८६} ॥
ततः स भगवांच्छास्ता समुत्थाय ससांघिकः ।
स्वासनसमुपासीनस्तस्थौ ध्यानसमाहितः ॥ ३४.८७{८७} ॥
ततः आरमिकः सोऽपि सर्वादा संप्रमोदितः ।
त्रिरत्नभजनं कुर्वन् प्राचरत्समुपस्थितः ॥ ३४.८८{८८} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
त्वयाप्येवं महाराज भज रत्नत्रयं सदा ॥ ३४.८९{८९} ॥
लोकाश्चापि तथा राजं बोधयित्वा प्रयत्नतः ।
त्रिरत्नभजनोत्साहे योजनीयास्त्वया सदा ॥ ३४.९०{९०} ॥
तेन ते मङ्गलं नित्यं सर्वत्रापि भवेत्सदा ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३४.९१{९१} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ ३४.९२{९२} ॥
आरमिकस्येदमिहावदानं शृण्वन्ति ये ये च निशामयन्ति ।
ते सर्वमेवं शुभसत्सुखानि भुक्त्वा प्रयआस्यन्ति जिनालयन् ते ॥ ३४.९३{९३} ॥
++ इति रत्नावदानतत्वे आरमिकावदानं समाप्तम् ++
(र्म् ३८७)
xxxव्शोभितावदान
अथाशोको महाराजः कृतांजलिपुटो मुदा ।
उपगुप्तं यतिं नत्वा प्रार्थयेच्चैवमादरात् ॥ ३५.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथाख्यातुं च मेऽर्हति ॥ ३५.२{२} ॥
इति संप्रार्थितं तेन श्रुत्वा सोऽर्हं सुधीर्यतिः ।
उपगुप्तो नरेंद्रं तं समालोक्यैवमब्रवीत् ॥ ३५.३{३} ॥
शृणु राजन्महाभाग यथा मे गुरुभाषितम् ।
तथात्र हि प्रवक्ष्यामि तव चित्ताभिबोधने ॥ ३५.४{४} ॥
तद्यथा भगवाच्छास्ता शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञोऽर्हञ्जगन्नाथो धर्मराजस्तथागतः ॥ ३५.५{५} ॥
संबुद्धः स तथा तत्र पुरे कपिलवस्तुनि ।
न्यग्रोधरुचिरारामे विजहार ससांघिकः ॥ ३५.६{६} ॥
तस्मिंश्च समये तत्र पुरे कपिलवस्तुनि ।
शाक्य आसीन्महासाधुः श्रीमान् यक्षाधिपोपमः ॥ ३५.७{७} ॥
सर्वलोकप्रधानाख्यः सर्वद्रव्यसमृद्धिमान् ।
तस्य भार्या सुरूपाख्या सुंदरी रतिसंनिभा ॥ ३५.८{८} ॥
सुभाविनी रमा कान्ता स्वकुलधर्मचारिणी ।
तया सह समारक्तः स श्रीमान् परिचारयन् ॥ ३५.९{९} ॥
यथाकामं सुखं भुक्त्वा रराम संप्रमोदितः ।
ततः स्वापन्नसत्वाभूत्सा सुरूपा प्रगर्भिता ।
क्रमाद्वृद्धोदरा पाण्डुवर्णा स्वल्पाशिनी कृशा ॥ ३५.१०{१०} ॥
ततः सा समये सूत दारकं दिव्यसुंदरम् ।
दर्शनीयं सुभद्राङ्गं प्रासादिकं मनोहरम् ॥ ३५.११{११} ॥
तस्य जन्मन्यनेकानि महाश्चर्यकराण्यपि ।
प्रादुर्भूतानि तैः सर्वं नगरं परिशोभितम् ॥ ३५.१२{१२} ॥
तमभिशोभितं जातं श्रुत्वा स जनको मुदा ।
सहसोपेत्य संपश्यन्स्तस्थौ चित्रान्विताशयः ॥ ३५.१३{१३} ॥
ततः स मुदितो ज्ञातीनाहूय सह वांधवैः ।
कृत्व जातिमहं तस्य नामा हि ख्यातुमब्रवीत् ॥ ३५.१४{१४} ॥
भवन्तो ज्ञातयः सर्वे दृष्ट्वास्य लक्षणं यथा ।
तथा नामप्रसिद्धेन व्यवस्थापितुमर्हथ ॥ ३५.१५{१५} ॥
इति तेनोदितैः श्रुत्वा सर्वे ते ज्ञातयस्तथा ।
तस्य निमित्तमालोक्य तं शाक्यमेवमब्रुवन् ॥ ३५.१६{१६} ॥
साधो यज्जायते आत्माभैः शोभयति पुरं ततः ।
शोभित इति नामास्य भवतु प्रथितं भुवि ॥ ३५.१७{१७} ॥
इति तै ज्ञातिभिः सर्वे समाख्यातं निशम्य सः ।
तथा तेनाभिधानेन प्राख्यापयत्तमात्मजम् ॥ ३५.१८{१८} ॥
(र्म् ३८८)
ततः शोभितोऽष्टाभिर्धात्रीभिः प्रातिपालितः ।
परिपुष्टोऽभिवृद्धोऽभू ह्रदारुहाम्बुजं यथा ॥ ३५.१९{१९} ॥
यदा सो दारकः प्रौढः कुमारत्वमवाप्तवान् ।
तदा पित्रा स विद्यार्थी गुरुहस्ते समर्प्पितः ॥ ३५.२०{२०} ॥
ततः स गुरुणा शास्त्रा क्रमाल्लिपिरशिष्यते ।
तथाभिशिष्यमाणः स सर्वविद्यान्तमाययौ ॥ ३५.२१{२१} ॥
ततः स शोभितो धीमान् सर्वविद्यां विचक्सणः ।
तीर्थिकवादसंरक्तो विरक्तोऽभूद्गृहाश्रमे ॥ ३५.२२{२२} ॥
सदा स तीर्थिकारामे गत्वा स तीर्थिकैः सह ।
शास्त्रसंचोदनोत्साहै रेमे जयन् प्रवादिनः ॥ ३५.२३{२३} ॥
तस्मिंश्च समये तत्र न्यग्रोधरुचिराश्रमम् ।
स भगवान् सभासीनो धर्ममादेष्टुमारभत् ॥ ३५.२४{२४} ॥
तदा ते भिक्षवः सर्वे भिक्षुण्योऽपि समागताः ।
व्रतिनश्चैलकाश्चान्ये उपासका उपासिकाः ॥ ३५.२५{२५} ॥
बोधिसत्वा महासत्वास्तथान्ये श्रावका अपि ।
तत्सद्धर्मामृतं पातुं सर्वे ते समुपाचरन् ॥ ३५.२६{२६} ॥
तत्र तं श्रीघनं नत्वा परिवृत्य समंततः ।
पुरस्कृत्य समालोक्य सर्वे ते उपतस्थिरे ॥ ३५.२७{२७} ॥
तदान्येऽपि समायाता ब्रह्मशक्रादयः सुराः ।
चत्वारो लोकपालाश्च सर्वे लोकाधिपा अपि ॥ ३५.२८{२८} ॥
सिद्धा विद्याधराश्चापि यक्षगंधर्वकिन्नराः ।
रक्षसा गरुडा नागास्तथान्येऽपि महर्द्धिकाः ॥ ३५.२९{२९} ॥
यतयो योगिनश्चापि निर्ग्रन्थास्तीर्थिका अपि ।
ऋषयो ब्राह्मणाश्चापि तापसा ब्रह्मचारिणः ॥ ३५.३०{३०} ॥
राजानः क्षत्रिया वैश्या अमात्या मंत्रिणो जनाः ।
श्रेष्ठिनो धनिनः पौराः सार्थवाहा महाजनाः ॥ ३५.३१{३१} ॥
वणिजः शिल्पिनश्चापि तथान्यदेशवाशिनः ।
ग्राम्या जानपदाश्चापि तथा कार्पटिका अपि ॥ ३५.३२{३२} ॥
सर्वे ते समुपागत्य दृष्ट्वा तं श्रीघनं मुदा ।
यथाक्रमं समभ्यर्च्य नत्वा कृत्वा प्रदक्षिणाम् ॥ ३५.३३{३३} ॥
सांजलयः पुनर्नत्वा परिवृत्या समंततः ।
तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ ३५.३४{३४} ॥
ततः स शोभितश्चापि तच्छ्रुत्वा कौटुकान्वितः ।
तत्र तां पर्षदं द्रष्टुं सहसा समुपाचरत् ॥ ३५.३५{३५} ॥
तत्र स सहसोपेत्य प्राद्रक्षीत्तं मुनीश्वरम् ।
सर्वलोकसभामध्यसमासीनं प्रभास्वरम् ॥ ३५.३६{३६} ॥
द्वात्रिंशल्लक्षणाशीतिव्यंजनपरिभूषितम् ।
व्यामप्रभासमुद्भासं शतसूर्याधिकप्रभम् ।
सौम्यं शान्तेन्द्रियं कान्तं समंतभद्ररूपिकम् ।
दृष्ट्वा स सुप्रसन्नात्मा नत्वा कृत्वा प्रदक्षिणाम् ॥ ३५.३७{३७} ॥
तद्धर्मदेशनां श्रोतुं तत्रैकान्ते उपाश्रयत् ।
तदा स भगवान् दृष्ट्वा तां सर्वां समुपस्थितान् ॥ ३५.३८{३८} ॥
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ।
तदार्यधर्ममाकर्ण्य सर्वे ते स सुरादयः ॥ ३५.३९{३९} ॥
(र्म् ३८९)
लोका धर्मविशेषत्वमाज्ञाय प्रतिबोधिताः ।
बोधिचित्तं समाधाय त्रिरत्नभजनोद्यताः ॥ ३५.४०{४०} ॥
सर्वसत्वहितार्थेन बभूवुर्बोधिचारिणः ।
तदा स शोभितश्चापि श्रुत्वार्यसत्यमुत्तमम् ॥ ३५.४१{४१} ॥
प्रबोधितः प्रसन्नात्मा संसारविरतो भवान् ।
सत्कायदृष्टिभूमीन्ध्रं विंसतिशिखरोद्गमम् ॥ ३५.४२{४२} ॥
हित्वा ज्ञानासिना श्रोतआपत्तिफलमाप्तवान् ॥ ३५.४३{४३} ॥
दृष्टसत्यो विशुद्धात्मा सद्धर्मगुणलालसः ।
संबुद्धपदसंप्राप्त्यै प्रव्रजितुं समैछत ॥ ३५.४४{४४} ॥
ततः स समुपाश्रित्य कृतांजलिपुरोगतः ।
तं मुनीन्द्रं जगन्नाथं स्वैवं प्रार्थयन्मुदा ॥ ३५.४५{४५} ॥
भगवन्नाथ सर्वज्ञ भवतां शरणं गतः ।
प्रव्रजितुं समिछामि तत्कृपया प्रसीदतु ॥ ३५.४६{४६} ॥
इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
शोभितं तं समालोक्य समामंत्र्यैवमादिशत् ॥ ३५.४७{४७} ॥
यदि त्वं शासने बौद्धे प्रव्रजितुं समिछसि ।
पितुराज्ञां समासाद्य प्रेहि दास्यामि ते व्रतम् ॥ ३५.४८{४८} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स शोभितो मुदा ।
पादौ तस्य मुनेर्नत्वा सहसा निर्ययौ ततः ॥ ३५.४९{४९} ॥
तत्र स स्वगृहे गत्वा पादौ नत्वा पुरः स्थितः ।
पित्रोरेतत्समाख्याय प्रार्थयदेवमादरात् ॥ ३५.५०{५०} ॥
ताताहमद्य गछामि न्यग्रोधरुचिरे वने ।
तत्र तं श्रीघनं बुद्धं पश्यामि पर्षदाश्रितम् ॥ ३५.५१{५१} ॥
धन्यास्ते श्रावकाः सर्वे भिक्षवो भद्रिकाशिकाः ।
शांतेंद्रियाः समाचारा अर्हन्तो ब्रह्मचारिणः ॥ ३५.५२{५२} ॥
तेषामेव हि संसारे साफल्यं जन्म मानुषे ।
ये भजन्ति मुनीन्द्रस्य शासने शरणं गताः ॥ ३५.५३{५३} ॥
तेषां चैवं सुसारं स्यान् संसारे भवचारणे ।
ये सद्धर्मं मुनीन्द्रस्य श्रुत्वा चरंति संवरम् ॥ ३५.५४{५४} ॥
तेषां चापि भवे सारं जन्मद्रव्यगुणार्जनम् ।
सत्कारैः सांघिके सेवां कृत्वा चरन्ति ये व्रतम् ॥ ३५.५५{५५} ॥
किं तेषां मानुषे जन्म निस्फलं सर्वसाधनम् ।
ये ध्यात्वापि जिनं स्मृत्वा भजंति न कदा चन ॥ ३५.५६{५६} ॥
तेषां च किं भवे जन्म केवलं पापसाधनम् ।
ये न शृण्वंति सद्धर्मं संबुद्धभाषितं क्व चित् ॥ ३५.५७{५७} ॥
तेषां च निस्फलं जन्म मानुष्ये दुःखसाधनम् ।
ये न कुर्वन्ति सत्कारं सांघिकेषु कदा चन ॥ ३५.५८{५८} ॥
एवं ये पशुवद्गेहे भोग्यं भुक्त्वा वसंति वै ।
तेषां किं जन्म संसारे पापदुःखार्थमेव हि ॥ ३५.५९{५९} ॥
एवं ते प्राणिनः सर्वे भ्रमंति भवसागरे ।
यतो यैर्दृश्यते क्वापि त्रिरत्नं न कदा चन ॥ ३५.६०{६०} ॥
तथास्माकमपि चात्र संसारे जन्म निस्फलम् ।
संपदोऽपि निरर्था हि त्रिरत्नभजनं विना ॥ ३५.६१{६१} ॥
(र्म् ३९०)
धर्मार्थजन्मसंसारे यदि धर्मो न लभ्यते ।
किमेवं जीवितेनापि केवलाशुभसाधिना ॥ ३५.६२{६२} ॥
तद्वरं मृत्युरद्येवं विना धार्मार्थसाधनम् ।
किं तेन जीवितेनापि यन्मिथ्यादुःखसाधनम् ॥ ३५.६३{६३} ॥
न प्राप्तं भगवत्पूजा महोत्साहं कदापि यैः ।
धर्मोऽपि न श्रुतः कश्चिन्न काराः सांघिके कृताः ॥ ३५.६४{६४} ॥
भीतेभ्यो नाभयं दत्तं दरिद्राशा न पूरिता ।
दुःखाय केवलं मातुर्गतास्ते गर्भशल्यताम् ॥ ३५.६५{६५} ॥
धन्यास्ते सुखिनो लोके सुभद्राः शुभभाविनः ।
सत्पुरुषा महात्मानः श्रीमंतः सद्गुणाश्रयाः ॥ ३५.६६{६६} ॥
ये बुद्धे शरणं गत्वा ध्यात्वा स्मृत्वा समाहिताः ।
सद्धर्मामृतमापीय चरन्तः सौगतं व्रतम् ॥ ३५.६७{६७} ॥
सर्वे सत्वहितार्थं च दानं दत्वा यथेप्सितम् ।
दयालवः सुसौम्यांशाः सर्वसत्वहिताशयाः ॥ ३५.६८{६८} ॥
संबोधिसाधनोत्साहसर्वसत्वहितोद्यताः ।
निःक्लेशा विमलात्मानः समाधिनिश्चलाशयाः ॥ ३५.६९{६९} ॥
प्रज्ञावंतो महाधीराः संबोधिरत्नलाभिनः ।
प्रव्रज्याव्रतिनार्हन्तो निर्विकल्पा निरंजनाः ॥ ३५.७०{७०} ॥
भिक्षाहारा निरातंका निःशंका दमितेंद्रियाः ।
निःशेषनिर्जिताविद्याः प्राप्तविद्या विशारदाः ॥ ३५.७१{७१} ॥
स्वछंदचारिणः सन्तः सर्वसत्वात्मभाविनः ।
निःस्पृहा विरतोत्साहा निर्दैन्यः क्षुभिताशयाः ॥ ३५.७२{७२} ॥
निर्मदा निरहंकारा आर्या निरभिमानिनः ।
निर्माया निर्ममाखड्गा निःसंगा निःपरिग्रहाः ॥ ३५.७३{७३} ॥
मुण्डिता खिक्खिरीपात्रदधानाश्चीवरावृताः ।
यतिनः सुगताकारास्त्रियानमोक्षदेशकाः ॥ ३५.७४{७४} ॥
स्वपरात्महितार्थेन संबोधिमार्गदेशकाः ।
वंद्याः पूज्याः प्रमान्याश्च चतुर्ब्रह्मविहारिणः ॥ ३५.७५{७५} ॥
ते एव सुगतिं यांति यांति चान्ते जिनालये ।
संबोधिं च समासाद्य भवेयुः सुगता अपि ॥ ३५.७६{७६} ॥
इति सत्यं मुनीन्द्रेण समादिष्टं निशम्य मे ।
मनोऽत्र भवसंचारे चरितुं नाभिवांछति ॥ ३५.७७{७७} ॥
त्रिरत्नशरणं कृत्वा संबुद्धशासने शुभे ।
प्रव्रज्यासंवरं धृत्वा चरितुमिछति सांप्रतम् ॥ ३५.७८{७८} ॥
किं च मे जन्मकाले यदिदं युः शोभितारुषा ।
संपदोऽपि प्रवर्द्धन्ते दिव्याभिसुंदरास्मि च ॥ ३५.७९{७९} ॥
तत्सर्वं मे पुरा भद्रकर्मधर्मविपाकतः ।
संपद्यतेऽधुना नूनं विद्धि मा त्वन्यथा पित ॥ ३५.८०{८०} ॥
एतन्नूनमिति मत्वा भूयोऽपि मे मनस्तथा ।
सद्धर्मसाधनं कर्तुमिछति सौगतं व्रतम् ॥ ३५.८१{८१} ॥
एतद्धेतोरहं तात प्रार्थयाम्येवमादरात् ।
तदनुज्ञां प्रदत्तं मे यदि वांछास्ति वा शुभे ॥ ३५.८२{८२} ॥
एतत्पुण्यविभागेन यूयमपि सुरालयम् ।
गत्वा दिव्यसुखान्येव भुक्त्वा चिरं निवत्स्यथ ॥ ३५.८३{८३} ॥
(र्म् ३९१)
ततः काले दिवश्च्युत्वा मर्त्यलोक इहागताः ।
त्रिरत्नभजनं कृत्वा चरिष्यथ शुभे सदा ॥ ३५.८४{८४} ॥
तच्छुभपुण्यपाकेन शुद्धाशयाः शुभाविनः ।
संबुद्धशासने गत्वा सद्धर्मं श्रोष्यथादरात् ॥ ३५.८५{८५} ॥
ततस्तत्पुण्यपाकेन संघानां शरणं गताः ।
सत्कारैः समुपस्थित्वा भजिष्यथ समादरात् ॥ ३५.८६{८६} ॥
ततस्तत्पुण्यपाकेन बोधिचित्तमवाप्स्यथ ।
ततो लोकहितार्थेषु बोधिचर्यां चरिष्यथ ॥ ३५.८७{८७} ॥
ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् ।
ततो बोधिं समासाद्य संबुद्धपदमाप्स्यथ ॥ ३५.८८{८८} ॥
एवं विज्ञाय संबुद्धपदसंप्रतिपत्तये ।
तदनुज्ञां प्रदत्तं मे संबुद्धपदवांछिरे ॥ ३५.८९{८९} ॥
अनित्यं खलु सम्षारं जीवितं क्षणभंगुरम् ।
क्षणभंगिशरीरं च सर्वेषां भवचारिणाम् ॥ ३५.९०{९०} ॥
संपदोऽपि स्थिरा नैव सत्क्षणं च सुदुर्लभम् ।
मानुष्ये सर्वदा जन्म लभ्यते न सुदुर्ल्लभम् ॥ ३५.९१{९१} ॥
तत्रापि दुर्लभा धर्मे मतिर्जातापि न स्थिराः ।
धर्मं तु सौगतैः श्रेष्ठं यत्संबोधिपदसाधनम् ॥ ३५.९२{९२} ॥
तत्संबोधिपदप्राप्त्यै धर्ममिछामि सौगतम् ।
तदनुज्ञां प्रदत्वा मे मनो हर्षयत द्रुतम् ॥ ३५.९३{९३} ॥
धर्मं विनात्र किं सारं भोग्यैरर्थैर्गुणैरपि ।
किं कामसुखं भुक्त्वा स्थित्वा च पशुवद्गृहे ॥ ३५.९४{९४} ॥
तदनुज्ञां न दत्यश्येन् स्थास्यामि न गृहेऽप्यहम् ।
सर्वान् परिग्रहान्स्त्यक्त्वा गमिष्यामि तपोवनम् ॥ ३५.९५{९५} ॥
तत्र को निर्जने स्थित्वा चरित्वा दुष्करं तपः ।
अनाहारो मरिष्येऽहं सर्वत्र मरणं ध्रुवम् ॥ ३५.९६{९६} ॥
कस्य मृत्यु भवे नास्ति कुत्र मृत्योर्भयं न हि ।
सर्वलोकान् ग्रसेन्मृत्युरेकोऽपि स महावलिः ॥ ३५.९७{९७} ॥
तदत्र किं विषादेन यद्दमोपायमत्र न ।
अवश्यं भाविनो भावा भवन्ति महतामपि ॥ ३५.९८{९८} ॥
मृत्युकाले सहायोऽपि कोऽपि नास्ति सहानुगः ।
धर्म एव तदैको हि सहायः स्यात्सहानुगः ॥ ३५.९९{९९} ॥
एवं मत्वात्र संसारे स्थातुं नेछन्ति सज्जनाः ।
सर्वान् परिग्रहान्स्त्यक्त्वा प्रव्रजन्ति शुभार्थिनः ॥ ३५.१००{१००} ॥
तथाहमपि तन्मृत्युभयं दृष्ट्वाभिशंकितः ।
संबुद्धशरणं गत्वा चरितुं व्रतमुत्सहे ॥ ३५.१०१{१} ॥
इति धर्मे निधेद्धं मा किं चिद्वा वक्तुमर्हथ ।
सुप्रसन्नाधियानुज्ञां प्रदातुमेव मेऽर्हति ॥ ३५.१०२{२} ॥
इति तेनात्मजेनैवं संप्रार्थितं निशम्य तौ ।
पितरौ विस्मयाक्रांतचित्तौ तष्ठतुर्मूर्छितौ ॥ ३५.१०३{३} ॥
ततस्तौ धैर्यमालम्ब्य तमेव स्वात्मजं चिरात् ।
दृष्ट्वा वियोगदुःखार्त्तौ तष्ठतुर्लिखिताविव ॥ ३५.१०४{४} ॥
(र्म् ३९२)
ततः स जनकः शाक्यस्तदुक्तपरिबोधितः ।
गलदश्रुमुखो दृष्ट्वा तं पुत्रमेवमब्रवीत् ॥ ३५.१०५{५} ॥
हा पुत्र किमत्राहं वदेय सांप्रतं खलु ।
यत्त्वमेव सुधीर्विज्ञः पण्डितोऽसि विचक्षणः ॥ ३५.१०६{६} ॥
यत्त्वं शासने बौद्धे प्रव्रजितुं समिछसि ।
तच्छास्तुः शरणं कृत्वा व्रतं चर समाहितः ॥ ३५.१०७{७} ॥
इति पित्रोदितं श्रुत्वा स सोभितः प्रमोदितः ।
पित्रोः पादान् प्रणत्वैव सहसा निर्ययौ गृहात् ॥ ३५.१०८{८} ॥
ततः स सहसा गत्वा न्यग्रोधतरुमण्डिते ।
विहारे सुगतारमे प्रविश्य समुपाचरत् ॥ ३५.१०९{९} ॥
यत्र स पुरतो गत्वा कृतांजलिपुटो मुदा ।
प्रणत्वा तं जगन्नाथं प्रार्थयदेवमादरात् ॥ ३५.११०{१०} ॥
भगवन्नाथ सर्वज्ञ प्राप्यानुज्ञां समाव्रजे ।
तद्भवान् सांप्रतं मह्यं प्रव्रज्यां दातुमर्हति ॥ ३५.१११{११} ॥
भवतां शरणे स्थित्वा प्रव्रज्य सौगतंव्रतम् ।
धृत्वा सदा समादाय चरिष्ये बोधिचारिकाम् ॥ ३५.११२{१२} ॥
इति संप्रार्थितं तेन भगवान् स मुनीश्वरः ।
सव्येन पाणिना तस्य शिरः स्पृष्ट्वैवमादिशत् ॥ ३५.११३{१३} ॥
एहि च वत्स समाधाय व्रतं चरस्व सौगतम् ।
इत्युक्त्वा स मुनीन्द्रः स्वसांघिके तं समग्रहीत् ॥ ३५.११४{१४} ॥
एहीत्युक्ते मुनींद्रेण शोभितोऽभूत्स मुण्डितः ।
खिक्खिरीपात्रविभ्राणः काखायचीवरी यतिः ॥ ३५.११५{१५} ॥
ततः स सुमतिर्भिक्षुः संसारगतिनिस्पृहः ।
भित्वाविद्यागणान् सर्वान् प्राप्तविद्या विशारदः ॥ ३५.११६{१६} ॥
सर्वक्लेशगणां जित्वा साक्षादर्हत्वमाप्तवान् ॥ ३५.११७{१७!} ॥
ततः सोऽर्हन्महाभिज्ञः परिशुद्धत्रिमण्डलः ।
निक्लेशः सुविशुद्धात्मा शुद्धेन्द्रियो जिनांशभृत् ॥ ३५.११८{१८} ॥
निर्विकल्पः समाकारो ब्रह्मचारी निरंजनः ।
संसारलाभसत्कारनिःस्पृहः खसमाशयः ॥ ३५.११९{१९} ॥
स देवासुरलोकानां सर्वेषां भवचारिणाम् ।
मान्यः पूज्योऽभिवंद्यश्च बभूव स जिनात्मजः ॥ ३५.१२०{२०} ॥
तद्दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः ।
भवन्तं प्रणत्वैवं पप्रछुस्तत्पुराकृतम् ॥ ३५.१२१{२१} ॥
भगवन् किं पुरानेन सुकृतं प्रकृतं कुह ।
येनायं सुकुले जातो दिव्यकल्पातिसुंदरः ॥ ३५.१२२{२२} ॥
जन्मनि वास्य जातानि महाद्भुतकराण्यपि ।
यैरेतन्नगरं सर्वं चंद्राभैरिव शोभितम् ॥ ३५.१२३{२३} ॥
भवतां शासने चापि त्रिरत्नशरणं गतः ।
प्रव्रज्यासंवरं धृत्वा यतिरर्हन् भवत्यपि ॥ ३५.१२४{२४} ॥
एतत्सर्वं समाख्याय भवांच्छास्ता जगद्गुरुः ।
सर्वानस्मान् सभांश्चापि प्रबोधयितुमर्हति ॥ ३५.१२५{२५} ॥
इति तैर्भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः ।
सर्वान् यतीन् सभां चापि समालोक्यैवमादिशत् ॥ ३५.१२६{२६} ॥
(र्म् ३९३)
शृणुत भिक्षवः सर्वे यदनेन पुराकृतम् ।
तत्सर्वं समाशख्ये युष्माकं परिबोधने ॥ ३५.१२७{२७} ॥
तद्यथाभूत्पुरा शास्ता क्रकुछन्दस्तथागतः ।
सर्वज्ञोऽर्हं जगन्नाथो धर्मराजो मुनीश्वरः ॥ ३५.१२८{२८} ॥
तदा स भगवान् लोके बोधिचर्यां प्रकाशयन् ।
सद्धर्मं समुपादिश्य प्रचचार समंततः ॥ ३५.१२९{२९} ॥
एवं स भगवां छास्ता कृत्वा सर्वत्र मंगलम् ।
शोभावत्या महापूर्य्या राजधान्या उपाश्रमे ॥ ३५.१३०{३०} ॥
विहारे सौगतावासे समाश्रित्य प्रभासयन् ।
सद्धर्मं समुपादेष्टुं विजहार ससांघिकः ॥ ३५.१३१{३१} ॥
तत्रागत्य समानीनं तं मुनीन्द्रं ससांघिकम् ।
श्रुत्वा शोभो महाराजो द्रष्टुं स समुपाचरत् ॥ ३५.१३२{३२} ॥
तत्र स नृपतिः शोभो दृष्ट्वा तं सुगतं मुनिम् ।
क्रकुछंदं समासीनं भिक्षुसंघपुरस्कृतम् ॥ ३५.१३३{३३} ॥
मुदितः समुपासृत्य कृतांजलिः पुरोगतः ।
प्रणत्वा सुप्रसन्नास्यः प्रार्थयमेवमादरात् ॥ ३५.१३४{३४} ॥
भगवन्नाथ सर्वज्ञ भवाञ्छास्ता जगद्गुरुः ।
तदस्माकं हितार्थेन धर्ममादेष्टुमर्हति ॥ ३५.१३५{३५} ॥
इति संप्रार्थिते तेन राज्ञा स भगवानपि ।
तं शोभं क्षितिपालेंद्रं समालोक्यैवमादिशत् ॥ ३५.१३६{३६} ॥
शृणु राजन् समाधाय सत्वानां हितकारणम् ।
संबोधिसाधनं धर्मं वक्ष्यामि ते शुभार्थतः ॥ ३५.१३७{३७} ॥
अनित्यं खलु संसारे सर्वं शून्यमनात्मकम् ।
मायाक्लेशसमुद्भूतं जगल्लोकमशाश्वतम् ॥ ३५.१३८{३८} ॥
तदत्र किं भवे सारं निरर्थं दुःखसाधनम् ।
इति विज्ञाय राजेन्द्र क्लेशाञ्जित्वा शुभे चर ॥ ३५.१३९{३९} ॥
शुभेन सद्गतिं याया सद्गतौ सर्वदा सुखम् ।
सुखेन सर्वदा भद्रे चरितव्यं तथा भवम् ॥ ३५.१४०{४०} ॥
शुभं संजायते पुण्यात्सर्वत्रापि सदा ध्रुवम् ।
पुण्यं संजायते ह्यादौ संबुद्धदर्शनादपि ॥ ३५.१४१{४१} ॥
एतत्पुण्यानुभावेन सद्धर्मश्रवणं लभेत् ।
तत्सद्धर्मरसास्वादसंसक्तश्च समुत्सहेत् ॥ ३५.१४२{४२} ॥
तदुत्साहात्पुनः श्रोतुमभिलाषः समुद्भवेत् ।
समुद्भूताभिलाषश्च सत्कृत्य मानयेन्मुदा ॥ ३५.१४३{४३} ॥
सद्गुरुं समुपासृत्य सद्धर्मं शृणुयात्सदा ।
तत्सद्धर्मामृतस्वादगुणलब्धः प्रमोदितः ॥ ३५.१४४{४४} ॥
सद्धर्मचारणो भिक्षून् सत्कृत्य मानयेन्मुदा ।
ततस्तद्धर्ममाकर्ण्य संबोधिधर्मवांछितः ।
त्रिरत्नभजनं कृत्वा स्वपरार्थहिते चरेत् ॥ ३५.१४५{४५} ॥
एतत्पुण्यविपाकेन स कुले श्रीसमालये ।
जातो लोकहितार्थेन दानं दद्याद्यथेप्सितम् ॥ ३५.१४६{४६} ॥
तद्दानपुण्यपाकेन स दाता सद्गतिं व्रजेत् ।
सद्गतिस्थः सुखेनैवं सुशीलः संवरं चरेत् ॥ ३५.१४७{४७} ॥
(र्म् ३९४)
तत्सुशीलव्रतोत्पन्नैः पुण्यैः स परिशुद्धधीः ।
सर्वसत्वहितार्थेषु दयालु मैत्रवच्चरेत् ॥ ३५.१४८{४८} ॥
ततस्तत्पुण्यपाकेन स सुधीरो विचक्षणः ।
स्वपरात्महितार्थेन सर्वकार्याणि साधयेत् ॥ ३५.१४९{४९} ॥
एतत्पुण्यविशुद्धात्मा निःक्लेशो विमलाशयः ।
समाधिधरणीविद्यासमाधानः सुधीर्भवेत् ॥ ३५.१५०{५०} ॥
ततस्तत्पुण्यसंभारसंबोधिगुणसार्थभृत् ।
प्रज्ञाब्धिपारमासाद्य बोधिचित्तमणिं लभेत् ॥ ३५.१५१{५१} ॥
तन्मनेरनुभावेन सर्वोपायविधानवित् ।
सर्वसत्वहितो धानं बोधिचर्याव्रतं चरेत् ॥ ३५.१५२{५२} ॥
तत्पुण्यैः स महासत्वः सर्वसत्वशुभंकरः ।
संबोधिप्रणिधानेन सद्धर्माभिरतो भवेत् ॥ ३५.१५३{५३} ॥
ततस्तद्धर्मपूतात्मा दुष्टक्लेशान् विनिर्जयन् ।
सर्वहितार्थसंभर्ता महाभिज्ञा वली भवे ॥ ३५.१५४{५४} ॥
ततो मारगणाञ्जित्वा परिशुद्धत्रिमण्डलः ।
सोऽर्हन् संबोधिसंप्राप्तः संबुद्धपदमाप्नुयात् ॥ ३५.१५५{५५} ॥
ततः स सुगतः शास्ता कृत्वा धर्ममयं जगत् ।
बोधिमार्गे प्रतिष्ठाप्य निर्वृतः स्वालयं व्रजेत् ॥ ३५.१५६{५६} ॥
ततः स स्वालये लीनो धर्मधात्वीश्वरो जिनः ।
विश्वरूपा विशुद्धाभज्योतिरूपो निरंजनः ॥ ३५.१५७{५७} ॥
एवं विज्ञाय राजेन्द्र संबुद्धपदवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ ३५.१५८{५८} ॥
तथा तं सर्वदा भद्रं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमात्संबोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ ३५.१५९{५९} ॥
इति शास्त्रा समादिष्टं श्रुत्वा शोभः स भूपतिः ।
तथा हीति प्रविज्ञप्य प्राभ्यनन्दत्प्रबोधितः ॥ ३५.१६०{६०} ॥
तदारभ्य स भूमीन्द्रस्त्रिरत्नशरणं गतः ।
सर्वसत्वहितं कृत्वा प्राचरत्सर्वदा शुभे ॥ ३५.१६१{६१} ॥
तदा तद्विषये तत्र सर्वदाभूच्छुभोत्सवम् ।
सर्व लोकाश्च सद्धर्मारतोत्साहाः प्रचेरिरे ॥ ३५.१६२{६२} ॥
एवं स नृपतिः शोभस्तं मुनीन्द्रं ससांघिकम् ।
यथार्हभोजनैश्चापि त्रिमास्यं समसेवित ॥ ३५.१६३{६३} ॥
ततः स भूमीराजो त्रिमासान्ते ससांघिकम् ।
क्रकुछंदं मुनीन्द्रं तं नत्वैवं प्रार्थयन्मुदा ॥ ३५.१६४{६४} ॥
भगवन्नाथ सर्वज्ञ सर्वदात्र ससांघिकः ।
सद्धर्मं कृपयास्मद्भ्यमादेष्टुं स्थातुमर्हति ॥ ३५.१६५{६५} ॥
इति संप्रार्थिते राज्ञा भगवान् स जगद्गुरुः ।
तद शोभं जगतीपालं समालोक्यैवमादिशत् ॥ ३५.१६६{६६} ॥
नाहं राजंस्तवैकस्य हितार्थे सुगतो भवे ।
अपि तु सर्वसत्वानां शुभहेतौ भवे जिनः ॥ ३५.१६७{६७} ॥
तदेवं सर्वलोकेषु बोधिचर्यां प्रकाशयन् ।
सद्धर्मं समुपाख्यातुं चरेयं सह सांघिकैः ॥ ३५.१६८{६८} ॥
(र्म् ३९५)
यद्यस्ति ते सदा राजं भक्तिश्रद्धामतिर्मयि ।
मन्नामाभिसमुद्दिश्य स्तूपं कृत्वा सदा भज ॥ ३५.१६९{६९} ॥
एतस्मिं यत्कृतं कर्म तन्मयि कृतमेव हि ।
तिष्ठतो निर्वृतस्यापि तुल्यं भक्तिमतां फलम् ॥ ३५.१७०{७०} ॥
तद्यथा मयि राजेन्द्र श्रद्धया शरणं गतः ।
त्रिरत्नभजनं कृत्वा चरस्वैवं शुभे मुदा ॥ ३५.१७१{७१} ॥
तथास्मिन् सर्वदा स्तूपे श्रद्धया शरणं गतः ।
त्रिरत्नभजनं कृत्वा शुभे चर समाहितः ॥ ३५.१७२{७२} ॥
तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमात्संबोधिमासाद्य संबुद्धपदमाप्नुयात् ॥ ३५.१७३{७३} ॥
इत्यादिश्य स संबुद्धस्तस्मै शोभाय भूर्भुजे ।
स्वनखकेशमुत्कृत्य ददौ स्तूपार्थमादरात् ॥ ३५.१७४{७४} ॥
तं मुनीन्द्रप्रदत्तं स भूपतिः संप्रमोदितः ।
प्रणत्वा समुपागृह्य सानंदः स्वालयं ययौ ॥ ३५.१७५{७५} ॥
तत्र स नृपती राजा तन्नखकेशमादरात् ।
गर्भे निधाय सद्रत्नैर्महस्तूपमकारयत् ॥ ३५.१७६{७६} ॥
ततस्तं स नृपो राजा प्रतिष्ठाप्य यथाविधिः ।
महोत्सवैः सदा नित्यं समभ्यर्च्य भजन्मुदा ॥ ३५.१७७{७७} ॥
तत्रैकस्मिन् दिने भद्रे पर्वणि प्रत्युपस्थिते ।
समेत्य गोष्ठिकाः सर्वे तं स्तूपं द्रष्टुमागताः ॥ ३५.१७८{७८} ॥
दृष्ट्वा ते गोष्ठिकाः सर्वे सुप्रसन्नाभिमोदिताः ।
नानापुष्पैस्तमभ्यर्च्य महोत्सवैः सहाभजत् ॥ ३५.१७९{७९} ॥
तत्रैको गोष्ठिको दृष्ट्वा दरिद्रोऽहमिति ब्रुवन् ।
तत्पूजामहोत्साहे लज्जया स्वगृहं ययौ ॥ ३५.१८०{८०} ॥
ततस्तैर्गोष्ठिकैः सर्वैर्दृष्ट्वा स स्वगृहे ततः ।
बहुशः परिभाषित्वा गोष्ठिमध्याद्बहिष्कृतः ॥ ३५.१८१{८१} ॥
ततः स लज्जयाखिन्नः पश्चात्तापाग्नितापितः ।
हा मंदः कथमेकोऽहं तिष्ठेयमित्यचिंतयत् ॥ ३५.१८२{८२} ॥
ततः स सुगतं स्मृत्वा दरिद्रोऽपि समंततः ।
सर्वपुष्पाणि संगृह्य तैस्तं स्तूपं समर्चयत् ॥ ३५.१८३{८३} ॥
ततः प्रदक्षिणीकृत्य सांजलिः स प्रमोदितः ।
तत्पादयोः प्रणत्वैवं प्रणिधानं मुदाकरोत् ॥ ३५.१८४{८४} ॥
यन्मयात्र मुनीन्द्रस्य स्तूपः पुष्पैः समर्चितः ।
एतत्पुण्यविपाकेन भवेयं श्रीसमृद्धिमान् ॥ ३५.१८५{८५} ॥
इत्येवं प्रणिधिं कृत्वा तत्स्तूपं शरणं गतः ।
स दरिद्रः समभ्यर्च्य प्राभजन् संप्रमोदितः ॥ ३५.१८६{८६} ॥
मन्यतां भिक्षवो योऽसौ दरिद्रोऽयं हि शोभितः ।
यत्स्तूपोऽर्चितः पुष्पैस्तेनायं श्रीसमृद्धिमान् ॥ ३५.१८७{८७} ॥
अन्यदपि यथानेन सुकृतं प्रकृतं पुरा ।
तत्सर्वं संप्रवक्ष्यामि शृणुध्वन् यूयमादरात् ॥ ३५.१८८{८८} ॥
तथाथाभूत्पुरा पूर्य्यां वाराणस्यां गृहाधिपः ।
श्रेष्ठी महाजनः साधुर्व्यवहारविचक्षणः ॥ ३५.१८९{८९} ॥
तदैकस्मिन् दिने तस्य गृहान्तिके शनैश्चरन् ।
(र्म् ३९६)
प्रत्येकसुगतो ग्लानो भिक्षार्थं समुपाचरन् ॥ ३५.१९०{९०} ॥
तं गृहान्तिकमायातं दृष्ट्वा स करुणाहतः ।
सहसोपेत्य नत्वैनमामंत्र्य स्वगृहे नयेत् ॥ ३५.१९१{९१} ॥
तत्र श्रेष्ठी स तं ग्लानं प्रत्येकबुद्धमासने ।
उपस्थाप्य समभ्यर्च्य पटेनाछादयन्मुदा ॥ ३५.१९२{९२} ॥
तस्मै क्षीरोदनैः पूर्णं पात्रं पंचामृतैः सह ।
प्रदत्वा सांजलिर्नत्वा मनसैवं व्यचिंतयत् ॥ ३५.१९३{९३} ॥
यदयं सुगतो ग्लानोऽभ्यर्चितो मयादरात् ।
एतत्पुण्यविपाकेन भवेयं क्षेमवान् सुधीः ॥ ३५.१९४{९४} ॥
इत्येवं प्रणिधानेन स श्रेष्ठी प्रतिमोदितः ।
सत्कृत्य सादरं तत्र स्वाश्रमे समचारयत् ॥ ३५.१९५{९५} ॥
मन्यतां भिक्षवो योऽसौ श्रेष्ठी श्रीमान्महाजनः ।
अयमेव महाभिज्ञः शोभितोऽर्हन्महामतिः ॥ ३५.१९६{९६} ॥
यदनेन तदा ग्लानप्रत्येकबुद्ध आदरात् ।
पटेनाछाद्य पिंडेन प्रतिपाद्य समर्चितः ॥ ३५.१९७{९७} ॥
एतत्पुण्यविपाकेन शोभितोऽयं समृद्धिमान् ।
पंचजन्मशतान्येवं बभूव सद्गुणाकरः ॥ ३५.१९८{९८} ॥
भूयोऽपि यत्पुरानेन सुकृतं साधितं यथा ।
तत्सर्वं संप्रवक्ष्यामि शृणुध्वं यूयमादरात् ॥ ३५.१९९{९९} ॥
तद्यथाभूत्पुरा शास्ता काश्यपोऽर्हन्स्तथागतः ।
सर्वज्ञः सुगतो नाथो धर्मराजो मुनीश्वरः ॥ ३५.२००{१००} ॥
वाराणस्यां स संबुद्धो मृगदावे ससांघिकः ।
सर्वसत्वहितार्थेन व्यहरद्धर्ममादिशत् ॥ ३५.२०१{११} ॥
तस्मिंश्च समये तत्र वाराणस्यामभूद्गृही ।
संबुद्धभक्तिमान् साधुर्दरिद्रः काष्ठहारिकः ॥ ३५.२०२{२} ॥
स एकस्मिन् दिने काष्ठमाहर्तु पर्वटे व्रजन् ।
तत्रैकत्र महत्स्तूपं ददर्शाछादितं तृणैः ॥ ३५.२०३{३} ॥
दृष्ट्वा स समुपाश्रित्य तत्तृणानि समंततः ।
सर्वाण्यपि समुत्पाट्य संमृज्य समशोधयत् ॥ ३५.२०४{४} ॥
ततस्तं शोभितं दृष्ट्वा स श्रेष्ठी संप्रमोदितः ।
नत्वा प्रदक्षिणीकृत्य मनसैवं व्यचिंतयत् ॥ ३५.२०५{५} ॥
यदयं सौगतस्तूपो मया संमृज्य शोधितः ।
एतत्पुण्यविपाकेन भवेयं दिव्यसुंदरः ॥ ३५.२०६{६} ॥
दिव्यातिरिक्ताभैः शोभितः स्यान् समृद्धिमान् ।
अनागतांश्च संबुद्धानारागयेयमादरात् ॥ ३५.२०७{७} ॥
तदा तच्छासने गत्वा त्रिरत्नशरणं गतः ।
प्रव्रज्यार्हत्पदं प्राप्य व्रजेयाहं सुनिर्वृतिम् ॥ ३५.२०८{८} ॥
इत्येवं प्रणिधिं कृत्वा प्रणत्वा तं जिनालयम् ।
सततः काष्ठमादाय स्वगृहं समुदाचरत् ॥ ३५.२०९{९} ॥
ततः स सुमतिः श्रीमानभूत्तत्पुण्यवान् कृतिः ।
सुखानि सुचिरं भुक्त्वा काले मृतो दिवं ययौ ॥ ३५.२१०{१०} ॥
स्वर्गे स दिव्यभोग्यानि भुक्त्वा रेमे सुरैः सह ।
पंचजन्मशतान्येवं सुखं भुक्त्वा भ्रमेद्भवे ॥ ३५.२११{११} ॥
(र्म् ३९७)
अत्रापि यदेयं श्रीमाञ्छासने मे समागतः ।
प्रव्रज्यासंवरं धृत्वा चरन्नर्हन् भवत्यपि ॥ ३५.२१२{१२} ॥
तत्सर्वं हि विजानीत तत्स्तूपसंमृष्टपुण्यतः ।
यथा च चिंतितं तत्र तथास्य सिद्ध्यतेऽधुना ॥ ३५.२१३{१३} ॥
दरिद्रकाष्ठहारो यो भवेत्सोऽयं हि शोभितः ।
अन्य इति न मन्यन्तव्यं युष्माभिर्नात्र संशयः ॥ ३५.२१४{१४} ॥
एवं सर्वत्र संसारे सर्वेषामपि प्राणिनाम् ।
यथैव यत्कृतं कर्म तथैव तत्फलं ध्रुवम् ॥ ३५.२१५{१५} ॥
अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ।
अन्यथापि भवेन्नैव कर्मफलं कथं चन ॥ ३५.२१६{१६} ॥
एवं मत्वात्र संसारे सर्वदा सुखवांछिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ ३५.२१७{१७} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः ।
सर्वे लोकाश्च संबोधिप्राप्तुं धर्मार्थिनोऽभवन् ॥ ३५.२१८{१८} ॥
इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते ।
त्वमप्येवं महाराज सद्धर्मनिरतो भव ॥ ३५.२१९{१९} ॥
प्रजाश्चापि महारज बोधयित्वा प्रयत्नतः ।
बोधिमार्गेऽभिसंस्थाप्य पातुमर्हति सर्वदा ॥ ३५.२२०{२०} ॥
एवं कृते महाराज सर्वत्र वः शुभं भवेत् ।
क्रमात्संबोधिमासाद्य संबुद्धपदमाप्नुयाः ॥ ३५.२२१{२१} ॥
इति तेनार्हताख्यातं श्रुत्वाशोकः स भूमिपः ।
तथा हीति प्रतिज्ञप्य प्राभ्यनन्दत्स पार्षदः ॥ ३५.२२२{२२} ॥
ये श्रद्धाः सुप्रसन्ना इदमपि मनुजाः शोभितस्यावदानम् ।
शृण्वन्ति श्रावयंति प्रमुदितमनसा ये च संबोधिकामाः ।
ते सर्वे बोधिसत्वाः सकलगुणभृतो बोधिचर्यां चरन्तो ।
भुक्त्वा सौख्यं प्रकामं दशबलनिलये संप्रयान्ति प्रमुक्त्वा ॥ ३५.२२३{२३} ॥
++ इति रत्नावदानतत्वे शोभितावदानं समाप्तम् ++
(र्म् ३९८)
xxxवि मुक्तावदान
अथाशोको महीपालः सांजलिः समुपाश्रितः ।
उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ ३६.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ ३६.२{२} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः ।
तमशोकं महाराजं समालोक्यैवमब्रवीत् ॥ ३६.३{३} ॥
शृणु साधु महाराज यथा मे गुरुभाषितम् ।
तथात्राहं प्रवक्ष्यामि तव चित्तविशुद्धये ॥ ३६.४{४} ॥
तद्यथाभून्महापूर्य्यां श्रावस्त्यां श्रीदसंनिभः ।
श्रेष्ठी महाधनः साधुः पुष्याभिधो महाजनः ॥ ३६.५{५} ॥
तस्य भार्या सुभद्रांगी रामाख्या श्रीसमानिका ।
कुलधर्मसमाचरा स्वामिचर्यानुचारिणी ॥ ३६.६{६} ॥
यया पत्न्या सुभाविन्या सार्द्धं पुष्यः स सन्मतिः ।
यथाकामः सुखं भुक्त्वा रेमे समुपचारयन् ॥ ३६.७{७} ॥
ततः सा समये कांता गर्भिणी वर्द्धितोदरा ।
स्वल्पाहाररता पाण्डुवर्णा कृशाभवत्क्रमात् ॥ ३६.८{८} ॥
ततः सा समयेऽसूत दारिकां दिव्यसुंदरीम् ।
शिरोनिवद्धमुक्ता स्रक्कोहितामभिरोचिनीम् ॥ ३६.९{९} ॥
तां संजातां शिरोवद्धमुक्तामालां प्रशोभिताम् ।
दारिकां सा प्रसू दृष्ट्वा सचित्रानंदितोऽभवत् ॥ ३६.१०{१०} ॥
तच्छ्रुत्वा स पिता पुष्यो विस्मयोद्धतमानसः ।
उपेत्य तां सुतां दृष्ट्वा तस्थौ पश्यन् सविस्मयः ॥ ३६.११{११} ॥
ततस्ते ज्ञातयः सर्वे वंधुमित्रसुहृज्जनाः ।
तां संजातां निशम्याशु द्रष्टुमाजग्मुरादरात् ॥ ३६.१२{१२} ॥
तत्र तां दारिकां कांतां शिरोमुक्तास्रगन्विताम् ।
दर्शनीयां सुभद्रांगीं प्राद्राक्षुस्ते चिरं मुदा ॥ ३६.१३{१३} ॥
अहोस्विद्देवकन्येयं नूनं मान्या न मानवी ।
यदियं जातमात्रापि भाभिः शोभते पुरम् ॥ ३६.१४{१४} ॥
इति संभाष्य ते सर्वे ज्ञातिवंधू सुहृज्जनाः ।
सुचिरं तां समालोक्य विस्मिता निर्ययुस्ततः ॥ ३६.१५{१५} ॥
ततः स जनकस्तस्याः कृत्वा जतिमहं मुदा ।
