रसार्णवसुधाकरः
सिंहभूपालः

सिंहभूपालकृतः रसार्णवसुधाकरः

संक्षेपसूची
अमरु. = अमरुशतकम्
अ.रा. = अनर्घराघवम्
बा.रा. = बालरामायणम्
भ.ना.शा. = भरतनाट्यशास्त्रम्
भा.प्र. = भावप्रकाशिका (शरदातनयः)
ह.ना. = हनुमन्नाटकम्
का.आ. = काव्यादर्शः
कु.आ. = कुवलयावलि- (सिंहभूपालः)
कु.सं. = कुमारसम्भवम् (कालिदासः)
कृ.क. = कृष्णकर्णामृतम् (लीलाशुकः)
गाथा. = गाथासत्तसाइ
मा.मा. = मालतीमाधवम्
मा.अ.मि. = मालविकाग्निमित्रम्
शि.व. = शिशुपालवधम् (माघः)
मे.दू. = मेघदूतम्
नागा. = नागानन्दम्
र.आ. = रत्नावली (श्रीहर्षः)
र.वं. = रघुवंशः (कालिदासः)
स.क.आ. = सरस्वतीकण्ठाभरणम् (भोजः)
शकु. ओर.श. = अभिज्ञानशकुन्तलम् (कालिदासः)
उ.रा.च. = उत्तररामचरितम्
वै.श. = वैराग्यशतकम् (भर्तृहरिः)
वि.उ. = विक्रमोर्वशीयम्
वि.पु. = विष्णुपुराणम्
वे.सं. = वेणिसंहारः (नारायणभट्ट)

श्रीसिंहभूपालविरचितो रसार्णवसुधाकरः

प्रथमो विलासः - रञ्जकोल्लासः

सम्पाद्यताम्


शृङ्गारवीरसौहार्दं मौग्ध्यवैयात्यसौरभम् ।
लास्यताण्डवसौजन्यं दाम्पत्यं तद्भजामहे ॥१.१॥
वीणाङ्कितकरां वन्दे वानीमेणीदृशं सदा ।
सदानन्दमयीं देवीं सरोजासनवल्लभाम् ॥१.२॥
अस्ति किञ्चित्परं वस्तु परमानन्दकन्दलम् ।
कमलाकुचकाठिन्यकुतूहलिभुजान्तरम् ॥१.३॥
तस्य पादाम्बुजाज्जातो वर्णो विगतकल्मषः ।
यस्य सोदरतां प्राप्तं भगीरथतपःफलम् ॥१.४॥
तत्र रेचर्लवंशाब्धिशरद्राकासुधाकरः ।
कलानिधिरुदारश्रीरासीद्दाचयनायकः ॥१.५॥
यस्यासिधारामार्गेण दुर्गेणापि रणाङ्गणे ।
पाण्ड्यराजगजानीकाज्जयलक्ष्मीरुपागता ॥१.६॥
अङ्गनारायणे यस्मिन् भवति श्रीरतिस्थिरा ।
भूरभूत्करिणी वश्या दुष्टराजगजाङ्कुशे ॥१.७॥
तस्य भार्या महाभाग्या विष्णोः श्रीरिव विश्रुता ।
पोचमाम्बा गुणोदारा जाता तामरसान्वयात् ॥१.८॥
तयोरभूवन् क्षितिकल्पवृक्षाः
पुत्रास्त्रयस्त्रासितवैरिवीराः ।
सिंहप्रभुर्वेन्नमनायकश्च
वीराग्रणी रेचमहीपतिश्च ॥१.९॥
कलावेकपदो धर्मो यैरेभिश्चरणैरिव ।
सम्पूर्णपदतां प्राप्य नाकाङ्क्षति कृतं युगम् ॥१.१०॥
तत्र सिंहमहीपाले पालयत्यखिलां महीम् ।
नमतामुन्नतिश्चित्रं राज्ञामनमतां नतिः ॥१.११॥
कृष्णैलेश्वरसंनिधौ कृतमहासम्भारमेलेश्वरे
वीतापायमनेकशो विदधता ब्रह्मप्रतिष्ठापनम् ।
आनृण्य समपादि येन विभुना तत्तद्गुणैरात्मनो
निर्माणातिशयप्रयासगरिमव्यासङ्गिनि ब्रह्मणि ॥१.१२॥
कृतान्तजिह्वाकुटिलां कृपाणीं
दृष्ट्वा यदीयां त्रसतामरीणाम् ।
स्वेदोदयश्चेतसि संचितानां
मानोष्मणामातनुते प्रशान्तिम् ॥१.१३॥
श्रीमान् रेचमहीपतिः सुचरितो यस्यानुजन्मा स्फुटं
प्राप्तो वीरगुरुप्रथां पृथुतरां वीरस्य मुद्राकरीम् ।
लब्ध्वा लब्धकठारिरायविरुदं राहुत्तरायाङ्कितं
पुत्रं नागयनायकं वसुमतीवीरैकचूडामणिम् ॥१.१४॥
सोऽ यं सिंहमहीपालो वसुदेव इति स्फुटम् ।
अनन्तमाधवौ यस्य तनूजौ लोकरक्षकौ ॥१.१५॥
तत्रानुजो माधवनायकेन्द्रो
दिगन्तरालप्रथितप्रतापः ।
यस्याभवन् वंशकरा नरेन्द्रास्
तनूभवा वेदगिरीन्द्रमुख्याः ॥१.१६॥
तस्याग्रजन्मा भुवि राजदोषैर्
अप्रोतभावादनपोतसंज्ञाम् ।
ख्यातां दधाति स्म यथार्थभूताम्
अनन्तसज्ञां च महीधरत्वम् ॥१.१७॥
सोदर्यो बलभद्रमूर्तिरनिशं देवी प्रिया रुक्मिणी
प्रद्युम्नस्तनयोऽ प्पौत्रनिवहो यस्यानिरुद्धादयः ।
सोऽ यं श्रीपतिरन्नपोतनृपतिः किं चाननाम्भोरुहे
धत्ते चारुसुदर्शनश्रियमसौ सत्वात्महस्ताम्बुजे ॥१.१८॥

बहुसोमसुतं कृत्वा भूलोकं यत्र रक्षति ।
एकसोमसुतं रक्षन् स्वर्लोकं लज्जते हरिः ॥१.१९॥

सोमकुलपरशुरांे
भुजबलभीमेऽ रिगायगोबाले ।
यत्र च जाग्रति शासति
जगतां जागर्ति नित्यकल्याणम् ॥१.२०॥

हेमाद्रिदानैर्धरणीसुराणां
हेमाचलं हस्तगतं विधाय ।
यश्चारुसोपानपथेन चक्रे
श्रीपर्वतं सर्वजनाङ्घ्रिगम्यम् ॥१.२१॥

यो नैकवीरोद्दलनोऽ प्यसङ्ख्य
सङ्ख्योऽ प्यभग्नात्मगतिक्रमोऽ पि ।
अजातिसाङ्कर्यभवोऽ पि चित्रं
दधाति सोमान्वयभार्गवाङ्कम् ॥१.२२॥

धावं धावं रिपुनृपतयो युद्धरङ्गापविद्धाः
खड्गे खड्गे फलितवपुषं यं पुरस्ताद्विलोक्य ।
प्रत्यावृत्ता अपि तत इतो वीक्षमाणा यदीयं
संमन्यन्ते स्फुटमवितथं खड्गनारायणाङ्कम् ॥१.२३॥

अन्नमाम्बेति विख्याता तस्यासीद्धरणीपतेः ।
देवी शिवा शिवस्येव राजमौलेर्महोज्ज्वला ॥१.२४॥
शत्रुघ्नं श्रुतकीर्तिर्या सुभद्रा यशसार्जुनम् ।
आनन्दयति भर्तारं श्यामा राजानमुज्ज्वलम् ॥१.२५॥
तयोरभूतां पुत्रौ द्वावाद्यो वेदगिरीश्वरः ।
द्वितीयस्त्वद्वितीयोऽ सौ यशसा सिंहभूपतिः ॥१.२६॥
अथ श्रीसिंहभूपालो दीर्घायुर्वसुधामिमाम् ।
निजांसपीठे निर्व्याजं कुरुते सुप्रतिष्ठिताम् ॥१.२७॥

अहीनज्याबन्धः कनकरुचिरं कार्मुकवरं
बलिध्वंसी बाणः परपुरमनेकं च विषयः ।
इति प्रायो लोकोत्तरसमरसंनाहविधिना
महेशोऽ यं सिंहक्षितिप इति यं जल्पति जनः ॥१.२८॥

यत्र च रणसंनहिनि
तृणचरणं निजपुराच्च निःसरणम् ।
वनचरणं तच्चरणक
परिचरणं वा विरोधिनां शरणम् ॥१.२९॥

सतां प्रीतिं कुर्वन् कुवलयविकासं विरचयन्
कलाः कान्ताः पुष्णन् दधदपि च जैवातृककथाम् ।
नितान्तं यो राजा प्रकटयति मित्रोदयमहो
तथा चक्रानन्दानपि च कमलोल्लाससुषमाम् ॥१.३०॥

तल्लब्धानि घनाघनैरतितरां वारां पृषन्त्यम्बुधौ
स्वात्यामेव हि शुक्तिकासु दधते मुक्तानि मुक्तात्मताम् ।
यद्दानोदकविप्रुषस्तु सुधियां हस्ते पतन्त्योऽ भवन्
माणिक्यानि महाम्बराणि बहुशो धामानि हेमानि च ॥१.३१॥

नयनमयं गुणमगुणं
पदमपदं निजमवेत्य रिपुभूपाः ।
यस्य च नयगुणविदुषो
विनमन्ति पदारविन्दपीठान्तम् ॥१.३२॥

प्राणानां परिरक्षणाय बहुशो वृत्तिं मदीयां गतास्
त्वत्सामन्तमहीभुजः करुणया ते रक्षणीया इति ।
कर्णे वर्णयितुं नितान्तसुहृदो कर्णान्तविश्रान्तयोर्
मन्ये यस्य दृगन्तयोः परिसरं सा कामधेनुः श्रिता ॥१.३३॥

युष्माभिः प्रतिगण्डभैरवरणे प्राणाः कथं रक्षिता
इत्यन्तःपुरपृच्छया यदरिषु प्राप्तेषु लज्जावशम् ।
शंसन्त्युत्तरमाननव्यतिकरव्यापारपारङ्गता
गण्डान्दोलितकर्णकुण्डलहरिन्माणिक्यवर्णाङ्कुराः ॥१.३४॥

मन्दारपारिजातक
चन्दनसन्तानकल्पमणिसदृशैः ।
अनपोतदाचवल्लभ
वेदगिरिस्वामिमाददामयसंज्ञैः ॥१.३५॥

आत्मभवैरतिविभवैर्
अनितरजनसुलभदानमुदितैर्भुवि यः ।
रत्नाकर इव राजति
राजकरारचितसुकमलोल्लासः ॥१.३६॥

यस्याढ्यः प्रथमः कुमारतिलकः श्रीअन्नपोतो गुणैर्
एकस्याग्रजमात्मरूपविभवे चापे द्वयोरग्रजम् ।
आरूढे त्रितयाग्रजं विजयते दुर्वारदोर्विक्रमे
सत्योक्तौ चतुरग्रजं वितरणे किं चापि पञ्चाग्रजम् ॥१.३७॥

युद्धे यस्य कुमारदाचयविभोः खड्गाग्रधाराजले
मज्जन्ति प्रतिपक्षभूमिपतयः शौर्योष्मसन्तापिताः ।
चित्रं तत्प्रमदाः प्रनष्टतिलका व्याकीर्णनीलालकाः
प्रभ्रश्यत्कुचकुङ्कुमाः परिगलन्नेत्रान्तकालाञ्जनाः ॥१.३८॥

परिपोषिणि यस्य पुत्ररत्ने
दयिते वल्लभरायपूर्णचन्द्रे ।
समुदेति सतां प्रभावशेषः
कमलानामभिवर्धनं तु चित्रम् ॥१.३९॥

एतैरन्यैश्च तनयैः सोऽ यं सिंहमहीपतिः ।
षड्भिः प्रतिष्ठामयते स्वामीवाङ्गैः सुसङ्गतैः ॥१.४०॥

राजा स राजाचलनामधेयाम्
अध्यास्त वंशक्रमराजधानीम् ।
सतां च रक्षामसतां च शिक्षां
न्यायानुरोधादनुसन्दधानज्ञाः ॥१.४१॥

विन्ध्यश्रीशैलमध्यक्ष्मामण्डलं पालयन् सुतैः ।
वंशप्रवर्तकैरर्थान् भुङ्क्ते भोगपुरन्दरः ॥१.४२॥

तस्मिन् शासति सिंहभूमिरमणे क्ष्मामन्नपोतात्मजे
काठिन्यं कुचमण्डले तरलता नेत्राञ्चले सुभ्रुवाम् ।
वैषम्यं त्रिवलीषु मन्दपदता लीलालसायां गतौ
कौटिल्यं चिकुरेषु किं च कृशता मध्ये परं बध्यते ॥१.४३॥

सोऽ हं कल्याणरूपस्य वर्णोत्कर्षैककारणम् ।
विद्वत्प्रसादनाहेतोर्वक्ष्ये नाट्यस्य लक्षणम् ॥१.४४॥
पुरा पुरन्दराद्यास्ते प्रणम्य चतुराननम् ।
कृताञ्जलिपुटा भूत्वा पप्रच्छुः सर्ववेदिनम् ॥१.४५॥
भगवन् श्रोतुमिच्छामः श्राव्यं दृश्यं मनोहरम् ।
धर्म्यं यशस्यमर्थ्यं च सर्वशिल्पप्रदर्शनम् ॥१.४६॥
परं पञ्चममाम्नायं सर्ववर्णाधिकारिकम् ।
इति पृष्टः स तैर्ब्रह्मा सर्ववेदाननुस्मरन् ॥१.४७॥
तेभ्यश्च सारमादाय नाट्यवेदमथासृजत् ।
अध्याप्य भरताचार्यं प्रजापतिरभाषत ॥१.४८॥
सह पुत्रैरिमं वेदं प्रयोगेण प्रकाशय ।
इति तेन नियुक्तस्तु भरतः सह सूनुभिः ॥१.४९॥
प्रायोजयत्सुधर्मायामिन्द्रस्याग्रेऽ प्सरोगणैः ।
सर्वलोकोपकाराय नाट्यशास्त्रं च निर्ममे ॥१.५०॥
तथा तदनुसारेण शाण्डिल्यः कोहलोऽ पि च ।
दत्तिलश्च मतङ्गश्च ये चान्ये तत्तनूद्भवाः ॥१.५१॥
ग्रन्थान्नानाविधांश्चक्रुः प्रख्यातास्ते महीतले ।
तेषामतिगभीरत्वाद्विप्रकीर्णक्रमत्वतः ॥१.५२॥
सम्प्रदायस्य विच्छेदात्तद्विदां विरलत्वतः ।
प्रायो विरलसञ्चारा नाट्यपद्धतिरस्फुटा ॥१.५३॥
तस्मादस्मत्प्रयत्नोऽ यं तत्प्रकाशनलक्षणः ।
सारैकग्राहिणां चित्तमानन्दयति धीमताम् ॥१.५४॥

नेदानीन्तनदीपिका किमु तमःसङ्हातमुन्मूलयेज्
ज्योत्स्ना किं न चकोरपारणकृते तत्कालसंशोभिनी ।
बालः किं कमलाकरान् दिनमणिर्नोल्लासयेदञ्जसा
तत्सम्प्रत्यपि मादृशामपि वचः स्यादेव सम्प्रीतये ॥१.५५॥

स्वच्छस्वादुरसाधारो वस्तुच्छायामनोहरः ।
सेव्यः सुवर्णनिधिवन्नाट्यमार्गः सनायकः ॥१.५६॥
सात्त्विकाद्यैरभिनयैः प्रेक्षकाणां यतो भवेत् ।
नटे नायकतादात्म्यबुद्धिस्तन्नाट्यमुच्यते ॥१.५७॥
रसोत्कर्षो हि नाट्यस्य प्राणास्तत्स निरूप्यते ।
विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ॥१.५८॥
आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ।

अथ विभावाः

तत्र ज्ञेयो विभावस्तु रसज्ञापनकारणम् ॥१.५९॥
बुधैर्ज्ञेयोऽ यमालम्ब उद्दीपन इति द्विधा ।
आधारविषयत्वाभ्यां नायको नायिकापि च ॥१.६०॥

तत्र नायकः
आलम्बनं मतं तत्र नायको गुणवान् पुमान् ।
तद्गुणास्तु महाभाग्यमौदार्यं स्थैर्यदक्षते ॥१.६१॥
औज्ज्वल्यं धार्मिकत्वं च कुलीनत्वं च वाग्मिता ।
कृतज्ञत्वं नयज्ञत्वं शुचिता मानशालिता ॥१.६२॥
तेजस्विता कलावत्त्वं प्रजारञ्जकतादयः ।
एते साधारणाः प्रोक्ताः नायकस्य गुणा बुधैः ॥१.६३॥

तत्र महाभाग्यम्
सर्वातिशायिराज्यत्वं महाभाग्यमुदाहृतम् ॥१.६४॥ ६४ ब्

यथा
पौत्रः कुशस्यापि कुशेशयाक्षः
ससागरां सागरधीरचेताः ।
एकातपत्रां भुवमेकवीरः
पुरार्गलादीर्घभुजो बुभोज ॥१.६५॥ (र.वं. १८.४)

अथ औदार्यम्
यद्विश्राणनशीलत्वं तदौदार्यं बुधा विदुः ॥१.६६॥ ६४ द्

यथा
जनस्य साकेतनिवासिनस्तौ
द्वावप्यभूतामभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिःस्पृहोऽ र्थी
नृपोऽ र्थिकामादधिकप्रदश्च ॥१.६७॥ (र.वं. ५.३७)

अथ स्थैर्यम्
व्यापारं फलपर्यन्तं स्थैर्य्माहुर्मनीषिणः ॥१.६८॥ ६५ ब्

यथा
न नवः प्रभुराफलोदयात्
स्थिरकर्मा विरराम कर्मणः ।
न च योगविधेर्नवेतरः
स्थिरधीरा परमात्मदर्शनात् ॥१.६९॥ (र.वं. ८.२२)

अथ दक्षता
दुष्करे क्षिप्रकारित्वं दक्षतां परिचक्षते ॥१.७०॥ ६५ द्

यथा
वालधिं त्रातुमावृत्य चमरेणार्पिते गले ।
पतन्तमिषुमन्येन स कृपालुरखण्डयत् ॥१.७१॥ [*१]
[*१] सोमे म्स्स्. हवे थे fओल्लोwइन्गेxअम्प्ले स दक्षिणं तूणमुखेन वामम् । व्यापारयन् हस्तमलक्ष्यताजौ । आकर्णकृष्टा सकृदस्य योद्धुम् । और्वीव बाणान् सुषुवे रिपुघ्नान् ॥(र.वं. ७.५७)


अथ औज्ज्वल्यम्
औज्ज्वल्यं नयनानन्दकारित्वं कथ्यते बुधैः ॥१.७२॥ ६६ ब्

यथा
ता राघवं चक्षुर्भिरापिबन्त्यो
नार्यो न जग्मुर्विषयान्तराणि ।
तथा हि शेषेन्द्रियवृत्तिरासां
सर्वात्मना चक्षुर् इव प्रविष्टा ॥१.७३॥ (र.वं. ७.१२)

अथ धर्मिकत्वम्
धर्मप्रवणचित्तत्वं धार्मिकत्वमितीर्यते ॥१.७४॥ ६६ द्

यथा
स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥१.७५॥ (र.वं. ७.२५)

अथ कुलीनत्वम्
कुले महति सम्भूतिः कुलीनत्वमुदाहृतम् ॥१.७६॥ ६७ ब्

यथा
सूर्याचन्द्रमसौ यस्य मातामहपितामहौ ।
स्वयं वृतः पतिर्द्वाभ्यां उर्वश्या च भुवा च यः ॥१.७७॥ (वि.उ. ४.१९)

अथ वाग्मिता
वाग्मिता तु बुधैरुक्ता समयोचितभाषिता ॥१.७८॥ ६७ द्

यथा
ननु वज्रिण एव वीर्यमेतद्
विजयन्ते द्विषतो यदस्य पक्ष्याः ।
वसुधाधरकन्दराद्विसर्पी
प्रतिशब्दोऽ पि हरेर्भिनत्ति नागान् ॥१.७९॥ (वि.उ. १.१८)

अथ कृतज्ञत्वम्
कृतानामुपकाराणामभ्ज्ञत्वं कृतज्ञता ॥१.८०॥ ६८ ब्

यथा
एकस्यैवोपकारस्य प्राणान् दास्यामि ते कपे ।
प्रत्यहं क्रियमाणस्य शेषस्य ऋणिनो वयम् ॥१.८१॥ (ह.ना. १३.३५)

अथ नयज्ञत्वम्
सामाद्युपायचातुर्यं नयज्ञत्वमुदाहृतम् ॥१.८२॥ ६८ द्

यथा
अनारतं तेन पदेषु लम्भिता
विभज्य सम्यग्विनियोगसत्क्रियाः ।
फलन्त्युपायाः परिबृंहितायतीर्
उपेत्य सङ्घर्षमिवार्थसम्पदः ॥१.८३॥ (कि.आ. १.१५)

अथ शुचिता
अन्तःकरणशुद्धिर्या शुचिता सा प्रकीर्तिता ॥१.८४॥ ६९ ब्

यथा
का त्वं शुभे कस्य परिग्रहो वा
किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां
मनः परस्त्रीविमुखप्रवृत्ति ॥१.८५॥ (र.वं. १६.८)

अथ मानिता
अकार्पण्यसहिष्णुत्वं कथिता मानशालिता ॥१.८६॥ ६९ द्

यथा
सन्तुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डली
क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोर्वरम् ।
याच्ञादैन्यपराञ्चि यय्स कलहायन्ते मिथ्यस्त्वं वृणु
त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं वर्ण्यताम् ॥१.८७॥
(अ.रा. ३.४१)

अथ तेजस्विता
तेजस्वित्वमवज्ञादेरसहिष्णुत्वमुच्यते ॥१.८८॥ ७० ब्

यथा
सोऽ यं त्रिः सप्तवारानविकलविहितक्षत्रतन्तुप्रमारो
वीरः क्रौञ्चस्य भेदी कृतधरणितलापूर्वहंसावतारः ।
जेता हेरम्बभृङ्गिप्रमुखगणचमूचक्रिणस्तारकारेस्
त्वां पृच्छन् जामदग्न्यः स्वगुरुहरधनुर्भङ्गरोषादुपैति ॥१.८९॥
(म.वी.च. २.१७)

अथ कलावत्त्वम्
कलावत्त्वं निगदितं सर्वविद्यासु कौशलम् ॥१.९०॥ ७० द्

यथा
गोष्ठीषु विद्वज्जनसंचितस्य
कलाकलापस्य स तारतम्यम् ।
विवेकसीमा विगतावलेपो
विवेद हेम्नो निकषाश्मनीव ॥१.९१॥

अथ प्रजारञ्जकत्वम्
रञ्जकत्वं तु सकलचित्ताह्लादनकारिता ॥१.९२॥ ७१ ब्

यथा
अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥१.९३॥

उक्तैर्गुणैश्च सकलैर्युक्तः स्यादुत्तमो नेता । ७१ द्
मध्यः कतिपयहीनो बहुगुणहीनोऽ धमो नाम ॥१.९४॥
नेता चतुर्विधोऽ सौ धीरोदात्तश्च धीरललितश्च । ७२
धीरप्रशान्तनामा ततश्च धीरोद्धतः ख्यातः ॥१.९५॥

तत्र धीरोदात्तः
दयावानतिगम्भीरो विनीतः सत्त्वसारवान् । ७३
दृढव्रतस्तितिक्षावानात्मश्लाघापराङ्मुखः ।
निगूढाहङ्कृतिर्धीरैर्धीरोदात्त उदाहृतः ॥१.९६॥ ७४

तत्र दयावत्त्वम्
दयातिशयशालित्वं दयावत्त्वमुदाहृतम् ॥१.९७॥ ७५ ब्

यथा
सशोणितैस्तेन शिलीमुखाग्रैर्
निक्षेपिताः केतुषु पार्थिवानाम् ।
यशो हृतं सम्प्रति राघवेण
न जीवितं वः कृपयेति वर्णाः ॥१.९८॥ (र.वं. ७.६५)

अतिगम्भीरता
गाम्भीर्यमविकारः स्यात्सत्यपि क्षोभकारणे ॥१.९९॥ ७५ द्

यथा
दधतो मङ्गलक्षौमे वसानस्य च बल्कले ।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥१.१००॥ [रघु. १२.८]

विनीतत्वं
अवलोक एव नृपतेः स्म दूरतो
रभसाद्रथादवतरीतुमिच्छतः ।
अवतीर्णवान् प्रथममात्मना हरिर्
विनयं विशेषयति सम्भ्रमेण सः ॥१.१०१॥ (माघ. १३.७)

सत्त्वसारत्वम्, यथा
उत्स्मायित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ॥१.१०२॥ (रामा. १.१.६५)

दृढव्रतत्वं, यथा
तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ॥१.१०३॥ (र.वं. १२.१७)

तितिक्षावत्त्वं, यथा
प्रतिवाचमदत्त केशवः
शपमानाय न चेदिभूभुजे ।
अनुहुङ्कुरुते घनध्वनिं
न हि गोमायुरुतानि केसरी ॥१.१०४॥ (माघ. १६.२५)

आत्मश्लाथापराङ्मुखत्वं, यथा
तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः ॥१.१०५॥ (र.वं. १५.२७)

निगूढाहङ्कारत्वं, यथा
भूमात्रं कियदेतदर्णव्मितं तत्साधितं हार्यते
यद्वीरेण भवादृशेन वदता त्रिः सप्तकृत्वो जयम् ।
डिम्भोऽ हं नवबाहुरीदृ॑चमिदं घोरं च वीरव्रतं
तत्क्रोधाद्विरम प्रसीद भगवन् जात्यैव पूज्योऽ सि नः ॥१.१०६॥
(अनर्घ. ४.३५)

अथ धीरललितः
निश्चिन्तो धीरललितस्तरुणो वनितावशः ॥१.१०७॥ ७६ ब्

यथा
सोऽ धिकारमभिकः कुलोचितं
काश्चन स्वयमवर्तयत्समाः ।
संनिवेश्य सचिवेष्वतःपरं
स्त्रीविधेयनवयौवनोऽ भवत् ॥१.१०८॥ (र.वं. १९.४)

अथ धीरशान्तः
शमप्रकृतिकः क्लेशसहिष्णुश्च विवेचकः । ७६ द्
ललितादिगुणोपेतो विप्रो वा सचिवो वणिक् ।
धीरशान्तश्चारुदत्तमाधवादिरुदाहृतः ॥१.१०९॥ ७७

यथा
कुवलयदलश्यामोऽ प्यङ्गं दधत्परिधूसरं
ललितविकटन्यासः श्रीमान्मृगाङ्कनिभाननः ।
हरति विनयं वामो यस्य प्रकाशितसाहसः
प्रविगलदसृक्पङ्कः पाणिर्ललन्नरजाङ्गलः ॥१.११०॥ (मालतीमाधवम् ५.५)
अथ धीरोद्धतः
मात्सर्यवानहङ्कारी मायावी रोषणश्चलः ।
विकत्थनो भार्गवादिर्धीरोद्धत उदाहृतः ॥१.१११॥ ७८

यथा
न त्रस्तं यदि नाम भूतकरुणासन्तानशान्तात्मनस्
तेन व्यारुजता धनुर्भगवतो देवाद्भवानीपतेः । तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सवः
स्कन्दः स्कन्द इव प्रियोऽ हमथवा शिष्यः कथं विस्मृतः ॥१.११२॥
(महावीर २.२८)

एते च नायकाः सर्वरससाधारणाः स्मृताः ।
शृङ्गारापेक्षया तेषां त्रैविध्यं कथ्यते बुधैः ॥१.११३॥ ७९
पतिश्चोपपतिश्चैव वैशिकश्चेति भेदतः ।
पतिस्तु विधिना पाणिग्राहकः कथ्यते बुधैः ॥१.११४॥ ८०

यथा
स मानसीं मेरुसखः पितॄणां
कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनामपि माननीयाम्
आत्मानुरूपां विधिनोपयेमे ॥१.११५॥ (कु.सं. १.१८)

चतुर्धा सोऽ पि कथितो वृत्त्या काव्यविचक्षणैः ।
अनुकूलः शठो धृष्टो दक्षिणश्चेति भेदतः ॥१.११६॥ ८१

तत्र
अनुकूलस्त्वेकजानिः ॥१.११७॥ ८२

तत्र धीरोदात्तानुकूलो, यथा
सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां
तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार ।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः
सा दुर्वारं कथमपि परित्यागदुःखं विषेहे ॥१.११८॥ (र.वं. १४.८७)

धीरललितानुकूलो, यथा
स कदाचिदवेक्षितप्रजः
सह देव्या विजहार सुप्रजाः ।
नगरोपवने शचीसखो
मरुतां पालयितेव नन्दने ॥१.११९॥ (र.वं. ८.३२)

धीरशान्तानुकूलो, यथा
प्रियमाधवे किमसि मय्यवत्सला
ननु सोऽ हमेव यमनन्दयत्पुरा ।
स्वयमागृहीतकमनीयकङ्कणस्
तव मूर्तिमानिव महोत्सवः करः ॥१.१२०॥ (मालतीमाधवे ९.९)

धीरोद्धतानुकूलो, यथा
किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया
निद्राच्छेदविवर्तनेष्वभिमुखं नाद्यासि सम्भाविता ।
अन्यस्त्रीजनसङ्कथालघुरहं स्वप्नेऽ पि नालक्षितो
दोषं पश्यसि कं प्रिये परिजनोपालम्भयोग्ये मयि ॥१.१२१॥ (वेणी २.९)

अथ शठः
शठो गूढापराधकृत् ॥१.१२२॥ ८२

यथा
स्वप्नकीर्तितविपक्षमङ्गनाः
प्रत्यभैत्सुरवदन्त्येव तम् ।
प्रच्छदान्तगलिताश्रुबिन्दुभिः
क्रोधभिन्नवलयिर्विवर्तनैः ॥१.१२३॥ (र.वं. १९.२२)

अथ धृष्टः
धृष्टो व्यक्तान्ययुवतीभोगलक्ष्मापि निर्भयः ॥१.१२४॥ ८२ द्

यथा ममैव
को दोषो मणिमालिका यदि भवेत्कण्ठे न किं शङ्करो
धत्ते भूषणमर्धचन्द्रममलं चन्द्रे न किं कालिमा ।
तत्साध्वेव कृतं कृतं भणितिभिर्नैवापराद्धं त्वया
भाग्यं द्रष्टुमनीशयैव भवतः कान्तापराद्धं मया ॥१.१२५॥

अथ दक्षिणः
नायिकास्वप्यनेकासु तुल्यो दक्षिण उच्यते ॥१.१२६॥ ८३ ब्

यथा
स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽ ङ्गराजस्वसुर्
द्यूते रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥१.१२७॥

अथ उपपतिः
लङ्घिताचारया यस्तु विनापि विधिना स्त्रिया । ८३ द्
सङ्केतं नीयते प्रोक्तो बुधैरुपपतिस्तु सः ॥१.१२८॥ ८४ ब्

यथा
भर्ता निःश्वसितेऽ प्यसूयति मनोजिघ्रः सपत्नीजनः
श्वश्रूरिङ्गितदैवतं नयनयोरूहालिहो यातरः ।
तद्दूरादयमञ्जलिः किममुना दृघङ्गिपातेन ते
वैदग्धीरचनाप्रपञ्चरसिक व्यर्थोऽ यमत्र श्रमः ॥१.१२९॥

दाक्षिण्यमानुकूल्यं च धार्ष्ट्यं चानियतत्वतः । ८४ द्
नोचितान्यस्य शाठ्यं स्यादन्यचित्तत्वसम्भवात् ॥१.१३०॥ ८५ ब्

शठोपपतिर्, यथा

मज्झण्णे जणसुण्णे करिणीए भक्खिदेसु कमलेसु ।
अविसेसण्ण कहं बिअ गदो सि सणबाड्डिअं दट्ठुम् ॥१.१३१॥

[मध्याह्ने जनशून्ये करिण्या भक्षितेषु कमलेषु ।
अविशेषज्ञ कथमिव गतोऽ सि शणवाटिकां द्रष्टुम् ॥]

अत्र कयाचित्स्वैरिण्यां मयि सङ्केतं गतायां त्वं तु शाणवाटिकायां कथापि रन्तुं गतोऽ सीति व्यङ्ग्यार्थेनान्यासङ्गसूचनादयं शठोपपतिः ।

अथ वैशिकः
रूपवान् शीलसम्पन्नः शास्त्रज्ञः प्रियदर्शनः । ८५ द्
कुलीनो मतिमान् शूरो रम्यवेषयुतो युवा ॥१.१३२॥
अदीनः सुरभिस्त्यागी सहनः प्रियभाषणः । ८६
शङ्कविहीनो मानी च देशकालविभागवित् ॥१.१३३॥
दाक्ष्यचातुर्यमाधुर्यसौभाग्यादिभिरन्वितः । ८७
वेश्योपभोगरसिको यो भवेत्स तु वैशिकः ॥१.१३४॥
कलकण्ठादिको लक्ष्यो भाणादावेव वैशिकः । ८८
स त्रिधा कथ्यते ज्येष्ठमध्यनीचविभेदतः ॥१.१३५॥ ८९ ब्

तेषां लक्षणानि भावप्रकाशिकायामुक्तानि । यथा

असङ्गोऽ पि स्वभावेन सक्तवच्चेष्टते मुहुः ।
त्यागी स्वभावमधुरः समदुःखसुखः शुचिः ॥१.१३६॥
कामतन्त्रेषु निपुणः क्रुद्धानुनयकोविदः ।
स्फुरिते चाधरे किंचिद्दयिताया विरज्यति ॥१.१३७॥
उपचारपरो ह्येष उत्तमः कथ्यते बुधैः ।
व्यलीकमात्रे दृष्टेऽ स्या न कुप्यति न रज्यति ॥१.१३८॥
ददाति काले काले च भावं गृह्णाति भावतः ।
सर्वार्थैरपि मध्यस्थस्तामेवोपचरेत्पुनः ॥१.१३९॥
दृष्टे दोषे विरज्येत स भवेन्मध्यमः पुमान् ।
कामतन्त्रेषु निर्लज्जः कर्कशो रतिकेलिषु ॥१.१४०॥
अविज्ञातभयामर्षः कृत्याकृत्यविमूढधीः ।
मूर्खः प्रसक्तभावश्च विरक्तायामपि स्त्रियाम् ॥१.१४१॥
मित्रैर्निवार्यमाणोऽ पि पारुष्यं प्रापितोऽ पि च ।
अन्यस्नेहपरावृत्तां संक्रान्तरमणामपि ।
स्त्रियं कामयते यस्तु सोऽ धमः परिकीर्तितः ॥१.१४२॥ [भा.प्र. ५.३७४४] इति ।

अथ शृङ्गारनेतॄणां साहाय्यकरणोचिताः । ८९ द्
निरूप्यन्ते पीठमर्दविटचेटविदूषकाः ॥१.१४३॥

तथ पीठमर्दः
नायकानुचरो भक्तः किञ्चिदूनश्च तद्गुणैः । ९०
पीठमर्द इति ख्यातः कुपितस्त्रीप्रसादकः ॥१.१४४॥
कामतन्त्रकलावेदी विट इत्यभिधीयते । ९१
सन्धानकुशलश्चेटः कलहंसादिको मतः ।
विकृताङ्गवचोवेषैर्हास्यकारी विदूषकः ॥१.१४५॥ ९२

अथ सहायगुणाः
देशकालज्ञता भाषामाधुर्यं च विदग्धता ।
प्रोत्साहने कुशलता यथोक्तकथनं तथा । ९३
निगूढमन्त्रतेत्याद्याः सहायानां गुणा मताः ॥१.१४६॥

इति नायकप्रकरणम्

अथ नायिका निरूप्यन्ते

नेतृसाधारणगुणैरुपेता नायिका मता । ९४
स्वकीया परकीया च सामान्या चेति सा त्रिधा ॥१.१४७॥

तत्र स्वकीया
सम्पत्काले विपत्काले या न मुञ्चति वल्लभम् । ९५
शीलार्जवगुणोपेता सा स्वकीया कथिता बुधैः ॥१.१४८॥

यथा
किं तादेण णरिन्दसेहरसिहालीढग्गपादेण मे
किं वा मे ससुरेण वासवमहासिंहासणद्धासिणा ।
ते देसा गिरिणो अ दे वणमही सच्चेअ मे वल्लहा
कोसल्लातणअस्स जत्थ चलणे वन्दामि णन्दामि अ ॥१.१४९॥
(बालरामायण ६.७९)

[किं तातेन नरेन्द्रशेखरशिखालीढाग्रपादेन मे
किं वा मे श्वशुरेण वासवमहासिंहासनाध्यासिना ।
ते देशा गिरयश्च ते वनमही सा चैव मे वल्लभाः
कौसल्यातनयस्य यत्र चरणौ वन्दे च नन्दामि च ॥]

सा च स्वीया त्रिधा मुग्धा मध्या प्रौढेति कथ्यते ॥१.१५०॥ ९६

तत्र मुग्धा
मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि ।
यतते रतचेष्टायां गूढं लज्जामनोहरम् ॥१.१५१॥ ९७
कृतापराधे दयिते वीक्षते रुदती सती ।
अप्रियं वा प्रियं वापि न किञ्चिदपि भाषते ॥१.१५२॥ ९८

वयसा मुग्धा, यथा ममैव
उल्लोलितं हिमकरे निविडान्धकारम्
उत्तेजितं विषमसाधकबाणयुग्मम् ।
उन्मज्जितं कनककोरकयुग्मम्
अस्यामुल्लासिता च गगने तनुवीचिरेखा ॥१.१५३॥

नवकामा, यथा ममैव
बाला प्रसाधनविधौ निदधाति चित्तं
दत्तादरा परिणये मणिपुत्रिकाणाम् ।
आलज्जते निजसखीजनमन्दहासैर्
आलक्ष्यते तदिह भावनवावतारः ॥१.१५४॥

रतौ वामत्वं, यथा ममैव
आलोक्य हारमणिबिम्बितमात्मकान्तम्
आलिङ्गतीति सहसा परिवर्तमाना ।
आलम्बिता करतले परिवेपमाना
सा सम्भ्रमात्सहचरीमवलम्बते स्म ॥१.१५५॥

मृदुकोपत्वं, यथा ममैव
व्यावृत्तिक्रमणोद्यमेऽ पि पदयोः प्रत्युद्गतौ वर्तनं
भ्रूभेदोऽ पि तदीक्षणव्यसनिना व्यस्मारि मे चक्षुषा ।
चाटूक्तानि करोति दग्धरसना रुक्षाक्ष्रेऽ प्युद्यता
सख्यः किं करवाणि मानसमये सङ्घातभेदो मम ॥१.१५६॥

सव्रीडसुरतप्रयतनं, यथा
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे
संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥१.१५७॥ (रत्नावली १.२)

क्रोधादभाषणा रुदती, यथा ममैव
कान्ते कृतागसि पुरः परिवर्तमाने
सख्यं सरोजशशिनोः सहसा बभूव ।
रोषाक्षरं सुदृशि वक्तुमपारयन्त्याम्
इन्दीवरद्वयमवाप तुषारधाराम् ॥१.१५८॥

अथ मध्या
समानलज्जामदना प्रोद्यत्तारुण्यशालिनी ।
मध्या कामयते कान्तं मोहान्तसुरतक्षमा ॥१.१५९॥ ९९

अथ तुल्यलज्जास्मरत्वं, यथा ममैव
कान्ते पश्यति सानुरागमबला साचीकरोत्याननं
तस्मिन् कामकलापकुशले व्यावृत्तवक्त्रे किल ।
पश्यन्ती मुहुरन्तरङ्गमदनं दोलायमानेक्षणा
लज्जामन्मथमध्यगापि नितरां तस्याभवत्प्रीतये ॥१.१६०॥

प्रोद्यत्तारुण्यशालित्वं, यथा ममैव
नेत्राञ्चलेन ललिता वलिता च दृष्टिः
सख्यं करोति जघनं पुलिनेन साकम् ।
चक्रद्वयेन सदृशी कुचकुड्मलौ च नित्या
विभाति नितरां मदनस्य लक्ष्मीः ॥१.१६१॥

मोहान्तसुरतक्षमत्वं, यथा ममैव
आकीर्णघर्मजलमाकुलकेशपाशम्
आमीलिताक्षियुगमादृतपारवश्यम् ।
आनन्दकन्दलितमस्तमितान्यभावम्
आशास्महे किमपि चेष्टितमायताक्ष्याः ॥१.१६२॥

मध्या त्रिधा मानवृत्तेर्धीराधीरोभयात्मिका ॥१.१६३॥

तत्र धीरा
धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥१.१६४॥ १००

यथा ममैव
को दोषो मणिमालिका यदि भवेत्कण्ठे न किं शङ्करो
धत्ते भूषणमर्धचन्द्रममलं चन्द्रे न किं कालिमा ।
तत्साध्वेव कृतं कृतं भणितिभिर्नैवापराद्धं त्वया
भाग्यं द्रष्टुमनीशयैव भवतः कान्तापराद्धं मया ॥१.१६५॥ [*२]
[*२] अल्सो अप्पेअर्सस्१.१२५.


