रसरत्नसमुच्चय : अध्याय 04

मणयः

मणयोऽपि च विज्ञेयाः सूतबन्धस्य कारकाः ।। रस-४.१ ।।

वैक्रान्तः सूर्यकान्तश्च हीरकं मौक्तिकं मणिः ।। रस-४.२ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • राजावर्तो राउटी इति ब्रिजभाषायाम् ।। रसटी-४.२;१


चन्द्रकान्तस्तथा चैव राजावर्तश्च सप्तमः ।


  • टीका रससरत्नसमुच्चयटीका:
  • गरुडोद्गारकं तार्क्ष्यं मरकत इत्यपरपर्यायद्वयम् ।। रसटी-४.३कख;१
  • पन्ना इति लोके प्रसिद्धम् ।। रसटी-४.३कख;२



गरुडोद्गारकश्चैव ज्ञातव्या मणयस्त्वमी ।। रस-४.३ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • पुष्परागं पुख्राज् इति लोके प्रसिद्धम् ।। रसटी-४.४कख;१

$

  • टीका रससरत्नसमुच्चयटीका:
  • महानीलमिन्द्रनीलम् ।। रसटी-४.४कख;१

$

  • टीका रससरत्नसमुच्चयटीका:
  • पद्मरागं माणिक्यम् ।। रसटी-४.४कख;१



पुष्परागं महानीलं पद्मरागं प्रवालकम् ।


  • टीका रससरत्नसमुच्चयटीका:
  • वैडूर्यं तद् यदाकाशे सजलमेघशब्दाद् अङ्कुरविशिष्टं भवति ।। रसटी-४.४कख;१
  • अत एवास्याभ्रलोहम् इति पर्यायान्तरम् ।। रसटी-४.४कख;२
  • एतत् पिरोजा इति लोके प्रसिद्धम् ।। रसटी-४.४कख;३



वैडूर्यं च तथा नीलमेते च मणयो मताः ।
यत्नतः संग्रहीतव्या रसबन्धस्य कारणात् ।। रस-४.४ ।।

पञ्चरत्न (?)

पद्मरागेन्द्रनीलाख्यौ तथा मरकतोत्तमः ।
पुष्परागः सवज्राख्यः पञ्च रत्नवराः स्मृताः ।। रस-४.५ ।।

जेwएल्स् > नवग्रह

माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्पं भिदुरं च नीलम् ।
गोमेदकं चाथ विदूरकं च क्रमेण रत्नानि नवग्रहाणाम् ।। रस-४.६ ।।

ग्रहानुमैत्र्या कुरुविन्दपुष्पप्रवालमुक्ताफलतार्क्ष्यवज्रम् ।
नीलाख्यगोमेदविदूरकं च क्रमेण मुद्राधृतमिष्टसिद्ध्यै ।। रस-४.७ ।।

रसे रसायने दाने धारणे देवतार्चने ।
सुरक्ष्याणि सुजातीनि रत्नान्युक्तानि सिद्धये ।। रस-४.८ ।।

माणिक्य

माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ।। रस-४.९ ।।

माणिक्य > परीक्षा

कुशेशयदलच्छायं स्वच्छं स्निग्धं महत्स्फुटम् ।
वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठमुच्यते ।। रस-४.१० ।।

माणिक्य > नीलगन्धि

नीलं गङ्गाम्बुसम्भूतं नीलगर्भारुणच्छवि ।
पूर्वमाणिक्यवच्छ्रेष्ठमाणिक्यं नीलगन्धि तत् ।। रस-४.११ ।।

माणिक्य > परीक्षा

रन्ध्रकार्कश्यमालिन्यरौक्ष्यावैशद्यसंयुतम् ।
चिपिटं लघु वक्रं च माणिक्यं दुष्टमष्टधा ।। रस-४.१२ ।।

माणिक्य > आयुर्वेदीय गुण

माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिनुत् ।
भूतवेतालपापघ्नं कर्मजव्याधिनाशनम् ।। रस-४.१३ ।।

मौक्तिक > परीक्षा

ह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् ।
ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ।। रस-४.१४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • तोयप्रभं जलाभं यत्र तिष्ठति तत्र दूरतो जलभ्रमोत्पादकम् इत्यर्थः यद्वा जलवत् तरलच्छायं लावण्यविशिष्टम् इति यावत् ।। रसबोध-४.१४;१