सर्वाञ्ज्ञातीन् समामंत्र्य पुर एवमभाषत ॥ ३६.१६{१६} ॥
भवन्तोऽस्याः सुताया मे दृष्ट्वा संपन्निमित्तमाम् ।
यथा लोके प्रसिद्धं स्यात्तथा नामाभिधीयताम् ॥ ३६.१७{१७} ॥
इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातिवांधवाः ।
तन्निमित्तं समालोक्य तं पुष्यमेवमब्रुवन् ॥ ३६.१८{१८} ॥
(र्म् ३९९)
साधो यत्संप्रजातेयं मुक्तामालाशिरोरुहा ।
तदस्या नाम मुक्तेति प्रसिद्धं भवतु ध्रुवम् ॥ ३६.१९{१९} ॥
एवं तैः ज्ञातिभिः सर्वैः समाख्यातं निशम्य सः ।
पुष्यस्तस्याः सुतायास्तन्नामप्रसिद्धमचारयत् ॥ ३६.२०{२०} ॥
ततः सा दारिका मुक्ता धात्रीभिः प्रतिपालिता ।
अष्टाभिरभिपुष्यांगा प्रवृद्धाभूध्रदाब्जवत् ॥ ३६.२१{२१} ॥
ततः सा दारिका कान्ता प्रवृद्धाभूत्कुमारिका ।
गुरुणां समुपाश्रित्य क्रमाद्विद्या अशिक्षते ॥ ३६.२२{२१*} ॥
तत्र सा सुमतीर्मुक्ता लिपिपारं गता क्रमात् ।
सर्वशास्त्रकलाविद्यापारं ययौ विचक्षणा ॥ ३६.२३{२२} ॥
ततः सा दानसंरक्ता सर्वार्थिभ्यो यथेप्सितम् ।
सद्धर्मप्रणिधानेन ददौ नित्यं प्रसादिता ॥ ३६.२४{२३} ॥
सर्वेऽपि याचकास्तस्या गृहं दृष्ट्वा समागताः ।
तद्दत्तं द्रव्यमादाय प्रययुः संप्रमोदिताः ॥ ३६.२५{२४} ॥
तदैको ब्राह्मणस्तस्या मुक्तामालां शिरोरुहाम् ।
दृष्ट्वा लोभाकुलात्मा स गृहं गत्वा समाश्रयत् ॥ ३६.२६{२५} ॥
तत्र स ब्राह्मणो दृष्ट्वा तां कन्यां संप्रदायनीम् ।
उपेत्याशीर्वचोद्दत्वा प्रार्थयदेवमादरात् ॥ ३६.२७{२६} ॥
जयोऽस्तु ते सदा भद्रे चिरं जिव्याः सुखान्विता ।
यथा ते वांछते चित्तं तथा सर्वं प्रसिद्ध्यतु ॥ ३६.२८{२७} ॥
भद्रेऽहं ते गुणाच्छ्रुत्वा दूरतो यदिहाव्रजे ।
तदर्थं शृणु ते वक्ष्ये तच्छ्रुत्वा मे प्रसीदतु ॥ ३६.२९{२८} ॥
यदियं ते शिरोबद्धा मुक्तामाला प्रशोभिता ।
तदिमां मे प्रदत्वात्र मनो मम विनोदय ॥ ३६.३०{२९} ॥
इति संप्रार्थिते तेन सा मुक्ता संप्रदानिका ।
तां प्रदातुं समिछन्ती तं विप्रमेवमब्रवीत् ॥ ३६.३१{३०} ॥
साधु विप्र क्षणं तिष्ठ मा व्रजस्वान्यतः क्वचित् ।
पित्रोराज्ञां समायाच्य दास्यामि ते इमामपि ॥ ३६.३२{३१} ॥
इत्युक्त्वा स समाश्वास्य ब्राह्मणं तं प्रलोभितम् ।
सहसा पुरतो गत्वा पित्रोरेवमभाषत ॥ ३६.३३{३२} ॥
पितरम्ब गृहेऽस्माकं ब्राह्मणोऽर्थी समागतः ।
स ममेमां शिरोरूढां मुक्तामालां प्रयाचते ॥ ३६.३४{३३} ॥
तदिमां दातुमिछामि तस्मै विप्राय साधवे ।
तदनुज्ञां प्रदत्तं मे यद्यस्ति वां दयामपि ॥ ३६.३५{३४} ॥
इति पुत्र्योदितं श्रुत्वा स पिता विस्मयाहतः ।
तां पुत्रीं सुचिरं दृष्ट्वा परिभाष्यैवमब्रवीत् ॥ ३६.३६{३५} ॥
भो वत्स किं समीक्ष्यैवं स्वमस्तक समुद्भवाम् ।
नेत्रवत्कथमुत्कृत्य प्रदद्यादर्थिने सुते ॥ ३६.३७{३६} ॥
यदि दातुं समिछा ते ब्राह्मणायार्थिने सुते ।
तदन्यत्प्रार्थितं द्रव्यं प्रददस्व यथेप्सितम् ॥ ३६.३८{३७} ॥
इति पित्रोदितं श्रुत्वा सा मुक्ता दुहिता सुधीः ।
जनकं तं समालोक्य प्रणत्वा चैवमब्रवीत् ॥ ३६.३९{३८} ॥
(र्म् ४००)
शृणु तात यदर्थेऽहं स्वशिरःसंभवामपि ।
मुक्तामालं समुद्धृत्य दित्सामि तत्प्रवक्ष्यते ॥ ३६.४०{३९} ॥
अनित्यं खलु संसारे मानुष्ये जन्म दुर्लभम् ।
क्षणध्वंसि शरीरं च जीवितं च तृणाम्बुवत् ॥ ३६.४१{४०} ॥
तत्रापि बहवो रोगाः संपदोऽप्यतिचंचलः ।
दुर्लभा क्षणसंपच्च धर्ममतिश्च दुर्लभा ॥ ३६.४२{४१} ॥
किं नित्यमत्र संसारे को हि नित्यस्थितो भवे ।
इत्यनित्यामिमां मुक्तामालां दित्साम्यहं पित ॥ ३६.४३{४२} ॥
कोऽन्यत्र मानुषा देहाद्दानं कर्तुं प्रशक्नुयात् ।
इत्याप्यहं समीक्ष्यात्र दातुमिछे कजामपि ॥ ३६.४४{४३} ॥
कस्यात्र विग्रहे मृत्योर्विश्वासं विद्यते खलु ।
इति मत्वापि तातेमां दित्सामि मुक्तकास्रजम् ॥ ३६.४५{४४} ॥
कस्यात्र जीवितं काये स्वेछया समवस्थितम् ।
एवं विज्ञाय तातेमं मालां दित्सामि पुष्पवत् ॥ ३६.४६{४५} ॥
को नात्र पीड्यते रोगैः सक्लेशैर्देवसंभवैः ।
इत्येवं समीक्ष्यैमां दातुमिछामि मुक्तिकाम् ॥ ३६.४७{४६} ॥
कस्य संपत्स्थिरा गेहे अस्ताश्चपि स्थितिर्न हि ।
एवं विज्ञाय ततेमं दित्सामि कुसुमाकृतिम् ॥ ३६.४८{४७} ॥
कस्य चात्र शुभे दृष्टिर्जायात्तिष्ठेच्च सर्वदा ।
एवं वापि परिज्ञाय दित्सामीमां कजामपि ॥ ३६.४९{४८} ॥
सदा न जायते नैवं धर्मे मतिः कथं चन ।
इति दृष्ट्वापि मे चित्तमिमां दित्सति पुष्पवत् ॥ ३६.५०{४९} ॥
इमां मे दैवसंजातां शिरःस्थां केशसादृशीम् ।
दातुमिछाम्यहं तात सद्धर्मरत्नलब्धये ॥ ३६.५१{५०} ॥
कियत्कालं च जीवेयं सर्वेषां मरणं ध्रुवम् ।
यावद्जीवितमुक्तायामियं मुक्तापि नक्ष्यति ॥ ३६.५२{५१} ॥
यदियं मे शिरोजापि प्राणेन सह नक्ष्यति ।
तद्दत्ता वाप्यदत्तापि सर्वथापि विनक्ष्यति ॥ ३६.५३{५२} ॥
एतद्देवं समीक्ष्ये मां मुक्तां पुष्पस्रजं यथा ।
कजामपि समुद्धृत्य दातुमिछाम्यहं पित ॥ ३६.५४{५३} ॥
तदत्र मा कृथा विघ्नं मम सद्धर्मसाधने ।
तदनुज्ञां प्रदत्वा मे प्रार्थितं सफलं कुरु ॥ ३६.५५{५४} ॥
यदि न दीयतेऽनुज्ञां दानविघ्नफलं लाभेः ।
ततो ते दुष्कृतिर्जायात्ततो हि दुर्गतिं व्रजेः ॥ ३६.५६{५५} ॥
यद्यनुज्ञां प्रदानेन सत्यं पूरयसे मम ।
ततस्ते सुकृतिर्जायात्तेन यायाद्धि सद्गतिम् ॥ ३६.५७{५६} ॥
सद्गतौ सर्वदा सौख्यं भुक्त्वा चरेः शुभेष्वपि ।
ततः क्रमेण संबोधिं प्राप्य बुद्धत्वमाप्नुयाः ॥ ३६.५८{५७} ॥
एवं वीज्ञाय तातात्र वारयितुं न मेऽर्हति ।
तदनुज्ञप्य मे सत्यं संपूरयितुमर्हति ॥ ३६.५९{५८} ॥
इति पुत्र्या तयाख्यातं श्रुत्वा पिता स बोधितः ।
तां मुक्तां सुमातिः पुत्रीं समालोक्यैवमब्रवीत् ॥ ३६.६०{५९} ॥
यत्त्वयैवं समाख्यातं तत्सर्वं सत्यमेव हि ।
(र्म् ४०१)
यदि श्रद्धास्ति ते दातुं प्रदेहि किं निवारये ॥ ३६.६१{६०} ॥
इति पित्राभ्यनुज्ञाते सा मुक्ता परिमोदिता ।
तां शिरःसद्भवां मुक्तां मालामुत्कर्तुमैछत ॥ ३६.६२{६१} ॥
तदा सा जननी दृष्ट्वा तां मुक्तां स्वात्मजां प्रियाम् ।
शिरोजामपि तां मुक्तां मालामुत्कर्तु वांछिनीम् ॥ ३६.६३{६२} ॥
सहसा गाढमालिंग्य वारयितुं समुद्यता ।
गलदश्रुविलिप्ताक्षा विलपंत्यैवमब्रवीत् ॥ ३६.६४{६३} ॥
हा प्रिये स्वात्मजे पुत्री कथमज्ञासि सांप्रतम् ।
इन्द्रियवत्तनूद्भूतामपि दातुं यदीछसि ॥ ३६.६५{६४} ॥
यच्छिरोजां समुत्कृत्य मुक्तामालां स्वदैवजाम् ।
किमन्यदिह पश्यन्ति विप्राय दातुमिछसि ॥ ३६.६६{६५} ॥
यदि दानेऽतिवांछा ते प्रदेहि तद्यदिप्सितम् ।
इमामेव शिरोजतां मा दाः कस्मै चिदर्थिने ॥ ३६.६७{६६} ॥
दमियं स्वतनूद्भूता सहजा जीवितेन्द्रैः ।
तदियं कथमुत्कृत्य दातव्येति विचारय ॥ ३६.६८{६७} ॥
यदीमं स्वशिरोरूढां बलेनोत्कृत्य दास्यसि ।
तदेयं नक्ष्यते नूनं जीवितेन सह ध्रुवम् ॥ ३६.६९{६८} ॥
विनष्टे जीविते काये को धर्मं साधयेत्पुनः ।
धर्मं विनात्र संसारे निरर्थं सर्वसाधनम् ॥ ३६.७०{६९} ॥
धर्ममूलं हि संसारे सत्कायजीवितं किल ।
तज्जीविताश्रयः कायो रक्षितव्यः प्रयत्नतः ॥ ३६.७१{७०} ॥
यत्कायप्राणरक्षार्थं संसारे धर्मसाधनम् ।
कायप्राणं विना कोऽर्थः संसारे धर्मसाधने ॥ ३६.७२{७१} ॥
धर्मार्थकाममोक्षादि साधनं सुखकारणम् ।
अभावे जीविते काये कस्यार्थे सुखसाधनम् ॥ ३६.७३{७२} ॥
यत्स्वजीवे न पक्ष्यैवं किमर्थे दातुमिछसि ।
स्वकायजीवरक्षार्थं दानादि पुण्यसाधनम् ॥ ३६.७४{७३} ॥
स्वकायजीवितं त्यक्त्वा किमर्थे पुण्यसाधनम् ।
स्वकायजीव भद्रार्थे गुणद्रव्यवृषार्जनम् ॥ ३६.७५{७४} ॥
इति सत्यं मयाख्यातं हितार्थं ते प्रियात्मजे ।
श्रुत्वेमं नेत्रवद्रक्ष्या मा दाः कस्मै चिदर्थिने ॥ ३६.७६{७५} ॥
यदि तेऽस्ति वृषे वांछा दत्वेतोऽन्यद्यथेप्सितम् ।
गृहे व्रतं चरत्येवं सुखेन पुण्यमर्जय ॥ ३६.७७{७६} ॥
एतत्पुण्यविपाकेन सर्वत्र ते शुभं भवेत् ।
सर्वदा दुर्गतिं नैव यायात्सदा तु सद्गतिम् ॥ ३६.७८{७७} ॥
एवं मत्वात्मजे श्रुत्वा सद्धर्मं सौगतोदितम् ।
त्रिरत्नभजनं कृत्वा गृहे व्रतं सुखं चर ॥ ३६.७९{७८} ॥
एतत्पुण्यविशुद्धा त्वं सर्वदा शुभभाविनी ।
क्रमात्संबोधिमासाद्य संबुद्धपदमाप्नुयाः ॥ ३६.८०{७९} ॥
इति मात्रा समाख्यातं श्रुत्वा मुक्तात्मजापि सा ।
उत्थायाश्रुविरुक्षा ययौ शोकालये शनैः ॥ ३६.८१{८०} ॥
तत्र शय्यातलासीना मुक्तादानचिन्तया ।
संबुद्धस्मरणं कृत्वा तस्थौ ध्यानसमाहिता ॥ ३६.८२{८१} ॥
(र्म् ४०२)
तत्र तद्ध्यानसंमूढा निद्रासुप्तेन्द्रियापि सा ।
तमेव श्रीघनं स्मृत्वा तस्थौ निश्चरिताशयाः ॥ ३६.८३{८२} ॥
तामेवां संस्थितां दृष्ट्वा भगवान् स मुनीश्वरः ।
स्वप्न इव समाभाष्य मुक्तामेवं व्यबोधयत् ॥ ३६.८४{८३} ॥
वत्से मात्र विषीद त्वं प्रदेयेयं कजापि ते ।
प्रदीयतां समुद्धृत्य पुनः प्रादुर्भविष्यति ॥ ३६.८५{८४} ॥
इति संभाषितं श्रुत्वा स्वप्ने इव समुत्थिता ।
सा मुक्ता विस्मयाक्रान्तचित्ता तस्थौ सुनिशला ॥ ३६.८६{८५} ॥
ततः सा तं जगन्नाथं स्मृत्वा तच्चिन्तयाकुला ।
किमेतत्सत्यमेवं स्यादिति ज्ञातुं समैछत ॥ ३६.८७{८६} ॥
ततः सा स्वयमुद्धृत्य स्वशिरःस्थां स्वपाणिना ।
मुक्तामालां मुदालोक्य तां शास्त्रे समकल्पयत् ॥ ३६.८८{८७} ॥
ततोऽनंतरमेवं सा मुक्तामालाभिशोभिता ।
तस्याः शिरसमुभूता रराज तत्समानिका ॥ ३६.८९{८८} ॥
तां समालोक्य सा मुक्ता कन्यातिविस्मयान्विता ।
सहसा पुरतो गत्वा मातुरेवं न्यवेदयत् ॥ ३६.९०{८९} ॥
मातरद्य मुनीन्द्रस्य कृपादृष्टिप्रसादतः ।
यथा मया प्रतिज्ञातं पूर्य्येत मे तथा ध्रुवम् ॥ ३६.९१{९०} ॥
इत्युक्त्वा सा मुदा मुक्ता समुद्धृतां शिरोरुहाम् ।
ये उभे दर्शयित्वाग्रे मातुरेवमभाषत ॥ ३६.९२{९१} ॥
मातरहं विपन्नाशा शय्या तलसमाश्रिता ।
संबुद्धं मनसा ध्यात्वा तिष्ठामि दानचिंतया ॥ ३६.९३{९२} ॥
यदा मे ध्यानसुप्ताया हृदि निद्रोपसर्पते ।
तदैवं सर्वनाथेन समादिष्टं श्रुतं मया ॥ ३६.९४{९३} ॥
प्रदेयेयं शिरोजाता मुक्तामाला त्वया मुदा ।
पुनः प्रादुर्भवेद्भूयोऽप्येतत्समानिका ध्रुवम् ॥ ३६.९५{९४} ॥
इति श्रुत्वा प्रबुद्धाहं किमेतत्सूनृतं भवेत् ।
इति कृत्वा समुद्धृत्य पश्यामीमां प्रमोदिता ॥ ३६.९६{९५} ॥
ततोऽनंतरमेवं मे शिरस्यैतत्समानिका ।
मुक्तामाला समुद्भूता दृश्यतामियमम्बिके ॥ ३६.९७{९६} ॥
इत्युक्त्वा सा सुता मुक्ता तस्या मातुः पुरो मुदा ।
मुक्तां मालामुपस्थाप्य दर्शयन्त्येवमाह च ॥ ३६.९८{९७} ॥
इमां मातुर्जगच्छास्त्रे मुदा संकल्पयाम्यहम् ।
तदेनां त्रिजगच्छास्त्रे संप्रदातुं व्रजेय हि ॥ ३६.९९{९८} ॥
इति पुत्र्या समाख्यातं श्रुत्वा सा जननी मुदा ।
तां मुक्तास्रजमालोक्य तच्छिरोजां च हर्षिता ॥ ३६.१००{९९} ॥
मुहुर्मुहुः समीक्षन्ती तां सुतामेवमब्रवीत् ।
धन्यासि भद्रिका पुत्रि त्वया यथा समीहितम् ॥ ३६.१०१{१००} ॥
तथा ते सिद्ध्यते नूनं संबुद्धस्यानुभावातः ।
तदिमां त्वं समादाया यथा संकल्पितं त्वया ॥ ३६.१०२{१} ॥
तथा तस्मै मुनीन्द्राय प्राभ्यर्च्य दातुमर्हसि ।
तथा तेऽङ्गीकृतं पुत्रि तत्सत्यं सेत्स्यते ध्रुवम् ॥ ३६.१०३{२} ॥
(र्म् ४०३)
एतत्पुण्यानुभावैश्च सर्वदा सद्गतिं व्रजेः ।
इति मत्वा जगच्छास्तुरुपहृत्य भजादरात् ॥ ३६.१०४{३} ॥
तथा चास्मै द्विजायैवमादाय दातुमर्हति ।
तथा तेऽङ्गी कृते सिद्धे सर्वत्र मंगलं भवेत् ॥ ३६.१०५{४} ॥
सफलं मानुषे जन्म सदा च सद्गतौ स्थितिः ॥ ३६.१०६{५} ॥
इति मात्रोदितं श्रुत्वा प्रतिसंमोदिताशया ।
सा तथेति प्रतिश्रुत्य तथा कर्तुं समैछत ॥ ३६.१०७{६} ॥
तथा सैतत्प्रवृत्तांतं भर्त्तुरग्रे न्यवेदयत् ।
श्रुत्वा भर्त्तापि पुष्यः समुदिताभ्यन्वमोदत ॥ ३६.१०८{७} ॥
तस्मिन्नवसरे तत्र श्रावस्त्यां जेतकाश्रमे ।
विहारे भगवान् सोऽर्हन् विजहार ससांघिकः ॥ ३६.१०९{८} ॥
तत्र स त्रिजगच्छास्ता बोधिचर्यां प्रकाशयन् ।
सर्वसत्वसहितार्थेन धर्ममादेष्टुमारभत् ॥ ३६.११०{९} ॥
तदा ते भिक्षवः सर्वे श्रावकाश्चैलकादयः ।
भिक्षुण्यो व्रतिनश्चापि बोधिसत्वगणा अपि ॥ ३६.१११{१०} ॥
उपासकगणाश्चापि तथा चोपासिका अपि ।
सर्वे ते समुपाश्रित्य समातस्थुः समाहिताः ॥ ३६.११२{११} ॥
तथा शक्रादयो देवा ब्रह्माद्या ब्रह्मचारिणः ।
दानवा लोकपालाश्च यक्षगंधर्वकिन्नराः ॥ ३६.११३{११!} ॥
राक्षसा गरुडा नागाः सिद्धविद्याधरादयः ।
यतयो योगिनश्चापि निर्ग्रन्थास्तीर्थिका अपि ॥ ३६.११४{१२} ॥
ऋषयो ब्राह्मणाश्चापि तपश्विनो महर्द्धिकाः ।
राजानः क्षत्रियाश्चापि वैश्या राजकुमारकाः ॥ ३६.११५{} ॥
श्रेष्ठिनो मंत्रिणोऽमात्या गृहस्थाश्च महाजनाः ।
वणिजः सार्थवाहाश्च पौरिकाः शिल्पिनोऽपि च ॥ ३६.११६{२४} ॥
ग्राम्या जानपदाश्चापि तथान्यद्देशवासिनः ।
सर्वे ते समुपागत्य दृष्ट्वा तं श्रीघनं मुदा ॥ ३६.११७{१५} ॥
नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमम् ।
कृताञ्जलिपुटा नत्वा परिवृत्य समंततः ॥ ३६.११८{१६} ॥
तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ।
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ ३६.११९{१७} ॥
तत्सद्धर्मं समाकर्ण्य सर्वे लोकाः [प्रबोधिकाह्] प्रबोधिताः ।
सर्वसत्वहितार्थेषु बभूवुः बोधिचारिणः ॥ ३६.१२०{१८} ॥
तदा सा कन्यका मुक्ता सखीभिः सह मोदिता[ः] ।
मुक्तामालां समादाय धर्मं श्रोतुमुपाचरत् ॥ ३६.१२१{१९} ॥
तत्र तं श्रीघनं दृष्ट्वा नत्वा सा सांजलिर्मुदा ।
त्रिधा प्रदक्षिणीकृत्य तस्य शास्तुः पुरोगता ॥ ३६.१२२{२०} ॥
तत्राग्रे तामुपस्थप्य मुक्तामालां कृतांजलिः ।
पादौ नत्वा प्रसन्नास्या धर्मं श्रोतुमुपाश्रयत् ॥ ३६.१२३{२१} ॥
ततः स भगवांस्तस्या दृष्ट्वाशयं विशुद्धितम् ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ ३६.१२४{२२} ॥
तत्सद्धर्मं समाकर्ण्य सा मुक्ता परिबोधिता ।
धर्मविशेषमाज्ञाय बभूव बोधिवाञ्छिनी ॥ ३६.१२५{२३} ॥
(र्म् ४०४)
तत्र सा कन्यका मुक्ता सत्कायदृष्टिपर्वतम् ।
हित्वा ज्ञानासिना श्रोतआपत्तिफलमाययौ ॥ ३६.१२६{२४} ॥
ततः सा भद्रिका मुक्ता दृष्टसत्या प्रमोदिता ।
सांजलिश्चरणौ शास्तुर्नत्वा स्वगृहमाययौ ॥ ३६.१२७{२५} ॥
ततः सा च समादाय मुक्तामालं स्वमूर्द्धजम् ।
सुप्रसन्नाशया तस्मै द्विजाय प्रददौ मुदा ॥ ३६.१२८{२६} ॥
तां मुक्तास्रजमादाय ब्राह्मणः संप्रमोदितः ।
तस्यै भद्राशिषं दत्वा सहसा स्वगृहेऽव्रजत् ॥ ३६.१२९{२७} ॥
तथा सा मुदिता गत्वा सर्वार्थिभ्यो यथेप्सितम् ।
त्रिरत्नभजनं कृत्वा शुभधर्मे समाचरत् ॥ ३६.१३०{२८} ॥
तदा तस्या गुणाञ्छ्रुत्वा बहवः कामरागिणः ।
सरत्नप्राभृतं दत्वा तां प्रार्थयितुमीछिरे ॥ ३६.१३१{२९} ॥
कुमारा भुर्भुजा तस्याः पितरं पुष्यमादरात् ।
स्वस्वदूतैः सरत्नानि दत्वा संप्रार्थयन्मुदा ॥ ३६.१३२{३०} ॥
तथा द्विजकुमाराश्च मंत्रिपुत्राश्च कामिनः ।
वैश्यपुत्रास्तथान्ये न धनिनो वणिगात्मजाः ॥ ३६.१३३{३१} ॥
सार्थवाहसुताश्चापि तथा शिल्पिसुता अपि ।
महाजनसुताश्चैवमन्येऽपि काममोहिताः ॥ ३६.१३४{३२} ॥
सर्वे ते तां सुभद्रांगीं मुक्तां मुक्ताभ्यलंकृताम् ।
दृष्ट्वा रागाग्निसंतप्तास्तन्मुखामृतवांछिनः ॥ ३६.१३५{३३} ॥
सवस्त्रालंकाररत्नानि दत्व दूतैः पृथक्पृथक् ।
तस्यास्तं जनकं पुष्यं प्रार्थयन्नेवमादरात् ॥ ३६.१३६{३४} ॥
तथा तैः प्रार्थ्यमानोऽसौ पुष्यो दूतैः पृथक्पृथक् ।
तद्दत्तं प्राभृतं दृष्ट्वा तस्थौ तं क्षुभिताशयः ॥ ३६.१३७{३५} ॥
तत उत्थाय पुष्यः स शोकागारे विषण्णधीः ।
गत्वा शय्यातलासीनो मनसैवं व्यचिंतयत् ॥ ३६.१३८{३६} ॥
हारे दुःखं प्रजातं मे किं करिष्यामि सांप्रतम् ।
एकैव दुहिता मेऽस्ति याचका बहवोऽपि मे ॥ ३६.१३९{३७} ॥
यद्येकस्मै प्रदास्यामि सर्वेऽन्ये स्युर्मम द्विषः ।
अत्राहं किं करिष्यामि यदुपायं न मन्यते ॥ ३६.१४०{३८} ॥
इति चिन्ताविषण्णास्यस्तस्थौ मोहविषार्दितः ॥ ३६.१४१{३९!} ॥
तत्रैवं संस्थितं दृष्ट्वा जनकं तं समोहितम् ।
समेत्य सात्मजा मुक्ता नत्वैवं पर्यपृछत ॥ ३६.१४२{४०} ॥
तात किं ते मनो दुःखं यदेवं तिष्ठसेऽधुमा ।
तत्सत्यं समुपाख्या प्रबोधयात्मजामिमाम् ॥ ३६.१४३{४१} ॥
इति संप्रार्थिते पुत्र्या तया स जनकः सुधीः ।
तं मुक्तां स्वात्मजं दृष्ट्वा सुचिरादेवमब्रवीत् ॥ ३६.१४४{४२} ॥
अयि पुत्रि सुभद्रांगी किमत्राहं वदेय हि ।
यत्त्वमेका सुता मेऽस्ति याचका बहवास्तव ॥ ३६.१४५{४३} ॥
यद्येकस्मै प्रदास्यामि त्वामेकं दिव्यसुंदरीम् ।
ते सर्वेऽन्ये भवेयुर्मे शत्रवो ह्यपकारिणः ॥ ३६.१४६{४४} ॥
इति चिन्ताविदग्धात्मा तिष्ठाम्येवं हि नान्यथा ।
तदुपायं न पश्यामि यतो मे जायते भयम् ॥ ३६.१४७{४५} ॥
(र्म् ४०५)
इति पित्रोदितं श्रुत्वा सा मुक्ता दुहिता पुनः ।
जनकं तं समालोक्य बोधयन्त्येवमब्रवीत् ॥ ३६.१४८{४६} ॥
नाहं कामार्थिनी तात संबुद्धशासने गता ।
प्रव्रज्य संवरं धृत्वा चरिष्यामि शुभां चरिम् ॥ ३६.१४९{४७} ॥
इति मे निश्चितं चित्तमन्यथा न करोमि हि ।
तदत्र मा विषीद त्वं तदनुज्ञां प्रदेहि मे ॥ ३६.१५०{४८} ॥
इति पुत्र्या तथाख्यातं स पुष्यो जनकः सुधीः ।
स्वात्मजां तां समालोक्य पुनरेवमभाषत ॥ ३६.१५१{४९} ॥
अयि पुत्रि कथं तावत्प्रव्रज्यां चरितुं सहेः ।
त्वं हि बाला सुभद्राङ्गी कुमारी सुखमेधिनी ॥ ३६.१५२{५०} ॥
तस्माद्यावत्कुमारी त्वं तावद्गेहे समाश्रिता ।
त्रिरत्नभजनं कृत्वा चरोपासकसंवरम् ॥ ३६.१५३{५१} ॥
इति पित्र्योदितं श्रुत्वा सा मुक्ता दुहिता सुधीः ।
तथा हीति प्रतिश्रुत्य प्रबोधितान्वमोदितः ॥ ३६.१५४{५२} ॥
तथा सा भद्रिका मुक्ता शुद्धशीला सुभाविनी ।
त्रिरत्नभजनं कृत्वा चेरे उपासिकाव्रतम् ॥ ३६.१५५{५३} ॥
यदा सा यौवनी कांता मुक्ता मुक्तातिशोभिता ।
तदा कनिष्ठपुत्रेण दृष्टानाथान्नसंस्तृतः ॥ ३६.१५६{५४} ॥
ततः सोऽनाथभृत्पुत्रः सुप्रियाख्योऽभिमोदितः ।
कामरागाग्निसंतप्तो रोगी वाभूद्विषण्णधीः ॥ ३६.१५७{५५} ॥
तं पुत्रं कामरागार्त्तं दृष्ट्वा सोऽनाथपिण्डदः ।
तन्निमित्तं समालोक्य समाश्वास्यैवमब्रवीत् ॥ ३६.१५८{५६} ॥
भो पुत्रैवं किमर्थे त्वं रोगीव तिष्ठसेऽधुना ।
तद्वदस्व ममाग्रेऽपि यदिछति मनस्तव ॥ ३६.१५९{५७} ॥
इति पित्रोदितं श्रुत्वा सुप्रियः स विनिःश्वसन् ।
पितरं तं समालोक्य शनैरेवमभाषत ॥ ३६.१६०{५८} ॥
तात योऽसौ सुभद्राङ्गी मुक्ता मुक्तातिशोभिता ।
दृष्ट्वा मयानुरूपेति मनो मे हरतेऽपि सा ॥ ३६.१६१{५९} ॥
तदभिलाषरागाग्निदाहसंतोषितं मनः ।
तद्रागाग्निशमोपायं कर्तुमर्हति मेऽधुना ॥ ३६.१६२{६०} ॥
इति पुत्रोदितं श्रुत्वा सोऽनाथपिण्डदः पिता ।
पुत्रस्य प्राणरक्षार्थं याचितुं तां समैहत ॥ ३६.१६३{६१} ॥
ततः स दूतमाहूय पुर एवमभाषत ।
साधो गछ गृहस्थस्य पुष्यस्यैव परो वद ॥ ३६.१६४{६२} ॥
साधो तद्दुहिता भद्रा तद्दीयतां सुताय मे ।
एवं कृतेऽपि संबंधं यावज्जीवं सुखाय नौ ॥ ३६.१६५{६३} ॥
इत्युक्त्वा तस्य पुष्यस्य तां मुक्ताख्यां सुभाविनीम् ।
प्रार्थयित्वा सुतायास्मै दातुं मेऽर्हति सर्वथा ॥ ३६.१६६{६४} ॥
इति तेनोदितं श्रुत्वा तथेति प्रतिभाष्य सः ।
दूतः प्राभृतमादाय पुष्यस्य समुपाचरत् ॥ ३६.१६७{६५} ॥
तत्र तस्य पुरः स्थाप्य प्राभृतं संविनोदयन् ।
यथानाथभृतादिष्टं तथा सर्वं न्यवेदयत् ॥ ३६.१६८{६६} ॥
तदुक्तं सर्वमाकर्ण्य स पुष्यः परिबोधितः ।
मुक्तां तां स्वात्मजां पुत्रीं समामंत्र्यैवमब्रवीत् ॥ ३६.१६९{६७} ॥
(र्म् ४०६)
अयि प्रियात्मजे पुत्रि त्वमनाथभृता सता ।
सुप्रियाय स्वपुत्राय प्रार्थिता त्वं प्रसीद तत् ॥ ३६.१७०{६८} ॥
इति पित्रोदितं श्रुत्वा मुक्ता सा दुहिता सती ।
पितरं तं समालोक्य प्रणत्वैवमभाषत ॥ ३६.१७१{६९} ॥
नाहं कामार्थिनी तात संबुद्धशरणं गता ।
प्रव्रज्यासंवरं धृत्वा चरिष्यामि शुभां चरीम् ॥ ३६.१७२{७०} ॥
इति पुत्र्योदितं श्रुत्वा स पुष्योऽभिहताशयः ।
दुहितां तां चिरं दृष्ट्वा पुनरेवमभाषत ॥ ३६.१७३{७१} ॥
हे सुते कथमेव त्वं वदेथाः किं न मन्यसे ।
यदसौ गृहभृन्नाथस्तद्वचः श्रूयते न कैः ॥ ३६.१७४{७२} ॥
तद्यावद्यौवनी भूता तावद्भर्त्ता सहानुगाः ।
त्रिरत्नभजनं कृत्वा चर व्रतं गृहे सुखम् ॥ ३६.१७५{७३} ॥
यदा वृद्धा व्यवस्थास्यै तदा त्वं सौगताश्रमे ।
प्रव्रज्यासंवरं धृत्वा प्रचरस्व शुभां चरीम् ॥ ३६.१७६{७४} ॥
इति पित्रा समादिष्टं श्रुत्वा सा दुहिता सुधीः ।
पित्रो वाक्यं कथं लंघ्यमिति मत्वैवमब्रवीत् ॥ ३६.१७७{७५} ॥
नाहं कामर्थिनी तात सद्धर्मसाधनार्थिनी ।
तथापि त्वद्वचोऽलंघ्यमिति श्रोष्यामि ते वचः ॥ ३६.१७८{७६} ॥
यदि मे समयं धृत्वा सत्यवाक्यं ददाति मे ।
वृणुयां तं पतिं ननुमिति मे वचनं ध्रुवम् ॥ ३६.१७९{७७} ॥
इति पुत्र्योदितं श्रुत्व स पुष्यः परिबोधितः ।
एतत्सर्वं प्रवृत्तांतं दूतस्याग्रे न्यवेदयत् ॥ ३६.१८०{७८} ॥
दूतापि तत्प्रवृत्तांतं श्रुत्वा तथेति सत्वराः ।
अनाथपिण्डदस्याग्रे विस्तरेण न्यवेदयत् ॥ ३६.१८१{७९} ॥
सोऽनाथपिण्डदश्चापि श्रुत्वा स प्रतिमोदितः ।
सर्वमेतत्प्रवृत्तांतं पुत्रस्याग्रे न्यवेदयत् ॥ ३६.१८२{८०} ॥
एतत्पित्रा समाख्यातं श्रुत्वा स सुप्रियः सुधीः ।
तथा हीति प्रतिज्ञाय दूतस्याग्रे न्यवेदयत् ॥ ३६.१८३{८१} ॥
दूतश्च तद्वचः श्रुत्वा पुष्यस्य पुरतो गतः ।
सर्वमेतत्प्रवृत्तांतं विस्तरेण न्यवेदयत् ॥ ३६.१८४{८२} ॥
पुष्योऽपि तत्समाख्यातं श्रुत्वा पत्न्याः पुरोऽवदत् ।
सापि तज्जननी श्रुत्वा पुत्र्या अग्रे न्यवेदयत् ॥ ३६.१८५{८३} ॥
तन्मात्रा समुपादिष्टं श्रुत्वा सा दुहिता सती ।
तथा हीति प्रतिश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ ३६.१८६{८४} ॥
ततः स जनकः पुष्यो मत्वा पुत्र्याधिवासितम् ।
तस्या विवाहसामग्रीं सहसा समसाधयत् ॥ ३६.१८७{८५} ॥
ततः स जनकः पुष्योऽप्यनाथपिण्डदात्मजम् ।
सुप्रियं तं समानीय सत्कृत्य सममानयत् ॥ ३६.१८८{८६} ॥
ततस्तामात्मजां मुक्तां सुप्रियाय सुभाविने ।
संकल्प्य प्रददौ पुष्यो जनकः स यथाविधिः ॥ ३६.१८९{८७} ॥
ततः स सुप्रियो भर्त्ता तांमुक्तां रमणीं प्रियाम् ।
भार्यां स्वगृहे आनीय रेमे भुक्त्वा यथासुखम् ॥ ३६.१९०{८८} ॥
एवं सा भाविनी मुक्ता काञ्चित्कालं गृहे मुदा ।
(र्म् ४०७)
भर्त्त्रा सह यथाकामं भुक्त्वा रेमे प्रमोदिता ॥ ३६.१९१{८९} ॥
ततस्तौ दंपती देहे वृद्धत्व समुपाक्रमे ।
पित्रोः पादान् प्रणत्वैवं प्रार्थयतं समादरात् ॥ ३६.१९२{९०} ॥
पितरौ यत्कृतं सत्यमावाभ्यां तत्सुसिद्धये ।
पूरयितुं समिछावस्तदाज्ञां दातुमर्हथ ॥ ३६.१९३{९१} ॥
इति संप्रार्थितं ताभ्यां श्रुत्वा पिता स सा प्रसूः ।
दृष्ट्वा तौ दंपती श्राद्धायुक्तावेवं समूचतुः ॥ ३६.१९४{९२} ॥
यदि वां विद्यते वांछा चरितुं सौगतं व्रतम् ।
तत्सत्यपूरये तस्मात्प्रचरत समाहितौ ॥ ३६.१९५{९३} ॥
इति ताभ्यामनुज्ञाते दंपती तौ प्रमोदितौ ।
पित्रोः पादान् प्रणत्वैव प्रतस्थुः सहसा गृहात् ॥ ३६.१९६{९४} ॥
ततस्तौ जेतकोद्याने विहारे समुपागतौ ।
भगवन्तं तमानम्य प्रव्रज्यां समयाचताम् ॥ ३६.१९७{९५} ॥
भगवन्नाथ सर्वज्ञ विजानाति यदावयोः ।
सत्यं तत्पूरयिष्यावस्तत्प्रव्रज्यां ददातु वाम् ॥ ३६.१९८{९६} ॥
इति संप्रार्थिते ताभ्यं भगवां दक्षपाणिना ।
स्पृष्ट्वा तच्छिरसोर्दृष्ट्वा समामंत्र्यैवमादिशत् ॥ ३६.१९९{९७} ॥
एवं चरतमादाय प्रव्रज्याव्रतमुत्तमम् ।
स्वपरात्महितार्थेषु ब्रह्मचर्यं समाहितौ ॥ ३६.२००{९८} ॥
इत्यादिष्टे मुनीन्द्रेण तावुभावपि मुंडितौ ।
खिक्खिरीपात्रविभ्राणौ च भर्तुश्चीवरावृतौ ॥ ३६.२०१{९९} ॥
ततोऽविद्यागणं भित्वा प्राप्तविद्याविशारदौ ।
सर्वक्लेशगणाञ्जित्वा साक्षादर्हत्वमावतुः ॥ ३६.२०२{१००} ॥
ततस्तौ विमलात्मानौ प्रिशुद्धत्रिमण्डलौ ।
जितेन्द्रियाऊ समाचारौ निर्विकल्पौ निरंजनौ ॥ ३६.२०३{१} ॥
सर्वेषामपि लोकानां त्रैधातुकनिवासिनाम् ।
पूज्यौ मान्यौ च वंद्यौ तावभूतं ब्रह्मचारिणौ ॥ ३६.२०४{२} ॥
तद्दृष्ट्वा ते भिक्षवः सर्वे विस्मयोद्धतमानसा ।
भगवंतं तमानम्य पप्रछुस्तत्पुराकृतम् ॥ ३६.२०५{३} ॥
भगवन् किं कृतं कर्म पुराभ्यां सुकृतं कुह ।
तत्सर्वं समुपादिश्य सर्वान्नः परिबोधय ॥ ३६.२०६{४} ॥
इति संप्रार्थिते सर्वैर्भिक्षुभिः स मुनीश्वरः ।
सर्वांस्तां श्रावकान् भिक्षून् समालोक्यैवमादिशत् ॥ ३६.२०७{५} ॥
शृणुत भिक्षवः कर्म यदाभ्यां प्रकृतं पुरा ।
तत्सर्वं वः प्रवक्ष्यामि श्रुत्वा चाभ्यनुमोदत ॥ ३६.२०८{६} ॥
तद्यथाभूत्पुरा शास्ता काश्यपाख्यमुनीश्वरः ।
सर्वज्ञोऽर्हं जगन्नाथो धर्मराजस्तथागतः ॥ ३६.२०९{७} ॥
भगवान् स मृगारण्ये वाराणस्यां जिनारमे ।
सर्वसत्वहितार्थेन विजहार ससांघिकः ॥ ३६.२१०{८} ॥
तदा तत्र महान् साधुः श्रीमाञ्छ्रीदोपमः सुधीः ।
सदा तस्य मुनीन्द्रस्य सद्धर्मश्रावकोऽभजत् ॥ ३६.२११{९} ॥
ततः स बुद्धिमान् दाता सर्वलोकहितार्थतः ।
छन्दकभिक्षणं तत्र याचित्वा पंचवार्षिकम् ॥ ३६.२१२{१०} ॥
(र्म् ४०८)
काश्यपस्य मुनीन्द्रस्य ससंघय निरंतरम् ।
सपूजाभोजनैर्नित्यमुपस्थातुं समैछत ॥ ३६.२१३{११} ॥
ततः स नृपतेराज्ञां समासाद्य प्रमोदितः ।
हस्तिस्कन्धे समारुह्य घण्टावाद्यं प्रवादयन् ॥ ३६.२१४{१२} ॥
सर्वत्र विषये तत्र वाराणस्याः समंततः ।
छंदकभिक्षणं सार्द्धं याचितुं प्राचरज्जनैः ॥ ३६.२१५{१३} ॥
तं दृष्ट्वा सार्थवाहस्य भार्या भद्रा सुभाविनी ।
सा तस्यै शिरसो मुच्य मुक्ताहारं ददौ मुदा ॥ ३६.२१६{१४} ॥
ततस्तस्याः शिरस्कं तन्मुक्ताहारव्यपोहितम् ।
द्ष्ट्वा स विस्मितो हार्य्यं तामेव पर्यपृछत ॥ ३६.२१७{१५} ॥
क्वासौ भद्रे शिरस्थस्ते मुक्ताहारो न विद्यते ।
कस्यै दत्तस्त्वया केन हृतो वा तद्वदस्व मे ॥ ३६.२१८{१६} ॥
इति भर्त्राभिपृष्टे सा मुदिता रचितांजलिः ।
भर्त्तारं तं प्रणत्वैवं विनोदयितुमब्रवीत् ॥ ३६.२१९{१७} ॥
आर्यपुत्र प्रसीदात्र मा कृथा रोषतामिह ।
यन्मया श्रद्धया दत्तश्छंदकभिक्षणेऽप्यसौ ॥ ३६.२२०{१८} ॥
इति भार्योदितं श्रुत्वा सार्थवाहस्ततश्चरन् ।
निष्क्रीय बहुमूल्येन तस्यै पत्न्यै ददौ पुनः ॥ ३६.२२१{१९} ॥
तं मुक्ताहारमालोक्य सार्थभृतः प्रियापि सा ।
संप्रदत्तं मया शास्तु इति तं नाग्रहीदपि ॥ ३६.२२२{२०} ॥
ततः स सार्थभृत्स्वामी तां भार्यां रमणीं प्रियाम् ।
स्नेहार्दचक्षुषा दृष्ट्वा पुनरेवमभाषत ॥ ३६.२२३{२१} ॥
बहुमूल्येन भद्रे यं मया क्रीतस्तु दीयते ।
तत्कस्मान्नेछसीदं मद्ग्रहीतुं कथमेव हि ॥ ३६.२२४{२२} ॥
इति भर्त्रोदितं श्रुत्वा सा दत्तं स्वामिना पुनः ।
तं मुक्ताहारमादाय भर्त्तुश्चित्तं व्यनोदयत् ॥ ३६.२२५{२३} ॥
ततः सा विषयारक्ता सद्धर्मगुणवांछिनी ।
तं संपूजांगमादाय ययौ शास्तुर्मुदाश्रमे ॥ ३६.२२६{२४} ॥
तत्रैतद्गन्धकुट्यां सा कृत्वा सुगंधिलेपनम् ।
सुपुष्पैश्च समाकीर्य्य नत्वा कृत्वा प्रदक्षिणाम् ॥ ३६.२२७{२५} ॥
ततः सा मुदिता तस्य काश्यपस्य जगद्गुरोः ।
मुक्ताहारं पुरः क्षिप्त्वा प्रणनाम कृतांजलिः ॥ ३६.२२८{२६} ॥
ततो बुद्धानुभवेन मुक्ताहारः स तत्क्षणम् ।
तस्य शास्तुः शिरः संस्थो रराज संप्रभासयन् ॥ ३६.२२९{२७} ॥
तद्दृष्ट्वा सा सुप्रसन्नास्याः संबोधिगुणलालसाः ।
शास्तुः पादौ प्रणत्वैवं प्रणिधानं व्यधान्मुदा ॥ ३६.२३०{२८} ॥
एतत्पुण्यविपाकेन शास्तारमीदृशं जिनम् ।
आराग्येदृग्गुणानां च लाभी स्यां सर्वथा भवे ॥ ३६.२३१{२९} ॥
एवं सा भाविनी कांता तस्य शास्तु जगद्गुरोः ।
प्रणिधानं सदा कृत्वा प्रभेजे संप्रसादिता ॥ ३६.२३२{३०} ॥
योऽसौ सार्थपतेर्भार्या मुक्तेयं सा सुभाविनी ।
मन्यतामिति युष्माभिर्नान्यथा तु हि भिक्षवः ॥ ३६.२३३{३१} ॥
यदनया तदा तस्य काश्यपस्य जगद्गुरोः ।
(र्म् ४०९)
पूजाङ्गैः श्रद्धयाभ्यर्च्य मुक्ताहारः प्रढोकितः ॥ ३६.२३४{३२} ॥
एतत्पुण्यविपाकेन जातेयं सुकुलेऽधुना ।
शिरस्यस्याश्च संरूढो मुक्तामाला सहोद्भवा ॥ ३६.२३५{३३} ॥
यथानया कृतं तत्र प्रणिधानं तथाऽधुना ।
मां शास्तारमागम्य साक्षादर्हत्वमाप्यते ॥ ३६.२३६{३४} ॥
एवं हि यत्कृतं येन तेनैव भुज्यते फलम् ।
अभुक्तं क्षीयते नैव कर्म न चान्यथा क्वचित् ॥ ३६.२३७{३५} ॥
एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः ।
सद्धर्मं समुपाश्रित्य चरितव्यं शुभे सदा ॥ ३६.२३८{३६} ॥
शुभे चरन्ति ये नित्यं न ते गछंति दुर्गतीम् ।
सद्गतिमेव संयान्ति बोधिं च समवाप्नुयुः ॥ ३६.२३९{३७} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिका अपि ।
सर्वे तथेति विज्ञप्य प्राभ्यनंदन् प्रबोधिताः ॥ ३६.२४०{३८} ॥
इत्यादिष्टं हि मे शास्त्रा श्रुतं मया तथोच्यते ।
श्रुत्वाप्येवं तथा राजं चरितव्यं शुभे सदा ॥ ३६.२४१{३९} ॥
प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ ३६.२४२{४०} ॥
तथा हि ते सदा भद्रं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं च संप्राप्य संबुद्धपदमाप्नुयाः ॥ ३६.२४३{४१} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथा हीति प्रतिज्ञप्य प्राभ्यनंदत्सपार्षदः ॥ ३६.२४४{४२} ॥
मुक्तावदानं मनुजा इदं ये शृण्वंति ये चापि निशामयन्ति ।
ते सर्व एवं सुखिता शुभानि कृत्वा प्रयान्ति सुगतालयन् ते ॥ ३६.२४५{४३} ॥
++ इति रत्नावदानतत्वे मुक्तावदानं समाप्तम् ++
(र्म् ४१०)
xxxविइ धीमत्यावदान
अथाशोको महीन्द्रोऽसौ कृतांजलिः प्रमोदितः ।
उपगुप्तं तमर्हन्तं नत्वैवं पुनरब्रवीत् ॥ ३७.१{१} ॥
भदन्त ये महासत्वा बोधिसत्वा यथेप्सितम् ।
सर्वार्थिभ्यः प्रदत्वैवं दानं कुर्वन्ति सर्वदा ॥ ३७.२{२} ॥
तेषामेवं प्रदत्तेऽपि तद्द्रव्यं क्षीयते न हि ।
पुनर्वृद्धितमं याति तत्कथं मे समादिश ॥ ३७.३{३} ॥
कतमद्व्रतपुण्यस्य प्रभावाच्छ्रीः प्रवर्द्धते ।
तद्व्रतं मे भवाञ्छास्ता सम्यगादेष्टुमर्हति ॥ ३७.४{४} ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन् यतिः सुधीः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ ३७.५{५} ॥
शृणु राजन्महाभाग यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि लोके धर्माभिवृद्धये ॥ ३७.६{६} ॥
ये सत्यसमाधानाः शुद्धशीलाः शुभार्थिनः ।
वसुधारामहादेव्याश्चरन्ति व्रतमुत्तमम् ॥ ३७.७{७} ॥
तेषां न क्षीयते द्रव्यं प्रदत्तेऽपि सदा गृहे ।
प्रवृद्धितरमेव स्याद्वसुधारानुभावतः ॥ ३७.८{८} ॥
तद्यथासीत्पुरा बुद्धः शाक्यसिंहो मुनीश्वरः ।
सर्वज्ञोऽर्हञ्जगच्छास्ता धर्मराजस्तथागतः ॥ ३७.९{९} ॥
भगवान्नेकदा तत्र वाराणस्याः पुरान्तिके ।
मृगदवे जिनावासे विजहार ससांघिकः ॥ ३७.१०{१०} ॥
तदा तद्धर्मपीयूषं पातुं शक्रादयोऽमराः ।
ब्रह्मादि ब्राह्मणाश्चापि सर्वे लोकाधिपा अपि ॥ ३७.११{११} ॥
सिद्धा विद्याधरा दैत्या यक्षगंधर्वकिन्नराः ।
राक्षसा गरुडा नागास्तथान्येऽपि समागताः ॥ ३७.१२{१२} ॥
यतयो योगिनश्चापि तीर्थिकाश्च तपश्विनः ।
निर्ग्रन्था वीतरागाश्च मुनयो ब्रह्मचारिणः ॥ ३७.१३{१३} ॥
एवमन्येऽपि लोकाः संबुद्धधर्मवांछिनः ।
तत्सद्धर्मामृतं पातुं मुदा तत्र समागताः ॥ ३७.१४{१४} ॥