अथ अधीरा
अधीरा परुषैर्वाक्यैः खेदयेद्वल्लभं रुषा ॥१.१६६॥ १०१ ब्

यथा ममैव
निःशङ्कमागतमवेक्ष्य कृतापराधं
काचिन्नितान्तपरुषं विनिवृत्तवक्त्रा ।
किं प्रार्थनाभिरधिकं सुखमेधि याहि
याहीति खिन्नमकरोदसकृद्ब्रुवाणा ॥१.१६७॥

अथ धीराधीरा
धीराधीर तु वक्रोक्त्या सबाष्पं वदति प्रियम् ॥१.१६८॥ १०१ द्

यथा ममैव
आश्लेषोल्लसिताशयेन दयिताप्यार्द्रा त्वया चुम्बिता
चित्रोक्तिश्रवणोत्सुकेन कलिता तस्यां निशानाथता ।
तद्युक्तं दिवसागमेऽ त्र जडता कार्श्यं कलाहीनता
राजन्नित्युदिताश्रुगद्गदपदं काचिद्ब्रवीति प्रियम् ॥१.१६९॥

अथ प्रगल्भा
सम्पूर्णयौवनोन्मत्ता प्रगल्भा रूढमन्मथा ।
दयिताङ्गे विलीनेव यतते रतिकेलिषु । १०२
रतप्रारम्भमात्रेऽ पि गच्छत्यानन्दमूर्च्छताम् ॥१.१७०॥ १०३ ब्

सम्पूर्णयौवनत्वम्, याथा
उत्तुङ्गौ कुचकुम्भौ रम्भास्तम्भोपमानमूरुयुगम् ।
तरले दृशौ च तस्याः सृजता धात्रा किमाहितं सुकृतम् ॥१.१७१॥

रूढमन्मथा, याथा ममैव

निःश्वासोल्लसदुन्नतस्तनतटं निर्दष्टबिम्बाधरं
निर्मृष्टाङ्गविलेपनैश्च करणैश्चित्रे प्रवृत्ते रते । काञ्चीदाम विभिन्नमङ्गदयुगं भग्नं तथापि प्रियं
सम्प्रोत्साहयति स्म सा विदधती हस्तं क्वणत्कङ्कणम् ॥१.१७२॥

मानवृत्तेः प्रगल्भापि त्रिधा धीरादिभेदतः ॥१.१७३॥ १०३ द्

तत्र धीरप्रगल्भा
उदास्ते सुरते धीरा सावहित्था च सादरा ॥१.१७४॥ १०४ ब्

यथा
न प्रत्युद्गमनं करोति रशनाव्यासञ्जनादिच्छलान्
नादत्ते नवमञ्जरीमलिभयव्याजेन दत्तामपि ।
दत्ते दर्पणमादरेण न गिरं रूक्षाक्षरं मानिनी
चातुर्याद्विदधाति मानमथवा व्यक्तीकरोति प्रिया ॥१.१७५॥

अथ अधीरप्रगल्भा
सन्तर्ज्य निष्ठुरं रोषादधीरा ताडयेत्प्रियम् ॥१.१७६॥ १०४ द्

यथा ममैव
कान्ते सागसि काचिदन्तिकगते निर्भर्त्स्य रोषारुणैर्
भ्रूभङ्गीकुटिलैरपाङ्गवलनैरालोकमाना मुहुः ।
वध्वा मेखलया सपत्नरमणीपादाब्जलाक्षाङ्कितं
लीलानीलसरोरुहेण निटिलं हन्ति स्म रोषाकुला ॥१.१७७॥

अथ धीराधीरप्रगल्भा
धीराधीरगुणोपेता धीराधीरेति कथ्यते ॥१.१७८॥ १०५ ब्

यथा, ममैव
प्रत्यासीदति सागसि प्रियतमे सा सम्भ्रमादुत्थिता
वैयात्यात्पुरतः स्थिते सति पुनर्मानावधूताशया ।
रात्रौ क्वासि न चेत्क्वचिन्माणिमयी माला कुतस्ते वदेत्य्
उक्त्वा मेखलया हतेन सहसाश्लिष्टा सबाष्पं स्थिता ॥१.१७९॥

द्वेधा ज्येष्ठा कनिष्ठेति मध्या प्रौढापि तादृशी ॥१.१८०॥ १०५ द्

उभे अपि, यथा
एकत्रासनसङ्गते प्रियतमे पश्चादुपेत्यादराद्
एकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तोऽ परां चुम्बति ॥१.१८१॥ [अमरु १९]

अत्रेतरस्यां पश्यन्त्यामपि सम्भावनार्हतया पिहितलोचनाया ज्येष्ठत्वम् । तत्र समक्षं सम्भावनानर्हत्वात्चुम्बितायाः कनीयस्त्वम् । एवमितरदुदाहार्यम् ।

धीराधीरादिभेदेन मध्याप्रौढे त्रिधा त्रिधा ।
ज्येष्ठाकनिष्ट्ःाभेदेन ताः प्रत्येकं द्विधा द्विधा । १०६
मुग्धा त्वेकविधा चैवं सा त्रयोदशधोदिता ॥१.१८२॥ १०७ ब्

अथ परकीया
अन्यापि द्विविधा कन्या परोढा चेति भेदतः ॥१.१८३॥ १०७ द्
तत्र कन्या त्वनूढा स्यात्सलज्जा पितृपालिता ।
सखीकेलिषु विस्रब्धा प्रायो मुग्धागुणान्विता ॥१.१८४॥ १०८

यथा
तां नारदः कामचरः कदाचित्
कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैकवधूं भवित्रीं
प्रेम्णा शरीरार्धहरां हरस्य ॥१.१८५॥ [कु.सं. १.५०]

प्रधानमप्रधानं वा नाटकादावियं भवेत् ।
मालतीमाधवे लक्ष्ये मालतीमदयन्तिके ॥१.१८६॥ १०९
अथ परोढा
परोढा तु परेणोढाप्यन्यसम्भोगलालसा ।
लक्ष्या क्षुद्रप्रबन्धे सा सप्तशत्यादिके बुधैः ॥१.१८७॥ ११०

यथा वा
भर्ता निश्वसितेऽ प्यसूयति मनोजिघ्रः सपत्नीजनः
श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः ।
तद्दूरादयमङ्जलिः किममुना दृभङ्गपातेन ते
वैदग्धीरचनाप्रपञ्चरसिक व्यर्थोऽ यमत्र श्रमः ॥१.१८८॥ [*३]
[*३] थिस्वेर्से इस्नोत्fओउन्दिनल्लेदितिओन्स्. वेन्कतछरि हस्नोतिन्च्लुदेदितिन् हिसेदितिओन्.


अथ सामान्या
साधारणस्त्री गणिका कलाप्रागल्भ्यधार्ष्ट्ययुक् ॥१.१८९॥ १११ ब्

यथा
गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं
सन्दष्टाधरमुक्तसीत्कृतमतिभ्राम्यद्भ्रुनृत्यत्करम् ।
चाटुप्रायवचोविचित्रभणितैर्यातै रुतैश्चाङ्कितं
वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ॥१.१९०॥
(शृङ्गारतिलके १.१२७)

एषा स्याद्द्विविधा रक्ता विरक्ता चेति भेदतः ॥१.१९१॥ १११ द्
तत्र रक्ता तु वर्ण्या स्यादप्राधान्येन नाटके ।
अग्निमित्रस्य विज्ञेया यथा राज्ञ इरावती ॥१.१९२॥ ११२
प्रधानमप्रधानं वा नाटकेतररूपके ।
सा चेद्दिव्या नाटके तु प्राधान्येनैव वर्ण्यते ॥१.१९३॥ ११३

यथा
आ दर्शनात्प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् ।
बाणेन मकरकेतोः कृतमार्गमबन्ध्यपातेन ॥१.१९४॥ (विक्रमो. २.२)

विरक्ता तु प्रहसनप्रभृतिष्वेव वर्ण्यते ।
तस्या धौर्यप्रभृतयो गुआष्तदुपयोगिनः ॥१.१९५॥ ११४
छन्नकामान् रतार्थाज्ञान् बालपाषण्डषण्डकान् ।
रक्तेव रञ्जयेदिभ्यान्निःस्वान्मात्रा विवासयेत् ॥१.१९६॥ ११५

छन्नकामाः श्रोत्रियादयः । रतार्था रतिसुखप्रयोजनाः । अज्ञा मूढाः । शेषाः प्रसिद्धाः ।

अत्र केचिदाहुः
गणिकाया नानुरागो गुणवत्यपि नायके ।
रसाभासप्रसङ्गः स्यादरक्तायाश्च वर्णने ॥१.१९७॥

अतश्च नाटकादौ तु वर्ण्या सा न भवेदिति ॥१.१९८॥ ११६ ब्

तथा चाहुः [शृ.ति. १.६२,६४}
सामान्या वनिता वेश्या सा द्रव्यं परमिच्छता ॥१.१९९॥
गुणहीने च न द्वेषो नानुरागो गुणिन्यपि ।
शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥१.२००॥ इति ।

तन्मतं नानुमनुते धीमान् श्रीसिंहभूपतिः । ११६
भावानुबन्धाभावे च नायिकात्वपराहतेः ॥१.२०१॥
तस्याः प्रकरणादौ च नायिकात्वविधानतः ।११७
अनायिकावर्णने तु रसाभासप्रसङ्गतः ॥१.२०२॥
तथा प्रकरणादीनामरसाश्रयतागतेः ।११८
रसाश्रयं तु दशधेत्यादिशास्त्रविरोधतः ॥१.२०३॥
तस्मात्साधारणस्त्रीणां गुणशालिनि नायके । ११९
भावानुबन्धः स्यादेव रुद्रटस्यापि भाषणात् ॥१.२०४॥ १२० ब्

तत्राह रुद्रटः(शृ.ति. १.६९)
ईर्ष्या कुलस्त्रीषु न नायकस्य
निःशङ्ककेलिर्न पराङ्गनासु ।
वेश्यासु चैतद्द्वितयं प्ररूढं
सर्वस्वमेतास्तदहो स्मरस्य ॥१.२०५॥ इति ।

उदात्तादिभिदां केचित्सर्वासामपि मन्वते । १२० द्
तास्तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः ॥१.२०६॥
प्रथमं प्रोषितपतिका वास्कसज्जा ततश्च विरहोत्का । १२१
अथ खण्डिता मता स्यात्कलहान्तरिताभिसारिका चैव ॥१.२०७॥
कथिता च विप्रलब्धा स्वाधीनपतिस्तथा चान्या । १२२
शृङ्गारकृतावस्थाभेदात्ताश्चाष्टधा भिन्नाः ॥१.२०८॥

तत्र प्रोषितपतिका
दूरदेशं गते कान्ते भवेत्प्रोषितभर्तृका । १२३
अस्यास्तु जागरः कार्श्यं निमित्तादिविलोकनम् ॥१.२०९॥
मालिन्यमनवस्थानं प्रायः शय्यानिवेषणम् । १२४
जाड्यचिन्ताप्रभृतयो विक्रियाः कथिता बुधैः ॥१.२१०॥ १२५ ब्

यथा मम
दूरे तिष्ठति सोऽ धुना प्रियतमः प्राप्तो वसन्तोदयः
कष्टं कोकिलकूजितानि सहसा जातानि दम्भोलयः ।
अङ्गान्यप्यवशानि यान्ति तनुतां यातीव मे चेतना
हा कष्टं मम दुष्कृतस्य महिमा चन्द्रोऽ पि चण्डायते ॥१.२११॥

अथ वासकसज्जिका
भरतादयैरभिदधे स्त्रीणां वारस्तु वासकः । १२५ द्
स्ववासकवशात्कान्ते समेष्यति गृहान्तरम् ॥१.२१२॥
सज्जीकरोति चात्मानं या सा वासकसज्जिका । १२६
अस्यास्तु चेष्टाः सम्पर्कमनोरथविचिन्तनम् ॥१.२१३॥
सखीविनोदो हृल्लेखो मुहुर्दूतिनिरीक्षणम् । १२७
प्रियाभिगमनमार्गाभिवीक्षणप्रमुखा मताः ॥१.२१४॥ १२८ ब्

यथ ममैव
केलीगृहं गमितशयनं भूषितं चात्मदेहं
दर्शं दर्शं दयितपदवीं सादरं वीक्षमाणा ।
कामक्रीडां मनसि विविधां भाविनी कल्पयन्ती
सारङ्गाक्षी रणरणिकया निःश्वसन्ती समास्ते ॥१.२१५॥

अथ विरहोत्कण्ठिता
अनागसि प्रियतमे चिरयत्युत्सुका तु या । १२८
विरहोत्कण्ठिता भाववेदिभिः सा समीरिता ॥१.२१६॥
अस्यास्तु चेष्टा हृत्तापो वेपथुश्चाङ्गसादनम् । १२९
अरतिर्बाष्पमोक्षश्च स्वावस्थाकथनादयः ॥१.२१७॥ १३० ब्

यथा ममैव
चिरयति मनःकान्ते कान्ता निरागसि सोत्सुका
मधु मलयजं माकन्दं वा निरीक्षितुमक्षमा ।
गलितपलितं नो जानीते करादपि कङ्कणं
परभृतरुतं श्रुत्वा बाष्पं विमुञ्चति वेपते ॥१.२१८॥

अथ खण्डिता
उल्लङ्घ्य समयं यस्याः प्रेयानन्योपभोगवान् । १३० द्
भोगलक्ष्माञ्चितः प्रातरागच्छेत्सा हि खण्डिता ॥१.२१९॥
अस्यास्तु चिन्ता निःश्वासस्तूष्णींभावोऽ श्रुमोचनम् । १३१
खेदभ्रान्त्यस्फुटालापा इत्याद्या विक्रिया मताः ॥१.२२०॥

यथा ममैव
प्रभाते प्राणेशं नवमदनमुद्राङ्किततनुं
वधूर्दृष्ट्वा रोषात्किमपि कुटिलं जल्पति मुहुः ।
मुहुर्धत्ते चिन्तां मुहुरपि परिभ्राम्यति मुहुर्
विधत्ते निःश्वासं मुहुरपि च बाष्पं विसृजति ॥१.२२१॥

अथ कलहान्तरिता
या सखीनां पुरः पादपतितं वल्लभं रुषा । १३२
निरस्य पश्चात्तपति कलहान्तरिता हि सा ॥१.२२२॥
अस्यास्तु भ्रान्तिसंलापौ मोहो निःश्वसितं ज्वरः । १३३
मुहुः प्रलाप इत्याद्या इष्टाश्चेष्टा मनीषिभिः ॥१.२२३॥

यथा ममैव
निःशङ्का नितरां निरस्य दयितं पादानतं प्रेयसी
कोपेनाद्य कृतं मया किमिदमित्यार्ता सखीं जल्पति ।
सोद्वेगं भ्रमति क्षिपत्यनुदिशं दृष्टिं विलोलाकुलां
रम्यं द्वेष्टि मुहुर्मुहुः प्रलपति श्वासाधिकं मूर्च्छति ॥१.२२४॥

अथ अभिसारिका (स्वीया)
मदनानलसन्तप्ता याभिसारयति प्रियम् । १३४
ज्योत्स्नातामस्विनी यानयोग्याम्बरविभूषणा ॥१.२२५॥
स्वयं वाभिसरेद्या तु सा भवेदभिसारिका । १३५
अस्याः सन्तापचिन्ताद्या विक्रियास्तु यथोचितम् ॥१.२२६॥
कान्ताभिसरणए स्वीया लज्जानाशादिशङ्कया । १३६
व्याघ्रहुङ्कारसन्त्रस्तमृगशावविलोचना ॥१.२२७॥
नील्यादिरक्तवसनरचिताङ्गावगुण्ठना । १३७
स्वाङ्गे विलीनावयवा निःशब्दं पादचारिणी ॥१.२२८॥
सुस्निग्धैकसखीमात्रयुक्ता याति समुत्सुका । १३८
मृषा प्रिये तु निद्राणे पार्श्वे तिष्ठति निश्चला ॥१.२२९॥
गर्वातिरेकनिभृता शीतैः स्रग्दामचन्दनैः । १३९
भावज्ञा बोधयत्येनं तद्भावावेक्षणोत्सुका ॥१.२३०॥

यथा
तमःसवर्णं विदधे विभूषणं
निनाददोषेण नुनोद नूपुरम् ।
प्रतीक्षितुं न स्फुटचन्द्रिकाभयाद्
इयेष दूतीमभिसारिकाजनः ॥१.२३१॥

यथा वा
मल्लिकामालभारिण्यः
सर्वाङ्गीणार्द्रचन्दनाः ।
क्षौमवत्यो न लक्ष्यन्ते
ज्योत्स्नायामभिसारिका ॥१.२३२॥ (काव्यादर्श २.२१३)

(अन्याङ्गनाभिसारिकाकन्यका)
स्वीयावत्कन्यका ज्ञेया कान्ताभिसरणक्रमे ॥१.२३३॥ १४०

(वेश्याभिसारिका)
वेश्याभिसारिका त्वेति हृष्टा वैशिकनायकम् ।
आविर्भूतस्मितमुखी मदघूर्णितलोचना ॥१.२३४॥ १४१
अनुलिप्ताखिलाङ्गी च विचित्राभरणान्विता ।
स्नेहाङ्कुरितरोमाञ्चस्फुटीभूतमनोभवा ॥१.२३५॥ १४२
संवेष्टिता परिजनैर्भोगोपकरणान्वितैः ।
रशनारावमाधुर्यदीपितानङ्गवैभवा ॥१.२३६॥ १४३
चरणाम्बुजसंलग्नमणिमञ्जीरमञ्जुला ।
एषा च मृदुसंस्पर्शैः केशकण्डूयनादिभिः । १४४
प्रबोधयति तद्बोधे प्रणयात्कुपितेक्षणा ॥१.२३७॥

यथा मम
मासि मधौ चन्द्रातपधवलायां निशि सखीजनालापैः ।
मदनातुराभिसरति प्रणयवती यं स एव खलु धन्यः ॥१.२३८॥

अथ प्रेष्याभिसारिका
बाहुविक्षेपलुलितस्रस्तधम्मिल्लमल्लिका । १४५
चलितभ्रूविकारादिविलासललितेक्षणा ॥१.२३९॥
मैरेयाविरतास्वादमदस्खलितजल्पिता । १४६
प्रेष्याभियाति दयितं चेटीभिः सह गर्विता ॥१.२४०॥
प्रियं कङ्कणनिक्वाणमञ्जुव्यजनवीजनैः । १४७
विबोध्य निर्भर्त्सयति नासाभङ्गपुरःसरम् ॥१.२४१॥

यथा
स्रस्तस्रक्कबरीभरं सललितभ्रूवल्लिहालामदा
व्यक्तालापमितस्ततः प्रतिपदं विक्षिप्तबाहालता ।
सोत्कण्ठं दयिताभिसृत्य शयितं कान्तं क्वणत्कङ्कण
क्वाणेन प्रतिबोध्य भर्त्सयति यं धन्यः स एकः पुमान् ॥१.२४२॥

अथ विप्रलब्धा
कृत्वा सङ्केतमप्राप्ते दैवाद्व्यथिता तु या । १४८
विप्रलब्धेति सा प्रोक्ता बुधैरस्यास्तु विक्रिया ।
निर्वेदचिन्ताखेदाश्रुमूर्च्छानिःश्वसनादयः ॥१.२४३॥ १४९

यथा ममैव
चन्द्रबिम्बमुदयाद्रिमागतं
पश्य तेन सखि वञ्चिता वयम् ।
अत्र किं निजगृहं नयस्व मां
तत्र वा किमिति विव्यथे वधूः ॥१.२४४॥

अथ स्वाधीनभर्तृका
स्वायत्तासन्नपतिका हृष्टा स्वाधीनवल्लभा ।
अस्यास्तु चेष्टाः कथिताः स्मरपूजामहोत्सवः । १५०
वनकेलिजलक्रीडाकुसुमापचयादयः ॥१.२४५॥

यथा ममैव
सलीलं धम्मिल्ले दरहसितकह्लाररचनां
कपोले सोत्कम्पं मृगमदमयं पत्रतिलकम् ।
कुचाभोगे कुर्वन् ललितमकरीं कुङ्कुममयीं
युवा धन्यः सोऽ यं मदयति च नित्यं प्रियतमाम् ॥१.२४६॥

उत्तमा मध्यमा नीचेत्येवं सर्वाः स्त्रियस्त्रिधा ॥१.२४७॥ १५१

तत्रोत्तमा
अभिजातैर्भोगतृप्तैर्गुणिभिर्या च काम्यते ।
गृह्णाति कारणे कोपमनुनीता प्रसीदति ॥१.२४८॥ १५२
विदधत्यप्रियं पत्यौ स्वयमाचरति प्रियम् ।
वल्लभे सापराधेऽ पि तूष्णीं तिष्ठति सोत्तमा ॥१.२४९॥ १५३

अथ मध्यमा
पुंसः स्वयं कामयते काम्यते या च तैर्वधूः ।
सक्रोधे क्रुध्यति मुहुः सानृतेऽ नृतवादिनी ॥१.२५०॥ १५४
सापकारेऽ पकर्त्री स्यात्स्निग्धे स्निह्यति वल्लभे ।
एवमादिगुणोपेता मध्यमा सा प्रकीर्तिता ॥१.२५१॥ १५५

अथ नीचा
अकस्मात्कुप्यति रुषं प्रार्थितापि न मुञ्चति ।
सुरूपं वा कुरूपं वा गुणवन्तमथागुणम् ॥१.२५२॥ १५६
स्थविरं तरुणं वापि या वा कामयते मुहुः ।
ईर्ष्याकोपविवादेषु नियता साधमा स्मृता ॥१.२५३॥ १५७

आसामुदाहरणानि लोकत एवावगन्तव्यानि ।

स्वीया त्रयोदशविधा विविधा च वराङ्गना ।
वैशिकैवं षोडशधा ताश्चावस्थाभिरष्टभिः ॥१.२५४॥ १५८
एकैकमष्टधा तासामुत्तमादिप्रभेदतः ।
त्रैविध्यमेवं सचतुरशीतिस्त्रिशती भवेत् ॥१.२५५॥ १५९
अवस्थात्रयमेवेति केचिदाहुः परस्त्रियाः ॥१.२५६॥

यथा
त्र्यवस्थैव परस्त्री स्यात्प्रथमं विरहोन्मनाः ।
ततो ‘भिसारिका भूत्वाभिसरन्ती व्रजेत्स्वयम् ॥१.२५७॥
सङ्केताच्चेत्परिभ्रष्टा विप्रलब्धा भवेत्पुनः ।
पराधीनपतित्वेन नान्यावस्थात्र सङ्गता ॥१.२५८॥ इति । (भावप्रकाश)

अथ नायिकासहायाः
आसां दूत्यः सखी चेटी लिङ्गिनी प्रतिवेशिनी । १६०
धात्रेयी शिल्पकारी च कुमारी कथिनी तथा ।
कारुर्विप्रश्निका चेति नेतृमित्रगुणान्विताः ॥१.२५९॥ १६१

लिङ्गिनी पण्डितकौशिक्यादिः । प्रतिवेशिनी समीपगृहवर्तिनी । शिल्पकारी वीणावादनादिनिपुणा । कारू रजक्यादिः । विप्रश्निका दैवज्ञा । शेषाः प्रसिद्धाः । इतररसालम्बनानामनतिनिरूपणीयतया पृथक्प्रकरणारम्भस्यानुपयोगात्तत्तद्रसप्रसङ्ग एव निरूपणं करिष्यामः ॥


इति नायिकाप्रकरणम् ॥

अथ शृङ्गारस्योद्दीपनविभावः

उद्दीपनं चतुर्धा स्यादालम्बनसमाश्रयम् ।
गुणचेष्टालङ्कृतयस्तटस्थाश्चेति भेदतः ॥१.२६०॥ १६२

तत्र गुणाः
यौवनं रूपलावण्ये सौन्दर्यमभिरूपता ।
मार्दवं सौकुमार्यं चेत्यालम्बनगता गुणाः ॥१.२६१॥ १६३

तत्र यौवनम्
सर्वासामपि नारीणां यौवनं तु चतुर्विधम् ।
प्रतियौवनमेतासां चेष्टितानि पृथक्पृथक् ॥१.२६२॥ १६४

तत्र प्रथमयौवनम्
ईषच्चपलनेत्रान्तं स्मरस्मेरमुखाम्बुजम् ।
सगर्वजरजोगण्डमसमग्रारुणाधरम् ॥१.२६३॥ १६५
लावण्योद्भेदरम्याङ्गं विलसद्भावसौरभम् ।
उन्मीलिताङ्कुरकुचमस्फुटाङ्गकसन्धिकम् ॥१.२६४॥ १६६
प्रथमं यौवनं तत्र वर्तमाना मृगेक्षणा ।
अपेक्षते मृदुस्पर्शं सहते नोद्धतां रतिम् ॥१.२६५॥ १६७
सखीकेलिरता स्वाङ्गसंस्कारकलितादरा ।
न कोपहर्षौ भजते सपत्नीदर्शनादिषु । १६८
नातिरज्यति कान्तस्य सङ्गमे किं तु लज्जते ॥१.२६६॥

यथा
विस्तारी स्तनभार एष गमितो न स्वोचितामुन्नतिं
रेखोद्भासि तथा वलित्रयमिदं न स्पष्टनिम्नोत्तम् ।
मध्येऽ स्या ऋजुरायतार्धकपिशा रोमावली दृश्यते
रम्यं यौवनशैशवव्यतिकरोन्मिश्रं वयो वर्तते ॥१.२६७॥
(दशरूपकावलोकेऽ पि उद्धृतमिदम्)

अस्याश्चेष्टा, यथा ममैव
आविर्भवत्प्रथमदर्शनसाध्वसानि
सावज्ञमादृतसखीजनजल्पितानि ।
सव्याजकोपमधुराणि गिरेः सुताया
वः पान्तु नूतनसमागमचेष्टितानि ॥१.२६८॥

अथ द्वितीययौवनम्
स्तनौ पीनौ तनुर्मध्यः पाणिपादस्य रक्तिमा । १६९
ऊरू करिकराकारावङ्गं व्यक्ताङ्गसन्धिकम् ।
नितम्बो विपुलो नाभिर्गभीरा जघनं घनम् ॥१.२६९॥ १७०
व्यक्ता रोमावली स्नैग्ध्यमङ्गकेशरदाक्षिषु ।
द्वितीययौवने तेन कलिता वामलोचना ॥१.२७०॥ १७१
सखीषु स्वाशयज्ञासु स्निग्धा प्रायेण मानिनी ।
न प्रसीदत्यनुनये सपत्नीष्वभ्यसूयिनी ॥१.२७१॥ १७२
नापराधान् विषहते प्रणयेर्ष्याकषायिता ।
रतिकेलिष्वनिभृता चेष्टते गर्विता रहः ॥१.२७२॥ १७३

यथा
तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद्युवतीविषये सृष्टिराद्यैव धातुः ॥१.२७३॥ [मे.दू. २.२२]

अथ तृतीययौवनम्
अस्निग्धता नयनयोर्गण्डयोर्म्लानकान्तिता ।
विच्छायता खरस्पर्शोऽ प्यङ्गानां श्लथता मनाक् ॥१.२७४॥ १७४
अधरे मसृणो रागस्तृतीये यौवने भवेत् ।
तत्र स्त्रीणामियं चेष्टा रतितन्त्रविदग्धता ॥१.२७५॥ १७५
वल्लभस्यापरित्यागस्तदाकर्षणकौशलम् ।
अनादरोऽ पराधेषु सपत्नीष्वप्यमत्सरः ॥१.२७६॥ १७६

यथा आनन्दकोशप्रहसने
वक्त्रैः प्रयत्नविकचैर्वलिभैश्च गण्डैर्
मध्यैश्च मांसलतरैः शिथिलैरुरोजैः ।
घण्टापथे रतिपतेरपि नूनमेता
वृन्तश्लथानि कुसुमानि विडम्बयन्ति ॥१.२७७॥

अथ चतुर्थयौवनम्
जर्जरत्वं स्तनश्रोणिगण्डोरुजघनादिषु ।
निर्मांसता च भवति चतुर्थे यौवने स्त्रियाः ॥१.२७८॥ १७७
तत्र चेष्टा रतिविधावनुत्साहोऽ समर्थता ।
सपत्नीष्वानुकूल्यं च कान्तेनाविरहस्थितिः ॥१.२७९॥ १७८

यथा आनन्दकोशप्रहसने
क्षामैश्च गण्डफलकैर्विरलैश्च दन्तैर्
लम्बैः कुचैर्गतकथाप्रचुरैः प्रसङ्गैः ।
अङ्गैरयत्नशिथिलैश्च कदाप्यसेव्या
भर्तुः पणानभिलषन्त्यहहालसाङ्ग्यः ॥१.२८०॥

तत्र शृङ्गारयोग्यत्वं सरसाह्लादकारणम् ।
आद्यद्वितीययोरेव न तृतीयचतुर्थयोः ॥१.२८१॥ १७९

अथ रूपम्
अङ्गान्यभूषितान्येव प्रक्षेपाद्यैर्विभूषणैः ।
येन भूषितवद्भाति तद्रूपमिति कथ्यते ॥१.२८२॥ १८०

यथा
स्थातुं विमुक्ताभरणा विमाल्या
भूयोऽ सहा भूषयितुं शरीरम् ।
अगाद्बहिः काचिदुदाररूपा
यां वीक्ष्य लज्जां दधिरे सभूषाः ॥१.२८३॥

अथ लावण्यम्
मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा ।
प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥१.२८४॥ १८१

यथा
अङ्गेषु स्फटिकादर्शदर्शनीयेषु जृम्भते ।
अमला कोमला कान्तिर्ज्योत्स्नेव प्रतिबिम्बिता ॥१.२८५॥

अथ सौन्दर्यम्
अङ्गप्रत्यान्गकानां यः सन्निवेशो यथोचितम् ।
सुस्लिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यमितीर्यते ॥१.२८६॥ १८२

यथा
दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः
सङ्क्षिप्तं निविडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावरालङ्गुली
छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्या वपुः ॥१.२८७॥
(मालविकाग्निमित्रम् २.३)

अथ अभिरूपता
यदात्मीयगुणोत्कर्षैर्वस्त्वन्यन्निकटस्थितम् ।
सारूप्यं नयति प्राज्ञैराभिरूप्यं तदुच्यते ॥१.२८८॥ १८३

यथा
एकोऽ पि त्रय इव भाति कन्दुकोऽ यं
कान्तायाः करतलरागरक्तरक्तः ।
भूमौ तच्चरणनखांशुगौरगौरः
खस्थः सन्नयनमरीचिनीलनीलः ॥१.२८९॥ (भोजचरित्रे २९८)

अथ मार्दवम्
स्पृष्टं यत्राङ्गमस्पृष्टमिव स्यान्मार्दवं हि तत् ॥१.२९०॥ १८४ ब्

यथा
याभ्यां दुकूलान्तरलक्षिताभ्यां
विस्रंसते स्नैग्ध्यगुणेन दृष्टिः ।
निर्माणकालेऽ पि ततस्तदूर्वोः
संस्पर्शशङ्का न विधेः कराभ्याम् ॥१.२९१॥