मौक्तिक > आयुर्वेदीय गुण

मुक्ताफलं लघु हिमं मधुरं च कान्तिदृष्ट्यग्निपुष्टिकरणं विषहारि भेदि ।
वीर्यप्रदं जलनिधेर्जनिता च शुक्तिर्दीप्ता च पक्तिरुजमाशु हरेदवश्यम् ।। रस-४.१५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • निर्जलं निर्जडं डलयोर् ऐक्यात् अशिशिरमित्यर्थः उष्णमिति यावद् यद्वा विच्छायं दृश्यते च लावण्ये जलशब्दोपचारः मुक्ताफलस्य तरलच्छाया एव लावण्यशब्दबोधिका यदुक्तं ।
  • मुक्ताफलेषु छायायास्तरलत्वम् इवान्तरा ।
  • प्रतिभाति यदङ्गेषु तल्लावण्यम् इहोच्यते ।। रसबोध-४.१५;१
  • इति ।। रसबोध-४.१५;२
  • अत्र जलशब्देन मुक्ताफलगततरलच्छाया बोध्या ।। रसबोध-४.१५;३



मौक्तिक > परीक्षा > बद् ॠउअलित्य्

रूक्षाङ्गं निर्जलं श्यावं ताम्राभं लवणोपमम् ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • विकटं विषमगात्रम् ।। रसबोध-४.१६कख;१



अर्धशुभ्रं च विकटं ग्रन्थिलं मौक्तिकं त्यजेत् ।। रस-४.१६ ।।

मौक्तिक > आयुर्वेदीय गुण

कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् ।
पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ।। रस-४.१७ ।।

प्रवाल > परीक्षा > गोओद् ॠउअलित्य्

पक्वबिम्बफलच्छायं वृत्तायतमवक्रकम् ।
स्निग्धमव्रणकं स्थूलं प्रवालं सप्तधा शुभम् ।। रस-४.१८ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • पाण्डुरं श्वेतपीतमिश्रवर्णम् ।। रसबोध-४.१८;१

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • धूसरं श्वेतकृष्णमिश्रवर्णम् ।। रसबोध-४.१८;१



प्रवाल > परीक्षा > बद् ॠउअलित्य्

पाण्डुरं धूसरं सूक्ष्मं सव्रणं कण्डरान्वितम् ।


  • टीका रससरत्नसमुच्चयटीका:
  • कण्डरान्वितं सिरावृतम् ।। रसटी-४.१९कख;१



निर्भारं शुल्बवर्णं च प्रवालं नेष्यतेऽष्टधा ।। रस-४.१९ ।।

प्रवाल > आयुर्वेदीय गुण

क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु ।
विषभूतादिशमनं विद्रुमं नेत्ररोगनुत् ।। रस-४.२० ।।

तार्क्ष्य > परीक्षा > गोओद् ॠउअलित्य्

हरिद्वर्णं गुरु स्निग्धं स्फुरद्रश्मिचयं शुभम् ।
मसृणं भासुरं तार्क्ष्यं गात्रं सप्तगुणं मतम् ।। रस-४.२१ ।।

तार्क्ष्य > परीक्षा > बद् ॠउअलित्य्

कपिलं कर्कशं नीलं पाण्डु कृष्णं च लाघवम् ।
चिपिटं विकटं कृष्णं रूक्षं तार्क्ष्यं न शस्यते ।। रस-४.२२ ।।

तार्क्ष्य > आयुर्वेदीय गुण

ज्वरच्छर्दिविषश्वाससंनिपाताग्निमान्द्यनुत् ।
दुर्नामपाण्डुशोफघ्नं तार्क्ष्यमोजोविवर्धनम् ।। रस-४.२३ ।।

पुष्पराग > परीक्षा

पुष्परागं गुरु स्वच्छं स्निग्धं स्थूलं समं मृदु ।
कर्णिकारप्रसूनाभं मसृणं शुभमष्टधा ।। रस-४.२४ ।।

पुष्पराग > परीक्षा > बद् ॠउअलित्य्

निष्प्रभं कर्कशं रूक्षं पीतं श्यामं नतोन्नतम् ।
कपिशं कपिलं पाण्डु पुष्परागं परित्यजेत् ।। रस-४.२५ ।।