तत्पुराधिपती राजा विश्वभद्राभिधो महान् ।
तस्य भार्या प्रियादेवी रत्नमालाभिधा सती ॥ ३७.१५{१५} ॥
तदात्मजकुमारांशः सूर्यप्रभाभिधः कृती ।
तदात्मजा रमाकारा कुमारी विमलाभिधा ॥ ३७.१६{१६} ॥
अन्येऽप्यन्तर्जनाश्चापि स ज्ञातिमित्रवांधवाः ।
पुरोहितादयश्चापि वेदविज्ञा द्विजातयः ॥ ३७.१७{१७} ॥
वैश्याश्च मंत्रिणोऽमात्या गृहस्थाश्च महाजनाः ।
वणिजः सार्थवाहाश्च शिल्पिनश्चापि पौरिकाः ॥ ३७.१८{१८} ॥
ग्राम्या जानपदाश्चापि तथा कार्पटिका अपि ।
(र्म् ४११)
एवमन्येऽपि लोकाश्च सर्वे ते समुपागताः ॥ ३७.१९{१९} ॥
तत्रेत्य तं सभासीनं सर्वसंघपुरस्कृतम् ।
संबुद्धं श्रीघनं दृष्ट्वा मुदिताः समुपाचरन् ॥ ३७.२०{२०} ॥
तत्र सर्वेऽपि ते लोकाः समभ्यर्च्य यथाक्रमम् ।
त्रिधा प्रदक्षिणीकृत्वा प्रणत्वा तं मुनीश्वरम् ॥ ३७.२१{२१} ॥
तत्सद्धर्मामृतं पातुं परिवृत्य समंततः ।
पुरस्कृत्य समाधाय समुपतस्थुराद्रिता ॥ ३७.२२{२२} ॥
अथ स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
बोधिचर्यां समारभ्य दिदेश धर्ममुत्तमम् ॥ ३७.२३{२३} ॥
तत्सद्धर्मं समाकर्ण्य सर्वलोकाः प्रबोधिताः ।
बोधिचित्तं समासाद्य भवंति बोधिचारिणः ॥ ३७.२४{२४} ॥
आसीत्तत्समये तत्र वाराणस्यां गृहाधिपः ।
धर्मध्वजाभिधः श्रेष्ठी दाता साधुर्महाजनः ॥ ३७.२५{२५} ॥
तस्य भार्या प्रिया कान्ता शान्तमतीति विश्रुता ।
पुत्राश्च बहवस्तस्य सुताश्चाप्यभवंस्तथा ॥ ३७.२६{२६} ॥
पौत्राः कर्मकराः प्रेश्या दासी दासजना अपि ।
अनेके परिवाराश्च वंधुमित्रसुहृज्जनाः ॥ ३७.२७{२७} ॥
सर्वे ते पोषितास्तेन संभृत्य परिपालिताः ।
पोषणीया गृहस्थस्य सर्वे हि समुपाश्रिताः ॥ ३७.२८{२८} ॥
अर्थिनोऽपि सदा तस्य गृहेऽनेकसमागता ।
शुभाशीर्वचनैर्नित्यं महोत्साहं प्रचक्रिरे ॥ ३७.२९{२९} ॥
सोऽपि धर्मध्वजो दाता तान् सर्वानर्थिनो जनान् ।
यथाभिलषितैर्द्रव्यैस्तोषयित्वाभ्यमोदयत् ॥ ३७.३०{३०} ॥
एवं प्रददतस्तस्य क्रमात्संपत्क्षयं गता ।
तद्दृष्ट्वा स गृही दानविघ्नशंकार्दितोऽभवत् ॥ ३७.३१{३१} ॥
ततः शोकालये स्थित्वा तत्संपत्क्षीयचिंतया ।
विनिश्वसन् विषण्णात्मा तस्थौ भोग्यनिरुत्सहः ॥ ३७.३२{३२} ॥
ततस्तस्य प्रिया भार्या शान्तमती विचक्षणा ।
भर्त्तारं तं विषण्णास्यं दृष्ट्वैवं पर्यपृछत ॥ ३७.३३{३३} ॥
स्वामिन्नेवं किमालोक्य तिष्ठसे दुःखचिंतया ।
यत्तेऽत्र जायते दुःखं तद्वदस्व मनोगतम् ॥ ३७.३४{३४} ॥
इटि भार्योदितं श्रुत्वा स भर्त्ताभिविनिश्वसन् ।
तां भार्यां सुप्रियां कांतां समालोक्यैवमब्रवीत् ॥ ३७.३५{३५} ॥
अयि प्रिये महद्दुःखं हृदि मे जायतेऽधुना ।
यत्संपदः परिक्षीणा आया मेऽत्र न विद्यते ॥ ३७.३६{३६} ॥
पुत्रपौत्रादयोऽनेके बहयो मे कुटुम्बिनः ।
कर्मकरादयो भृत्या दासीदासादयो जनाः ॥ ३७.३७{३७} ॥
अन्येऽपि बहवः प्रेष्याः पालनीया दिवानिशम् ।
अर्थिनो याचकाश्च बहवो नित्यमागताः ।
कथं तान्स्तोषयिष्यामि क्रमात्क्षीणा हि संपदः ॥ ३७.३८{३८} ॥
नूनं मे याचकाः सर्वे शून्यहस्ता गृहादतः ।
परिखिन्नविभिन्नास्या व्रजिष्यन्ति निराशयाः ॥ ३७.३९{३९} ॥
(र्म् ४१२)
इति चिन्ताविषण्णे मे हृदि दुःखं प्रजायते ।
तद्दुःखानलसंतप्तस्तिष्ठाम्येवं विमोहितः ॥ ३७.४०{४०} ॥
किं हि दानमहोत्साहं विना गेहे सुखं भवेत् ।
पशुवत्केवलं भुक्त्वा किं सारं सत्सुखं विना ॥ ३७.४१{४१} ॥
इति भर्त्रोदितं श्रुत्वा साथ शान्तमती सती ।
भर्त्तारं तं समाश्वास्य बोधयन्त्येवमब्रवीत् ॥ ३७.४२{४२} ॥
आर्यपुत्र किमत्रापि जाता ते हृदि दुःखता ।
किं विषादेना सिद्ध्येत केवलं दह्यते मनः ॥ ३७.४३{४३} ॥
अवश्यं भाविनो भावा भवन्ति महतामपि ।
तद्विषादं परित्यज्य चर शुभे समाहितः ॥ ३७.४४{४४} ॥
इति भार्योदितं श्रुत्वा स भर्त्ताभिविनिःश्वसन् ।
तां भार्यां सुप्रियां कांतां समालोक्यैवमब्रवीत् ॥ ३७.४५{४५} ॥
अयि प्रिये शुभं कार्य्यं नाभिजानामि सन्मते ।
तदुपायं समाख्याय मां बोधयितुमर्हति ॥ ३७.४६{४६} ॥
इति भर्त्त्रोदितं श्रुत्वा सा च शांतमती सती ।
भर्त्तारं तं समाश्वास्य प्रबोधयितुमब्रवीत् ॥ ३७.४७{४७} ॥
आर्यपुत्र महासाधो तदुपायं प्रकथ्यते ।
कौशांव्यां घोषिरारामे शाक्यसिंहो मुनीश्वरः ॥ ३७.४८{४८} ॥
सर्वज्ञः सुगतो बुद्धो हीनदीनानुकंपकः ।
सर्वविद्याकलाभिज्ञः षडभिज्ञो विचक्षणः ॥ ३७.४९{४९} ॥
मारजिल्लोकविन्नाथो विनायकस्तथागतः ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमण्डितः ॥ ३७.५०{५०} ॥
व्याम प्रभाभिभास्वंतं शतसूर्याधिकप्रभम् ।
जंगममिव रत्नाभं सौम्यं समंतभद्रकम् ॥ ३७.५१{५१} ॥
सर्वसत्वहितार्थेन विजहार ससांघिकः ।
तत्र गत्वा प्रणत्वा तत्तं बुद्धं शृणुतादरात् ॥ ३७.५२{५२} ॥
तदा स भगवान् बुद्धस्तदुपायं समादिशेत् ॥ ३७.५३{५३!} ॥
इति भार्यासमादिष्टं श्रुत्वा धर्मध्वजोऽपि सः ।
तथेति परिभाषित्वा स भर्त्ता संप्रमोदितः ॥ ३७.५४{५४} ॥
तदा स धर्मध्वजो भार्यं वेलामादाय प्राचरत् ।
ततो विहारे गत्वा स भगवंतं ससांघिकम् ।
दूरतः प्रणतिं कृत्वा एकस्थाने समाश्रयत् ॥ ३७.५५{५५} ॥
तदा स भगवान् दृष्ट्वा तं धर्मध्वजदुःखितम् ।
जानन्नप्यागतं कामं धर्मध्वजे समब्रवीत् ॥ ३७.५६{५६} ॥
साधो कस्मादिहागत्य तिष्ठसे तत्समादिश ।
इति शास्त्रा समादिष्टं श्रुत्वा धर्मध्वजोऽपि सः ॥ ३७.५७{५७} ॥
कृतांजलिपुटो नत्वा भगवंतमेवमब्रवीत् ।
भगवन् यद्विजानीया नान्य गच्छामि मे विभो ।
त्वयि मम कार्य्यमेक पृछामीति व्यचिन्तयत् ॥ ३७.५८{५८} ॥
तद्यथा मे महासंपत्क्षीणं याति दरिद्रताम् ।
पुनर्वृद्धिगतं द्रव्यं तत्कथं मे समादिश ॥ ३७.५९{५९} ॥
कतमद्व्रतपुण्यस्य प्रभावाच्छ्री प्रवर्द्धते ।
तद्व्रतं मे भवाञ्छास्ता सम्यगादेष्टुमर्हति ॥ ३७.६०{६०} ॥
(र्म् ४१३)
इति संप्रार्थितं तेन श्रुत्वा स भगवान्मुदा ।
धर्मध्वजं तमामंत्र्य संपश्यन्नेवमब्रवीत् ॥ ३७.६१{६१} ॥
साधु शृणु समाधाय तद्विधिं संप्रवक्ष्यते ।
तच्छ्रुत्वा ते प्रबोधित्वा समाचर विधानतः ॥ ३७.६२{६२} ॥
वसुधाराव्रतं सम्यक्यथा श्रुतं मया पुरा ।
वज्रधराब्धिगंभीरनिर्घोषेणोपदेशितम् ॥ ३७.६३{६३} ॥
तथाथा प्रथमं तावच्छुद्धभूमौ परिग्रहम् ।
कृत्वा मृद्गोमयाम्भोभिः संलिप्य पर्यशोभयेत् ॥ ३७.६४{६४} ॥
ततः सद्गुरुमाराध्य नत्वा कृतांजलिर्मुदा ।
सत्कृत्य प्रार्थयेदेवं वसुधाराव्रतं वरम् ॥ ३७.६५{६५} ॥
ततः स गुरुणा सार्द्धं स्नात्वा तीर्थे विशुद्धधीः ।
शुद्धवस्त्रावृताः शुद्धचित्तो ब्रह्मविहारिकः ॥ ३७.६६{६६} ॥
मासे भाद्रपदे कृष्णपक्षे माघेऽपि वा पुनः ।
तृतीयायां तिथौ देवीं समावाह्य व्रतं चरेत् ॥ ३७.६७{६७} ॥
पूर्वस्मिन् दिवसे विघ्नान् कीलयेत्सर्वदिक्स्थितान् ।
तत्र सुभूतले सूत्रं पातयित्वा यथाविधि ॥ ३७.६८{६८} ॥
वर्त्तयेन्मंडलं देव्याः सगणप्रतिमण्डितम् ॥ ३७.६९{६९!} ॥
एवं तन्मंडलं कृत्वा सप्तव्रीहिसुवेष्टितम् ।
ततोऽष्टयक्षणीचिह्नं शोभितैः कलशैर्वृतम् ॥ ३७.७०{७०} ॥
सपताकध्वजछत्रवितानैः परिमण्डितम् ।
कृत्वा तन्मण्डलं वज्री प्रतिष्ठाप्य यथाविधि ॥ ३७.७१{७१} ॥
विचित्रपुष्पमालाभिः प्रदीपैः संप्रभोज्वलैः ।
सौरभ्यधूपनैश्चापि समभ्यर्च्याभिशोभयेत् ॥ ३७.७२{७२} ॥
ततस्तन्मण्डले देवी सगणां परिसंस्मरन् ।
ध्यात्वा जागरणं कृत्वा तद्रात्रीं व्यतिलंघयेत् ॥ ३७.७३{७३} ॥
ततः प्रातः समुत्थाय तीर्थे स्नात्वा सुशुद्धधीः ।
शुचिवस्त्रावृते पंचगव्यैः स्वांगं व्यशोधयेत् ॥ ३७.७४{७४} ॥
ततः स सद्गुरुं नत्वा तदाज्ञां शिरसावहन् ।
उत्तराभिमुखः शुद्ध आसने समुपाश्रयेत् ॥ ३७.७५{७५} ॥
ततस्तावद्गुरुं नत्वा त्रिरत्नशरणं गतः ।
मंडले सगणां देवीं ध्यात्वावाह्य समर्चयेत् ॥ ३७.७६{७६} ॥
ततोऽरहं संप्रदत्वाग्रे प्रणत्वा सांजलिर्मुदा ।
जपस्तोत्रादिकं कृत्वा कुर्याच्च पापदेशनाम् ॥ ३७.७७{७७} ॥
पुण्यानुमोदनां कृत्वा प्रार्थयेद्बोधिसंवरम् ॥ ३७.७८{७८!} ॥
ततः प्रदक्षिणां कृत्वा नत्वास्तांगैश्च सांजलिः ।
ततः पीतमयं सूत्रं षोडशभेदवर्त्तितम् ।
शुद्धं गुरुर्मंत्रेण शोधयेत् ॥ ३७.७९{७९} ॥
ततस्तद्व्रतसूत्रं स सगुरुर्धारणीं पथन् ।
तस्मै शिष्याय रक्ष्यार्थं दत्वाभिषेकमर्प्पयेत् ॥ ३७.८०{८०} ॥
तद्व्रतं सूत्रमादाय वंधित्वा स्वकरे व्रती ।
यावद्व्रतसमाप्तं न तावत्तत्सूत्रमाधरेत् ॥ ३७.८१{८१} ॥
ततः व्रती यथाशक्ति गुरवे दानदक्षिणम् ।
(र्म् ४१४)
दत्वाष्टाङ्गप्रणामेण नत्वा समभितोषयेत् ॥ ३७.८२{८२} ॥
ततः पंचामृतैर्युक्तं बलिं क्षीरोदनाभरम् ।
स यक्षयक्षणीलोकपालेभ्यः संप्रदापयेत् ॥ ३७.८३{८३} ॥
ततः क्षमार्थनं कृत्वा गुरुणा सह पालनम् ।
तृतीयप्रहराग्रेऽह्नेः कुर्यात्स यवपूरकैः ॥ ३७.८४{८४} ॥
पालनांते पुनः स्नात्वा तां देवीं सगणां स्मरन् ।
पठञ्छ्रीधारणीं रात्री पूजयेच्च यथाविधि ॥ ३७.८५{८५} ॥
एवं नित्यं चतुःसंध्यं पूजयेच्छ्रीवसुंधराम् ।
यावज्जीवं यथासक्तौ वर्षैकं वा तथा चरेत् ॥ ३७.८६{८६} ॥
षण्मासं मासमेकं च यथाशक्ति व्रतं चरेत् ।
नवसप्तदिनान्येवं पंचत्रीणि दिनान्यपि ॥ ३७.८७{८७} ॥
अहो रात्रं तथैकं वा वारमेकं व्रतं चरेत् ।
तत्परे द्युर्दिने प्रातः स्नात्वा शुद्धाशयो व्रती ।
तथा तां सगणां देवीं समर्चयेद्यथाविधि ॥ ३७.८८{८८} ॥
ततश्च गुरुवेऽभ्यर्च्य वस्त्रालंकारभूगृहम् ।
सदक्षिणां प्रदत्वैवं स्वात्मानं च समर्प्पयेत् ॥ ३७.८९{८९} ॥
ततः स गुरुरादाय तस्मै शिष्याय साशिषम् ।
दत्वा क्षमार्थनां कृत्वा तन्मण्डलं विसर्जयेत् ॥ ३७.९०{९०} ॥
ततस्तद्रज आदाय भण्डागारेऽभिगोपितम् ।
संनिधाय सदा नित्यमभ्यर्च्य सादरं भजेत् ॥ ३७.९१{९१} ॥
तद्रजःशेषनिर्माल्यं नद्यां नागान् यथाविधि ।
समभ्यर्च्य समर्प्पित्वा सर्वं जले प्रवाहयेत् ॥ ३७.९२{९२} ॥
ततस्तज्जलमादाय गृहे गत्वा महोत्सवैः ।
तज्जलैर्मण्डलागारकोष्ठे सर्वत्र सिंचयेत् ॥ ३७.९३{९३} ॥
ततस्तद्व्रतपूर्णार्थं रात्रौ देवीं कुमारिकाम् ।
यथाविधि समावाह्य समभ्यर्च्याभ्यतोषयेत् ॥ ३७.९४{९४} ॥
सत्गुरुप्रमुखान् सर्वान् योगिनो योगिनीरपि ।
समभ्यर्च्य यथाकामं भोजनैः संप्रतोषयेत् ॥ ३७.९५{९५} ॥
ततस्तं सगणं चक्रं नत्वा व्रती स सांजलिः ।
क्षमाप्य विनयं कृत्वा प्रार्थयेच्छ्रीसमृद्धिताम् ॥ ३७.९६{९६} ॥
ततस्तत्सगणं चक्रं तद्भक्त्या संप्रतोषितम् ।
तस्मै व्रतिने दद्यात्सुसंपत्तिसुभाषितम् ॥ ३७.९७{९७} ॥
ततस्तस्य गृहे देवी वसुधारा समाश्रिता ।
सर्वद्रव्याभिसंपूर्णं कृत्वा तिष्ठेत्सदा स्थिरा ॥ ३७.९८{९८} ॥
ततस्तद्द्रव्यमादाय सर्वार्थिभ्यो यथेप्सितम् ।
संप्रदत्वा यथाकामं भुक्त्वा भवं सुखं चरेत् ॥ ३७.९९{९९} ॥
एवं गृहपते मत्वा वसुधाराव्रतं महत् ।
यथाविधि समादाय गृहे चर समादरात् ॥ ३७.१००{१००} ॥
ततस्ते सर्वदा गेहे मंगलं निरुपद्रवम् ।
भवेत्सापि महादेवी सगणा निवसेत्स्थिरा ॥ ३७.१०१{१} ॥
ततस्ते सर्वसंपत्तिः प्रवर्द्धिता शुभान्विता ।
भवने संभवन्त्येव न कदाचित्क्षयं व्रजेत् ॥ ३७.१०२{२} ॥
ततस्त्वं सर्वदा सौख्यं भुक्त्वा दत्वा यथेप्सितम् ।
(र्म् ४१५)
त्रिरत्नभजनं कृत्वा शुभे चर समाहितः ॥ ३७.१०३{३} ॥
एतत्पुण्यविपाकेन सदा त्वं सद्गतिं ततः ।
बोधिचर्यां चरन् बोधिं प्राप्य बुद्धपदं लभेः ॥ ३७.१०४{४} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा धर्मध्वजो गृही ।
स मुदा सुप्रसन्नात्मा व्रतं चरितुमैछत ॥ ३७.१०५{५} ॥
ततः स मुदितो नत्वा सांजलिस्तं जगद्गुरुम् ।
भगवन्तं जगन्नाथं प्रार्थयदेवमादरात् ॥ ३७.१०६{६} ॥
भगवन् सर्वविच्छास्तर्भवतां शरणं गतः ।
भवदाज्ञां शिरो धृत्वा चरिष्येऽहमिदं व्रतम् ॥ ३७.१०७{७} ॥
तद्भवां कृपया शास्तस्तदनुज्ञां ददातु मे ।
भवतात्र यथादिष्टं चरिष्ये तत्तथा खलु ॥ ३७.१०८{८} ॥
इति संप्रार्थिते तेन भगवान् स जगद्गुरुः ।
तस्मै देव्या महाविद्यां धारणीं संपठन् ददौ ॥ ३७.१०९{१०} ॥
सोऽपि धर्मध्वजो नत्वा साञ्जलिस्तं मुनीश्वरम् ।
धारणीं तां समादाय संपपाठ प्रमोदितः ॥ ३७.११०{१०} ॥
ततः स सुप्रसन्नात्मा धर्मध्वजः कृतांजलिः ।
तं मुनीन्द्रं जगन्नाथं प्रणत्वा स्वगृहं ययौ ॥ ३७.१११{११} ॥
ततः स स्वगृहप्राप्तः सुप्रसन्नमुखाम्बुजः ।
तां शांतमतां भार्यां समामंत्र्यैवमब्रवीत् ॥ ३७.११२{१२} ॥
प्रिये धन्यासि कल्याणी यत्त्वयाहं प्रबोधितः ।
संबुद्धशासनं रत्नमाप्तवानहमागतः ॥ ३७.११३{१३} ॥
तद्यथा समुपादिष्टं मुनीन्द्रेणानुशासिना ।
तथावां तद्व्रतं देव्याश्चरेवहि समादरात् ॥ ३७.११४{१४} ॥
इति भर्त्रा समुद्दिष्टे सापि शान्तमती मुदा ।
भर्त्तारं तं समालोक्य सुदृष्ट्यैवमभाषत ॥ ३७.११५{१५} ॥
अयि स्वामिन् कथं शास्त्र समादिष्टं वदस्व मे ।
यथादिष्टं मुनीन्द्रेण तथ चरेवहि ध्रुवम् ॥ ३७.११६{१६} ॥
इति भार्योदितं श्रुत्वा भर्त्ता धर्मध्वजोऽथ सः ।
मुदा शांतमतीं भार्यां तां समीक्ष्यैवमब्रवीत् ॥ ३७.११७{१७} ॥
शृणु भद्रे यथादिष्टं मुनीन्द्रेण तथा खलु ।
यद्व्रतं वसुधारायास्तद्विधिं ते प्रवक्ष्यते ॥ ३७.११८{१८} ॥
इत्युक्ते स्वामिना तेन सा च शान्तमती प्रिया ।
भर्त्तारं तं समालोक्य मुदितैवमभाषत ॥ ३७.११९{१९} ॥
स्वामिन्स्तेन मुनीन्द्रेण यथादिष्टं तथा भवान् ।
सुविस्तरं समाख्याय मनो मे संविनोदत ॥ ३७.१२०{२०} ॥
इत्युक्ते भार्यया साथ धर्मध्वजः सुविस्तरम् ।
यथादिष्टं मुनीन्द्रेण तथा सर्वं न्यवेदयत् ॥ ३७.१२१{२१} ॥
तच्छ्रुत्वा सा प्रबोधन्ती शांतमत्यनुमोदिता ।
तथा तस्या महादेव्या व्रतं चरितुमैछत ॥ ३७.१२२{२२} ॥
ततस्तं स्वामिनं नत्वा सा च शान्तमती सती ।
तद्व्रतारम्भसामग्रीं साधितुमेवमब्रवीत् ॥ ३७.१२३{२३} ॥
स्वामिन् व्रतं चरिष्यावो वसुलक्ष्म्या यथाविधि ।
सामग्रीं साधयेयास्य तदनुज्ञां प्रदेहि मे ॥ ३७.१२४{२४} ॥
इति भार्योदितं श्रुत्वा धर्मध्वजः स मोदितः ।
साध्यतां सर्वसामाग्रीमिति तां सांव्यनोदयत् ॥ ३७.१२५{२५} ॥
(र्म् ४१६)
ततः सा मुदिताः सर्वे सामग्रीं साधयन्त्यपि ।
भर्त्तारं तमुपामंत्र्य दर्शयन्त्येवमब्रवीत् ॥ ३७.१२६{२६} ॥
सर्वं मे साधितं सिद्धं स्वामिन्नत्र प्रसीदतु ।
तत्सद्गुरुं समामंत्र्य व्रतमालब्धुमर्हति ॥ ३७.१२७{२७} ॥
इति भार्योदितं श्रुत्वा स धर्मध्वज आदरात् ।
सद्गुरुं समुपाराध्य नत्वेवं प्रार्थयन्मुदा ॥ ३७.१२८{२८} ॥
भदन्त श्रीवसुधारादेव्या व्रतं चरेवहि ।
तस्मात्देवीं समाराध्य व्रतोपदेशमादिश ॥ ३७.१२९{२९} ॥
इति संप्रार्थिते तेन तथेति हि स सद्गुरुः ।
प्रतिश्रुत्य यथादिष्टं मुनीन्द्रेण तथाचरत् ॥ ३७.१३०{३०} ॥
तथा भाद्रपदे मासे कृष्णपक्षे स सद्गुरुः ।
द्वितीयायं तिथौ तीर्थे स्नात्वा सुवाससा सुधीः ॥ ३७.१३१{३१} ॥
यथाविधिं समारभ्य मंडलं समवर्त्तयत् ।
तत्र तां सगणां देवीं प्रतिष्ठाप्य समर्चयत् ॥ ३७.१३२{३२} ॥
तत्परेद्युस्त्रितीयायां सुस्नातं शुभाम्बरम् ।
धर्मध्वजं सदारं तं पंचगव्यैर्व्यशोधयत् ॥ ३७.१३३{३३} ॥
ततस्तौ दंपती शास्त्रा यथादिष्टं समाहितौ ।
श्रुत्वा तथा समाधाय प्रचरतु व्रतं मुदा ॥ ३७.१३४{३४} ॥
यथा शास्त्रा समादिष्टं तथा कृत्वा व्रतं मुदा ।
गणचक्रादिकं सर्वं समाप्य तौ ननन्दतुः ॥ ३७.१३५{३५} ॥
ततस्तस्य गृहे देवीं वसुधारा समाश्रिता ।
सर्वद्रव्यं समापूर्य्य तस्थौ सदा प्रसादिता ॥ ३७.१३६{३६} ॥
ततस्तस्य गृहे संपद्दिने प्रवर्द्धिता ।
सरत्नधातुसद्वस्त्रशस्यादि द्रव्यजातयः ॥ ३७.१३७{३७} ॥
ता एवं वर्द्धिता दृष्ट्वा सदारः स गृहाधिपः ।
स विस्मयो मुदितोत्फुल्लवक्त्राम्बुजोऽभ्यनंदत ॥ ३७.१३८{३८} ॥
ततः स सर्वदार्थिभ्यो दत्वा दानं यथेप्सितम् ।
त्रिरत्नभजनं कृत्वा सुखं भुक्त्वा शुभेऽचरत् ॥ ३७.१३९{३९} ॥
तद्दृष्ट्वा तस्य गेहस्य समीपस्थो द्विजोत्तमः ।
विष्णुदासाभिधो विज्ञो विस्मयोद्धतमानसः ॥ ३७.१४०{४०} ॥
धीमतीं रमणीं भार्यां सुविशुद्धाशयां सतीम् ।
निःश्वसन्स्तां समामंत्र्य पुनरेवमभाषत ॥ ३७.१४१{४१} ॥
पश्य भद्रस्य मित्रस्य गृहे संपत्समृद्धिता ।
किमनेन कृतं धर्मं येनैवं श्रीः प्रवर्द्धिता ॥ ३७.१४२{४२} ॥
किमावाभ्यां कृतं पापं येनैवं नो विपत्सदा ।
किमत्रावां करिष्यावो येन संपत्प्रवर्द्धिता ॥ ३७.१४३{४३} ॥
तदुपायं न जानामि को मे उपदिशेद्धितम् ।
धन्यास्ते धनवंता ये यथाकाम सुखाशिनः ॥ ३७.१४४{४४} ॥
किं ते सद्गुणवंतोऽपि कृपणा ये दरिद्रिता ।
वरं प्राणपरित्यागं न त्वेवं जीवितं भवे ॥ ३७.१४५{४५} ॥
किं तेषां सद्गुणैश्चापि येषां संपद्गृहे न हि ।
धनवान् पुरुषो धीरः कुलीनो निर्गुणोऽपि च ।
(र्म् ४१७)
सर्वे हि धनिनां वश्या पंडिताः सुगुणा अपि ॥ ३७.१४६{४६} ॥
धनवान्निर्गुणश्चापि मान्यते गुरुवज्जनैः ।
धनहीना न पूज्यंते पंडिता ब्रह्मणा अपि ॥ ३७.१४७{४७} ॥
धिग्मे जीवितमेवं हि ब्राह्मणस्यापि दुःखिनः ।
वरमेवाद्येतन्मृत्युर्न त्वेव चिरजीवितुम् ॥ ३७.१४८{४८} ॥
किमनेनापि जीवेन केवलदुःखभोगिना ।
तदत्र मर्त्तुमिछामि नैव जीवेय दुःखभाक् ॥ ३७.१४९{४९} ॥
सर्वेषामपि जंतूनामवश्यं मरणं भवे ।
तदत्र विद्यमानोऽहं कथं लोके चरेय हि ॥ ३७.१५०{५०} ॥
इत्येवं विलपं विप्रो विष्णुदासः स मोहितः ।
गलदश्रुविरुक्षाक्षस्तस्थौ मुहुर्विनिःश्वसन् ॥ ३७.१५१{५१} ॥
इत्येवं विलपन्तन् तं दृष्ट्वा सा धीमती प्रिया ।
बोधयितुं समाश्वास्य भर्त्तारमेवमब्रवीत् ॥ ३७.१५२{५२} ॥
मा विषादं कृथाः स्वामिन् धैर्य्यमालम्ब्य तिष्ठतु ।
किं करिष्यावहे ह्यत्र दैवात्संपन्न तौ गृहे ॥ ३७.१५३{५३} ॥
तथापि धैर्य्यमालम्ब्य यत्नं कुरु समाहितः ।
यत्नेन सिद्ध्यते सर्वं गुणद्रव्यादि साधनम् ॥ ३७.१५४{५४} ॥
तदत्राहं वदिष्यामि हितार्थं ते शृणु प्रभो ।
भार्या हि स्वामिनो भर्त्तुर्हितार्थम्ऽभ्यनुदेशिनी ॥ ३७.१५५{५५} ॥
यदयं गृहभृद्भर्त्ता धर्मध्वजस्तव प्रियः ।
सुहृन्मित्रं महासाधुस्तदादरात्स पृछ्यताम् ॥ ३७.१५६{५६} ॥
यथा तेन समादिष्टं तथैव क्रीयतां प्रभो ।
ततस्तस्य यथा संपत्तथास्माकं भवेदपि ॥ ३७.१५७{५७} ॥
इति भार्योदितं श्रुत्वा विष्णुदासः स तैर्थिकः ।
बौद्धवाक्ये विरुद्धत्वादनिछन्नेवमब्रवीत् ॥ ३७.१५८{५८} ॥
वयं हि ब्राह्मणा भद्रे बुद्धदेवी वसुंधरा ।
तद्विधिं वेदशास्त्रेषु कथितं न क्वचिदपि ॥ ३७.१५९{५९} ॥
तत्कथं स्वकुलाचारं त्यक्त्वान्यछरणं गताः ।
बौद्धोपदेशमासाद्य लक्ष्म्या व्रतं चरेमहि ॥ ३७.१६०{६०} ॥
ये त्यक्त्वा स्वकुलाचारमन्यत्र शरणं गताः ।
व्रतं चरंति संपत्तिलाभिलाभाकुलाशयाः ॥ ३७.१६१{६१} ॥
ते स्वधर्मपरिभ्रष्टा इहापि क्लिष्टभोगिनः ।
रोगिणो दुहितात्मानो मृता यास्यंति दुर्गतीम् ॥ ३७.१६२{६२} ॥
इति भद्रे न मे वांछा बौद्धदेव्या व्रतेऽशुभे ।
वरं प्राणपरित्यागं नान्यद्व्रतं चरेमहि ॥ ३७.१६३{६३} ॥
अस्माकमपि या देवी महालक्ष्मी कुलेश्वरी ।
तस्या व्रतं समाधाय चरेमहि सदादरात् ॥ ३७.१६४{६४} ॥
ततः सा श्रीमहादेवी गृहेऽश्माकं समाश्रिता ।
यथाभिवांछितं द्रव्यं सर्वं दद्यात्प्रसादिता ॥ ३७.१६५{६५} ॥
इति तस्या महालक्ष्म्या व्रतं चरावहे वयम् ।
तत्तद्व्रतस्य सामग्रीं साधय सर्वमादरात् ॥ ३७.१६६{६६} ॥
इति भर्त्रोदितं श्रुत्वा धीमती सा प्रमोदिता ।
(र्म् ४१८)
तथेत्यभ्यनुमोदन्ती तत्सामग्रीमसाधयत् ॥ ३७.१६७{६७} ॥
तत्र सा धीमती तस्याः शांतमत्याः पुरो गता ।
तद्वृत्तान्तं सामाख्याय सामग्रीं समयाचत ॥ ३७.१६८{६८} ॥
सापि शांतमती तस्यै धीमत्यै संप्रमोदिता ।
यद्यत्संप्रार्थितं द्रव्यं तत्तत्सर्वं ददौ मुदा ॥ ३७.१६९{६७} ॥
तद्द्रव्यं सा समादाय भर्त्तुरग्रे समागता ।
तत्सर्वं समुपस्थाप्य विनोद्यैवमभाषत ॥ ३७.१७०{७०} ॥
स्वामिन् त्वया यथादिष्टं तत्सर्वं साधितं मया ।
तथा तस्या महालक्ष्म्या व्रतमारभ सांप्रतम् ॥ ३७.१७१{७१} ॥
इति भार्योदितं श्रुत्वा विष्णुदासः स मोदितः ।
यथाविधि महालक्ष्मीव्रतं चरितुमारभत् ॥ ३७.१७२{७२} ॥
मासे भाद्रपदे कृष्णपक्षेऽष्टम्यां यथाविधि ।
मण्डलादीन् प्रतिस्थाप्य शुद्धशीलः समाहितः ॥ ३७.१७३{७३} ॥
सदारस्तां महालक्ष्मीं समावाह्य समर्चयन् ।
विधिना तद्व्रतं कृत्वा संपत्तिं प्रार्थयन्मुदा ॥ ३७.१७४{७४} ॥
ततः स ब्राह्मणः कृत्वा तद्व्रतं सुसमाप्तितम् ।
सभार्यः सुप्रसन्नात्मा प्राचरत्तां श्रियं स्मरन् ॥ ३७.१७५{७५} ॥
तथा तस्य गृहे संपत्समुद्भूताभ्यजायत ।
दृष्ट्वा तौ दंपती तत्र महानंदमवापतुः ॥ ३७.१७६{७६} ॥
ततः स ब्राह्मणो लुब्धो दृष्ट्वा तान् संपदं मुदा ।
सर्वान् गुप्ते निधायैव न किं चित्तद्व्ययं व्यधात् ॥ ३७.१७७{७७} ॥
भूयस्तृष्णाभिसंतप्तो मात्सर्याभिहताशयः ।
कस्मै चिदपि तद्द्रव्यं किं चिद्दानं ददौ क्वचित् ॥ ३७.१७८{७८} ॥
तथा संरक्ष्य तद्द्रव्यं निधाय तु वियत्नतः ।
गोपयित्वा स्वयं भोक्तुमपि नैवाभ्यवांछत ॥ ३७.१७९{७९} ॥
तथापि स प्रलुब्धात्मा नित्यं कृपणोऽर्थिवत् ।
धनिनां समुपाश्रित्य याचित्वा धनमार्जयत् ॥ ३७.१८०{८०} ॥
तथार्जनः कृतस्तस्य गृहे द्रव्यं न वर्द्धितम् ।
दिने दिने निहीनत्वं गत्वा क्षयं क्रमाद्ययौ ॥ ३७.१८१{८१} ॥
ततः स ब्राह्मणो लुब्धो धनिनामर्थिनो गृहे ।
दृष्ट्वातिरुषितः सर्वान् परिभाष्याभ्यनिंदयत् ॥ ३७.१८२{८२} ॥
तत्पापताविपाकेन गृहे यद्गोपितं धनम् ।
तत्सर्वं निहृतं चौरैर्निदग्धं चापि वह्निना ॥ ३७.१८३{८३} ॥
ततः स ब्राह्मणस्तीव्रक्लेशाग्निपरितापितः ।
दरिद्रिताविभग्नाशः सभार्यो न्यवसद्गृहे ॥ ३७.१८४{३४!} ॥
तस्मिन्नवसरे तस्या धीमत्याः स पिता द्विजः ।
हरिशर्माभिधो गेहे यज्ञं कर्त्तुं सदारभत् ॥ ३७.१८५{३५} ॥
तदा स वांधवान् सार्वाञ्ज्ञातीन्मित्रसुहृज्जनान् ।
भगिनीभागिनेयांश्च जामात्रींश्तत्सुतानपि ॥ ३७.१८६{३६} ॥
दुहितॄरपि सर्वाश्च न्यमंत्रयत्समादरात् ॥ ३७.१८७{३७} ॥
(र्म् ४१९)
तत्र ते वांधवा सर्वे ज्ञातिमित्रसुहृज्जनाः ।
भगिन्या भागिनेयाश्च जामातरोऽपि तत्सुताः ॥ ३७.१८८{३८} ॥
दुहितरस्तथा पौत्राः पौत्र्यादयोऽपि चापरे ।
सर्वे ते समुपागत्य समुपतस्थुराद्रिताः ॥ ३७.१८९{३९} ॥
तत्र सा कृपणीभूता दुर्भगेति पितापि सः ।
तत्र यज्ञमहोत्साहे तामेकां न न्यमंत्रयत् ॥ ३७.१९०{४०} ॥
तदा सा धीमती श्रुत्वा पितुर्यज्ञमहोत्सवम् ।
कथं मे विस्मृतं पित्रा मात्रापि वांधवैरपि ॥ ३७.१९१{४१} ॥
इति चिंताविषाघ्रातहृदया परिमूर्छिता ।
भोजनेऽपि निरुत्साहा तस्थौ लज्जान्विता गृहे ॥ ३७.१९२{४२} ॥
तथा स विष्णुदासोऽपि ससुरस्य गृहे तदा ।
श्रुत्वा यज्ञमहोत्साहं तां भार्यामेवमब्रवीत् ॥ ३७.१९३{४३} ॥
कथं ते जनकेनावां विस्मृतौ केन हेतुना ।
नैव निमंत्रितौ भद्रे यथा सर्वे निमंत्रिता ॥ ३७.१९४{४४} ॥
इति भर्त्रोदितं श्रुत्वा धीमती सातिलज्जिता ।
भर्त्तारं विष्णुदासं तं बोधयन्त्येवमब्रवीत् ॥ ३७.१९५{४५} ॥
किमत्राहं वदिष्यामि यन्नौ संपद्गृहेऽस्ति न ।
तेन नौ लज्जयाम्बापि निमंत्रितुं न वांछते ॥ ३७.१९६{४६} ॥
इति सा धीमती लज्जासंकुंचिताशयानना ।
भर्त्रा सह विलप्यैव तस्थौ गृहे निराशिता ॥ ३७.१९७{४७} ॥
तदा तज्जनं स्मृत्वा धीमतीं तामनागताम् ।
काञ्चित्पठिगतां चेटीं समाहूयैवमब्रवीत् ॥ ३७.१९८{४८} ॥
अयि सखि सुता मे सा धीमता यदि दृश्यते ।
मद्वाचसा समेत्यासौ वक्तव्यैवं लघु त्वया ॥ ३७.१९९{४९} ॥
पितुस्ते मन्दिरे यज्ञमहोत्साहं प्रवर्त्तते ।
तत्कथं न समायासि सभर्त्तागन्तुमर्हसि ॥ ३७.२००{५०} ॥
इति संदिश्य ते मात्रा प्रेषिताहं त्वदन्तिके ।
तन्मातुर्वचनं श्रुत्वागछेति तत्पुरो वद ॥ ३७.२०१{५१} ॥
तत्संदिष्टं तया श्रुत्वा तथेति प्रतिभाष्य सा ।
चेटी ततोऽभिगछन्ती धीमत्या भवने ययौ ॥ ३७.२०२{५२} ॥
तत्र तां धीमतीं दृष्ट्वा सा चेटी समुपस्थिता ।
यथा मात्रा समादिष्टं तथा सर्वं न्यवेदयत् ॥ ३७.२०३{५३} ॥
तत्तया कथितं श्रुत्वा धीमती साश्रुमोचिनी ।
विनिःश्वस्य प्रसूं स्मृत्वा विलपन्त्यैवमब्रवीत् ॥ ३७.२०४{५४} ॥
हा मातः कथमद्याहं संस्मृता सांप्रतं त्वया ।
किमागछेय ते पुत्री पापिनी दुःखभागिनी ॥ ३७.२०५{५५} ॥
तस्मिन्नेव क्षणे भर्त्ता विष्णुदास उपाचरत् ।
तां चेटीं समुपालोक्य किमर्थमित्यपृछत ॥ ३७.२०६{५६} ॥
इति तेनाभिसंपृष्टे सा चेटी रचितांजलिः ।
ब्राह्मणं तं प्रणम्यैतत्सर्वं वृतांतमब्रवीत् ॥ ३७.२०७{५७} ॥
तथा तत्कथितं श्रुत्वा विष्णुदासोऽपि स द्विजः ।
गलदश्रुविरुक्षाक्षस्तां भार्यामेवमब्रवीत् ॥ ३७.२०८{५८} ॥
किं वदिष्यावहे भार्ये दैवान्नौ जायते विपत् ।
(र्म् ४२०)
तथापि धैर्य्यमालम्व्य गछ द्रष्टुं पितुर्मनः ॥ ३७.२०९{५९} ॥
इति भर्त्रोदितं श्रुत्वा धीमती सा कुवासिनी ।
निर्मण्डनात्सुतान् पुत्रीः समादाय शनैर्ययौ ॥ ३७.२१०{६०} ॥
ततो मातुर्गृहे प्राप्ता दृष्ट्वा तौ पितरौ पुरः ।
गत्वा सा धीमती नत्वा तस्थौ लज्जाहताशया ॥ ३७.२११{६१} ॥
पितरौ तां सुतां दृष्ट्वा विछन्दां लज्जिताशयम् ।
किं चिद्दृष्ट्वागतासीति कथित्वैव निषेदतुः ॥ ३७.२१२{६२} ॥
ततः सा धीमती सर्वाञ्ज्ञातीन् भ्रात्रींश्च वांधवान् ।
भगिनीः सुहृदो जेष्ठान् प्रणनाम यथाक्रमम् ॥ ३७.२१३{६३} ॥
तां दृष्ट्वा ज्ञातयः सर्वे भ्रातरो वांधवा अपि ।
भगिन्यापि सुहृदश्चापि दृष्ट्वोपहस्य जल्पिरे ॥ ३७.२१४{६४} ॥
तथा प्रहसितं सर्वे सा दृष्ट्वातित्रपान्विता ।
स्वदैवस्मृतिमाधाय निःश्वस्यैकान्त आश्रयत् ॥ ३७.२१५{६५} ॥
ततः स हरिशर्मा स पुरोहितो यथाविधि ।
यज्ञकर्मसमारभ्य यथाकामं समापयत् ॥ ३७.२१६{६६} ॥
ततस्तान् वांधवाञ्ज्ञातीन् सुहृन्मित्रजनानपि ।
सत्कृत्यात्यभिसंतुष्टान् सादरेण व्यसर्जयत् ॥ ३७.२१७{६७} ॥
ततस्ते ज्ञातयः सर्वे वंधुमित्रसुहृज्जनाः ।
नंदितास्तं प्रशंसित्वा स्वस्वालयं मुदा ययुः ॥ ३७.२१८{६८} ॥
ततस्ते सुस्थिताः सर्वे ज्ञातिवंधुसुहृज्जनाः ।
नानाकथाभिसंलापं कुर्वन्तः संनिषेदिरे ॥ ३७.२१९{६९} ॥
ततः सा धीमती पश्चाद्भुक्त्वैकान्ते निराद्रिता ।
पुत्रपुत्री समादाय शिवस्य भवनेऽचरत् ॥ ३७.२२०{७०} ॥
तत्र सा स्तृणमास्तीर्य पुत्रपुत्रीसमन्विता ।
दारिद्र्यदुःखचिन्तानुनिःश्वसन्ती न्यषीदत ॥ ३७.२२१{७१} ॥
तत्र स विष्णुदासोऽपि पश्चाद्भुक्त्वा निराद्रितः ।
शिवालये स्थितां श्रुत्वा सह स्थातुमुपाचरत् ॥ ३७.२२२{७२} ॥
भर्त्तारं तमुपायातं दृष्ट्वा सा धीमती तदा ।
गलदश्रुविरुक्षाक्षा विलपन्त्येवमब्रवीत् ॥ ३७.२२३{७३} ॥
धिग्मे जीवं दरिद्रायाः किमेवं जीवितेन हि ।
पित्रोरपि दयास्नेहदृष्टिर्न विद्यते मयि ॥ ३७.२२४{७४} ॥
यत्पित्रोः समाः सर्वा भगिन्यः स्वात्मजा अपि ।
तथाहं मानिता नैव मानितास्ता यथादरात् ॥ ३७.२२५{७५} ॥
धिग्जीवितं दरिद्राया जन्मापि धिक्च मानुषे ।
किं रूपैः सुगुणैः वापि विद्याभिः किं धनं विना ॥ ३७.२२६{७६} ॥
हा दैव किं मया पापं दारुणं प्रकृतं पुरा ।
यन्मे न विद्यते संपत्पित्रो दधापि दया मयि ॥ ३७.२२७{७७} ॥
तदत्र किं करिष्यामि यास्यामि शरणं कुह ।
का मां रक्षेत्स्वदैवोत्थदरिद्र्यदुःखतापिनीम् ॥ ३७.२२८{७८} ॥
किमेवं जीवितेनापि वरं मृत्युर्हि सांप्रताम् ।
अवश्यमेव मर्त्तव्यं सर्वेषामपि जन्मिनाम् ॥ ३७.२२९{७९} ॥
एवं नानाप्रलापेन विलपन्ती सुतं सुताम् ।
(र्म् ४२१)
भर्त्तारं च मुहुर्दृष्ट्वा कारुण्यार्त्ता रुरोद सा ॥ ३७.२३०{८०} ॥
एवं विलापं कुर्वन्तीं रुदन्तीं तां विलोक्य सः ।
विष्णुदासो विनिःश्वस्य समाश्वास्यैवमब्रवीत् ॥ ३७.२३१{८१} ॥
प्रियेऽत्र मा रुदिहि त्वं किं करिष्यावहेऽधुना ।
यदावाभ्यां कृतं पापं भोक्तव्यमेव तत्फलम् ॥ ३७.२३२{८२} ॥
तदत्र धैर्य्यमालम्व्य तिष्ठ किं वक्ष्यते बहु ।
अवश्यं भाविनो भावा भवंति महतामपि ॥ ३७.२३३{८३} ॥
शिवोऽपि स विरूपाक्षो नीलकण्ठो दिगंवरः ।
उन्मत्तो भस्मलिप्तांगः कपालयोऽपि रस्थिधृक् ॥ ३७.२३४{८४} ॥
विष्णुर्वीरोऽपि संसारे भ्रमितः स जनार्दनः ।
सोऽपि दासो वलिद्वास्थश्चौरो व्याधेषुणाहतः ॥ ३७.२३५{८५} ॥
ब्रह्मा लोकाधिपः सोऽपि कामार्त्तोऽगम्यकर्मकृत् ।
नियुज्यो निघ्नितो वैरिसेवकश्छिन्नमस्तक ॥ ३७.२३६{८६} ॥
चिछेद ब्रह्मणः पूर्वं रुद्रः क्रोधात्त पंचमम् ।
तच्छिरो दुस्त्यजं गृह्णन् ब्रह्माण्डं परिवभ्रमे ॥ ३७.२३७{८७} ॥
शंखतीर्थे गतो रुद्रस्तच्छिरः परिमुक्तवान् ।
कपालमोचनस्तीर्थो द्वितीयावर्त्तसंस्थितः ॥ ३७.२३८{८८} ॥
इति उत्कलखण्डक्षेत्रमाहात्म्ये उक्तमास्ते ।
एवमन्येऽपि लोकाश्च मुनयस्तापसा अपि ॥ ३७.२३९{८९} ॥
कोपाग्निदहितात्मानो व्रजन्ति नरकेष्वपि ।
एवं सर्वेऽपि लोकाश्च स्वस्वदैवानुभाविनः ॥ ३७.२४०{९०} ॥
सुखिनो दुःखिनो भूता भ्रमंति भवसागरे ।
क्षणाल्लभन्ति संपत्तिं भवन्ति च दरिद्रिताः ॥ ३७.२४१{९१} ॥
सर्वे देवादयो लोकाः स्वकृतकर्मभोगिनः ।
एवं मत्वात्र संसारे सुखं दुःखं स्वदैवजम् ॥ ३७.२४२{९२} ॥
मा कृथास्तद्विषाद त्वं धैर्यं धृत्वा समाचर ।
स्वकुलेशमनुस्मृत्वा समभ्यर्च्य यथाविधिः ।
श्रद्धया शरणं कृत्वा भज नित्यं समाहिता ॥ ३७.२४३{९३} ॥
ततस्तत्पुण्यपाकेन पापं नो विलयं व्रजेत् ।
ततः संपत्समृद्धिः स्यात्तदा लप्स्यावहे सुखम् ॥ ३७.२४४{९४} ॥
इति मे वचनं श्रुत्वा धैर्य्यमालम्व्य सांप्रतम् ।
पुत्रपुत्रीं समादाय प्रैहि गृहे व्रजामहे ॥ ३७.२४५{९५} ॥
इति भर्त्रोदितं श्रुत्वा धीमती साभिबोधिता ।
पुत्रं पुत्रीं पुरोधाय शनैर्भर्त्रा सहाचरत् ॥ ३७.२४६{९६} ॥
तत्र सा स्वगृहे गत्वा क्षणं स्थित्वा निरुत्सहा ।
ततः शान्तमतीं द्रष्टुं समुत्थाय शनैर्ययौ ॥ ३७.२४७{९७} ॥
तत्र सा धीमती तस्याः शांतमत्याः पुरोगता ।
गलदश्रुविलिप्तास्या निःश्वसंत्येवमब्रवीत् ॥ ३७.२४८{९८} ॥
शांतमते पितुर्यज्ञमहोत्साहप्रवर्त्तितम् ।
तत्संद्रष्टु गता तत्र महालज्जान्विता चरम् ॥ ३७.२४९{९९} ॥
यन्मां दृष्ट्वा भगिन्योऽपि ज्ञातिवंधुसुहृज्जनाः ।
अपि सर्वे मिथो दृष्ट्वा प्रजल्पिताभ्युपाहसन् ॥ ३७.२५०{१००} ॥
(र्म् ४२२)
भागिनेयाश्च सर्वेऽपि मां दृष्ट्वा रुषिताशयाः ।
पुत्रपुत्रीं च मे दृष्ट्वा फुत्कृत्य प्रत्याताडयन् ॥ ३७.२५१{१} ॥
पितृभ्यां मानिताः सर्वाः भगिन्यस्ता यथादरात् ।
तथाहं मानिता नैव द्रष्टुमपि न चैष्यते ॥ ३७.२५२{२} ॥
रात्रावपि गृहे वासं न मे दत्तं निरादरात् ।
शिवालये निषण्णा तन्निशां कृच्छ्राद्व्यलंघयम् ॥ ३७.२५३{३} ॥
एवमहं महल्लज्जादुःखाग्निपतितापिता ।
मर्त्तुमपि तदिच्छामि किमेवं जीवितेनपि ॥ ३७.२५४{४} ॥
यदि तेऽस्ति कृपा भद्रे दुःखिन्यां मयि विद्यते ।
तद्द्रव्योपार्जनोपायं समुपदेष्टुमर्हति ॥ ३७.२५५{५} ॥
इति तयोदितं श्रुत्वा शान्तमतीर्दयार्दितः ।
धीमतीं तां समालोक्य समाश्वास्यैवमब्रवीत् ॥ ३७.२५६{६} ॥
धीमती श्रीमहासंपत्साधनोपायमस्ति मे ।
यद्यत्राप्यस्ति ते वांछा प्रवक्ष्यामि शृणुष्व तत् ॥ ३७.२५७{७} ॥
यदि श्रद्धास्ति ते देव्या वसुलक्ष्म्या व्रतं चर ।
ततस्ते श्रीवसुन्धारा महादेवी वसेद्गृहे ॥ ३७.२५८{८} ॥
ततस्तस्या महादेव्याः कृपादृष्टिप्रसादतः ।