अत्र अमूर्तापि दृष्टिर्विस्रंसते । मूर्तौ करौ किमुतेति श्लक्ष्णत्वातिशयकथनान्मार्दवम् ।

अथ सौकुमार्यम्
या स्पर्शासहताङ्गेषु कोमलस्यापि वस्तुनः । १८४ द्
तत्सौकुमार्यं त्रेधा स्यान्मुख्यमध्याधमक्रमात् ॥१.२९२॥

अथ उत्तमसौकुमार्यम्
अङ्गं पुष्पादिसंस्पर्शासहं येन तदुत्तमम् ॥१.२९३॥ १८५

यथा
महार्हशय्यापरिवर्तनच्युतैः
स्वकेशपुष्पैरपि या स्म दूयते ।
अशेत सा बाहुलतोपधायिनी
निषेदुषी स्थण्डिल एव केवले ॥१.२९४॥ [कु.सं. ५.१२]

अत्र यद्यप्युत्तरार्धे स्थण्डिलस्पर्शसहत्वमुक्तम् । तथापि स्थिराग्रहस्यैव मनसः क्लेशसहिष्णुत्वं प्रतीयते न पुनः शरीरस्येत्यत्रोत्तमसौकुमार्यमुपपद्यते ।

अथ मध्यमसौकुमार्यम्
न सहेत करस्पर्शं येनाङ्गं मध्यमं हि तत् ॥१.२९५॥ १८६ ब्

यथा
लाक्षां विधातुमवलम्बितमात्रमेव
सख्याः करेण तरुणाम्बुजकोमलेन ।
कस्याश्चिदग्रपदमाशु बभूव रक्तं
लाक्षारसः पुनरभून्न तु भूषणाय ॥१.२९६॥
(उत्प्रेक्षावल्लभस्येति सूक्तिमुक्तावलिः)

अथ अधमसौकुमार्यम्
येनाङ्गमातपादीनामसहं तदिहाधमम् ॥१.२९७॥ १८६

यथा
आमोदमामोदनमादधानं
निलीननीलालकचञ्चरीकम् ।
क्षणेन पद्मामुखपद्ममासीत्
त्विषा रवेः कोमलयापि ताम्रम् ॥१.२९८॥

तच्चेष्टा लीलाविलासादयः । तेऽ प्यनुभावप्रकरणे वक्ष्यन्ते ।

अथ अलङ्कृतिः
चतुर्धालङ्कृतिर्वासोभूषामाल्यानुलेपनैः ॥१.२९९॥ १८७ ब्

तत्र वस्त्रालङ्कारो, यथा

क्षीरोदवेलेव सफेनपुञ्जा
पर्याप्तचन्द्रेव शरत्त्रियामा ।
नवं नवक्षौमनिवासिनी सा
भूयो बभौ दर्पणमादधाना ॥१.३००॥ [कु.सं. ७.२६]

भूषालङ्कारो, यथा

सा सम्भवद्भिः कुसुमैर्लतेव
ज्योतिर्भिरुद्यद्भिरिव त्रियामा । सरिद्विहङ्गैरिव लीयमानैर्
आमुच्यमानाभरणा चकाशे ॥१.३०१॥ [कु.सं. ७.२७]

माल्यानुलेपनालङ्कारो, यथा

आलोलैरनुमीयते मधुकरैः केशेषु माल्यग्रहः
कान्तिः कापि कपोलयोः प्रथयते ताम्बूलमन्तर्गतम् ।
अङ्गानामनुभूयते परिमलैरालेपनप्रक्रिया
वेषः कोऽ पि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः ॥१.३०२॥
अथ तटस्थाः
तटस्थाश्चन्द्रिका धारागृहचन्द्रोदयावपि । १८७
कोकिलालापमाकन्दमन्दमारुतषट्पदाः ।
लतामण्डपभूगेहदीर्घिकाजलदारवाः ॥१.३०३॥ १८८
प्रासादगर्भसङ्गीतक्रीडाद्रिसरिदादयः ।
एवमूह्या यथा कालमुपभोगोपयोगिनः ॥१.३०४॥ १८९

तत्र चन्द्रिकाय उद्दीपनत्वम्, यथा
दुरासदे चन्द्रिकया सखीगणै
र्लतालिकुञ्जे ललिता निगूहिता ।
चकोरचञ्चुच्युतकौमुदीकणं
कुतोऽ पि दृष्ट्वा भजति स्म मूर्च्छनाम् ॥१.३०५॥

धारागृहस्य, यथा
सा चन्द्रकान्तामपि चन्द्रकान्त
वेदीमधिष्ठातुमपारयन्ती ।
धारागृहं प्राप्य तदप्यनङ्ग
घोरासिधारागृहमन्वमंस्त ॥१.३०६॥

चन्द्रोदयस्य, यथा
चन्द्रबिम्बमुदयाद्रिमागतं
पश्य तेन सखि वञ्चिता वयम् ।
अत्र किं निजगृहं नयस्व मां
तत्र वा किमिति विव्यथे वधूः ॥१.३०७॥

कोकिलालापस्य, यथा
चूताङ्कुरास्वादकषायकण्ठः
पुंस्कोकिलो यन्मधुरं चुकूज ।
मनस्विनीमानविघातदक्षं
तदेव जातं वचनं स्मरस्य ॥१.३०८॥ [कु.सं. ३.३२]

माकन्दस्य, यथा
चिरलालित एष बालचूतः
स्वकरावर्जितकुम्भवारिसेकैः ।
कुसुमायुधसायकान् प्रसूते
पयसा पन्नगवर्धन्ं तदेतत् ॥१.३०९॥

माकन्द इत्यशोकादीनामुपलक्षणम् ।

मन्दमारुतस्य, यथा
भृशं निपीतो बुजगाङ्गनाभिर्
विनिर्गतस्तद्गरलेन साकम् ।
तदन्यथा चेत्कथमक्षिणोत्ताम्
अदक्षिणो दक्षिणमातरिश्वा ॥१.३१०॥

षट्पदस्वनस्य, यथा
मधुव्रतानां मदमन्थराणां
मन्त्रैरपूर्वैरिव मञ्जुनादैः ।
मधुश्रियो मानवतीजनानां
मानग्रहोच्चाटनमाचरन्ति ॥१.३११॥

लतामण्डपस्य, यथा
एषा पूगवनी प्रफुल्लकुसुमा पर्यन्तचूतद्रुमा
तन्मध्येऽ पि सरोवरं निधुवनान्तानन्दमन्दानिलम् ।
तत्तीरे कदलीगृहं विलसितं तस्यान्तरे मल्लिका
वल्लीमण्डपमत्र सा सुनयना त्वन्मार्गमवेक्षते ॥१.३१२॥

भूगेहस्य, यथा
कालागरूद्गारसुगन्धिगन्ध
धूपाधिवासाश्रयभूगृहेषु ।
न तत्रसुर्माघसमीरणेभ्यः
श्यामाकुचोष्माश्रयिणः पुमांसः ॥१.३१३॥

दीर्घिकाया, यथा
एतस्मिन्मदकलमल्लिकाक्षपक्ष
व्याधूतस्फुरदुरुदण्डपुण्डरीकाः ।
बाष्पाम्भः परिपतनोद्गमान्तराले
दृशन्तामविरहितश्रियो विभागाः ॥१.३१४॥ (मालतीमाधव ९.१४)

जलदारवस्य, यथा
मनस्विनीनां मनसोऽ पि मानस्
तथापनीतो घनगर्जितेन ।
यथोपगूढाः प्रथितागसोऽ पि
क्षणं विदग्धाः कुपिता इवासन् ॥१.३१५॥

अत्र जलदारवग्रहणं विद्युदादीनामप्युपलक्षणम् । विद्युतो, यथा

वर्षासु तासु क्षणरुक्प्रकाशा
द्गोपाङ्गना माधवमालिलिङ्ग ।
विद्युच्च सा वीक्ष्य तदङ्गशोभां
ह्रीणेव तूर्णं जलदं जगाहे ॥१.३१६॥

प्रासादगर्भस्य, यथा
गोपानसीसंश्रितबर्हिणेषु
कपोतपालीस्थकपोतकेषु ।
प्रासादगर्भेषु रसाद्वितीयो
रेमे पयोदानिलदुर्गमेषु ॥१.३१७॥

सङ्गीतस्य, यथा
माधवो मधुरमाधवीलता
मण्डपे पटुरटन्मधुव्रते ।
संजगौ श्रवणचारु गोपिका
मानमीनवडिशेन वेणुना ॥१.३१८॥

क्रीडाद्रेर्, यथा
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोस्
त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ।
यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणाम्
उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥१.३१९॥ [मे.दू. १.२६]

सरितो, यथा
अथोर्मिमालोन्मदराजहंसे
रोधोलतापुष्पवहे सरय्वाः ।
विहर्तुमिच्छा वनितासखस्य
तस्याम्भसि ग्रीष्मसुखे बभूव ॥१.३२०॥ (र.वं. १६.५४)

इत्याद्यन्यदप्युदाहार्यम् ।

ओ)०(ओ

अथानुभावाः

आलम्बनगताश्चेष्टा अनुभावा विवक्षिताः ।
भावं मनोगतं साक्षात्स्वहेतुं व्यञ्जयन्ति ये ।
तेऽ नुभावा इति ख्याता भ्रूक्षेपस्मितादयः ॥१.३२१॥ १९०
ते चतुर्धा चित्तगात्रवाग्बुद्ध्यारम्भसम्भवाः ।
तत्र च भावो हावो हेला शोभा कान्तिदीप्ती च ॥१.३२२॥ १९१
प्रागल्भ्यं माधुर्यं धैर्यौदार्यं च चित्तजा भावाः ।
निर्विकारस्य चित्तस्य भावः स्यादादिविक्रिया ॥१.३२३॥ १९२

तत्र भावः, तथोक्तं हि प्राक्तनैरपि

चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति ।
तत्राद्या विक्रिया भावो बीजस्यादिविकारवत् ॥१.३२४॥ इति ।
(fरोम् शारदतनयऽस्भावप्रकाश)

भावो, यथा ममैव
बाला प्रसाधनविधौ निदधाति चित्तं
दत्तादरा परिणये मणिपुत्रिकाणाम् ।
सा शङ्कते निजसखीजनमन्दहासैर्
आलक्ष्यते तदिह भावनवावतारः ॥१.३२५॥ (अबोवे १.१५४)

अत्र पूर्वं शैशवेन रसानभिज्ञस्य चित्तस्य प्रसाधनविधित्सापाञ्चालिकापरिणयादरसखीजनहासशङ्कादीनां तत्प्रथममेव सम्भूतत्वाद्भावः ।

अथ हावः
ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविलासकृत् ।
भाव ईषत्प्रकाशो यः स हाव इति कथ्यते ॥१.३२६॥ १९३

यथा
धात्रीवचोभिर्ध्वनिमर्मगर्भैः
क्षणं सरोषस्मितमात्तलज्जा ।
पाञ्चालिकाद्वन्द्वमयोजयत्सा
सम्बन्धिनी स्वस्य सखीजनस्य ॥१.३२७॥

अत्र चित्तविकाराणां रोषहर्षलज्जादीनां कुटिलेक्षणस्मितनताननत्वादिभिरीषत्प्रकाशनादयं हावः ।

अथ हेला
नानाविकारैः सुव्यक्तः शृङ्गाराकृतिसूचकैः ।
हाव एव भवेद्धेला ललिताभिनयात्मिका ॥१.३२८॥ १९४

यथा
विवृण्वती शैलसुता भावमङ्गैः
स्फुरद्बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ
मुखेन पर्यस्तविलोचनेन ॥१.३२९॥ [कु.सं. ३.६८]

अत्र रोमाञ्चमुखसाचीकरणपर्यस्तविलोचनत्वादिविकारैश्चित्तव्यापारस्यातिप्रकाशत्वेन हेला ।

तत्र शोभा
सा शोभा रूपभोगाद्यैर्यत्स्यादङ्गविभूषणम् ॥१.३३०॥ १९५ ब्

यथा
अशिथिलपरिरम्भादर्धशिष्टाङ्गरागाम्
अविरतरतवेगादंसलम्बोरुचूलीम् ।
उषसि शयनगेहादुच्चलन्तीं स्खलन्तीं
करतलधृतनीवीं कातराक्षीं भजामः ॥१.३३१॥

अथ कान्तिः
शोभैव कान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥१.३३२॥ १९५ द्

यथा
उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासः शिथिलितकवरीभारमंसे वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥१.३३३॥
(वेणीसंहार १.३)

अत्र पूर्वरतान्तजनिताया वपुःकान्तेरुत्तररतारम्भहेतुत्वान्मन्मथाप्यायकत्वम् ।

अथ दीप्तिः
कान्तिरेव वयोभोगदेशकालगुणादिभिः ।
उद्दीपितातिविस्तारं याता चेद्दीप्तिरुच्यते ॥१.३३४॥ १९६

यथा
यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम्
अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
त्वत्संरोधापगमविशदश्चन्द्रपादैर्निशीथे
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥१.३३५॥ [मेघदूत २.९]

अत्र प्रियतमालिङ्गनसौधज्योत्स्नादिगुणैः सुरतग्लानिव्यालोपनादुत्तरसुरतोत्साहरूपा दीप्तिः प्रतीयते ।

अथ प्रागल्भ्यम्
निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते ॥१.३३६॥ १९७ ब्

शिष्यतां निधुवनोपदेशिनः
शङ्करस्य रहसि प्रपन्नया ।
शिक्षितं युवतिनैपुणं तया
यत्तदेव गुरुदक्षिणीकृतम् ॥१.३३७॥ [कु.सं. ८.१७]

अत्र गुरुदक्षिणीकृतमित्यनेन प्रतिकरणरूपं प्रागल्भ्यं प्रतीयते ।

अथ माधुर्यम्
माधुर्यं नाम चेष्टानां सर्वावस्थासु मार्दवम् ॥१.३३८॥ १९७ द्

यथा
वामं सन्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
नृत्तादस्याः स्थितमतितरां कान्तमृज्वायतार्धम् ॥१.३३९॥
(मालविकाग्निमित्रम् २.६)

अत्र पादाङ्गुष्ठेन कुसुमलोलनादिक्रियाणां नृत्तान्तपरिश्रान्तावपि चारुत्वान्[*४] माधुर्यम् ।
[*४] नोते थत्चारुता, अस्fओउन्दिनुज्ज्वलनीलमणि, इस्थे wओर्दुसेधेरे इन् थे प्लचे ओf मार्दव.


अथ धैर्यम्
स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति संज्ञितम् ॥१.३४०॥ १९८ ब्

यथा
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् ।
दाता मे भूत्भृतां नाथः प्रमाणीक्रियतामिति ॥१.३४१॥ [कु.सम्. ६.१]

अथ औदार्यम्
औदार्यं विनयं प्राहुः सर्वावस्थानुगं बुधाः ॥१.३४२॥ १९८ द्

यथा
कल्याणबुद्धेरथवा तवायं
न कामचारो मयि शङ्कनीयः ।
ममैव जन्मान्तरपातकानां
विपाकविस्फूर्जथुरप्रसह्यः ॥१.३४३॥ (र.वं. १४.६२)

अत्रानपराधेऽ पि निष्कासयतो रामस्यानुपालम्भात्सीताया औदार्यं प्रतीयते । सर्वावस्थासमत्वाविदितेङ्गिताकारत्वरूपयोर्लक्षणयोश्चित्तधैर्य एवान्तर्भूतत्वात्भोजराजलक्षितौ स्थैर्यगाम्भीर्यरूपावन्यौ द्वौ चित्तारम्भौ चास्मदुक्ते धैर्य एवान्तर्भूताविति दशैव चित्तारम्भाः ।

अथ गात्रारम्भाः
लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा । १९९
विहृतं चेति विज्ञेया योषितां दश गात्रजाः ॥१.३४४॥

तत्र लीला
प्रियानुकरणं यत्तु मधुरालापपूर्वकैः । २००
चेष्टितैर्गतिभिर्वा स्यात्सा लीलेति निगद्यते ॥१.३४५॥

यथा
दुष्टकालिय तिष्ठाद्य कृष्णोऽ हमिति चापरा ।
बाहुमास्फोट्य कृष्णस्य लीलासर्वस्वमाददे ॥१.३४६॥ [वि.पु. ५.१३.२७]

अथ विलासः
प्रियसम्प्राप्तिसमये भ्रूनेत्राननकर्मणाम् । २०१
तात्कालिको विशेषो यः स विलास इतीरितः ॥१.३४७॥

यथा
बाला सखीतनुलतान्तरिता भवन्तम्
आलोक्य मुग्धमधुरैरलसैरपाङ्गैः ।
सिंहक्षमारमण चित्तजमोहनास्त्रैर्
लक्ष्मीरभित्तिलिखितेव चिरं समास्ते ॥१.३४८॥

अथ विच्छित्तिः
आकल्पकल्पनाल्पापि विच्छित्तिरतिकान्तिकृत् ॥१.३४९॥ २०२

यथा
आलोलैरवगम्यते मधुकरैः केशेषु माल्यग्रहः
कान्तिः कापि कपोलयोः प्रथयते ताम्बूलमन्तर्गतम् ।
अङ्गानामनुमीयते परिमलैरालेपनप्रक्रिया
वेषः कोऽ पि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः ॥१.३५०॥

अथ विभ्रमः
प्रियागमनवेलायां मदनावेशसम्भ्रमात् ।
विभ्रमोऽ ङ्गदहारादिभूषास्थानविपर्ययः ॥१.३५१॥ २०३

यथा
चकार काचित्सितचन्दनाङ्के
काञ्चीकलापं स्तनभारयुग्मे ।
प्रियं प्रति प्रेषितदृष्टिरन्या
नितम्बबिम्बे च बबन्ध हारम् ॥१.३५२॥

अथ किलकिञ्चितम्
शोकरोषाश्रुहर्षादेः सङ्करः किलकिञ्चितम् ॥१.३५३॥ २०४ ब्

यथा
दत्तं श्रुतं द्यूतपणं सखीभ्यो
विवक्षति प्रेयसि कुञ्चितभ्रूः ।
कण्ठं कराभ्यामवलम्ब्य तस्य
मुखं पिधत्ते स्म कपोलकेन ॥१.३५४॥

यथा वा
रतिक्रीडाद्यूते कथमपि समासाद्य समयं
मया लब्धे तस्याः क्वणितकलकण्ठार्धमधरे ।
कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदित
स्मितक्रोधोद्भ्रान्तं पुनरपि विदध्यान्मयि मुखम् ॥१.३५५॥
(धनिकस्य अवलोकः तो द.रू. २.३९)

अथ मोट्टायितम्
स्वाभिलाषप्रकटं मोट्टायितमितीरितम् ॥१.३५६॥ २०४

यथा ममैव
आकर्ण्य कर्णयुगलैकरसायनानि
तन्व्या प्रियस्य गदितानि सखीकथासु ।
आलोलकङ्कणझणत्करणाभिरामम्
आवेल्लिते भुजलते ललिताङ्गभङ्गम् ॥१.३५७॥

अथ कुट्टमितम्
केशाधरादिग्रहणे मोदमानेऽ पि मानसे ।
दुःखितेव बहिः कुप्येद्यत्र कुट्टमितं हि तत् ॥१.३५८॥ २०५

यथा
पाणिपल्लवविधूननमन्तः
शीत्कृतानि नयनार्धनिमेषाः ।
योषितां रहसि गद्गदवाचाम्
अस्त्रतामुपययुर्मदनस्य ॥१.३५९॥ [किराट ९.५०]

अत्र रहसीति सामान्यसूचितानां केशाधरग्रहणादीनां कार्यभूतैः पाणिपल्लवविधूननसीत्कृतादिभिर्बहिरेव कोपस्य प्रतीयमानत्वात्कुट्टमितम् ।

अथ बिब्बोकः
इष्टेऽ प्यनादरो गर्वान्मानाद्बिब्बोक ईरितः ॥१.३६०॥ २०६ ब्

गर्वाद्, यथा
पुंसानुनीता शतसामवादैर्
गर्वान्निरीहेव चुचुम्ब काचित् ।
अर्थानभीष्टानपि वामशीलाः
स्त्रियः परार्थानिव कल्पयन्ति ॥१.३६१॥

मानाद्, यथा
निर्विभुज्य दशनच्छदं ततो
वाचि भर्तुरवधीरणापरा ।
शैलराजतनया समीपगाम्
आललापि विजयामहेतुकम् ॥१.३६२॥ [कु.सं. ८.४९]

अत्र सन्ध्यानिमित्तं मानादनादरेण बिब्बोकः ।

अथ ललितम्
विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहराः ।२०६
सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥१.३६३॥

यथा
चरणकमलकान्त्या देहलीमर्चयन्ती
कनकमयकवाटं पाणिना कम्पयन्ती ।
कुवलयमयमक्ष्णा तोरणं पूरयन्ती
वरतनुरियमास्ते मन्दिरस्येव लक्ष्मीः ॥१.३६४॥

अथ विहृतम्
ईर्ष्यया मानलज्जाभ्यां न दत्तं योग्यमुत्तरम् । २०७
क्रियया व्यज्यते यत्र विहृतं तदुदीरितम् ॥१.३६५॥

ईर्ष्यया, यथा
तथागतायां परिहासपूर्वं
सख्यां सखी वेत्रभृदाबभाषे ।
आर्ये व्रजावोऽ न्यत इत्यथैनां
वधूरसूयाकुटिलं ददर्श ॥१.३६६॥

अत्र न व्रजाव इत्युत्तरमदत्त्वा कुटिलदर्शनेनैव व्यञ्जनाद्विहृतम् ।

मानेन, यथा
अद्यापि तन्मनसि सम्परिवर्तते मे
रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या ।
जीवेति मङ्गलवचः परिहृत्य रोषात्
कर्णेऽ र्पितं कनकपत्रमनालपन्त्या ॥१.३६७॥
[चौरपञ्चाशिका ११]

लज्जया, यथा
अप्यवस्तुनि कथाप्रवृत्तये
प्रश्नतत्परमनङ्गशासनम् ।
वीक्षितेन परिगृह्य पार्वती
मूर्धकम्पमयमुत्तरं ददौ ॥१.३६८॥ [कु.सं. ८.६]

इत्थं श्रीसिंहभूपेन सत्त्वालङ्कारशालिना । २०८
कथिताः सत्त्वजाः स्त्रीणामलङ्कारास्तु विंशतिः ॥१.३६९॥
सत्त्वाद्दशैव भावाद्या जाता लीलादयस्तु न । २०९
अतो हि विंशतिर्भावाः सात्त्विका इति नोचितम् ॥१.३७०॥
युज्यते सात्त्विकत्वं च भावादिसहचारिणः । २१०
लीलादिदशकस्यापि छत्रिन्यायबलात्स्फुटम् ॥१.३७१॥
भोजेन क्रीडितं केलिरित्यन्यौ गात्रजौ स्मृतौ । २११
अतो विंशतिरित्यत्र सङ्ख्येयं नोपपद्यते ॥१.३७२॥

तथा हि लक्षितमनेनैव च
क्रीडितं केलिरित्यन्यौ गात्रारम्भावुदाहृतौ ।
बाल्ययौवनकौमारसाधारणविहारभाक् ।
विशेषः क्रीडितं केलिस्तदेव दयिताश्रयम् ॥१.३७३॥ इति ।

उदाहृतं च । क्रीडितं, यथा
मन्दाकिनीसैकतवेदिकाभिः
सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां
क्रीडारसं निर्विशतीव बाल्ये ॥१.३७४॥ [कु.सं. ७.२९]

केलिर्, यथा
व्यपोहितुं लोचनतो मुखानिलैर्
अपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः
प्रियं जघानोन्नतपीवरस्तनी ॥१.३७५॥ [किराट ८.१९] इति ।

अत्रोच्यते भावतत्त्ववेदिना सिंहभूभुजा । २१२
आद्यः प्रागेव भावादिसमुत्पत्तेश्च शैशवे ॥१.३७६॥
कन्याविनोदमात्रत्वादनुभावेषु नेष्यते । २१३
प्रेमविस्रम्भमात्रत्वान्नान्यस्याप्यनुभावता ।
अतो विंशतिरित्येषा सङ्ख्या सङ्ख्यावतां मता ॥१.३७७॥ २१४

अथ पौरुषसात्त्विकाः
शोभा विलासो माधुर्यं धैर्यं गाम्भीर्यमेव च ।
ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषाः ॥१.३७८॥ २१५

तत्र शोभा
नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता ।
यत्र प्रकटतां यान्ति सा शोभेति प्रकीर्तिता ॥१.३७९॥ २१६

नीचे दयाधिके स्पर्धा, यथा
क्षुद्राः सन्त्रासमेनं विजहितहरयो भिन्नशक्रेभकुम्भा
युष्मद्गात्रेषु लज्जां दधति परमममी सायकाः सम्पतन्तः ।
सौमित्रे तिष्ठ पात्रं त्वमपि न हि रुषां नन्वहं मेघनादः
किञ्चिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वेषयामि ॥१.३८०॥
(हनुमन्नाटके १२.२)

अत्र प्रथमार्धे क्षुद्रकपिविषये दया, उत्तरार्धे रामविषया स्पर्धा चेन्द्रजितः प्रतीयते । शौर्ये सत्त्वसारः । उत्साहः स्थैर्यम् । दक्षता क्षिप्रकारित्वम् । एषां नायकगुणनिरूपणावसर एवोदाहरणानि दर्शितानि ।

अथ विलासः
वृषभस्येव गम्भीरा गतिर्धीरं च दर्शनम् ।
सस्मितं च वचो यत्र स विलास इतीरितः ॥१.३८१॥ २१७

गम्भीरगमनं, यथा
तानर्घ्यानर्घ्यमादाय दूरं प्रत्युद्ययौ गिरिः ।
नमयन् सारगुरुभिः पादन्यासैर्वसुन्धराम् ॥१.३८२॥ [कु.सं. ६.५०]

धीरदृष्टिर्, यथा
तत्गम्भीरं विनिवर्तितेन
प्रभातपङ्केरुहबन्धुरेण ।
अपश्यदक्ष्णा मधुमात्मजन्मा
प्रत्याबभाषे स च दैत्यदूतम् ॥१.३८३॥
सस्मितं वचो, यथा
द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥१.३८४॥ (माघ. २.७)

अथ माधुर्यम्
तन्माधुर्यं यत्र चेष्टादृष्ट्यादेः स्पृहणीयता ॥१.३८५॥ २१८ ब्

॥१.३८६॥ मिस्सिन्ग्

यथा
ऋजुतां नयतः स्मरामि ते
शरमुत्सङ्गनिषण्णधन्वनः ।
मधुना सह सस्मितां कथां
नयनोपान्तविलोकितं च यत् ॥१.३८७॥ [कु.सं. ४.२३]

धैर्यगाम्भीर्ये तु नायकगुणवर्णनावसर एवोक्ते ।

अथ ललितम्
शृङ्गारप्रचुरा चेष्टा यत्र तल्ललितं भवेत् ॥१.३८८॥ २१८ द्

यथा
कपोले जानक्याः करिकलभदन्तद्युतिमुषि
स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् ।
मुहुः पश्यन् शृण्वन् रजनिचरसेनाकलकलं
जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥१.३८९॥
(हनुमन्नाटके १.१९)

औदार्यतेजसोरपि नायकप्रसङ्ग एव लक्षणोदाहरणे प्रोक्ते ।

अत्र गाम्भीर्यधैर्ये द्वे चित्तजे गात्रजाः परे ।
एके साधारणानेतान्मेनिरे चित्तगात्रयोः ॥१.३९०॥ २१९

अथ वागारम्भाः
आलापश्च विलापश्च संलापश्च प्रलापकः ।
अनुलापापलापौ च सन्देशश्चातिदेशकः ॥१.३९१॥ २२०
निर्देशश्चोपदेशश्चापदेशो व्यपदेशकः ।
एवं द्वादशधा प्रोक्ता कीर्तिता वागारम्भा विचक्षणैः ॥१.३९२॥ २२१

तत्र आलापः
तत्रालापः प्रियोक्तिः स्यात् ॥१.३९३॥ २२२

यथा ममैव
कस्ते वाक्यामृतं त्यक्त्वा शृणोत्यन्यगिरं बुधः ।
सहकाररसं त्यक्त्वा निम्बं चुम्बति किं शुकः ॥१.३९४॥

यथा वा
धत्से धातुर्मधुप कमले सौख्यमध्यासिकायां
मुग्धाक्षीणां वहसि मृधुना कुन्तलेनोपमानम् ।
चापे किं च व्रजसि गुणतां शम्बरारेः किमन्यत्
पूजापुष्पं भवति भवतो भुक्तशेषं सुराणाम् ॥१.३९५॥

अथ विलापः
विलापो दुःखजं वचः ॥१.३९६॥ २२२

यथा
सीतां स्वहस्तेन वने विमोक्तुं
श्रोतुं च तस्याः परिदेवितानि ।
सुखेन लङ्कासमरे मृतं माम्
अजीवयन्मारुतिरात्तवैरः ॥१.३९७॥ [ह.ना. १४.९१]

अथ संलापः
उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्तितम् ॥१.३९८॥ २२२ द्

यथा
भिक्षां प्रदेहि ललितोत्पलपत्रनेत्रे
पुष्पिण्यहं खलु सुरासुरवन्दनीय ।
बाले तथा यदि फलं त्वयि विद्यते मे
वाक्यैरलं फलभुगीश परोऽ स्ति याहि ॥१.३९९॥

अथ प्रलापः
व्यर्थालापः प्रलापः स्यात् ॥१.४००॥ २२३

यथा
मुखं तु चन्द्रप्रतिमं तिमं तिमं
स्तनौ च पीनौ कठिनौ ठिनौ ठिनौ ।
कटिर्विशाला रभसा भसा भसा
अहो विचित्रं तरुणी रुणी रुणी ॥१.४०१॥

अथ अनुलापः
अनुलापो मुहुर्वचः ॥४०१॥ २२३

यथा
तमस्तमो नहि नहि मेचकाः कचाः
शशी शशी नहि नहि दृक्सुखं मुखम् ।
लते लते नहि नहि सुन्दरौ करौ
नभो नभो नहि नहि चारु मध्यमम् ॥१.४०२॥

अथापलापः
अपलापस्तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥१.४०३॥ २२३ द्

यथा
त्वं रुक्मिणी त्वं खलु सत्यभामा
किमत्र गोत्रस्खलनं ममेति । प्रसादयन् व्याजपदेन राधां
पुनातु देवः पुरुषोत्तमो वः ॥१.४०४॥

अत्र नायिकावाचकयोः रुक्मिणीसत्यभामापदयोः पूर्वोक्तयोः सुवर्णवत्त्वसत्यकोपत्वलक्षणेनार्थेन योजनादपलापः ।

अथ सन्देशः
सन्देशस्तु प्रोषितस्य स्ववार्ताप्रेषणं भवेत् ॥१.४०५॥ २२४ ब्

यथा
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
मा कौलीनादसितनयने मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगाद्
इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥१.४०६॥ [मे.दू. २.५२]

अथ अतिदेशः
सोऽ तिदेशो मदुक्तानि तदुक्तानीति यद्वचः ॥१.४०७॥ २२४ द्

यथा
तनयां तव याचते हरिर्
जगदात्मा पुरुषोत्तमः स्वयम् ।
गिरिगह्वरशब्दसंनिभां
गिरमस्माकमवेहि वारिधे ॥१.४०८॥

अथ निर्देशः
निर्देशस्तु भवेत्सोऽ यमहमित्यादिभाषणम् ॥१.४०९॥ २२५ ब्

यथा
एते वयममी दाराः कन्येयं कुलजीवितम् ।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥१.४१०॥ [कु.सं. ६.६३]

अथ उपदेशः
यत्र शिक्षार्थवचनमुपदेशः स उच्यते ॥१.४११॥ २२५

यथा
अनुभवत दत्तं वित्तं
मान्यं मानयत सज्जनं भजत ।
अतिपरुषपवनविलुलित
दीपशिखाचञ्चला लक्ष्मीः ॥१.४१२॥

अथ अपदेशः
अन्यार्थकथनं यत्र सोऽ पदेश इतीरितः ॥१.४१३॥ २२६ ब्

यथा
कोशद्वन्द्वमियं दधाति नलिनी कादम्बचञ्चुक्षतं
धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् ।
इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तटे
चेलान्ते तिरोदधे स्तनतटं बिम्बाधरं पाणिना ॥१.४१४॥

अथ व्यपदेशः
व्याजेनात्माभिलाषोक्तिर्यत्रायं व्यपदेशकः ॥१.४१५॥ २२६ द्
यथा
अहिणवमहुलोलुबो तुमं
तह परिचुंबिअ चूदमञ्जरिम् ।
कमलबसैमेत्तणिब्बुदो
महर बिह्मरिदोऽ सि णं कहम् ॥१.४१६॥ [सकु. ५.१]

[अस्य छाया
अभिनवमधुलोलुपस्त्वं
तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिर्वृतो
मधुकर विस्मृतोऽ स्येनां कथम् ॥]

ओ)०(ओ

अथ बुद्ध्यारम्भाः
बुद्ध्यारम्भास्तथा प्रोक्ता रीतिवृत्तिप्रवृत्तयः ॥१.४१७॥

तत्र रीतिः ।
रीतिः स्यात्पदविन्यासभङ्गी सा तु त्रिधा मता । २२७
कोमला कठिना मिश्रा चेति स्यात्तत्र कोमला ॥१.४१८॥
द्वितीयतुर्यवर्णैर्या स्वल्पैर्वर्गेषु निर्मिता । २२८
अल्पप्राणाक्षरप्राया दशप्राणसमन्विता ॥१.४१९॥
समासरहिता स्वल्पैः समासैर्वा विभूषिता । २२९
विदर्भजनहृद्यत्वात्सा वैदर्भीति कथ्यते ॥१.४२०॥

महाप्रणवार्णाल्पत्वमल्पप्राणाक्षरप्रायत्वं च, यथा ममैव

उत्फुल्लगण्डयुगमुद्गतमन्दहासम्
उद्वेलरागमुररीकृतकामतन्त्रम् ।
हस्तेन हस्तमवलम्ब्य कदा नु सेवे
संलापरूपममृतं सरसीरुहाक्ष्याः ॥१.४२१॥ [कु. ३.४]

समासराहित्यं, यथा
अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः ।
तामवारोपयत्पत्नीं रथादवततार च ॥१.४२२॥ [रघु. १.५४]

दशप्राणास्तु
श्लेषः प्रसादः समता माधुर्यं सुकुमारता । २३०
अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः ।
एते वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ॥१.४२३॥ २३१

तत्र श्लेषः
केवलाल्पप्राणवर्णपदसन्दर्भलक्षणम् ।
शैथिल्यं यत्र न स्पृष्टं स श्लेषः समुदाहृतः ॥१.४२४॥ २३२

यथा ममैव उत्फुल्लगण्डयुगम् [कु. ३.४][*५] इत्यादौ श्लिष्टवर्णमिश्रितबन्धत्वात्श्लेषः ।
[*५] ॠउओतेद्जुस्तबोवे.