पुष्पराग > आयुर्वेदीय गुण

पुष्परागं विषच्छर्दिकफवाताग्निमान्द्यनुत् ।
दाहकुष्ठास्रशमनं दीपनं पाचनं लघु ।। रस-४.२६ ।।

वज्र > सुब्त्य्पेस्

वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् ।
पूर्वं पूर्वमिह श्रेष्ठं रसवीर्यविपाकतः ।। रस-४.२७ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • अष्टफलकम् अष्टधारम् अस्त्रादीनाम् अग्रभागवत् सूक्ष्माग्रम् इत्यर्थः ।। रसबोध-४.२७;१



पुंवज्र

अष्टास्रं वाष्टफलकं षट्कोणमतिभासुरम् ।
अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते ।। रस-४.२८ ।।

स्त्रीवज्र

तदेव चिपिटाकारं स्त्रीवज्रं वर्तुलायतम् ।

नपुंसक

वर्तुलं कुण्ठकोणाग्रं किंचिद्गुरु नपुंसकम् ।। रस-४.२९ ।।

स्त्रीपुंनपुंसकं वज्रं योज्यं स्त्रीपुंनपुंसके ।
व्यत्यासान्नैव फलदं पुंवज्रेण विना क्वचित् ।। रस-४.३० ।।

वज्र > सुब्त्य्पेस् > चोलोर्

श्वेतादिवर्णभेदेन तदेकैकं चतुर्विधम् ।
ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम् ।। रस-४.३१ ।।

उत्तमोत्तमवर्णं हि नीचवर्णफलप्रदम् ।
न्यायोऽयं भैरवेणोक्तः पदार्थेष्वखिलेष्वपि ।। रस-४.३२ ।।

वज्र > आयुर्वेदीय गुण

आयुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनम् सकलामयघ्नम् ।
सूतेन्द्रबन्धवधसद्गुणकृत्प्रदीपनं मृत्युंजयं तदमृतोपममेव वज्रम् ।। रस-४.३३ ।।

जेwएल्स् > ५ दोषस्

गौरत्रासश्च बिन्दुश्च रेखा च जलगर्भता ।
सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः ।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ साधारणान् सर्वरत्नदोषान् आह ग्रासस्त्रासश्चेति ।। रसटी-४.३४अ-द्;१
  • ग्रासो ग्रसितैकदेशत्वम् ।। रसटी-४.३४अ-द्;२
  • त्रासः सबाह्याभ्यन्तरमलविशिष्टत्वम् ।। रसटी-४.३४अ-द्;३
  • बिन्दुः प्रसिद्धः ।। रसटी-४.३४अ-द्;४
  • स चानेकविधः ।। रसटी-४.३४अ-द्;५
  • रेखा प्रसिद्धा ।। रसटी-४.३४अ-द्;६
  • जलगर्भता ।। रसटी-४.३४अ-द्;७
  • यत्रान्तः कोटर इवान्तः शुषिरविशिष्टजलाभासो भवति तादृशत्वम् ।। रसटी-४.३४अ-द्;८



क्षेत्रतोयभवा दोषा रत्नेषु न लगन्ति ते ।। रस-४.३४ ।।

वज्र > शोधन

कुलत्थक्वाथके स्विन्नं कोद्रवक्वथितेन वा ।
एकयामावधि स्विन्नं वज्रं शुध्यति निश्चितम् ।। रस-४.३५ ।।

वज्र > मारण

वज्रं मत्कुणरक्तेन चतुर्वारं विभावितम् ।
सुगन्धिमूषिकामांसैर्वर्तितैर्मर्द्य वेष्टयेत् ।। रस-४.३६ ।।

पुटेत्पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् ।
ध्मात्वा ध्मात्वा शतं वारान्कुलत्थक्वाथके क्षिपेत् ।
अन्यैरुक्तः शतं वारान्कर्तव्योऽयं विधिक्रमः ।। रस-४.३७ ।।

वज्र > मारण

कुलत्थक्वाथसंयुक्तलकुचद्रवपिष्टया ।
शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च ।। रस-४.३८ ।।

अष्टवारं पुटेत्सम्यग्विशुष्कैश्च वनोत्पलैः ।
शतवारं ततो ध्मात्वा निक्षिप्तं शुद्धपारदे ।
निश्चितं म्रियते वज्रं भस्म वारितरं भवेत् ।। रस-४.३९ ।।