संपत्तिस्ते समुद्भूता प्रवर्द्धिता भवेद्गृहे ॥ ३७.२५९{९} ॥
तदा त्वं श्रद्धयार्थिभ्यो दानं दत्वा यथेप्सितम् ।
त्रिरत्नभजनं कृत्वा शुभे चर सुखाशिनी ॥ ३७.२६०{१०} ॥
एतत्पुण्यविपाकेन सर्वदा सद्गतिं गता ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३७.२६१{११} ॥
एवं मत्वास्ति ते वांछा संबुद्धपद साधने ।
श्रीदेव्याः शरणं गत्वा समाधाय व्रतं चर ॥ ३७.२६२{१२} ॥
इति तया समादिष्टं श्रुत्व सा धीमती मुदा ।
तां शांतमतीमानम्य सांजलीरेवमब्रवीत् ॥ ३७.२६३{१३} ॥
साधु भद्रे व्रतं धृत्वा श्रीदेव्याः शरणं गता ।
त्रिरत्नभजनं कृत्वा चरिष्यामि शुभे सदा ॥ ३७.२६४{१४} ॥
तद्भवंती कृपादृष्ट्या तदुपदेशमादिश ।
यावज्जीवं चरिष्यामि श्रीदेव्या व्रतमादरात् ॥ ३७.२६५{१५} ॥
इति तयोदितं श्रुत्वा शान्तमतिः समादरात् ।
धीमतीं तां समालोक्य पुनरेवमभाषत ॥ ३७.२६६{१६} ॥
यदि भद्रेऽस्ति ते सत्यं स्नात्वा शुद्धाम्वरावृता ।
प्रेहि तं श्रीघनं नाथं संस्मृत्वा प्रार्थयावहे ॥ ३७.२६७{१७} ॥
तयेति समुपादिष्टं श्रुत्वा सा धीमती मुदा ।
सहसा स्वगृहे गत्वा स्नात्वा शुद्धाम्वरावृता ॥ ३७.२६८{१८} ॥
स लाजाक्षतपुष्पाणि गृहित्वा सहसा मुदा ।
तस्याः शांतमतेरग्रे प्रयातेवमभाषत ॥ ३७.२६९{१९} ॥
भद्रे त्वया यथादिष्टं तथाहं समुपागता ।
तं मुनीन्द्रमनुस्मृत्वा प्रार्थयेह समागमम् ॥ ३७.२७०{२०} ॥
इति तयोदितं श्रुत्वा सा शान्तमतिरादरात् ।
तां धीमतीं समामंत्र्य प्रासादान्तं ययौ मुदा ॥ ३७.२७१{२१} ॥
तत्र शान्तमतिः साट्टे धीमत्या सह संस्थिता ।
(र्म् ४२३)
जानुभ्यां भुवि संस्थित्वा भगवत्स्थितदिग्मुखा ॥ ३७.२७२{२२} ॥
संभवन्त्युत्तरासङ्गं सह लाजाक्षतादिभिः ।
साम्बुपुष्पाञ्जलिं धृत्वा नत्वैवं प्रार्थयन्मुनिम् ॥ ३७.२७३{२३} ॥
भगवन्नाथ सर्वज्ञ विजानीते भवानपि ।
यदियं धीमती साध्वी भगवच्छरणमागता ॥ ३७.२७४{२४} ॥
यदियं सांप्रतं शास्तुरुपदेशाद्यथाविधि ।
श्रीवसुधामहादेव्या व्रतं चरितुमिछति ॥ ३७.२७५{२५} ॥
तदत्र समुपागत्य कृपयास्मै दयानिधे ।
श्रीसाधनं व्रतं श्रेष्ठं समुपदेष्टुमर्हति ॥ ३७.२७६{२६} ॥
इति संप्रार्थ्य सा शान्तमतिस्तं त्रिजगद्गुरुम् ।
अनुस्मृत्वा त्रिधा नात्वा प्राक्षिपत्तज्जलादिकम् ॥ ३७.२७७{२७} ॥
प्रक्षिप्तानि तया तानि साम्बुलाजाक्षताण्यपि ।
सदूर्वाकुण्डपुष्पाणि सर्वाणि गगणे शरन् ॥ ३७.२७८{२८} ॥
ततस्तानि प्रगच्छन्ति विहायसा विहङ्गवत् ।
कोशाम्व्यां घोषिरारामे विहारे समुपाययुः ॥ ३७.२७९{२९} ॥
तत्रस्थस्य मुनीन्द्रस्य मुर्द्धा परि विहायसि ।
संस्थितानि प्रभासन्ति विरेजुस्तानि छत्रवत् ॥ ३७.२८०{३०} ॥
तद्दृष्ट्वा भिक्षवः सर्वे सांघिकास्ते सविस्मयाः ।
कुतो निमंत्रणमायातमिति ध्यात्वाभितस्थिरे ॥ ३७.२८१{३१} ॥
तत्रानन्दः समुत्थाय सांजलिः पुरतो गतः ।
तं मुनीन्द्रं प्रणत्वैवं पप्रछ विस्मयान्वितः ॥ ३७.२८२{३२} ॥
भगवन् कुत एतानि साम्बुलाजाक्षतान्यपि ।
पुष्पाणि समुपायान्ति तत्समादेष्टुमर्हति ॥ ३७.२८३{३३} ॥
इति तेनोदितं श्रुत्वा भगवां स मुनीश्वरः ।
तमानंदं समामंत्र्य समालोक्यैवमब्रवीत् ॥ ३७.२८४{३४} ॥
यः काशीपुरे विप्रो विष्णुदासो दरिद्रितः ।
धर्मध्वजो धनी श्रीमान् गृहस्थो धनदोपमः ॥ ३७.२८५{३५} ॥
तयोर्भार्य उभे साध्वौ शान्तमती रमोपमा ।
धीमती ब्राह्मणी भद्रा दरिद्रिता सुदुःखिनी ॥ ३७.२८६{३६} ॥
ताभ्यां श्रीवसुधाराया व्रतं चरितुमिछ्यते ।
तदिदं निमंत्रणार्थं मे उपहारं समागतम् ॥ ३७.२८७{३७} ॥
तस्माच्छ्रीवसुधाराया व्रतविधिं त्वमात्मना ।
उपदेष्टुं तयोर्गेहे काश्यां गंतुं समर्हसि ॥ ३७.२८८{३८} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदस्तथेति सः ।
शास्तुराज्ञां शिरोधृत्वा काश्यां विहायसा ययौ ॥ ३७.२८९{३९} ॥
तत्राकाशान् स आनंदः शांतमतेर्गृहे पुरः ।
अवतीर्य सुधारश्मिरिव तस्थौ प्रभासयन् ॥ ३७.२९०{४०} ॥
तत्रस्थं तं समालोक्य शान्तमतिः स धीमती ।
मुदिता सहसा तस्य प्रणंतुं समुपाचरत् ॥ ३७.२९१{४१} ॥
तत्र सा समुपासृत्य शांतमतिः सधीमती।
तमानंदं समालोक्य नत्वैवं प्रार्थयन्मुदा ॥ ३७.२९२{४२} ॥
भदन्त चरणौ वंदे भवतां शरणं गता ।
तदत्र कृपयास्माकमनुगृह्य प्रसीदतु ॥ ३७.२९३{४३} ॥
यदस्माकं भवाञ्छास्ता तद्गृहे समुपाश्रयन् ।
(र्म् ४२४)
वसुधारामहादेव्या व्रतविधिं समादिश ॥ ३७.२९४{४४} ॥
यदियं धीमती भद्रा भवतामुपदेशतः ।
वसुलक्ष्म्या महादेव्या व्रतं चरितुमिछति ॥ ३७.२९५{४५} ॥
तदस्यै श्रीमहादेव्या व्रतविधिं यथाक्रमम् ।
विस्तरं समुपादेष्टुमर्हति कृपया भवान् ॥ ३७.२९६{४६} ॥
इति संप्रार्थितं शान्तमत्या तया निशम्य सः ।
आनंदस्ते उभे दृष्ट्वा तथेति प्रत्यभाषत ॥ ३७.२९७{४७} ॥
ततः सा धीमती नत्वा सांजलिस्तं जिनात्मजम् ।
आनंदं सुप्रसन्नास्या दृष्ट्वैवं प्रार्थयन्मुदा ॥ ३७.२९८{४८} ॥
भदंतोऽहं स्वदैवेन पापिनी दुःखभागिनी ।
तद्भवच्छरणं गत्वा समिछे वसुधाव्रतम् ॥ ३७.२९९{४९} ॥
तद्भवान् कृपया शास्तर्गृहे मे समुपागतः ।
यथाविधि समादिश्य व्रतं मे दातुमर्हति ॥ ३७.३००{५०} ॥
तयैवं प्रार्थितं श्रुत्वा स आनंदो जिनात्मजः ।
तत्र उत्थाय धीमत्यास्तस्या गृहे उपाचरत् ॥ ३७.३०१{५१} ॥
तत्र सा धीमती साध्वी शान्तमत्या समन्विता ।
सहसा स्वगृहे गत्वा प्रस्तारयत्तदासनम् ॥ ३७.३०२{५२} ॥
ततः सा धीमती तस्य शास्तुः शुद्धाम्बुना मुदा ।
पादप्रक्षालनं कृत्वा प्रणत्वैव च प्रार्थयत् ॥ ३७.३०३{५३} ॥
भदंतार्हन्महाभिज्ञ ममानुग्रहकारणम् ।
अत्रासने समाश्रित्य धर्ममादेष्टुमर्हति ॥ ३७.३०४{५४} ॥
तयेति प्रार्थितं श्रुत्वा स आनंदः प्रसन्नधीः ।
तद्दत्तासन आश्रित्य तस्थौ ध्यात्वा प्रभासयन् ॥ ३७.३०५{५५} ॥
तं दृष्ट्वा ब्राह्मणः सोऽपि विष्णुदासः प्रसादितः ।
सहसा सांजलिर्नत्वा तत्रैकांत उपाश्रयन् ॥ ३७.३०६{५६} ॥
ततः सा धीमती साध्वी सांतमतीसमन्विता ।
तमानंदं समभ्यर्च्य भोजनेनाभ्यतोषयत् ॥ ३७.३०७{५७} ॥
ततः सा प्रणतिं कृत्वा नीचासनसमाश्रिता ।
तमानंदं महाभिज्ञं सांजलिरेवमब्रवीत् ॥ ३७.३०८{५८} ॥
भदन्त भवतामाज्ञां धृत्वाहं शिरसा मुदा ।
श्रीदेव्या वसुधारायाश्चरिष्यामि व्रतं ध्रुवम् ॥ ३७.३०९{५९} ॥
तद्भदन्त भवाञ्छास्ता तद्विधिं मे यथाक्रमम् ।
कृपानुग्रहमाधाय समुपादेष्टुमर्हति ॥ ३७.३१०{६०} ॥
इति संप्रार्थिते तेन विष्णुदासेन सद्धिया ।
श्रुत्वानंदः स संपश्यन्स्तं द्विजमेवमब्रवीत् ॥ ३७.३११{६१} ॥
शृणु विप्र मुनीन्द्रेण याथादिष्टं मया श्रुतम् ।
तथाहं ते प्रवक्ष्यामि श्रीव्रतस्य विधिं क्रमात् ॥ ३७.३१२{६२} ॥
भाद्रपदेऽशिते पक्षे तृतीयायां तिथौ तथा ।
माघे वापि शिते पक्षे शुक्लपक्षेऽपि वा सदा ॥ ३७.३१३{६३} ॥
तीर्थे देवालये शुद्धभूप्रदेशे गृहेषु वा ।
सम्यग्भूशोधनं कुर्याद्गोमयेन मृदाम्बुना ॥ ३७.३१४{६४} ॥
प्रातरुत्थाय तीर्थेषु स्नात्वा शुचिसमाचरः ।
त्रिधाचम्यामृतं कायं पंचगव्येन शोधयेत् ॥ ३७.३१५{६५} ॥
शुद्धशीलसमाधानः परिशुद्धाम्वरावृतः ।
(र्म् ४२५)
संबोधिचित्तमाधाय सद्गुरोरुपदेश धृक् ॥ ३७.३१६{६६} ॥
सुभूमौ मण्डलं सम्यग्वर्त्तयित्वा यथाविधि ।
ध्वजछत्रपताकाभि वितानैश्चाभिमंडयेत् ॥ ३७.३१७{६७} ॥
मंडलस्य वहिस्तस्य ज्वालावल्या वहिः पुनः ।
पंचवल्यावलीभिश्च स लाजाक्षतसंयुतैः ॥ ३७.३१८{६८} ॥
वेष्टयित्वा ततो वाह्ये क्रमान् संस्थापयेद्घटान् ।
तीर्थाम्बुपूरितान् पीतवस्त्रावृतान् सचिंह्नितान् ॥ ३७.३१९{६९} ॥
तात्र श्रीवसुधां देवीं सगणां विधिना क्रमात् ।
समावाह्य समभ्यर्च्य प्रतिष्ठाप्याधिवासयेत् ॥ ३७.३२०{७०} ॥
तृतीयायां तथा प्रातः स्नात्वा शुद्धाम्वरावृतः ।
मध्याह्ने स्वासनासीन उत्तरादिग्मुखस्थितः ॥ ३७.३२१{७१} ॥
आदौ गुरुं समभ्यर्च्य रत्नत्रयं समर्चयेत् ।
ततो ध्यात्वा महादेवीं वसुधारां शुभकरीम् ॥ ३७.३२२{७२} ॥
सगणां तां समावाह्य दत्वा पादार्घमादरात् ।
पीतमयोपहारेण समभ्यर्च्य यथाविधि ॥ ३७.३२३{७३} ॥
सर्वोपकरणान्यग्रे निवेस्य समढोकयत् ।
ततस्तद्धारणीं सम्यक्पठेन्मंत्राणि च क्रमात् ॥ ३७.३२४{७४} ॥
ततः कृतांजलिः स्तुत्वा कुर्याश्च पापदेशनाम् ।
पुण्यानुमोदनां चापि कुर्याच्च प्रणतिं स्मरन् ॥ ३७.३२५{७५} ॥
कुर्यात्प्रदक्षिणान्येवमष्टाङ्गैः प्रणमेत्पुनः ।
बोधिचित्तं समाधाय संप्रार्थयेदभीप्सितम् ॥ ३७.३२६{७६} ॥
ततो वलिं प्रदत्वा च स भूतान् परितोषयेत् ।
ततः क्षमार्थनां कृत्वा व्रतसूत्रं च प्रार्थयेत् ॥ ३७.३२७{७७} ॥
षोडशभेदितं सूत्रं षोडशग्रंथिसंयुतम् ।
व्रतसूत्रं समादाय रक्षार्थं वंधयेत्करे ॥ ३७.३२८{७८} ॥
ततो गुरुं समाराध्य देयाद्दानं समिछितम् ।
सदक्षिणं सुसत्कारैः सत्कृत्य समतोषयेत् ॥ ३७.३२९{७९} ॥
ततस्तृतीया यामेऽह्नेः प्राश्नुयाद्यवपूरकान् ।
पंचामृतफलस्कंदमूलपत्रादिकानपि ॥ ३७.३३०{८०} ॥
पालनान्ते पुनः स्नात्वा तां श्रीदेवीमनुस्मरन् ।
तद्धारणीं पठन् रात्रौ पूजयेच्च समाहितः ॥ ३७.३३१{८१} ॥
एवं नित्यं चतुः संध्यं पूजयेच्छ्रीवसुंधराम् ।
तत्परेद्युस्तथाभ्यर्च्य तन्मंडलं विसर्जयेत् ॥ ३७.३३२{८२} ॥
तद्रजांसि समादाय संनिधाय शुभे घटे ।
भंडागारे प्रतिस्थाप्य सदारान् भजेन्नमेत् ॥ ३७.३३३{८३} ॥
शेषरजः स निर्माल्यं नद्यां नागान् यथाविधि ।
समभ्यर्च्य समर्प्पित्वा सर्वं जले प्रवाहयेत् ॥ ३७.३३४{८४} ॥
ततस्तज्जलमादाय गृहे गत्वा समन्ततः ।
प्रोक्ष्य तन्मंडलस्थाने कुमारीं विधिनार्चयेत् ॥ ३७.३३५{८५} ॥
ततस्तन् सगणं चक्रं समभ्यर्च्य यथाविधि ।
भोजनैः संपरितोष्य प्रार्थयेद्यत्समीछितम् ॥ ३७.३३६{८६} ॥
(र्म् ४२६)
तथा तत्सगणं चक्रं कृत्वा क्षमार्थनां ततः ।
सांजलिश्च क्रमान्नत्वा विसर्जयेत्प्रसादयन् ॥ ३७.३३७{८७} ॥
तदा श्रीवसुधा देवी स्वयमागत्य तद्गृहे ।
समाश्रित्य सदा सर्वद्रव्यैः संपूरयेद्ध्रुवम् ॥ ३७.३३८{८८} ॥
ततस्तत्र गृहे नित्यं मंगलं निरुपद्रवम् ।
दानपुण्यमहोत्साहप्रवर्त्तितं भवेत्सदा ॥ ३७.३३९{८९} ॥
एवं तस्या महादेव्या वसुलक्ष्म्या व्रतोद्भवम् ।
पुण्यं महदसंख्येयमप्रमेयं विदुर्जिनाः ॥ ३७.३४०{९०} ॥
एवं महत्तरं पुण्यं विज्ञाय द्विज तत्तथा ।
श्रद्धये तद्व्रतं कुर्या यदि संपत्तिमिछसि ॥ ३७.३४१{९१} ॥
यश्च तां श्रीमहादेवीं वसुधारामनुस्मरन् ।
यत्कार्य्यमारभेत्तस्य तत्सर्वं हि समृद्ध्यति ॥ ३७.३४२{९२} ॥
रत्नार्थी लभते रत्नं धनार्थी लभते धनम् ।
भोग्यार्थी लभते भोग्यं यसोऽर्थी लभते यशः ॥ ३७.३४३{९३} ॥
द्रव्यार्थी लभते द्रव्यान् गुणार्थी लभते गुणान् ।
विद्यार्थी लभते विद्यां शुभार्थी लभते शुभम् ॥ ३७.३४४{९४} ॥
मान्यार्थी लभते मान्यं जयार्थी लभते जयम् ।
धर्मार्थी लभते धर्मान् सुखार्थी लभते सुखम् ॥ ३७.३४५{९५} ॥
राज्यार्थी लभते राज्यं गृहार्थी लभते गृहम् ।
क्षेत्रार्थी लभते क्षेत्रान् रसार्थी लभते रसान् ॥ ३७.३४६{९६} ॥
भार्यार्थी लभते भार्यां सुतार्थी लभते सुताम् ।
पुत्रार्थी लभते पुत्रान् पौत्रार्थी पौत्रमाप्नुयात् ॥ ३७.३४७{९७} ॥
ज्ञानार्थी लभते ज्ञानं मोक्षार्थी मोक्षमाप्नुयात् ।
एवमन्यानि वस्तूनि सर्वोपकरणान्यपि ॥ ३७.३४८{९८} ॥
सर्वाणि द्रव्यजातानि वस्त्रादि भूषणान्यपि ।
समाप्नुयात्समृद्धानि वसुलक्ष्म्याः प्रसादतः ॥ ३७.३४९{९९} ॥
ततो दानानि दद्यात्स शुद्धशीलः समाचरेत् ।
क्षान्तिं च भावयेन्नित्यं धर्मवीर्य्यं समारभेत् ॥ ३७.३५०{१००} ॥
तथा ध्यानं समाधाय प्रज्ञाब्धिं संतरेद्द्रुतम् ।
सर्वोपायविधानज्ञो बोधिप्रणिधिमानसः ॥ ३७.३५१{१} ॥
सद्बुद्धिबलवान् धीरः स बोधिज्ञानमाप्नुयात् ।
सर्वमारगणाञ्जित्वा निःक्लेशोऽर्हञ्जितेन्द्रियः ।
संबुद्धपदमासाद्य निर्वृतपदमाप्नुयात् ॥ ३७.३५२{२} ॥
एवं ब्राह्मण विज्ञाय सद्धर्म्मं यदि वांछसि ।
तां श्रीदेवीं महालक्ष्मीं वसुधारां सदा भज ॥ ३७.३५३{३} ॥
तथा ते सर्वदा गेहे मंगलं निरुपद्रवम् ।
सर्वत्रेह परत्रापि भवेन्नूनं न संशयः ॥ ३७.३५४{४} ॥
तथा दानानि दत्वा त्वं स्वयं तद्व्रतं संचरन् ।
सर्वसत्वहितं कृत्वा यावज्जीवं सुखं चर ॥ ३७.३५५{५} ॥
ततः क्लेशविमुक्तात्मा संबोधिप्रणिधानधृक् ।
बोधिचर्याव्रतारक्ता बोधिसत्वो भवेद्ध्रुवम् ॥ ३७.३५६{६} ॥
सर्वेऽपि सुगता बोधिसत्वाश्चापि जिनात्मजाः ।
(र्म् ४२७)
वसुधाराव्रतं धृत्वा संविभ्रति जगत्त्रयम् ॥ ३७.३५७{७} ॥
इति तेनार्हतादिष्टं श्रुत्वा स ब्राह्मणो मुदा ।
तथा श्रीवसुधाराया व्रतं चरितुमैछत ॥ ३७.३५८{८} ॥
ततः स विष्णुदासोऽपि भार्यां तां धीमतीं मुदा ।
सुप्रसन्नमुखाम्भोजः समालोक्यैवमब्रवीत् ॥ ३७.३५९{९} ॥
प्रिये धन्यासि कल्याणी यदहं त्वत्प्रयत्नतः ।
श्रीदेव्या व्रतं रत्नं प्राप्नोमि सांप्रतं खलु ॥ ३७.३६०{१०} ॥
तद्यथानेन शास्त्रात्र समादिष्टं तथा खलु ।
श्रीदेव्याः शरणं गत्वा वांछामि चरितुं व्रतम् ॥ ३७.३६१{११} ॥
तत्त्वमपि समाधाय मया सार्द्धं तथादरात् ।
श्रीदेव्याः शरणं कृत्वा व्रतं चरितुमर्हति ॥ ३७.३६२{१२} ॥
इति भर्त्रोदितं श्रुत्वा धीमती सानुमोदिता ।
भर्त्तारं तं समालोक्य पुनरेवमभाषत ॥ ३७.३६३{१३} ॥
तथा सत्यं समाधाय श्रद्धया शरणं गतौ ।
श्रीदेव्या व्रतमत्रावां समादराच्चरावहे ॥ ३७.३६४{१४} ॥
इत्युक्त्वा सा सती भद्रा धीमती सहसादरात् ।
व्रतोपचारसामग्रीं मुदिता समसाधयत् ॥ ३७.३६५{१५} ॥
ततस्तं गुरुमानंदं नत्वा सा सांजलिर्मुदा ।
तद्व्रतारम्भमाधातुं प्रार्थयेदेवमादरात् ॥ ३७.३६६{१६} ॥
भदन्त श्रीमहादेव्या व्रतदिन उपास्थितः ।
तद्यथाविधिमादिश्य संचारयतां व्रतम् ॥ ३७.३६७{१७} ॥
तयेति प्रार्थितं श्रुत्वा स आनंदो जिनात्मजः ।
सर्वविधिं समादिश्य व्रतारंभं समाक्रमत् ॥ ३७.३६८{१८} ॥
तत्र भूशोधनं कृत्वा स आनंदो यथाविधि ।
मंडलं वर्त्तयित्वा तत्प्रतिस्थाप्याध्यवासयत् ॥ ३७.३६९{१९} ॥
तथा तौ दंपती तीर्थे स्नात्वा शुद्धाम्वरावृतौ ।
यथा शास्त्रा समादिष्टं सर्वं कृत्वोपतस्थतुः ॥ ३७.३७०{२०} ॥
ततस्तौ दंपती तस्य शास्तुरादेशतः क्रमात् ।
शुद्धासनसमासीनावुत्तराभिमुखस्थितौ ॥ ३७.३७१{२१} ॥
गव्यैः कामादि वस्तूनि सर्वाणि शुद्धितान्यपि ।
कृत्वा शास्त्रा यथादिष्टं तथारंभं प्रचक्रतुः ॥ ३७.३७२{२२} ॥
आदौ गुरुं समभ्यर्च्य ततो रत्नत्रयं मुदा ।
अभ्यर्च्य शरणं कृत्वा प्रणत्वा विधिनादरात् ॥ ३७.३७३{२३} ॥
ततस्तन्मण्डले देवीं सगणां श्रीवसुंधराम् ।
ध्यात्वा तथा समावाह्य दत्वा पादार्घमादरात् ॥ ३७.३७४{२४} ॥
ततस्तां सगणां देवीं समभ्यर्च्य यथाक्रमम् ।
सर्वपूजोपचारैश्च पठित्वा धारणीं ततः ॥ ३७.३७५{२५} ॥
सहृद्वीजादिमंत्राणि यथाक्रमं जजल्पतुः ।
ततोऽष्टाङ्गप्रणामैश्च नत्वा कृत्वा प्रदक्षिणाम् ॥ ३७.३७६{२६} ॥
गुणाभिवादनै स्तोत्रै स्तुत्वा नतौ ववंदतुः ॥ ३७.३७७{२७!} ॥
ततस्तौ सांजली स्थित्वा प्रक्षित्वा पापदेशनाम् ।
(र्म् ४२८)
पुण्यानुमोदनां चापि संप्रार्थ्य श्रीसमृद्ध्यताम् ॥ ३७.३७८{२८} ॥
सलोकपालभूतेभ्यो बलिं पंचामृतान्वितम् ।
यथाविधि प्रढौकित्वा प्रार्थयतां सुसंपदम् ॥ ३७.३७९{२९} ॥
ततो दानं प्रदत्वैवं गुरवेऽपि सुदक्षिणाम् ।
ततः क्षमार्थनां कृत्वा समाप्तं चक्रतुर्व्रतम् ॥ ३७.३८०{३०} ॥
ततो गुरुस्तयोः शास्ता व्रतसूत्रं समर्प्पयत् ।
संपत्तिससमृद्धाशीर्वादं ददौ प्रसादितः ॥ ३७.३८१{३१} ॥
ततो गुरुं पुरस्कृत्य यथोक्तं व्रतपालनम् ।
कृत्वा ततः पुनः स्नात्वा देवीं ध्यात्वा निषेदितुः ॥ ३७.३८२{३२} ॥
ततो रात्रौ समाधाय सगणां वसुंधराम् ।
देवीं ध्यात्वा समभ्यर्च्य धर्म्मं श्रुत्वा निषेदतुः ॥ ३७.३८३{३३} ॥
ततः प्रातः समुत्थाय स्नात्वा शुद्धाम्वरावृतौ ।
तथा तां सगणां देवीमावाह्यानर्चतुः क्रमात् ॥ ३७.३८४{३४} ॥
ततस्तद्व्रतसंपूर्णं कृत्वा दानं सदक्षिणम् ।
प्रदत्वा गुरवे नत्वा तन्मण्डलं व्यसर्जताम् ॥ ३७.३८५{३५} ॥
ततस्तद्रजमादाय भंडागारे यथोदितम् ।
निधाय तत्स निर्माल्यं शेषं नद्यां यथाविधिम् ॥ ३७.३८६{३६} ॥
गुरुर्नागान् समभ्यर्च्य समर्प्य प्राक्षिपज्जले ।
ततस्तज्जलमादाय महोत्साहैर्गृहं ययौ ॥ ३७.३८७{३७} ॥
तत गृहे तदम्भोभिरभिषिंच्य समन्ततः ।
कुमारीं विधिनाराध्य गणचक्रं समर्चयत् ॥ ३७.३८८{३८} ॥
ततस्तौ दंपती नत्वा सांजलि सादरं मुदा ।
संपत्तिप्रार्थनां कृत्वा क्षमाप्य तद्व्यसर्जताम् ॥ ३७.३८९{३९} ॥
ततस्तस्या गृहे देवी वसुन्धारा स्वयं स्थिता ।
सर्वद्रव्यसमापूर्णं कृत्वा तस्थौ प्रसादिता ॥ ३७.३९०{४०} ॥
सर्वद्रव्याभिसंपूर्णं दृष्ट्वा तौ दंपती गृहम् ।
विस्मयानंदसंपन्नौ मिथ एवं समूचतुः ॥ ३७.३९१{४१} ॥
अहो सत्यं जगच्छास्तुर्यथादिष्टं तथा खलु ।
तथावां शरणं गत्वा देव्या व्रतं चरेवहि ॥ ३७.३९२{४२} ॥
इत्युक्त्वा तौ प्रसीदंतौ शरणं गत्वा समाहितौ ।
तस्याः श्रीमहादेव्याः सदा व्रतं प्रचेरतुः ॥ ३७.३९३{४३} ॥
तदारभ्यः सदार्थिभ्यो दत्वा दानं यथार्थितम् ।
त्रिरत्नभजनं कृत्वा प्रचेरतुः शुभे सदा ॥ ३७.३९४{४४} ॥
ततोऽसौ यतिरानंदस्तौ समामंत्र्य दंपती ।
पक्षिवत्सहसाकाशात्कौशांव्यां समुपाचरत् ॥ ३७.३९५{४५} ॥
तत्र स तं जगन्नाथं प्रणत्वा सांजलिः पुनः ।
एतत्सर्वं प्रवृत्तांतं निवेद्यैकान्तमाश्रयत् ॥ ३७.३९६{४६} ॥
ततः स भगवान् दृष्ट्वा तमानंदं सभां च ताम् ।
धीमत्याः शांतमत्याश्च प्रसादित्वैवमादिशत् ॥ ३७.३९७{४७} ॥
धन्या सा धीमती शान्तमती चापि सुभाविनी ।
यत्ते श्रीवसुधाराया भवेतां व्रतधारिणी ॥ ३७.३९८{४८} ॥
तन्मे उभे महत्पुण्यलाभिन्यौ श्रीसमन्विते ।
(र्म् ४२९)
सर्वसत्वहिताधानबोधिचर्यासमुद्यते ॥ ३७.३९९{४९} ॥
क्रमाद्बोधिं समासाद्य बुद्धपदमवाप्स्यत ॥ ३७.४००{५०!} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः ।
तां श्रीवसुंधरां देवीं स्मृत्वा नित्यं प्रभेजिरे ॥ ३७.४०१{५१} ॥
तदा तस्याः पिता विप्रा धीमत्या दुहितुर्गृहे ।
समुद्भूता महासंपदित्यश्रोषीज्जनोदितम् ॥ ३७.४०२{५२} ॥
ततः स ब्राह्मणो भार्यां धीमत्या मातरं मुदा ।
सहसा समुपामंत्र्य पुर एवमभाषत ॥ ३७.४०३{५३} ॥
किं त्वयानुश्रुतं भार्ये धीमत्या यद्गृहेऽधुना ।
महासंपत्समुद्भूता मयेति श्रूयते खलु ॥ ३७.४०४{५४} ॥
इति भर्त्रा समाख्यातं श्रुत्वा सा विस्मयान्विता ।
कथमेतद्भवेत्सत्यमिति तं पतिमब्रवीत् ॥ ३७.४०५{५५} ॥
इति भार्योदितं श्रुत्वा हरिशर्मापि स द्विजः ।
सविस्मयेनाख्यातं श्रुत्वा चैवमभाषत ॥ ३७.४०६{५६} ॥
प्रिये श्रुतं मया सत्यं धीमत्या यद्गृहेऽधुना ।
महासंपत्समुद्भूता वसुन्धाराप्रसादतः ॥ ३७.४०७{५७} ॥
यदि नैतत्प्रतीतोऽपि जनैः सा धीमती सुता ।
स्वगृहेऽत्र समाहूय त्वमेवं परिपृछ्यताम् ॥ ३७.४०८{५८} ॥
कथं संजायते संपन्महती ते गृहेऽधुना ।
एतत्सत्यं त्वया पुत्री पुरो मे कथ्यतामिति ॥ ३७.४०९{५९} ॥
एवं भर्त्रा समाख्यातं श्रुत्व सा धीमतीप्रसूः ।
तथेति प्रतिविज्ञाय स्वसखीमेवमब्रवीत् ॥ ३७.४१०{६०} ॥
शृणु सखि सुताया मे धीमत्या यद्गृहेऽधुना ।
संभूता महती संपद्वसुंधारा प्रसादतः ॥ ३७.४११{६१} ॥
इति श्रुतं मया सत्यं द्रष्टुमिछामि तत्खलु ।
तत्तां सुतां समाहूय समादरादिहानय ॥ ३७.४१२{६२} ॥
इति तया समाख्यातं श्रुत्वा सा सुप्रिया सखी ।
तथेति प्रतिविज्ञप्य धीमत्या भवने ययौ ॥ ३७.४१३{६३} ॥
तत्र सा समुपासृत्य धीमतीं तां सुभद्रिकाम् ।
दृष्ट्वा सविस्मयानंदयुक्ता नत्वैवमब्रवीत् ॥ ३७.४१४{६४} ॥
भद्रेऽहं प्रेषिता मात्रा त्वदाह्वानं प्रतीह तत् ।
सहसा त्वं समागंतुमर्हसि स्वात्मजान्विता ॥ ३७.४१५{६५} ॥
इति तया समाख्यातं श्रुत्वा सा धीमती मुदा ।
हसन्ती तां सखीं मातुः समालोक्यैवमब्रवीत् ॥ ३७.४१६{६६} ॥
अयि मां स्मरते माता किमर्थं सांप्रतं कथम् ।
तदाहं न स्मृता मात्रा दारिद्रियदुःखिनी यदा ॥ ३७.४१७{६७} ॥
तथाप्यहं मुखं मातुर्द्रष्टुमिछामि सांप्रतम् ।
तथाहमागमिष्यामि यथा मातुः समीहितम् ॥ ३७.४१८{६८} ॥
इत्युक्त्वा धीमती साथ पुत्रं च भूषणम् ।
भूषयित्वा सुवस्त्रैश्च प्रावार्य सममण्डयत् ॥ ३७.४१९{६९} ॥
स्वयं च सा प्रसाधित्वा दुष्यपट्टाम्वरावृता ।
श्रीमद्रत्नाम्वलंकारैर्मण्डितांगाभिशोभिता ॥ ३७.४२०{७०} ॥
(र्म् ४३०)
ततः सख्या तया सार्द्धं पुत्रपुत्रीसमन्विता ।
संप्रस्थिता जनैश्चापि सह मातुर्गृहे ययौ ॥ ३७.४२१{७१} ॥
तत्र सा जननी दृष्ट्वा धीमतीं तां समागताम् ।
तं सुपुत्रं सुपुत्रीं च पश्यन्ती समुपाचरन् ॥ ३७.४२२{७२} ॥
तत्र तां जननीं दृष्ट्वा धीमती सात्मजान्विता ।
सहसा समुपागत्य नत्वापृछत्सुकौशलम् ॥ ३७.४२३{७३} ॥
जननी सापि तां पुत्रीं पुत्रपुत्रीसमन्विताम् ।
धीमतीं सहसालिंग्य पप्रछ कौशलं मुदा ॥ ३७.४२४{७४} ॥
ततः सा धीमती पुत्री पुत्रपुत्रीसमन्विता ।
मात्रा सहाभिगछंती पितुर्गेहमुपासरत् ॥ ३७.४२५{७५} ॥
तत्र साधीमतीं पुत्रीं पुत्रपुत्रीसहागताम् ।
दृष्ट्वा स जनकोऽप्येवं पश्यन् प्रत्युद्ययौ मुदा ॥ ३७.४२६{७६} ॥
जनकं तं समालोक्य धीमती सात्मजान्विता ।
संस्मिता समुपासृत्य नत्वापृछत्सुकौशलम् ॥ ३७.४२७{७७} ॥
पितापि स समालोक्य धीमतीं तां शुभांशिकाम् ।
पुत्रपुत्र्यौ च संभाष्य पप्रछ कौशलं मुदा ॥ ३७.४२८{७८} ॥
पिता स जननी सापि धीमतीं तां सुभाविनीम् ।
पौत्रं पौत्रीं च संधृत्वा स्वगृहे जग्मतुर्मुदा ॥ ३७.४२९{७९} ॥
तत्र सा जननी तस्याः पौत्र्याः पौत्रस्य चादरात् ।
पादान् प्रक्षालयित्वाशु स्वकमानयत् ॥ ३७.४३०{८०} ॥
तदासनं समास्तीर्य तां पुत्रीं स्वयमादरात् ।
पौत्रं पौत्रीं च तान् सर्वान् संधृत्वा संन्यवेशयत् ॥ ३७.४३१{८१} ॥
तत्रासने समाश्रित्य पार्श्वयोर्वामदक्षयोः ।
पुत्रीं पुत्रमुपस्थाप्य तस्थौ सा धीमती स्मिता ॥ ३७.४३२{८२} ॥
तामागतां समाकर्ण्य सर्वेऽपि जातयो मुदा ।
सहसा द्रष्टुमागत्य सा दरं समुपाययुः ॥ ३७.४३३{८३} ॥
तथा ते वांधवाः सर्वे सुहृत्मिन्रजना अपि ।
तां तथा स्वगृहायातां कुशलं प्रष्टुमाययुः ॥ ३७.४३४{८४} ॥
तथा ताश्च भगिन्योऽपि तासां सर्वेऽपि चात्मजाः ।
तां धीमतीं तथायातां श्रुत्वा द्रष्टु समा ययुः ॥ ३७.४३५{८५} ॥
एवमन्येऽपि लोकाश्च धीमतीं तां सुभूषणाम् ।
स्वमातुर्गृहमायातां श्रुत्वा द्रष्टुमुपाययुः ॥ ३७.४३६{८६} ॥
तत्रेतं धीमतीं कांतां सुवस्त्रभूषणावृताम् ।
ते सज्ञात्यादयः सर्वे दृष्ट्वा विस्मयमाययुः ॥ ३७.४३७{८७} ॥
ततोऽनुजा भगिन्यादि ज्ञातिवंधुसुहृज्जनाः ।
सर्वे तां सादरं नत्वा पप्रछुः कुशलं मुदा ॥ ३७.४३८{८८} ॥
तथा सा धीमती चापि ज्ञातिवंधुसुहृज्जनान् ।
वन्दनीयान्स्तान्नत्वापृछत्सुकौशलम् ॥ ३७.४३९{८९} ॥
ततः सा जननी तस्यै धीमत्यै सादरान्मुदा ।
वर्णगंधरसोपेतं भोजनं समुपाहरत् ॥ ३७.४४०{९०} ॥
तथा सौताय सौतायै भोजनं सुरसान्वितम् ।
सादरमुपढोकित्वा पुर एवमभाषत ॥ ३७.४४१{९१} ॥
(र्म् ४३१)
गृह्णाण सुरसं भोग्यं भुक्ष्व हृद्धीमति प्रिये ।
यो सौत सौते च सौदार्द्द प्रोच्युतं यदभीप्सितम् ॥ ३७.४४२{९२} ॥
जनको वितथ्य सर्वो भगिन्यो भ्रातरोऽपि च ।
भातृजायां सुखाश्चापि तस्याश्चक्रुः समादरम् ॥ ३७.४४३{९३} ॥
तथादरां कृतं सर्वे श्रुत्वा सा धीमती तदा ।
पूर्ववृत्तिमनुस्मृत्वा मनसैवं व्यचिंतयत् ॥ ३७.४४४{९४} ॥
नैवाहं मानिता ह्येभिर्नायं पुत्रोऽपि मानितः ।
न च यं मानिता पुत्रि धनमेवात्र मन्यते ॥ ३७.४४५{९५} ॥
यदा न मे गृहे संपद्दरिद्रोऽहं च दुःखिनी ।
तदेमे सर्व एतेऽपि नापिऽपश्यन्मुखं मम ॥ ३७.४४६{९६} ॥
इदानीं मे गृहे संपज्जाता तत्सुखान्विताम् ।
एवं मतेऽपि सर्वे मां मानयंति समादरात् ॥ ३७.४४७{९७} ॥
यदहं मानिता नैव धनमेवाभिमान्यते ।
तद्यस्य तैः क्रियते मान्यं स भुंज्यादिदमादरम् ॥ ३७.४४८{९८} ॥
इति सा मनसा ध्यात्वा सर्वाणि भूषणान्यपि ।
स्वानि पुत्रस्य पुत्र्याश्च संनिरीक्ष्य समाददे ॥ ३७.४४९{९९} ॥
ततः सा धीमती कांशस्थाल्यां सर्वाणि तान्यपि ।
भूषणानि प्रसार्यैवं सादरं प्रत्यभाषत ॥ ३७.४५०{१००} ॥
भो भो भवन्ति सर्वाणि भूषणानि प्रियाणि मे ।
इदं सौरसिकं भोज्यं प्राश्नुत स्वेछया सुखम् ॥ ३७.४५१{१} ॥
संसारे माननीयं हि धनमेव सदादरात् ।
धनानुरूपेण यल्लोके मान्यते निंद्यते नरः ॥ ३७.४५२{२} ॥
धनवान् पुरुषो लोके नीचोऽपि मान्यतेऽगुणः ।
निर्धना गुणवांश्चापि सुजातोऽपि न मान्यते ॥ ३७.४५३{३} ॥
धनानुरूपेण सर्वत्र विचारमान्यभोजनम् ।
धनप्रसंगतो मूर्खो नीचोऽपि धन्यतो भवेत् ॥ ३७.४५४{४} ॥
यावत्संपद्गृहे तावल्लोके समाद्रितो नरः ।
यदा संपद्विहीने तु तदा स भूतवच्चरेत् ॥ ३७.४५५{५} ॥
इति साभिलपन्त्येव सर्वाणि भूषणान्यपि ।
तानि पुनः समादाय यथा स्थानं न्ययोजयत् ॥ ३७.४५६{६} ॥
ततस्तद्भोजनं किंचिद्भक्त्वा सा स्वात्मजान्विता ।
नत्वैव पितरौ भर्त्तुर्गृहे ययौ प्रसादिता ॥ ३७.४५७{७} ॥
तत्र सा धीमती भर्त्तुर्विष्णुदासस्य पादयोः ।
नत्वा सर्वप्रवृत्तांतं न्यवेदयत्पुरः स्थिता ॥ ३७.४५८{८} ॥
एतद्भार्यासमाख्यातं श्रुत्वा स ब्राह्मणः पतिः ।
मुदितस्तां सुकल्याणीं भार्यं दृष्ट्वैवमब्रवीत् ॥ ३७.४५९{९} ॥
धन्योऽसि त्वं सुकल्याणी यत्ते समुपादेशतः ।
श्रीदेवीव्रतमाधाय समाप्नोमि सुसंपदम् ॥ ३७.४६०{१०} ॥
(र्म् ४३२)
प्रिये त्वामत्र तद्रत्नसंभवकुलसंभवाम् ।
श्रीवसुधामहादेवीसमां मन्येऽहमात्मना ॥ ३७.४६१{११} ॥
इत्युक्त्वा ब्राह्मणो भर्त्ता विष्णुदासः कृतांजलिः ।
धीमतीं तं सुकल्याणीं नत्वैवं पुनरब्रवीत् ॥ ३७.४६२{१२} ॥
प्रिये तव प्रसादेन साफल्यं जन्म मेऽधुना ।
यच्छ्रीवसुंधरादेव्या उपासको व्रती भवे ॥ ३७.४६३{१३} ॥
तन्मया प्रकृतं पापं तत्सर्वं क्षीयतेऽधुना ।
संपत्तिः संप्रजाता च नैव क्षीणा भवे धि नः ॥ ३७.४६४{१४} ॥
तथा वयं सदाप्यस्याः श्रीदेव्याः शरणं गताः ।
यथाविधि व्रतं धृत्वा चरेमहि शुभेऽधुना ॥ ३७.४६५{१५} ॥
त्रिरत्नभजनं कृत्वा दत्वार्थिभ्यो यथेप्सितम् ।
यावज्जीवं शुभं कृत्वा भुक्त्वा सौख्यं चरेमहि ॥ ३७.४६६{१६} ॥
एतत्पुण्यविपाकेन सर्वदा सद्गतीं गताः ।
क्रमात्संबोधिमासाद्य बुद्धपदं लभेमहि ॥ ३७.४६७{१७} ॥
इति भर्त्रोदितं श्रुत्वा धीमती सानुमोदिता ।
तथा सदा वसुंधाराव्रतं धृत्वा शुभेऽचरत् ॥ ३७.४६८{१८} ॥
ततः सा धीमती तस्याः शांतमतेः पुरोगता ।
सर्वमेतत्प्रवृत्तांतं निवेद्यैवमभाषत ॥ ३७.४६९{१९} ॥
प्रिये सखि महाभागे भवत्कृपाप्रसादतः ।
पापं मे क्षीयते सर्वं तज्जन्म सफलं भवे ॥ ३७.४७०{२०} ॥
संपत्तिः संप्रजाता मे नैव क्षीणा भवेदपि ।
तद्यावज्जीवितं देव्याः शरणस्थो भजानि हि ॥ ३७.४७१{२१} ॥
त्वमेव शास्ता न चान्या हि सद्धर्मोपदेशिनी ।
तन्मे पुण्यानुभावेन संबुद्धपदमाप्नुहि ॥ ३७.४७२{२२} ॥
इत्युदिते तमाश्रुत्वा शांतमतिश्च सा मुदा ।
धीमतीं तां समालोक्य पुनरेवमभाषात ॥ ३७.४७३{२३} ॥
भद्रे धीमति संबुद्धशरणस्था सदादरात् ।
श्रीदेव्याव्रतमाधाय शुभे चर समाहिता ॥ ३७.४७४{२४} ॥
एतत्पुण्यविपाकेन सर्वदा सद्गतीं गता ।
क्रमात्संबोधिमासाद्य संबुद्धपदमाप्नुयाः ॥ ३७.४७५{२५} ॥
इति मत्वात्र संसारे शुभं धर्मार्थसाधनम् ।
धर्मो लोकहितार्थाय तल्लोकार्थे धर्ममाचरेः ॥ ३७.४७६{२६} ॥
इति तयोदितं श्रुत्वा धीमती सा प्रबोधिता ।
तथेति प्रतिनंदित्वा मुदिता स्वगृहे ययौ ॥ ३७.४७७{२७} ॥
ततः प्रभृति सा साध्वी धीमती सर्वदा गृहे ।
श्रीदेव्या भजनं कृत्वा दत्वा दानं शुभेऽचरत् ॥ ३७.४७८{२८} ॥
तथा तस्या गृहे संपद्दिने दिने प्रवर्द्धिता ।
सर्वसत्वोपभोग्यार्थं बभूव धर्मसाधिनी ॥ ३७.४७९{२९} ॥
तथा सा धीमती दृष्ट्वा सर्वसंपत्प्रवर्द्धिताम् ।
मुदा लोकहितं कृत्वा प्रचचार शुभे सदा ॥ ३७.४८०{३०} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
तथा त्वमपि राजेन्द्र वसुधाराव्रतं चर ॥ ३७.४८१{३१} ॥
प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः ।
(र्म् ४३३)
श्रीदेव्याः शरणे स्थाप्य व्रतं चारय सर्वदा ॥ ३७.४८२{३२} ॥
तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३७.४८३{३३} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेत्यभ्यनुमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ ३७.४८४{३४} ॥
धीमत्या येऽवदानं शुभफलदमिदं सुप्रसन्नाः शृण्वन्ति ।
श्रावयन्ति प्रमुदितमनसा बोधिचर्यानुरागाः ।
सर्वे ते बोधिसत्वाः सकलगुणधराः सर्वसंपत्समृद्धाः ।
श्रीमन्तो लोकश्रेष्ठा जिननिलयगताः संवसंति सुखाढ्याः ॥ ३७.४८५{३५} ॥
++ इति श्रीरत्नावदानतत्वे धीमत्यावदानं समाप्तम् ++
(र्म् ४३४)
xxxविइइ वसुन्धरावदान
अथाशोको महराजः कृताञ्जलिपुटो मुदा ।
उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ ३८.१{१} ॥
भदन्त श्रोतुमिछामि वसुधाराव्रतं कदा ।
केन कुह कथं मर्त्यलोके प्रचारितं पुरा ॥ ३८.२{२} ॥
तदत्र नो भवाञ्च्छास्तर्यथा प्रवर्त्तितं पुरा ।
तथा सर्वं समाख्यातुं विस्तरेण समर्हति ॥ ३८.३{३} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः ।
अशोकं तं महीपालं समालोक्यैवमब्रवीत् ॥ ३८.४{४} ॥
शृणु राजन् यथाख्यातं गुरुणा मे स्रुतं मया ।
तथाहं ते प्रवक्ष्यामि वसुधाराव्रतोद्भवम् ॥ ३८.५{५} ॥
तद्यथा भगवान् बुद्धः शाक्यमुनिस्तथागतः ।
सर्वज्ञोऽर्हं जगच्छास्ता धर्मराजो विनायकः ॥ ३८.६{६} ॥
स एकसमये तत्र कौशान्व्या उपकण्ठिके ।�म्स्: एकः समये
विहारे घोषिरारामे विजहार ससांघिकः ॥ ३८.७{७} ॥
तदा शक्रादयो देवा ब्रह्मादि ब्राह्मणा अपि ।
दैत्येन्द्रा लोकपालाश्च सद्धर्मश्रवणोत्सुकाः ॥ ३८.८{८} ॥
राक्षसा गरुडा नागा यक्षगंधर्वकिन्नराः ।
सिद्धा विद्याधराश्चापि तथा चाप्यप्सरोगणाः ॥ ३८.९{९} ॥
योगिनो यतयस्तीर्था ऋषयो ब्रह्मचारिणः ।
राजानो राजपुत्राश्च वैश्याश्च मंत्रिणो जनाः ॥ ३८.१०{१०} ॥
अमात्याः सैनिकाश्चापि गृहस्थाश्च महाजनाः ।
वणिजः सार्थवाहाश्च शिल्पिनः पौरिका अपि ॥ ३८.११{११} ॥
ग्राम्या जानपदाश्चापि तथान्यदेशवासिनः ।
एवमन्येऽपि लोकाश्च सद्धर्मामृतवांछिनः ॥ ३८.१२{१२} ॥
सर्वे ते तत्र कौशांव्या घोषिलाराम आगताः ।
सभासनसमासीनं प्राद्राक्षुस्तं मुनीश्वरम् ॥ ३८.१३{१३} ॥
दृष्ट्वा ते मुदिताः सर्वे प्रणत्वा समुपासृताः ।
यथाक्रमं समभ्यर्च्य कृत्वा त्रित्वः प्रदक्षिणम् ॥ ३८.१४{१४} ॥
तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ ३८.१५{१५} ॥
तत्र ते तत्सभासीना भिक्षवः श्रावका अपि ।
भिक्षुण्यश्चैलकाश्चैवमुपासका उपासिकाः ॥ ३८.१६{१६} ॥
बोधिसत्वा महासत्वाः संबोधिव्रतचारिणः ।
वसुंधराव्रतोत्पत्तिं श्रोतुं सर्वे समीछिरे ॥ ३८.१७{१७} ॥
तत्रानंदः परिज्ञाय तेषां मनःसमीहितम् ।
सांजलिः पुरतः स्थित्वा नत्वैवं प्रार्थयन्मुनिम् ॥ ३८.१८{१८} ॥
भगवन् सर्वविच्छास्तानिमे सर्वे सभाजनाः ।
वसुलक्ष्मीव्रतोत्पत्तिं श्रोतुमिछन्ति आसृताः ॥ ३८.१९{१९} ॥
(र्म् ४३५)
तद्भवांस्त्रिजगच्छास्ता सर्वसत्वाभिबोधने ।
वसुलक्ष्मीव्रतोत्पत्तिं समुपादेष्टुमर्हति ॥ ३८.२०{२०} ॥