अथ प्रसादः
प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते ॥१.४२५॥ २३३ ब्

यथा उत्फुल्लगण्डयुगम् [कु. ३.४] इत्यत्र पदानामक्लेशेनैवार्थबोधनसामर्थ्यात्प्रसादः ।

अथ समता
बन्धवैषम्यराहित्यं समता पदगुम्फने । २३३ द्
बन्धो मृदुः स्फुटो मिश्र इति त्रेधा स निगद्यते ॥१.४२६॥ २३४ ब्

तत्र मृदुवर्णबन्धस्य समता, यथा

चरणकमलकान्त्या देहलीमर्चयन्ती
कनकमयकवाटं पाणिना कम्पयन्ती ।
कुवलयमयमक्ष्णा तोरणं पूरयन्ती
वरतनुरियमास्ते मन्दिरस्येव लक्ष्मीः ॥१.४२७॥

अत्र मृदुवर्णप्रायबन्धस्य निर्व्यूढत्वान्मृदुबन्धसमता ।

स्फुटबन्धसमता, यथा
मधुरया मधुबोधितमाधवी
मधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मद
ध्वनिभृतानिभृताक्षरमुज्जगे ॥१.४२८॥ [माघे ६.२०]

अत्र स्फुटवर्णप्रायबन्धस्य निर्व्यूढत्वात्स्फुटबन्धसमता ।

मिश्रबन्धसमता, यथा उत्फुल्लगण्डयुगम् [कु. ३.४] इत्यादौ । अत्र मिश्रीभूतमृदुस्फुटवर्णबन्धस्य निर्वाहाद्मिश्रबन्धसमता ।

अथ माधुर्यम्
तन्माधुर्यं भवेद्यत्र शब्देऽ र्थे च स्फुटो रसः ॥१.४२९॥ २३४ द्

यथा उत्फुल्लगण्डयुगम् [कु. ३.४] इत्यत्र शब्दार्थयोः शृङ्गारपरिवाहित्वेन माधुर्यम् ।

अथ सुकुमारता
यदनिष्ठुरवर्णत्वं सौकुमार्यं तदुच्यते ॥१.४३०॥ २३५ ब्

यथा उत्फुल्लगण्डयुगम् [कु. ३.४] उद्गतमन्दहासमित्यत्र संयुक्ताक्षरसद्भावेऽ प्यनिष्ठुरत्वात्सौकुमार्यम् ।

अथ अर्थव्यक्तिः
श्रूयमाणस्य वाक्यस्य विना शब्दान्तरस्पृहाम् । २३५ द्
अर्थावगमकत्वं यदर्थव्यक्तिरियं मता ॥१.४३१॥ २३६ ब्

यथा उत्फुल्लगण्डयुगम् [कु. ३.४] इत्यत्र सर्वेषां पदानामध्याहारयपदनिराकाङ्क्षतया अर्थव्यक्तिः ।

अथ उदारत्वम्
उक्ते वाक्ये गुणोत्कर्षप्रतिभानमुदारता ॥१.४३२॥ २३६ द्

यथा उत्फुल्लगण्डयुगम् [कु. ३.४] इत्यत्रान्योन्यानुरागोत्कर्षप्रतिभानादुदारत्वम् ।

अथ ओजः
समासबहुलत्वं यत्तदोजः इति गीयते ॥१.४३३॥ २३७ ब्
यथा उत्फुल्लगण्डयुगम् [कु. ३.४] इत्यत्र यथोचितसमासबाहुल्यादोजः ।

अथ कान्तिः
लोकस्थितिमनुल्लङ्घ्य हृद्यार्थप्रतिपादनम् । २३७ द्
कान्तिः स्याद्द्विविधा ख्याता वार्तायां वर्णनासु च ॥१.४३४॥ २३८ ब्

वार्ता नाम कुशलप्रश्नपूर्विका सङ्कथा । तत्र यथा
परिधौतभवत्पदाम्बुना नवचन्द्रातपशीतलेन मे ।
अपि सन्ततमर्मकृन्तनः कृतनिर्वाण इवौर्वपावकः ॥१.४३५॥

अत्र ब्राह्मणपादोदकस्य सन्तापशमनरूपां लौकिकीं स्थितिमनुल्लङ्घ्यैव समुद्रेण मुनीनां पुरतः सङ्कथनात्कान्तिः ।

वर्णनायां, यथा ममैव
उत्तुङ्गौ स्तनकलशौ सम्भास्तम्भोपमानमूरुयुगम् ।
तरले दृशौ च तस्याः सृजता धात्रा किमाहितं सुकृतम् ॥१.४३६॥

अत्र विशिष्टवस्तुनिर्माणमपुण्यकृतां न भवतीति लोकस्थित्यनुरोधेनैव वर्णनात्कान्तिः ।

अथ समाधिः
समाधिः सोऽ न्यधर्माणां यदन्यत्राधिरोपणम् ॥१.४३७॥ २३८

यथा उत्फुल्लगण्डयुगम् [कु. ३.४] इत्यत्रोत्फुल्लोद्गतोद्वेलत्वरूपाणां पुष्पप्राणिसमुद्रधर्माणं गण्डस्थलमन्दहासरागेषु समारोपितत्वात्समाधिः ।

अथ कठिनरीतिः
अतिदीर्घसमासयुता बहुलैर्वर्णैर्युता महाप्राणैः ।
कठिना सा गौडीयेत्युक्ता तद्देशबुधमनोज्ञत्वात् ॥१.४३८॥ २३९

यथा
गण्डग्रावगरिष्ठगैरिकगिरिक्रीडत्सुधान्धोवधू
बाधालम्पटबाहुसम्पदुदयद्दुर्वारगर्वाशयम् ।
मर्त्यामर्त्यविरावणं बलगृहीतैरावणं रावणं
बाणैर्दाशरथी रथी रथगतं विव्याध दिव्यायुधः ॥१.४३९॥

अत्र दीर्घसम्सत्वं महाप्राणाक्षरप्रायत्वं च स्पष्टम् ।

अथ मिश्ररीतिः
यत्रोभयगुणग्रामसंनिवेशस्तुलाधृतः ।
सा मिश्रा सैव पाञ्चालीत्युक्ता तद्देशजप्रिया ॥१.४४०॥ २४०

यथा
परिम्लानं पीनस्तनजघनसङ्गादुभयतस्
तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं प्रशिथिलभुजाक्षेपवलनैः
कृशाङ्ग्याः सन्तापं वदति विसिनीपत्रशयनम् ॥१.४४१॥ [रत्नावली २.१२]

अत्राल्पसमासत्वदीर्घसमासत्वरूपयोः प्रसादस्फुटबन्धत्वरूपयोरनिष्ठुराक्षरप्रायत्वरूपयोः पृथक्पदत्वग्रन्थिलत्वयोश्च उभयरीतिधर्मयोस्तुलाधृतयोरिव संनिवेशान्मिश्रेयं रीतिः ।

आन्ध्री लाटी च सौराष्ट्रीत्यादयो मिश्ररीतयः ।
सन्ति तत्तद्देशविद्वत्प्रियमिश्रणभेदतः ॥१.४४२॥ २४१
त एव पदसङ्घातास्ता एवार्थविभूतयः ।
तथापि नव्यं भवति काव्यं ग्रथनकौशलात् ॥१.४४३॥ २४२
तासां ग्रन्थगडुत्वेन लक्षणं नोच्यते मया ।
भोजादिग्रन्थबन्धेषु तदाकाङ्क्षिभिरीक्ष्यताम् ॥१.४४४॥ २४३

अथ वृत्तयः
भारती सात्वती चैव कैशिक्यारभटीति च ।
चतस्रो वृत्तयस्तासामुत्पत्तिर्वक्ष्यते स्फुटम् ॥१.४४५॥ २४४
जगत्येकार्णवे जाते भगवानव्ययः पुमान् ।
भोगिभोगमधिष्ठाय योगनिद्रापरोऽ भवत् ॥१.४४६॥ २४५
तदा वीर्यमदोन्मत्तौ दैत्येन्द्रौ मधुकैटभौ ।
तरसा देवदेवेशमागतौ रणकाङ्क्षिणौ ॥१.४४७॥ २४६
विविधैः परुषैर्वाक्यैरधिक्षेपविधायिनौ ।
मुष्टिजानुप्रहारैश्च योधयामासतुर्हरिम् ॥१.४४८॥ २४७
तन्नाभिकमलोत्पन्नः प्रजापतिरभाषत ।
किमेतद्भारतीवृत्तिरधुनापि प्रवर्तते ॥१.४४९॥ २४८
तदिमौ नय दुर्धर्षौ निधनं त्वरया विभो ।
इति तस्य वचः श्रुत्वा निजगाद जनार्दनः ॥१.४५०॥ २४९
इदं काव्यक्रियाहेतोर्भारती निर्मिता ध्रुवम् ।
भाषणाद्वाक्यबाहुल्याद्भारतीयं भविष्यति ॥१.४५१॥ २५०
अधुनैव निहन्म्येतावित्याभाष्य वचो हरिः ।
निर्मलैर्निर्विकारैश्च साङ्गहारैर्मनोहरैः ॥१.४५२॥ २५१
अङ्गैस्तौ योधयामास दैत्येन्द्रौ युद्धशालिनौ ।
भूमिस्थानकसंयोगैः पदक्षेपैस्तथा हरेः ॥१.४५३॥ २५२
भूमेस्तदाभवद्भारस्तद्वशादपि भारती ।
वल्गितैः शार्ङ्गिणस्तत्र दीप्तैः सम्भ्रमवर्जितैः ॥१.४५४॥ २५३
सत्त्वाधिकैर्बाहुदण्डैः सात्वत्वी वृत्तिरुद्गता ।
विचित्रैरङ्गहारैश्च हेलया स तदा हरिः ॥१.४५५॥ २५४
यत्तौ बबन्ध केशेषु जाता सा कैशिकी ततः ।
ससंरम्भैः सवेगैश्च चित्रचारीसमुत्थितैः ॥१.४५६॥ २५५
नियुद्धकरणैर्जाता चित्रैरारभटी ततः ।
यस्माच्चित्रैरङ्गहारैः कृतं दानवमर्दनम् ॥१.४५७॥ २५६
तस्मादब्जभुवा लोके नियुद्धसमयः कृतः ।
यः शस्त्रास्त्रादिमोक्षेषु न्यायः स पारिभाषितः ॥१.४५८॥ २५७
नाट्यकाव्यक्रियायोगे रसभावसमाश्रितः ।
स एव समयो धात्रा वृत्तिरित्येव संज्ञितः ॥१.४५९॥ २५८
हरिणा तेन यद्वस्तु वलिगितैर्यादृशं कृतम् ।
तद्वदेव कृता वृत्तिर्धात्रा तस्याङ्गसम्भवा ॥१.४६०॥ २५९
ऋग्वेदाच्च यजुर्वेदात्सामवेदादथर्वणः ।
भारत्याद्या क्रमाज्जाता इत्यन्ये तु प्रचक्षते ॥१.४६१॥ २६०

तत्र भारती
प्रयुक्तत्वेन भरतैर्भारतीति निगद्यते ।
प्रस्तावनोपयोगित्वात्साङ्गं तत्रैव लक्ष्यते ॥१.४६२॥ २६१

अथ सात्वती
सात्त्विकेन गुणेनातित्यागशौर्यादिना युता ।
हर्षप्रधाना सन्त्यक्तशोकभावा च या भवेत् ॥१.४६३॥ २६२
सात्वती नाम सा वृत्तिः प्रोक्ता लक्षणकोविदैः ।
अङ्गान्यस्यास्तु चत्वारि संलापोत्तापकावपि । २६३
सङ्घात्यः परिवर्तश्चेत्येषां लक्षणमुच्यते ॥१.४६४॥
ईर्ष्याक्रोधादिभिर्भावै रसैर्वीराद्भुतादिभिः । २६४
परस्परं गभीरोक्तिः संलाप इति शब्द्यते ॥१.४६५॥ २६५ ब्

यथानर्घराघवे, रामः
बन्दीकृत्य जगद्विजित्वरभुजस्तम्भौघदुःसञ्चरं
रक्षोराजमपि त्वया विदधता सन्ध्यासमाधिव्रतम् ।
प्रत्यक्षीकृतकार्तवीर्यचरितामुन्मुच्य रेवां समं
सर्वाभिर्महिषीभिरम्बुनिधयो विश्वेऽ पि विस्मापिताः ॥१.४६६॥ (५.४४)

बाली (विहस्य)
चिराय रात्रिंचरवीरचक्र
माराङ्कवैज्ञानिक पय्शतस्त्वाम् ।
सुधासधर्माणमिमां च वाचं
न शृण्वतस्तृप्यति मानसं मे ॥१.४६७॥ (५.४५)

अत्र धीरोदात्तधीरोद्धतयोः रामबालिनोः परस्परं युद्धचिकीर्षाभिप्राययोगादन्योन्यपराक्रमोत्कर्षवर्णनात्संलापः ।

अथ उत्थापकः
प्रेरणं यत्परस्यादौ युद्धायोत्थापकस्तु सः ॥१.४६८॥ २६५

यथानर्घराघवे, यथा
नृपानप्रत्यक्षान् किमपवदसे नन्वयमहं
शिशुक्रीडाभग्नत्रिपुरहरधन्वा तव पुरः ।
अहङ्कारक्रूरार्जुनभुजवनव्रश्चनकला
निसृष्टार्थो बाहुः कथय कतरस्ते परहरतु ॥१.४६९॥ (४.५६)

अत्र रामभद्रेण प्राक्प्रहाराय जामदग्न्यः प्रेरित इत्युत्थापकः ।

अथ सङ्घात्यः
मन्त्रशक्त्यार्थशक्त्या वा दैवशक्त्याथ पौरुषात् ।
सङ्घस्य भेदनं यत्तु सङ्घात्यः स उदाहृतः ॥१.४७०॥ २६६

मन्त्रो नयप्रयोगः । तस्य शक्त्या यथा मुद्राराक्षसे चाणक्येन शत्रुसहायानां भेदनात्सङ्घात्यः । अर्थशक्त्या यथा महाभारते आदिपर्वणि देवैस्तिलोत्तमालक्षणेनार्थेन सुन्दोपसुन्दयोरतिस्निग्धयोर्भेदनात्सङ्घात्यः ।

दैवशक्त्या, यथा महावीरचरिते माल्यवान्

हा वत्साः खरदूषणप्रभृतयो वध्याः स्थ पापस्य मे
हा हा वत्स विभीषण त्वमपि मे कार्येण हेयः स्थितः ।
हा मद्वत्सल वत्स रावण महत्पश्यामि ते सङ्कटं
वत्से केकसि हा हतास्मि न चिरात्त्रीन् पुत्रकान् पश्यसि ॥१.४७१॥ (म.वी.च. ४.११)

अत्र राघवानुकूलदैवमोहितेन माल्यवता खरदूषणत्रिशिरसां भेदः संविहित इति सङ्घात्यः ।

अथ परिवर्तकः
पूर्वोद्युक्तस्य कार्यस्य परित्यागेन यद्भवेत् ।
कार्यान्तरस्वीकरणं ज्ञेयः स परिवर्तकः ॥१.४७२॥ २६७

यथोत्तररामचरिते पञ्चमाङ्के कुमारौ (अन्योन्यं प्रति)अहो प्रियदर्शनः कुमारः । (स्नेहानुरागं विवर्ण्य)

यदृच्छासंवादः किमु गुणगणानामतिशयः
पुराणो वा जन्मान्तरनिविडबद्धः परिचयः ।
निजो वा सम्बन्धः किमु विधिवशात्कोऽ प्यविदितो
ममैतस्मिन् दृष्टे हृदयमवधानं रचयति ॥१.४७३॥ (उ.रा.च. ५.१६)

अत्र लवस्य चन्द्रकेतोश्च परस्पराकारविशेषसन्दर्शनेन रणसंरम्भौद्धत्यपरिहारेण विनयार्जवस्वीकारकथनात्परिवर्तकः ।

अथ कैशिकी
नृत्यगीतविलासादिमृदुशृङ्गारचेष्टितैः ।
समन्विता भवेद्वृत्तिः कैशिकी श्लक्ष्णभूषणा ॥१.४७४॥ २६८
अङ्गान्यस्यास्तु चत्वारि नर्म तत्पूर्वका इमे ।
स्फञ्जस्फोटौ च गर्भश्च तेषां लक्षणमुच्यते ॥१.४७५॥ २६९

तत्र नर्म
शृङ्गाररसभूयिष्ठः प्रियचित्तानुरञ्जकः ।
अग्राम्यः परिहासस्तु नर्म स्यात्तत्त्रिधा मतम् ॥१.४७६॥ २७०
शृङ्गारहास्यजं शुद्धहास्यजं भयहास्यजम् ।
शृङ्गारहास्यजं नर्म त्रिविधं परिकीर्तितम् ॥१.४७७॥ २७१
सम्भोगेच्छाप्रकटनादनुरागनिवेशनात् ।
तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् । २७२
सम्भोगेच्छाप्रकटनं त्रिधा वाग्वेषचेष्टितैः ॥१.४७८॥ २७३ ब्

तत्र वाचा सम्भोगेच्छाप्रकटनाद्, यथा

गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते
किं त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा ।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसाम्
आश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ॥१.४७९॥
(काव्यप्रकाशादिष्वप्युद्धृतम्)

अत्र निजावस्थानविलम्बनस्य व्यर्थत्वं धीरत्वादिसूचकैरच्युतादिपदैर्वदन्त्या तयापि गोपिकया वाचा सम्भोगेच्छा प्रकटितेति नर्म ।

वेशेन सम्भोगेच्छाप्रकटनाद्, यथा

अभ्युद्गते शशिनि पेशलकान्तदूती
सन्तापसंवलितमानसलोचनाभिः ।
अग्रा हि मण्डनविधिर्विपरीतभूषा
विन्यासहासितसखीजनमङ्गनाभिः ॥१.४८०॥

अत्र विपरीतन्यस्तभूषणलक्षणेन वेषेण जनितैः सखीजनहासैः कामिनीनां सम्भोगेच्छा प्रकटितेति नर्म ॥

चेष्टया सम्भोगेच्छाप्रकटनाद्, यथा

सालोए चिअ सूरे घरिणी घरसामिअस्स घेत्तूण ।
णेच्छं तस्स बि पाए धुबै हसंती हसंतस्स ॥१.४८१॥ (गा.स. २.३०)

[सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा ।
नेच्छतोऽ पि पादौ धावति हसन्ती हसतः ॥]

अत्र सूर्यास्तमयात्प्रागेव चरणप्रक्षालनलक्षणया क्रियया निष्क्रमणनिवारणजनितेन हासेन सम्भोगेच्छाप्रकटनान्नर्म ।

अनुरागप्रकाशोऽ पि भोगेच्छानर्मवत्त्रिधा ॥१.४८२॥ २७३ द्

वाचानुरागनिवेदनात्, यथा

वयं तथा नाम यथात्थ किं वदाम्य्
अयं त्वकस्माद्विकलः कथान्तरे ।
कदम्बगोलाकृतिमाश्रितः कथं
विशुद्धमुग्धः कुलकन्यकाजनः ॥१.४८३॥ (मालतीमाधव ७.१)

अत्र लवङ्गिकया विशुद्धमुग्धः कुलकन्यकाजन इति परिहासेन मदयन्तिकानुरागनिवेदनान्नर्म ।

वेषेणानुरागनिवेदनात्, यथा
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे
संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥१.४८४॥ (रत्नावली १.२)[*६]
[*६] ॠउओतेदबोवे अत्१.१५७.


अत्र पुलकसंरोहलक्षणवेषजनितेन शिवस्य हसनेन गौरीहृदयानुरागस्य प्रकाशनान्नर्म ।

चेष्टयानुरागनिवेदनात्, यथा

कैतवेन शयिते कुतूहलात्
पार्वती प्रतिमुखं निपातितम् ।
चक्षुरुन्मिषति सस्मितं
प्रिये विद्युदाहतमिव ॥१.४८५॥ [कु.सं. ८.३]

अत्र पतिमुखदर्शनक्रियाजनितेन शिवस्य हासेन गौरीहृदयानुरागनिवेदनान्नर्म ।

प्रियापराधनिर्भेदोऽ प्युक्तस्त्रेधा तथा बुधैः ॥१.४८६॥ २७४ ब्

वाचा प्रियापराधनिर्भेदाद्, यथा मालविकाग्निमित्रे प्रथमाङ्केऽ न्ते देवी

जै राअकज्जेसु ईरिसी णिउणदा अय्यौत्तस्स तदा सोहणं हबे । (यदि राजकार्येषु ईदृशी निपुणता आर्यपुत्रस्य, तदा शोभनं भवेत् ।) ॥१.४८७॥

अत्र ईदृशी निपुणता यदीति चतुरोक्तिपरिहासेन त्वयैव मालविकादर्शनेन नाट्याचर्ययोर्विवादः संविहित इति प्रियापराधोघाटनान्नर्म ।

वेषेण प्रियापराधनिर्भेदाद्, यथा
आलेपः क्रियतामयं द्रुतगतिस्वेदैरिवार्द्रं वपुस्
तन्माल्यं व्यपनीयतां रविकरस्पर्शैरिवामर्दितम् ।
इत्युक्तान्यतिधीरया दयितया स्मेराननाम्भोरुहं
चाटूक्तानि भवन्ति हन्त कृतिनां मोदाय भोगादपि ॥१.४८८॥

अत्र स्वेदोद्गममाल्यम्लानत्वयोर्द्रुतगमनरविकरस्पर्शरूपकारणासत्यत्वकथनरूपेण परिहसनेन सपत्नीसम्भोगरूपप्रियापराधनिर्भेदनान्नर्म ।

चेष्टया प्रियापराधनिर्भेदाद्, यथा

लोलद्भ्रूलतया विपक्षदिगुपन्यासेऽ वधूतं शिरस्
तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः ।
कोपात्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयोर्
उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥१.४८९॥ (अमरु ७९)

अथ विलक्षस्थितिशिरोधूननचेष्टया प्रियापराधनिर्भेदनान्नर्म ।

अथ शुद्धहास्यजम्
शुद्धहास्यजमप्युक्तं तद्वदेव त्रिधा बुधैः ॥१.४९०॥ २७४ द्

तत्र वाचा शुद्धहास्यजं, यथा
अर्चिष्मन्ति विदार्य वक्त्रकुहराण्या सृक्कतो वासुकेस्
तर्जन्या विषकर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् ।
एकं त्रीणि नवाष्ट सप्त षडिति व्यस्तास्तसंख्याक्रमा
वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥१.४९१॥
(दशरूपावलोकेऽ प्युद्धृतमिदम् । बाणस्येति सूक्तिमुक्तावलौ)

वेषेण शुद्धहास्यजं, यथा

स्नायुन्यासनिबद्धकीकसतनुं नृत्यन्तमालोक्य मां
चामुण्डाकरतालकुट्टितलयं वृत्ते विवाहोत्सवे ।
ह्रीमुद्रामपनुद्य यद्विहसितं देव्या समं शम्भुना
तेनाद्यापि मयि प्रभुः स जगतामास्ते प्रसादोन्मुखः ॥१.४९२॥ (बा.रा. २.१)

अत्र भृङ्गिरिटिवेषेण शिवयोर्हसिताविर्भावाच्छुद्धहास्यजम् ।

चेष्टया शुद्धहास्यजं, यथा

देव्या लीलालपितमधुरं लास्यमुल्लासयन्त्या
यः शृङ्गारो रहसि पुरतः पत्युराविष्कृतोऽ भूत् ।
युष्मानव्यात्तदुपजनितं हास्यमम्बानुकारी
क्रीडानृत्यैर्विकटगतिभिर्व्यञ्जयन् कुञ्जरास्यः ॥१.४९३॥

अथ भयहास्यजम्
हास्याद्भयेन जनिताज्जनितं भयहास्यजम् ।
तद्द्विधा मुखमङ्गं तु तद्द्वयं पूर्ववत्त्रिधा ॥१.४९४॥ २७५

मुख्यं भयहास्यजं, यथा
क्षेत्राधीशशुना नवेन विकृताकारैकविद्वेषिणा
घोरारावमभिद्रुतस्य विकटैः पश्चात्पदैर्गच्छतः ।
पा पा पाहि फहीति सत्वरतरं व्यस्ताक्षरं जल्पतो
दृष्ट्वा भृङ्गिरिटेर्दशां पशुपतिः स्मेराननः पातु वः ॥१.४९५॥

अत्र भृङ्गिरिटेर्विकृताकारेण विकटपश्चाद्गमनेन पाहि पाहि पाहीत्यत्र वर्णव्यत्यासभाषणेन जनितस्य पशुपतिहासस्यान्यरसानङ्गतया मुख्यं भयहास्यजम् ।

वाचा अन्यरसाङ्गं भयहास्यजं, यथा रत्नावल्याम्

विदूषकःकहंण किदो पसादो देवीए ज अज्जं बिअक्खदसरीरा चिट्ठह्म । (कथं न कृतः प्रसादो देव्या यदद्याप्यक्षतशरीरास्तिष्ठामः ।)

राजा (सस्मितम्)धिङ्मूर्ख ! किमेवमुपहससि ? त्वत्कृत एवायमापतितोऽ स्माकमनर्थक्रमः । (३.१४ द्) ॥१.४९६॥

वेषेण, यथा
कल्याणदायि भवतोऽ स्तु पिनाकपाणि
पाणिग्रहे भुजगकङ्कणभीषितायाः ।
सम्भ्रान्तदृष्टि सहसैव नमः शिवायेत्य्
अर्धोक्तिसस्मितनतं मुखमम्बिकायाः ॥१.४९७॥
(रसकलिकायामप्युद्धृतमिदम्, २३ पुटे)

अत्र भुजगकङ्कणलक्षणेन वेषेण जनितस्य पार्वतीभयहास्यास्य शृङ्गाराङ्गतया कथनात्तदिदमङ्गं भयहास्यजम् ।

चेष्टया, यथा
प्रह्लादवत्सल वयं बिभिमो विहाराद्
अस्मादिति ध्वनितनर्मसु गोपिकासु । लीलामृदु स्तनतटेषु नखाङ्कुराणि
व्यापारयन्नवतु वः शिखिपिच्छमौलिः ॥१.४९८॥

अत्र नखाङ्कुरव्यापारेण जनितस्य गोपिकाहसितस्य प्रह्लादवत्सलेति चतुरोक्तिरूपस्य शृङ्गाराङ्गतया तदिदमङ्गं भयहास्यजम् ।

अग्राम्यनर्मनिर्माणवेदिना सिंहभूभुजा ।
नर्माष्टादशधा भिन्नमेव स्फुटमुदाहृतम् ॥१.४९९॥ २७६

अथ नर्मस्फञ्जः
नर्मस्फञ्जः सुखोद्योगो भयान्तो नवसङ्गमे ॥१.५००॥ २७७ ब्

यथा
अपेतव्याहारं धुतविविधशिल्पव्यतिकरं
करस्पर्शारम्भप्रकलितदुकूलान्तशयनम् ।
मुहुर्बद्धोत्कम्पं दिशि दिशि मुहुः प्रेरितदृशोर्
अहल्यासुत्राम्णोः क्षणिकमिव तत्सङ्गतमभूत् ॥१.५०१॥
(सरस्वतीकण्ठाभरणेऽ प्युद्धृतमिदम्)

अथ नर्मस्फोटः
नर्मस्फोटस्तु भावांशैः सूचितोऽ ल्परसो भवेत् । २७७ द्
अन्यैस्त्वकाण्डे सम्भोगविच्छेद इति गीयते ॥१.५०२॥ २७८ ब्

आद्यो यथा
स्निग्धं वीक्षितमन्यतोऽ पि नयने यत्प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यती ॥१.५०३॥

अत्र सर्वं तत्किलेत्यनिश्चयेनानुरागस्य स्वल्पमात्रसूचनया नर्मस्फोटत्वम् ।

द्वितीयो, यथा
प्राप्ता कथमपि दैवात्कण्ठमनीतैव सा प्रकटरागा ।
रत्नावलीव कान्ता मम हस्ताद्भ्रंशिता भवता ॥१.५०४॥ (रत्नावली २.१८)

अत्र विदूषकवाक्य सूचितदेवीशङ्काविसृष्टसागरिकाहस्तेन राज्ञा अकाण्डे त्वया सम्भोगभङ्गः कृत इत्युक्तत्वात्नर्मस्फोटः ।

अथ नर्मगर्भः
नेतुर्वा नायिकाया वा व्यापारः स्वार्थसिद्धये । २७८ द्
प्रच्छादनपरो यस्तु नर्मगर्भः स कीर्तितः ॥१.५०५॥ २७९ ब्

यथा
श्रियो मानग्लानेरनुशयविकल्पैः स्मितमुखे
सखीवर्गे गूढं कृतवसतिरुत्थाय सहसा ।
समनेष्ये धूर्तं तमहमिति जल्पन्नतमुखीं
प्रियान्तामालिङ्गन् हरिररतिखेदं हरतु वः ॥१.५०६॥

अत्र कुपितायाः श्रियः प्रसादनार्थं पुरुषोत्तमेन प्रच्छन्नस्थित्यादिरूपो व्यापारः कृत इत्ययं नर्मगर्भः ।

पूर्वस्थितो विपद्येत नायको यत्र चापरस्तिष्ठेत् । २७९ द्
तमपीह नर्मगर्भं प्रवदति भरतो हि नाट्यवेदगुरुः ॥१.५०७॥ २८० ब्

यथा
मयेन निर्मितां लङ्कां लब्ध्वा मन्दोदरीमपि ।
रेमे मूर्तां दशग्रीवलक्ष्मीमिव विभीषणः ॥१.५०८॥
(सरस्वतीकण्ठाभरणेऽ प्युद्धृतमिदम्)

अत्र रावणे विपन्ने तत्पदाभिषिक्तेन विभीषणेन मन्दोदर्यादिषु तदुचितं कर्म निर्मितमित्ययं नर्मगर्भः । केचित्त्वेतदारभटीभेदं सङ्क्षिप्तिमाहुः । तत्र मूलं न जानीमः ।

अथारभटी
मायेन्द्रजालप्रचुरां चित्रयुद्धक्रियामयीम् । २८० द्
छेद्यैर्भेद्यैः प्लुतैर्युक्तां वृत्तिमारभटीं विदुः ॥१.५०९॥
अङ्गान्यस्यास्तु चत्वारि सङ्क्षिप्तिरवपातनम् । २८१
वस्तूत्थापनसम्फेटाविति पूर्वे बभाषिरे ॥१.५१०॥

तत्र सङ्क्षिप्तिः
सङ्क्षिप्तवस्तुविषया या मायाशिल्पयोजिता । २८२
सा सङ्क्षिप्तिरिति प्रोक्ता भरतेन महात्मना ॥१.५११॥ २८३ ब्

यथा अनर्घराघवे
नीतो दूरं कनकहरिणच्छद्मना रामभद्रः
पश्चादेनं द्रुतमनुसरत्येष वत्सः कनिष्ठः ।
बिभ्यद्बिभ्यत्प्रविशति ततः पर्णशालां च भिक्षुर्
धिग्धिक्कष्टं प्रथयति न्निजामाकृतिं रावणोऽ यम् ॥१.५१२॥ (५.७)

अत्र बहुविधानो मायानां सङ्क्षेपेण कथनात्सङ्क्षिप्तिः ।

वदन्त्यन्ये तु तां नेतुरवस्थान्तरसङ्गतिम् ॥१.५१३॥ २८३ द्

यथा
यदर्थमस्माभिरसि प्रकोप्तैस्
तदद्य दृष्ट्वा तव धाम वैष्णवम् ।
विशीर्णगर्वामयमस्मदान्तरं
चिरस्य कञ्चिल्लघिमानमश्नुते ॥१.५१४॥ (अ.रा. ४.५९)

अत्र रामभद्रसहवासेन परिहृतधीरोद्धतविकारस्य जामदग्न्यस्य धीरशान्तावस्थापरिग्रहात्सङ्क्षिप्तिरिति ।

परिवर्तकभेदत्वात्तदुपेक्षामहे वयम् ॥१.५१५॥ २८४ ब्

अथावपातनम्
विभ्रान्तिरवपातः स्यात्प्रवेशद्रवविद्रवैः ॥१.५१६॥ २८४ द्

यथा
हृत्वा शन्तनुनन्दनस्य तुरगान् सूतं कुरूणां गुरोश्
छित्त्वा द्रोणसुतस्य कार्मुकलतां कृत्वा विसंज्ञं कृपम् ।
कर्णस्यापि रथं विदार्य कणशो विद्राव्य चान्यद्बलं
त्वत्पुत्रो भयविद्रवत्कुरुपतेः पन्थानमन्वेत्ययम् ॥१.५१७॥
(धनञ्जयविजय ६७)

अथ वस्तूत्थापनम्
तद्वस्तूत्थापनं यत्तु वस्तु मायोपकल्पितम् ॥१.५१८॥ २८५ ब्
यथा
मायाचुञ्चुरथेन्द्रजिद्रणमुखे खड्गेन दीनानां
सौमित्रे द्रुतमार्यपुत्र चकितां मां पाहि पाहीति च ।
क्रोशन्तीं व्यथिताशयां हनुमता मा मेति सन्तर्जितः
कण्ठे कैतवमैथिलीं कुपितधीश्चिच्छेद तुच्छाशयः ॥१.५१९॥

अत्र निकुम्भिलायामभिचारं चिकीर्षुणा इन्द्रजिता राघवादिबुद्धिप्रमोषणार्थं मायाकल्पितमैथिलीकण्ठखण्डनं कृतमिति वस्तूत्थापनम् ।

अथ सम्फेटः
सम्फेटस्तु समाघातः क्रुद्धसंरब्धयोर्द्वयोः ॥१.५२०॥ २८५ द्

यथा
अन्योन्यसूतोन्मथनादभूतां
तावेव सूतौ रथिनौ च कौचित् ।
व्यश्वौ गदाव्यायतसम्प्रहारौ
भग्नायुधौ बाहुविमर्दनिष्ठौ ॥१.५२१॥ (र.वं. ७.५२)

आसां च मध्ये वृत्तीनां शब्दवृत्तिस्तु भारती ।
तिस्रोऽ र्थवृत्तयः शेषास्तच्चतस्रो हि वृत्तयः ॥१.५२२॥ २८६
अन्ये तु मिश्रणादासां मिश्रां वृत्तिं च पञ्चमीम् ।
अशेषरससामान्यां मन्यन्ते लक्षयन्ति च ॥१.५२३॥ २८७

यथा
यत्रारभट्यादिगणाः समन्ता
मिश्रत्वमाश्रित्य मिथः प्रथन्ते ।
मिश्रेति तां वृत्तिमुशन्ति धीराः
साधारणीमर्थचतुष्टयस्य ॥१.५२४॥ (शृ.प्र. १२) इति ।

तन् विचारसहम् । कुतः ? तत्किं वृत्तिधर्माणां मिश्रणमैक्यरूपेण न्यूनाधिकभावेन वा । न प्रथमः अवैषम्येण मिश्रणाभावात् । तथा मिश्रणे तु मिश्रवृत्तिव्यङ्ग्यो रसोऽ पि मिश्रो न्यूनाधिकः प्रसज्येत । वृत्तीनांच रसविशेषनियमस्य वक्ष्यमाणत्वात् । ननु मिश्रा वृत्तिः सर्वरससाधारणीति चेत्, न । भारत्या वृत्त्या अपहृतविषयत्वात् । मूलप्रमाणाभावेन स्वोक्तिमात्रत्वाच्च । नापि द्वितीयः । वैषम्येण वृत्तिगुणानां मिश्रणे यत्र यद्वृत्तिप्रत्यभिज्ञाहेतुभूता बहवो गुणा लक्ष्यन्ते तत्र सैव वृत्तिरिति निश्चयात् । ननु, तत्र प्रकरणादिवशेन रसविशेषव्यक्तिरिति चेत्तर्हि प्रस्तुतरसानुरोधेनैव वृत्तिविशेषनिर्धारणमप्यङ्गीकर्तव्यमेव । तथा च भरतः

भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा ।
सर्वेषां समवेतानां रूपं यस्य भवेद्बहु ।
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥१.५२५॥ (ना.शा. ७.११९१२०) इति ।

अथैतासां रसनियमः
कैशिकी स्यात्तु शृङ्गारे रसे वीरे तु सात्वती ।
रदुरबीभत्सयोर्वृत्तिर्नियतारभटी पुनः । २८८
शृङ्गारादिषु सर्वेषु रसेष्विष्टैव भारती ॥१.५२६॥ २८९ ब्

एतच्च शृङ्गारादिग्रहणं तज्जन्यानां हास्यादीनामप्युपलक्षणम् । अतश्च शृङ्गारहास्ययोः कैशिकी । वीराद्भुतयोः सात्त्वती । रौद्रकरुणयोर्बीभत्सभयानकयोश्च आरभटीति नियमः प्रतीयते । तथा च भरतः

शृङ्गारं चैव हास्यं च वृत्तिः स्यात्कैशिकी श्रिता ।
सात्त्वती नाम विज्ञेया रौद्रवीराद्भुताश्रया ॥१.५२७॥
भयानके च बीभत्से रौद्रे चारभटी भवेत् ।
भारती चापि विज्ञेया करुणाभुतसंश्रया ॥१.५२८॥ (ना.शा. २०.७३७४)[*७]
[*७] वरिअन्त्fओउन्दिन् क्.ल्.जोस्हि एदितिओन् हास्यशृङ्गारबहुला कैशिकी परिचक्षिता । सात्वती चापि विज्ञेया वीराद्भुतशमाश्रया । रौद्रे भयानके चैव विज्ञेयारभटी बुधैः । बीभत्से करुणे चैव भारती सम्प्रकीर्तिता ॥