सत्यवाक् सोमसेनानीर् एतद्वज्रस्य मारणम् ।
दृष्टप्रत्ययसंयुक्तमुक्तवान्रसकौतुकी ।। रस-४.४० ।।

वज्र > मारण

विलिप्तं मत्कुणस्यास्रे सप्तवारं विशोषितम् ।
कासमर्दरसापूर्णे लोहपात्रे निवेशितम् ।। रस-४.४१ ।।

सप्तवारं परिध्मातं वज्रभस्म भवेत्खलु ।
ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्तितः ।। रस-४.४२ ।।

वज्र > मारण

नीलज्योतिर्लताकन्दे घृष्टं घर्मे विशोषितम् ।
वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवह्निना ।। रस-४.४३ ।।

वज्र > मारण

मदनस्य फलोद्भूतरसेन क्षोणिनागकैः ।
कृतकल्केन संलिप्य पुटेद्विंशतिवारकम् ।
वज्रचूर्णं भवेद्वर्यं योजयेच्च रसादिषु ।। रस-४.४४ ।।

वज्र > मारण

तद्वज्रं चूर्णयित्वाथ किंचिट् टङ्कणसंयुतम् ।
खरभूनागसत्त्वेन विंशेनावर्तते ध्रुवम् ।
तुल्यस्वर्णेन तद्ध्मातं योजनीयं रसादिषु ।। रस-४.४५ ।।

त्रिगुणेन रसेनैव संमर्द्य गुटिकीकृतम् ।
मुखे धृतं करोत्याशु चलद्दन्तविबन्धनम् ।। रस-४.४६ ।।

त्रिंशद्भागमितं हि वज्रभसितं स्वर्णं कलाभागिकं तारं चाष्टगुणं सितामृतवरं रुद्रांशकं चाभ्रकम् ।
पादांशं खलु ताप्यकं वसुगुणं वैक्रान्तकं षड्गुणं भागोऽप्युक्तरसै रसोऽयमुदितः षाड्गुण्यसंसिद्धये ।। रस-४.४७ ।।

नील

जलनीलेन्द्रनीलं च शक्रनीलं तयोर्वरम् ।। रस-४.४८ ।।

जलनील > फ्य्स्. गुण

श्वैत्यगर्भितनीलाभं लघु तज्जलनीलकम् ।

इन्द्रनील > फ्य्स्. गुण

कार्ष्ण्यगर्भितनीलाभं सभारं शक्रनीलकम् ।। रस-४.४९ ।।

नील > परीक्षा > गोओद्

एकच्छायं गुरु स्निग्धं स्वच्छं पिण्डितविग्रहम् ।
मृदु मध्ये लसज्ज्योतिः सप्तधा नीलमुत्तमम् ।। रस-४.५० ।।

जलनील > परीक्षा

कोमलं विहितं रूक्षं निर्भारं रक्तगन्धि च ।
चिपिटाभं ससूक्ष्मं च जलनीलं च सप्तधा ।। रस-४.५१ ।।

नील > आयुर्वेदीय गुण

श्वासकासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् ।
विषमज्वरदुर्नामपापघ्नं नीलमीरितम् ।। रस-४.५२ ।।

गोमेद

गोमेदःसमरागत्वाद्गोमेदं रत्नमुच्यते ।। रस-४.५३ ।।

गोमेद > परीक्षा

सुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु ।



  • टीका रससरत्नसमुच्चयबोधिनी:
  • निर्दलं निष्पत्त्रम् अशुभगोमेदस्य सपटलत्वाद् अत्र शुभगोमेदस्य निर्दलत्वावतारणम् ।। रसबोध-४.५४कख;१



निर्दलं मसृणं दीप्तं गोमेदं शुभमष्टधा ।। रस-४.५४ ।।

गोमेद > परीक्षा > बद् ॠउअलित्य्

विच्छायं लघु रूक्षाङ्गं चिपिटं पटलान्वितम् ।
निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम् ।। रस-४.५५ ।।

गोमेद > आयुर्वेदीय गुण

गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् ।
दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम् ।। रस-४.५६ ।।