इत्यानंदेन भद्रेण प्रार्थिते स मुनीश्वरः ।
तान् सभासंस्थितान् सर्वान् समालोक्यैवमादिशत् ॥ ३८.२१{२१} ॥
शृण्वानन्द प्रवक्ष्यामि मुनीन्द्रेण यथोदितम् ।
वज्रधराब्धिगम्भीरनिर्घोषेण श्रुतं मया ॥ ३८.२२{२२} ॥
तद्यथाभूत्पुरा राजा सूर्योदयाभिधो नृपः ।
श्रीपुरे नगरे रम्ये चक्रवर्त्ती नृपाधिपः ॥ ३८.२३{२३} ॥
दशाकुशलसंरक्तः प्रमदाजनवश्यगः ।
तदा तत्र नराः सर्वेऽप्यसन्मित्रोपदेशतः ।
दशाकुसलमूलेषु कर्मसु संप्रचेरिरे ॥ ३८.२४{२४} ॥
तदा तत्पापदोषेण महेतयः प्रवर्त्तिताः ।
तदीतिसमुपाक्रान्ता संक्षोभिताभवन्मही ॥ ३८.२५{२५} ॥
ततः सर्वत्र देशेषु दुर्भिक्षमभवद्भुवि ।
तदा ते मनुजाः सर्वे दरिद्रा अभवन् क्रमात् ॥ ३८.२६{२६} ॥
ततस्ते निर्धनाः सर्वे क्षुत्पिपासाहतातुराः ।
लोभिता निर्दयाः क्रूराः प्रदुष्टा दुरितारताः ।
स्वकुलधर्ममर्यादं विलंघ्याप्यशुभेऽचरन् ॥ ३८.२७{२७} ॥
ततः सर्वेऽपि ते लोका अन्धा इव कुमार्गगाः ।
असत्संगानुसंरक्ताः प्रचेरुर्नरकामुखाः ॥ ३८.२८{२८} ॥
तदा तत्पापसंघृष्टदुःखाग्निपरितापिता ।
शोषितेवाभवद्भूमी निर्गुणा नीरसा खरा ॥ ३८.२९{२९} ॥
तदा सर्वेऽपि सत्वाश्च क्षुत्तृष्णाग्न्यहिदाहिताः ।
निराशा मृत्युमिछन्तो निषेदुः परिमोहिताः ॥ ३८.३०{३०} ॥
तदैकस्मिन् दिने तत्र तुषितभुवने स्थिताः ।
श्रीदेवीप्रमुखा देव्यो वसुन्धर्य्याः सहायिकाः ॥ ३८.३१{३१} ॥
सर्वास्ता मिलिता मर्त्यलोके गंतुं समिप्सवः ।
किमिदानीं मनुष्याणामवस्थेति समीक्षिरे ॥ ३८.३२{३२} ॥
ततस्तान्मनुजान् सर्वान् दरिद्रान् पापचारिणः ।
दृष्ट्वा ताः सकला देव्या दयार्त्ता एवमब्रुवन् ॥ ३८.३३{३३} ॥
अहो दुःखं मनुष्याणां यत्पापे निरता नराः ।
दरिद्रा निर्दयाः क्रूरा भवन्ति नरकामुखाः ॥ ३८.३४{३४} ॥
तत्तत्र मर्त्यलोकेऽपि दरिद्र्यदुःखशान्तये ।
यत्नाच्छ्रीवसुधाराया व्रतं चारयेमहि ॥ ३८.३५{३५} ॥
ततस्ते मनुजाः सर्वे श्रुत्वा दृष्ट्वानुमोदिताः ।
श्रीदेव्याः शरणं गत्वा चरेयुर्व्रतमादरात् ॥ ३८.३६{३६} ॥
तदा तत्पुण्यसंपूताः सर्वे ते मानवा अपि ।
श्रीमन्तः सुखिनो भद्रे चरेयुः सर्वदादरात् ॥ ३८.३७{३७} ॥
ततस्ते मनुजाः सर्वे दशकुशलसंरताः ।
परस्परहितं कृत्वा चरेयुर्बोधिसंवरम् ॥ ३८.३८{३८} ॥
ततस्ते भद्रितात्मानः सर्वसत्वहितोद्यताः ।
बोधिसत्वा महासत्वा भवेयुर्बोधिचारिणः ॥ ३८.३९{३९} ॥
ततस्ते सद्गुणाधानास्त्रिरत्नभजनारताः ।
क्रमात्संबोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ ३८.४०{४०} ॥
(र्म् ४३६)
इति हेतोर्वयं सर्वाः श्रीदेव्याः पुरतो गताः ।
एतत्सर्वप्रवृत्तांतं विज्ञापयेम सांप्रतम् ॥ ३८.४१{४१} ॥
इत्येवं संमतं कृत्वा सर्वा देव्व्योऽपि तास्ततः ।
श्रीवसुधामहादेव्या आलये समुपाचरन् ॥ ३८.४२{४२} ॥
तत्र ताः सकला देव्यः सांजलय उपासृताः ।
तां श्रीवसुंधरां देवीं प्रणत्वैवं न्यवेदयन् ॥ ३८.४३{४३} ॥
भगवति महादेवि विजानीयाद्भवंत्यपि ।
यन्मनुष्या दरिद्रास्ते भवन्ति पापचारिणः ॥ ३८.४४{४४} ॥
तद्भवती प्रयत्नेन मनुजान्स्तान् सुदुःखितान् ।
कृपया सहसालोक्य सर्वान्नुद्धर्त्तुमर्हति ॥ ३८.४५{४५} ॥
इति संप्रार्थिते ताभिर्देवीभिः सा वसुन्धरा ।
ता देवी सकला दृष्ट्वा प्रसन्नास्यैवमब्रवीत् ॥ ३८.४६{४६} ॥
अहो दुःखं मनुष्याणां यत्र शास्ता न सद्गुरुः ।
तेन तेऽकुशलाचाराः सर्वे नरा दरिद्रताः ॥ ३८.४७{४७} ॥
पापाभिस्संरता दुष्टा क्षुत्तृष्णाग्न्यभिदाहिताः ।
दुर्भगा निर्दयाः क्रूराः पतेयुर्नरके ध्रुवम् ॥ ३८.४८{४८} ॥
इति हेतोरहं तेसां मर्त्यानां दुःखशांतये ।
संवरे तान्नुपस्थाप्य बोधौ नियोजयेमहि ॥ ३८.४९{४९} ॥
इति निश्चित्य सा देवी वसुलक्ष्मी कृपार्दिता ।
तत्र समाधिमाधाय त्रिमुर्त्तिं सा समादधौ ॥ ३८.५०{५०} ॥
तद्यथैका वसुंधर्य्या महालक्ष्मी द्वितीयका ।
तृतीयिका कुमार्य्याश्च त्रिमूर्त्तिरिति सा दधे ॥ ३८.५१{५१} ॥
ततः सा श्रीमहादेवी गंतुं मर्त्यालये स्वयम् ।
नंदीमुखाश्वघोषौ द्वौ समामंत्र्यैवमादिशत् ॥ ३८.५२{५२} ॥
नंदीमुखाश्वघोषौ यन्मया संप्रार्थितं यथा ।
तथा तन्मे महत्कार्यं हर्त्तुमर्हथ सर्वथा ॥ ३८.५३{५३} ॥
इत्यादिष्टं तया देव्या निशम्य तौ कृतांजलिः ।
नन्दिमुखाश्वघोषौ तां देवीं नत्वैवमूचतुः ॥ ३८.५४{५४} ॥
देवि किं ते महत्कार्यं तदा ज्ञापयतु ध्रुवम् ।
यथादिष्टं भवत्याशु करिष्यावस्तथा खलु ॥ ३८.५५{५५} ॥
इति ताभ्यां समाख्यातं श्रुत्वा सा श्रीवसुंधरा ।
महादेवी प्रसन्नास्या तौ दृष्ट्वैवमभाषत ॥ ३८.५६{५६} ॥
शृणुत भद्रमुखौ यन्मे कार्यं वां तन्मयोच्यते ।
तथा युवां समाधाय कर्त्तुमर्हथ सांप्रतम् ॥ ३८.५७{५७} ॥
यन्नरा भूतले सर्वे दरिद्रा अतिदुःखिता ।
पापाभिनिरता दुष्टा भवन्ति नरकामुखाः ॥ ३८.५८{५८} ॥
तत्तान् सर्वान् समुद्धर्त्तुमिछामि सर्वथाऽधुना ।
त्रिधा मूर्त्तिमहं धृत्वा गछेयं तन्महीतले ॥ ३८.५९{५९} ॥
तयो राजा महीपालः सर्वलोकाधिपः प्रभुः ।
तमेवं प्रथमं धर्मे विनीय योजयेमहि ॥ ३८.६०{६०} ॥
यत्र राजा स्वयं धर्मे स्थित्वा चरेत्समाहितः ।
तत्र सर्वेऽनुगा राज्ञो धर्मे चरेयुरादरात् ॥ ३८.६१{६१} ॥
यत्राभिनिरतो राजा चरतेऽप्यशुभे शुभे ।
(र्म् ४३७)
तत्र सर्वेऽपि लोकास्ते प्रचरेयुर्हि सादरम् ॥ ३८.६२{६२} ॥
इत्यादौ नृपति धर्मे योजनीयः प्रयत्नतः ।
ततः स नृपतिः सार्वाल्लोकान् धर्मे नियोजयेत् ॥ ३८.६३{६३} ॥
ततः सर्वेऽपि लोकास्ते दशाकुशलवैमुखाः ।
सद्धर्मे हि रता भद्रे प्रचरेयुः समाहिताः ॥ ३८.६४{६४} ॥
ततः सर्वेऽपि ते लोकाः परस्परहितोन्मुखाः ।
त्रिरत्नभजनं कृत्वा चरेयुः संवरे सदा ॥ ३८.६५{६५} ॥
ततस्ते सर्वदा श्रेयः कृत्वा यायुः सुखावतीम् ।
तत्रापि संवरं धृत्वा प्रचरेयुः सुखान्विताः ॥ ३८.६६{६६} ॥
ततः क्रमात्समाधाय सर्वपारमितास्वपि ।
चरन्तः सर्वसत्वानां हितं कुर्युः सदादरात् ॥ ३८.६७{६७} ॥
ततस्ते बोधिसत्वाः स्युः सद्धर्मगुणरत्निनः ।
शुद्धात्मानो महासत्वा भविष्यन्ति जिनात्मजाः ॥ ३८.६८{६८} ॥
ततः सर्वेऽपि ते धीराः परिशुद्ध त्रिमण्डलाः ।
त्रियानबोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ ३८.६९{६९} ॥
इति हेतोरहं तेषां सत्वानां विनयार्थतः ।
त्रिमूर्त्तिरूपमाधाय गछामि भूतलेऽधुना ॥ ३८.७०{७०} ॥
तद्युवां मे वचो धृत्वा गन्तुमर्हथ भूतले ।
तत्र गत्वा प्रयत्नेन सर्वथाहर तं नृपम् ॥ ३८.७१{७१} ॥
ततोऽहं तं वशीकृत्य बोधयित्वा प्रयत्नतः ।
सद्धर्मचारिणं कृत्वा चारयिष्यामि मे व्रतम् ॥ ३८.७२{७२} ॥
इति तया महादेव्या समादिष्टं निशम्य तौ ।
नन्दिमुखाश्वघोषौ तां देवीं नत्वैवमूचतुः ॥ ३८.७३{७३} ॥
भद्रे देवि तवादेशं धृत्वावां शिरसा तथा ।
गत्वा नृपं समाहृत्य प्राणयिष्यावहे पुरः ॥ ३८.७४{७४} ॥
इत्युक्त्वा तौ प्रसन्नास्यौ कृतांजलिपुटो मुदा ।
पादौ देव्याः प्रणत्वैवं प्रजग्मतुस्ततो भुवि ॥ ३८.७५{७५} ॥
त्रिमूर्त्तिरूपमाधाय वसुलक्ष्मीरपि स्वयम् ।
श्रीदेव्यादिसखीयुक्ता गंगातीरमुपागताः ॥ ३८.७६{७६} ॥
तत्र तौ भूतले गत्वा प्रापश्यतं समंततः ।
रमणीयं महोद्याने पुष्करिणीप्रशोभितम् ॥ ३८.७७{७७} ॥
दृष्ट्वा तावुभौ तत्र क्षणं विश्रम्य संस्थितौ ।
ततो मिथसमासीनौ दृष्ट्वैवं समभाषताम् ॥ ३८.७८{७८} ॥
अहो रम्यं महीलोकं तडागोद्यानमण्डितम् ।
तत्कथमिह राजानमपहर्त्तुं चरेवहि ॥ ३८.७९{७९} ॥
तत्र नन्दीमुखः प्राह दिव्यस्त्रीसुंदरं वपुः ।
धृत्वावां सुरसंगीतं गायन्तौ प्राचरेवहि ॥ ३८.८०{८०} ॥
नूनं स नृपती राजा दृष्ट्वा नौ दिव्यसुंदरम् ।
वपुः कामाग्निसंतप्तः समाहर्त्तुमुपाचरेत् ॥ ३८.८१{८१} ॥
तदावां सहसाहृत्य नृपतिं तं प्रयत्नतः ।
मोहयित्वा वशीकृत्य देव्या उपानयेवहि ॥ ३८.८२{८२} ॥
इति संभाषणं कृत्वा विधाय च सुसंमतम् ।
नन्दिमुखाश्वघोषौ तौ स्त्रीरूपं दधतुस्तथा ॥ ३८.८३{८३} ॥
ततस्ते दिव्यरामांशे मनाभिरामनिःस्वनैः ।
(र्म् ४३८)
गायंत्यौ सुरसंगीतं दुर्गास्थने निषेदतुः ॥ ३८.८४{८४} ॥
तयोस्तत्सुरसंगीतं श्रुत्वा तत्पुरवासिनः ।
जनाः कौतूहलाक्रान्तचित्ता द्रष्टुमुपासरन् ॥ ३८.८५{८५} ॥
दृष्ट्वा ते दिव्यरूपांशे सर्वे ते विस्मयान्विताः ।
देवकन्ये इमे नूनमिति प्रोक्त्वा समीक्षिरे ॥ ३८.८६{८६} ॥
दिव्यांशे ते समालोक्य सर्वे ते विस्मयोद्धताः ।
अहो चित्रमिति प्रोक्त्वा प्रत्याययुश्चिरात्पुरम् ॥ ३८.८७{८७} ॥
तत्र ते सुरकन्यांशे नैकस्थाने निषेदतुः ।
प्रतिदिनं चतुर्द्दिक्षु प्रगायंत्यौ प्रचेरतुः ॥ ३८.८८{८८} ॥
तथा ते चरितं दृष्ट्वा सर्वे ते पौरिका अपि ।
अत्यद्भुतसमाक्रांतचित्ता चेरुः प्रशंकिताः ॥ ३८.८९{८९} ॥
ततस्ते पौरिका लोकाः साद्भुतशंकिताशयाः ।
नृपतेः पुरतो गत्वा प्रणत्वैवं न्यवेदयेत् ॥ ३८.९०{९०} ॥
जय देव महाराज विजानीया भवान्नपि ।
तथाप्यत्र महच्चित्रं विज्ञप्तुं वयमागताः ॥ ३८.९१{९१} ॥
तदत्र सुररामांशे उभे स्त्रियौ सुलक्षणौ ।
गायन्त्यौ सुरसंगीतं दुर्गास्थाने समाश्रिते ॥ ३८.९२{९२} ॥
प्रतिदिनं चतुर्दिक्षु तथा ते देवकन्यके ।
गायंत्यो सुरसंगीतं भ्रमित्वा चरतो मुदा ॥ ३८.९३{९३} ॥
तन्निमित्तं कथं राजं च्छुभं वा स्यादथाशुभम् ।
इति प्रष्टुं समायामो वयं सर्वेऽपि नान्यथा ॥ ३८.९४{९४} ॥
इति तैः पौरिकैः सर्वैर्निवेदितं निशम्य सः ।
महीपतिः क्षणं ध्यात्वा ततो दृष्ट्वैवमब्रवीत् ॥ ३८.९५{९५} ॥
स्त्रीभिरालापितं गीतं शुभाय न भवेत्क्वचित् ।
इत्युक्त्वा स विषण्णात्मा मनसैवं व्यचिन्तयत् ॥ ३८.९६{९६} ॥
क्षेमं नेमे भवेन्नूनं यत्ते स्त्रियौ न मानवे ।
स्त्रीरूपा वहिनिर्माय प्रेषिते केन मायया ॥ ३८.९७{९७} ॥
तदत्र किं भवेन्नूनं तन्निमित्तं शुभं न हि ।
किमुपायं करिष्यामि न मन्ये को हितं दिशेत् ॥ ३८.९८{९८} ॥
इति चिंत्ता विषण्णात्मा नृपतिः स विनिश्वसन् ।
शोकालये समासीनो वहि नैवाचरेत्क्वचित् ॥ ३८.९९{९९} ॥
तथा स्थितं नरेन्द्रं तं मत्वा वहिरनिर्गतम् ।
नन्दीमुखोऽस्वघोषं तं समालोक्यैवमब्रवीत् ॥ ३८.१००{१००} ॥
अश्वघोष नरेन्द्रोऽसौ तथापि न वहिश्चरेत् ।
तदत्र किं करिष्यावो यन्नृपो न वहिश्चरेत् ॥ ३८.१०१{१} ॥
इति तेनोदितं श्रुत्व सोऽश्वघोषो विचिन्तयन् ।
तं नन्दिमुखमालोक्य बोधयन्नेवमब्रवीत् ॥ ३८.१०२{२} ॥
शृणु नंदिमुखोपायं येन नृपः स निचरेत् ।
तदहं संप्रवक्ष्यामि तन्नृपाहरणं प्रति ॥ ३८.१०३{३} ॥
यत्तत्र नृपतेर्गेहे मायाग्निनाभिधक्ष्यते ।
तदा स नृपतिस्त्रस्तः कोपितो निःसरेद्वहि ॥ ३८.१०४{४} ॥
तदा तं नृपतिं दूरात्समाहृत्य प्रयत्नतः ।
सहसा पुरतो देव्या उपनेष्यावहे द्रुतम् ॥ ३८.१०५{५} ॥
(र्म् ४३९)
इति तेनोदितं श्रुत्वा नन्दीमुखः स बोधितः ।
तथा हीति प्रतिश्रुत्य तथा कर्तुं समैछत ॥ ३८.१०६{६} ॥
ततस्तौ संमतं कृत्वा ततोऽप्यन्तर्हितौ द्रुतम् ।
गत्वा मायाग्निना ताभ्यां प्रदाहितं नृपालयम् ॥ ३८.१०७{७} ॥
तद्दृष्ट्वा नृपतिस्त्रस्तः सहसा निश्चरन्स्ततः ।
उपायैस्तज्ज्वलद्वह्निं शमयामास सत्वरम् ॥ ३८.१०८{८} ॥
ततः स भूपती राजा तच्चिन्तापरिखेटितः ।
शोकागरे विषण्णात्मा स्थितश्चैव व्यचिन्तयत् ॥ ३८.१०९{९} ॥
अहो सद्यफलं ह्येतद्यत्स्त्रीगीतनिमित्तजम् ।
तदत्र किं करिष्यामि येनैतच्छाम्यतेऽशुभम् ॥ ३८.११०{१०} ॥
भूयोऽप्यत्र भवेदन्यन्महोत्पातममंगलम् ।
कथमत्र प्रतीकारं करिष्यामि न मन्यते ॥ ३८.१११{११} ॥
इति चिंताविषण्णात्मा नृपतिः स विमोहितः ।
शोकागारे समासीनो नैव वहिर्विनिर्ययौ ॥ ३८.११२{१२} ॥
तथापि स्वालयासीनं दृष्ट्वा वहिरयायिनम् ।
नन्दीमुखाश्वघोषौ तौ पुनरेवं समूचतुः ॥ ३८.११३{१३} ॥
तथापि स नृपो राजा नैव वहिर्विनिःसरेत् ।
तदत्र किं करिष्यावो येनाशु निश्चरेन्नृपः ॥ ३८.११४{१४} ॥
ततश्चापि समालोक्य सोऽश्वघोषो विचिन्तयन् ।
नंदीमुखं सहायं तं समामंत्र्यैवमब्रवीत् ॥ ३८.११५{१५} ॥
भो सखे स महाराजस्तथापि नात्र निश्चरेत् ।
तदत्र किं विलम्बेन यत्नेन तं हरेवहि ॥ ३८.११६{१६} ॥
वराहरूपमाधाय तस्योद्याने मनोरमे ।
सर्वत्रोत्पातनं कस्तुं प्रचारेवोऽधुना द्रुतम् ॥ ३८.११७{१७} ॥
इति तेनोदितं श्रुत्वा नंदीमुखस्तथेति सा ।
प्रतिश्रुत्य सखायं तं समालोक्यैवमब्रवीत् ॥ ३८.११८{१८} ॥
एवमपि करिष्यावो देवीकार्याभिसिद्धये ।
इति तौ संमतं कृत्वा तत्रोद्याने प्रजग्मतुः ॥ ३८.११९{१९} ॥
तत्र तौ समुपालोक्य पुष्करिणीं मनोरमाम् ।
नानापुष्पसमाकीर्णां पश्यंतौ तस्थतुश्चिरम् ॥ ३८.१२०{२०} ॥
ततो नन्दीमुखो दृष्ट्वा तमुद्यानं मनोरमम् ।
पुस्करिणीं च प्रामोद्य गंधाढ्यामेवमब्रवीत् ॥ ३८.१२१{२१} ॥
अहोद्यानं मनोरम्यं सुरम्यं च सरो वरम् ।
नेदं विध्वंसनीयं हि कथं विध्वंसयेवहि ॥ ३८.१२२{२१!} ॥
इति तेनोदितं श्रुत्वा सोऽश्वघोषो विचिंतयन् ।
उद्यानं तत्सरो दृष्ट्वाचिरादेवमभाषत ॥ ३८.१२३{२२} ॥
यथाभिलषितं देव्याः साधयेव तथा द्रुतम् ।
तन्नृपतिमपाहर्त्तुं तदिदं ध्वंसयावहे ॥ ३८.१२४{२३} ॥
इत्युक्त्वा सौमतं कृत्वा तावुभौ महदाश्रयम् ।
वराहरूपमास्थाय प्रजग्मतुस्सरस्तटे ॥ ३८.१२५{२४} ॥
रक्ताक्षौ हृष्टरोमाणौ नादापुरितदिङ्मुखौ ।
सिंहशार्दूलसदृशौ दम्ष्ट्रविभीषणाननौ ॥ ३८.१२६{२५} ॥
तत्र तौ प्रसरन्तौ तदुद्यानं तत्सरोऽपि च ।
विन्ध्वंसितुमुपाक्रम्य प्रचेरतुः समंततः ॥ ३८.१२७{२६} ॥
(र्म् ४४०)
तौ वराहौ समालोक्य त्रस्ते उद्यानपालकः ।
सहसा स विनिर्गत्य ततो राजकुले ययौ ॥ ३८.१२८{२७} ॥
तत्र स समुपासृत्य राज्ञः पादौ कृतांजलिः ।
नत्वा त्रासविभिन्नास्यः पुर एवं न्यवेदयत् ॥ ३८.१२९{२८} ॥
जय देव विजानीया यदुद्याने सरोवरम् ।
द्वौ वराहावुपाक्रम्य ध्वंसितुं चरताऽधुना ॥ ३८.१३०{२९} ॥
तदत्र सहसा देव सर्वसैन्यजनान्नपि ।
समुपाहूय तौ हंतुं प्रेषयस्व द्रुतं वने ॥ ३८.१३१{३०} ॥
इति तेनोदितं श्रुत्वा स राजा परिकोपितः ।
सहसा सैन्यमाहूय स्वयं तौ हन्तुमुद्ययौ ॥ ३८.१३२{३१} ॥
ततः स नृपती राजा समंत्रीसैन्यपौरिकाः ।
सहसा नादयन् वाद्यान्स्तत्रोद्याने उपाचरत् ॥ ३८.१३३{३२} ॥
तत्र स नृपतिर्दृष्ट्वा समंत्रिसैन्यपौरिकान् ।
तान् सर्वान् समुपामंत्र्य पुनरेवमुपादिशत् ॥ ३८.१३४{३३} ॥
भो भवन्तो जनाः सर्वे सज्जीकृत्य समाहिताः ।
अत्र दृष्ट्वोपतिष्ठन्तु परिवृत्य समंततः ॥ ३८.१३५{३४} ॥
अहं प्राग्दिशि तिष्ठामि याम्येऽमात्याः समंत्रिणः ।
पश्चिमादिशि सैनान्यः पौरास्तिष्ठन्तु चोत्तरे ॥ ३८.१३६{३५} ॥
एवं सर्वेऽप्यमात्याद्याः सर्वदिक्षु समाहिताः ।
सज्जीकृत्याभितिष्ठन्तु परिवृत्य समंततः ॥ ३८.१३७{३६} ॥
यत्र स्थाने वराहौ तौ बोद्धुं नैवाभिशक्नुथ ।
यतश्चासौ परायेतां तद्दिक्स्थान् दण्डयेय हि ॥ ३८.१३८{३७} ॥
इति मे वचनं श्रुत्वा सर्वे यूयं समाहिताः ।
सज्जीकृत्य समालोक्य परिवृत्यानुतिष्ठत ॥ ३८.१३९{३८} ॥
इति राज्ञा समादिष्टं श्रुत्वा सर्वेऽपि ते जनाः ।
तथेति प्रतिविज्ञप्य तथा स्थातुं प्रचेरिरे ॥ ३८.१४०{३९} ॥
तथा राजा स्थितः प्राच्यां याम्येऽमात्यगणास्तथा ।
सेनान्यो पश्चिमायां च पौरास्तस्थुस्तथोत्तरे ॥ ३८.१४१{४०} ॥
एवं ते सनृपा लोकाः सामात्यसैन्यपौरिकाः ।
सज्जीकृत्य समालोक्य सर्वे तस्थुः समाहिताः ॥ ३८.१४२{४१} ॥
एवं ते सर्वतो दिक्षु निरुध्य समवस्थिताः ।
सर्ववाद्याभिनिर्घोषं महारावैरखेटयन् ॥ ३८.१४३{४२} ॥
तत्सवाद्यमहारावं श्रुत्वा तौ तानुपस्थितान् ।
समंततः समालोक्य महाशब्दं व्यमुंचताम् ॥ ३८.१४४{४३} ॥
ततस्तौ सहसोत्पातमहावाते प्रवर्त्ततैः ।
कृत्वान्धकारणैर्लोक्य राजानमध्यधावताम् ॥ ३८.१४५{४४} ॥
तत्र स नृपतिस्ताभ्यां स्पृश्यमानो विमूर्छितः ।
संत्रासपरिभूयात्मा कंपितो न्यपतद्भुवि ॥ ३८.१४६{४५} ॥
ततश्चिरात्समुत्थाय कुत्रेमाविति लोक्य सः ।
सहसाश्वं समारुह्य तदनुप्रासरन् ययौ ॥ ३८.१४७{४६} ॥
तथा ते मंत्रिणोऽमात्याः सैन्यलोकाश्च पौरिकाः ।
सर्वे तेऽप्यनुधावन्तः प्रदुद्रुवुर्नृपानुगाः ॥ ३८.१४८{४७} ॥
स नृपाश्वसमारूढस्तद्वराहानुगः शरम् ।
मौर्वीयुक्तैः समाधाय वेगाद्वनमुपाविशत् ॥ ३८.१४९{४८} ॥
(र्म् ४४१)
तत्र तौ मायिकौ त्यक्त्वा वाराहदेहमाशु तौ ।
निविश्याश्वं समाहृत्य प्रेरयतां वनांतरे ॥ ३८.१५०{४९} ॥
तत्र सोऽश्वो महावेगाद्वायुना रिव महाजवि ।
विलंघ्य निम्नगां छैलां प्रदुद्राव महावने ॥ ३८.१५१{५०} ॥
ततस्ते मंत्रिणोऽमात्याः सैनान्यः सैनिकाः प्रजाः ।
नृपं दूरवनाविष्टं दृष्ट्वा प्रत्याययुः श्रमात् ॥ ३८.१५२{५१} ॥
सेन एको महावीरः स्वाम्यमार्गानुसंचरन् ।
असक्तेः असहस्तूर्णं कमण्डलुकरस्तदा ॥ ३८.१५३{५२} ॥
छायेव सहगो वेगाद्वनांतरे तथान्वगात् ॥ ३८.१५४{५३} ॥
तत्रातिवेगतो राजा वायुहतो समाहितः ।
अश्ववृक्षतले सोऽश्वाद्धावता न्यपतद्भुवि ॥ ३८.१५५{५४} ॥
तत्र स मूर्छितो राजा क्षणं तस्थावचेतनः ।
ततः सेनः प्रयत्नेन निःश्वसन्रुदतिष्ठत ॥ ३८.१५६{५५} ॥
ततः सेन समाश्वास्य धृत्वा तं नृपमात्मना ।
सह तत्रासने स्थाप्य व्यश्रामयेच्छ्रमान्वितम् ॥ ३८.१५७{५६} ॥
ततः स नृप आलोक्य तमश्वं समुपस्थितम् ।
तृषार्त्तो निःश्वसन् सेनं मुहुर्दृष्ट्वैवमब्रवीत् ॥ ३८.१५८{५७} ॥
अहो सेन महत्कष्टं जायते नाविहाऽधुना ।
यत्सुदूरे महारण्ये मज्जावहे सुदुस्तरे ॥ ३८.१५९{५८} ॥
तदत्र किं करिष्यावो यत्सर्वे निर्वृतो जनाः ।
सुदूरे निर्जनेऽरण्ये कोऽत्र मार्गं हि निर्दिशेत् ॥ ३८.१६०{५९} ॥
यदत्रातितृषार्त्तोऽहं तापवाताहतातुरः ।
श्रमक्लेशाग्निसंदग्धो धैर्येणापि विमोचितः ॥ ३८.१६१{६०} ॥
तदत्र सहसा सेन मम जीवितरक्षणम् ।
यतस्ततोऽपि वान्विष्य शीतलामृतमानय ॥ ३८.१६२{६१} ॥
इति राज्ञोदितं श्रुत्वा स सेनेः सहसोत्थितः ।
स्वामिनं तं समाश्वास्य पश्यन्नेवमभाषत ॥ ३८.१६३{६२} ॥
मा विषीदात राजेन्द्र यत्क्षत्रियोऽसि धीरवान् ।
तद्भवान् धैर्यमालम्ब्य मुहुर्त्तं स्थातुमर्हति ॥ ३८.१६४{६३} ॥
यतस्ततोऽपि वान्विष्य पाणीयममृतोपमम् ।
सहसा समुपानीय दास्यामि ते नराधिप ॥ ३८.१६५{६४} ॥
तद्यावन्नात्र पाणीयं धृत्वागछामि सर्वथा ।
तावद्धैर्यं समालम्ब्य तिष्ठाश्वेन सह प्रभो ॥ ३८.१६६{६५} ॥
इति विज्ञप्य सेनोऽसौ स्वामिनं तं नराधिपम् ।
समाश्वास्य सुपाणीयमन्वेषितुं द्रुतं ययौ ॥ ३८.१६७{६६} ॥
तत्र स समुपालोक्य सर्वत्राप्यभिलोकयन् ।
सुपाणीयमनसाद्य पश्यन् दूरतरे ययान् ॥ ३८.१६८{६७} ॥
तत्र सुरनदीशब्दं श्रुत्वा सेनः स सत्वरः ।
तच्छब्दं समनुश्रुत्वा तत्राभ्यनुसरन् ययौ ॥ ३८.१६९{६८} ॥
तत्र तीरं समासाद्य सुरनद्याः समादितः ।
सहसा समुपाश्रित्य पानीयं सुरसं पपौ ॥ ३८.१७०{६९} ॥
तत्र स परितुष्टात्मा समंततो विलोकयन् ।
तत्पारे शुद्धिते द्वीपे प्राद्राक्षीदप्सरोगणान् ॥ ३८.१७१{७०} ॥
(र्म् ४४२)
तानप्सरोगणान् दृष्ट्वा स सेनो विस्मयान्वितः ।
मुदा विलोकयन्नेव तस्थौ चित्रार्प्पिता यथा ॥ ३८.१७२{७१} ॥
तत्रस्थंतं समालोक्य सर्वा अप्सरसोऽपि ताः ।
कथमत्रागतः कस्त्वं प्रेहीति समकन्दयन् ॥ ३८.१७३{७२} ॥
इति ताभिः समाहूतं श्रुत्वा स सेन आत्मना ।
सुरनदीं विलंघ्याशु तत्प्रभावादुपासरत् ॥ ३८.१७४{७३} ॥
तत्र स समुपाश्रित्य सर्वान्स्तानप्सरोगणान् ।
सांजलिः सुप्रसन्नास्यः प्रणत्वैवं न्यवेदयत् ॥ ३८.१७५{७४} ॥
महादेव्या विजानीध्वं यत्त्रैलोक्येषु विश्रुतः ।
सूर्योदयो महाराजस्तस्याहं सेवकोऽनुगः ॥ ३८.१७६{७५} ॥
यन्नृपस्य वराहाभ्यामुद्यानं ध्वंसितं ततः ।
तौ वराहौ निहंतुं स नृपोऽनुधावति द्रुतम् ॥ ३८.१७७{७६} ॥
अश्वेनापहृतो राजा स मयैकेन नौज्झितः ।
अत्यभिधावतोऽरण्ये पतितोऽश्वादिहाऽधुना ॥ ३८.१७८{७७} ॥
अशोकवृक्ष आश्रित्य घर्मवाता हतोऽतुरः ।
श्रमतृसार्दितस्तत्र स्थितोऽम्बु पातुमिछति ॥ ३८.१७९{७८} ॥
तदम्बु सर्वतोऽन्विष्य कुत्रापि लभ्यते न हि ।
नदीशब्दमिहाकर्ण्य सहसाहमुपासरे ॥ ३८.१८०{७९} ॥
अत्र मे भाग्ययोगेन प्रेषितोऽहमिहागतः ।
लभामि दर्शनं देव्यो भवांतीनमहोऽधुना ॥ ३८.१८१{८०} ॥
इत्युक्त्वा सेन आलोक्य सांजलिः पुरतो गतः ।
ताः सर्वा अप्सरा देवीनत्वैतं समपृछत ॥ ३८.१८२{८१} ॥
भो देव्यो भवन्त्योऽपि किमर्थमिह तिष्ठथ ।
वक्तव्यं चेत्तदर्थं मे समुपादेष्टुमर्हथ ॥ ३८.१८३{८२} ॥
इति संप्रार्थितं तेन निशम्यायाप्सरोऽधिपाः ।
सा तं सेनं समामंत्र्य पुररेवमुपादिशत् ॥ ३८.१८४{८३} ॥
मानव त्वं न जानासि यदिदं व्रतमुत्तमम् ।
श्रीवसुधामहादेव्या वयं सर्वाश्चरामहे ॥ ३८.१८५{८४} ॥
इति देव्या तयाख्यातं श्रुत्वा सेनः स मोदितः ।
तद्व्रतं धर्त्तुमिछंस्तां देवीं नत्वैवमब्रवीत् ॥ ३८.१८६{८५} ॥
प्रसीद मे महादेवि यच्छ्रीदेव्या इदं व्रतम् ।
अहमपि समिछामि धर्तुं तन्मे उपादिश ॥ ३८.१८७{८६} ॥
इति तेनार्थितं श्रुत्वा सा देवी परितोषिता ।
तं सेनं सुधियं धीरं मत्वैवमब्रवीत्पुनः ॥ ३८.१८८{८७} ॥
मानव वदि ते वांछाप्यस्ति श्रीवसुधाव्रते ।
तत्तावदिह संपश्य समाप्येताऽधुना व्रतम् ॥ ३८.१८९{८८} ॥
पश्चात्तेऽहं समाख्याय श्रीदेव्या व्रतसाधनम् ।
विधिं समुपदेक्ष्यामि संबुद्धेन यथोदितम् ॥ ३८.१९०{८९} ॥
इत्युक्त्वा साप्सरो देवी सर्वास्ता अप्सरोगणाः ।
प्राहूय तन्नदीतीरे व्रतारम्भं तथाकरोत् ॥ ३८.१९१{९०} ॥
तत्र ताः समुपाश्रित्य सर्वा देव्या यथाक्रमम् ।
यथाविधि समारभ्य व्रतं पूर्णं प्रचक्रिरे ॥ ३८.१९२{९१} ॥
(र्म् ४४३)
तद्व्रतं समुपालोक्य स सेनोऽभ्यनुमोदितः ।
अष्टांगप्रणतिं कृत्वा सांजलिरेवमब्रवीत् ॥ ३८.१९३{९२} ॥
अहो भाग्येन संप्राप्तं श्रिदेवीव्रतदर्शनम् ।
तन्मेतिः क्षीयते पापमात्मारि शुद्ध्यतेऽधुना ॥ ३८.१९४{९३} ॥
प्रसीदत महादेव्यः सर्वा मे कृपया दृशा ।
पश्यन्त्योऽनुग्रहं कृत्वा व्रते प्रदातुमर्हतम् ॥ ३८.१९५{९४} ॥
सर्वदाहं चरिष्यामि श्रीदेव्याः शरणं गताः ।
तद्व्रतविधि संपूर्णं समुपादेष्टुमर्हथ ॥ ३८.१९६{९५} ॥
इति संप्रार्थितं तेन श्रुत्वा देवी प्रधानिका ।
सा तं सेनं विशुद्धांशं दृष्ट्वैवं समुपादिशत् ॥ ३८.१९७{९६} ॥
शृणु साधो समाधाय व्रतविधिं समुच्यते ।
वज्रधराब्धिगंभीरनिर्घोषेण यथोदितम् ॥ ३८.१९८{९७} ॥
भाद्रपदेऽसिते पक्षे शुक्लपक्षेऽपि वा तथा ।
माघे मासे च तद्वच्च सर्वेष्वपि च मासु वा ॥ ३८.१९९{९८} ॥
द्वितीयायामुपातीर्थे स्नात्वा शुद्धाम्वरावृतः ।
शुद्धभूमी प्रदेशेषु संशोधयेत्समंततः ॥ ३८.२००{९९} ॥
मृद्गोमयशुभाम्भोभिः प्रलिप्य परिशोधयन् ।
तत्र रत्नमयरङ्गै धातुचूर्णैश्च पंचभिः ॥ ३८.२०१{१००} ॥
पौष्पिकैर्व्रीहिचूर्णैर्वा तथा पाषाणचूर्णकैः ।
यथाविधि समारभ्य सूत्रयित्वा यथाक्रमम् ॥ ३८.२०२{१} ॥
गुरुः शिष्यैः सहालक्ष्य वर्त्तयेन्मण्डलं क्रमात् ।
तत्र देव्यादि चिह्नानि लिखेद्यथाविधि क्रमात् ॥ ३८.२०३{२} ॥
सप्तव्रीह्यावलीभिश्च संवेष्टयेत्समंततः ।
ततस्तीर्थाम्बुसंपूर्णान् पीतवस्त्रावृतान् घटान् ।
षोडशदेवताचिह्न लक्षितान् परिशुद्धितान् ॥ ३८.२०४{३} ॥
पंचरत्नामृतौषध्यपल्लवप्रतिसंयुतान् ।
सुवर्णतिलकछत्रध्वजपताकिकान्वितान् ॥ ३८.२०५{४} ॥
बहिः पीताम्बुजावल्यां संस्थाप्य वेष्टयेत्क्रमात् ।
ध्वजचामरसंयुक्तवितानैः परिमंडयेत् ॥ ३८.२०६{५} ॥
विचित्रपुष्पमालाभिः सुगंधिभिः समंततः ।
सौरभ्यधूपनै दीपै पंक्तिभिश्चाभिशोभयेत् ॥ ३८.२०७{६} ॥
ततस्तन्मण्डले देवीं सगणां श्रीवसुंधराम् ।
ध्यात्वावाह्य समभ्यर्च्य प्रतिष्ठाप्याधिवासयेत् ॥ ३८.२०८{७} ॥
ततो रात्रौ त्रिसंध्यं च समभ्यर्च्य यथाविधिः ।
बलिं पंचामृतैर्युक्तं दत्वा देवीं स्मरंश्चरेत् ॥ ३८.२०९{८} ॥
ततः प्रातस्तृतीयायां तीर्थे द्रव्यैः सुगंधिभिः ।
सह शुद्धाम्बुभिः स्नात्वा शुद्धपीताम्वरावृतः ॥ ३८.२१०{९} ॥
पंचगव्यैः स्वमात्मानं परिषिंच्य विशोधयेत् ।
मण्डले सगणां देवीं ध्यात्वावाह्य समर्चयेत् ॥ ३८.२११{१०} ॥
व्रतीनापि तथा स्नात्वा शुद्धपीताम्वरावृताः ।
पंचगव्यैस्तथा सर्वारभिसिंच्य विशोधयेत् ॥ ३८.२१२{११} ॥
ततस्ते व्रतिनः सर्वे आचार्य्यप्रमुखाः क्रमात् ।
मध्याह्ने यक्षराजस्य दिग्मुखाः स्वासनाः श्रिताः ॥ ३८.२१३{१२} ॥
(र्म् ४४४)
यथाचार्यसमादिष्टं तथाधार्य समाहिताः ।
आदौ वज्रधरं नत्वा त्रिरत्नं शरणं गताः ॥ ३८.२१४{१३} ॥
मंत्रले सगणां देवीं ध्यात्वार्चये यथाक्रमम् ॥ ३८.२१५{१४!} ॥
तद्यथा गुरुराचार्यः शून्ये द्रीकारसंभवम् ।
पीतवर्णं महापद्मं तत्रस्थं चन्द्रमण्डलम् ।
तदुत्थं श्रीभवं रत्नपर्वतं तस्य चोपरि ।
त्वंज भद्रघटासीनां भावयेच्छ्रीवसुंधराम् ॥ ३८.२१६{१५} ॥
पीतामेकमुखां कांतां षड्भुजां ललितासनाम् ।
सव्ये वरदसंबुद्धं प्रणामरत्नमंजलीम् ॥ ३८.२१७{१६} ॥
वामे भद्रघटप्रज्ञा पुस्तकधान्यमंजलिम् ।
दधानं रत्नसंबुद्धमकुटिनीं सुसुंदरीम् ॥ ३८.२१८{१७} ॥
पीतपट्टावृतां दिव्यरत्नालंकारभूषितम् ।
तद्द्वितीयपुटे पृष्ठे पीतो वज्रासनो जिनाः ॥ ३८.२१९{१८} ॥
वज्रधराब्धिनिर्घोषो वराभयप्रदानभृत् ॥ ३८.२२०{१९} ॥
दक्षिणे द्विभुजारक्तो वरदवज्रहस्तकः ।
लोकेश्वरो राजल्लीलावज्रपर्यंकसंस्थितः ॥ ३८.२२१{२०} ॥
वज्रपाणिस्तथा वामे वरदवज्रभृत्करः ।
हरिता राजसंलीला वज्रपर्यंकसंस्थितः ॥ ३८.२२२{२१} ॥
लीला देवी पुरः पीता सत्वपर्यंकसंस्थिता ।
भुजद्वयेन सर्वोपकरणाधिकृतिं तदा ॥ ३८.२२३{२२} ॥
तद्वामे वरुणः श्वेतः सत्वपर्यंकसंस्थितः ।
वीजपूरकमुत्सङ्गस्थितिं करद्वयेन भृत् ॥ ३८.२२४{२३} ॥
नीलोभे दक्षिणे भद्रः सत्वपर्यंकसंस्थितः ।
बीजपूरकमेकेन विभ्रत्क्रोडं तथापरम् ॥ ३८.२२५{२४} ॥
चिविकुण्डलिराग्नेये इषद्रक्तस्तथास्थितः ।
बीजपूरकमुत्सङ्गे स्थितिं दोर्भ्यां समा तथा ॥ ३८.२२६{२५} ॥
नैरृत्ये केलिमाली च श्यामवर्णस्तथा स्थितः ।
बीजपूरकमुत्संगस्थितं दधत्करद्वयः ॥ ३८.२२७{२६} ॥
वायव्ये च मुखेन्द्राख्यः पीतवर्णस्तथा स्थितः ।
बीजपूरकमुत्संगस्थितिं दधत्करद्वयम् ॥ ३८.२२८{२७} ॥
चरेन्द्रो गौररिशाने सत्वपर्यंकसंस्थितः ।
बीजपूरकमुत्संगस्थितिं दधद्भुजद्वयः ॥ ३८.२२९{२८} ॥
तत्तृतीयपुटे पूर्वे गुप्ता देवी तथा स्थिता ।
हरिद्वर्णा भुजाभ्यां स चामरं विभ्रती धरा ॥ ३८.२३०{२९} ॥
नैरृते वसुगुप्ताख्या देवी रक्तास्तथा स्थिता ।
भुजाभ्यां विभ्रती छत्रं सर्वरत्नसमुज्वलम् ॥ ३८.२३१{३०} ॥
सरस्वती च वायव्ये देवी पीता तथा स्थिता ।
ध्वजहस्ता सुभद्रांगी सर्वविद्यार्थदायिनी ॥ ३८.२३२{३१} ॥
इशाने चंद्रकांताख्या देवी श्वेता तथा स्थिता ।
पताका विभ्रती सर्वरत्नालंकारभूषिता ॥ ३८.२३३{३२} ॥
पूर्वद्वारे महायक्षो माणिभद्रस्तथा स्थितः ।
कुंकुमाभा दधद्दोर्भ्यां नकुलीबीजपूरकौ ॥ ३८.२३४{३३} ॥
दक्षिणे पूर्णभद्राख्यो नीलवर्णस्तथास्थितः ।
कराभ्यां विदधद्रत्नस्तवकं बीजपूरकम् ॥ ३८.२३५{३४} ॥
(र्म् ४४५)
पश्चिमे धनदो रक्तः सत्वपर्यंकसंस्थितः ।
भुजद्वयेन विभ्राणः सुघटबीजपूरकौ ॥ ३८.२३६{३५} ॥
उत्तरे पीतवर्णश्च वैश्रवणस्तथा स्थितः ।
भुजाभ्यां संदधद्रत्नप्रसवबीजपूरकौः ॥ ३८.२३७{३६} ॥
इत्येता देवता सर्वाः श्रीदेवीप्रमुखान् क्रमात् ।
ध्यात्वावाह्य ततो दत्वा पाद्याचमनप्रोक्षणम् ॥ ३८.२३८{३७} ॥
ततस्ता मण्डले सर्वाः प्रतिष्ठाप्य यथा क्रमम् ।
षोडशविधिपूजांगैः समर्चयेद्यथा विधि ॥ ३८.२३९{३८} ॥
गंधं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ।
एते पंचोपचारास्तु कैवल्यफलदायिनः ॥ ३८.२४०{३९} ॥
इति पंचोपचाराः
पाद्यमर्घ्यं तथा स्नानं मधुपर्काचनं तथा ।
गंधं पुष्पं च धूपं च दीपं नैवेद्यमेव च ।
पूतनाचमनीयं च दशैतान् संप्रचक्ष्यते ॥ ३८.२४१{४०} ॥
इति दशोपचारा
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
मधुपर्काचमनस्नानं वसनाभरणानि च ॥ ३८.२४२{४१} ॥
सुगंधसुमनो धूपदीपनैवेद्यचंदनम् ।
प्रयोजयेदर्चनायामुपचारास्तु षोडशः ॥ ३८.२४३{४२} ॥
ततो देव्याः स्वहृत्मंत्रं तथा उपहृदयं जपेत् ।
सर्वासामपि मंत्राणि यावच्छतसहस्रधा ॥ ३८.२४४{४३} ॥
ततः स्तोत्रादिभि स्तुत्वा कृतांजलिपुटो मुदा ।
कृत्वा प्रदक्षिणान्येवमष्टांगैः प्रणयेत्पुनः ॥ ३८.२४५{४४} ॥
ततश्च सांजलिः स्थित्वा प्रकुर्यात्पापदेशनाम् ।
पुण्यानुमोदनां चपि संस्थितियाचनामपि ॥ ३८.२४६{४५} ॥
ततः क्षीरोदनैः शुद्धरसैः पंचामृतैर्युतम् ।
बलिं गाथाः पठन् दद्यात्सर्वभूता हि तुष्टये ॥ ३८.२४७{४६} ॥
तथा ते व्रतिनः सर्वे सर्वं धृत्वा समाहिताः ।
यथा शास्त्रा समादिष्टमनुकुर्यु व्रतं क्रमात् ॥ ३८.२४८{४७} ॥
ततस्ते व्रतिनः सर्वे दानं दद्युः स दक्षिणम् ।
गुरवे देवताभ्योऽपि प्रणमेयुश्च सादरम् ॥ ३८.२४९{४८} ॥
ततः क्षमार्थनं कृत्वा सूत्रं षोडशभेदितम् ।
षोडशग्रंथितं पीतं व्रतिभ्यो गुरुरर्पयेत् ॥ ३८.२५०{४९} ॥
तत्सूत्रं ते समादाय सर्वेऽपि व्रतिनो मुदा ।
रक्षार्थं स्वकरे वध्वा दध्युर्व्रतसमाप्तितः ॥ ३८.२५१{५०} ॥
ततस्ते व्रतिनः सर्वे धृत्वा संपत्तिप्रार्थनाम् ।
नत्वा क्षमार्थनां चापि कृत्वा चरेयुरुत्थिताः ॥ ३८.२५२{५१} ॥
ततो दिनत्रियामाग्रे यवगोधूमपिष्टकम् ।
सह पंचामृतैः सर्वैः कुर्युस्तद्व्रतपालनाम् ॥ ३८.२५३{५२} ॥
ततस्तेव्रतिनः सर्वे स्नात्वा चापि समाहिताः ।
दीपमालाः समुज्वाल्य तिष्ठेयु निशि जाग्रिताः ॥ ३८.२५४{५३} ॥
तां देवीं सगणां स्मृत्वा पठन्तो धारणीमपि ।
जपस्तोत्रादिकं कृत्वा तोषयेयुरुपस्थिताः ॥ ३८.२५५{५४} ॥
एवं ते तन्निशां सर्वे व्यतिलंघ्य पुनस्तथा ।
(र्म् ४४६)
प्रातः सुगंधिभिस्तीर्थे स्नात्व शुद्धाम्वरावृताः ॥ ३८.२५६{५५} ॥
तां देवीं सगणां ध्यात्वा समावाह्य यथाक्रमम् ।
सर्वपूजोपहारैश्च प्रार्चयेयुस्तथादरात् ॥ ३८.२५७{५६} ॥
जपस्तोत्रादिकं कृत्वा रत्वा सांजलयो मुदा ।
कृत्वा प्रदक्षिणां चापि कुर्युरष्टाङ्गप्राणतिम् ॥ ३८.२५८{५७} ॥
ततश्च पुरतः स्थित्वा प्रकुर्युः पापदेशनाम् ।
पुण्यानुमोदनां चापि प्रार्थयेयुः सुसंस्थितिम् ॥ ३८.२५९{५८} ॥
ततः संबोधिचर्यार्थं सर्वसत्वहितार्थतः ।
सर्वद्रव्यसुसंपत्तिः प्रार्थयेयुर्यथेछया ॥ ३८.२६०{५९} ॥
ततो गुरुं समभ्यर्च्य दत्वा दानं सदक्षिणम् ।
श्रद्धया प्रणतिं कृत्वा तोषयेयुः समादरात् ॥ ३८.२६१{६०} ॥
ततो भूतवलिं दत्वा प्रार्थयित्वा यथेप्सितम् ।
कृत्वा क्षमार्थनां चापि विसर्जयेद्यथाविधि ॥ ३८.२६२{६१} ॥
ततः शास्ता स आचार्यः कृत्वा चापि क्षमार्थनाम् ।
संपूर्णं तद्व्रतं कृत्वा व्रतसूत्रं समाहरेत् ॥ ३८.२६३{६२} ॥
ततोऽभिषेकमादाय व्रतिनाप्यभिषिंचयेत् ।
शुभाशिषं प्रदत्वा च तन्मण्डलं विसर्जयेत् ॥ ३८.२६४{६३} ॥
ततस्तद्रजमादाय कोष्ठागारे सुगुप्तिते ।
निक्षिप्य प्रतिसंस्थाप्य नित्यं नमेत्सदादरात् ॥ ३८.२६५{६४} ॥
अपरं पुष्पादिकं सर्वं निर्माल्यं सविदम्भसि ।
नागानभ्यर्च्य तत्सर्वं समर्प्पित्वा प्रवाहयेत् ॥ ३८.२६६{६५} ॥
तन्नदीजलमादाय गृहे ततः समाचरेत् ।
तत्र सर्वत्र गेहेषु तज्जलैरभिषिंचयेत् ॥ ३८.२६७{६६} ॥
ततस्तन्मण्डले स्थाने समावाह्य यथाविधि ।
श्रीकुमारीं महादेवीं समभ्यर्च्य हि तोषयेत् ॥ ३८.२६८{६७} ॥
तत्प्रसादं समादाय गणचक्रं यथाविधि ।