अत्र सात्वत्या रौद्रानुप्रवेशकथनं रौद्रप्रतिभटस्य युद्धवीरस्यैव संलापादिभिः सात्वतीभेदैः परिपोषणं न तु दानवीरदयावीरयोरिति ज्ञापनार्थम् । तस्मान्न नियमविरोधः । भारत्याश्च करुणाद्भुतविषयत्वकथनं तयोः प्रायेण वागारम्भमुखेन परिपोष इति ज्ञापनार्थम् । तेन भारत्याः सर्वरससाधारणयमुपपन्नमेव ।

केचित्तु तमिमं श्लोकं भारतीयं नियामकम् । २८९
प्रायिकाभिप्रायतया व्याचक्षाणा विचक्षणाः ।
आसां रसेषु वृत्तीनां नियमं नानुमन्वते ॥१.५२९॥ २९०

तथा च कैशिकीत्यनुवृत्तौ रुद्रटः

शृङ्गारहास्यकरुणरसातिशयसिद्धये ।
एषा वृत्तिः प्रयत्नेन प्रयोज्या रसकोविदैः ॥१.५३०॥ [शृ.ति. ३.३९॥ इति ।[*८]
[*८] शृङ्गारतिलक रेअदिन्ग्शृङ्गारहास्यकरुणरसानां परिवृद्धये । एषा वृत्तिः पर्योक्तव्या प्रयत्नेन बुधैर्यथा ॥


विचारसुन्दरो नैष मार्गः स्यादित्युदास्महे ।
कैशिकीवृत्तिभेदानां नर्मादीनां प्रकल्पनम् ॥१.५३१॥ २९१
यत्र करुणमाश्रित्य रसाभासत्वकारणम् ।
रसाभासप्रकरणे वक्ष्यते तदिदं स्फुटम् ॥१.५३२॥ २९२
तत्तन्न्यायप्रवीणेन न्यायमार्गानुवर्तिना ।
दर्शितं सिंहभूपेन स्पष्टं वृत्तिचतुष्टयम् ॥१.५३३॥ २९३

अथ प्रवृत्तयः
तत्तद्देशोचिता भाषा क्रिया वेषा प्रवृत्तयः ।
तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥१.५३४॥ २९४
तत्र भाषा सप्तविधा प्राच्यावन्त्या च मागधी ।
बाह्लीका दाक्षिणात्या च शौरसेनी च मालवी ॥१.५३५॥ २९५
सप्तधा स्याद्विभाषादि शबरद्रमिलान्ध्रजाः ।
शकाराभीरचण्डालवनेचरभवा इति ॥१.५३६॥ २९६
भाषाविभाषाः सन्त्यन्यास्तत्तद्देशजनोचिताः ।
तासामनुपयोगित्वान्नात्र लक्षणमुच्यते । २९७
तत्तद्देशोचिता वेषाः क्रियाश्चातिस्फुटान्तराह् ॥१.५३७॥

अथ सात्त्विकाः
अन्येषां सुखदुःखादिभावेषु कृतभावनम् । २९८
आनुकूल्येन यच्चित्तं भावकानां प्रवर्तते ॥१.५३८॥
सत्त्वं तदिति विज्ञेयं प्राज्ञैः सत्त्वोद्भवानिमान् । २९९
सात्त्विका इति जानन्ति भरतादिमहर्षयः ॥१.५३९॥
सर्वेषामपि भावानां यैः स्वसत्त्वं हि भाव्यते । ३००
ते भावा भावतत्त्वज्ञैः सात्त्विका समुदीरिताः ॥१.५४०॥
ते स्तम्भस्वेदरोमाञ्चाः स्वरभेदश्च वेपथुः । ३०१
वैवर्ण्यमश्रुप्रलयावित्यष्टौ परिकीर्तिताः ॥१.५४१॥

तत्र स्तम्भः
स्तम्भो हर्षभयामर्षविषादाद्भुतसम्भवः । ३०२
अनुभावा भवन्त्येते स्तम्भस्य मुनिसंमताः ।
संज्ञाविरहितत्वं च शून्यता निष्प्रकम्पता ॥१.५४२॥ ३०३

अथ स्वेदः
निदाघहर्षव्यायामश्रमक्रोधभयादिभिः ।
स्वेदः सञ्जायते तत्र त्वनुभावा भवन्त्यमी । ३०४
स्वेदापनयवातेच्छाव्यजनग्रहणादयः ॥१.५४३॥

निदाघाद्, यथा
करैरुपात्तान् कमलोतक्रेभ्यो
निजैर्विवस्वान् विकचोदरेभ्यः ।
तस्या निचिक्षेप मुखारविन्दे
स्वेदापदेशान्मकरन्दबिन्दून् ॥१.५४४॥

हर्षाद्, यथा
सख्या कृतानुज्ञमुपेत्य पश्चाद्
धून्वन् शिरोजान् करजैः प्रियायाः ।
अनार्द्रयन्नाननवायुनापि
स्विन्नान्तरानेव चकार कश्चित् ॥१.५४५॥

अत्रोभयोरन्योन्यस्पर्शहर्षेण स्वेदः ।

व्यायामाद्, यथा
गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः
क्रामन्नूरुद्रुमभुजलताः पूर्णनाभिह्रदान्तः ।
उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन् रोमकूपान्
स्वेदापूरो युवतिसरितां प्राप गण्डस्थलानि ॥१.५४६॥ [माघ. ७.७४]

अत्र कुसुमापचयपर्यटनेन व्यायामेन स्वेदः ।

श्रमो रत्यादिपरिश्रान्तिः, तस्माद्यथा
मञ्चेषु पञ्चेषुसमाकुलानां
वाताय वातायनसंश्रितानाम् ।
स्विन्नानि खिन्नानि मुखान्यशंसन्
सम्भोगमभोरुहलोचनानाम् ॥१.५४७॥

आदिशब्दाद्गीतनृत्यश्रान्त्यादयः ।

गीतश्रान्त्या, यथा
गीतान्तरेषु श्रमवारिलेशैः
किंचित्समुच्छ्वासितपत्रलेखम् ।
पुष्पासवाघूर्णितनेत्रशोभि
प्रियामुखं किंपुरुषश्चुचुम्बे ॥१.५४८॥ [कु.सं. ३.३८]

नृत्यश्रान्त्या, यथा
चारुनृत्यविगमे च तन्मुखं
स्वेदभिन्नतिलकं परिश्रमात् ।
प्रेमदत्तवदनानिलं पिबन्न्
अत्यजीवदमरालकेश्वरौ ॥१.५४९॥ [रघु. १९.१५]

क्रोधाद्, यथा
दधत्सन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः ।
द्विषद्द्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥१.५५०॥ [माघे २.१८]

भयाद्, यथा
कृतान्तजिह्वाकुटिलां कृपाणीं
दृष्ट्वा यदीयां त्रसतामरीणाम् ।
स्वेदोदयश्चेतसि संचितानां
मानोष्मणामातनुते प्रशान्तिम् ॥१.५५१॥ [अत्रैव १.१३]

रोमाञ्चो विस्मयोत्साहहर्षाद्यैस्तत्र विक्रियाः । ३०५
रोमोद्गमोल्लुकसनगात्रसंस्पर्शनादयः ॥१.५५२॥

विस्मयेन, यथा
राघवस्य गुरुसारनिर्भर
प्रौढिमाजगवभञ्जनोद्भटम् ।
दोर्बलं श्रुतवतः सभान्तरे
रोमहर्षणमभूत्पिनाकिनः ॥१.५५३॥

उत्साहेन, यथा
अन्त्रैः स्वैरपि संयताग्रचरणो मूर्च्छाविरामक्षणं
स्वाधीनव्रणिताङ्गशस्त्रविवरे रोमोद्गमं वर्मयन् ।
भग्नानुद्वलयन्निजान् परभटानातर्जयन्निष्ठुरं
धन्योद्दामजयश्रियः पृथुरणस्तम्भे पताकायते ॥१.५५४॥

अत्रोत्साहेन रोमाञ्चः ।

हर्षेण, यथा
रोमाणि सर्वाण्यपि बालभावाद्
वरश्रियं वीक्षितुमुत्सुकानि ।
तस्यास्तदा कोरकिताङ्गयष्टेर्
उद्ग्रीविकादानमिवान् भूवन् ॥१.५५५॥ (नैषध १४.५३)


अथ स्वरभेदः
वैस्वर्यं सुखदुःखाद्यैस्तत्र स्युर्गद्गदादयः ॥१.५५६॥ ३०६

सुखेन, यथा
पश्येम तं भूय इति ब्रुवाणां
सखीं वचोभिः किल सा ततर्ज ।
न प्रीतिकर्णेजपतां गतानि
भूयो बभूवुः स्वरवैकृतानि ॥१.५५७॥

अत्र प्रियसंस्मरणजनितेन हर्षेण भूयो वैस्वर्यम् ।

दुःखेन, यथा
विललाप स बाष्पगद्गदं
सहजामप्यपहाय धीरताम् ।
अभितप्तमयोऽ पि मार्दवं
भजते कैव कथा शरीरिषु ॥१.५५८॥ (र.वं. ८.४३)

अथ वेपथुः
वेपथुर्हर्षसन्त्रासजराक्रोधादिभिर्भवेत् ।
तत्रानुभावाः स्फुरणगात्रकम्पादयो मताः ॥१.५५९॥ ३०७

हर्षेण त्रासेन च, यथा
तदङ्गमानन्दजडेन दोष्णा
पित सबाणव्रणमाममर्श ।
निःश्वस्य निःश्वस्य मुहुश्च दीर्घं
प्रसूः कराभ्यां भयकम्पिताभ्याम् ॥१.५६०॥

जरया, यथा
रुन्धानया बहुमुखीं गतिमिन्द्रियाणां
वध्वेव गाढमनया जरयोपगूढः ।
अङ्गेन वेपथुमता जडतायुजाहं
गन्तुं पदादपि पदं गदितुं च नालम् ॥१.५६१॥ (कुवलयावली, ३.१)

क्रोधेन, यथा
रुषा समाध्मातमृगेन्द्रतुङ्गं
न केवलं तस्य वपुश्चकम्पे ।
ससिन्धुभूभृद्गगना च पृथ्वी
निपातितोल्का च सतारका द्यौः ॥१.५६२॥

अथ वैवर्ण्यम्
विषादातपरोषाद्यैर्वैवर्ण्यमुपजायते ।
मुखवर्णपरावृत्तिकार्श्याद्यास्तत्र विक्रियाः ॥१.५६३॥ ३०८

विषादेन, यथा
शरकाण्डपाण्डुगण्डस्थलीयमाभाति परिमिताभरणा ।
माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥१.५६४॥ (मा.अ.मि. ३.८)

अत्र विरहजनितेन विषादेन पाण्डुत्वम् ।

आतपेन, यथा
धूतानामभिमुखपातिभिः समीरैर्
आयासादविशदलोचनोत्पलानाम् ।
आनिन्ये मदजनितां श्रियं वधूनाम्
उष्णांशुद्युतिजनितः कपोलरागः ॥१.५६५॥ (किरातार्जुनीय ७.३)

रोषेण, यथा
कदा मुखं वरतनु कारणादृते तवागतं क्षणमयि कोपपात्रताम् ।
अपर्वणि ग्रहकलुषेन्दुमण्डला विभावरी कथय कथं भविष्यति ॥१.५६६॥ (मालविकाग्निमित्र ४.१६)

अथाश्रु
विषादरोषसन्तोषाधूमाद्यैरश्रु तत्क्रियाः ।
बाष्पबिन्दुपरिक्षेपनेत्रसंमार्जनादयः ॥१.५६७॥ ३०९

विषादेन, यथा
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम्
आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥१.५६८॥ [मे.दू. २.४५]

रोषेण च, यथा ममैव
कान्ते कृतागसि पुरः परिवर्तमाने
सख्यं सरोजशशिनोः सहसा बभूव ।
रोषाक्षरं सुदृशि वक्तुमपारयन्त्याम्
इन्दीवरद्वयमवाप तुषारधाराम् ॥१.५६९॥

अत्र सापराधप्रियदर्शनजनितेन रोषेण मुग्धाया बाष्पोद्गमः ।

सन्तोषेण, यथा
आनन्दजः शोकजमश्रु बाष्पस्
तयोरशीतं शिशिरो बिभेद ।
गङ्गासरय्वोर्जलमुष्णतप्तं
हिमाद्रिनिष्यन्द इवावतीर्णः ॥१.५७०॥ (र.वं. १४.५३)

अत्र चिरप्रोषितप्रत्यागतरामलक्ष्मणदर्शनानन्देन कौसल्यासुमित्रयोर्बाष्पः ।

धूमेन, यथा
तस्मिन् क्षणे कान्तमलक्षयन् सा
धूमाविलैरुद्गतबाष्पलेशैः ।
अन्तर्दलैरम्बुरुहामिवार्द्रैर्
अयत्नकर्णाभरणैरपाङ्गैः ॥१.५७१॥

अत्र विवाहधूमेन लक्ष्म्या बाष्पोद्गमः ।

अथ प्रलयः
प्रलयो दुःखधाताद्यैश्चेष्टा तत्र विसंज्ञता ॥१.५७२॥ ३१० ब्

दुःखेन, यथा
वपुषा करणोज्झितेन सा
निपतन्ती पतिमप्यपातयन् ।
ननु तैलनिषेकबिन्दुना
सह दीपार्चिरुपैति मेदिनीम् ॥१.५७३॥ (र.वं. ८.३८)

अत्रेन्दुमतीविपत्तिजनितेन दुःखेनाजस्य प्रलयः ।

घातेन, यथा
पूर्वं प्रहर्ता न जघान भूयः
प्रतिप्रहाराक्षममश्वसादी ।
तुरङ्गमस्कन्धनिषण्णदेहं
प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ॥१.५७४॥ (र.वं. ७.४७)

अत्र प्रतिभटप्रहारेणाश्वसादिनो मूर्च्छा ।

सर्वेऽ पि सत्त्वमूलत्वाद्भावा यद्यपि सात्त्विकाः । ३१० द्
तथाप्यमीषां सत्त्वैकमूलत्वात्सात्त्विकप्रथा ॥१.५७५॥
अनुभावाश्च कथ्यन्ते भावसंसूचनादमी । ३११
एवं द्वैरूप्यमेतेषां कथितं भावकोविदैः ॥१.५७६॥
अनुभावैकनिधिना सुखानुभवशालिना ।
श्रीसिंहभूभुजा साङ्गमनुभावा निरूपिताः ॥१.५७७॥ ३१२

अस्मत्कल्पलतादलानि गिलति त्वत्कामगौर्वार्यतां
मच्चिन्तामणिवेदिभिः परिणमेद्दूरान्नयोच्चैर्गजम् ।
इत्यारूढवितर्दिकाः प्रतिपथं जल्पन्ति भूदेवताः
सिंहक्ष्माभुजि कल्पवृक्षसुरभीहस्त्यादिदानोद्यते ॥१.५७८॥ ३१३

रक्षायां राक्षसारिं प्रबलविमतविद्रावणे वीरभद्रं
कारुण्ये रामभद्रं भुजबलविभवारोहणे रौहिणेयम् ।
पाञ्चालं चञ्चलाक्षीपरिचरणविधौ पूर्णचन्द्रं प्रसादे
कन्दर्परूपदर्पे तुलयति नितरां सिंहभूपालचन्द्रः ॥१.५७९॥ ३१४

इति श्रीमदान्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचिते रसार्णवसुधाकरनाम्नि नाट्यालङ्कारशास्त्रे रञ्जकोल्लासो नाम
प्रथमो विलासः
॥१॥

द्वितीयो विलासः - रसिकोल्लासः

सम्पाद्यताम्


कल्याणदायि भवतां भवेद्भव्यगुणाकरम् ।
कमलाकुचकालेयव्यञ्जितोरःस्थलं महः ॥२.१॥ १
चिदचित्क्षेमकारिण्यै नमः श्रीपर्णजादिभिः ।
वन्द्यायै वार्धिनन्दिन्यै कराग्रस्थपयोरुहे ॥२.२॥ २

अथ व्यभिचारिभावाः

व्यभी इत्युपसर्गौ द्वौ विशेषाभिमुखत्वयोः ।
विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥२.३॥ ३
वागङ्गसत्त्वसूच्या ज्ञेयास्ते व्यभिचारिणः ।
तं चारयन्ति भावस्य गतिं सञ्चारिणोऽ पि ॥२.४॥ ४
उन्मज्जन्तो निमज्जन्तः स्थायिन्यमृतवारिधौ ।
ऊर्मिवद्वर्धयन्त्येनं यान्ति तद्रूपतां च ते ॥२.५॥ ५
निर्वेदोऽ थ विषादो दैन्यं ग्लानिश्रमौ च मदगर्वौ ।
शङ्कात्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥२.६॥ ६
मोहो मृतिरालस्यं जाड्यं व्रीडावहित्था च ।
स्मृतिरथ वितर्कचिन्तामतिधृतयो हर्ष उत्सुकत्वं च ॥२.७॥ ७
औग्र्यमर्षासूयाश्चापल्यं चैव निद्रा च ।
सुप्तिर्बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥२.८॥ ८

तत्र (१) निर्वेदः
तत्त्वज्ञानाच्च दौर्गत्यावापदो विप्रयोगतः ।
ईर्ष्यादेरपि संजातं निर्वेदः स्वावमाननम् ॥२.९॥ [*९] ९
[*९] अनोथेर्रेअदिन्गिन् सोमे मनुस्च्रिप्त्सनुभावस्तु नैष्फल्यमतिर्निर्वेद उच्यते । अत्र चिन्ताश्रुनिःश्वसवैवर्ण्योच्छ्वासदीनता ॥


तत्त्वज्ञानाद्, यथा
प्राप्ताः श्रियः सकलकामदुघास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
संमानिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥२.१०॥ (वैराग्यशतक ६७)

किं विद्यासु विशारदैरपि सुतैः प्राप्ताधिकप्रश्रयैः
किं दारैरभिरूपरूपचरितैरात्मानुकूलैरपि ।
किं कार्यं चिरजीवितेन विगतव्याधिप्रचारेण वा
दारिद्र्योपहतं यदेतदखिलं दुःखाय मे केवलम् ॥२.११॥

आपदो, यथा
सुरतश्रमसम्भृतो मुखे
ध्रियते स्वेदलवोद्गमोऽ पि ते ।
अथ चास्तमिता त्वमात्मना
धिगिमां देहभृतामसारताम् ॥२.१२॥ (रघु. ८.५७)

विप्रयोगाद्, यथा
यय्सां ते दिवसास्तया सह मया नीता यथा स्वे गृहे
यत्सम्बन्धिकथाभिरेव सततं दीर्घाभिरस्थीयते ।
एकः सम्प्रति नाशितप्रियतमस्तामेव रामः कथं
पापः पञ्चवटीं विलोकयतु वा गच्छत्वसम्भाव्य वा ॥२.१३॥ (उ.रा.च. २.२९)

अत्र सीताविप्रयुक्तस्य रामस्य वागारम्भसूचितेनात्मावमाननेन निर्वेदः प्रतीयते ।

ईर्ष्यया, यथा
कुर्युः शस्त्रकथाममी यदि मनोर्वंशे मनुष्याङ्कुराः
स्याच्चेद्ब्रह्मगणोऽ यमाकृतिगणस्तत्रेष्यते चेद्भवान् ।
सम्राजां समिधां च साधकतमं धत्ते छिदाकारणं
धिङ्मौर्वीकुशकर्षणोल्बणकिणग्रन्थिर्ममायं करः ॥२.१४॥
(अनर्घ. ४.४४)

अत्र रामचन्द्रशतानन्दविषयेर्ष्याजनितेन धिगिति वागारम्भसूचितेन स्वात्मावमाननेन जामदग्न्यस्य निर्वेदः ।

अथ (२) विषादः
प्रारब्धकार्यानिर्वाहादिष्टानवाप्तेर्विपत्तितः ।
अपराधपरिज्ञानादनुतापस्तु यो भवेत् ॥२.१५॥ १०
विषादः स त्रिधा ज्येष्ठमध्यमाधमसंश्रयात् ।
सहायान्वेषणोपायचिन्ताद्या उत्तमे मताः ॥२.१६॥ ११
अनुत्साहश्च वैचित्त्यमित्याद्या मध्यमे मताः ।
अधमस्यानुभावाः स्युर्वैचित्र्यमवलोकनम् । १२
रोदनश्वासितध्यानमुखशोषादयोऽ पि च ॥२.१७॥

प्रारब्धकार्यानिर्वाहाद्, यथा
वारं वारं तिरयति दृशावुद्गतो बाष्पपूरस्
तत्सङ्कल्पोपहितजडिम स्तम्भमभ्येति गात्रम् ।
सद्यः स्विद्यन्न्नयमविरतोत्कम्पलोलाङ्गुलीकः
पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥२.१८॥ (मालतीमाधव १.३८)

अत्र प्रस्तुतचित्रनिर्माणानिर्वाहान्माधवस्य किं करोमीति वागारम्भसूचितया तद्दर्शनोपायचिन्तया विषादो व्यज्यते ।

तत्र इष्टानवाप्तेर्, यथा
सञ्चारिणी दीपशिखेव रात्रौ
यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे
विवर्णभावं स स भूमिपालः ॥२.१९॥ (र.वं. ६.६७)

अत्रेन्दुमतीमाकाङ्क्षतां भूमिपतीनां तदनवाप्त्या मुखवैवर्ण्येन विषादो व्यज्यते ।

विपत्तितः, यथा
हा हा धिक्परगृहवासदूषणं यद्
वैदेह्याः प्रशमितमद्भुतैरुपायैः ।
एतत्तत्पुनरपि दैवदुर्विपाकाद्
आलर्कं विषमिव सर्वतः प्रसृप्तम् ॥२.२०॥ (उ.रा.च. १.४०)

अत्र सीतापवादरूपाया विपत्तेर्हा हा धिगिति वागारम्भेण रामस्य विषादो गम्यते ।

यथा वा
सा दुर्निमित्तोपगताद्विषादात्
सद्यः परिम्लानमुखारविन्दा ।
राज्ञः शिवं सावरजस्य भूयाद्
इत्याशशंशे करणैर्बाह्यैः ॥२.२१॥ (रघु. १४.५०)

अत्र दुर्निमित्तानुमिताया विपत्तेर्मुखशोषणेनानुभावेन वैदेह्या विषादः ।

अपराधपरिज्ञानात्, यथा
हा तातेति क्रन्दितमाकर्ण्य विषण्णस्
तस्यान्विष्यन् वेतसगूढं प्रभवं सः ।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं
तापादन्तःशल्य इवासीत्क्षितिपोऽ पि ॥२.२२॥ (रघु. ९.७५)

अथ (३) दैन्यम्
हृत्तापदुर्गतत्वाद्यैरनौद्धत्यं हि दीनता । १३
तत्रानुभावा मालिन्यगात्रस्तम्भादयो मताः ॥२.२३॥

हृत्तापात्, यथा
एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तम्नो मे
सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
इष्टान् देशान् जलद विहर प्रावृषा सम्भृतश्रीर्
माभूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥२.२४॥ (मे.दू. २.५५)

दौर्गन्ध्याद्, यथा
दीना दीनमुखैः स्वकीयशिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितरि निरन्नपिठरा नेक्ष्येत चेद्गेहिनी ।
याच्ञादैन्यभयेन गद्गदगलत्त्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥२.२५॥

अथ (४) ग्लानिः
आधिव्याधिजरातृष्णाव्यायामसुरतादिभिः । १४
निष्प्राणता ग्लानिरत्र क्षामाङ्गवचनक्रियाः ।
कम्पानुत्साहवैवर्ण्यनयनभ्रमणादयः ॥२.२६॥ १५

आधिना, यथा
किसलयमिव मुग्धं बन्धनाद्विप्रलूनं
हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं
शरदिज इव घर्मः केतकीपत्रगर्भम् ॥२.२७॥ (उत्तररामचरित ३.५)

व्याधिना, यथा
तस्य पाण्डुवदनाल्पभूषणा
सावलम्बगमना मृदुस्वना ।
राजयक्ष्मपरिहाणिराययौ
कामयानसमवस्थया तुलाम् ॥२.२८॥ (रघु. १९.५०)

जरया, यथा
विवृद्धिं कम्पस्य प्रथयतितरां साध्वसवशाद्
अविस्पष्टां दृष्टिं तिरयतितरां बाष्पसलिलैः ।
स्खलद्वर्णां वाणीं जनयतितरां गद्गदतया
जरायाः साहाय्यं मम हि परितोषोऽ द्य कुरुते ॥२.२९॥ (रत्नावली ४.१३)

अत्र हर्षस्य जरासहकारित्वकथनादुभयानुभावैरपि कम्पादिभिर्जराग्लानेरेव प्राधान्यं गम्यते ।

तृष्णया, यथा
विन्ध्याध्वानौ विरलसलिलास्तर्षिणी तत्र सीता
यावन्मूर्छां कलयति किल व्याकुले रामभद्रे ।
द्राक्सौमित्रिः पुटककलशीं मालुधानीदलानां
तावत्प्राप्तो दधदतिभृतां वारिणा नैर्झरेण ॥२.३०॥ (बालरामायण ६.५०)

व्यायामेन, यथा
अतनुकुचभरानतेन भूयः
श्रमजनितानतिना शरीरकेण ।
अनुचितगतिसादनिःसहत्वं
कलभरकरोरुभिरूरुभिर्दधानैः ॥२.३१॥ (शि.व. ७.६६)

सुरतेन, यथा
अतिप्रयत्नेन रतान्ततान्ता
कृष्णेन तल्पावरोपिता सा ।
आलम्ब्य तस्यैव करं करेण
ज्योत्स्नाकृतानन्दमलिन्दमाप ॥२.३२॥

अथ (५) श्रमः
श्रमो मानसखेदः स्यादध्वनृत्यरतादोभिः ।
अङ्गमर्दननिःश्वासौ पादसंवाहनं तथा ॥२.३३॥ १६
जृम्भणं मन्दयानं च मुखनेत्रविघूर्णनम् ।
सीत्कृतिश्चेति विज्ञेया अनुभावाः श्रमोद्भवाः ॥२.३४॥ १७

अध्वना, यथा
सद्यः पुरीपरिसरेऽ पि शिरीषमृद्वी
सीता जवात्त्रिचतुराणि पदानि गत्वा ।
गन्तव्यमद्य कियदित्यसकृद्ब्रुवाणा
रामाशुणः कृतवती प्रथमावतारम् ॥२.३५॥ (बालरामायण ६.३४)

नृत्येन, यथा
स्वेदक्लेदितकङ्कणां भुजलतां कृत्वा मृदङ्गाश्रयां
चेटीहस्तसमर्पितैकचरणा मञ्जीरसन्धित्सया ।
सा भूयः स्तनकम्पसूचितरयं निःश्वासमामुञ्चती
रङ्गस्थानमनङ्गसात्कृतवती तालावधौ तस्थुषी ॥२.३६॥

रत्या, यथा ममैव
नितान्तसुरतक्लान्तां चेलान्तकृतवीजनाम् ।
कान्तां लुलितनेत्रान्तां कलये कलभाषिणीम् ॥२.३७॥

अथ (६) मदः
मदस्त्वानन्दसंमोहसम्भेदो मदिराकृतः ।
स त्रिधा तरुणो मध्योऽ पकृष्टश्चेति भेदतः ॥२.३८॥ १८
दृष्टिः स्मेरा मुखे रागः सस्मिताकुलितं वचः ।
ललिताविद्धगत्याद्याश्चेष्टाः स्युस्तरुणे मदे ॥२.३९॥ १९

यथा
भावहारि हसितं वचनानां
कौशलं दृशि विकारविशेषाः ।
चक्रिरे भृशमृजोरपि वध्वाः
कामिनेव तरुणेन मदेन ॥२.४०॥ (शि.व. १०.१३)

अथ मध्यमः
मध्यमे तु मदे वाचि स्खलनं घूर्णनं दृशोः ।
गमने वक्त्रता बाह्वोर्विक्षेपस्रस्ततादयः ॥२.४१॥ २०

यथा
रुन्धती नयनवाक्यविकासं
सादितोभयकरा परिरम्भे ।
व्रीडितस्य ललितं युवतीनां
क्षीबता बहुगुणैरनुजह्रे ॥२.४२॥ (भारवेः ९.६७)

अथ नीचः
अपकृष्टे तु चेष्टाः स्युर्गतिभङ्गो विसंज्ञता ।
निष्ठीवनं मुहुः श्वासो हिक्का छर्द्यादयो मताः ॥२.४३॥ २१

यथा
निष्ठीवन्त्यो मुखरितमुखं गौरवात्कन्धरायाः
प्रायो हिक्काविकलविकलं वाक्यमर्धं गृणन्त्यः ।
नैवापेक्षां गलितवसने नाप्युपेक्षामयन्ते
पायं पायं बहुविधमधून्येकवीथ्या कुमार्यः ॥२.४४॥

तरुणस्तूत्तमादीनां मध्यमो मध्यनीचयोः ।
अपकृष्टस्तु नीचानां तत्तन्मदविवर्धने ॥२.४५॥ २२
उत्तमप्रकृतिः शेते मध्यो हसति गायति ।
अधमप्रकृतिर्ग्राम्यं परुषं वक्ति रोदिति ॥२.४६॥ २३

उत्तमप्रकृतेर्मदवृद्धिर्, यथा

तत्क्षणं विपरिवर्तितह्रियोर्
नेष्यतोः शयनमिद्धरागयोः ।
सा बभूव वशवर्तिनी तयोः
प्रेयसः सुवदना मदस्य च ॥२.४७॥ (कु.सं. ८.७९)

मध्यमस्य मदवृद्धिर्, यथा
विनापि हेतुं विकटं जहास
पदेषु चस्खाल समेऽ पि मार्गे ।
विघूर्णमानः स मदातिरेकाद्
आकाशमालम्बनमाललम्बे ॥२.४८॥

अधमस्य मदवृद्धिर्, यथा
तह तह गामीणघरिणी
मदविवसा किंपि किंपि बाहरै ।
जह जह कुलबहुआओ
सोऊण सरन्दि पिहिअ कण्णाओ ॥२.४९॥

(तथा तथा ग्रामीणगृहिणी
मदविवशा किमपि किमपि व्याहरति ।
यथा यथा कुलवध्वः
श्रुत्वा सरन्ति पिहितकर्णाः ॥)

ऐश्वर्यादिकृतः कैश्चित्मानो मद इतीरितः ।
वक्ष्यमाणस्य गर्वस्य भेद एवेत्युदास्महे ॥२.५०॥ २४

अथ (७) गर्वः
ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि ।
इष्टलाभादिनान्येषामवज्ञा गर्व ईरितः ॥२.५१॥ २५
अनुभावा भवन्त्यत्र गुर्वाज्ञाद्याज्ञाव्यतिक्रमः ।
अनुत्तरप्रअदानं च वैमुख्यं भाषणेऽ पि च ॥२.५२॥ २६
विभ्रमापह्नुती वाक्यपारुष्यमनवेक्षणम् ।
अवेक्षणं निजाङ्गानामङ्गभङ्गादयोऽ पि च ॥२.५३॥ २७

ऐश्वर्यमाज्ञासिद्धिः । तेन यथा

राहो तर्जय भास्करं वरुण हे निर्वाप्यतां पावकः
सर्वे वारिमुचः समेत्य कुरुत ग्रीष्मस्य दर्पच्छिदाम् ।
प्रालेयाचल चन्द्र दुग्धजलधे हेमन्त मन्दाकिनि
द्राग्देवस्य गृहानुपेत भवतां सेवाक्षणो वर्तते ॥२.५४॥
(बालरामायण ५.२२)

यथा वा
वह्ने निह्नोतुमर्चिः परिचिनु पुरतः सिञ्चतो वारिवाहान्
हेमन्तस्यान्तिके स्याः प्रथयति दवथुं येन ते ग्रीष्म नोष्मा ।
मार्तण्डाश्चण्डतापप्रशमनविधये धत्त नाडीं जलार्द्रां
देवो नान्यप्रतापं त्रिभुवनविजयी मृष्यते श्रीदशास्यः ॥२.५५॥
(बालरामायण १.३१)

रूपतारुण्याभ्यां, यथा
वाटीषु वाटीषु विलासिनीनां
चरन् युवा चारुतयातिदृप्तः ।
तृणाय नामन्यत पुष्पचापं
करेण लीलाकलितारविन्दः ॥२.५६॥

कुलेन, यथा
गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी
भूरिश्रेष्ठिकनाम धाम परमं तत्रोत्तमो नः पिता ।
तत्पुत्राश्च महाकुला न विदिताः कस्यात्र तेषामपि
प्रज्ञाशीलविवेकधैर्यविनयाचारैरहं चोत्तमः ॥२.५७॥
(प्रबोधचन्द्रोदयः, २.७)

विद्यया, यथा
बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं
कर्मेति क्रमशिक्षितान्वयकला ये केऽ पि तेभ्यो नमः ।
ये तु ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्कैर्गिराम्
उल्लेखैः कवयन्ति बिल्हणकविस्तेष्वेव संनह्यति ॥२.५८॥
(कर्णसुन्दरी)

बलेन, यथा
रुद्राद्रेस्तुलनं स्वकण्ठविपिनच्छेदो हरेर्वासनं
कारावेश्मनि पुष्पकस्य हरणं यस्योर्जिताः केलयः ।
सोऽ यं दुर्मदबाहुदण्डसचिवो लङ्केश्वरस्तस्य मे
का श्लाघा गुणजर्जरेण धनुषाकृष्टेन भग्नेन वा ॥२.५९॥
(बालरामायण, १.५१)

इष्टप्राप्त्या, यथा
आस्तां तावदनङ्गचापविभवः का नाम सा कौमुदी
दूरे तिष्ठतु मत्तकोकिलरुतं संवान्तु मन्दानिलाः ।
हासोल्लासतरङ्गितैरसकलैर्नेत्राञ्चलैश्चञ्चलैः
साकूतैरुररीकरोति तरुणी सेयं प्रणामाञ्जलिम् ॥२.६०॥

अथ (८) शङ्का
शङ्का चौर्यापराधाद्यैः स्वानिष्टोत्प्रेक्षणं मतम् ।
तत्र चेष्टामुहुः पार्श्वदर्शनं मुखशोषणम् ॥२.६१॥ २८
अवकुण्ठनवैवर्ण्यकण्ठसादादयोऽ पि च ।
शङ्का द्विद्येयमात्मोत्था परोत्था चेति भेदतः ॥२.६२॥ २९
स्वाकार्यजनिता स्वोत्था प्रायो व्यङ्ग्येयमिङ्गितैः ।
इङ्गितानि तु पक्ष्मभ्रूतारकादृष्टिविक्रियाः ॥२.६३॥ ३०

अपराधात्स्वोत्था, यथा
तत्सख्या मरुताथ वा प्रचलिता वल्लीति मुह्यद्धियो
दृष्ट्वा व्याकुलतारया निगदतो मिथ्याप्रसादं मुखे ।
गङ्गानूतनसङ्गिनः पशुपतेरन्तःपुरं गच्छतो
नूत्ना सैव दशा स्वयं पिशुनतां देवीसखीनां गता ॥२.६४॥

सैव चौर्येण, यथा
मृद्नन् क्षीरादिचौर्यान्मसृणसुरभिणी सृक्वणी पाणिघर्षैर्
आघ्रायाघ्राय हस्तं सपदि परुषयन् किङ्किणीमेखलायाम् ।
वारं वारं विशाले दिशि दिशि विकिरन् लोचने लोलतारे
मन्दं मन्दं जनन्याः परिसरमयते कूटगोपालबालः ॥२.६५॥

परोत्था तु निजस्यैव परस्याकार्यतो भवेत् ।
प्रायेणाकारचेष्टाभ्यां तामिमामनुभावयेत् । ३१
आकारः सात्त्विकश्चेष्टा त्वङ्गप्रत्यङ्गजाः क्रियाः ॥२.६६॥ ३२ ब्

परोत्था, यथा
प्रीते विधातरि पुरा परिभूय मर्त्यान्
वव्रेऽ न्यतो यदभयं स भवानहंयुः ।
तन्मर्मणि स्पृशति मामतिमात्रमद्य
हा वत्स शान्तमथवा दशकन्धरोऽ सि ॥२.६७॥ (अनर्घराघव ४.९)

अत्र गर्वितरावणकृतेन मर्त्येतराभयवरणेन जाता माल्यवतः शङ्का मर्मणि स्पृशतीत्यादिना वागारम्भेण प्रतीयते ।