वैडूर्य > परीक्षा > गोओद् ॠउअलित्य्

वैदूर्यं श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम् ।
भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ।। रस-४.५७ ।।

वैडूर्य > परीक्षा > बद् ॠउअलित्य्

श्यामं तोयसमच्छायं चिपिटं लघु कर्कशम् ।
रक्तगर्भोत्तरीयं च वैदूर्यं नैव शस्यते ।। रस-४.५८ ।।

वैडूर्य > आयुर्वेदीय गुण

वैदूर्यं रक्तपित्तघ्नं प्रज्ञायुर्बलवर्धनम् ।
पित्तप्रधानरोगघ्नं दीपनं मलमोचनम् ।। रस-४.५९ ।।

रत्न > शोधन

शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धकैस्तथा ।। रस-४.६० ।।

पुष्परागं च संधानैः कुलत्थक्वाथसंपुटैः ।
तण्डुलीयजलैर् वज्रं नीलं नीलीरसेन च ।
रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ।। रस-४.६१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • लकुचः डहुकः ।। रसबोध-४.६१;१



रत्न > मारण

लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः ।
वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ।। रस-४.६२ ।।

रत्न > द्रावण

रामठं पञ्चलवणं क्षाराणां त्रितयं तथा ।
मांसद्रवोऽम्लवेतश्च चूलिकालवणं तथा ।। रस-४.६३ ।।

स्थूलं कुम्भीफलं पक्वं तथा ज्वालामुखी शुभा ।
द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम् ।। रस-४.६४ ।।

दुग्धं स्नुह्यास्तथार्कस्य सर्वं संमर्द्य यत्नतः ।
गोलं विधाय तन्मध्ये प्रक्षिपेत्तदनन्तरम् ।। रस-४.६५ ।।

गुणवन्नवरत्नानि जातिमन्ति शुभानि च ।
भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ।। रस-४.६६ ।।

पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च ।
सर्वाम्लयुक्तसंधानपरिपूर्णघटोदरे ।। रस-४.६७ ।।

अहोरात्रत्रयं यावत् स्वेदयेत् तीव्रवह्निना ।
तस्मादाहृत्य संक्षाल्य रत्नजां द्रुतिमाहरेत् ।
रत्नतुल्यप्रभा लघ्वी देहलोहकरी शुभा ।। रस-४.६८ ।।

पेअर्ल् > द्रावण

मुक्ताचूर्णं तु सप्ताहं वेतसाम्लेन मर्दितम् ।
जम्बीरोदरमध्ये तु धान्यराशौ विनिक्षिपेत् ।
सप्ताहादुद्धृतं चैव पुटे धृत्वा द्रुतिर्भवेत् ।। रस-४.६९ ।।

वज्र > द्रावण

वज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरोधयेत् ।
अम्लभाण्डगतं स्वेद्यं सप्ताहाद् द्रवताम् व्रजेत् ।। रस-४.७० ।।

वैक्रान्त > द्रावण

श्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् ।
सप्ताहान्नात्र संदेहः खरघर्मे द्रवत्यसौ ।। रस-४.७१ ।।

वैक्रान्त > द्रावण

केतकीस्वरसं ग्राह्यं सैन्धवं स्वर्णपुष्पिका ।
इन्द्रगोपकसंयुक्तं सर्वं भाण्डे विनिक्षिपेत् ।
सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् ।। रस-४.७२ ।।

रत्न > द्रावण

लोहाष्टके तथा वज्रवापनात् स्वेदनाद् द्रुतिः ।
जायते नात्र संदेहो योगस्यास्य प्रभावतः ।। रस-४.७३ ।।

कुरुते योगराजोऽयं रत्नानां द्रावणं परम् ।। रस-४.७४ ।।

द्रुतीनां दीर्घकालरक्षणोपायः

कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् ।
तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत् ।। रस-४.७५ ।।

रत्न > good properties

सूर्यादिग्रहनिग्रहापहरणं दीर्घायुरारोग्यदं ।
सौभाग्योदयभाग्यवश्यविभवोत्साहप्रदं धैर्यकृत् ।। रस-४.७६ ।।

दुश्छायाचलधूलिसंगतिभवालक्ष्मीहरं सर्वदा ।
रत्नानां परिधारणं निगदितं भूतादिनिर्नाशनम् ।। रस-४.७७ ।।