समभ्यर्च्य यथार्हेण भोजनेनपि तोषयेत् ॥ ३८.२६९{६८} ॥
एवं तद्व्रतसंपूर्णं कृत्वा सर्वे प्रमोदिताः ।
श्रिवसुधां महादेवीं स्मृत्वा चरेयुराभवम् ॥ ३८.२७०{६९} ॥
एवमेतद्विधानेन श्रीदेव्याः शरणं गतः ।
यथाविधि समाधाय व्रतं चरेत्समादरात् ॥ ३८.२७१{७०} ॥
तस्य गृहे तदारभ्य श्रीदेवी श्रीवसुन्धरा ।
स्वयमागत्य सर्वत्र क्षेमं कृत्वा वसेत्सदा ॥ ३८.२७२{७१} ॥
तदाराभ्य सदा तस्य गृहे सर्वत्र मंगलम् ।
निरुपद्रवमानंदं सर्वदापि भवेद्ध्रुवम् ॥ ३८.२७३{७२} ॥
ततस्तस्य गृहे संपद्दिने दिने प्रवर्द्धिता ।
सर्वद्रव्याभिसंपूर्णा श्रीदस्येव समुद्भवेत् ॥ ३८.२७४{७३} ॥
अथ चापि तथा शक्तौ यः श्राद्धः पुरुषः सुधीः ।
स्नात्वा शुद्धाम्वरो गेहे शोधयित्वा समंततः ॥ ३८.२७५{७४} ॥
श्रीदेव्याः प्रतिमायैवं पटं वापि प्रसार्य च ।
यथाशक्ति समभ्यर्च्य धारणीं सर्वदा पठेत् ॥ ३८.२७६{७५} ॥
तस्यापि च गृहे तिष्ठेच्छ्रीदेवी सगणान्विता ।
तथा तत्र भवेदेवं मंगलं निरुपद्रवम् ॥ ३८.२७७{७६} ॥
(र्म् ४४७)
तदा तस्य गृहे संपद्दिने दिने हि वर्द्धते ।
सर्वद्रव्याभिसंपूर्णा भवेन्न क्षिणुयात्क्वचित् ॥ ३८.२७८{७७} ॥
अथ वा प्राक्तने पीतरजसा मंडलं तथा ।
वर्त्तयित्वात्र तद्रात्रीं नियमेनातिनामयेत् ॥ ३८.२७९{७८} ॥
प्रातः स्नात्वा सुगंधेन शुद्धपीताम्वरावृतः ।
ब्रह्मचारी विशुद्धात्मा त्रिरत्नशरणं गतः ॥ ३८.२८०{७९} ॥
तां श्रीवसुंधरां देवीं ध्यात्वाह्य समाहितः ।
यथाशक्ति समभ्यर्च्य धारणीं श्रद्धया पठेत् ॥ ३८.२८१{८०} ॥
तस्यापि च गृहे भद्रं कृत्वा देवी वसेत्सदा ।
ततस्तथा क्रमात्संपत्परिवृद्धा भवेद्ध्रुवम् ॥ ३८.२८२{८१} ॥
अथ प्रातस्तथा स्नात्वा शुद्धवस्त्रावृतः सुधीः ।
ब्रह्मचारी समाधाय त्रिरत्नशरणं गतः ॥ ३८.२८३{८२} ॥
शुभे स्थाने पटं चापि देव्या मूर्त्तिं प्रसार्य च ।
याथाशक्ति समभ्यर्च्य त्रिवारान् धारणीं पठेत् ॥ ३८.२८४{८३} ॥
तस्यापि च गृहे भद्रं कृत्वा देवी सदा वसेत् ।
तथा तत्र महासंपदभिवृद्धा भवेद्ध्रुवम् ॥ ३८.२८५{८४} ॥
अथ वा च तथा स्नात्वा शुद्धवस्त्रावृतः सुधीः ।
ब्रह्मचारी विशुद्धात्मा त्रिरत्नशरणं गतः ॥ ३८.२८६{८५} ॥
शुभे स्थाने गृहे देव्याश्चन्दनेनापि मंडलम् ।
वर्त्तयित्वा तथा देवीं ध्यत्वावाह्य समर्चयेत् ॥ ३८.२८७{८६} ॥
संपठेद्धारणीं चैवं कुर्याज्जपस्तवादिकम् ।
कृत्वा प्रदक्षिणान्येवं नत्वा संप्रार्थयेन्निधिम् ॥ ३८.२८८{८७} ॥
तस्यापि च गृहे देवी मंगलं निरुपद्रवम् ।
कृत्वा स्वयं समाश्रित्य निवसेत्सर्वदा ध्रुवम् ॥ ३८.२८९{८८} ॥
ततस्तत्र गृहे संपत्सर्वद्रव्यसमन्विता ।
अभिवृद्ध्य भवेन्नूनं निधिश्चापि समुद्भवेत् ॥ ३८.२९०{८९} ॥
अथ वा स्वगृहे शुद्धे कोशकोष्ठालयेऽपि च ।
तथा परगृहे वापि मनोरम्येऽभिशोधिते ॥ ३८.२९१{९०} ॥
अथ तथागतस्यापि लोकेशस्यापि चाग्रतः ।
तथान्यबोधिसत्वानां देवतानां तथाग्रतः ॥ ३८.२९२{९१} ॥
चन्दनेनापि कृत्वैवं श्रीदेव्या मण्डलं तथा ।
विधिवन्मनसा ध्यात्वा समावाह्य समर्चयेत् ॥ ३८.२९३{९२} ॥
तथा तथागतानं च त्रैलोकाधिपतेरपि ।
तथान्यबोधिसत्वानां यथाशक्ति समर्चयेत् ॥ ३८.२९४{९३} ॥
ततस्तां सगणां देवीं ध्यात्वा जपेत्समाहितः ।
संपठेद्धारणीं चापि श्रद्धया भक्तिमानसः ॥ ३८.२९५{९४} ॥
तथ चैकमहोरात्रमविछिन्नं पंथेन्मुदा ।
यावत्त्रिपंचसप्ताहोरात्राणि च पठेत्तथा ॥ ३८.२९६{९५} ॥
आचार्यश्च तथा रात्रौ स्त्रिः कृत्वा दिवसस्य च ।
स लोकपालभूतेभ्यो बलिं दद्याद्यथाविधि ॥ ३८.२९७{९६} ॥
ततो दानपतिः शास्त्रे सर्वोपकरणादिकम् ।
दाने सदक्षिणं दद्यादन्येभ्योऽपि तथादरात् ॥ ३८.२९८{९७} ॥
(र्म् ४४८)
ततश्च सांजलिर्नत्वा प्रार्थयित्वा क्षमामपि ।
संबोधिसाधनीं द्रव्यसंपत्तिं प्रार्थयेन्मुदा ॥ ३८.२९९{९८} ॥
ततः सर्वं समाप्यैवैः कृत्वापि तद्विसर्जनम् ।
यथार्हभोजनैः सर्वाञ्छास्त्रादीन् समतोषयेत् ॥ ३८.३००{९९} ॥
तन्मण्डले रजः सर्वं समादाय सपुष्पकम् ।
कोष्ठकोष्ठालयागारे निक्षिप्य स्थापयेत्सदा ॥ ३८.३०१{१००} ॥
तद्रजो यत्र निक्षिप्तं तत्र संपत्प्रवर्द्धितः ।
सर्वद्रव्याभिसंपूर्णा भवेन्न क्षिणुयात्क्वचित् ॥ ३८.३०२{१} ॥
निर्माल्यमपरं सर्वं सनैवेद्यध्वजादिकम् ।
नद्यां नागान् समभ्यर्य संप्रक्षिप्य प्रवाहयेत् ॥ ३८.३०३{२} ॥
ततस्तद्धारणीविद्या भवेत्पठितसिद्धिता ।
यत्रापि पठ्यते तत्र संपत्प्रवर्द्धिता भवेत् ॥ ३८.३०४{३} ॥
एवं सत्यं समाख्यातं सर्वैरपि मुनीश्वरम् ।
श्रीदेव्याः साधनं कल्यं मत्वैवं चर तद्व्रतम् ॥ ३८.३०५{४} ॥
य एवं श्रीमहादेव्याः श्रद्धया शरणं गतः ।
यथाविधि समाधाय चरते व्रतमादरात् ॥ ३८.३०६{५} ॥
तस्य मारगणाः सर्वे सत्वोपद्रवकारकाः ।
विहेठनां सदा क्वापि कर्त्तु मैवाभिशक्नुयुः ॥ ३८.३०७{६} ॥
सर्वशक्रादयो देवाः सर्वदैत्याधिपा अपि ।
ग्रहास्ताराश्च सिद्धाश्च साध्या विद्याधरा अपि ॥ ३८.३०८{७} ॥
लोकपालाश्च सर्वेऽपि गंधर्वाः किंनरा अपि ।
यक्षाश्च राक्षसाः सर्वे नागाश्च गरुडा अपि ॥ ३८.३०९{८} ॥
मातृका भैरवाः सर्वे सकुमारविनायकाः ।
महाकालाश्च डाकिन्यः शाकिन्योऽपि तथापराः ॥ ३८.३१०{९} ॥
योगिन्योऽपि तथा सर्वे वीरा यमान्तकादयः ।
रक्षन्ति सर्वदा नित्यं श्रीदेव्याः शरणाश्रितम् ॥ ३८.३११{१०} ॥
धारणीपाठकं योऽपि साधकं व्रतचारिणम् ।
तथा भूतगणाः सर्वे पिशाचाश्च दुराशयाः ॥ ३८.३१२{११} ॥
सर्वे ज्वरादयो रोगा अपस्मारादयोऽपि च ॥ ३८.३१३{१२} ॥
उन्मादा पिटकाश्चापि सर्वे कुष्ठाश्च कछवः ।
श्रीदेवीव्रतिनो देहे न स्पृशंति कदाचन ॥ ३८.३१४{१३} ॥
ईतयश्च तथा सर्वा महोपद्रवकारकाः ।
तस्य देशे गृहे देहे न विशन्ति कदा चन ॥ ३८.३१५{१४} ॥
वसुंधर्या व्रते यत्र धारणी च प्रवर्त्तते ।
तत्र मारगणा दुष्टा उपसर्गा विशन्ति न ॥ ३८.३१६{१५} ॥
नृपाग्न्युदका चौरादि दुष्टाः शठाश्च वंचकाः ।
श्रीदेवीव्रतिनः किंचिदपकर्तुं न शक्नुयुः ॥ ३८.३१७{१६} ॥
यश्च श्रीवसुधाराया भक्तिमाञ्छरणं गतः ।
सर्वदा स्मरणं कृत्वा भजते संचरद्व्रतम् ॥ ३८.३१८{१७} ॥
यश्च तस्या महादेव्या धारणीं मुदितः स्मरन् ।
पठते सर्वदाप्येवं परेभ्योऽपि समादिशेत् ॥ ३८.३१९{१८} ॥
यश्चैतद्धारणीं सम्यग्ऽलिखेल्लिखाययेदपि ।
लिखितां समादाय संस्थाप्य भजते गृहे ॥ ३८.३२०{१९} ॥
यश्चापि हृदयं देव्या लिखित्वा भूर्जपत्रके ।
(र्म् ४४९)
मूर्द्ध्नि कण्ठे भुजे वाहौ दधाति नित्यमादरात् ॥ ३८.३२१{२०} ॥
तेषामपि च सर्वेषां मारविघ्नोपसर्गिकाः ।
सर्वेऽपि सर्वदा क्वापि ह्यपकर्त्तुं न शक्नुयुः ॥ ३८.३२२{२१} ॥
सर्वेऽपि बोधिसत्वास्ते त्रैधातुकनिवासिनः ।
एतद्विद्यानुभावेन दानपारमिताश्रिताः ॥ ३८.३२३{२२} ॥
सर्वोपकरणैः सर्वान् सत्वान् संतर्प्पयन्त्यपि ।
तथा दानं सदा कृत्वा बोधिमार्गे चरन्ति ये ॥ ३८.३२४{२३} ॥
ते सर्वे क्रमेणैवं पूर्य पारमिता दशः ।
सर्वान्मारगाणां जित्वा प्राप्नुयु बोधिसंपदम् ॥ ३८.३२५{२४} ॥
सर्वभूपाश्च राजानश्चक्रवर्त्त्यादयो नृपाः ।
पालयन्ति प्रजा लोकान् धर्मैर्लक्ष्मीव्रतोद्भवैः ॥ ३८.३२६{२५} ॥
एवमन्येऽपि लोकाश्च ये ये संपत्समृद्धिताः ।
महाधना महाभोगाः सर्वद्रव्यसमन्विताः ॥ ३८.३२७{२६} ॥
दत्वा दानं सुखं भुक्त्वा यावज्जीवं शुभे सदा ।
प्रचरन्त्यपि सर्वे ते ज्ञेया लक्ष्मीप्रसादतः ॥ ३८.३२८{२७} ॥
ये श्रीदेव्या व्रतं धृत्वा सर्वार्थिभ्यो यथेप्सितम् ।
ददाति ते महासत्वाः श्रीमन्तः सद्गुणान्विताः ॥ ३८.३२९{२८} ॥
यशःसंपत्समापन्नाः सर्वविद्याकलास्पदाः ।
धर्मात्मानो महेशाख्यः सुधियः सत्यवादिनः ॥ ३८.३३०{२९} ॥
सुशीलाः सुभगा भद्राः क्षान्तिसौरभ्यवासिनः ।
सौम्येन्द्रिया विशुद्धांगाः करुणार्द्रशुभाशयाः ॥ ३८.३३१{३०} ॥
बलवीर्यमहोत्साहा निःक्लेशाः सुसमाहिताः ।
जितेन्द्रिया महाधीराः प्रज्ञावन्तो विचक्षणाः ॥ ३८.३३२{३१} ॥
उपायविधिविज्ञाश्च सर्वसत्वहितार्थिनः ।
सुप्रणिधिसमाधाना बलिनो ब्रह्मचारिणः ॥ ३८.३३३{३२} ॥
ज्ञानविज्ञानविद्वान्सः सर्वसत्वशुभंकराः ।
बोधिसत्वा जगन्नाथा बुद्धात्मजा भवंत्यपि ॥ ३८.३३४{३३} ॥
यतिभिर्ना अतीतास्ते वर्त्तमाना अनागताः ।
तेऽपि सर्वे महादेव्या व्रतपुण्यानुभावतः ॥ ३८.३३५{३४} ॥
क्रमात्पारमिताः सर्वाः परिपूर्य समाहिताः ।
बोधिलब्धा भवंत्येवं लप्स्यंति नान्यथा खलु ॥ ३८.३३६{३५} ॥
एवं मत्वा महाविद्यं श्रीदेवीं धारणीं पराम् ।
समाधाय पठन्नित्यं व्रतं चर समादरात् ॥ ३८.३३७{३६} ॥
एषा महैश्वरी देवी बोधिलक्ष्मीर्जिनेश्वश्री ।
जननी सर्वबुद्धानां धात्री मातानुपालिनी ॥ ३८.३३८{३७} ॥
अधृष्या सर्वदुष्टानां सर्वविघ्नविनाशिनी ।
महाविद्येश्वरी भद्रा सर्वारिष्ठनिसूदनी ॥ ३८.३३९{३८} ॥
यस्याः शरणमात्रेण व्रतं चरंति मानवाः ।
दारिद्र्यदुःखशोकाग्नौ न पतंति कदापि ते ॥ ३८.३४०{३९} ॥
अचिन्तितानि रत्नादि धनद्रव्यगुणानि च ।
यशोधर्मार्थकामादि सुखानि समवाप्नुयुः ॥ ३८.३४१{४०} ॥
एतत्पुण्यमसंख्येयमप्रमेयं महत्तरम् ।
सर्वैरपि मुनीन्द्रैर्हि संख्यातुं नापि शक्यते ॥ ३८.३४२{४१} ॥
सर्वे व्रतजपुण्यानानि संख्यातुमभिशक्यते ।
तदेतद्व्रतपुण्यानां संख्यातुं केन शक्यते ॥ ३८.३४३{४२} ॥
(र्म् ४५०)
यदेतद्व्रतसादृश्यं कुत्रापि नो हि विद्यते ।
तदधिकं कुतो लोके सर्वत्रापि न दृश्यते ॥ ३८.३४४{४३} ॥
ईदृक्पुण्यमहारत्नं त्रैलोक्येष्वपि दुर्ल्लभम् ।
त्रिरत्नभजनादेव लभ्यते भुवि मानवम् ॥ ३८.३४५{४४} ॥
तदेवं त्वं परिज्ञाय त्रिरत्नशरणं गतः ।
श्रीदेवीं विधिनावाह्य व्रतं चर समाहितः ॥ ३८.३४६{४५} ॥
एतत्पुण्यानुभावेन सर्वदा सद्गतीं गतः ।
श्रीसंपत्तिसमापन्नः प्रदाता सुखभृद्भवेत् ॥ ३८.३४७{४६} ॥
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ ३८.३४८{४७!} ॥
इति हेतोर्महादेव्याः स्वयं त्वं शरणं गतः ।
व्रतं चरंस्तथा लोके प्रचारय समंततः ॥ ३८.३४९{४८} ॥
इति तया महादेव्याः समादिष्टं निशम्य सः ।
सेनः कृतांजलिर्नत्वा तां देवीमेवमब्रवीत् ॥ ३८.३५०{४९} ॥
एवं देवि करिष्यामि भवत्याज्ञां शिरो वहन् ।
तत्प्रसीद महादेव्या धारणीं संप्रदेहि मे ॥ ३८.३५१{५०} ॥
इति संप्रार्थितं तेन श्रुत्वा सा संप्रसादिता ।
देवी तं सेनमालोक्य समामंत्र्यैवमादिशत् ॥ ३८.३५२{५१} ॥
साधु सेन गृहाण त्वं देव्याया धारणीं वराम् ।
स्वयं पठं परेभ्योऽपि देशयस्व यथाविधि ॥ ३८.३५३{५२} ॥
इत्यादिश्याप्सरोरूपा सा श्रीदेवी वसुंधरा ।
तस्मै सेनासु तां देव्या धारणीं संपठन् ददौ ॥ ३८.३५४{५३} ॥
स सेनस्तां महादेवीं प्रणत्वा सांजलिर्मुदा ।
श्रीदेव्या धारणीं विद्यां प्रणत्वा श्रद्धयाददे ॥ ३८.३५५{५४} ॥
ततः सा चाप्सरो देवी तस्मै सेनाय सादरम् ।
स पंचामृतगोधूमै पिष्टकं पालने ददौ ॥ ३८.३५६{५५} ॥
तद्दत्तं पिष्टतं तं स सेनो दृष्ट्वा प्रमोदितः ।
प्रणत्वादाय तं भूपं स्मृत्वा न बुभुजे स्वयम् ॥ ३८.३५७{५६} ॥
तदा दिव्यप्सरोरूपं त्यक्त्वा साक्षात्त्रिमूर्त्तिधृक् ।
चंद्रमण्डलमध्यस्थभद्रघटोपरिस्थिता ॥ ३८.३५८{५७} ॥
दर्शयामास रूपं स्वं प्रभामण्डलवर्त्तितम् ।
अन्या देव्योऽपि रूपं स्वं धृत्वा देवीं वसुंधराम् ॥ ३८.३५९{५८} ॥
परिवृत्य पुरो धाय पताकाध्वजचामरैः ।
वीजयंत्यः सर्वदिक्षु तस्थु संप्रोक्तरूपवत् ॥ ३८.३६०{५९} ॥
ततः स सेन उत्थाय तां देवीं सगणां मुदा ।
मुहुर्मुहुर्वद्धगल अष्टाङ्गैः प्रणतिं व्यधात् ॥ ३८.३६१{६०} ॥
ततः स सेन आधाय सपंचामृतपिष्टकम् ।
तं जलं च समाधाय सहसा नृपांतिके ययौ ॥ ३८.३६२{६१} ॥
तत्र स सेन आलोक्य नृपं दुरादुपागतम् ।
तदमृतादिकं सर्वमुपस्थाप्याप्यधौकयत् ॥ ३८.३६३{६२} ॥
ततः स सेन आलोक्य तं नृपं सांजलिर्मुदा ।
प्रणत्वा सुप्रसन्नास्यः पुरतः समुपाश्रयत् ॥ ३८.३६४{६३} ॥
तममृतादिकं सर्वं दृष्ट्वा स विस्मितो नृपः ।
किं विलंवं कृतश्चैतदित्येवं तमपृछत ॥ ३८.३६५{६७!} ॥
(र्म् ४५१)
इति पृष्टे नरेन्द्रेण स सेनः समुपाश्रितः ।
तं नरेन्द्रं समालोक्य विनयन्नेवमब्रवीत् ॥ ३८.३६६{६८} ॥
क्षमस्व भो महाराज यदर्थे मे विलंवितम् ।
तत्सर्वं समुपाख्याय भवन्तं बोधयान्यपि ॥ ३८.३६७{६९} ॥
इदं तावन्महाराज सुरनद्यमृतं पिवा ।
इदं पंचामृतं चापि भुक्ष्वेदं च सुपिष्टकम् ॥ ३८.३६८{७०} ॥
इत्युक्त्वा स समादाय कमण्डलुं समर्प्पयत् ।
भोग्यं पंचामृतं चापि पिष्टकं चाग्रतः प्रभोः ॥ ३८.३६९{७१} ॥
तदमृतादिकं सर्वं दृष्ट्वा स मुदितो नृपः ।
कमण्डलुं समादाय पपौ तत्सुरसामृतम् ॥ ३८.३७०{७२} ॥
ततः स नृपतिस्तुष्टो निस्तृष्णाह्लादिताशयः ।
तं च पंचामृतं भोग्यं बुभुजे पिष्टकान्यपि ॥ ३८.३७१{७३} ॥
ततः स नृपतिस्तुष्टो महानंदप्रमोदितः ।
तं सेनं सुमतिं धीरं समालोक्यैवमब्रवीत् ॥ ३८.३७२{७३!} ॥
त्वमपीदं सुधाकल्पममृतं पिव सन्मते ।
भुक्ष्व पचामृतं भोग्यं पिष्टकं चेदमुत्तमम् ॥ ३८.३७३{७४} ॥
इति राज्ञा समादिष्टे स सेनः प्रतिमंडितः ।
तदमृतादिकं सर्वमादाय बुभुजे स्वयम् ॥ ३८.३७४{७५} ॥
ततस्तच्छेषमादाय स सेनः परितोषितः ।
अश्वाय समुपस्थाप्य सर्वं ददौ विनोदयन् ॥ ३८.३७५{७६} ॥
सोऽपि चाश्वः समालोक्य तत्सर्वममृतादिकम् ।
आश्वाद्य परिभुंजानो महानंदं समाययौ ॥ ३८.३७६{७७} ॥
ततः स नृपति राजा परिशुद्धाशयो मुदा ।
तं सेनं तमुपामंत्र्य पुनरेवमपृछत ॥ ३८.३७७{७८} ॥
अहो सेन त्वमानीतं यदेतदमृतादिकम् ।
कुतः कथं समासाद्य तत्सत्यं वक्तुमर्हसि ॥ ३८.३७८{७९} ॥
इत्येवं प्रार्थिते राज्ञा स सेनः सांजलिर्मुदा ।
स्वामिनं तं नृपं नत्वा समालोक्यैवमब्रवीत् ॥ ३८.३७९{८०} ॥
शृणु राजन् समाधाय यदेतदमृतादिकम् ।
मयासाद्य समानीतं तत्संनिवेदयानि ते ॥ ३८.३८०{८१} ॥
यदत्र त्वं तृषार्त्तोऽसि तदर्थेऽहं ससंभ्रमः ।
जलमन्वेषितुं तत्र वने पश्यन् भ्रमाम्यहम् ॥ ३८.३८१{८२} ॥
कुत्रापि दृश्यते नात्र पानीयं निर्जने वने ।
ततो दूरतरं गत्वा जलमन्वेषितुं भ्रमे ॥ ३८.३८२{८३} ॥
तत्रापि दृश्यते नैव जलं क्वापि समंततः ।
ततोऽतिदूरतो नद्याः शब्दं शृण्वन्ननुव्रजे ॥ ३८.३८३{८४} ॥
तच्छब्दानुसरन् गत्वा पश्यामि सुरनिम्नगाम् ।
तत्र देवीगणाश्चापि पश्यामि व्रतचारिकाः ॥ ३८.३८४{८५} ॥
तत्र तासां समालोक्य समाक्रंदंति सादरम् ।
ततोऽहं तत्प्रभावेन तां नदीं लंघयन् व्रजे ॥ ३८.३८५{८६} ॥
तत्र मां समुपाहूय सर्वा ता अप्सरोगणाः ।
कुतः कथमिहायासि त्वं वदेति बभाषिरे ॥ ३८.३८६{८७} ॥
ततोऽहं समुपासृत्य ताः सर्वा अप्सरोगणाः ।
सांजलिः सादरं नत्वा पुर एवं निवेदय ॥ ३८.३८७{८८} ॥
(र्म् ४५२)
सूर्योदयो महाराजो महीपालो नराधिपः ।
तस्योद्याने वराहौ द्वौ प्रकुर्वात उपद्रवम् ॥ ३८.३८८{८९} ॥
तन्निशम्य स भूपालः समंत्रिसैन्यपौरिकः ।
सह भोग्यं समारुह्य वराहौ हंतुमुद्ययौ ॥ ३८.३८९{९०} ॥
तत्रोद्याने चतुर्दिक्षु परिवृत्य समंततः ।
हाहाकारं प्रकुर्वन्तस्तिष्ठन्ति ते नृपादयः ॥ ३८.३९०{९१} ॥
ततस्तौ द्वौ महाघोरौ वराहौ सह सागतः ।
उद्यानान्निर्गतौ वेगान्नृपान्तिकात्परागतौ ॥ ३८.३९१{९२} ॥
तत्र स नृपतिः कोपात्तौ वराहावनुद्रुतः ।
अश्वमारुह्य वेगेन प्रविष्टो भ्रमते वने ॥ ३८.३९२{९३} ॥
तत्र स नृपतिरश्वाद्वेगात्प्रधावतोऽपतत् ।
श्रमतापपिपासार्त्तो तरुतले निषीदति ॥ ३८.३९३{९४} ॥
तस्य राज्ञस्तृषार्त्तस्य जलमन्वेषितुं भ्रमन् ।
कुत्रापि निर्जनेऽरण्ये जलं पश्याम्यहं न हि ॥ ३८.३९४{९५} ॥
ततो दूरतरं गत्वा जलमन्विष्य सर्वतः ।
भ्रमन् दूरान्नदीशब्दं श्रुत्वाहं समुपासरे ॥ ३८.३९५{९६} ॥
एतदर्थमहं देव्यो दूरतः सहसागतः ।
तद्भवन्त्यः प्रसीदंतु दृश्यंते भाग्यतो मया ॥ ३८.३९६{९७} ॥
भवन्त्योऽपि किमर्थेऽत्र विहरन्ति समाश्रिताः ।
इति पृष्टे मया ताश्च देव्यः सर्वाः प्रसादिताः ॥ ३८.३९७{९३} ॥
आदरान्मां समामंत्र्य पुर एवं बभाषिरे ।
मानव त्वं न जानीषे यदिहेव ममाश्रिता ।
तदर्थं समुपाख्यायस्तत्संशृणु समाहितः ॥ ३८.३९८{९९} ॥
या श्रीभगवती देवी माहेश्वरी वसुंधरा ।
तस्या व्रतं वयं सर्वा चरितुमिह संस्थिताः ॥ ३८.३९९{१००} ॥
तदत्र नो व्रतं पश्यं क्षणं तिष्ठ समाहितः ।
एतद्दृष्टेऽपि ते पुण्यं संप्रजायेन्महत्तरम् ॥ ३८.४००{१} ॥
इति ताभिः समादिष्टं श्रुत्वाहं संप्रमोदितः ।
तथेति प्रतिविज्ञप्य तद्व्रतं द्रष्टुमाश्रमे ॥ ३८.४०१{२} ॥
ततस्ता अप्सरोदेव्यः सर्वास्तत्र यथाक्रमम् ।
स्वस्वासने समाश्रित्य प्रारभन्ति यथाक्रमात् ॥ ३८.४०२{३} ॥
तत्र ता मंडले देवीं सगणां श्रीवसुंधराण् ।
यथाविधिं समावाह्य पूजयंति समादरात् ॥ ३८.४०३{४} ॥
जपस्तोत्रादिकं कृत्वा सर्वाः सांजलयश्च ताः ।
नत्वा प्रदक्षिणीकृत्य प्रार्थयंति सुसंपदम् ॥ ३८.४०४{५} ॥
ततस्ता अप्सरोदेव्यः सर्वाः समाप्तिते व्रते ।
स पंचामृतैः पूपैः कुर्वंति व्रतपालनाम् ॥ ३८.४०५{६} ॥
मह्यमपि तथा दत्तं ताभिः सर्वाभिरादरात् ।
इदं पंचांृतं भोज्यं गोधूमपिष्टकं वरम् ॥ ३८.४०६{७} ॥
स्मृत्वा भवंतमादाय ताभिर्दत्तं समादरात् ।
तथा पात्रे प्रतिष्ठाप्य गोपयामि तवार्थतः ॥ ३८.४०७{८} ॥
ततोऽहं सांजलिर्नत्वा ता देवीः सकला अपि ।
तथा चरितुमालोच्य प्रार्थयामि विधिं व्रते ॥ ३८.४०८{९} ॥
मया संप्रार्थितं श्रुत्वा या तद्देवी गणाधिपा ।
(र्म् ४५३)
सा तद्व्रतविधिं सम्यक्समादिशति मे क्रमात् ॥ ३८.४०९{१०} ॥
तत्सर्वं समुपादिष्टं श्रुत्वाहं संप्रमोदितः ।
तथा तद्व्रतमाराध्य प्रेछामि चरितुं सदा ॥ ३८.४१०{११} ॥
प्रत्यक्षदर्शनं लब्ध्वा अष्टांगैः प्रणतोऽस्म्यहम् ॥ ३८.४११{१२} ॥
ततस्ताः सकला देवीः प्रार्थयित्वा समादारात् ।
इदं दिव्यामृतं भोज्यं प्रादाय सहसा चरे ॥ ३८.४१२{१३} ॥
इति हेतो महाराज विलम्वो जायते तथा ।
तत्क्षमस्व प्रभो मात्र रौक्ष्यं कृथाः प्रसीद मे ॥ ३८.४१३{१४} ॥
इति तेनोदितं श्रुत्वा स राजा विस्मयान्वितः ।
तद्दर्शनोत्सुको दृष्ट्वा तं सेनमेतदब्रवीत् ॥ ३८.४१४{१५} ॥
अहो आश्चर्य्यमत्र यद्वसुधारा व्रतं श्रुतम् ।
प्रत्यक्षदर्शनमपि लब्धं सेनेह निर्जने ॥ ३८.४१५{१६} ॥
मया न श्रूयते क्वापि दृश्यते न कदा चन ।
तद्द्रष्टुं सेन मे चित्तं समभिलषति ध्रुवम् ॥ ३८.४१६{१७} ॥
तस्मात्त्वं तत्र मां नीत्वा ता देवी दर्शय द्रुतम् ।
इति राज्ञोदितं श्रुत्वा स सेनः सचिवः सुधीः ।
तथेति प्रतिविज्ञप्य तत्र राज्ञा सह चरन् ॥ ३८.४१७{१८} ॥
सहसा तौ प्रगछंतौ तद्देवीदर्शनोत्सुकौ ।
दैवयोगात्क्षणात्प्राप्तौ तत्र स्थाने समैक्षताम् ॥ ३८.४१८{१९} ॥
तदा तत्र न ता देव्यः स्थिताः सर्वा दिवं गताः ।
व्रतनिर्माल्यपुष्पादि तत्राद्राष्टां न ताः क्वचित् ॥ ३८.४१९{२०} ॥
तत्र स नृपतिस्तासां देवीनां दर्शनं क्वचित् ।
अलभ्यमाने उद्विग्नपरिखिन्नाशयोऽभवत् ॥ ३८.४२०{२१} ॥
तत्र स नृपतिर्नत्वा व्रतस्थाने कृतांजलिः ।
सर्वत्रापि समालोक्य खं पश्यन्नेवमब्रवीत् ॥ ३८.४२१{२२} ॥
हा मया लभ्यते नात्र देवीनां दर्शनं क्वचित् ।
किं मया प्रकृतं पापं मंदभाग्योऽस्म्यहं यतः ॥ ३८.४२२{२३} ॥
व्रतं चरितुमिछामि तत्कथं ज्ञास्यते विधिम् ।
अहो मे दैवयोगेन श्रुतमेव न दर्शनम् ॥ ३८.४२३{२४} ॥
तदत्र किं करिष्यामि कोऽत्र मे विधिमादिशेत् ।
यदिछामि न तत्सिद्धं वृथैवेत्ये परिश्रमम् ॥ ३८.४२४{२५} ॥
इति प्रोक्त्वा विषण्णात्मा नृपतिः स विमोहितः ।
निराशया विभिन्नास्यो निर्जले मीनजातिवत् ॥ ३८.४२५{२६} ॥
हा हेति निन्दितात्मानं हा मे भाग्यमपीह धिक् ॥ ३८.४२६{२७!} ॥
इत्येवं विलपन्नश्रुपूर्णास्यो गद्गदः स्वरः ।
हृदि ललाटे वाहुभ्यां ताडयन्मूर्छितो मुहुः ॥ ३८.४२७{२८} ॥
स्मृतिमांश्च स्वयमपि तस्थौ तत्र विनिःस्वसन् ॥ ३८.४२८{२८!} ॥
इत्येवं तं स्थितं दृष्ट्वा सा श्रीदेवी वसुंधरा ।
आकाशान्महदाघोषं तत्रैवं निरचारयत् ॥ ३८.४२९{२९} ॥
राजन्मात्र विषीद त्वं सेत्स्यते तेऽभिलाषितम् ।
सर्वं सेनो विजानाति तत्सेनं पृछ तद्विधिम् ॥ ३८.४३०{३०} ॥
इत्याकाशात्समुच्चारं घोषं श्रुत्वा स भूपतिः ।
सांजलिः प्रणतोऽष्टौषीदूर्द्ध्वास्यः श्रीवसुंधराम् ॥ ३८.४३१{३१} ॥
(र्म् ४५४)
या सुस्मृता सुरुचिरं सुष्ठुतरं प्रवृद्धं दारिद्र्यदुःखदुरितं शमते नराणाम् ।
तां कल्पवृक्षसदृशीं वसुधारसंज्ञां भक्त्या नमामि शिरसा जगतो हिताय ॥ ३८.४३२{३१!} ॥
प्रणमामि सदा वसुधां जननीं करुणार्द्रहृदं परिवीक्ष्य जनम् ।
बहुधेति भयान्वितदुःखतरं प्रणमामि सदा वसुधां जननीम् ॥ ३८.४३३{२!} ॥
पापाचारस्य दुर्बुद्धेर्दुर्भगस्य सदा मम ।
क्षंतव्यो भूयशश्चागः श्रीवसुधे नमोऽस्तु ते ॥ ३८.४३४{३!} ॥
नमस्ते भो महादेवि प्रसीद मे कृपां कुरु ।
भवंत्यत्र यथादिष्टं करिष्यामि तथा खलु ॥ ३८.४३५{३२} ॥
इत्युक्त्वा स नृपो भूयस्तत्र नत्वा कृतांजलिः ।
तं सेनं पुरतः कृत्वा ततोऽचरत्प्रमोदितः ॥ ३८.४३६{३३} ॥
ततः स नृपतिर्गछन् सहसा मुदिताशयः ।
तत्राशोकतलासीनमश्वं पश्यन्नुपाचरन् ॥ ३८.४३७{३४} ॥
तत्र प्रातः स भूयस्तमश्वं दृष्ट्वा प्रमोदितः ।
राजा तं सेनमानत्वा दृष्ट्वा एवमभाषत ॥ ३८.४३८{३५} ॥
सेन तमश्वमारुह्य गछ त्वं पुरमाश्रमे ।
मम तवानुगछामि सहसा गछतु ध्रुवम् ॥ ३८.४३९{३६} ॥
इति राज्ञोदितं श्रुत्वा स सेनः सांजलिर्नमन् ।
नृपतिं तं महीपालं समालोक्यैवमब्रवीत् ॥ ३८.४४०{३७} ॥
नैवमत्र महाराज यन्मे स्वामि भवान् प्रभुः ।
तद्भवद्वाहनं हीनं कथमारोहयेय वै ॥ ३८.४४१{३८} ॥
इति तेनोदितं श्रुत्वा सूर्योदय आत्मवित् ।
राजा तं सेनमानत्वा पुनरेवमभाषत ॥ ३८.४४२{३९} ॥
मा त्वयैवं प्रवक्तव्यं यदद्यारभ्य भवान् गुरुः ।
यथाकाशसमादिष्टं तत्तथा कर्त्तुमर्हसि ॥ ३८.४४३{४०} ॥
इति मे वचनं श्रुत्वा ममानुकंपयाऽधुना ।
शास्तरग्रेऽश्वमारुह्य प्रव्रजतामयान्वितः ॥ ३८.४४४{४१} ॥
इति राज्ञोदितं श्रुत्वा तथेति स प्रबोधितः ।
स्वयमग्रेऽश्वमारुह्य पृष्ठे प्रारोहयेन्नृपम् ॥ ३८.४४५{४२} ॥
ततः सऽश्वस्तदारूढो वायुरिव समुच्चरन् ।
महावेगात्पुरोपांतं तत्क्षणात्समुपाययौ ॥ ३८.४४६{४३} ॥
तत्र तं नृपमायातं समंत्रिजनपौरिकाः ।
सर्वे ते समुपालोक्य प्रत्युज्जग्मुः प्रमोदिताः ॥ ३८.४४७{४४} ॥
तत्राश्वपृष्ठमारूढं नृपं सेनं पुरः स्थितम् ।
दृष्ट्वा ते मंत्रिणः सर्वे पौराश्च विस्मयं ययुः ॥ ३८.४४८{४५} ॥
ततस्ते मंत्रिणोऽमात्या पौराः सर्वे प्रमोदिताः ।
प्रणत्वा तं नृपं राजकुलेऽनयन्महोत्सवम् ॥ ३८.४४९{४६} ॥
तत्राश्वपृष्ठतो राजा सोऽवरुह्य स्वयं ततः ।
सेनं पुरः स्थितं पश्चादवारोहयदादरात् ॥ ३८.४५०{४७} ॥
ततो राजकुले गत्वा नृपः पृष्ठतश्चरन् ।
पादप्रक्षालनस्थाने तं सेनमेवमब्रवीत् ॥ ३८.४५१{४८} ॥
हे सेने सुमतेरत्र पादप्रक्षालयाग्रतः ।
(र्म् ४५५)
त्वत्तः पश्चादहं पादौ प्रक्षालयामि सांप्रतम् ॥ ३८.४५२{४९} ॥
इति राज्ञोदितं श्रुत्वा स सेनः सांजलिर्नमन् ।
नृपतिं तं महीपालं समालोक्यैवमब्रवीत् ॥ ३८.४५३{५०} ॥
विभ्रमोऽसि कथं राजन् भवान् स्वामि नराधिपः ।
तत्प्रथमं त्वमेवात्र पादौ प्रक्षालय प्रभो ॥ ३८.४५४{५१} ॥
इति तेनोदितं श्रुत्वा नृपतिः स कृतांजलिः ।
नमंस्तं सेनमालोक्य तत्रैवं संन्यवेदयत् ॥ ३८.४५५{५२} ॥
भो सेन यद्भवां छास्ता मम सन्मार्गदेशकः ।
तदत्र प्रथमं पादौ प्रक्षालयितुमर्हति ॥ ३८.४५६{५३} ॥
इति संप्रार्थिते राज्ञा स सेनः परिबोधितः ।
राज्ञ आज्ञा ह्यलंघ्येति पादौ प्रक्षालयेत्पुरः ॥ ३८.४५७{५४} ॥
ततः स नृपतिः पादौ प्रक्षाल्यानुसरन्मुदा ।
तं सेनं पुरतः कृत्वा प्रासादे समुपाचरत् ॥ ३८.४५८{५५} ॥
तत्रासने पुरोधाय तं सेनं गुरुमादरात् ।
नृपतिः स सभामध्ये तस्थौ लोकान् विलोकयन् ॥ ३८.४५९{५६} ॥
ततः स नृपतिर्दृष्ट्वा सर्वाल्लोकान् सभाश्रितान् ।
सर्ववृत्तान्तमाख्याय व्यनोदयद्व्रतोत्सवे ॥ ३८.४६०{५७} ॥
तन्नृपादेशितं श्रुत्वा सर्वे लोकाः प्रमोदिताः ।
श्रीदेव्यास्तद्व्रतं धर्त्तुं समैछन्त धनार्थिनः ॥ ३८.४६१{५८} ॥
ततस्सर्वेऽपि ते लोका नत्वा तं सेनमादरात् ।
नृपतिं च समालोक्य स्वस्वालयं ययुर्मुदा ॥ ३८.४६२{५९} ॥
ततः स नृपतिस्तेन सेनेन गुरुणा सह ।
सानंदं प्रेरयामास दिनानि कतिचिन्मुदा ॥ ३८.४६३{६०} ॥
ततः स भूपती राजा तद्व्रतसमयागते ।
सामात्यान्मंत्रिणान् सर्वान् समामंत्र्यैवमादिशत् ॥ ३८.४६४{१६} ॥
भो मंत्रिणो जनाः सर्वे व्रतसमयमागतम् ।
तस्मात्सर्वे मया सार्द्धं व्रतं चरितुमर्हथ ॥ ३८.४६५{६२} ॥
तदेनं सेनमेवात्र प्रव्रज्यासद्गुरुं कुरु ।
इति मंत्रिभिराख्यातं श्रुत्वा नृपस्तथेति सः ।
तं सेनं शासने बौद्धे प्राव्राजयद्यथाविधि ॥ ३८.४६६{६३} ॥
साथ प्रव्रजितो नाम्ना श्रीसेनगुप्त इत्यभूत् ।
खिक्खिरीपात्रभृन्मुण्डः काषायचीवरावृतः ॥ ३८.४६७{६४} ॥
ततस्तद्व्रतमुत्सृज्य वज्रधरपदाप्तये ।
वज्राभिषेकमासाद्य वज्राचार्योऽभवत्स च ॥ ३८.४६८{६५} ॥
ततः स नृपती राजा तद्व्रतं कर्त्तुमादरात् ।
शास्तारं तं समाराध्य संप्रार्थयेद्यथाविधिम् ॥ ३८.४६९{६६} ॥
ततः श्रीसेनगुप्तः स वज्राचार्यो यथाविधिः ।
श्रीदेवीं तां समाराध्य पूर्वसेवां समादधत् ॥ ३८.४७०{६७} ॥
ततो भाद्रपदे मासे द्वितीयायां सिते तरे ।
प्रातस्तीर्थे शुभे स्नात्वा शुद्धवस्त्रावृतः सुधीः ॥ ३८.४७१{६८} ॥
(र्म् ४५६)
प्रासादोपरि मृद्गव्यपरिलिप्ते सुभूतले ।
विधिवन्मंडलं कृत्वा प्रतिष्ठाप्याधिवासयेत् ॥ ३८.४७२{६९} ॥
तद्रात्रौ च समाराध्य श्रीदेवीं विधिनार्चयेत् ।
दीपधूपादिभिश्चापि बलिं दत्वाभ्यतोषयत् ॥ ३८.४७३{७०} ॥
ततः प्रातः स आचार्य्यस्तीर्थे स्नात्वा सुवस्त्रभृत् ।
मध्याह्ने स्वासनासीन उत्तरादिङ्मुखस्थितः ॥ ३८.४७४{७१} ॥
ततः च गुरुराचार्यस्त्रिसमाधिसमाहितः ।
श्रीदेवीं सगणां सम्यगावाह्य विधिनार्चयेत् ॥ ३८.४७५{७२} ॥
ततः स्नानविशुद्धाङ्गान् परिशुद्धाम्वरावृतान् ।
व्रतिनः सनृपान् सर्वान् पंचगव्यैर्व्यशोधयत् ॥ ३८.४७६{७३} ॥
ततस्ते व्रतिनः सर्वे गुरुं नत्वा यथाक्रमम् ।
नृपतिप्रमुखा एवं व्रतं चरितुमाश्रयत् ॥ ३८.४७७{७४} ॥
ततस्ते व्रतिनः सर्वे श्रिदेवीसंमुखस्थिताः ।
यथाचार्य समादिष्टं तथाचरन् व्रतं मुदा ॥ ३८.४७८{७५} ॥
तत्र तां श्रीमहादेवीं सगणां विधिना क्रमात् ।
समावाह्य समभ्यर्च्य पूजाङ्गैः समतोषयन् ॥ ३८.४७९{७६} ॥
जपस्तोत्रादिकं कृत्वा कृत्वा च पापदेशनाम् ।
पुण्यानुमोदनां चापि कृत्वा च स्थितियाचनाम् ॥ ३८.४८०{७७} ॥
कृतांजलिपुटाः सर्वे ते च कृत्वा प्रदक्षिणाम् ।
अष्टाङ्गैः प्रणतिं कृत्वा संप्रार्थयन् सुसंपदम् ॥ ३८.४८१{७८} ॥
पिष्टकं पायसं चापि पंचामृत समन्वितम् ।
फलमूलादिकं चापि समुपाढोकयन्मुदा ॥ ३८.४८२{७९} ॥
ततो लोकाधिपेभ्योऽपि स भूतेभ्यो महावलिम् ।
यथाविधि प्रदत्वा संप्रार्थयच्छ्री समृद्धिताम् ॥ ३८.४८३{८०} ॥
ततः शास्ता स आचार्यः प्रार्थयित्वा क्षमां मुदा ।
सर्वेभ्यो व्रतिलोकेभ्यः प्रत्येकं सूत्रमार्प्पयेत् ॥ ३८.४८४{८१} ॥
तत्सूत्रं व्रतिनः सर्वे आदाय गुरुणार्प्पितम् ।
स्वस्वहस्तेऽभिवंधित्वा रक्षार्थमादराद्दधुः ॥ ३८.४८५{८२} ॥
या राज्ञो महिषी भार्या चूडदेवीति विश्रुता ।
सैका तत्सूत्रमादाय च वन्धनेवमादरात् ॥ ३८.४८६{८३} ॥
ततो व्रतसमाप्ते सा स्वालयं समुपाश्रिता ।
तद्व्रतसूत्रमालोक्य करवद्धं व्यचिंतयत् ॥ ३८.४८७{८४} ॥
किं ममानेन सूत्रेण सर्वरत्नादिभूषणैः ।
मण्डिता या करे वद्धमिति त्यक्तुं समैहत ॥ ३८.४८८{८५} ॥
ततः सा दुर्मती राज्ञी रक्षासूत्रमपि स्वयम् ।
करवद्धमपि छित्वा गवाक्षात्सहसाक्षिपत् ॥ ३८.४८९{८६} ॥
तस्मिन्नवसरे तत्र निम्वदेव्याः सखी वनात् ।
स्वामिन्यै भोजनं राज्ञै याचितुं समुपाचरत् ॥ ३८.४९०{८७} ॥
तत्र सा तद्व्रतोत्साहशब्दं श्रुत्वा स कौतुका ।
तच्छब्दनिहितस्वान्ता तस्थावेकान्त आश्रिता ॥ ३८.४९१{८८} ॥
चूडदेव्या यदुत्क्षिप्तं सूत्रं वातायनाद्बहिः ।
निश्चरन्मूर्द्धनि तस्याः सखाः संन्यपतद्द्रुतम् ॥ ३८.४९२{८९} ॥
सा तत्सूत्रं समादाय पश्यन्ती किमिदं न्विति ।
व्रतसूत्रमिति ज्ञात्वा प्रणत्वा मुदिताग्रहीत् ॥ ३८.४९३{९०} ॥
(र्म् ४५७)
ततः स प्रेषिका देव्या भोग्यमप्रार्थयंत्यपि ।
तत्सूत्रमेव धृत्वाशु निम्ववनं मुदाचरन् ॥ ३८.४९४{९१} ॥
तत्र सा सहसा गत्वा भर्तृकायाः पुरोगताः ।
तत्सूत्रं समुपस्थाप्य प्रणत्वैवं न्यवेदयत् ॥ ३८.४९५{९२} ॥
जयोऽस्तु ते महादेवि यदहं राजमंदिरे ।
ततः श्रीवसुधाराया व्रतं शृणोमि चारितम् ॥ ३८.४९६{९३} ॥
चूडदेव्या स्वयं छित्वा व्रतसूत्रमिदं बहिः ।
क्षिप्तं गवाक्षरंध्रान्मे मूर्द्ध्नि सजति निश्चरत् ॥ ३८.४९७{९४} ॥
दृष्ट्वा तदहमादाय व्रतसूत्रमिदं खलु ।
इति मत्वात्र ते भोग्यमयाचित्वा व्रजे द्रुतम् ॥ ३८.४९८{९५} ॥
तथावामपि हे देवि धृत्वेदं व्रतसूत्रकम् ।
श्रीवसुधां महादेवीं स्मृत्वा व्रतं चरावहे ॥ ३८.४९९{९६} ॥
सा श्रीदेवी वसुंधारा दृष्ट्वा नौ भक्तिसाधनम् ।
स्वयमत्र समाश्रित्य संदद्यादपि संपदम् ॥ ३८.५००{९७} ॥
यदि नौ दैवयोगेन संपत्तिर्नात्र विद्यते ।
पुण्यं तु खलु विद्येत ततः स्याज्जन्म साफलम् ॥ ३८.५०१{९८} ॥
इति मत्वात्र भो देवि स्नात्वा शुद्धाम्वरावृतौ ।
श्रीदेवीं मनसा ध्यात्वा स्मृत्वा व्रतं चरावहे ॥ ३८.५०२{९९} ॥
इति सख्या समाख्यातं निम्वदेवी निशम्य सा ।
तथेत्यभ्यनुमोदित्वा तथा चरितुमैछत ॥ ३८.५०३{१००} ॥
ततस्तथेह एवं ते स्नात्वा शुद्धाम्वरावृते ।
सन्मृद्गोमय संलिप्ते स्वगृहे समुपाश्रिते ॥ ३८.५०४{१} ॥
मनसा श्रीमहादेवीं वसुन्धरां समादरात् ।
ध्यात्वा स्मृत्वा समाधाय संचरते व्रतं मुदा ॥ ३८.५०५{२} ॥
तस्मिन्नवसरे तत्र सा श्रीदेवी वसुंधरा ।
वृद्धीरूपधरा राजकुलद्वारमुपाचरत् ॥ ३८.५०६{३} ॥
तत्र सा ज्यायसी वृद्धा प्रकीर्णशुक्लमूर्द्धजा ।
उपसृत्य सखीमेकां समामंत्र्यैवमब्रवीत् ॥ ३८.५०७{४} ॥
भद्रिके त्वमिहागछ चूडदेव्याः पुरो गता ।
तव मातामही द्वरे तिष्ठतीति निवेदय ॥ ३८.५०८{५} ॥
इति तया समादिष्टं श्रुत्वा चेटी तथेति सा ।
चूडदेव्याः पुरोगत्वा समामंत्र्यैवमब्रवीत् ॥ ३८.५०९{६} ॥
देवी मातामही वृद्धा ज्यायसी ते इहागता ।
भवंत्यो दर्शनं कर्तुमिछन्ती द्वारि तिष्ठति ॥ ३८.५१०{७} ॥
तद्भवंती समागछ तस्या दर्शनमादरात् ।
दत्वा संभाषणं कृत्वा विनोदयितुमर्हति ॥ ३८.५११{८} ॥
इति तया समाख्यातं चूडदेवी निशम्य सा ।
न मे मातामही का सा ध्यात्वेत्येवं च प्रावदत् ॥ ३८.५१२{९} ॥
मम मातामही नास्ति कासाविह समागता ।
इति प्रोक्त्वा त्वया द्वारात्सहसा प्रेष्यतां बलात् ॥ ३८.५१३{१०} ॥
इति देव्योदितं श्रुत्वा तथेति सा सखी गता ।
वृद्धांतिकमुपाश्रित्य दृष्ट्वा तामेवमब्रवीत् ॥ ३८.५१४{११} ॥
मातामही न मे का चिदिति देवी वदत्यपि ।
अतः सा ते मुखं द्रष्टुं नैवेह समुपाव्रजेत् ॥ ३८.५१५{१२} ॥
(र्म् ४५८)
अतस्त्वमिह मा तिष्ठ गछातः सहसा वहिः ।
न व्रजेर्यदि सा देवी प्रैषयेत्त्वां बलादपि ॥ ३८.५१६{१३} ॥
इति तयोदितं श्रुत्वा सा वृद्धा तत उत्थिता ।
न तिष्ठेयमिति प्रोक्त्वा ततः शनैर्ययौ वहिः ॥ ३८.५१७{१४} ॥
ततः सा श्रीमहादेवी वृद्धी रूपधरा तथा ।