अथ (९) त्रासः
त्रासस्तु चित्तचाञ्चल्यं विद्युत्क्रव्यादगर्जितैः । ३२
तथा भूतभुजङ्गाद्यैर्विज्ञेयास्तत्र विक्रियाः ॥२.६८॥
उत्कम्पगात्रसङ्कोचरोमाञ्चस्तम्भगद्गदाः । ३३
मुहुर्निमेषविभ्रान्तिपार्श्वस्थालम्बनादयः ॥२.६९॥

विद्युतो, यथा
वर्षासु तासु क्षणरुक्प्रकाशात्
त्रस्ता रमा शार्ङ्गिणमालिलिङ्ग ।
विद्युच्च सा वीक्ष्य तदङ्गशोभां
ह्रीणेव तूर्णं जलदं जगाहे ॥२.७०॥

क्रव्यादो हिंस्रसत्त्वम् । तस्माद्, यथा

स्वविक्रियादर्शितसाध्वसौघात्
प्रियाभिरालिङ्गितकन्धराणाम् ।
अकारि भल्लूककुलेन यत्र
विद्याधराणामनिमित्तमैत्री ॥२.७१॥

गर्जितेन, यथा
प्रणयकोपभूतोऽ पि पराङ्मुखाः
सपदि वारिधरारवभीरवः ।
प्रणयिनः परिरब्धुमनन्तरं
ववलिरे बलिरेचितमध्यमाः ॥२.७२॥ (शि.व., ६.३८)

गर्जितं महारवोपलक्षणम् । तेन भेर्यादिध्वनिरपि भवति ।

भेरीध्वनिना, यथा
ननन्द निद्रारसभञ्जनैरपि
प्रयाणतूर्यध्वनिभिर्धरापतेः ।
अतर्कितातङ्कविलोलपद्मजा
पयोधरद्वन्द्वनिपीडितो हरिः ॥२.७३॥

भूतदर्शनाद्, यथा
सा पत्युः परिवारेण पिशाचैरपि वेष्टिता ।
उत्कम्पमानहृदया सखीभिः सम्बोध्यत ॥२.७४॥

भुजङ्गमाद्, यथा
कल्याणदायि भवतोऽ स्तु पिनाकपाणि
पाणिग्रहे भुजगकङ्कणभीषतायाः ।
सम्भ्रान्तदृष्टि सहसैव नमः शिवायेत्य्
अर्धोक्तिसस्मितनतं मुखमम्बिकायाः ॥२.७५॥
(रसकलिकायामप्युल्लिखितमिदम्, २३ पुटे)

अथ (१०) आवेगः
चित्तस्य सम्भ्रमो यः स्यादावेगोऽ यं स चाष्टधा । ३४ उत्पातवातवर्षाग्निमत्तकुञ्जरदर्शनात् ॥२.७६॥
प्रियाप्रियश्रुतेश्चापि शत्रवव्यसनादपि । ३५
तत्रौत्पातस्तु शैलादिकम्पकेतूदयादयः ॥२.७७॥
तज्जाः सर्वाङ्गविस्रंसो वैमुख्यमपसर्पणम् । ३६
विषादमुखवैवर्ण्यविस्मयाद्यास्तु विक्रियाः ॥२.७८॥

शैलप्रकम्पनाद्, यथा
कैलासाद्रावुदस्ते परिचलितगणेषूल्लसत्कौतुकेषु
क्रोडं मातुः कुमारे विशति विषमुचिप्रेक्षमाणे सरोषम् ।
पादावष्टम्भसीदद्वपुषि दशमुखे याति पातालमूलं
क्रुद्धोऽ प्याश्लिष्टमूर्तिर्घनतरमुमया पातु हृष्टः शिवो वः ॥२.७९॥

अत्र कैलासकम्पजनितप्रमथगणविस्मयकार्तिकेयापसर्पणकात्यायनीसाध्वसादिभिरनुभावैस्तत्तद्गतसम्भ्रमातिशयरूप आवेगो व्यज्यते ।

केतूदयाद्, यथा
हन्तालोक्य कुटुम्बिनो दिविषदां धूमग्रहं दिङ्मुखे
त्रस्ताङ्गास्त्वरितं परस्परगृहानभ्येत्य चिन्तापराः ।
धान्यानामनतिव्ययाय गृहिणीराज्ञापयन्त्यो मुहुर्
निध्यायन्ति विनिःश्वसन्ति गणशो रथ्यामुखेष्वासते ॥२.८०॥

अथ वातावेगः
त्वरयागमनं वस्त्रग्रहणं चावकुण्ठनम् । ३७
नेत्रावमार्जनाद्याश्च वातावेगभवाः क्रियाः ॥२.८१॥

यथा
दिक्षु व्यूढाङ्घ्रिपाङ्गस्तृणजटितचलत्पांसुदण्डोऽ न्तरिक्षे
झाङ्कारी शर्करालः पथिषु विटपिनां स्कन्धकाषैः सधूमः ।
प्रासादानां निकुञ्जेष्वभिनवजलदोद्गारगम्भीरधीरश्
चण्डारम्भः समीरो वहति परिदिशं भीरु किं सम्भ्रमेण ॥२.८२॥
(वेणीसंहार २.१९)

अत्र वातकृतसंरम्भो वागारम्भेण प्रतिपाद्यते ।

अथ वर्षावेगः
छत्रग्रहोऽ ङ्गसङ्कोचो बाहुस्वस्तिकधावने । ३८
उष्णाश्रयणमित्याद्या वर्षावेगभवाः क्रियाः ॥२.८३॥

यथा
आमेखलं चञ्चरता घनानां
छायामधः सानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिराश्रयन्ते
शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥२.८४॥ [कु.सं. ७.५]

अत्र सिद्धानामग्रशिखरधावनेन सूचितः ।

अथ अग्न्यावेगः
अग्न्यावेगःभवाश्चेष्टा वीजनं चाङ्गधूननम् । ३९
व्यत्यस्तपदविक्षेपनेत्रसङ्कोचनादयः ॥२.८५॥

यथा
दूरप्रोत्सार्यमाणाम्बरचरनिकरोत्तालकीलाभिघातः
प्रभ्रश्यद्वाजिवर्गभ्रमणनियमनव्याकुलब्रध्नसूतः ।
लेढि प्रौढो हुताशः कृतलयसमयाशङ्कमाकाशवीथीं
गङ्गासूनुप्रयुक्तप्रथितहुतवहास्त्रानुभावप्रसूतः ॥२.८६॥
(धनञ्जयविजय ६७)

अथ कुञ्जरावेगः
आवेगे कुञ्जरोद्भूते सत्वरं चापसर्पणम् । ४०
विलोकनं मुहुः पश्चात्त्रासकम्पादयो मताः ॥२.८७॥

यथा
निरन्तरालेऽ पि विमुच्यमाने
दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्
द्विपैरसम्बाधमयां बभूवे ॥२.८८॥

अश्वेन, यथा
उत्खाय दर्पचलितेन सहैव रज्ज्वा
कीलं प्रयत्नपरमानवदुर्ग्रहेण ।
आकुल्यकारि कटकस्तुरगेण तूर्णम्
अश्वेति विद्रुतमनुद्रवताश्वमन्यम् ॥२.८९॥

प्रियश्रवणाद्, यथा
प्रियश्रवणजे ह्यस्मिनभुत्थानोपगूहने । ४१
प्र
ीतिदानं प्रियं वाक्यं रोमहर्षादयोऽ पि च ॥२.९०॥

यथा
जनाय शुद्धान्तचराय शंसते
कुमारजन्मामृतसंमिताक्षरम् ।
अदेयमासीत्त्रयमेव भूपतेः
शशिप्रभं छत्रमुभे च चामरे ॥२.९१॥ (र.वं. ३.१६)

अप्रियश्रुतेर्, यथा
अप्रियश्रुतिजेऽ प्यस्मिन् विलापह्परिवर्तनम् । ४२
आक्रन्दितं च पतनं परितो भ्रमणादयः ॥२.९२॥

शात्रवाद्, यथा
चेष्टाः स्युः शात्रवावेगे वर्मशस्त्रादिधारणम् । ४३
रथवाजिगजारोहसहसापक्रमादयः ॥२.९३॥

यथा
रामो नाम बभूव हुं तदबला सीतेति हुं तां पितुर्
वाचा पञ्चवटीवने निवसतस्तस्याहरद्रावणः ।
कृष्णस्येति पुरातनीं निजकथामाकर्ण्य मात्रेरितां
सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥२.९४॥
[कृ.क.२.७२]

एते स्युरुत्तमादीनामनुभावा यथोचितम् ॥२.९५॥ ४४

अथ उन्मादः
उन्मादश्चित्तविभ्रान्तिर्वियोगादिष्टनाशतः ।
वियोगजे तु चेष्टाः स्युर्धावनं परिदेवनम् ॥२.९६॥ ४५
असम्बद्धप्रलपनं शयणं सहसोत्थितिः ।
अचेतनैः सहालापो निर्निमित्तस्मितादयः ॥२.९७॥ ४६

यथा
आशूत्थानं सदृशगणना चेतनाचेतनेषु
प्रौढौष्माभिश्वसितमसकृन्निर्गतो बाष्पपूरः ।
निर्लक्ष्या वाग्गतिरविषया निर्निमित्तं स्मितं च
प्रायेणास्याः प्रथयतितरां भ्रान्तिदात्रीमवस्थाम् ॥२.९८॥

इष्टनाशाद्, यथा
इष्टनाशकृते त्वस्मिन् भस्मादिपरिलेपनम् ।
नृत्यगीतादिरचना तृणनिर्माल्यधारणम् । ४७
चीवरावरणादीनि प्रागुक्ताश्चापि विक्रियाः ॥२.९९॥

यथा
कीनाशोऽ पि बिभेति यादवकुलाद्वृद्धस्य का मे गतिर्
भेदः स्यात्स्वजनेषु किं नु शतधा सीदन्ति गात्राणि मे ।
सोऽ यं बुद्धिविपर्ययो मम समं सर्वे हता बान्धवा
न श्रद्देयमिदं हि वाक्यमहहा मुह्यन्ति मर्माणि मे ॥२.१००॥

अथ (१२) अपस्मृतिः
धातुवैषम्यदोषेण भूतावेशादिना कृतः । ४८
चित्तक्षोभस्त्वपस्मारस्तत्र चेष्टाः प्रकम्पनम् ॥२.१०१॥
धावनं पतनं स्तम्भो भ्रमणं नेत्रविक्रियाः । ४९
स्वोष्ठदंशभुजास्फोटलालाफेनादयोऽ पि च ॥२.१०२॥

यथा
लालाफेनव्यतिकरपरिक्लेदिभुग्नोष्ठपार्श्वं
गायं गायं कलितरुदितं प्रोन्नमन्तं पतन्तम् ।
स्तब्धोद्वृत्तक्षुभितनयनं मण्डलेन भ्रमन्तं
भूताविष्टं कमपि पुरुषं तत्र वीथ्यामपश्यम् ॥२.१०३॥

दोषवैषम्यजस्त्वेष व्याधिरेवेत्युदास्महे ॥१०३॥ ५०

अथ (१३) व्याधिः
दोषोद्रेकवियोगाद्यैर्स्याद्व्याधिरत्र तु ।
गात्रस्तम्भः श्लथाङ्गत्वं कूजनं मुखकूणनम् ॥२.१०४॥ ५१
स्रस्ताङ्गताक्षिविक्षेपनिःश्वासाद्यास्तु विक्रियाः ।
सशीतो दाहयुक्तः स द्विविधः परिकीर्तितः ॥२.१०५॥ ५२[*१०]
हनुसञ्चालनं बाष्पः सर्वाङ्गोत्कम्पकूजने ।
जानुकुञ्चनरोमाञ्चमुखशोषादयोऽ पि च ॥२.१०६॥ ५३
[*१०] थे fओल्लोwइन्घल्f करिक इस्fओउन्दिनोन्ल्योने एदितिओन् (शीतज्वरे तु चेष्टाः स्युः सन्तापश्चाङ्गसादनम् । थिस्दोएस्नोतप्पेअर्तो बे सेरिओउस्. (सेए करिक ५४)


यथा
रोमाञ्चमङ्कूरयति प्रकामं
स्पर्शेन सर्वाङ्गकसङ्गतेन ।
दोःस्वस्तिकाश्लिष्टपयोधराणां
शीतज्वरः कान्त इवाङ्गनानाम् ॥२.१०७॥

दाहज्वरे तु चेष्टाः स्युः शीतमाल्यादिकाङ्क्षणम् ।
पाणिपादपरिक्षेपमुखशोषादयोऽ पि च ॥२.१०८॥ ५४

यथा
शय्या पुष्पमयी परागमयतामङ्गार्पणादश्नुते
ताम्यन्त्यन्तिकतालवृन्तनलिनीपत्राणि देहोष्मणा ।
न्यस्तं च स्तनमण्डले मलयजं शीर्णान्तरं दृश्यते
क्वाथादाशु भवन्ति फेनिलमुखा भूषामृणालाङ्कुराः ॥२.१०९॥

अथ (१४) मोहः
आपद्भीतिवियोगाद्यैर्मोहश्चित्तस्य मूढता ।
विक्रियास्तत्र विज्ञेया इन्द्रियाणां च शून्यता । ५५
निश्चेष्टताङ्गभ्रमणपतनाघूर्णनादयः ॥२.११०॥

आपदो, यथा
ततोऽ भिषङ्गानिलविप्रविद्धा
प्रभ्रश्यमानाभरणप्रसूता ।
स्वमूर्तिलाभप्रकृतिं धरित्रीं
लतेव सीता सहसा जगाम ॥२.१११॥ (र.वं. १४.५४)

भीतेर्, यथा
स्मरस्तथाभूतमयुग्मनेत्रं
पश्यन्नदूरान्मनसाप्यधृष्यम् ।
नालक्षयत्साध्वससन्नहस्तः
स्रस्तं शरं चापमपि स्वहस्तात् ॥२.११२॥ [कु.सं. ३.५१]

वियोगाद्, यथा
तद्वक्त्रं नयेन च ते स्मितसुधामुग्धं च तद्वाचिकं
सा वेणी स भुजक्रमोऽ तिसरलो लीलालसा सा गतिः ।
तन्वी सेति च सेति सेति सततं तद्ध्यानबद्धात्मनो
निद्रा नो न रतिर्न चापि विरतिः शून्यं मनो वर्तते ॥२.११३॥ (रसकलिका, ३२)

अथ (१५) मृतिः
वायोर्धनञ्जयाख्यस्य विप्रयोगो य आत्मना । ५६
शरीरावच्छेदवता मरणं नाम तद्भवेत् ॥२.११४॥
एतच्च द्विविधं प्रोक्तं व्याधिजं चाभिघातजम् । ५७
आद्यं त्वसाध्यहृच्छूलविषूच्यादिसमुद्भवम् ॥२.११५॥
अमी तत्रानुभावाः स्युरव्यक्ताक्षरभाषणम् । ५८
विवर्णगात्रता मन्दश्वासादि स्तम्भमीलने ।
हिक्का परिजनापेक्षानिश्चेष्टेन्द्रियतादयः ॥२.११६॥ ५९

यथा
काये सीदति कण्ठरोधिनि कफे कुण्ठे च वाणीपथे
जिह्मायां दृशि जीविते जिगमिषौ श्वासे शनैः शाम्यति ।
आगत्य स्वयमेव नः करुणया कात्यायनीवल्लभः
कर्णे वर्णयताद्भवार्णवभयादुत्तारकं तारकम् ॥२.११७॥

द्वितीयं घातपतनदोहोद्बन्धविषादिजम् ।
तत्र घातादिजे भूमिपतनक्रन्दनादयः ॥२.११८॥ ६०

यथा अभिरामराघवे
आर्यशरपातविवरादुद्बुद्बुदफेनिलास्रकर्दमिता ।
अपतन्न चलति किंचिद्विकृताकृतिरद्य वज्रनिहतेव ॥२.११९॥

विषं तु वत्सनाभाद्यमष्टौ वेगास्तदुद्भवाः ।
कार्ष्ण्यं कम्पो दाहो हिक्का फेनश्च कन्धरभङ्गः । ६१
जडता मृतिरिति कथिता क्रमशः प्रथमाद्या वेगजाश्चेष्टाः ॥२.१२०॥

यथ प्रियदर्शिकायां (४.९)
एषा म्लीअयतीदमक्षियुगलं जाता ममान्धा दिशः
कण्ठोऽ स्या उपरुध्यते मम गिरो निर्यान्ति कृच्छ्रादिमाः ।
एतस्याः श्वसितं हृतं मम तनुर्निश्चेष्टतामागता
मन्येऽ स्याः विषवेग एव हि परं सर्वं तु दुःखं मयि ॥२.१२१॥

अत्राक्षिनिमीलनकण्ठरोधननिःश्वासायासादिभिरारण्यिकाया विषवेगजनिता मृतिरवगम्यते ।

अथ (१६) आलस्यम्
स्वभावश्रमसौहित्यगर्भनिर्भरतादिभिः । ६२
कृच्छ्रात्क्रियोन्मुखत्वं यत्तदालस्यमिह क्रियाः ॥२.१२२॥
अङ्गभङ्गः क्रियाद्वेषो जृम्भणाक्षिविमर्दने । ६३
शय्यासनैकप्रियता तन्द्रीनिद्रादयोऽ पि च ॥२.१२३॥

स्वभावश्रमाभ्यां, यथा
मुहुरिति वनविभ्रमाभिषङ्गाद्
अतमि तदा नितरां नितम्बिनीभिः ।
मृदुतरतनवोऽ लसाः प्रकृत्या
चिरमपि ताः किमुत प्रयासभाजः ॥२.१२४॥ (शि.व. ७.६८)

सौहित्यं भोजनादितृप्तिः, तेन यथा
त्रैलोक्याभयलग्नकेन भवता वीरेण विस्मारितस्
तज्जीमूतमुहूर्तमण्डनधनुःपाण्डित्यमाखण्डलः ।
किं चाजस्रमखार्पितेन हविषा सम्फुल्लमांसोल्लसत्
सर्वाङ्गीणबलीविलुप्तनयनव्यूहः कथं वर्तते ॥२.१२५॥ (अ.रा. १.२८)
अत्र मन्दोवृद्ध्या शक्रस्य सौहित्यम् । तत्कृतमालस्यं कथं वर्तते इत्यनेन वागारम्भेण व्यज्यते ।

गर्भनिर्भरतया, यथा
आसनैकप्रियस्यास्याः सखीगात्रावलम्बिनः ।
गर्भालसस्य वपुषो भारोऽ भूत्स्वाङ्गधारणम् ॥२.१२६॥

अथ (१७) जाड्यम्
जाड्यमप्रतिपत्तिः स्यादिष्टानिष्ठार्थयोः श्रुतेः । ६४
दृष्टेर्वा विरहादेश्च क्रियास्तत्रानिमेषता ।
अश्रुतिः पारवश्यं च तूष्णीम्भावादयोऽ पि च ॥२.१२७॥ ६५

इष्टश्रुतेर्, यथा
प्रियेऽ परा यच्छति वाचमुन्मुखी
निबद्धदृष्टिः शिथिलाकुलोच्चया ।
समादधे नांशुकमाहितं वृथा
न वेद पुष्पेषु च पाणिपल्लवम् ॥२.१२८॥ (किरातार्जुनीये ८.१५)

अत्र प्रियवाक्यश्रवणजनितजाड्यमनिमेषत्वादिना व्यज्यते ।

प्रियदर्शनाद्, यथा
एहै सो बि पौत्थो अहं अ कुप्पेज्ज सो बि अणुणेज्ज ।
इअ चिंतेंती बहुआ दट्ठूण पिअं ण किं पि सम्मरै ॥२.१२९॥ [*११]
[*११] पूर्वार्धमात्रं गाथासप्तशत्यां दृश्यते १.१७.


(एष्यति सोऽ पि प्रोषितः अहं च कुप्येयं सोऽ प्यनुनेष्यति ।
इति चिन्तयन्ती वधूर्दृष्ट्वा प्रियं न किमपि संस्मरति ॥)

अत्र प्रियदर्शनजनितं जाड्यं पूर्वचिन्तितक्रियाविस्मरणेन व्यज्यते ।

अप्रियश्रवणाद्, यथा
आपुच्छन्तस्य बहू गमिदुं दैअस्स सुणिअ अद्धोत्तिम् ।
अणुमंणिदुं न जाणै ण निवारेदुं परवसा उबह ॥२.१३०॥

(आपृच्छमानस्य वधूर्गन्तुं दयितस्य श्रुत्वा अर्धोक्तिम् ।
अनुमन्तुं न जानाति न निवारयितुं परवशा पश्यत ॥)

अनिष्टदर्शनाद्, यथा
ससुरेण डज्जमाणे घरणिअडभवे णिउंजपुंजंमि ।
ण सुणै सुण्हा सुण्णा बहुसो कहिदं बि ससुराए ॥२.१३१॥

(श्वशुरेण दह्यमाने गृहनिकटभवे निकुञ्जपुञ्जे ।
न शृणोति स्नुषा शून्या बहुशः कथितमपि श्वश्र्वा ॥)

वियोगाद्, यथा
पप्रच्छ पृष्टमपि गद्गदिकार्तकण्ठः
शुश्राव नोक्तमपि शून्यमनाः स किञ्चित् ।
सस्मार न स्मृतमपि क्षणमात्मकृत्यं
श्रुत्वाहमित्युपगतोऽ पि न संविवेद ॥२.१३२॥
(अभिनन्दस्य रामचरिते १९.६१)

अत्र सीताविरहजनितं रावणस्य जाड्यं पुनःप्रश्नश्रुत्यादिभिरवगम्यते ।

अथ (१८) व्रीडा
अकार्यकरणावज्ञास्तुतिनूतनसङ्गमैः ।
प्रतीकाराक्रियाद्यैश्च व्रीडत्वनतिधृष्टता ॥२.१३३॥ ६६
तत्र चेष्टा निगूढोक्तिराधोमुख्यविचिन्तने ।
अनिर्गमो बहिः क्वापि दूरादेवावगुण्ठनम् । ६७
नखानां कृन्तनं भूमिलेखनं चैवमादयः ॥२.१३४॥

अकार्यकरणाद्, यथा
गुर्वादेशादेव निर्मीयमाणो
नाधर्माय स्त्रीवधोऽ पि स्थितोऽ यम् ।
अद्य स्थित्वा श्वो गमिष्यद्भिरल्पैर्
लज्जास्माभिर्मीलिताक्षैर्जितैव ॥२.१३५॥ (अ.रा. २.५९)

अवज्ञया, यथा
अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम् ।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥२.१३६॥
(किरातार्जुनीय ११.५८)

स्तुत्या, यथा
तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः ॥२.१३७॥ (र.वं. १५.२७)

नवसङ्गमेन, यथा
पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥२.१३८॥ (अमरु. ३७)

प्रतीकाराकरणाद्, यथा
उद्वृत्तारिकृताभिमन्युनिधनप्रोद्भूततीव्रक्रुधः
पार्थस्याकृतशात्रवप्रतिकृतेरन्तः शुचा मुह्यतः ।
कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो
हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद्बहिः ॥२.१३९॥
(नारायणस्येति शार्ङ्गधरपद्धतिः)

अथ (१९) अवहित्था
अवहित्थाकारगुप्तिर्जैह्म्यप्राभवनीतिभिः । ६८
लज्जासाध्वसदाक्षिण्यप्रागल्भ्यापजयादिभिः ॥२.१४०॥
अन्यथाकथनं मिथ्याधैर्यमन्यत्र वीक्षणम् । ६९
कथाभङ्गादयोऽ प्यस्यामनुभावा भवन्त्यमी ॥२.१४१॥

जैह्म्याद्, यथा
लिङ्गैर्मुदः संवृतविक्रियास्ते
ह्रदाः प्रसन्ना इव गूढनक्राः ।
वैदर्भमामन्त्र्य ययुस्तदीयां
प्रत्यर्प्य पूजामुपदाच्छलेन ॥२.१४२॥ (र.वं ७.३०)

प्राभवाद्, यथा
अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः ।
पुटपाकप्रतीकाशो रामस्य करुणो रसः ॥२.१४३॥ (उ.रा.च. ३.१)

नीत्या, यथा
बहिः सर्वाकारप्रवणरमणीयं व्यवहरन्
पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति ।
जनं विद्वानेकः सकलमतिसन्धाय कपटैस्
तटस्थः स्वानर्थान् घटयति च मौनं च भजते ॥२.१४४॥
(मालतीमाधवे १.१७)

लज्जया, यथा
चिक्षेप्लक्ष्मीर्निटिलान्नखाग्रैः
प्रस्वेदवार्यातपमाक्षिपन्ती ।
जुगोप देवोऽ पि स रोमहर्षं
जडाब्धिवाताहतिकैतवेन ॥२.१४५॥ (कन्दर्पसम्भव)

साध्वसेन, यथा
श्रुत्वा दुःश्रवमद्भुतं च मिथिलावृत्तान्तमन्तःपतच्
चिन्तापह्नवसावहित्थवदनत्वग्विप्रकीर्णस्मितः ।
हेलाकृष्टसुरावरोधरमणीसीमन्तसन्तानक
स्रग्वासोज्ज्वलपाणिरप्यवति मां वत्सो न लङ्केश्वरः ॥२.१४६॥ (अ.रा. ४.८)

दाक्षिण्याद्, यथा
त्वय्यर्धासनभाजि किं नरगणोद्गीतैर्भवद्विक्रमैर्
अन्तःसम्भृतमत्सरोऽ पि भगवानाकारगुप्तौ कृती ।
उन्मीलद्भवदीयदक्षिणभुजारोमाञ्चविद्धोच्चरद्
बाष्पैरेव विलोचनैरभिनयत्यानन्दमाखण्डलः ॥२.१४७॥ (अ.रा. १.२९)

प्रागल्भ्येन, यथा
एकत्रासनसङ्गतिः परिहृता प्रत्युद्गमाद्दूरतस्
ताम्बूलानयनच्छलेन रभसाश्लेषोऽ पि संविघ्नितः ।
आलापोऽ पि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥२.१४८॥ (अमरु. १८)

अथ (२०) स्मृतिः
स्वास्थ्यचिन्तादृढाभ्याससदृशालोकनादिभिः । ७०
स्मृतिः पूर्वानुभूतार्थप्रतीतिस्तत्र विक्रियाः ।
कम्पनोद्वहने मूर्ध्नो भ्रूविक्षेपादयोऽ पि च ॥२.१४९॥ ७१

स्वास्थ्येन, यथा
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्
पर्युत्सुको भवति यत्सुखितोऽ पि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि ॥२.१५०॥ (शक्. ५.२)

चिन्तया, यथा
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च
प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च ।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्
चिन्तासन्ततितन्तुजालनिविडस्यूतेव लग्ना प्रिया ॥२.१५१॥ (मा.मा. ५.१०)

दृढाभ्यासेन, यथा
तद्वक्त्रं नयने च ते स्मितसुधामुग्धं च तद्वाचिकं
सा वेणी स भुजक्रमोऽ तिसरलो लीलालसा सा गतिः ।
तन्वी सेति च सेति सेति सततं तद्ध्यानबद्धात्मनो
निद्रा नो न रतिर्न चापि विरतिः शून्यं मनो वर्तते ॥२.१५२॥ (रसकलिका, ३२)[*१२]
[*१२] थिस्वेर्से अप्पेअरेद्प्रेविओउस्ल्यfतेर्कारिका २.५६ .


सदृशालोकनेन, यथा
आरक्तराजिभिरियं कुसुमैर्नवकन्दली सलिलगर्भैः ।
कोपादन्तर्बाष्पे स्मरयति मां लोचने तस्याः ॥२.१५३॥ [विक्रमोर्वशीय ४.१५]

अथ (२१) वितर्कः
ऊहो वितर्कः सन्देहविमर्षप्रत्ययादिभिः ।
जनितो निर्णयान्तः स्यादसत्यः सत्य एव वा । ७२
तत्रानुभावाः स्युरमी भ्रूशिरः क्सेपणादयः ॥२.१५४॥

सन्देहप्रत्ययनाद्, यथा
अङ्कं केऽ पि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे
सारङ्गं कतिचिच्च संजगदिरे भूमेश्च बिम्बं परे ।
इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते
तन्मन्ये रविभीतमन्धतमसं कुक्षिस्थमालक्ष्यते ॥२.१५५॥

विमर्शो विचारः । तेन, यथा
गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं
श्वसितमधिकं किं न्वेतत्स्यात्किमन्यदतोऽ थ वा ।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं
ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥२.१५६॥

अत्र माधवगतां चिन्तामुपलभ्य किमत्र कारणमिति विमृशता मकरन्देन मन्मथनिबन्धन एवायं भाव इति सत्यनिर्णयान्तो वितर्कः ।

अथ (२२) चिन्ता
इष्टवस्त्वपरिप्राप्तेरैश्वर्यभ्रंशनादिभिः । ७३
चिन्ता ध्यानात्मिका तस्यामनुभावा भवन्त्यमी ।
कार्श्याधोमुख्यसन्तापनिःश्वासोच्छ्र्वसनादयः ॥२.१५७॥ ७४

इष्टवस्त्वलाभेन, यथा
ईसिबलिआबणआ से कूणितपक्खंततारअ त्थिमिआ ।
दिट्ठी कपोलपाली णिहिआ करपल्लवे मनो सुण्णम् ॥२.१५८॥

[ईषद्वलितावनताऽस्याः कूणितपक्ष्मन्ततारका स्तिमिता ।
दृष्टिः कपोलपाली निहिता करपल्लवे मनः शून्यम् ॥]

ऐश्वर्यनाशेन, यथा
यमोऽ पि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।
कुरुतेऽ स्मिन्नमोघेऽ पि निर्वाणालातलाघवम् ॥२.१५९॥ [कु.सं. २.२७]

अथ (२३) मतिः
नानाशास्त्रारथमथनादर्थनिर्धारणं मतिः ।
तत्र चेष्टास्तु कर्तव्यकरणं संशयछिदा । ७५
शिष्योपदेशभ्रूक्षेपावूहापोहादयोऽ पि च ॥२.१६०॥

यथा
दशरथकुले सम्भूतं मामवाप्य धनुर्धरं
दिनकरकुलास्कन्दी कोऽ यं कलङ्कनवाङ्कुरः ।
इति न वनितामेतां हन्तुं मनो विचिकित्सते
यदधिकरणं धर्मस्थीयं तवैव वचांसि नः ॥२.१६१॥ (अ.रा. २.६२)

अथ (२४) धृतिः
ज्ञानविज्ञानगुर्वादिभक्तिनानार्थसिद्धिभिः । ७६
लज्जादिभिश्च चित्तस्य नैस्पृह्यं धृतिरुच्यते ॥२.१६२॥
अत्रानुभावा विज्ञेयाः प्राप्तार्थानुभवस्तथा । ७७
अप्राप्तातीतनष्टार्थानभिसङ्क्षोभणादयः ॥२.१६३॥

ज्ञानात्, यथा
अश्नीमहि वयं भिक्षामाशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥२.१६४॥ (वै.श. ५५)

विज्ञानाद्, यथा
अस्त्यद्यापि चतुःसमुद्रपरिखापर्यन्तमुर्वीतलं
वर्तन्तेऽ पि च तत्र तत्र रसिका गोष्ठीषु सक्ता नृपाः ।
एकस्तत्र निरादरो भवति चेदन्यो भवेत्सादरो
वाग्देवी वदनाम्बुजे वसति चेत्को नाम दीनो जनः ॥२.१६५॥

गुरुभक्त्या, यथा
तिष्ठन् भाति पितुः पुरो भुवि यथा सिंहासने किं तथा
यत्संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः ।
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरोर्
आयासः खलु राज्यमुज्झितगुरोस्तत्रास्ति कश्चिद्गुणः ॥२.१६६॥
(नागानन्द १.७)

नानार्थसिद्ध्या, यथा
क्रोधान्धैः सकलं हतं रिपुकुलं पञ्चाक्षतास्ते वयं
पाञ्चाल्या मम दुर्नयोपजनितस्तीर्णो निकारार्णवः ।
त्वं देवः पुरुषोत्तमः सुकृतिनं मामादृतो भाषसे
किं नामान्यदतः परं भगवतो याचे प्रसन्नादहम् ॥२.१६७॥
(वेणीसंहारः ६.४५)

अथ (२५) हर्षः
मनोरथस्य लाभेन सिद्ध्या योग्यस्य वस्तुनः । ७८
मित्रसङ्गमदेवादिप्रसादादेश्च कल्पितः ॥२.१६८॥
मनःप्रसादो हर्षः स्यादत्र नेत्रास्यफुल्लता । ७९
प्रियाभाषणमाश्लेषः पुलकानां प्ररोहणम् ।
स्वेदोद्गमश्च हस्तेन हस्तसम्पीडनादयः ॥२.१६९॥ ८०

मनोरथस्य लाभेन, यथा
निवातपद्मस्तिमितेन चक्षुषा
नृपस्य कान्तं पिबतः सुताननम् ।
महोदधेः पूर इवेन्दुदर्शनाद्
गुरुः प्रहर्षः प्रबभूव नात्मनि ॥२.१७०॥ (र.वं. ३.१७)

योग्यवस्तुसिद्ध्या, यथा
स रागवानरुणतलेन पाणिना
पुलोमजापदतलयावकैरिव ।
हरिं हरिः स्तनितगभीरहेषितं
मुखे निरामिषकठिने ममार्ज तम् ॥२.१७१॥

अत्र उच्चैःश्रवसो लाभेन देवेन्द्रस्य हर्षः ।

मित्रसङ्गमाद्, यथा
इभकुम्भतुङ्गकठिनेतरेतर स्तनभारदूरविनिवारितोदराः ।
परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥२.१७२॥ (माघे १३.१६)

मित्रसङ्गमः पूज्यादिसङ्गमादीनामप्युपलक्षणम् ।

पूज्यसङ्गमेन, यथा
युगान्तकालप्रतिसंहृतात्मनो
जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कटभद्विषस्
तपधनाभ्यागमसम्भवा मुदः ॥२.१७३॥ (शि.व. १.२३)

देवप्रसादाद्, यथा
तस्याः प्रसन्नेन्दुमुखः प्रसादं
गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायै
शशंस वाचा पुनरुक्तयेव ॥२.१७४॥ (र.वं. २.६८)

आदिशब्दाद्गुरुराजप्रसादादयः । गुरुप्रसादाद्, यथा
अस्मद्गोत्रमहत्तरः क्रतुभुजामद्यायमाद्यो रविर्
यज्वानो वयमद्य ते भगवती भूरद्य राजन्वती ।
अद्य स्वं बहु मन्यते सहचरैरस्माभिराखण्डलो
येनैतावदरुन्धतीपतिरपि स्वेनानुगृह्णाति नः ॥२.१७५॥ (अ.रा. १.१८)

राजप्रसादाद्, यथा
प्रीतिरस्य ददतोऽ भवत्तथा
येन तत्प्रियचिकीर्षवो नृपाः ।
स्पर्शितैरधिकमागमन्मुदं
नाधिवेश्मनिहितैरुपायनैः ॥२.१७६॥ (शि.व. १४.४७)

अथ (२६) औत्सुक्यम्
कालाक्षमत्वमौत्सुक्यमिष्टवस्तुवियोगतः ।
तद्दर्शनाद्रम्यवस्तुदिदृक्षादेश्च तत्क्रियाः ॥२.१७७॥ ८१
त्वरानवस्थितिः शय्यास्थितिरुत्तानचिन्तने ।
शरीरगौरवं निद्रातन्द्रानिःश्वसितादयः ॥२.१७८॥ ८२

तत्र इष्टवस्तुवियोगात्
संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा
सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥२.१७९॥ [मे.दू. २.४८]

तत्र इष्टवस्तुदर्शनात्
आयाते दयिते मनोरथशतैर्नीत्वा कथञ्चिद्दिनं गत्वा वासगृहं जडे परिजने दीर्घां कथां कुर्वति ।
दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥१७९॥ [अमरु ७७]

रम्यदिदृक्षया, यथा
कृतावशेषेण सविभ्रमेण
निष्कीलितेनाध्वनि पूरितेन ।
प्रसाधनेनाच्युतदर्शनाय
पुरस्त्रियः शिश्रियिरे गवाक्षान् ॥२.१८०॥