निम्ववने स्थितां राज्ञीं समुद्धर्त्तुमुपाचरत् ॥ ३८.५१८{१५} ॥
तत्र सा ज्यायसी वृद्धा शनैर्द्वारमुपाश्रिता ।
दृष्ट्वा चेटीं समाहूय मृदुगिरैवमब्रवीत् ॥ ३८.५१९{१६} ॥
दारिके त्वमिहागछ किं चिन्मे वचनं शृणु ।
राज्ञा विचारणार्थेऽहं शनैरिह समाव्रजे ॥ ३८.५२०{१७} ॥
एतन्मे वचनं श्रुत्वा निम्वदेव्या पुरोगता ।
वृद्धेका ते मुखं द्रष्टुमागतेति निवेदय ॥ ३८.५२१{१८} ॥
इति तयोदितं श्रुत्वा सा चेटी सादरं मुदा ।
पश्यंति सांजलिर्नत्वा तां वृद्धामेवमब्रवीत् ॥ ३८.५२२{१९} ॥
मातामहि समागछ भवंत्या गदितं यथा ।
तथा देव्या निवेदित्वा सहसात्राव्रजाम्यहम् ॥ ३८.५२३{२०} ॥
इत्युक्त्वा सा सखी तस्या निम्वदेव्याः पुरो गता ।
मुदिता सुप्रसन्नास्या समालोक्यैवमब्रवीत् ॥ ३८.५२४{२१} ॥
देवि तव विचारार्थे वृद्धैकेह समागता ।
तद्भवंती समामंत्र्य संमानयितुमर्हति ॥ ३८.५२५{२२} ॥
इति सख्योदितं श्रुत्वा निम्वदेवी समुत्थिता ।
सहसा समुपागत्य तां वृद्धामेवमब्रवीत् ॥ ३८.५२६{२३} ॥
स्वागतं भद्रिके जेष्ठे मातामहि समाव्रज ।
शनै धैर्यं समालम्व्य समाधाय समासर ॥ ३८.५२७{२४} ॥
इत्युक्त्वा सा सुभद्रांशा निम्वदेवी समादरात् ।
तां वृद्धां समुपामंत्र्य स्वासने समुपाश्रयत् ॥ ३८.५२८{२५} ॥
तत्र सा ज्यायसी वृद्धा स्वासने समुपाशृता ।
तां राज्ञीं सुदृशालोक्य सुप्रसन्नैवमब्रवीत् ॥ ३८.५२९{२६} ॥
किं वेऽत्र चरसे वत्से तन्मे वक्तुं त्वमर्हसि ।
कस्मिन्नर्थेऽभिलाषं ते तवापि मे पुरो वद ॥ ३८.५३०{२७} ॥
इति तया समाख्यातं निम्वदेवी निशम्य सा ।
तां वृद्धां सुप्रसन्नास्या समालोक्यैवमब्रवीत् ॥ ३८.५३१{२८} ॥
किमत्राहं वदिष्यामि मन्दभाग्यास्मि दुःखिता ।
दरिद्रिता न मे संपद्विद्यतेऽत्र गृहे क्वचित् ॥ ३८.५३२{२९} ॥
व्रतोपहारसामग्रिमपि किं चिन्न विद्यते ।
तदिदं कदरीपत्रकृतमर्घादि भाजनम् ॥ ३८.५३३{३०} ॥
तन्मया श्रद्धया भक्तिमात्रेण श्रीवसुंधराम् ।
ध्यात्वा स्मृत्वा समाराध्य संचरितमिदं व्रतम् ॥ ३८.५३४{३१} ॥
व्रतसाधनसामग्रीसंपूर्णं विद्यते न मे ।
तद्विधिना व्रतैः कर्त्तुं शक्यते न मया तथा ॥ ३८.५३५{३२} ॥
तन्मनोभावनामात्रपूजाङ्गैः श्रिवसुंधराम् ।
महादेवीं समाराध्य व्रतमेवं चरावहे ॥ ३८.५३६{३३} ॥
एतत्तया समाख्यातं श्रुत्वा सा ज्यायसी मुदा ।
तं राज्ञीं ससखीं भद्रां समालोक्यैवमदिशत् ॥ ३८.५३७{३४} ॥
(र्म् ४५९)
सिद्ध्यतु ते व्रतं पूर्णं चरस्वेवं समाहिता ।
श्रद्धया भक्तिभावेन स्मृत्वा देवीं सदा भज ॥ ३८.५३८{३५} ॥
तथा सा श्रीमहादेवी वसुलक्ष्मीः प्रसादिता ।
परितुष्टा गृहे तेऽत्र सदापि सगणाश्नयेत् ॥ ३८.५३९{३६} ॥
ततस्तस्या महादेव्याः प्रभावेन सदा तव ।
सर्वत्रापि भवेन्नूनं मंगलं निरुपद्रवम् ॥ ३८.५४०{३७} ॥
ततस्ते सर्वसंपत्तिपरिपूर्णं भवेद्गृहे ।
ततस्त्वं स्वेछया दानं दत्वार्थिभ्यः शुभे चर ॥ ३८.५४१{३८} ॥
एतत्पुण्यपरीता त्वं सर्वदा सद्गतीं गताः ।
परिशुद्धाशया धीरा सुशीला शुभभाविनी ॥ ३८.५४२{३९} ॥
साक्षादर्हत्पदं प्राप्ता संबुद्धालयमाप्नुयाः ।
एवं विज्ञाय भो वत्से संबुद्धपदलब्धये ।
त्रिरत्नशरणं कृत्वा श्रीदेवीं भज सर्वदा ॥ ३८.५४३{४०} ॥
इत्युक्त्वा सा महादेवी त्यक्त्वा वृद्धाकृतिं तथा ।
धृत्वा रूपं वसुंधर्य्या तस्थौ सर्वगणैर्वृता ॥ ३८.५४४{४१} ॥
तां देवीं श्रीप्रभास्वंतीं सगणान् समवस्थितान् ।
आलोक्य निम्वदेवी सा तस्थौ क्षणं सुविस्मिता ॥ ३८.५४५{४२} ॥
ततः स्वप्नविबुद्धेव साक्षात्तां श्रीवसुं धराम् ।
दृष्ट्वा सा सहसोत्थाय सांजलि न्यपतत्पुरः ॥ ३८.५४६{४३} ॥
ततः सा श्रीमहादेवी तां रज्ञीं पुरतो नताम् ।
धृत्वा हस्तेन हे वत्स उत्तिष्ठेत्येवमब्रवीत् ॥ ३८.५४७{४४} ॥
वत्से दारिद्र्यदुःखं ते नश्यते सांप्रतं खलु ।
सर्वदात्र गृहे संपत्परिवृद्धा भवेदपि ॥ ३८.५४८{४५} ॥
इत्यादिष्टं तया देव्या निम्वदेवी निशम्य सा ।
उत्थाय सांजलि देवीं प्राद्राक्षीत्तां वसुंधराम् ॥ ३८.५४९{४६} ॥
गृहे चापि महासंपत्परिपूर्णं समंततः ।
पश्यन्ती किमिदं स्वप्नमित्युक्त्वा समलोकयत् ॥ ३८.५५०{४७} ॥
ततः सा श्रिवसुंधारा महादेवी गणैः सह ।
भद्रेऽनुभूयतां सौख्यमित्युक्त्वानुदधौ ततः ॥ ३८.५५१{४८} ॥
तत्र सा निम्वदेवी तां श्रीदेवीं सगणां तथा ।
अंतर्धानगतां दृष्ट्वा क्षणं तस्थौ विमूर्छिता ॥ ३८.५५२{४९} ॥
ततश्चैतन्यमाषाद्य सा राज्ञी परिबोधिता ।
तां देवीं सगणां धात्वा स्मृत्वा तस्थौ समाहितम् ॥ ३८.५५३{५०} ॥
ततस्तस्या निम्वदेव्या उद्यानेषु समंततः ।
सर्वपुष्पद्रुमा जातास्तथा सर्वफलद्रुमाः ॥ ३८.५५४{५१} ॥
अष्टाङ्गगुणसंपन्न जलपूर्णा मनोरमाः ।
पद्मोत्पलादि पुष्पाढ्याः पुष्करिण्यः समुद्भवाः ॥ ३८.५५५{५२} ॥
गृहं चापि मनोरम्यं प्रास्पादं दिव्यसंनिभम् ।
सर्वसंपत्ति संपूर्णं श्रीदपुरमिवाभवत् ॥ ३८.५५६{५३} ॥
तदीदृग्भवनं दृष्ट्वा तथोद्यानं मनोरमम् ।
नंदिता निम्वदेवी सा तस्थौ दिव्यसुखान्विता ॥ ३८.५५७{५४} ॥
तदा स नृपतिश्चूडदेव्या व्रतं न धारितम् ।
व्रतसूत्रं विसृष्टं च श्रुत्वातिरुषिताभवत् ॥ ३८.५५८{५५} ॥
(र्म् ४६०)
ततः सो नृपती राजा मंत्रिभिः परिबोधितः ।
महिषीं तां प्रियां भार्यां समेत्येवमभाषत ॥ ३८.५५९{५६} ॥
अरे रे हेतुना केन त्वया न धारितं व्रतम् ।
व्रतसूत्रं कथं छित्वा विसृष्टं तद्वदस्व मे ॥ ३८.५६०{५७} ॥
इति राज्ञोदितं श्रुत्वा चूडदेवी प्रगर्विता ।
स्वामिनंसपि तं भूपमनादृत्य्यैवमब्रवीत् ॥ ३८.५६१{५८} ॥
ममैतच्छ्रीसमृद्धास्ति गृहे रत्नादि संयुता ।
किं तेन व्रतसूत्रेण व्रतेनापि प्रयोजनम् ॥ ३८.५६२{५९} ॥
इति तयोदितं श्रुत्वा नृपतिः स प्रकोपितः ।
प्रयत्नादपि तां भार्यां बोधयितुं शशाक न ॥ ३८.५६३{६०} ॥
ततः स नृपति राजा तद्व्रतधारणोत्सुकः ।
सखीमेकां समाहूय पुर एवमभाषत ॥ ३८.५६४{६१} ॥
सखी त्वं मे वचः श्रुत्वा गछ निम्ववनेऽधुना ।
निम्वदेव्याः पुरो गत्वा वदस्वैवं समादरात् ॥ ३८.५६५{६२} ॥
स्वामी स नृपती राजा व्रतं चरितुमिछति ।
वसुलक्ष्म्यास्त्वया सार्द्धं तदाशु गम्यतामिति ॥ ३८.५६६{६३} ॥
सा तथेति प्रतिश्रुत्य द्रुतं निम्ववने गता ।
दृष्ट्वोद्यानं मनोरम्यं क्षणं तस्थौ सविस्मया ॥ ३८.५६७{६४} ॥
ततः सा कौतुकाक्रांतहृदया समुपाविशत् ।
तत्र तद्भवनं रम्यं दृष्ट्वा तस्थौ सकौतुका ॥ ३८.५६८{६५} ॥
ततः सा सुचिरं दृष्ट्वा मुदिता विस्मयान्विता ।
निम्वदेव्याः पुरो गत्वा पादौ नत्वैवमब्रवीत् ॥ ३८.५६९{६६} ॥
देवि त्वदन्तिके राज्ञा प्रेषिताहं समागता ।
तद्भवंती प्रभोराज्ञां श्रोतुमर्हति सांप्रतम् ॥ ३८.५७०{६७} ॥
स स्वामी श्रीवसुंधर्य्या व्रतं चरति सप्रियः ।
चूडदेव्या व्रतं सम्यक्परितं न प्रमादतः ॥ ३८.५७१{६८} ॥
तत्त्वया सह स स्वामी व्रतं चरितुमिछति ।
तत्त्वदाहूतये राज्ञा प्रेषिताहं तथात्र हि ॥ ३८.५७२{६९} ॥
तद्भवंती प्रभोराज्ञां शिरो धृत्वा समादरात् ।
तद्व्रतं चरितुं भर्त्त्रा सहाश्वागंतुमर्हति ॥ ३८.५७३{७०} ॥
इति तया समाख्यातं निम्वदेवी निशम्य सा ।
तां चेटीं स्वामिनो दूतीं समालोक्यैवमब्रवीत् ॥ ३८.५७४{७१} ॥
सख्यत्र श्रीवसुंधाराव्रतं मया विधार्यते ।
पश्य मे संपदो जाताः श्रीदेवीसंप्रसादतः ॥ ३८.५७५{७२} ॥
तदहं सांप्रतं तत्र नेछामि चरितुं व्रतम् ।
तदर्थागमनेनापि प्रयोजनं न मेऽधुना ॥ ३८.५७६{७३} ॥
तदहं नागमिष्यामि तच्छैतत्कथितं मया ।
नृपतेः पुरतो गत्वा वक्तव्यं नान्यथा त्वया ॥ ३८.५७७{७४} ॥
इति तया समाख्यातं श्रुत्वा चेटी तथेति सा ।
तां राज्ञीं सांजली नत्वा प्रत्याययौ नृपालयम् ॥ ३८.५७८{७५} ॥
तत्र सा नृपतेः पादौ प्रणम्य सांजलिः पुरः ।
उवाचैतत्प्रवृत्तांतं निम्वदेव्या यथोदितम् ॥ ३८.५७९{७६} ॥
तत्तया कथितं श्रुत्वा स राजा विस्मयाहतः ।
(र्म् ४६१)
भूयस्तां चेटिकां दूतीं समामंत्र्यैवमादिशत् ॥ ३८.५८०{७७} ॥
भूयोऽपि तत्र गछ त्वं बोधयित्वा प्रयत्नतः ।
निम्वदेवीं समाहूय सहसानेतुमर्हति ॥ ३८.५८१{७८} ॥
इत्यादिष्टं नरेन्द्रेण श्रुत्वा सा चेटिकापि च ।
नृपतिं तं महाराजं प्रणत्वैवं न्यवेदयत् ॥ ३८.५८२{७९} ॥
किं तत्राहं गमिस्यामि निम्वदेवीह माव्रजेत् ।
यत्सा तत्र महासौख्यं भुक्त्वा तिष्ठति सांप्रतम् ॥ ३८.५८३{८०} ॥
यत्तस्या भवनं रम्यं प्रासादं भवतेऽधुना ।
सर्वसंपत्तिसंपूर्णं श्रीदस्येव किमुच्यते ॥ ३८.५८४{८१} ॥
उद्यानेऽपि मनोरम्याः पुष्करिण्यः समुद्भवाः ।
नानावृक्षाश्च संजाताः फलपुष्पसमन्विताः ॥ ३८.५८५{८२} ॥
किमत्र वहिमोक्तेन दिव्यश्री संपदान्वितम् ।
यदि तदिछसि द्रष्टुं तत्र गत्वाभिलोकय ॥ ३८.५८६{८३} ॥
एवं तयोदितं श्रुत्वा स राजा तृषितान्वितः ।
तथा तद्भवनं द्रष्टुं सहसा गंतुमैछत ॥ ३८.५८७{८४} ॥
ततः स नृपती राजा सखिमंत्रिजनैः सह ।
यानारूढो व्रजन्स्तत्र निम्ववने उपासरत् ॥ ३८.५८८{८५} ॥
तत्रोद्यानं मनोरम्यं सर्ववृक्षाः समन्वितम् ।
पुष्करिणीश्च दूरात्स राजाद्राक्षीन्मनोहराः ॥ ३८.५८९{८६} ॥
भवनं च मनोरम्यं प्रासादं दिव्यकल्पितम् ।
दृष्ट्वा स मुदितो राजा स शीघ्रं द्वारान्तिके ययौ ॥ ३८.५९०{८७} ॥
तन्नृपं समुपायातं दृष्ट्वा देव्याः सखी द्रुतम् ।
पुरतः सहसोपेत्य समामंत्र्यैवमब्रवीत् ॥ ३८.५९१{८८} ॥
देवी प्रसीद यद्भर्त्ता स्वामीह स्वयमागतः ।
तद्भवंती प्रसन्नास्या दर्शनं दातुमर्हति ॥ ३८.५९२{८९} ॥
इति सख्योदितं श्रुत्वा निम्वदेवी प्रहर्षिता ।
सहसोत्थाय पर्यङ्कं प्राज्ञपयत्सुकोमलम् ॥ ३८.५९३{९०} ॥
तत्र स भूपती राजा प्रविश्य मंदिरे चरन् ।
तां देवीं समुपामंत्र्य प्रययौ सहिते जनैः ॥ ३८.५९४{९१} ॥
तत्र तं प्रभुमायातं निम्वदेवी समीक्ष्य सा ।
सहसोत्थाय पश्यंती ननाम चरणे प्रभोः ॥ ३८.५९५{९२} ॥
तत्र स प्रभुरालोक्य तां भार्यां श्रीसमांशिकाम् ।
सर्वत्र कुशलं प्रश्नं कृत्वासने समाश्रयत् ॥ ३८.५९६{९३} ॥
तत्र तां श्रीसमाकारं निम्वदेवीं निरीक्ष्य सः ।
राजा प्रभुः स्वयं धृत्वा सहासने न्यवेशयत् ॥ ३८.५९७{९४} ॥
ततस्तौ दंपती तत्र सहासने समाश्रितौ ।
परस्परं समाश्रित्य निषेदतुः प्रमोदितौ ॥ ३८.५९८{९५} ॥
ततः स नृपती स्वामी सकौतुकप्रमोदितः ।
तां भार्यां श्रीसमानांशं दृष्ट्वैवं पर्यपृछत ॥ ३८.५९९{९६} ॥
कथं ते भवनं रम्यं प्रासादं भवनेऽधुना ।
उद्यानं च मनोरम्यं जायते तद्वदस्व मे ॥ ३८.६००{९७} ॥
इति पृष्टे नरेंद्रेण निम्वदेवी विनोदिता ।
तं प्रभुं सांजलिर्नत्वा समालोक्यैवमब्रवीत् ॥ ३८.६०१{९८} ॥
(र्म् ४६२)
शृणु स्वामिन्महाराज यदि श्रोतुं त्वमिछसि ।
तथाहं कथयिष्यामि यन्मे संपत्प्रजायते ॥ ३८.६०२{९९} ॥
प्रत्यहं यत्त्वया दत्तं तद्भोग्यं याचितुं सखी ।
अमुष्मिन् दिवसे तत्र मयेयं प्रेषिताचरत् ॥ ३८.६०३{१००} ॥
तत्रेयं सहसा गत्वा प्रासादैकांतमाश्रिता ।
तदा वातायनात्क्षिप्तं व्रतसूत्रमधोऽपतत् ॥ ३८.६०४{१} ॥
तद्दृष्ट्वैवं सखी गृह्य किमिदमिति वीक्ष्य सा ।
विस्मिता सहसागत्वा ममाग्रे समदर्शयत् ॥ ३८.६०५{२} ॥
तद्दृष्ट्वायं मया पृष्टा त्यक्त्वाहारमिदं कुतः ।
सूत्रमादाय प्रैषि त्वं तत्कथमुच्यतामिति ॥ ३८.६०६{३} ॥
तथेयं परिपृष्टा मे विस्तरेणैवमब्रवीत् ।
स्वामिनि यदि ते श्रोतुं वांछास्ति श्रूयतामिति ॥ ३८.६०७{४} ॥
प्रत्यहं स्वामिनाहारं दत्तं तद्याचितुं तदा ।
तत्र राजकुले देव्या व्रतोत्साहं शृणोम्यहम् ॥ ३८.६०८{५} ॥
तद्व्रतशब्दमाकर्ण्य तत्रैकांते समाश्रिता ।
तदा वातायनात्क्षिप्तं सूत्रं पतति मे मम ॥ ३८.६०९{६} ॥
तदिदं सूत्रमालोक्यमिति विस्मयान्विता ।�आलोक्य किमिति?
त्यक्त्वाहारमिदं सूत्रमादाय सहसा व्रजे ॥ ३८.६१०{७} ॥
इत्युक्त्वेयं सखी मेऽग्रे उपस्थायाप्यदर्शयत् ।
व्रतसूत्रं तदालोक्य नत्वागृह्नान्मुदादरात् ॥ ३८.६११{८} ॥
ततश्चेयं सखि दृष्ट्वा प्रेम्ना हितार्थवांछिनी ।
मातेवानुनयं कृत्वा ममाग्रे एवमब्रवीत् ॥ ३८.६१२{९} ॥
भवंत्यपि तथा श्रद्धाभक्तिमात्रेण सर्वदा ।
श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्य व्रतं चर ॥ ३८.६१३{१०} ॥
इत्यस्या वचनं श्रुत्वा तथाहं भक्तिमात्रतः ।
श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्याचरं व्रतम् ॥ ३८.६१४{११} ॥
तदैका ज्यायसी वृद्धा मातामही तवागता ।
इत्याख्याय शनैरत्र ममाग्रे समुपागता ॥ ३८.६१५{१२} ॥
मयापि सादरेणात्र नत्वासने निवेशिता ।
ततश्च मां समालोक्य कुशलं समपृछत ॥ ३८.६१६{१३} ॥
ततश्चासौ परिज्ञाय मयात्र व्रतसाधनम् ।
किं व्रतं सध्यते वत्स इति मां पर्यपृछत ॥ ३८.६१७{१४} ॥
ततस्तां सांजलिर्नत्वा न्यवेदयन् समादरात् ।
मातामहि नु मे किं चिदपि द्रव्यं न विद्यते ॥ ३८.६१८{१५} ॥
तदहं श्रद्धया भक्तिभावमात्रेण सादरम् ।
श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्य व्रतं चरे ॥ ३८.६१९{१६} ॥
इति मयोदितं श्रुत्वा सा वृद्धा परिमोदिता ।
तद्व्रतविधिपुण्यानि यथा क्रममुपादिशत् ॥ ३८.६२०{१७} ॥
तदुपादिष्टमाकर्ण्य मुदिता संप्रमोदिता ।
सांजलिस्तन्पदाब्जेऽहं नत्वा तिष्ठमधोमुखः ॥ ३८.६२१{१८} ॥
तदा सा तज्ज्यायसी रूपं त्यक्त्वात्र च क्षणादपि ।
श्रीदेवीमूर्त्तिमाधाय सगणां समदर्शयत् ॥ ३८.६२२{१९} ॥
(र्म् ४६३)
अतोऽहं सहसोत्थाय दृष्ट्वा तां श्रीवसुंधराम् ।
गणवृतां समालोक्य यथाशक्ति समर्च्यम् ॥ ३८.६२३{२०} ॥
ततः सा श्रीमहदेवी मद्भक्तिपरितोषिता ।
सगणा मे वरं दत्वा व्यवधानमितोऽव्रजत् ॥ ३८.६२४{२१} ॥
ततस्तस्या महालक्ष्म्या कृपादृष्टिप्रसादतः ।
इदं मे भवनं रम्यं प्रासादं भवते क्षणात् ॥ ३८.६२५{२२} ॥
उद्यानं च मनोरम्यं नानापुष्पफलद्रुमैः ।
पद्मोत्पलादि पुष्पाढ्याः पुष्करिण्यो चोद्भवाः ॥ ३८.६२६{२३} ॥
सधातुरत्नजातादि सर्वद्रव्याभिपूरितम् ।
कोष्ठागारं समुद्भूतं सवस्त्रालंकारपूरितम् ॥ ३८.६२७{२४} ॥
सर्वव्रीहिसमापूर्णं षड्ररद्रव्यपूरितम् ।
घृतदधिमधुक्षीरमोदकादिप्रपूरितम् ॥ ३८.६२८{२५} ॥
विविधपानभोज्यानि पट्टपुष्पासनानि च ।
फलपुष्पादि भोग्यानि संजायंते क्षणादिह ॥ ३८.६२९{२६} ॥
ईदृशी महती संपत्समुद्भूता मम क्षणात् ।
तत्सर्वं श्रीमहादेव्याः प्रसादादपि नान्यथा ॥ ३८.६३०{२७} ॥
इति विज्ञाय राजेन्द्र तस्या देव्याः सदा मुदा ।
श्रद्धया शरणं गत्वा व्रतं चरितुमर्हति ॥ ३८.६३१{२८} ॥
एतत्पुण्यानुभावेन सर्वदा सद्गतीं व्रजेः ।
यावद्भवं व्रजेर्नैव दुर्गतीं च कदा चन ॥ ३८.६३२{२९} ॥
सद्गतौ सत्सुखान्येव लब्धो सदा शुभे चरन् ।
त्रिरत्नभजनं कृत्वा बोधिचर्यां चरेत्क्रमात् ॥ ३८.६३३{३०} ॥
ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमात् ।
स्वयं चरं परां चापि बोधिमार्गे नियोजयेत् ॥ ३८.६३४{३१} ॥
ततो मारगणान् सर्वां जित्वा शुद्धत्रिमंडलः ।
अर्हन् संबोधिमासाद्य संबुद्धपदमाप्नुयात् ॥ ३८.६३५{३२} ॥
इति तया महादेव्याः समुपादिष्टमत्र मे ।
तच्छ्रुत्वा सर्वदा स्वामि मनोऽतिरोचते व्रतम् ॥ ३८.६३६{३३} ॥
तदहं सर्वदा तस्याः श्रीदेव्याः शरणं गता ।
श्रद्धया भक्तिभावेन चरिष्यामि व्रतं प्रभो ॥ ३८.६३७{३४} ॥
तथा भवानपि स्वमिञ्छ्रीदेव्याः शरणं गतः ।
श्रद्धाभक्तिप्रसन्नात्मा व्रतं चरितुमर्हति ॥ ३८.६३८{३५} ॥
इति भार्योदितं श्रुत्वा स राजाभ्यनुमोदितः ।
तथा सदा महादेव्या व्रतं चरितुमैछत ॥ ३८.६३९{३६} ॥
तत्रैवं स महीपालो निम्वदेव्या तया सह ।
यथाकामं सुखं भुक्त्वा तस्थौ क्रीडन् यथेछया ॥ ३८.६४०{३७} ॥
एवं क्रीडन् स राजेन्द्रो निम्वदेव्या सहारतः ।
तत्रानंदसुखोत्साहैर्न्युवास राज्यनिस्पृतः ॥ ३८.६४१{३८} ॥
तत्रैवं तं महीपालं निम्वदेव्या सह स्थितम् ।
चूडदेवी समाकर्ण्य चुकोपातिप्ररोषिता ॥ ३८.६४२{३९} ॥
ततः सा चूडदेवी तं स्वामिनं तत्र संस्थितम् ।
स्वयं गत्वा समाक्रम्य संमानयितुमैछत ॥ ३८.६४३{४०} ॥
ततः सा क्रोधिता चण्डी चूडदेवी प्रधाविता ।
व्रजंती सहसा तत्र निम्ववन उपासरत् ॥ ३८.६४४{४१} ॥
(र्म् ४६४)
तत्र तद्व्रतनिर्माल्यप्रक्षिप्तः पुष्पसंकुलम् ।
स्थानं सातिप्रकोपांधा लंघित्वा सहसाचरत् ॥ ३८.६४५{४२} ॥
तल्लंघितातिपापेन सा देवी तत्क्षणादपि ।
कोलमुखी महाघोररूपाविछंदिता भवत् ॥ ३८.६४६{४३} ॥
तत्र तां सहसायातां लोकान् दृष्ट्वा भयोत्थिताः ।
कोलमुखी प्रविष्टेति शब्दं कृत्वा विचेरिरे ॥ ३८.६४७{४४} ॥
तद्विरावं जनाः सर्वे श्रुत्वा तत्र समुत्थिताः ।
कोलाहलमहाशब्दं प्रकुर्वन्त उपाद्रुवन् ॥ ३८.६४८{४५} ॥
तत्कोलाहलं शब्दं श्रुत्वा संत्रसिताशया ।
परायित्वा ततोऽन्यत्र प्रदुद्राव वनांतरे ॥ ३८.६४९{४६} ॥
तत्रैका विभ्रमंती सा दैवसंप्रेरिता वने ।
निर्जने दुर्गमेऽरण्ये परिखिन्नाप्यधावत ॥ ३८.६५०{४७} ॥
तथा सा दूरतो गत्वा प्राद्राक्षीत्सरसी द्वयम् ।
दृष्ट्वा सा तत्र तृष्णार्त्ता जलं पातुमुपाचरत् ॥ ३८.६५१{४८} ॥
तदा ते सरसी युद्धं परस्परं प्रचक्रतुः ।
दृष्ट्वा सा विस्मिताऽपीत्वा जलं तस्थौ सविस्मया ॥ ३८.६५२{४९} ॥
तत्र ते सरसी दृष्ट्वा तां कोलवदनां स्त्रियम् ।
कुत्र गंतुमिहैषि त्वमित्येवं पर्यपृछताम् ॥ ३८.६५३{५०} ॥
तत्पृष्टं सा समाकर्ण्य सा शंकविस्मयाहता ।
किमेतदिति संचिंत्य क्षणं तस्थौ विमोहिता ॥ ३८.६५४{५१} ॥
तत्र सा दैवयोगेन प्रतिलभ्य सुचेतनाम् ।
किं मयात्रापि वक्तव्यमिति ध्यात्वा व्यचिंतयत् ॥ ३८.६५५{५२} ॥
हा कथमिह प्राप्ताहं भ्रमामि निर्जने वने ।
किं मया प्रकृतं पापं येन भ्रष्टा चराम्यहम् ॥ ३८.६५६{५३} ॥
हा किं कुर्यां क्व गछेयं सहायैकापि मेऽस्ति न ।
सर्वथात्र विनष्टास्मि को मां रक्षेदिहाऽधुना ॥ ३८.६५७{५४} ॥
इति चिंताविषण्णा सा तस्थौ तत्र निराशिता ।
ततः सा दैवयोगेन सस्मार श्रीवसुंधराम् ॥ ३८.६५८{५५} ॥
तद्देवीस्मृतिपुण्येन सा कर्मभाविनी सुधीः ।
यत्स्वयं प्रकृतं कर्म तत्सर्वं पर्य्यबुध्यताम् ॥ ३८.६५९{५६} ॥
हा मया दुर्धिया तत्र सम्यन्न धारितं व्रतम् ।
एतत्पापेन नूनं मे जातेऽयमीदृशी विपत् ॥ ३८.६६०{५७} ॥
तदत्र किं करिष्यामि कोलमुखी यतोऽस्म्यहम् ।
तत्तत्र कथमेवं हि प्रतियायं नृपालयम् ॥ ३८.६६१{५८} ॥
यच्चाहं दुर्मतिर्दुष्टा स्वकृतपापभागिनी ।
तद्दैवप्रेषिता ह्यत्र भ्रमामि निर्जने वने ॥ ३८.६६२{५९} ॥
तदत्र किं चरेयाहं जीवितेऽपि न मे रुचिः ।
सर्वेषामपि जंतूनां सर्वत्र मरणं ध्रुवम् ॥ ३८.६६३{६०} ॥
इति मत्वाहमत्रापि निरपेक्षः स्वजीविते ।
श्रीदेव्या दर्शनं कर्त्तुं स्मृत्वा गछेय सांप्रतम् ॥ ३८.६६४{६१} ॥
इति निश्चित्य सा राज्ञी चूडदेवी समुद्यता ।
श्रीदेव्या दर्शनं कर्तुं स्मृत्वा चरितुमैछत ॥ ३८.६६५{६२} ॥
ततः सा चूडदेवी ते सरसी द्वे समीक्ष्य च ।
(र्म् ४६५)
उपेत्य तज्जलं पीत्वा तीरे स्थित्वैवमब्रवीत् ॥ ३८.६६६{६३} ॥
सरसी यदहं मूढा दुर्मती मंदभागिनी ।
तच्छ्रीवसुंधरां देवीं द्रष्टुमिहाव्रजामि हि ॥ ३८.६६७{६४} ॥
इति तयोदितं श्रुत्वा पुष्करिण्यावुभेऽपि ते ।
तां राज्ञीं समुपामंत्र्य नृगिरैवमभाषताम् ॥ ३८.६६८{६५} ॥
साधु साधु महाभागे व्रजास्तु मंगलं तव ।
पुन नौ वचसा देवीमेवं पृछ त्वमादरात् ॥ ३८.६६९{७} ॥
केनावां हेतुना युद्धं कृत्वा तिष्ठावहे सदा ॥ ३८.६७०{८} ॥
इत्येतत्कथितं ताभ्यां श्रुत्वा राज्ञी तथेति सा ।
प्रतिज्ञाय तत्रान्यत्र स्वदैवप्रेषिताचरत् ॥ ३८.६७१{९} ॥
तत्रारण्ये भ्रमंती सा किं चिद्दूरं गता ततः ।
महांतं शूकरं घोरं ददर्श भीषणाकृतिम् ॥ ३८.६७२{१०} ॥
तत्र सा दूरतः स्थित्वा पश्यंस्तं भीमशूकरम् ।
मात्रा तिष्ठ व्रजान्यत्र सहसेति तमब्रवीत् ॥ ३८.६७३{११} ॥
इति तेनोदितं श्रुत्वा स शूकरः समुत्थितः ।
सहसोपेत्य तां राज्ञीं समालोक्यैवमब्रवीत् ॥ ३८.६७४{१२} ॥
का त्वं कुत इहायासि कुत्र गंतुं प्रधावसि ।
एकाकिनी कथं भ्रांतो वन एतद्वदस्व मे ॥ ३८.६७५{१३} ॥
इति तेनोदितं श्रुत्वा सा देवी प्रतिचित्रिता ।
शनैरुपेत्य तं प्रेतं संपश्यन्नेवमब्रवीत् ॥ ३८.६७६{१४} ॥
सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया ।
श्रीदेव्या दर्शनं कर्तुं वांछंतीह समाव्रजे ॥ ३८.६७७{१५} ॥
इति तद्गदितं श्रुत्वा शूकरः सोऽतिविस्मितः ।
तां देवीं समुपाश्रित्य पश्यन्नेवमभाषत ॥ ३८.६७८{१६} ॥
साधु साध्वि महाभागे व्रजास्तु ते सुमंगलम् ।
तां श्रीभगवतीदेवीं मन्नाम्ना प्रणमादरात् ॥ ३८.६७९{१७} ॥
भूयो मे वचसा साध्वी तां देवीं परिपृछताम् ।
केनाहं शूकरीभूतस्तिष्ठामीति भवंत्यपि ॥ ३८.६८०{१८} ॥
एतत्तत्कथितं श्रुत्वा चूडदेवी तथेति सा ।
प्रतिज्ञाय ततोऽन्यत्र व्रजंती सहसाचरत् ॥ ३८.६८१{१९} ॥
तत्र सूचीमुखप्रेतमस्थिकायं महोदरम् ।
स्वकेशरोमसंछन्नमपश्यद्दूरतो वने ॥ ३८.६८२{२०} ॥
तत्र स प्रेत आलोक्य तां देवीं समुपागताम् ।
सहसोपेत्य संपश्यन् पुरस्थ एवमब्रवीत् ॥ ३८.६८३{२१} ॥
को त्वं कुत इहायासि कुत्र गंतुमिहागता ।
निःसहाया कथं भ्रांता चरते तद्वदस्व मे ॥ ३८.६८४{२२} ॥
इति तत्कथितं श्रुत्वा सा देवी विस्मयान्विता ।
शनैरुपेत्य तं प्रेतं पश्यंत्येवमवोचत ॥ ३८.६८५{२३} ॥
सूर्योदयमहीभर्त्तु भार्याहं महिषी सती ।
श्रीदेव्या दर्शने गंतुं पथानेनाव्रजामि हि ॥ ३८.६८६{२४} ॥
इति तदुदितं श्रुत्वा स प्रेतोऽतिविचित्रितः ।
तां देवीं सांजलिर्नत्वा पुर एवमवोचत ॥ ३८.६८७{२५} ॥
साधु साध्वि महाभागे चरास्तु ते सुभद्रकम् ।
तां श्रीभगवतीलक्ष्मीं मन्नाम्ना प्रणमादरात् ॥ ३८.६८८{२६} ॥
भूयोऽपि वचसा मे तां श्रीदेवीं परिपृछतु ।
(र्म् ४६६)
केनाहं पापकेनैवं तिष्ठामि दुःखभागिनी ॥ ३८.६८९{२७} ॥
एतत्तत्कथितं श्रुत्वा चूडदेवी तथेति सा ।
प्रतिश्रुत्य गतान्यत्र प्राद्राक्षीद्दशपापिनः ॥ ३८.६९०{२८} ॥
तेऽपि तां समुपायातां दृष्ट्वोपेत्येवमब्रुवन् ।
का त्वं कुत इहायासि कुत्र गंतुं च तद्वद ॥ ३८.६९१{२९} ॥
इति तैर्गदितं श्रुत्वा सा देवी समुपास्थिता ।
तान् सर्वान् पापिनो दृष्ट्वा पुर एवमभाषत ॥ ३८.६९२{३०} ॥
सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया ।
श्रीदेव्या दर्शने गंतुं पथानेनाव्रजाम्यहम् ॥ ३८.६९३{३१} ॥
इति तद्गदितं श्रुत्वा सर्वे ते दशपापिनः ।
कृतांजलिपुटा नत्वा तां देवीमेवमब्रुवन् ॥ ३८.६९४{३२} ॥
साधु देवी महाभागे प्रव्रजास्तु जयं तव ।
अस्माकं प्रकृतं पापं तां देवीं परिपृछतु ॥ ३८.६९५{३३} ॥
इति तद्देशितं श्रुत्वा चूडदेवी तथेति सा ।
ततोऽन्यत्र व्रजंत्येवं ददर्श कृष्णपंनगम् ॥ ३८.६९६{३४} ॥
तत्र स कृष्णसर्पस्तामालोक्य समुपागताम् ।
सहसा समुपाक्रम्य विषाग्निनात्यतापयत् ॥ ३८.६९७{३५} ॥
ततः सा मूर्छिता देवी चिरात्स्वयं समुत्थिता ।
तां श्रीवसुंधरां स्मृत्वा तत्र तस्थौ क्षणं तथा ॥ ३८.६९८{३६} ॥
ततः सा सुंदरीरूपा त्यक्तकोलमुखाभवत् ।
कालसर्पः स तामाह का त्वं कुतः समागता ॥ ३८.६९९{३७} ॥
चूडदेवी ततः प्राह सूर्योदयप्रियास्म्यहम् ।
श्रीदेवीदर्शनार्थं तु आगता मान्यथ फणि ॥ ३८.७००{३८} ॥
ततः पातकमुक्ता सा प्रचरंती बुभुक्षिता ।
बीजपूरकमालोक्य तदादातुमुपाचरत् ॥ ३८.७०१{३९} ॥
तत्र तत्फलमालोक्य हस्ताभ्यां सहसाग्रहीत् ।
तस्य हि दैवयोगेन तत्फलं न व्यमुंच्यत ॥ ३८.७०२{४०} ॥
तत्र सा तत्फले लग्नहस्ता तस्थौ तथा क्षणम् ।
ततः सा त्रसिता दृष्ट्वा न गृह्नामीति चावदत् ॥ ३८.७०३{४१} ॥
एतदुक्ते भुजौ तस्यास्तत्फलं सहसात्यजत् ।
ततः सा विस्मितान्य्र भ्रमंती दूरतोऽव्रजत् ॥ ३८.७०४{४२} ॥
ततः सा दूरतो नद्याः शब्दं श्रुत्वा प्रधाविता ।
स्वदैवप्रेषिता तत्र तीरमवापतत्क्षणात् ॥ ३८.७०५{४३} ॥
तत्र सा तज्जलं पातुं सहसा समुपाचरत् ।
तत्र सा तज्जलं पीत्वा स्नात्वा चैव समाश्रयत् ॥ ३८.७०६{४४} ॥
तत्र सा दूरतः पूर्णहेमघटशिरोवहाः ।
सुरांगणाः सुभद्रांगा ददर्श समुपागताः ॥ ३८.७०७{४५} ॥
तत्र सा ताः समालोक्य सहसोपेत्य सांजलिः ।
प्रणत्वा समुपासीना समीक्ष्यैवमपृछत ॥ ३८.७०८{४६} ॥
अहो भाग्यं मया लब्धं यद्भवत्यात्र दर्शिता ।
तद्दृष्ट्वा कृपया सर्वा स्नातुमर्हन्ति सर्वथा ॥ ३८.७०९{४७} ॥
भवंत्योऽमृतसंपूर्णहैमघटशिरोवहाः ।
कुत्र गंतुं चरंत्यत्र सत्यमेतद्वदंतु मे ॥ ३८.७१०{४८} ॥
इति तयोदितं श्रुत्वा तासामेका प्रधानिका ।
सालोक्य चूडदेवीं तां समामंत्र्यैवमब्रवीत् ॥ ३८.७११{४९} ॥
(र्म् ४६७)
भद्रे त्वं न जानासि या श्रीदेवी वसुंधराः ।
तस्या इमेऽमृता पूर्णा नीयंते स्नपने घटाः ॥ ३८.७१२{५०} ॥
देवीस्नानोदकैः सर्वैरेषा नदी वहत्यपि ।
एतन्नद्यमृतेनात्र नेत्रे प्रक्षाल्य दृश्यताम् ॥ ३८.७१३{५१} ॥
एवं देव्या तयादिष्टं चूडदेवी निशम्य सा ।
तथेत्यभ्यनुमोदंती तथा कर्तुं समैछत ॥ ३८.७१४{५२} ॥
ततः सा तन्नदीतीरे स्थित्वामृतेन चक्षुषी ।
संप्रक्षाल्य ततः सस्ने पपौ तदमृतं मुदा ॥ ३८.७१५{५३} ॥
ततो निर्मुक्तपापा सा चूडदेवी पवित्रिता ।
सुदृष्टिरभवत्तत्र समंताप्रतिहतेक्षणः ॥ ३८.७१६{५४} ॥
तत्रस्था चूडदेवी सा प्राद्राक्षीत्तत्क्षणादपि ।
श्रीवसुधां महादेवीं सगणां मण्डलास्थिताम् ॥ ३८.७१७{५५} ॥
तत्र तां श्रीमहादेवीं दृष्ट्वा सा प्रतिमंडिता ।
सहसा सांजलिर्नत्वा पश्यंती समुपाचरत् ॥ ३८.७१८{५६} ॥
तत्र सा समुपेत्याशु कृत्वा प्रदक्षिणां मुदा ।
सगणां स महादेवीं प्रणनाम कृतांजलिः ॥ ३८.७१९{५७} ॥
ततः सा श्रीमहादेवी चूडदेवीं समीक्स्य ताम् ।
स्वागतासि समेहि त्वमित्येवं समभाषत ॥ ३८.७२०{५८} ॥
एवं देव्या तयादिष्टं चूडदेवी निशम्य सा ।
सांजलिरश्रु मोचंती देव्याः पादाम्बुजेऽपतत् ॥ ३८.७२१{५९} ॥
ततः सा श्रीवसुंधारा महादेवी विलोक्य ताम् ।
पादाब्जे पतितां धृत्वा समाश्वास्यैवमादिशत् ॥ ३८.७२२{६०} ॥
भागिनि भद्र उत्तिष्ठ धैर्यमालंव्य पश्यताम् ।
मा विषीद प्रसीदात्र पूरयामि तवैहितम् ॥ ३८.७२३{६१} ॥
एतत्तया महादेव्या समादिष्टं निशम्य सा ।
चूडदेवी प्रसन्नास्या प्रणत्वैवं न्यवेदयत् ॥ ३८.७२४{६२} ॥
भगवति जगद्भर्त्ति वसुधारे महेश्वरि ।
भवत्याः शरणं यामि क्षमस्व मेऽपराधताम् ॥ ३८.७२५{६३} ॥
प्रसीद मे महादेवि कृपानुग्रहतां कुरु ।
यन्मया प्रकृतं पापं तत्सर्वं क्षंतुमर्हति ॥ ३८.७२६{६४} ॥
यदेतद्दूरतो चाहं समायातास्म्यविघ्नतः ।
तद्भवत्याः प्रसादेन नान्यथेति हि मन्यते ॥ ३८.७२७{६५} ॥
तदिह ते महादेव्या श्रद्धया शरणास्थिता ।
व्रतं चरितुमिछामि तत्प्रसीद कृपानिधे ॥ ३८.७२८{६६} ॥
इति तयार्थितं श्रुत्वा सा श्रीदेवी वसुंधरा ।
तां श्रद्धाभिसंशुद्धां समालोक्यैवमादिशत् ॥ ३८.७२९{६७} ॥
साधु वत्से पुनर्गत्वा स्वपुरे स्वामिना सह ।
आचार्येण यथादिष्टं व्रतं कुरु समाहित ॥ ३८.७३०{६८} ॥
तदा तत्र गृहे तेऽहं स्वयमागत्य संस्थिता ।
करिष्यामि सदा भद्रं सर्वत्र निरुपद्रवम् ॥ ३८.७३१{६९} ॥
तदा ते सर्वदा गेहे देहे च मंगलं भवेत् ।
ततः सर्वार्थसंपत्तिः परिवृद्धाः सुसंस्थिता ॥ ३८.७३२{७०} ॥
ततस्तदर्थमादाय देहेऽर्थिभ्यो यथेप्सितम् ।
त्रिरत्नभजनं कृत्वा चरस्व सर्वदा शुभे ॥ ३८.७३३{७१} ॥
(र्म् ४६८)
तथा संपारपूर्य त्वं सर्वाः पारमिताः क्रमात् ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यसि ॥ ३८.७३४{७२} ॥
एतद्देव्या समादिष्टं चूडदेवी निशम्य सा ।
तथेत्यभ्यनुमोदंती प्रत्यश्रोषीत्प्रणामिता ॥ ३८.७३५{७३} ॥
ततः सा चूडदेवी च तां श्रीदेवीं वसुंधराम् ।
सुप्रसन्ना समानम्य समीक्ष्यैवं न्यवेदयत् ॥ ३८.७३६{७४} ॥
यन्मार्गस्थितैर्लोकैः संदर्शितं वचोऽस्ति मे ।
ददेहं प्रष्टुमिछामि भगवति समादिश ॥ ३८.७३७{७५} ॥
मार्गेऽहं सरसी दृष्ट्वा जलं पातुमुपाचरम् ।
तदा ते सरसी युद्धं प्राकुर्वतां परस्परम् ॥ ३८.७३८{७६} ॥
ततस्ते विग्रहांते मां दृष्ट्वैवं पर्यपृछताम् ।
कुत्र गंतुमिहायासि तत्सत्यं कथ्यतामिति ॥ ३८.७३९{७७} ॥
तच्छ्रुत्वा विस्मयाक्रांतहृदयाहं विलोक्य ते ।
श्रीदेवीदर्शनं गंतुमिहैमीत्यवदमपि ॥ ३८.७४०{७८} ॥
एवं मयोदितं श्रुत्वा सरसी त उभेऽपि च ।
मां स कृतांजलिर्नत्वा समीक्ष्यैवमभाषताम् ॥ ३८.७४१{७९} ॥
यदावां विग्रहं नित्यं कृत्वा तिष्ठावहे मिथः ।
तन्नो पापेन केनेति श्रीदेवीं परिपृछतु ॥ ३८.७४२{८०} ॥
किं ताभ्यां प्रकृतं पापं यदेवं विग्रहं मिथः ।
कृत्वा ते तिष्ठतो देवि तत्समादेष्टुमर्हति ॥ ३८.७४३{८१} ॥
इति तयोदितं श्रुत्वा सा श्रीदेवी वसुंधरा ।
समीक्ष्य चूडदेवीं तां समामंत्र्यैवमादिशत् ॥ ३८.७४४{८२} ॥
भगिन्यौ तौ पुराभूतं भोजने समये सदा ।
आक्रुष्य विग्रहं कृत्वा प्रतिक्षेपं प्रचक्रतुः ॥ ३८.७४५{८३} ॥
तेन पापेन तौ द्वेऽपि सरसी भूत्वा परस्परम् ।
सर्वदा विग्रहं कृत्वा तिष्ठतः सांप्रतं तथा ॥ ३८.७४६{८४} ॥
एवं तयोः पुरः प्रोक्त्वा चित्ते त्वं परिबोधय ।
एतच्छ्रुत्वैव ते वाक्यं पापान्मुक्त्वै च्यतो दिवम् ॥ ३८.७४७{८५} ॥
ततोऽसौ चूडदेवी च नत्वा तां श्रीवसुंधराम् ।
सांजलिः सुप्रसन्नात्मा समीक्ष्येवं न्यवेदयत् ॥ ३८.७४८{८६} ॥
भूयोऽपि श्रीमहादेवि शूकरो दृश्यते पथि ।
सोऽपि मां समुपायातं दृष्ट्वैवं पर्यपृछत ॥ ३८.७४९{८७} ॥
कुत्र गंतुमिहायासि वदस्वेति निशम्य तत् ।
श्रीदेवीदर्शने गंतुमिहैमीत्यवदमहम् ॥ ३८.७५०{८८} ॥
ततः स शूकरश्चाहं प्ररुदत्पुरातो मम ।
किं मया प्रकृतं पापमिति देव्यभिपृछ्यताम् ॥ ३८.७५१{८९} ॥
किं तेन प्रकृतं पापं पुरा कुत्र कदा कथम् ।
तत्सर्वं समुपादिश्य प्रबोधयतु मे मनः ॥ ३८.७५२{९०} ॥
इति तत्पृछितं श्रुत्वा सा श्रीदेवी वसुंधरा ।
समीक्ष्य चूडदेवीं तां समामंत्र्यैवमब्रवीत् ॥ ३८.७५३{९१} ॥
भण्डागारी पुराभूत्स विश्वासघातकः कुधीः ।
जनेभ्यो भोजनं किं चिद्दत्वा सर्वं गृहेऽनयत् ॥ ३८.७५४{९२} ॥
(र्म् ४६९)
एतत्पापविपाकेन भवति शूकरोऽधुना ।
एतत्मया यथाख्यातं तथा तस्य पुरो वद ॥ ३८.७५५{९३} ॥
स त्वत्कथितमाकर्ण्य पापमुक्तो दिवं व्रजेत् ॥ ३८.७५६{९४} ॥
इति देव्या समादिष्टं चूडदेवी निशम्य सा ।
तथेति प्रतिविज्ञप्य पुनरेवं न्यवेदयत् ॥ ३८.७५७{९५} ॥
पुनर्मार्गे मया दृष्टः प्रेतः सूचीमुखो महान् ।
किं तेन प्रकृतं पापं तव देवि समादिश ॥ ३८.७५८{९६} ॥
इति तत्कथितं श्रुत्वा सा श्रीदेवी महेश्वरी ।
समीक्ष्य चूडदेवीं तां समामंत्र्यैवमब्रवीत् ॥ ३८.७५९{९७} ॥
पुरा स ब्राह्मणो विद्वान् वेदविद्वादसंरतः ।
सिद्धांतवादिनो बौद्धान् प्रतिक्षिप्याभिनिंदयन् ॥ ३८.७६०{९८} ॥
लोभेर्ष्यामदमात्सर्यपरीतात्मा हि मानिकः ।
आगृहीतपरिष्कारः स्वार्थातिलालसः कुधीः ॥ ३८.७६१{९९} ॥
परेभ्यो दत्तमालोक्य लोभातिकलुषाशयः ।
स छिद्रवचसाक्रुष्य बौद्धे दानं न्यवारयत् ॥ ३८.७६२{१००} ॥
सद्धर्मश्रावकान् सर्वान् दृष्ट्वा स दुरिताशयः ।
प्रदुष्टवचसाक्षिप्य निंदयन् प्रत्यवारयत् ॥ ३८.७६३{१} ॥
किं तेन न कृतं पापं सद्धर्मविघ्नकारिणा ।
त्रिरत्नभजनोत्साहविघाताभ्यनुरागिना ॥ ३८.७६४{२} ॥
एतत्पापविपाकेन ब्राह्मणः स दुराशयः ।
सूचीमुखो महाकायः प्रेतो भवति सांप्रतम् ॥ ३८.७६५{३} ॥
एतन्मया यथाख्यातं तथा तस्य पुरो वद ।
एतत्ते कथितं श्रुत्वा स्मृतिमान् स सुधीर्भवेत् ॥ ३८.७६६{४} ॥