अथ (२७) औग्र्यम्
अपराधावमानाभ्यां चौर्याआभिग्रहणादिभिः ।
असत्प्रलापनाद्यैश्च कृतं चण्डत्वमुग्रता ॥२.१८१॥ ८३
क्रियास्तत्रास्यनयनरागो बन्धनताडने ।
शिरसः कम्पनं खेदवधनिर्भर्त्सनादयः ॥२.१८२॥ ८४

अपराधाद्, यथा
प्रणयिसखीसलीलपरिहासरसाधिगतैर्
ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः
पततु शरस्यकाण्डयमदण्डं इवैष भुजः ॥२.१८३॥ (मा.मा. ५.३१)

अत्र मालतीनिकाररूपापराधाद्माधवस्यौग्र्यम् ।

अवमानाड्, यथा
अज्ञातपूर्वा द्विषतामवज्ञां
विज्ञापयन्तं प्रतिरुष्टचेताः ।
आज्ञाहरं प्राज्ञविनिन्द्यकर्मा
यज्ञाशिवैरी गदया जघान ॥२.१८४॥

चौर्याभिग्रहणाद्, यथा
भुजविटपमदेन व्यर्थमन्धम्भविष्णुर्
धिगपसरसि चौरंकारमाक्रुश्यमानः ।
त्वदुरसि विदधातु स्वामवस्कारकेलिं
कुटिलकरजकोटिक्रूरकर्मा जटायुः ॥२.१८५॥ (अ.रा. ५.११)

असत्प्रलापाद्, यथा
कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाद्य ।
तव भुजबलदर्पाध्यायमानस्य वामः शिरसि चरण एष न्यस्यते वारयैनम् ॥२.१८६॥ (वेणीसंहार ३.४०)

अथ (२८) अमर्षः
अधिक्षेपावमानाद्यैः क्रोधोऽ मर्ष इतीर्यते ।
तत्र स्वेदशिरःकम्पावाधोमुख्यविचिन्तने । ८५
उपायान्वेषणोत्साहव्यवसादयः क्रियाः ॥२.१८७॥

तत्र अधिक्षेपाद्, यथा
इति भीष्मभाषितवचोऽ र्थम्
अधिगतवतामिव क्षणात् ।
क्षोभमगमदतिमात्रम्
अथो शिशुपालपक्षपृथिवीभृतां गणः ॥२.१८८॥ (शि.व. १५.४७)

अवमानाद्, यथा
ध्वंसेन हृदयं सद्यः परिभूतस्य मे परैः ।
यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥२.१८९॥ (कि.अ. ११.५७)

अथ (२९) असूया
परसौभाग्यसम्पत्तिविद्याशौर्यादिहेतुभिः । ८६
गुणेऽ पि दोषारोपः स्यादसूया तत्र विक्रियाः ।
मुखापवर्तनं गर्हा भ्रूभेदानादरादयः ॥२.१९०॥ ८७

परसौभाग्येन, यथा
मा गर्वमुद्वह कपोलतले चकास्ति
कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशीनां
वैरी न चेद्भवति वेपथुरन्तरायः ॥२.१९१॥
(केशटस्येति सुभाषितरत्नकोशे)

परसम्पत्त्या, यथा
लोकोपकारिणी लक्ष्मीः सतां विमलचेतसाम् ।
तथापि तां विलोक्यैव दूयन्ते दुष्टचेतसः ॥२.१९२॥

परविद्यया, यथा
प्रत्यक्षादिप्रभासिद्धविरुद्धार्थाभिधायिनः ।
वेदान्ता यदि शास्त्राणि बौद्धैः किमपराद्ध्यते ॥२.१९३॥ (प्र.च. २.४)

यथा वा
गुणाधारे गौरे यशसि परिपूर्णे विलसति
प्रतापे चामित्रान् दहति तव सिंहक्षितिपते ।
नवैव द्रवाणीत्यकथयदहो मूढतमधीश्
चतुर्धा तेजोऽ पि व्यभजत कणादो मुनिरपि ॥२.१९४॥

अत्र प्रौढकविसमयप्रसिद्धमार्गानुसारिणो वक्तुः परिमितद्रव्यवादिनि कणादे महत्यसूया मूढतमधीरिति वागारम्भेण व्यज्यते ।

परशौर्येण, यथा
स्त्रीमात्रं ननु ताटका भृगुसुतो रामस्तु विप्रः शुचिर्
मारीचो मृग एव भीतिभवनं वाली पुनर्वानरः ।
भोः काकुत्स्थ विकत्थसे किमथ वा वीरो जितः कस्त्वया
दोर्दर्पस्तु तथापि ते यदि समं कोदण्डमारोपय ॥२.१९५॥
(हनुमन्नाटक १४.२१)

अथ (३०) चापल्यम्
रागद्वेषादिभिश्चित्तलाघवं चापलं भवेत् ।
चेष्टास्तत्राविचारेण परिरम्भावलम्बने । ८८
निष्कासनोक्तिपारुष्ये ताडनाज्ञापनादयः ॥२.१९६॥

रागेण, यथा
विजनमिति बलादमुं गृहीत्वा
क्षणमथ वीक्ष्य विपक्षमन्तिकेऽ न्या ।
अभिपतितुमना लघुत्वभीतेर्
अभवदमुञ्चति वल्लभेऽ तिगुर्वी ॥२.१९७॥ (शि.व., ७.५७)

द्वेषेण, यथा
पादाघातैः सुरभिरभितः सत्वरं ताडनीयो
गाढामोदं मलयमरुतः शृङ्खलादाम दत्त ।
कारागारे क्षिपत तरसा पञ्चमं रागराजं
चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टबिम्बम् ॥२.१९८॥ (बालरामायण ५.४९)

अत्र सीताविरहेण रावणस्य वसन्तादिविषयद्वेषेण तत्तदधिदेवतानां ताडनाज्ञापनादिभिरनुभावैश्चापल्यं द्योत्यते ।

अथ (३१) निद्रा
मदस्वभावव्यायामनिश्चिन्तत्वश्रमादिभिः । ८९
मनोनिमीलनं निद्रा चेष्टास्तत्रास्यगौरवम् ॥२.१९९॥
आघूर्णमाननेत्रत्वमङ्गानां परिमर्दनम् । ९०
निःश्वासोच्छ्वासने सन्नगात्रत्वं नेत्रमीलनम् ।
शरीरस्य च सङ्कोचो जाड्यं चेत्येवमादयः ॥२.२००॥ ९१

मदाद्, यथा
यस्मिन्महीं शंसति वाणिनीनां
निद्रां विहारार्धपथे गतानाम् ।
वातोऽ पि नास्रंसयदंशुकानि
को लम्बयेदाहरणाय हस्तम् ॥२.२०१॥ (र.वं. ६.७५)

स्वभावाद्, यथा
उत्तानामुपधाय बाहुलतिकामेकामपाङ्गाश्रयाम्
अन्यामप्यलसां निधाय विपुलाभोगे नितम्बस्थले ।
नीवीं किञ्चिदिव श्लथां विदधती निःश्वासमुन्मुञ्चती
तल्पोत्पीडनतिर्यगुन्नतकुचा निद्राति शातोदरी ॥२.२०२॥

व्यायामाद्, यथा
अलसलुलितमुग्धान्यध्वसञ्जातखेदाद्
अशिथिलपरिरम्भैर्दत्तसंवाहनानि ।
परिमृदितमृणालीदुर्बलान्यङ्गकानि
त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥२.२०३॥ (उ.रा.च. १.२४)

नैश्चिन्त्याद्, यथा
दत्तेन्द्राभयविभ्रमाद्भुतभुजासम्भारगम्भीरया
त्वद्वृत्त्या शिथिलीकृतस्त्रिभुवनत्राणाय नारायणः ।
अन्तस्तोषतुषारसौरभमयश्वासानिलापूरण
प्राणोत्तुङ्गभुजङ्गतल्पमधुना भद्रेण निद्रायते ॥२.२०४॥ (अ.रा. १.२७)

श्रमाद्, यथा
केवलं प्रियतमादयालुना
ज्योतिषामवनतासु पङ्क्तिषु ।
तेन तत्परिगृहीतवक्षसा
नेत्रमीलनकुतूहलं कृतम् ॥२.२०५॥ (कु.सं. ८.८४)

अथ (३२) सुप्तिः
उद्रेक एव निद्रायाः सुप्तिः स्यात्तत्र विक्रियाः ।
इन्द्रियोपरतिर्नेत्रमीलनं स्रस्तगात्रता । ९२
उत्स्वप्नायितनैश्चल्यश्वासोच्छ्वासादयोऽ पि च ॥२.२०६॥

यथा
अव्यासुरन्तःकरुणारसार्द्रा
निसर्गनिर्यन्निगमान्तगन्धा ।
श्वासानिलास्त्वां स्वपतो मुरारेः
शय्याभुजङ्गेन्द्रनिपीतशेषाः ॥२.२०७॥

अथ (३३) बोधः
स्वप्नस्पर्शननिध्वाननिद्रासम्पूर्णतादिभिः । ९३
प्रबोधश्चेतनावाप्तिश्चेष्टास्तत्राक्षिमर्दनम् ॥२.२०८॥
शय्याया मोक्षणं बाहुविक्षेपोऽ ङ्गुलिमोटनम् । ९४
शिरःकण्डूयनं चाङ्गवलनं चैवमादयः ॥२.२०९॥

स्वप्नाद्, यथा
त्रिभागशेषासु निशासु च क्षणं
निमील्य नेत्रे सहसा व्यबुध्यत ।
क्व नीलकण्ठ व्रजसीत्यलक्ष्यवाग्
असत्यकण्ठार्पितबाहुबन्धना ॥२.२१०॥ (कु.सं. ५.५७)

स्पर्शनाद्, यथा
आघ्राय चाननमधिस्तनमायताक्ष्याः
सुप्तं तदा त्वरितकेलिभुवा श्रमेण ।
प्राभातिकः पवन एष सरोजगन्धी
प्राबोधयन्मणिगवाक्षसमागतो माम् ॥२.२११॥

शब्दाद्, यथा
उषसि स गजयूथकर्णतालैः
पटुपटहध्व्नैभिर्विनीतनिद्रः ।
अरमत मधुराणि तत्र शृण्वन्
विहगविकूजितवन्दिमङ्गलानि ॥२.२१२॥ (र.वं. ९.७१)

निद्रासम्पूर्त्या, यथा
ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः ।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥२.२१३॥ (र.वं. १०.६)

उत्तमाधममध्येषु सात्त्विका व्यभिचारिणः । ९५
विभावैरनुभावैश्च वर्णनीया यथोचितम् ॥२.२१४॥ [*१३]
उद्वेगस्नेहदम्भेर्ष्याप्रमुखाश्चित्तवृत्तयः । ९६
उक्तेष्वन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः ॥२.२१५॥
[*१३] एद्. अद्द्सनुक्तचित्तवृत्तीनामुक्तान्तर्भावः ।


तथा हिपरप्रतारणरूपदम्भस्य जिह्मतावहित्थायामन्तर्भावः । चित्तद्रवतालक्षणस्य स्नेहस्य हर्षेऽ न्तर्भावः । स्वविषयदानमानाद्यमर्षणरूपाया ईर्ष्याया अमर्षेऽ न्तर्भावः । परविषयायास्त्वसूयायाम् । उद्वेगस्य तु निर्वेदविषादादिषु यथोचितमन्तर्भाव इत्यादि द्रष्टव्यम् । तथा च भावप्रकाशिकाकारः
अन्येऽ पि यदि भावाः स्युश्चित्तवृत्तिविशेषतः ।
अन्तर्भावस्तु सर्वेषां द्रष्टव्यो व्यभिचारिषु ॥२.२१६॥ इति ।

विभावाश्चानुभावाश्च ते भवन्ति परस्परम् । ९७
कार्यकारणभावस्तु ज्ञेयः प्रायेण लोकतः ॥२.२१७॥

तथा हिसन्तापस्य दैन्यं प्रति विभावत्वं ग्लानिं प्रत्यनुभावत्वं च । प्रहारस्य प्रलयमोहौ प्रति विभावत्वमौग्र्यं प्रत्यनुभावत्वं च । विषादस्य उत्पातावेगं प्रत्यनुभावत्ं स्तम्भं प्रति विभावत्वम् । व्याधेर्ग्लानिस्तम्भप्रलयादीन् प्रति विभावत्वम् ।

स्वातन्त्र्यात्पारतन्त्र्याच्च ते द्विधा व्यभिचारिणः । ९८
परपोषकतां प्राप्ताः परतन्त्रा इतीरिताः ।
तदभावे स्वतन्त्राः स्युर्भावा इति च ते स्मृताः ॥२.२१८॥ ९९

तत्र पारतन्त्र्येण निर्वेदो, यथा
कुर्युः शस्त्रकथाममी यदि मनोर्वंशे मनुष्याङ्कुराः
स्याच्चेद्ब्रह्मगणोऽ यमाकृतिगणस्तत्रेष्यते चेद्भवान् ।
सम्राजां समिधां च साधकतमं धत्ते छिदाकारणं
धिङ्मौर्वीकुशकर्षणोल्बणकिणग्रन्थिर्ममायं करः ॥२.२१९॥ (अ.रा. ४.४४)

इत्यत्र निर्वेदस्य क्रोधाङ्गत्वम् ।

निर्वेदस्य स्वतन्त्रत्वं, यथा
प्राप्ताः श्रियः सकलकामदुधास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्पादिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितास्तनुभृतां तनवस्ततः किम् ॥२.२२०॥ [वै.श. ६७]

इत्यादि । अत्र निर्वेदस्यानन्याङ्गत्वात्स्वतन्त्रत्वम् ।

ननु निर्वेदस्य शान्तरसस्थायित्वं कैश्चिदुक्तम् । तत्कथमस्य अन्यरसोपकरणत्वमिति चेद्, उच्यते । सति खलु ग्रामे सीमासम्भावना । स्थायित्वं नाम संस्कारपाटवेन भावस्य (वासनारूपेण स्थितस्य कारणवशादुद्बोधितस्य) मुहुर्मुहुर्नवीभावः । तेन निर्वेदवासनावासितं भावकचेतसि नैष्फल्याभिमतेषु विभावादिषु (भावकानां प्रथमं प्रवृत्तेरेवासम्भवात्) तत्सामग्रीफलभूतस्य निर्वेदस्योत्पत्तिरेव न सङ्गच्छते । किं पुनः स्थायित्वम् । किं च असति निर्वेदस्थायिनि शान्तरूपो भावकानामास्वादश्चित्रगतकदलीफलरसास्वादलम्पटानां राजशुकानां विवेकसहोदरो भवेदिति कृतं संरम्भेण ।

विषादस्य परतन्त्रत्वं, यथा
वारं वारं तिरयति दृ॑चामुद्गतो बाष्पपूरस्
तत्सङ्कल्पोपहितजडिमस्तम्भमभ्येति गात्रम् ।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः
पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥२.२२१॥ (मा.मा. १.३८)

अत्र विषादस्य शृङ्गाराङ्गत्वम् । स्वतन्त्रत्वं, यथा

सञ्चारिणी दीपशिखेव रात्रौ
यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे
विवर्णभावं स स भूमिपालः ॥२.२२२॥ (र.वं. ६.६७)

इत्यत्र विषादस्यानन्याङ्गत्वम् । एवमन्येषामपि स्वतन्त्रत्वपरतन्त्रत्वे तत्र तत्रोहनीये ।

आभासता भवेदेषामनौचित्यप्रवर्तिताम् ।
असत्यत्वादयोग्यत्वादनौचित्यं द्विधा भवेत् । १००
असत्यत्वकृतं तत्स्यादचेतनगतं तु यत् ॥२.२२३॥

यथा
कस्त्वं भोः, कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि, साधु विदितं, कस्मादिदं, कथ्यते ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ॥२.२२४॥

अत्र वृक्षविशेषत्वादचेतने शाखोटके चित्तविकारस्यासम्भवानुचितो निर्वेदोऽ यमाभासत्वमापद्यते ।

अयोग्यत्वकृतं प्रोक्तं नीचतिर्यङ्नराश्रयम् ॥२.२२५॥ १०१

तत्र नीचतिर्यग्गतं, यथा
वेलातटे प्रसूयेथा मा भूः शङ्कितमानसा ।
मां जानाति समुद्रोऽ यं टिट्टिभं साहसप्रियम् ॥२.२२६॥

अत्र यदि समुद्रवेलायां प्रसूये तर्हि उद्वेलकल्लोलमालाभिर्ममापत्यानि हृतानि भवेयुरिति शङ्कितायां निजगृहिण्यां कश्चित्टिट्टिभः पक्षिविशेषो गर्वायते । तदयं गर्वो नीचतिर्यग्गतत्वादाभासो नातीव स्वदते ।

नीचनराश्रयो, यथा
अत्युत्तानशयालुना करयुगप्राप्तोपधानश्रिया
गन्धूरस्य तरोस्तले घुटपुटध्वानानुसन्धायिभिः ।
दीर्घैः श्वासभरैः सफूत्कृतिशतैरास्फोटितोष्ठद्वयं
तत्पूर्वं कृषिकर्मणि श्रमवता क्षुद्रेण निद्रायते ॥२.२२७॥

उत्पत्तिसन्धिशावल्यशान्तयो व्यभिचारिणाम् ।
दशाश्चतस्रस्तत्र उत्पत्तिर्भावसम्भवः ॥२.२२८॥ १०२

यथा
एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ॥२.२२९॥ (कु.सं. ६.८४)

अत्र लज्जायाः हर्षस्य वा समुत्पत्तिः ।

सरूपमसरूपं वा भिन्नकारणकल्पितम् ।
भावद्वयं मिलति चेत्स सन्धिरिति गीयते ॥२.२३०॥ १०३

स्वरूपयोः सन्धिर्, यथा
अरिव्रजानामनपोतसिंह
खड्गप्रहारैरवनि गतानाम् ।
प्रियाजनाङ्कप्रहिताङ्गकानां
भवन्ति नेत्रान्तनिमीलनानि ॥२.२३१॥

अत्र नायकखड्गप्रहारप्रियाजनाङ्गस्पर्शाभ्यां कल्पितयोः प्रतिनायकेषु मोहयोः सन्धिर्नेत्रान्तनिमीलनेन व्यज्यते ।

असरूपयोः सन्धिर्, यथा
श्रीसिंहभूपप्रतिनायकानां
स्विद्यन्ति गात्रान्यतिवेपितानि ।
तत्तूर्यसंवादिषु गर्जितेषु
प्रियाभिरालम्बितकन्धराणाम् ॥२.२३२॥

अत्र गर्जितेषु नायकसंनाहनिःसाणशङ्कयाङ्कुरितस्य प्रतिनायकानां त्रासस्य प्रियालिङ्गनतरङ्गितस्य च हर्षस्य स्वेदवेपथुसादृश्यकल्पितसंश्लेषः सन्धिः ।

अत्यारूढस्य भावस्य विलयः शान्तिरुच्यते ॥२.२३३॥ १०४ ब्

यथा
शुद्धान्तस्य निवारितोऽ प्यनुनयैर्निःशङ्कमङ्कूरितो
वृद्धामात्यहितोपदेशवचनै रुद्धोऽ पि वृद्धिं गतः ।
मानोद्रेकतरुः प्रतिक्षितिभुजामामूलमुन्मूल्यते
वाहिन्यामनपोतसिंहनृपतेरालोकितायामपि ॥२.२३४॥

अत्र हितोपदेशानादराधिरूढस्य प्रतिनायकगतस्य गर्वस्य शान्तिरामूलमुन्मूल्यत इति वागारम्भेण व्यज्यते ।

शवलत्वं तु भावानां संमर्दः स्यात्परस्परम् ॥२.२३५॥ १०४

यथा
को वा जेष्यति सोमवंशतिलकानस्मान् रणप्राङ्गणे
हन्तास्मासु पराङ्मुखो हतविधिः किं दुर्गमध्यास्महे ।
अस्मत्पूर्वनृपानसौ निहतवान् दीर्घान् धिगस्मद्भुजान्
किं वाक्यैरनपोतसिंहनृपतेः सेवैव कृत्यं परम् ॥२.२३६॥

अत्र गर्वविषादासूयाचिन्तास्मृत्यमर्षनिर्वेदमतीनां संमर्दो भावशावल्यमित्युच्यते ।

दिगन्तरालसञ्चारकीर्तिना सिंहभूभुजा ।
एवं सञ्चारिणः सर्वे सप्रपञ्चं निरूपिताः ॥२.२३७॥ १०५

इति सञ्चारिभावाः ।
अथ स्थायिनः

सजातीयैर्विजातीयैर्भावैर्ये त्वतिरस्कृताः ।
क्ष्राब्धिवन्नयन्त्यन्यान् स्वात्मत्वं स्थायिनो हि ते ॥२.२३८॥ १०६
भरतेन च ते कथिता रतिहासोत्साहविस्मयक्रोधाः ।
शोकोऽ थ जुगुप्सा भयमित्यष्टौ लक्ष्म वक्ष्यते तेषाम् ॥२.२३९॥ १०७

तत्र रतिः
यूनोरन्योन्यविषया स्थायिनीच्छा रतिर्भवेत् ।
निसर्गेणाभियोगेन संसर्गेणाभिमानतः ॥२.२४०॥ १०८
उपमाध्यात्मविषयैरेषा स्यात्तत्र विक्रियाः ।
कटाक्षपातभ्रूक्षेपप्रियवागादयो मताः ॥२.२४१॥ १०९

तत्र निसर्गेण रतिर्, यथा

अलं विवादेन यथा श्रुतस्त्वया
तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं
न कामवृत्तिर्वचनीयमीक्षते ॥२.२४२॥ (कु.सं. ५.८२)

अत्र रूपादिदृष्टकारणनिरपेक्षा पार्वत्याः रतिर्जन्मान्तरवासनारूपा निसर्गादेव भवति । अभियोगोऽ भिनिवेशः । तदेकपरत्वमिति यावत् ।

तेन, यथा
तन्मे मनः क्षिपति यत्सरसप्रहारम्
आलोक्य मामगणितस्खलदुत्तरीया ।
त्रस्तैकहायनकुरङ्गविलोलदृष्टिः
साश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥२.२४३॥ (मा.मा. ४.८)

अत्रोत्तरीयस्खलनादिसूचितेन मदयन्तिकाप्रेमाभियोगेन मकरन्दस्य तत्र रतिरुत्पद्यते ।

संसर्गेण, यथा
उत्पत्तिर्देवयजनाद्ब्रह्मवादी नृपः पिता ।
सुप्रसन्नोज्ज्वला मूर्तिरस्यां स्नेहं करोति मे ॥२.२४४॥ (म.वी.च. १.२१)

अत्र देवयजनजनकादिसम्बन्धगौरवेण सीतायां रामस्य रतिः ।

अथ अभिमाणः । इदमेव मम प्रियं नान्यदित्यभिप्रायोऽ भिमानः । तेन, यथा
जगति जयिनस्ते ते भावा नवेन्दुकलादयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं याता लोके विलोचनचन्द्रिका
नयनविषयं जन्मन्येकः स एव महोत्सवः ॥२.२४५॥ (मा.मा. १.३९)

अत्र माधवस्य विल्चनचन्द्रिकानयनमहोत्सवाद्यभिमानेन इतररमणीयवस्तुनैःस्पृह्येण च मालत्यां रतिः ।

उपमया, यथा
अपि तुरगसमीपादुत्पतन्तं मयूरं
न स रुचिरकलापं बाणलक्ष्यीचकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे प्रियायाः ॥२.२४६॥ (र.वं. ९.६७)

अत्र मृगयान्तरितापि दशरथस्य प्रियाविषया रतिस्तदीयकेशकलापसदृशकेकिकलापदर्शनेनोत्पद्यते ।

अध्यात्मं स्वात्मप्रामाण्यमात्रम् । तेन, यथा
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयान् ।
बलवत्तु दूयमानं प्रत्याययतीव मे हृदयम् ॥२.२४७॥ (शकु. ५.३१)

अत्र दुष्यन्तस्य निजचित्तसन्तापप्रत्ययेन शापविस्मृतायामपि शकुन्तलायां रतिः ।

विषयाः शब्दादयः । तत्र शब्देन, यथा ममैव
सखि मे नियतिहतायास्
तद्दर्शनमस्तु वा मा वा ।
पुनरपि स वेणुनादो
यदि कर्णपथे पतेत्तदेवालम् ॥२.२४८॥

अत्र प्रागदृष्टेऽ पि कृष्णे वेणुनादेन कामवल्ल्या रतिः ।

स्पर्शेन, यथा
यदयं रथसङ्क्षोभादंसेनांसो रथाङ्गसुश्रोण्याः ।
स्पृष्टः सरोमविक्रियमङ्कुरितं मनोभवेनेव ॥२.२४९॥ (वि.उ. १.११)

रूपेण, यथा
अयं रामो नायं स तु जनकधर्मं दलितवान्
अयं कामो नायं स तु मधुमदामोदितमनाः ।
सखि ज्ञातं सोऽ यं युवतिनयनोत्पादनफलं
निदानं भाग्यानां जयति खलु सिंहक्षितिपतिः ॥२.२५०॥

अत्र रामादिस्मरणहेतुना नायकरूपातिशयेन कस्याश्चिद्रतिः ।

रसेन, यथा
हरस्तु किञ्चित्परिलुप्तधैर्यश्
चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे
व्यापारयामास विलोचनानि ॥२.२५१॥ (कु.सं. ३.६७)

अत्र यद्यपि सम्भोगात्प्रागज्ञातस्याधररसस्य रसं प्रति विभावता न सङ्गच्छते, तथापि प्रसिद्देह्ः सम्भावितस्य रसस्यैव विभावत्वं बिम्बफलाधरोष्ठ इति पदेन व्यज्यते । अथवा समास्वादितदाक्षायणीबिम्बाधरस्य परमेश्वरस्य तद्रसेनैव जननान्तरसङ्गतायामपि तस्यां रतिः ।

गन्धेन, यथा ममैव
उन्मीलन्नवमालतीपरिमलन्यक्कारबद्धव्रतैर्
आलोलैरलिमण्डलैः प्रतिपदं प्रत्याशमासेवितः ।
अङ्गानामभिजातचम्पकरुचामस्या मृगाक्ष्या स्फुरन्
नामोदोऽ यमदृष्टपूर्वमहिमा बध्नाति मे मानसम् ॥२.२५२॥

अत्र पराशरमुनिप्रसादेन लब्धेन दिव्येन सत्यवतीशरीरसौरभेण शन्तनोस्तस्यां रतिः ।

भोजस्तु सम्प्रयोगेण रतिमन्यामुदाहरत् ॥२.२५३॥ ११०

यथा
उन्नमय्य सकचग्रहमोष्ठं
चुम्बति प्रियतमे हठवृत्त्या ।
हुं हुं मुञ्च म म मेति च मन्दं
जल्पितं जयति बालवधूनाम् ॥२.२५४॥ (विज्जिकाया इदमिति सुभाषितावलिः)

वाकृतं च तेनैव । अत्र तर्जनार्थमोक्षणार्थवारणार्थाणां मन्दं मण्दं प्रयोगान्मानवत्याः सम्प्रयोगे रत्युत्पत्तिः प्रतीयत इति ।

सम्प्रयोगस्य शब्दादिष्वन्तर्भावान्न तन्मतम् ॥२.२५५॥ ११०

तथा हिउक्तोदाहरणे मानवतीजल्पितस्य शब्दरूपत्वमेव । तथा च

आअरपसारिओट्ठं अघडिअणासं अचुंबिअणिडाकम् ।
बण्णघिअलिप्पमुहिए तीए परिचुम्बणं भरिमो ॥२.२५६॥ (गाथा १.२२)

[आदरप्रसारितोष्ठमघटितनासमचुम्बितनिटिलम् ।
वर्णघृतलिप्तमुख्यास्तस्याः परिचुम्बनं स्मरामः ॥]

इत्यादिषु चुम्बनादीनामपि स्पर्शेष्वन्तर्भावः ।

[अथ रत्यवस्थाः]
अङ्कुरपल्लवकलिकाप्रस्पुनफलभोगभागियं क्रमशः ।
प्रेमा मानः प्रणयः स्नेहो रागोऽ नुरागश्च ॥२.२५७॥ १११

अथ प्रेमा
स प्रेमा भेदरहितं यूनोर्यद्भावबन्धनम् ॥२.२५८॥ ११२

यथा
रथाङ्गनाम्नोरिव भावबन्धनं
बभूव यत्प्रेम परस्पराश्रयम् ।
विभक्तमप्येकसुतेन तत्तयोः
परस्परस्योपरि पर्यचीयत ॥२.२५९॥ (रघु. ३.२४)

अत्र भेदकारणे सुतस्नेहे सत्यपि सुदक्षिणादिलीपयो रतेरपरिहाणेन भेदरहितत्वम् ।

[केषुचित्लिपिषु इदमुदाहरणमत्र दृश्यते

चिरविरहिणोरुत्कण्ठार्तिश्लथीकृतगात्रयोर्
नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः ।
कथमपि दिने दीर्घे याते निशामधिरूढयोः
प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥ (अमरु. ३९)]

अथ मानः
यत्तु प्रेमानुबन्धेन स्वातन्त्र्याद्धृदयङ्गमम् । ११२
बह्नाति भावकौटिल्यं सोऽ यं मान इतीर्यते ॥२.२६०॥

यथा
व्यपोहितुं लोचनतो मुखानिलैर्
अपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः
प्रियं जघानोन्नतपीवरस्तनी ॥२.२६१॥ (किराट ८.१९)

अत्रापराधसम्भावनायामपि प्रेमकल्पितस्वातन्त्र्येण अवज्ञारूपं चित्तकौटिल्यम् ।

[केषुचित्लिपिषु इदमुदाहरणमत्र दृश्यते

मुञ्च कोपमनिमित्तलोचने
सन्ध्यया प्रणमितोऽ स्मि नान्यथा ।
किं न वेत्सि सहधर्मचारिणं
चक्रवाकसमवृत्तिमात्मनः ॥ (कु.सं. ८.५७)]

अथ प्रणयः
बाह्यान्तरोपचारैर्यत्प्रेममानोपकल्पितैः । ११३
बध्नाति भावविश्रम्भं सोऽ यं प्रणय उच्यते ॥२.२६२॥

यथा
प्रतिश्रुतं द्यूतपणं सखीभ्यो
विवक्षति प्रेयसि कुञ्चितभ्रूः ।
कण्ठं कराभ्यामवलम्ब्य तस्य
मुखं पिधत्ते स्वकपोलकेन ॥२.२६३॥

अत्र भावबन्धनापराधकौटिल्ययोरनुवृत्तौ कण्ठालम्बनादिनोपचारेण विस्रम्भः ।

[केषुचित्लिपिषु इदमुदाहरणमत्र दृश्यते

काञ्च्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्
मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः स्वप्तुमपीह वारयति मामित्याहितक्रोधया
पर्यस्य स्वपनच्छलेन शयने दत्तोऽ वकाशस्तया ॥ (अमरु. १८)]

अथ स्नेहः
विश्रम्भे परमां काष्ठामारूढे दर्शनादिभिः । ११४
यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥२.२६४॥

दर्शनेन, यथा कन्दर्पसम्भवे

उभे तदानीमुभयोस्तु चित्ते
कदुष्णनिःश्वासचरिष्णुकेन ।
एकीकरिष्यन्ननुरागशिल्पी
रागोष्मणैव द्रवतामनैषीत् ॥२.२६५॥

अत्र लक्ष्मीनारायणयोरन्योन्यदर्शनेनान्तःकरणद्रवीभावः ।

स्पर्शनेन, यथा
गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा
सान्द्रस्नेहरसातिरेकविगलत्श्रीमन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥२.२६६॥ (अमरु ३६)

स त्रेधा कथ्यते प्रौढमध्यमन्दविभेदतः । ११५
प्रवासादिभिरज्ञातचित्तवृत्तौ प्रिये जने ।
इतरक्लेशकारी यः स प्रौढः स्नेह उच्यते ॥२.२६७॥ ११६

यथा
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
मा कौलीनादसितनयने मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगाद्
इष्टे वस्तुन्युपचितरसाः प्रेमराशी भवन्ति ॥२.२६८॥ [मे.दू. २.५२]

अत्र प्रोषिते यक्षे स्नेहजनितया तदन्यासङ्गशङ्कया जनितः प्रियाक्लेशः मय्यविश्वासिनी मा भूरिति प्रत्याश्वासनेन व्यज्यते ।

अथ मध्यमः
इतरानुभवापेक्षां सहते यः स मध्यमः ॥२.२६९॥ ११७

यथा
किं देव्याः कृतदीर्घरोषमुषितस्निग्धस्मितं तन्मुखं
किं वा सागरिकां क्रमोद्धतरुषा सन्तर्ज्यमानां तथा ।
बद्ध्वा नीतमितो वसन्तकमहं किं चिन्तयाम्यद्य भोः
सर्वाकारकृतव्यथः क्षणमपि प्राप्नोमि नो निर्वृतिम् ॥२.२७०॥ (रत्ना. ३.१९)

अत्र सागरिकानुभवापेक्षया राजस्नेहो वासवदत्तायां मध्यमः ।

अथ मन्दः
द्वयोरेकस्य मानादौ तदन्यस्य करोति यः । ११७
नैवोपेक्षां न चापेक्षां स स्नेहो मन्द उच्यते ॥२७०॥

यथा
मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् ।
एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥२.२७१॥ (मा.अ.मि. ३.२३)

अत्र कुपितायामिरावत्यामुपेक्षापेक्षाभावस्य कथनेन राज्ञः स्नेहस्तद्विषयो मन्दः । आदिशब्दादतिपरिचयादयः । यथा

यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्
ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥२.२७२॥

अत्र कस्याश्चित्स्वैरिण्या गृहिणीत्वपरिचयेन पतिदशां प्राप्तेऽ पि जारे उपेक्षापेक्षयोरभावकथनान्मन्दः स्नेहः ।

अथ रागः
दुःखमप्यधिकं चित्ते सुखत्वेनैव रज्यते । ११८
येन स्नेहप्रकर्षेण स राग इति गीयते ॥२.२७३॥
कुसुम्भनीलीमञ्जिष्ठरागभेदेन स त्रिधा । ११९
कुसुम्भरागः स ज्ञेयो यश्चित्ते रज्यति क्षणात् ।
अतिप्रकाशमानोऽ पि क्षणादेव विनश्यति ॥२.२७४॥ १२०

यथा
बहुबल्लहस्स जा होइ बल्लहा कहबि पञ्जदि अहाइम् ।
सा किं छट्ठं मग्गई कत्तो मिट्ठं अ बहुअं अ ॥२.२७५॥ (गाथा १.७२)

[बहुवल्लभस्य या भवति वल्लभा कथमपि पञ्चदिवसानि ।
सा किं षष्ठं मृगयते कुतो मृष्टं च बहुकं च ॥]

नीलीरागस्तु यः सक्तो नापैति न च दीप्यते ॥२.२७६॥ १२१

यथा
यदैव पूर्वे जनने शरीरं
सा दक्षरोषात्सुदती ससर्ज ।
तदाप्रभृत्येव विमुक्तसङ्गः
पतिः पशूनामपरिग्रहोऽ भूत् ॥२.२७७॥ (कु.सं. ३.५३)

अत्र पशुपतिचित्तरागः सतीसङ्गमाभावनिश्चयेनापि नापैति । विषयाभावान्न प्रकाशते च ।

अचिरेणैव संसक्तश्चिरादपि न नश्यति । १२१
अतीव शोभते योऽ सौ माञ्जिष्ठो राग उच्यते ॥२.२७८॥

यथा
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्
विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।
कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितं
भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्राप्यते ॥२.२७९॥ (उ.रा.च. १.३८)

राग एव स्वयं वेद्यदशाप्राप्त्या प्रकाशितः । १२२
यावदाश्रयवृत्तिश्चेदनुराग इतीरितः ॥२७९॥

यथा ममैव
अश्रान्तकण्ठकोद्गममनवरतस्वेदमविरतोत्कम्पम् ।
अनिशमुकुलितापाङ्गं मिथुनं कलयामि तदविनाभूतम् ॥२.२८०॥

अत्र पार्वतीपरमेश्वरयो रतिः शरीरैक्यसम्बन्धेन यावदाश्रयवृत्तिः अनुभूतसर्वरागोपप्लवतया स्वसंवेद्यदशाप्रकाशितनित्यभोगरूपा अश्रान्तरोमाञ्चादिभिरनुभावैर्व्यज्यते ।

अन्ये प्रीतिं रतेर्भेद्मामनन्ति न तन्मतम् । १२३
असम्प्रयोगविषया सेयं हर्षान्न भिद्यते ॥२८०॥

अथ हासः
भाषणाकृतिवेषाणं क्रियायाश्च विकारतः । १२४
लौल्यादेश्च परस्थानामेषामनुकृतेरपि ॥२.२८१॥
विकारश्चेतसो हासस्तत्र चेष्टाः समीरिताः । १२५
दृष्टेर्विकारो नामौष्ठकपोलस्पन्दनादयः ॥२.२८२॥

भाषाविकारो भाषणासम्बद्धत्वादिः । आकृतिविकृतिरतिवामनदन्तुरत्वादिः । वेषविकारो विरुद्धालङ्कारकल्पना । क्रियाविकारो विकटगतित्वादिः । एषामुदाहरणानि कैशिक्यां शुद्धहास्यजे नर्मणि निरूपितानि द्रष्टव्यानि ।

लौल्याद्, यथा
बालेयतण्डुलविलोपकदर्थिताभिर्
एताभिरग्निशरणेषु सधर्मिणीभिः ।
उत्रासहेतुमपि दण्डमुदस्यमानम्
आघ्रातुमिच्छति मृगे मुनयो हसन्ति ॥२.२८३॥ (अ.रा. २.२०)

अत्र मृगाणां सन्त्रासनयष्टिसमाघ्राणलौल्येन मुनीनां हासः ।

पुरानुकरणेन, यथा
पि पि प्रिय स स स्वयं मु मु मुखासवं देहि मे
त त त्यज दु दु द्रुतं भ भ भ भाजनं काञ्चनम् ।
इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः
प्रगे हसितहेतवे सहचरीभिरध्यैयत ॥२.२८४॥ (स.क.आ.)