ततः स स्वकृतं पापं सर्वं स्मृत्वादिशन् स्वयम् ।
त्रिरत्नस्मरणं कृत्वा समिछेच्चरितुं शुभे ॥ ३८.७६७{५} ॥
ततो विमुक्तपापः स परिशुद्धाशयः सुधीः ।
नमो बुद्धाय धर्माय संघायेति वदन् भजेत् ॥ ३८.७६८{६} ॥
ततस्तत्प्रेतलोकात्स समुत्थाय विकल्पकः ।
प्रेताशयं परित्यज्य ततोऽपि हि दिवं व्रजेत् ॥ ३८.७६९{७} ॥
इति तस्या महादेव्या समादिष्टं निशम्य सा ।
चूडदेवी प्रसन्नास्या पुनरेवं न्यवेदयत् ॥ ३८.७७०{८} ॥
भूयोऽपि पथि भो देवि दृश्यते दुःखिता मया ।
किं किं तैः प्रकृतं पापं तत्सर्वं समुपादिश ॥ ३८.७७१{९} ॥
इति संप्रार्थिते राज्ञ्या सा श्रीदेवी वसुंधरा ।
निशम्य चूडदेवीं तां समीक्ष्यैवमुपादिशत् ॥ ३८.७७२{१०} ॥
ते सर्वे पापिनो दुष्टा दशाकुशलचारिणः ।
अद्यापि दुःखसंतप्ता भ्रमंति भवसागरे ॥ ३८.७७३{११} ॥
यो हत्वा प्राणिनो भुंक्त सोऽल्पायुष्को भवे भ्रमन् ।
अद्यापि तद्विपाकेन तिष्ठत्येवं सुदुःखितः ॥ ३८.७७४{१२} ॥
योऽदत्तं द्रव्यमादाय प्राभुंक्त मिथ्ययाहरन् ।
स दरिद्रो महादुष्टो भवत्यद्यापि दुःखभाक् ॥ ३८.७७५{१३} ॥
(र्म् ४७०)
यो मिथ्याकामरागांधोऽगम्या अपि प्रभुक्तवान् ।
स स्वेष्टसुजनैस्त्यक्तो भवत्यरिवशे स्थितः ॥ ३८.७७६{१४} ॥
मृषावादेन यो लोकञ्जयन्नभ्यवंचयत् ।
स कुष्ठरोगवान् पूतिगंधवहो भवत्यपि ॥ ३८.७७७{१५} ॥
पिशुनवचनै यो सन्मित्रभेदं भवेऽकरोत् ।
सो पुण्यकलहोन्मादी सर्वशत्रुर्भवत्यपि ॥ ३८.७७८{१६} ॥
योऽसौ विभ्रत्सितो लोकैर्दुराकृतिर्दुराशयः ।
स पारुष्यवचसा लोकात्पुराक्रुय्यत्यभंदयत् ॥ ३८.७७९{१७} ॥
सर्वभिन्नेव वा योऽसौ निघ्नितो नाद्रितः कुधीः ।
स पुरा भिन्नवादेन लोकं भिन्नाशयं व्यधात् ॥ ३८.७८०{१८} ॥
योऽसौ विमोहितो मूर्खा विपन्नबुद्धिरुन्मनाः ।
साभिध्यायतसा लोके संपत्तीश्छद्मनाहतत् ॥ ३८.७८१{१९} ॥
विद्वेषी दुर्मता मोही योऽसौ सज्जनगर्हितः ।
स व्यापादखिलचित्तेन सत्वापकार उद्यतः ॥ ३८.७८२{२०} ॥
योऽसौ नीचा विषण्णात्मा हीनेंद्रियो दुराशयः ।
मिथ्यादृष्टि स सद्धर्ममधिक्षिप्त्वाभ्यनिंदयत् ॥ ३८.७८३{२१} ॥
इति ये दशा पापानि प्रकुर्वन्तो चरेन्मुदा ।
सर्वे ते पापिनो दुष्टा भवंति दुःखिनोऽधुना ॥ ३८.७८४{२२} ॥
एवं मया यथाख्यातं तथा तेषां पुरो वद ।
एतत्त्वदुक्तमाकर्ण्य स्मरेयुस्ते पुराकृतम् ॥ ३८.७८५{२३} ॥
ततस्ते दुर्गते भीताः सद्गतीतमनोत्सुकाः ।
सद्धर्मसाधनं कर्त्तुं समिछेयुः समादरात् ॥ ३८.७८६{२४} ॥
तदा तां पुर आमंत्र्य सर्वानेवं वदादरात् ।
यदि चास्ति शुभे वांछा त्रिरत्नं सेव्यतामिति ॥ ३८.७८७{२५} ॥
ततः सर्वे इमे यूयं निर्मुक्तपातका ध्रुवम् ।
सहसा सद्गतौ सौख्यं लभेध्वमिति चाब्रुहि ॥ ३८.७८८{२६} ॥
ततस्ते ते वचः श्रुत्वा सर्वे सत्सौख्य आलसाः ।
त्रिरत्नशरणं कृत्वा संप्रयायुः सुरालयम् ॥ ३८.७८९{२७} ॥
ये बुद्धे शरणं यांति न ते गंछंति दुर्गतीम् ।
क्रमात्पारमिताः पूर्य संबुद्धपदमाप्नुयुः ॥ ३८.७९०{२८} ॥
शृण्वंति ये च सद्धर्मं न ते गछंति दुर्गतीम् ।
सर्वदा सद्गतिं याताः प्रचरेयुः शुभे मुदा ॥ ३८.७९१{२९} ॥
ये भजंति मुदा संघे तेऽपि न यांति दुर्गतीम् ।
सदा लोकशुभं कृत्वा संप्रयायुः सुखावतीम् ॥ ३८.७९२{३०} ॥
कालसर्प्पो मया दृष्टो भूयो मार्गे महेश्वरि ।
किं तेन प्रकृतं पापं तद्वदस्व वसुंधरे ॥ ३८.७९३{३१} ॥
देव्युवाच
पुरा आढ्यो गृहस्थोऽभूद्विस्तीर्णपरिवारकः ।
संपदामुदयैर्नित्यं दानदस्येव संयुतः ॥ ३८.७९४{३२} ॥
तेन काकवलिं दातुं न प्रसेहे कदा चन ।
द्विजान् विनीपकान् दृष्ट्वा चित्तैः प्रादुषायेत्सदा ॥ ३८.७९५{३२*} ॥
कस्मै चिदपि किंचिद्वा ह्यदत्वा बुभुजे स्वयम् ।
सर्वधनस्वकोद्याने स्थापयामास दुर्मतिः ॥ ३८.७९६{३३} ॥
(र्म् ४७१)
पातकेनाऽधुना तेन कृष्णसर्प्पो भवत्यसौ ।
तस्यापि पुरतः सर्वं मदादिष्टं तथा वद ॥ ३८.७९७{३४} ॥
सोऽपि निर्मुक्तपापश्च मृतः स्वर्गं व्रजेद्ध्रुवम् ॥ ३८.७९८{३५} ॥
येनैव यत्कृतं कर्म तेनैव परिभुज्यते ।
अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ ३८.७९९{३६} ॥
इत्येतदेवमाख्यतं श्रुत्वा त्वं च समादरात् ।
त्रिरत्नभजनं कृत्वा चर मे व्रतमुत्तमम् ॥ ३८.८००{३७} ॥
तथा लोकेषु सर्वत्र प्रचारय मम व्रतम् ।
एतत्पुण्यविपाकेन सर्वदा ते भवेच्छुभम् ॥ ३८.८०१{३८} ॥
ततो बोधिमतिं प्राप्तः पुरायित्वा यथाक्रमम् ।
सर्वाः पारमिता होधिं प्राप्य बुद्धपदं व्रजेः ॥ ३८.८०२{३९} ॥
इति विज्ञाय कल्याणि गत्वा तं स्वपुरे पुनः ।
श्रद्धया स्वामिना सार्द्धं व्रतं चर समादरात् ॥ ३८.८०३{४०} ॥
इत्युक्त्वा सा महादेवी सगणा श्रीवसुंधरा ।
ततश्चांतर्हिता स्वर्गे स्वालयमागमद्द्रुतम् ॥ ३८.८०४{४१} ॥
तत्र सा चूडदेवी तां सगणां श्रीवसुंधराम् ।
अंतर्धानगतां दृष्ट्वा क्षणं तस्थौ सविस्मया ॥ ३८.८०५{४२} ॥
ततः सा चूडदेवी तां सगणां श्रीवसुंधराम् ।
स्मृत्वा कृतांजलिर्नत्वा ततः प्रत्याययौ मुदा ॥ ३८.८०६{४३} ॥
ततः सा चूडदेवी तां सगणां श्रीवसुंधराम् ।
मनसानुस्मरन्त्येव प्रचरंति न्यवर्त्ततः ॥ ३८.८०७{४४} ॥
तं कृष्णसर्पमालोक्य चूडदेवी ब्रवीति सा ।
देव्या यथा चोपदिष्टं तथा तेन पुराकृतम् ॥ ३८.८०८{४५} ॥
तन्नामस्मरणात्सो हित्यक्त्वा देहं दिवं ययौ ।
तत्र मार्गे समेत्यासौ चूडदेवी यथाक्रमम् ।
तां दशपापिनः सर्वान् समीक्ष्य समुपाचरत् ॥ ३८.८०९{४६} ॥
तत्र सा चूडदेवी तान् दशाकुशलचारिणः ।
पृष्ट्वा देव्या यथादिष्टं तथा सर्वमुपादिशत् ॥ ३८.८१०{४७} ॥
तच्छ्रुत्वानुस्मृतिं प्राप्ताः सर्वे ते विस्मयान्विताः ।
सत्यमिति प्रभाषंतः श्रीदेवीशरणं ययुः ॥ ३८.८११{४८} ॥
ततस्ते पापिनः सर्वे श्रीदेवीदृक्प्रभान्विताः ।
त्रिमण्डलविशुद्धाश्च शुभे चरितुमीछिरे ॥ ३८.८१२{४९} ॥
ततस्ते श्रद्धया नित्यं त्रिरत्नशरणं गताः ।
तां श्रीवसुंधरां देवीं ध्यात्व व्रतं समाचरन् ॥ ३८.८१३{५०} ॥
ततस्ते शुद्धितात्मानः सर्वेऽपि निर्मलाशयाः ।
तत्रैवं तां महादेवीं ध्यात्वा मृता दिवं ययुः ॥ ३८.८१४{५१} ॥
ततश्च चूडदेवी सा प्रचरंती समागता ।
सूचीमुखं तमालोक्य दूरतः समुपाचरत् ॥ ३८.८१५{५२} ॥
तत्र सा सहसा तस्य प्रेतस्य पुरतो गता ।
श्रीदेव्याः समुपादिष्टं तथा सर्वमभाषत ॥ ३८.८१६{५३} ॥
तच्छ्रुत्वा स पुरावृत्तमनुस्मृत्वा निचिंतयत् ।
पश्चात्तापाग्निसंतप्तः क्षणं तस्थौ विनिःश्वसन् ॥ ३८.८१७{५४} ॥
ततः स मनसा ध्यात्वा तां श्रीदेवीं वसुंधराम् ।
(र्म् ४७२)
स्मरन्ती सांजलिर्नत्वा दिदेश सर्वपातकम् ॥ ३८.८१८{५५} ॥
ततः स परिशुद्धात्मा निमुक्तपातकः सुधीः ।
श्रीदेवीशरणं गत्वा देहं त्यक्त्वा दिवं ययौ ॥ ३८.८१९{५६} ॥
ततश्च चूडदेवी सा प्रचरम्टी समागता ।
शूकरं तं समालोक्य दूरतः समुपाचरत् ॥ ३८.८२०{५७} ॥
ततः सोपस्थिता तस्य शूकरस्य पुराकृतम् ।
यथादिष्टं महादिव्या तथा सर्वमुपादिशत् ॥ ३८.८२१{५८} ॥
तच्छ्रुत्वा शूकरः सोऽपि समनुस्मृतिमाप्तवान् ।
तत्रानुतापसंतप्तः क्षणं तस्थौ विचिंतयन् ॥ ३८.८२२{५९} ॥
ततः स मनसा ध्यात्वा तां श्रीदेवीं वसुंधराम् ।
संस्मृत्वा सांजलिर्नत्वा दिदेश सर्वपातकम् ॥ ३८.८२३{६०} ॥
ततो निर्मुक्तपापोऽसौ परिशुद्धाशयः सुधीः ।
श्रीदेवीशरणं गत्वा देहं त्यक्त्वा दिवं ययौ ॥ ३८.८२४{६१} ॥
ततश्च चूडदेवी सा प्रचरंती समागता ।
दुरात्ते सरसी दृष्ट्वा सहसा समुपासरत् ॥ ३८.८२५{६२} ॥
तत्र सा समुपासृत्य पुष्करिण्योस्तयोः पुरः ।
महादेव्या यथादिष्टं तथा सर्वमुपादिशत् ॥ ३८.८२६{६३} ॥
तच्छ्रुत्वा पुष्करिण्यौ तौ समनुस्मृतिमाप्तुः ।
तत्रानुतापतप्ता तौ निधाय तष्ठतुः क्षणम् ॥ ३८.८२७{६४} ॥
ततस्ते मनसा ध्यात्वा तं श्रीदेवीवसुंधराम् ।
संस्मृत्वा सांजलिर्नत्वा दिदेशतुः स्वपापकम् ॥ ३८.८२८{६५} ॥
ततो विमुक्तपापौ तौ परिशुद्धाशयो द्रुतम् ।
पुष्करिण्याश्रयं त्यक्त्वा प्रययतुः सुरालयम् ॥ ३८.८२९{६६} ॥
तत्र सर्वेऽपि ते स्वर्गे गतास्तत्स्मृतिभाविनः ।
ध्यात्वा तां श्रीमहादेवीं स्मृत्वा नित्यं प्रभेजिरे ॥ ३८.८३०{६७} ॥
तत्र तेषां महादेव्याः प्रसादाच्छ्री प्रवर्द्धिताः ।
तच्छ्रीसंपन्महत्सौख्यं भुक्त्वा सर्वे तेऽरमन् ॥ ३८.८३१{६८} ॥
ततः सा चूडदेवी तान् सर्वान् कृत्वा विमुक्तितान् ।
स्वदेश्याभिमुखायाता स्व पुरांतिकमाययौ ॥ ३८.८३२{६९} ॥
तत्र तां समुपायातां दृष्ट्वा लोकाः प्रमोदिताः ।
सहसा नृपतेरग्रे गत्वैवं संन्यवेदयत् ॥ ३८.८३३{७०} ॥
जय देव महाराज चूडदेवी निवर्त्तिता ।
तद्भवान् सहसोपेत्य तां समानेतुमर्हति ॥ ३८.८३४{७१} ॥
इति निवेदितं तैः स राजा श्रुत्वा प्रमोदितः ।
सहसा मंत्रिणोऽमात्यान् समामंत्र्यैवमादिशत् ॥ ३८.८३५{७२} ॥
चूडदेवी समायाता तद्यूयं सहसादरात् ।
प्रत्युद्गम्य महोत्साहैरिहानयत तां प्रियाम् ॥ ३८.८३६{७३} ॥
इति राज्ञा समादिष्टं श्रुत्वा ते मंत्रिणो जनाः ।
अमात्याः सहसा सर्वे तथेत्युक्त्वा मुदाचरन् ॥ ३८.८३७{७४} ॥
ततस्ते मंत्रिणोऽमात्याः सजनाः पौरिका अपि ।
सर्वे प्रत्युद्गता तत्र चूडदेवी समाययुः ॥ ३८.८३८{७५} ॥
तत्र सर्वेऽपि ते लोका दृष्ट्वा तां सहसादरात् ।
प्रणत्वा यात आरोप्य महोत्साहैः पुरेऽनयत् ॥ ३८.८३९{७६} ॥
तत्र सा महिषी देवी महोत्साहप्रमोदिता ।
(र्म् ४७३)
प्रविश्य मंदिरे राज्ञः स्वामिनः समुपाचरत् ॥ ३८.८४०{७७} ॥
तत्र सा स्वामिनं दृष्ट्वा सहसोपेत्य सांजलिः ।
प्रणत्वा स्वामिना तेन सहासने समाश्रयत् ॥ ३८.८४१{७८} ॥
तत्र स नृपतिः स्वामि तां देवीं सुप्रियां मुदा ।
संपश्यन् कौशलं पृष्ट्वा पुन एवमपृछत ॥ ३८.८४२{७९} ॥
केन त्वं हेतुना कुत्र गता कुतोऽधुनागता ।
एतत्सर्वं समाख्याय मनो मे परिबोधय ॥ ३८.८४३{८०} ॥
इत्येतत्स्वामिना तेनादिष्टं चूडदेवी निशम्य सा ।
स्वप्रवृत्तांतमाख्याय मार्गवृत्तिं न्यवेदयत् ॥ ३८.८४४{८१} ॥
ततोऽहं सहसा याता द्रष्टुं देवीं वसुंधराम् ।
तत्र दूरान्नदीशब्दं श्रुत्वाहं समुपाचरम् ॥ ३८.८४५{८२} ॥
तत्र तीरे मया दृष्टा देव्या जलघटावहाः ।
भवंत्यः कुत आयाता इति पृष्टेऽवदं च ताः ॥ ३८.८४६{८३} ॥
वसुधारामहादेव्याः स्नानार्थमिमे घटाः ।
नीयंतेऽमृतसंपूर्णा अस्माभिरिति मन्यताम् ॥ ३८.८४७{८४} ॥
एषा नदी महादेवीस्नानामृतप्रवाहिता ।
तदेतदमृते नात्र मुखं प्रक्षाल्य दृश्यताम् ॥ ३८.८४८{८५} ॥
इति ताभिः समादिष्टं श्रुत्वा तथेति बोधिता ।
तन्नद्या अमृतेनास्यं प्रक्षाल्य क्षमहं तथा ॥ ३८.८४९{८६} ॥
तदा तत्र सभासीनां सगणां श्रिवसुंधराम् ।
अपश्यं तां नदीमाशु लंघित्वा समुपाचरम् ॥ ३८.८५०{८७} ॥
तत्राहं समुपाश्रित्य तान् देवीं श्रीवसुंधराम् ।
सगणां सांजलिर्नत्वा तत्रैकांते उपाश्रयम् ॥ ३८.८५१{८८} ॥
तदा सा श्रीमहादेवी मां दृष्ट्वैवमपृछत ।
कुतः किमर्थमायासि तदिह कथ्यतामिति ॥ ३८.८५२{८९} ॥
तच्छ्रुत्वा सांजलिर्नत्वा कृत्वा चापि प्रदक्षिणाम् ।
सगणां तां महादेवीमुपाश्रित्यैवमब्रुवम् ॥ ३८.८५३{९०} ॥
सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया ।
भवत्या दर्शनं कर्त्तुं मुदात्र समुपाचरे ॥ ३८.८५४{९१} ॥
यन्मया मंदभाविन्या व्रतं सम्यग्न धारितम् ।
तन्महदपराधं मे भवता क्षंतुमर्हति ॥ ३८.८५५{९२} ॥
सर्वदाहं महादेवी भवत्याः शरणे स्थिता ।
सम्यग्व्रतं पुनर्धर्त्तुमिछामि सांप्रतं खलु ॥ ३८.८५६{९३} ॥
तद्भवंती महादेवी कृत्वा मेऽनुग्रहं पुनः ।
कृपया तद्व्रतालंभं कारयितुं समर्हति ॥ ३८.८५७{९४} ॥
इति मयार्थितं श्रुत्वा सा श्रीदेवी वसुंधरा ।
कृपादृष्ट्या समालोक्य मामेवं समुपादिशत् ॥ ३८.८५८{९५} ॥
साधु वत्सेऽस्ति ते वांचा यदि मे व्रतधारणे ।
गत्वा त्वं स्वगृहे भर्त्रा सह व्रतं चरादरात् ॥ ३८.८५९{९६} ॥
तदाहं स्वयमागत्य द्रक्ष्यामि मंदिरं तव ।
तत्राहं समुपाश्रित्य दास्यामि प्रार्थितं वरम् ॥ ३८.८६०{९७} ॥
इत्यादिष्टं महादेव्या श्रुत्वाहं परिबोधिता ।
तां श्रीवसुंधरां देवीमपृछं पुनरादरात् ॥ ३८.८६१{९८} ॥
(र्म् ४७४)
देवि मार्गस्थितैर्लोकैः संदर्शितं मयोच्यते ।
तद्भवंती समाख्याय मां बोधयितुमर्हति ॥ ३८.८६२{९९} ॥
तच्छ्रुत्वा सा महादेवी तैः सर्वैः प्रकृतं यथा ।
तत्तत्सर्वं तथा तेषां कर्म मे समुपादिशत् ॥ ३८.८६३{१००} ॥
ततोऽहं श्रद्धया भक्तिमात्रेण तं वसुंधराम् ।
श्रीदेवीं सगणां चापि समार्चयं समादरात् ॥ ३८.८६४{१} ॥
ततः प्रदक्षिणां कृत्वा कृतांजलिपुटो मुदा ।
अष्टांगैः श्रीमहादेव्याः पादाब्जे प्रणतापतम् ॥ ३८.८६५{२} ॥
ततः सा सगणा देवी क्षणादंतर्हिताभवत् ।
तत उत्थाय तां देवीं नैवापश्यत्कुहापि च ॥ ३८.८६६{३} ॥
ततोऽहं विस्मयाक्रांतहृदया तत्र कृतांजलिः ।
स्मृत्वा सगणां देवीं नत्वा शनैस्ततोऽचरम् ॥ ३८.८६७{४} ॥
तत्र मार्गे समासाद्य सर्वान्स्तान् पापिनः क्रमात् ।
महादेव्या यदादिष्टं तथाख्याय व्यनोदयम् ॥ ३८.८६८{५} ॥
ततस्ते पापिनः सर्वे वचसा मेऽनुतापिताः ।
श्रीदेवीशरणं कृत्वा देहं त्यक्त्वाचरन् दिवम् ॥ ३८.८६९{६} ॥
एतान् सत्वान् समुद्धृत्य श्रीदेव्याः संप्रसादतः ।
क्षेमेणेह समायाता भवतां दर्शनं लभे ॥ ३८.८७०{७} ॥
इत्येवं सर्ववृत्तांतं चूडादेव्या निवेदितम् ।
श्रुत्वा स नृपतिः स्वामी विस्मितश्चैवमब्रवीत् ॥ ३८.८७१{८} ॥
अहो भाग्येन संप्राप्ता श्रीदेव्या संप्रसादतः ।
भार्या त्वं महिषी चापि व्रतं श्रीसंपदोऽपि मे ॥ ३८.८७२{९} ॥
तथा भूयोऽप्यहं देव्या यथादिष्टं समादरात् ।
सह त्वया महिष्यात्र चराणि सर्वदा व्रतम् ॥ ३८.८७३{१०} ॥
किमेतद्राज्यभोग्येन विना त्वां महिषीं मम ।
एतदेव हि संसारं यत्सभार्या व्रतं चरेत् ॥ ३८.८७४{११} ॥
तदावां सर्वदापीह श्रीदेव्याः शरणं गतौ ।
श्रद्धया व्रतमाराध्य प्रभजेव समादरात् ॥ ३८.८७५{१२} ॥
इत्येवं समुपादिश्य नृपतिः संप्रमोदितः ।
ताभ्यां युतो महोत्साहैः श्रीनगरं समाययौ ॥ ३८.८७६{१३} ॥
तया देव्या सुभाविन्या सहाभ्यानंदितोऽरमत् ।
दिनैकस्मिंश्चूडदेवी ततो गर्भन् दधौ क्रमात् ॥ ३८.८७७{१४} ॥
प्रासूत सप्तमे मासि राजलक्षणमंडितम् ।
प्रासादिकं सुपीनांगं पुत्रं ब्राह्मे मुहुर्त्तके ॥ ३८.८७८{१५} ॥
ततः पिता समाहूय सर्वानमात्यमंत्रिणः ।
श्रीसेनगुप्तमाचार्यं पप्रछ जन्मकारणम् ॥ ३८.८७९{१६} ॥
सेनगुप्तो विचार्यैवं बोधयन्नृपमब्रवीत् ॥ ३८.८८०{१७} ॥
मा विषीदात्र राजेन्द्र युतो यद्राजलक्षणैः ।
योगोऽयं सार्वभौमः स्यात्सप्तमासफलं शृणु ॥ ३८.८८१{१८} ॥
प्रथमे कललं विद्याद्द्वितीये घनमेव च ।
तृतीयमास्यं क्रूरं च चतुर्थेऽस्थिसमुच्चयः ॥ ३८.८८२{१९} ॥
पंचमे चर्मसंछन्नः षष्ठेऽंगजसमुद्भवः ।
सप्तमे चेतनावाप्तिरिति गर्भस्थलक्षणम् ॥ ३८.८८३{२०} ॥
(र्म् ४७५)
यो बालः सप्तमे मासि जायते स तु भाग्यभाक् ।
सार्वभौम नृपो भूत्वा महीं शास्ति सुनीतितः ॥ ३८.८८४{२१} ॥
तस्मान्नृपेंद्र तं बालं रक्षणीयः प्रयत्नतः ।
इत्याचार्यवचः श्रुत्वा स राजा परिमोदितः ।
जातकर्मादिकं कर्म महोत्सवैरकारयत् ॥ ३८.८८५{२२} ॥
तदाचार्यः सेनगुप्तो व्रतमंगलकारकम् ।
इति मत्वा नाम चक्रे मंगलोदय इत्यपि ॥ ३८.८८६{२३} ॥
ततो बालः शुक्लपक्षे चंद्र इव दिने दिने ।
पुपोष वृद्धिं सहसा तेजोबलसमन्वितः ॥ ३८.८८७{२४} ॥
ततो राजकुले राजा भार्यापुत्रसमन्वितः ।
वसुंधराव्रतोत्साही मुदितः समुपस्थितः ॥ ३८.८८८{२५} ॥
ततो व्रतदिनप्राप्ते भार्यया सह संमतम् ।
कृत्वा स भूपती राजा व्रतं चरितुमैछत ॥ ३८.८८९{२६} ॥
ततस्तद्व्रतसामग्रीं साधयित्वा यथाविधि ।
आचार्येण यथादिष्टं तथा सर्वं समाचरत् ॥ ३८.८९०{२७} ॥
श्रीदेव्या व्रतमाराध्य समहिषी स भूपतिः ।
यथाविधि सुसंपूर्ण प्रचचार समादरात् ॥ ३८.८९१{२८} ॥
तस्मिन्नवसरे तत्र सा श्रीदेवी वसुंधरा ।
सगणा स्वयमागत्य भासयंती समाश्रयत् ॥ ३८.८९२{२९} ॥
तां श्रीवसुंधरां देवीं सगणां समुपाश्रिताम् ।
साक्षादालोक्य राजा स सभार्यः समुपस्थितः ॥ ३८.८९३{३०} ॥
पादार्घं सहसा दत्वा पूजांगैश्च समर्चयत् ।
कृत्वा प्रदक्षिणां नत्वा सांजलिर्न्यपतत्पुरः ॥ ३८.८९४{३१} ॥
ततः सा श्रीमहादेवी वसुलक्ष्मी विलोक्य तम् ।
सभार्यं नृपमुत्थाय समालोक्यैवमादिशत् ॥ ३८.८९५{३२} ॥
शृणु राजन्महाभाग यथा ते यत्समीप्सितम् ।
सर्वं तेऽहं प्रवक्ष्यामि सत्यमेतद्वचो मम ॥ ३८.८९६{३३} ॥
इत्यादिष्टे महालक्ष्म्या सभार्यः स नृपो मुदा ।
तां देवीं सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ ३८.८९७{३४} ॥
नमस्ते श्रीमहादेवी प्रसीद परमेश्वश्री ।
यथा ते ईहितं कार्यं तदेव देहि मे वरम् ॥ ३८.८९८{३५} ॥
एतत्संप्रार्थितं राज्ञा श्रुत्वा सा श्रीमहेश्वरी ।
सभार्यं तं महीपालं समालोक्यैवमादिशत् ॥ ३८.८९९{३६} ॥
साधु राजन् स्वयं धृत्वा व्रतं सर्वत्र चारय ।
कृत्वैतन्मे महत्कार्यं ततः प्रैहि ममालयम् ॥ ३८.९००{३७} ॥
इत्यादिश्य ततः सा श्रीमहादेवी वसुंधरा ।
सगणा तत्क्षणादंतर्हिता स्वं भुवनं ययौ ॥ ३८.९०१{३८} ॥
ततः स सप्रियो राजा तां देवीं सगणामपि ।
सर्वामन्तर्हितां दृष्ट्वा क्षणं तस्थौ सविस्मयः ॥ ३८.९०२{३९} ॥
ततस्तथा स भूमीन्द्रो भार्यया सह सर्वदा ।
श्रीदेव्याः शरणं गत्वा व्रतं धृत्वा समाचरत् ॥ ३८.९०३{४०} ॥
तथा सर्वत्र लोकेषु श्रीदेव्या व्रतमादिशत् ।
बोधयित्वा प्रयत्नेन प्राचारयत्समंततः ॥ ३८.९०४{४१} ॥
तथा स नृपतिर्देव्या व्रतं सर्वत्र चारयन् ।
(र्म् ४७६)
सर्वेषामपि सत्वानां मंगलं सर्वदाकरोत् ॥ ३८.९०५{४२} ॥
एतत्पुण्यविपाकेन स राजा श्रीसमन्वितः ।
दिव्यातिरिक्तसौख्यानि लब्ध्वा सदा शुभेऽचरत् ॥ ३८.९०६{४३} ॥
ततः स नृपती राजा सर्वार्थिभ्यो यथेप्सितम् ।
संबोधिप्रणिधानेन दत्वा व्रतं सदाचरत् ॥ ३८.९०७{४४} ॥
तथा स भूपती राजा भार्यया सह मोदितः ।
श्रीदेव्याः प्रदधे भक्त्या व्रतं साष्टोत्तरं शतम् ॥ ३८.९०८{४५} ॥
ततः स भार्यया सार्द्धमभिषिंच्यात्मजं सुतम् ।
स्वपदे लोकधर्मार्थं कृत्वान्ते तुषिते ययौ ॥ ३८.९०९{४६} ॥
ततः स सप्रियस्तत्र श्रीदेव्याः समुपस्थितः ।
सर्वदा भजनं कृत्वा श्रीमान्स्तस्थौ शुभे चरन् ॥ ३८.९१०{४७} ॥
तत्र स सर्वदा सत्वहितं कृत्वा सुखान्वितः ।
सर्वाः पारमिताः पूर्य संबुद्धपदमाप्स्यति ॥ ३८.९११{४८} ॥
तदारभ्य सदा सर्वलोकेषु सततं शुभम् ।
त्रिरत्नभजनोत्साहं प्रवर्त्तते कृताविव ॥ ३८.९१२{४९} ॥
तदा भुवि तथा देव्या स्वयं व्रतं प्रचारितम् ।
इत्येतन्मुनिभिः सर्वैः ख्यातमिति श्रुतं मया ॥ ३८.९१३{५०} ॥
एतन्मे गुरुणाख्यातं श्रुतं मय तथोच्यते ।
त्वं चाप्येवं महाराज श्रीदेव्याश्चर तद्व्रतम् ॥ ३८.९१४{५१} ॥
तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद्ध्रुवम् ।
श्रीदस्येव महासंपदक्षीणा संभवेत्खलु ॥ ३८.९१५{५२} ॥
ततस्त्वं श्रीसमाधारा दत्वार्थिभ्यो यथेप्सितम् ।
त्रिरत्नभजनं कृत्वा संबुद्धपदमाप्नुयाः ॥ ३८.९१६{५३} ॥
एवं मत्वा महाराज प्रजाश्चापि प्रबोधयन् ।
श्रीदेव्याः शरणे स्थाप्य सदा व्रतं प्रचारय ॥ ३८.९१७{५४} ॥
तथा सत्वहितं कर्तुं संबोधिरत्नलब्धये ।
श्रीदेव्या धारणीविद्या प्रधातव्या सदादरात् ॥ ३८.९१८{५५} ॥
एतत्पुण्यानुभावेन सर्वत्र सर्वदा भवे ।
भवेतं मंगलोत्साहं सततं निरुपद्रवम् ॥ ३८.९१९{५६} ॥
अतीतैरपि संबुद्धैः सर्वैरपि मुनीश्वरम् ।
श्रीदेव्या धारणीविद्यारत्नैर्लोकहितं कृतम् ॥ ३८.९२०{५७} ॥
तथाधुनापि सर्वैश्च वर्त्तमानैर्मुनीश्वरम् ।
त्रिदेव्या धारणीविद्यारत्नैः सत्वशुभं कृतम् ॥ ३८.९२१{५८} ॥
तथा चानागतैः सर्वै मुनीन्द्रैरपि सर्वतः ।
श्रीदेव्या धारणीविद्यारत्नैः करिष्यते शिवम् ॥ ३८.९२२{५९} ॥
सर्वेऽपि सुगता नाथा बोधिसत्वाः कृपालवः ।
श्रीदेवीसंप्रसादेन चरन्तो भद्रचारिकाम् ॥ ३८.९२३{६०} ॥
आर्य्यसद्धर्ममादिश्य प्रकुर्वते जगद्धितम् ।
एवं जगद्धितं कर्त्तुं संबोधिरत्नमीप्सुभिः ।
श्रीदेव्या धारणीं धृत्वा चरितव्यं जगद्धिते ॥ ३८.९२४{६१} ॥
ये चापि श्रीमहादेव्या धारणीं श्रद्धयादरात् ।
भक्त्या पठंति शृण्वंति पाठयन्त्यपि सर्वदा ॥ ३८.९२५{६२} ॥
लिखित्वा पुस्तके वापि गृहे स्थाप्य सदादरात् ।
(र्म् ४७७)
सत्कृत्य श्रद्धयाभ्यर्च्य धृत्वांजलिं नमंति ये ॥ ३८.९२६{६३} ॥
तथा भुर्जे लिखित्वा च वाहौ कण्ठे च मस्तके ।
श्रीदेव्या धारणीविद्यारत्नं दधति ये सदा ॥ ३८.९२७{६४} ॥
एतेषामपि सर्वेषां गृहेषु विषयेष्वपि ।
सर्वत्र मंगलं नित्यं निर्विघ्नं सर्वदा भवेत् ॥ ३८.९२८{६५} ॥
ईतय उपसर्गाश्च महोत्पाता उपद्रवाः ।
न तेषां विषये क्वापि प्रचरेयुः कदा चन ॥ ३८.९२९{६६} ॥
ज्वराश्च विविधा रोगाः सर्वसंहारकारकाः ।
तेसां कायेषु सर्वत्र न स्पृशेयुः कदा चन ॥ ३८.९३०{६७} ॥
अपथ्यमपि पथ्यं स्याद्विषोऽपि चामृतं भवेत् ।
तेषां देहेषु सर्वत्र हितायतेऽहितोऽपि च ॥ ३८.९३१{६८} ॥
ब्रह्मशक्रादयो देवा ये दुष्टा वह्नयोऽपि च ।
यमस्य किंकराश्चापि राक्षसा गरुडा अपि ॥ ३८.९३२{६९} ॥
नागाश्च वायवश्चापि यक्षगंधर्वकिंनराः ।
भूतप्रेतपिशाचाश्च कुम्भाण्डाः कटपूतनाः ॥ ३८.९३३{७०} ॥
एवमन्येऽपि ये दुष्टाः सर्वसत्वभयंकराः ।
सर्वे ते विषये तेषां विघ्नं कर्त्तुं न शक्नुयुः ॥ ३८.९३४{७१} ॥
सर्वे देवादयोऽप्येते त्रिधातुभुवनस्थिताः ।
तेषां देवीप्रभावेन रक्षेयुश्च प्रसादिताः ॥ ३८.९३५{७२} ॥
तेषां कार्याणि सर्वाणि संसिद्ध्येयुरविघ्नतः ।
तेषां सर्वत्र कायेषु किंचिद्विघ्नं भवेन्न हि ॥ ३८.९३६{७३} ॥
सर्वत्र गछतां तेषां सलाभसिद्धिमंगलम् ।
भवेदेव सदा नैव विघ्नता स्यात्कदा चन ॥ ३८.९३७{७४} ॥
श्रीदेवीकृपादृष्टिप्रभावेन समंततः ।
सर्वार्थसाधने सिद्धिर्भवेन्न तु विघातता ॥ ३८.९३८{७५} ॥
सर्वेऽपि लोकपालाश्च देवादयो महर्द्धिकाः ।
यतयो योगिनः सिद्धा ऋषयो ब्रह्मचारिणः ॥ ३८.९३९{७६} ॥
ग्रहास्तारागणाः सर्वा योगिन्यो भैरवा अपि ।
डाकिन्यो मातृकाष्टाश्च महाकालगणा अपि ॥ ३८.९४०{७७} ॥
एवमन्येऽपि वीरेशाः सर्वदुष्टप्रमर्दकाः ।
सृष्टिसंस्थितिसंहारकारका भीमरूपिणः ॥ ३८.९४१{७८} ॥
तेऽपि सर्वे समालोक्य श्रीदेवीसेवकान्मुदा ।
कृपार्द्दाः समुपाश्रित्य रक्षेयुः सर्वदानुगाः ॥ ३८.९४२{७९} ॥
सर्वेऽपि भिक्षवो बुद्धा अर्हन्तो ब्रह्मचारिणः ।
श्रीदेवी भाविनो दृष्ट्वा संरक्षेयुः प्रसादिताः ॥ ३८.९४३{८०} ॥
सर्वे प्रत्येकबुद्धाश्च ताञ्छ्रीदेव्या उपाश्रिकान् ।
दूरतः सुदृशालोक्य संरक्षेयुः प्रसादिताः ॥ ३८.९४४{८१} ॥
बोधिसत्वाश्च सर्वेऽपि तांच्छ्रीदेव्या उपासकान् ।
यथेप्सितं वरं दत्वा पालयेयुः कृपान्विताः ॥ ३८.९४५{८२} ॥
सर्वेऽपि सुगता बुद्धाः श्रीदेव्याः शरणे स्थितान् ।
सुदृशा सर्वदालोक्य स भवेयुर्दयान्विताः ॥ ३८.९४६{८३} ॥
एवं सर्वेऽपि लोकेशा ब्रह्मा विष्णुशिवादयः ।
श्रीदेवीधारणीविद्याधरां रक्षेयुरादरात् ॥ ३८.९४७{८४} ॥
एवं सर्वैर्महाभिज्ञैर्मुनीन्द्रैर्गदितं खलु ।
(र्म् ४७८)
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ॥ ३८.९४८{८५} ॥
श्रुत्वा राजंस्त्वमप्येवं तच्छ्रीदेवीव्रतं चर ।
ततस्ते श्रीमहादेवीव्रतपुण्यानुभावतः ॥ ३८.९४९{८६} ॥
महासंपत्प्रवृद्धा स्यादक्षीणा सर्वदा स्थिरा ॥ ३८.९५०{८७} ॥
ततस्त्वं तद्द्रव्यमादाय सर्वार्थिभ्यो यथेप्सितम् ।
दत्वा चरच्छुभे सौख्यं भुंक्ष्व संपालयन् प्रजाः ॥ ३८.९५१{८८} ॥
एतत्पुण्यविपाकेन दुर्गतीं न व्रजेः क्वचित् ।
सर्वदा सद्गतीं याता धर्मे चरन् सुखं वसेः ॥ ३८.९५२{८९} ॥
इति मत्वा महाराज श्रीदेव्याः शरणं गतः ।
सद्धर्मं स्वयमाकर्ण्य लोकाश्च श्रावय प्रभो ॥ ३८.९५३{९०} ॥
सर्वेषामपि संसारे धर्म एव सुहृत्सखा ।
तस्मादत्र प्रयत्नेन धर्म एव समर्ज्याम् ।
धर्मं तु सर्वधर्माणां प्रश्रेष्ठं सौगतं वरम् ॥ ३८.९५४{९१} ॥
यतः सर्वत्र लोकेषु संसारे भद्रता सदा ।
तस्मात्सर्वत्र संसारे सदा भद्रं समीप्सुभिः ।
सत्कृत्य सौगतं धर्मं श्रोतव्यं श्रद्धयादरात् ॥ ३८.९५५{९२} ॥
येऽप्यत्र सौगतं धर्मं शृण्वंति श्रद्धयादरात् ।
दुर्गतीं ते न गछंति संयांति सद्गतीं सदा ॥ ३८.९५६{९३} ॥
ये चापि सौगतं धर्मं श्रावयंति परानपि ।
तेऽपि न दुर्गतीं यांति यांति सद्गतिमेव हि ॥ ३८.९५७{९४} ॥
यश्चापि सौगतं धर्मं प्रभाषति प्रबेधयन् ।
सोऽपि न दुर्गतिं याति संप्रयायात्सुखावतीम् ॥ ३८.९५८{९५} ॥
यस्यापि स्यात्कलौ पंचकषायक्लेशसंकुले ।
दुर्लभं सौगतं धर्मं वक्ता श्रोता च दुर्लभः ॥ ३८.९५९{९६} ॥
तदा तान् क्लेशिताल्लोकान् दृष्ट्वा घृणादयाहतः ।
स्वकायजीवितस्नेहं त्यक्त्वा यो धर्ममादिशेत् ॥ ३८.९६०{९७} ॥
स एव हि महाभिज्ञो धीरः सुधीर्विचक्षणः ।
सर्वक्लेशविजेता च मारजित्स्याज्जिनात्मजः ॥ ३८.९६१{९८} ॥
यश्चापि च तदा क्लेशसंघसमाकुले तथा ।
त्यक्तः स्वप्राणकायो यः सद्धर्मं शृणुयान्मुदा ॥ ३८.९६२{९९} ॥
सापि धीरो महावीरः सर्वक्लेशाभिमर्दकः ।
संबोधिमार्गसंप्राप्तो ज्ञातव्यो हि जिनप्रियः ॥ ३८.९६३{१००} ॥
यश्चाप्येव कलौ काले सद्धर्मान्तर्हिते तथा ।
निस्नेहस्वासुकायो यः सद्धर्मं श्रावयेत्परान् ॥ ३८.९६४{१} ॥
सऽपि स्यात्सुगतपुत्रो महाधीरो विशारदः ।
सर्वसर्वहिताकांक्षी बोधिसत्वः सुधीः कृती ॥ ३८.९६५{२} ॥
यश्चापि परतः श्रुत्वा सद्धर्मं सौगतोदितम् ।
अनुमोदेत्प्रसन्नात्मा सोऽपि स्यात्सुगतात्मजः ॥ ३८.९६६{३} ॥
सर्वतीर्थाभिषेके यत्पुण्यं तत्सर्वमाप्नुयुः ।
सर्वत्र सज्जना नूनं कर्त्तव्यं नात्र संशयम् ॥ ३८.९६७{४} ॥
यावंतः प्राणिनः सत्वास्तान् सर्वान् यो हि पालयेत् ।
तस्य यावन्महत्पुण्यं तत्सर्वं ते समाप्नुयुः ॥ ३८.९६८{५} ॥
(र्म् ४७९)
यावंतो भिक्षवोऽर्हन्तस्तान् सर्वान् यः समर्चयेत् ।
तस्य पुण्यफलं यावत्तत्सर्वं ते ह्यवापुयुः ॥ ३८.९६९{६} ॥
यावत्प्रत्येकबुद्धाश्च तान् सर्वान् यो भजेन्मुदा ।
यावत्पुण्यफलं तस्य लभेयुस्ते ततोऽर्थिकम् ॥ ३८.९७०{७} ॥
यावंतः सुगताश्चापि तान् सर्वान् यः सदा भजेत् ।
यावत्पुण्यं महत्तस्य लभेयुस्ते ततोऽधिकम् ॥ ३८.९७१{८} ॥
यावंतो भूतले गवस्तान् सर्वाञ्छ्रद्धया ददेत् ।
तस्य यावन्महत्पुण्यं प्राप्नुयुस्ते ततोऽधिकम् ॥ ३८.९७२{९} ॥
मेरुप्रमाणसौवर्णरत्नराशिं च यो ददेत् ।
तस्य पुण्यमसंख्येयं प्रयायुस्ते ततोऽधिकम् ॥ ३८.९७३{१०} ॥
साब्धिशैलं महीं सर्वां श्रद्धया यः समर्प्पयेत् ।
तस्य बहुतरं पुण्यं सम्यायुस्ते ततोऽधिकम् ॥ ३८.९७४{११} ॥
सौषधीद्रव्यभोग्यादीन् प्रदद्याच्छ्रद्धयापि च ।
तस्य पुण्यमसंख्येयं लभेयुस्ते ततोऽधिकम् ॥ ३८.९७५{१२} ॥
यस्य कल्पसहस्राणि तृणाम्बुप्राशनस्तयेत् ।
यावंतस्य महत्पुण्यं लभेयुस्ते ततोऽधिकम् ॥ ३८.९७६{१३} ॥
यज्ञकोटिसहस्राणि कुर्याद्यः श्रद्धया मुदा ।
तावत्तस्य महत्पुण्यं प्राप्नुयुस्ते ततोऽधिकम् ॥ ३८.९७७{१४} ॥
एवं यावंति पुण्यानि दानव्रतोद्भवान्यपि ।
संति ततोऽधिकं पुण्यं ते सर्वे समवाप्नुयुः ॥ ३८.९७८{१५} ॥
इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः ।
एतन्मे गुरुणादिष्टं श्रुतं मया च वक्ष्यते ॥ ३८.९७९{१६} ॥
एतत्सत्यं परिज्ञाय यदि संबोधिमिछसि ।
सदा सद्धर्ममाकर्ण्य त्रिरत्नभजनं कुरु ॥ ३८.९८०{१७} ॥
प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ ३८.९८१{१८} ॥
ततस्ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ३८.९८२{१९} ॥
एतत्तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेत्यभ्यनुमोदित्वा प्राभ्यनंदत्सपार्षदः ॥ ३८.९८३{२०} ॥
ततः स उपगुप्तोऽर्हन् विहारे समुपाश्रयेत् ।
सोऽशोकोऽपि महाराजस्तथा धर्मं सदाचरत् ॥ ३८.९८४{२१} ॥
एतदेवं समाख्याय जयश्री स जिनात्मजः ।
सर्वासां शिष्यसंघांश्च समामंत्र्यैवमादिशत् ॥ ३८.९८५{२२} ॥
सुभाषितमहारत्नमालामिमां प्रभाषति ।
यो यत्र मेव शृण्वंति श्रावयंत्यपि ये मुदा ॥ ३८.९८६{२३} ॥
श्रुत्वानुमोदंति ये च दृष्ट्वा नमंति ये मुदा ।
सत्कृत्य श्रद्धया नित्यं समभ्यर्च्य भजंति ये ॥ ३८.९८७{२४} ॥
एतेषां तत्र सर्वेषां भवंतु मंगलं सदा ।
जयश्री परिवृद्धास्तु सर्वत्र सर्वदापि च ॥ ३८.९८८{२५} ॥
ईतय उपसर्गाश्च सर्वे विघ्नगणा अपि ।
दुष्टा मारगणांश्चापि विलयं यांतु सर्वदा ॥ ३८.९८९{२६} ॥
गृहेषु सर्वदा तेषं लक्ष्मीस्तिष्ठतु सुस्थिराः ।
(र्म् ४८०)
धर्मार्थकामभोग्याश्च संसिद्ध्यंतु स मेधिताः ॥ ३८.९९०{२७} ॥
नीरोगा सुचिरायुष्का भवंतु ते सुखान्विताः ।
विरतपापकर्माणः प्रचरंतु शुभे सदा ।
त्रिरत्नभजनं कृत्वा भवंतु ब्रह्मचारिणः ॥ ३८.९९१{२८} ॥
सर्वसत्वहितैः कृत्वा भुक्त्वा भद्रसुखं सदा ।
क्रमात्पारमिताः पूर्य व्रजंतु सौगतं पदम् ॥ ३८.९९२{२९} ॥
एतत्पुण्यानुभावेन तत्र सर्वत्र सर्वदा ।
भवंतु मंगलं नित्यं सुभिक्षं निरुपद्रवम् ॥ ३८.९९३{३०} ॥
सर्वे सत्वाश्च सद्धर्मं साधयंतु समुद्यताः ।
त्रिरत्नभजनोत्साहैः सर्वे व्रजंतु सौगतिम् ॥ ३८.९९४{३१} ॥
काले वर्षंतु मेघाश्च भूयाच्छस्यवती मही ।
बहुक्षीरप्रदा गावो भवंतु वत्सलान्विताः ॥ ३८.९९५{३२} ॥
सर्वदा सुफलैः पुष्पं वृक्षाः संतु समन्विताः ।
राजा भवंतु धार्मिष्ठो नयस्थाः संतु मंत्रिणः ॥ ३८.९९६{३३} ॥
सर्वे सैन्याश्च योधारो जयंतु दूर्जनान्नरीन् ।
सर्वेतयः प्रशाम्यंतु संतु सौख्यान्विताः प्रजाः ॥ ३८.९९७{३४} ॥
नीरुजाः सुखसंपन्नाः श्रीसंपत्तिसमन्विताः ।
ब्रह्मादि लोकपालाश्च दशदिक्पा महर्द्धिकाः ।
विघ्नाञ्जित्वा शुभं कृत्वा पालयंतु प्रजाः सदा ॥ ३८.९९८{३५} ॥
सर्वे त्रैधातुलोकाश्च कृत्वा मैत्रीं परस्परम् ।
त्रिरत्नभजनं कृत्वा चरंतु बोधिचारिकाम् ॥ ३८.९९९{३६} ॥
सर्वे भद्राणि पश्यंतु मा कश्चित्पापमाचरत् ।
सर्वत्र शासनं बौद्धं धृत्वा यांतु जिनालयम् ॥ ३८.१०००{३७} ॥
एवं जयश्रीर्मुनिराजकल्पः संबोधिचर्याप्रविकाशहेतोः ।
सर्वान् स्वशिष्यान् परिबोधयन् सः समादिदेश श्र्यवदानमालाम् ।
श्रुत्वापि ते सर्व उदारचित्ताः श्रुत्वा सलोका अभिनंद्यमानाः ।
सद्धर्ममाश्रित्य सदा त्रिरत्नं भक्त्या भजंत व्यहरन् प्रमादा ॥ ३८.१००१{३८} ॥
यत्रेदं सूत्रराजेंद्रं प्रावर्त्तयेत्कलावपि भाषेद्यः शृणुयाद्यश्च श्रावयेद्यश्च चारयेत् ।
एतेषां तत्र सर्वेषां संबुद्धाः सकला सदा कृपादृष्ट्या समालोक्य कुर्वंतु भद्रमाभवं सर्वाः पारमिता देव्यस्तेसां तत्र सदा शिवम् ।
कुर्वन्त्यो बोधिसंभारं पूरयंतु जगद्धिते ।
अनेन सद्धर्मरसामृतेन सर्वज्ञभास्वद्वदनोद्भवेन ।
क्लेशानलप्रह्वरिरातुरासु प्रजासु दुःखं प्रशमोऽस्तु नित्यम् ॥ ३८.१००२{३९} ॥
++ इति सुभाषितरत्नावदानतत्वे वसुधारा व्रतकथा समाप्ता ++
श्रेयोऽस्तु सम्वत्१०२८ माघमासे कृष्णपक्षे द्वितीयायां तिथौ पूर्वफाल्गुणीनक्षत्रे सुद्धयोगे बुधवासरे कुंभराशिगते सवितरि सिंहराशिगते चंद्रमसि एतद्दिने संपूर्णमिदैः पुस्तकं (र्म् ४८१) मानदेवसंस्कारितचक्रमहाविहारे निवासितः वज्राचार्य्यश्रीधर्म्मराजेन लिखितमिदं पुस्तकमेतत्पुण्येन धर्म्मार्थकाममोक्षान् प्राप्तिमस्तु श्वपुस्तकसुनानं लोभयायमदु ॥