अथ उत्साहः
शक्तिर्धरियसहायाद्यैः फलश्लाघ्येषु कर्मसु । १२६
सत्वरा मानसी वृत्तिरुत्साहस्तत्र विक्रियाः ॥२.२८५॥
कालाद्यवेक्षणं धैर्यं वागारम्भादयोऽ पि च । १२७
सहजाहार्यभेदेन स द्विधा परिभाष्यते ॥२.२८६॥

शक्त्या सहजोत्साहो, यथा
अथो महेन्द्रं गिरिमारुरोह
वारां निधिं लङ्घयितुं हनूमान् ।
वामेतराक्षिस्फुरणेन जान
करस्थितां राघवकार्यसिद्धिम् ॥२.२८७॥

स एव धैर्येण, यथा
शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे
निद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशे द्विषि ।
मा भैष्तेति निरुन्धतः कपिभटानस्योर्जितात्मस्थितेः
सौमित्रेरधियुद्धभूमि गदिता वाचस्त्वया न श्रुताः ॥२.२८८॥
अत्र रावणशक्तिप्रहारेण क्षीणशक्तेरपि लक्ष्मणस्य धैर्यजनितोत्साहः कपिभटाश्वासनादिभिर्व्यज्यते ।

सहायेन सहजोत्साहो, यथा
स गुप्तमूलप्रयत्नः शुद्धपार्ष्णिरयान्वितः ।
षड्विधं बलमादाय प्रतस्थे विजिगीषया ॥२.२८९॥ (र.वं. ४.२६)

शक्त्याहार्योत्साहो, यथा

हस्तालम्बितमक्षसूत्रवलयं कर्णावतंसीकृतं
स्रस्तं भ्रूयुगमुन्नमय्य रचितं यज्ञोपवीतेन च ।
संनद्धा जघने च वल्कलपटी पाणिश्च धत्ते धनुर्
दृष्टं भो जनकस्य योगिन इदं दान्तं विरक्तं मनः ॥२.२९०॥ (बा.रा. १.५३)

धैर्यसहायाभ्यामाहार्यो, यथा

तव प्रसादात्कुसुमायुधोऽ पि
सहायमेकं मधुमेव लब्ध्वा ।
कुर्यां हरस्यापि पिनाकपाणेर्
धैर्यच्युतिं के मम धन्विनोऽ न्ये ॥२.२९१॥ (कु.सं. ३.१०)

अत्र स्वभावशक्तिरहितस्य मन्मथस्य इन्द्रप्रोत्साहनजनितेन धैर्येण वसन्तसहायेन चाहृतोत्साहो धैर्यच्युतिचिकीर्षाकथनादभिव्यज्यते ।

अथ विस्मयः
लोकोत्तरपदार्थानां तत्पूर्वलोकनादिभिः । १२८
विस्तारश्चेतसो यस्तु विस्मयः स निगद्यते ।
क्रियास्तत्राक्षिविस्तारसाधूक्तिपुलकादयः ॥२.२९२॥ १२९

यथा
शिला कम्पं धत्ते शिव शिव वियुङ्क्ते कठिनताम्
अहो नारीच्छायामयति वनिताभूयमयते ।
वदत्येवं रामे विवलितमुखी बल्कलमुरः
स्थले कृत्वा बद्ध्वा कचभरमुदस्थादृषिवधूः ॥२.२९३॥

अथ क्रोधः
वधावज्ञादिभिश्चित्तज्वलनं क्रोध ईरितः ।
एष त्रिधा भवेत्कोर्धकोपरोषप्रभेदतः ॥२.२९४॥ १३०
वधच्छेदादिपर्यन्तः क्रोधः क्रूरजनाश्रयः ।
अभ्यर्थनावधिः प्रायः कोपो वीरजनाश्रयः ॥२.२९५॥ १३१
शत्रुभृत्यसुहृत्पूज्याश्चत्वारो विषयास्तयोः ।
मुहुर्दष्टोष्ठता भुग्नभ्रुकुटीदन्तघट्टनम् ॥२.२९६॥ १३२
हस्तनिष्पीडनं गात्रकम्पः शस्त्रप्रतीक्षणम् ।
स्वभुजावेक्षणं कण्ठगर्जाद्याः शात्रवक्रुधि ॥२.२९७॥ १३३

वधेन शत्रुविषयक्रोधो, यथा
कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिनाम्
अयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ॥२.२९८॥ (वे.सं. ३.२४)

अवज्ञया शत्रुविषयक्रोधो, यथा
श्रुतिशिखरनिषद्यावद्यमानप्रभावं
पशुपतिमवमन्तुं चेष्टते यस्य बुद्धिः ।
प्रलयशमनदण्डोच्चण्डमेतस्य सोऽ हं
शिरसि चरणमेनं पातयामि त्रिवारम् ॥२.२९९॥

अत्र परमेश्वरावज्ञया जनितो दक्षविषयो दधीचिक्रोधः परुषवागारम्भेण व्यज्यते ।

भृत्यक्रोधे तु चेष्टाः स्युस्तर्जनं मूर्धधननम् ।
निर्भर्त्सनं च बहुधा मुहुर्निर्वर्णनादयः ॥२.३००॥ १३४

यथा वीरानन्दे
आधूतमूर्धदशकं तरलाङुलीकं
रूक्षेक्षणं परुषहुङ्कृतिगर्भकण्ठम् ।
पश्यन्निशाचरमुखानि ततोऽ वतीर्णः
सौधात्प्लवङ्गपतिमुष्टिहतो दशास्यः ॥२.३०१॥

अत्र सुग्रीवसम्पाते पलायितेषु भृत्येषु रावणस्य क्रोधो मूर्धधूननादिभिरनुभावैर्व्यज्यते ।

मित्रक्रोधे विकाराः स्युर्नेत्रान्तःपतदश्रुता ।
तूष्णीं ध्यानं च नैश्चल्यं श्वसितानि मुहुर्मुहुः । १३५
मौनं विनम्रमुखता भुग्नदृष्ट्यादयोऽ पि च ॥२.३०२॥

यथा ममैव
सुभद्रायाः श्रुत्वा तदनुमतिमत्तेन हरणं
कृतं कौन्तेयेन क्षुभितमनसः स्तब्धवपुषः ।
नमद्वक्त्राः स्वान्ते किमपि विलिखन्तोऽ तिकुटिलैर्
अपश्यन्नुद्बाष्पैर्यदुपतिमपाङ्गैर्यदुभटाः ॥२.३०३॥

अत्र सुभद्राहरणानुमत्या जनितः कृष्णविषयो यदूनां क्रोधः कुटिलवीक्षणादिभिर्व्यज्यते ।

पूज्यक्रोधे तु चेष्टाः स्युः स्वनिन्दा नम्रवक्त्रता । १३६
अनुत्तरप्रदानाङ्गस्वेदगद्गदिकादयः ॥२.३०४॥

यथा वीरानन्दे
रामप्रवासजननीं जननीं विलोक्य
रूक्षं विवक्षुरपि गद्गदिकां दधानः ।
नम्राननः कुटिलरज्यदपाङ्गदृष्टिर्
जज्वाल चेतसि परं भरतो महात्मा ॥२.३०५॥

शत्रुक्रोधे तु चेष्टाः स्युर्भावगर्भितभाषणम् । १३७
भ्रूभेदनिटिलस्वेदकटाक्षआरुणिमादयः ॥२.३०६॥

यथा
कोपेन प्रविधूतकुन्तलभरः सर्वाङ्गजो वेपथुः
किञ्चित्कोकनदच्छदेन सदृशे नेत्रे स्वयं रज्यतः ।
धत्ते कान्तिमिदं च वक्त्रमनयोर्भङ्गेन भीमभ्रुवोश्
चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च ॥२.३०७॥
(उ.रा.च. ५.३६)

अत्र लवस्य चन्द्रकेतोश्च परस्परविषयः कोपो भ्रूभेदादिभिर्व्यज्यते ।

भृत्यादिकोपत्रितये तत्तत्क्रोधादिताः क्रियाः ॥२.३०८॥ १३८

अथ रोषः
मिथः स्त्रीपुंसयोरेव रोषह्स्त्रीगोचरः पुनः ।
प्रत्ययावधिरत्र स्युर्विकाराः कुटिलेक्षणम् । १३९
अधरस्फुरणापाङ्गरागनिःश्वसितादयः ॥२.३०९॥

यथा वीरानन्दे
भ्रूभङ्गभिन्नमुपरञ्जितलोचनान्तम्
आकम्पिताधरमतिश्वसितानुबन्धम् ।
पत्युर्मुखं क्षितिसुता परिलोकयन्ती
काराविमुक्तिरपि कष्टतरेति मेने ॥२.३१०॥

अत्र रावणकारागारशङ्कया जनितः सीताविषयो रामस्य रोषो भ्रूभङ्गादिभिरनुभावैर्व्यज्यते ।

प्रत्ययावधित्वं, यथा

दिष्ट्यार्धश्रुतविप्रलम्भजनितक्रोधादहं नो गतो
दिष्ट्या नो परुषं रुषार्धकथिते किञ्चिन्मया व्याहृतम् ।
मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथान्तं गता
मिथ्यादूषितयानया विरहितं दिष्ट्या न जातं जगत् ॥२.३११॥ (वे.सं. २.१३)

अत्र स्वप्नवृत्तान्तश्रवणभ्रान्तिजनितस्य भानुमतीविषयकस्य सुयोधनरोषस्य स्वप्नशेषश्रवणजनितप्रत्ययकृता शान्तिः दिष्ट्येत्यादिवागारम्भेण व्यज्यते ।

द्वेधा निगदितः स्त्रीणां रोषः पुरुषगोचरः । १४०
सपत्नीहेतुराद्यः स्यादन्यः स्यादन्यहेतुकः ॥२.३१२॥
सपत्नीहेतुको रोषो विप्रलम्भे प्रपञ्च्यते । १४१
अन्यहेतुकृते त्वत्र क्रियाः पुरुषरोषवत् ॥२.३१३॥

यथा
मय्येव विस्मरणदारुणचित्तवृत्तौ
वृत्तं रहःप्रणयमप्रतिपद्यमाने ।
भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या
भग्नं शरासनमिवातिरुषा स्मरस्य ॥२.३१४॥ (शकु. ५.२३)

अत्र प्राक्तनवृत्तान्तापह्नवजनितो दुष्यन्तविषयकः शकुन्तलारोषो भ्रूभङ्गादिभिरनुभावैर्व्यज्यते ।

अथ शोकः
बन्धुव्यापत्तिदौर्गत्यधननाशादिभिः कृतः । १४२
चित्तक्लेशभरः शोकस्तत्र चेष्टा विवर्णता ॥२.३१५॥
बाष्पोद्गमो मुखे शोषः स्तम्भनिःश्वसितादयः । १४३
उत्तमानमयं प्रौढो विभावैरन्यसंश्रितैः ॥२.३१६॥
आत्मस्थैरतिरूढोऽ पि प्रायः शौर्येण शाम्यति । १४४
तत्र चेष्टा गुणाख्याननिगूढरुदितादयः ॥२.३१७॥

परगतविभावैर्, यथा
देवो रक्षतु वः किलाननपरिव्याकीर्णचूडाभरां
भर्तुर्भस्मनि पेतुषीं करतलव्यामृष्टपार्श्वक्षितिम् ।
हा प्राणेश्वर हा स्मरेति रुदतीं बास्पाकुलाक्षीं रतिं
दृष्ट्वा यस्य ललाटलोचनमपि व्याप्ताश्रु निर्वापितम् ॥२.३१८॥

अत्र रतिगतशोच्यदशाविलोकनेन देवस्य शोको बाष्पोद्गमेन व्यज्यते ।

आत्मगतैर्, यथा
अयि कर्ण कर्णसुभगां प्रयच्छ मे
गिरमुद्वमन्निव मुदं मयि स्थिराम् ।
सततावियुक्तमकृताप्रियं कथं
वृषसेनवत्सल विहाय यासि माम् ॥२.३१९॥ (वे.सं. ५.१४)

स्यादेष मृतिपर्यन्तः स्वपरस्थैस्तु मध्यमे । १४५
अनतिव्यक्तरुदितप्रमुखास्तत्र विक्रियाः ॥२.३२०॥

स्वगतैर्मध्यमस्य, यथा करुणाकन्दले

न्यायोपाधिरयं यदश्रुकणिका मुञ्चन्ति बन्धुव्यये
रागोपाधिरयं त्यजन्ति विषयान् यज्ज्ञातयो दुस्त्यजान् ।
प्राणानां पुनरुत्क्रमः किमुपधिस्तत्केन विज्ञायते
देवं चानकदुन्दुभिं दशरथं चेक्ष्वाकुवंश्यं विना ॥२.३२१॥

अत्र वसुदेवस्य बन्धुविपत्तिजः शोकः प्राणोत्क्रमणेन व्यज्यते ।

परगतैर्, यथा
निर्भिद्यन्त इवाङ्गकान्यसुहरैर् आक्रन्दसंस्तम्भनैः
कण्ठे गर्वनिरुद्धबाष्पविगमे वाचां गतिर्गद्गदा ।
धावत्यन्तरसंस्तुतानपि जनान् कण्ठे ग्रहीतुं मनः
काष्ठा तस्य ममेदृशी यदुकुले कुल्यः कथं जीवति ॥२.३२२॥ [*१४]
[*१४] करुणाकन्दलादिति भाति ।


अत्र यदुकुलध्वंसनेन नारदस्य शोकः ।

हेतुभिः स्वगतैरेव प्रायः स्त्रीनीचयोरयम् । १४६
मरणव्यवसायान्तस्तत्र भूपरिवेष्टनम् ।
उरस्ताडननिर्भेदपातोच्चै रोदनादयः ॥२.३२३॥ १४७

अथ नीचगतो, यथा करुणाकन्दले

कचैरर्धच्छिन्नैः करनिहितरक्तैः कुचतटैर्
नखोत्कृत्तैर्गण्डैरुपलहतिशीर्णैश्च निटिलैः ।
विदीर्णैराक्रन्दाद्विकलगदितैः कण्ठविवरैर्
मनस्तक्ष्णोत्यन्तःपुरपरिजनानां स्थितिरियम् ॥२.३२४॥

स्त्रीगतो, यथा
अथ सा पुनरेव विह्वला
वसुधालिङ्गनधूसरस्तनी ।
विललाप विकीर्णमूर्धजा
समदुःखामिव कुर्वती स्थलीम् ॥२.३२५॥ [कु.सं. ४.४]

अथ जुगुप्सा
अहृद्यानां पदार्थानां दर्शनश्रवणादिभिः ।
सङ्कोचनं यन्मनसह्सा जुगुप्सात्र विक्रियाः ॥२.३२६॥ १४८
नासापिधानं त्वरिता गतिरास्यविकूणनम् ।
सर्वाङ्गधूननं कुत्सा मुहुर्निष्ठीवनादयः ॥२.३२७॥ १४९

अहृद्यदर्शनाद्, यथा
निष्टापस्विद्यदस्थ्नः क्वथनपरिणमन्मेदसः प्रेतकायान्
आकृष्यासक्तधूपानपि कुणपभुजो भूयसीभ्यश्चिताभ्यः ।
उत्पक्वस्रंसि मांसप्रचलदुभयतः सन्धिनिर्मुक्तमाराद्
एते निश्चूष्य जङ्घानलकमुदयिनीर्मज्जधाराः पिबन्ति ॥२.३२८॥
(मा.मा. ५.१७)

अत्र जङ्घानिश्चूषणमज्जधारापानादिजनिता पिशाचविषया माधवस्य जुगुप्सा गर्हणेन एते कुणपभुज इत्यनेन व्यज्यते ।

श्रवणाद्, यथा
मेदोमज्जाशोणितैः पिच्छिलेऽ न्तस्
त्वक्प्रच्छन्ने स्नायुबद्धास्थिसन्धौ ।
साधुर्देहे कर्मचण्डालगेहे
बध्नात्युद्यत्पूतिगन्धे रतिं कः ॥२.३२९॥

अत्र कस्यचिद्वस्तुतत्त्वविचारागमश्रवणजनिता देहे जुगुप्सारूपा निन्दा व्यज्यते ।

घृणा शुद्धा जुगुप्सान्या दशरूपे निरूपिता ।
सा हेयश्रवणोत्पन्नजुगुप्साया न भिद्यते ॥२.३३०॥ १५०

अथ भयम्
भयं तु मन्तुना घोरदर्शनश्रवणादिभिः ।
चित्तस्यातीव चाञ्चल्यं तत्प्रायो नीचमध्ययोः ॥२.३३१॥ १५१
उत्तमस्य तु जायेत कारणैरतिलौकिकैः ।
भये तु चेष्टा वैवर्ण्यं स्तब्धत्वं गात्रकम्पनम् ॥२.३३२॥ १५२
पलायनं परावृत्य वीक्षणं स्वात्मगोपनम् ।
आस्यशोषणमुत्क्रोशशरणान्वेषणादयः ॥२.३३३॥ १५३

मन्तुरपराधः । तस्माद्, यथा
विभूषणप्रत्युपहारहस्तम्
उपस्थितं वीक्ष्य विशाम्पतिस्तम् ।
सौपर्णमस्त्रं प्रतिसञ्जहार
प्रह्वेष्वनिर्बन्धरुषो हि सन्तः ॥२.३३४॥ (र.वं. १६.८०)

घोरदर्शनाद्, यथा
पराजितश्चोलभयेन पाण्ड्यः
पलायमानो दिशि दक्षिणस्याम् ।
समाकुलो वारिनिधिं विगाह्य
सेतुच्छिदं दाशरथिं निनिन्द ॥२.३३५॥

अत्र युद्धसंरम्भभीमस्य चोलस्य दर्शनात्पाण्ड्यस्य भयं पलायनादिभिर्व्यज्यते ।

घोरश्रवणाद्, यथा
श्रुत्वा निःसाणराणं रणभुवि भवतो माधवक्ष्माधवेन्द्र
प्राप्य प्रत्यर्थिवीराः कुलशिखरिगुहां गूढगाढान्धकाराम् ।
लीना लूनप्रतापा निजकटकमणिश्रेणिकान्तिप्रकर्ष
स्रष्टारं नष्टधैर्याः कमलभुवमहो हन्त निन्दन्ति मन्दम् ॥२.३३६॥

अतिलौकिकात्कारणादुत्तमस्य, यथा

अशक्नुवन् सोढुमधीरलोचनः
सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं
निनाय बिभ्यद्दिवसानि कौशिकः ॥२.३३७॥ [माघ १.५३]

अत्र वर्णनीयतया उत्तमरावणं प्रति देवेन्द्रस्य (भीतत्ववर्णनात्) मध्यमत्वं (एवेति तस्य उत्तमत्वं कथमिति) नाशङ्कनीयम् । यतः प्रकृतिरेव कारणं पुंसामुत्तमत्वे । न तु वर्णना । वर्णनायाः कारणत्वे प्रियेण तस्यानपराधबाधिताः (माघे १.६१) इत्यादिभिः औग्र्यादिभावकथनम् (वर्णनीयतया) उत्तमस्य रावणस्य नोचितं स्यात् । तस्मादुत्तमप्रकृतेरपि देवेन्द्रस्य लोकातिरिक्तवरप्रभावभीषणाद्रावणाद्भयमुपपद्यते ।

उत्तमस्यापि हेतुजभयानङ्गीकारे
विद्राणे द्रव्यनाथे सवितरि तरले जातशङ्के शशाङ्के
वैकुण्ठे कुण्ठगर्वे द्रवति मघवति क्लान्तकान्तौ कृतान्ते ।
अब्रह्म्ण्यं ब्रुवाणे वियति शतधृतावुद्धृतैकाग्रहस्ते
पायाद्वः कालकूटं झटिति कवलयन् लीलया नीलकण्ठः ॥२.३३८॥

इत्यत्र विद्रावतारल्यादिभिरुद्घोषितस्य द्रव्यनाथसवित्रादिगतभयस्य अपलापः कथमभिधेयः । तदपलापे च कालकूटभक्षणस्य सुकरत्वात्तत्कार्यनिर्वहणैकप्राणस्य नीलकण्ठप्रभावोत्कर्षस्य कथं मस्तकोन्नमनं स्यात् ।

हेतुजादितरे प्रोक्ते भये सोढलसूनुना ।
कृत्रिमं तूत्तमगतं गुर्वादीन् प्रत्यवास्तवम् ॥२.३३९॥ १५४
विभीषिकोत्थं बालादेर्वित्रासितकमित्युभे ।
तत्रान्त्यमन्तर्भूतं स्याद्घोरश्रवणजे भये ॥२.३४०॥ १५५
भिक्षुभल्लूकचोरादिसूचनाकल्पितत्वतः ।
आद्यं तु युक्तिकाक्ष्यायां भयकक्ष्यां न गाहते ॥२.३४१॥ १५६
गुर्वादिसंनिधौ यस्मान्नीचैः स्थित्यादिसूचितम् ।
भावो विनय एव स्यादथ स्यान्नाटके यदि ॥२.३४२॥ १५७
अवहित्थतया तस्य भयत्वं दूरतो गतम् ।
अतो हेतुजमेवैकं भयं स्यादिति निश्चयः ॥२.३४३॥ १५८

तथा च भारतीये
एतत्स्वभावजं स्यात्
सत्त्वसमुत्थं तथैव कर्तव्यम् ।
पुनरेभिरेव भावैः
कृतकं मृदुचेष्टितैः कार्यम् ॥२.३४४॥ इति । (ना.शा. ६.७१)

ननु चात्र स्वभावजं कृतकं चेति द्विविधं भयं प्रतीयते । तस्मात्तद्विरोध इति चेत्, मैवम् । भरताद्यभिप्रायमजानतां पेलवोक्तिमात्रतात्पर्येण न शङ्कितव्यम् । तथा हियथा लोके मञ्जिष्ठादिद्रव्यं सहजो रक्तिमा गाढतरं व्याप्नोति । एवं मध्यनीचयोर्भयं स्वल्पकारणमात्रेऽ पि सहजवद्दृश्यत इति सहजमित्युपचर्यते । यथा कृतको लाक्षारसः प्रयत्नसज्जितोऽ पि काष्ठादिकमन्तर्न व्याप्नोति, एवमुत्तमगतं भयमिति अलौकिककारणप्रकर्षेणापि कृतकवदेव प्रतीयत इति कृतकमित्युपचर्यते । अन्यथा (तस्य वास्तवत्वे) स्वाभाविकस्य भयस्य दामदर्शनेऽ पि समुत्पत्तिप्रसङ्गात् ।

ननु यदि स्वाभाविकं भयं (उत्तमस्य) न विद्यते (तर्हि)

द्वारे नियुक्तपुरुषानुमतप्रवेशः
सिंहासनान्तिकचरेण सहोपसर्पन् ।
तेजोभिरस्य विनिवारितदृष्टिपातैर्
वाक्यादृते पुनरिव प्रतिवारितोऽ स्मि ॥२.३४५॥ (मा.अ.मि. १.१२)

इत्यादिषु कथं भयोत्पत्तिरिति चेदुच्यते । भीषणास्त्रिविधाःाकृतिभीषणाः क्रियाभीषणाः माहात्म्यभीषणाश्चेति । तत्राकृतिभीषणाः रक्षःपिशाचादयः । क्रियाभीषणाः वीरभद्रपरशुरामशार्दूलवृकादयः । माहात्म्यभीषणा देवनरदेवादयः । ततोऽ त्र माहात्म्यभीषणराजदर्शनाद्भयं नाट्याचार्यस्य (हरदत्तस्य) जायते । न पुनः स्वभावात् । तदेतन्निःशंशयं कृतमहो दुरासदो राजमहिमा इति पूर्ववाक्यं ग्रथ्नता तेनैव कालिदासेनेति सर्वं कल्याणम् ।

भोजेनोक्ताः स्थायिनोऽ न्ये गर्वः स्नेहो धृतिर्मतिः ।
स्थास्नुरेवोद्धतप्रेयः शान्तोदात्तरसेष्वपि । १५९
तत्र स्नेहो रतेर्भेदस्त्रिधा चेच्छात्मतत्कृतः ॥२.३४६॥

तथा हिइदं खलु तेनैव प्रेयोरसवादिना महाराजेनोदाहृतम्

यदेव रोचते मह्यं तदेव कुरुते प्रिया ।
इति वेत्ति न जानाति तत्प्रियं यत्करोति सा ॥२.३४७॥ इति ।

तेनैव व्याकृतं चवत्सलप्रकृतेर्धीरललितनायकस्य प्रियालम्बनविभावादुत्पन्नः स्नेहः स्थायिभावो विषयसौन्दर्यादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमानैर्मतिधृतिस्मृत्यादिभिर्व्यभिचारिभावैरनुभावैश्च प्रशंसादिभिः संसृज्यमानो निष्पन्नः प्रेयोरस इति प्रतीयते । रतिप्रीत्योरपि चायमेव मूलप्रकृतिरिष्यते ।
न तावदस्य स्नेहस्य रतिं प्रति मूलप्रकृतित्वम् । रत्यङ्कुरदशायामस्यासम्भवात् । सम्भोगेच्छामात्रं हि रतिः । सैव प्रेममानप्रणयाख्याभिस्तिसृभिः पूर्वदशाभिरुत्कटीभूता चतुर्थदशायां चित्तद्रवीभावलक्षणस्नेहरूपतामाप्नोति । तथा च भावप्रकाशिकायाम्

इयमङ्कुरिता प्रेम्णा मानात्पल्लविता भवेत् ।
सकोरका प्रणयतः स्नेहात्कुसुमिता भवेत् ॥२.३४८॥ इति ।

अतोऽ स्मिन्नुदाहरणे स्नेहस्य रतिरूपेणैवास्वाद्यत्वं न पृथक्स्थायित्वेन । एवं च स्नेहस्य रतिभेदत्वकथनात्प्रेयोरसस्यापि शृङ्गारादपृथक्त्वमर्थसिद्धम् ।

अन्ये पोषासहिष्णुत्वान्नैव स्थायिपदोचिताः ॥२.३४९॥ १६०

तथापि गर्वस्थायित्वमुदाहृतम्

अपकर्ताहमस्मीति मा ते मनसि भूद्भयम् ।
विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति ॥२.३५०॥
(स.क.आ., काव्यादर्श २.२९३)

व्याकृतं चअत्र मयापकारः कृत इति यत्ते चेतसि भयं तन्मा भूत् । मम खड्गः पराङ्मुखेषु न कदाचिदपि परहर्तुमुत्सहत इति सर्वथैव रूढोऽ हङ्कारः प्रतीयते । सोऽ यं गर्वप्रकृतिरुद्धतो नाम रसो निष्पद्यते इति ।

न तावदत्र गर्वः । किं तु पूर्वमपकर्तारं पश्चाद्भीतं द्विषन्तमवलोक्य जातया समरविमुखं न हन्मि मा भैषीरिति वाक्सूचितया नीचे दयया कस्यचिद्वीरसार्वभौमस्य शोभा नाम पौरुषसात्त्विकभावः प्रतीयते । यदि वा अभीतमपि शत्रुं भीतो यदि तर्हि पलायस्वेत्यधिक्षिपतीति गर्व इति चेदस्तु वा गर्वः । तथाप्यसत्यभीतिकल्पनारूपचित्ताध्यवसायप्रकाशनद्वारेण शत्रुगतक्रोधमेव पुष्णाति । किं च विमुखाप्रहाररूपात्मसम्भावनारूपगर्वस्य असत्यभीतिकल्पनोपबृंहणात्पोषो भावकानां वैरस्याय, न केवलं स्वादाभावायेति नास्मिन्नुदाहरणे गर्वस्य स्थायित्वमुपपद्यते ।

धृतेः स्थायित्वमपि तेनैवोदाहृतम्, तथा हि

सर्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य ननु चर्मास्तृतैव भूः ॥२.३५१॥ (स.क.आ.) इति ।

व्याकृतं च । अत्र कस्यचिदुपशान्तप्रकृतेर्धीरशान्तनायकस्य अर्थोपगमनमनोऽ नुकूलदारादिसम्पत्तेरालम्बनविभावभूतायाः समुत्पन्नो धृतिस्थायिभावो वस्तुतत्त्वालोचनादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमानस्मृतिमत्यादिभिर्व्यभिचारिभावैर्वागारम्भादिभिश्चानुभावैरनुषज्यमानो निष्पन्नः शान्तो रस इति गीयते । अन्ये पुनरस्य शमं प्रकृतिमामनन्ति । स तु धृतेरेव विशेषो भविष्यतीति ।

अत्र तावदनुकूलदारसिद्धिजनितायाः धृतेस्तु रतिपरतन्त्रत्वमाबालगोपालप्रसिद्धम् । ननु, वस्तुतत्त्वालोचनादिभिरस्याः स्थायित्वं कल्प्यते इति चेत्, न । नैःस्पृह्यवासनावासिते भावकचित्ते विभावादिष्वपि नैःस्व्पृह्योन्मेषाद्धृतेर्मूलच्छेदप्रसङ्गात् । अर्थसम्पत्तिजनिता धृतिस्तु अगृध्नुलक्षणलोकोत्तरत्वप्राप्तिव्यवसायरूपमुत्साहमनुसरन्ती वीरोपकरणतामाप्नोतीति नात्र धृतेः स्थायित्वम् । धृतिस्थायित्वनिराकरणसंरम्भेणैव नष्टस्तद्विषयः शमस्थायी कुत्र वा लीनो न ज्ञायते ।

मतेः स्थायित्वं तेनैवोदाहृतम् । तथा हि

साधारण्यान्निरातङ्कः कन्यामन्योऽ पि याचते ।
किं पुनर्जगतां जेता प्रपौत्रः परमेष्ठिनः ॥२.३५२॥ [म.वी.च. १.३१] इति ।

व्याकृतं चरामस्य उदात्तप्रकृतेर्निसर्गत एव तत्त्वाभिनिवेशिनी मतिर्नान्यविषये प्रवर्तते । न च प्रवृत्ता उपरमति । सा च सीतेयं मम स्वीकारयोग्येत्येवंरूपेण प्रवृत्ता रावणप्रार्थनालक्ष्मणप्रोत्साहनाभ्यामुद्दीप्यमाना समुपजायमानचिन्तावितर्कव्रीडावहित्थस्मृत्यादिभिः कालोचितोत्तरानुमीयमानैर्विवेकचातुर्यधैर्यौदार्यादिभिः संसृज्यमाना उदात्तरसरूपेण निष्पद्यते इति ।

अत्र तावत्सीताविषया आत्मस्वीकारयोग्यत्वनिश्चयरूपा रामस्य मतिस्तु रतेरुत्पत्तिमात्रकारणमेव । तदनिश्चये रतेरनौचित्यात् । अत्र कन्यायाः साधारण्यनिश्चयो मतिः । तस्याः स्थायित्वमिच्छाम इति चेत्, न । सा हि रावणविषयलज्जासूयादोषनिवारणद्वारेण कार्यकरणापराङ्मुखीभावलक्षणलोकोत्तरतत्प्राप्तिव्यवसायरूपा रामोत्साहं भावकास्वादयोग्यतया प्रोत्साहयति ।

तदष्टावेव विज्ञेयाः स्थायिनो मुनिसंमताः ।
स्थायिनोऽ ष्टौ त्रयस्त्रिंशच्चारिणोऽ ष्टौ च सात्त्विकाः ॥२.३५३॥ १६१
एवमेकोनपञ्चाशद्भावाः स्युर्मिलिता इमे ।
एवं हि स्थायिनो भावान् सिंहभूपतिरभ्यधात् ॥२.३५४॥ १६२
अथैषां रसरूपत्वमुच्यते सिंहभूभुजा ।
विद्वन्मानसहंसेन रसभावविवेकिना ॥२.३५५॥ १६३
एते च स्थायिनः स्वैः स्वैर्विभावैर्व्यभिचारिभिः ।
सात्त्विकैश्चानुभावैश्च नटाभिनययोगतः ॥२.३५६॥ १६४
साक्षात्कारमिवानीताः प्रापिताः स्वादुरूपताम् ।
सामाजिकानां मनसि प्रयान्ति रसरूपताम् ॥२.३५७॥ १६५
दध्यादिव्यञ्जनद्रव्यैश्चिञ्चादिभिरथौषधैः ।
गुडादिमधुरद्रव्यैर्यथायोगं समन्वितैः ॥२.३५८॥ १६६
यद्वत्पाकविशेषेण षाडवाख्यो रसः परः ।
निष्पद्यते विभावाद्यैः प्रयोगेण तथा रसः । १६७
सोऽ यमानन्दसम्भेदो भावकैरनुभूयते ॥२.३५९॥

ननु नायकनिष्ठस्य स्थायिप्रकर्षलक्षणस्य रसस्य सामाजिकानुभवयोग्यता नोपपद्यते । अन्यभवस्य तस्यान्यानुभवायोगातिति चेत्सत्यम् । को वा नायकगतं रसमाचष्टे । तथा हिस च नायको दृष्टः श्रुतोऽ नुकृतो वा रसस्याश्रयतामालम्बते । नाद्यः । साक्षाद्दृष्टनायकरत्यादेर्व्रीडाजुगुप्सादिप्रतीपफलत्वेन स्वादाभावात् । न द्वितीयतृतीयौ । तयोरविद्यमानत्वात् । न ह्यसति आश्रये तदाश्रितस्यावस्थानमुपपद्यते ।

ननु भवतु नामैवम् । तथापि रसस्य नटगतत्वे न सामाजिकानुभवानुपपत्तिरिति चेत्, न । नटे रससम्भवः किमनुभावादिसद्भावेन विभावादिसम्भवेन वा । नाद्यः, अभ्यासपाटवादिनापि तत्सिद्धेः । किं च सामाजिकेषु यथोचितमनुभावसद्भावेऽ पि त्वया तेषां रसाश्रयतानङ्गीकारात् । यदि विभावेन तत्रापि किमनुकार्यमालविकादिना (उत) अनुकारिणा स्वकान्तादिना वा । नाद्यः, अनौचित्यात् । नापि द्वितीयः, नटे साक्षाद्दृष्टनायकवदश्लीलताप्रतीतेः ।

ननु, मालाविकादिविभावविशेषस्यानौचित्यात्(स्ववि)भावस्यासंनिहितत्वात्(सन्निहितत्वेऽ पि साक्षाद्दृष्टनायकवदश्लीलताप्रतीतेः) च सामाजिकानामपि नटवदेव रसानाश्रयत्वं प्रसज्यते इति चेत्, अत्र केचन समादधते

विभावादिभावानामनपेक्षितबाह्यसत्त्वानां शब्दोपधानादेवासादितसद्भावानामनुकार्यापेक्षया निःसाधारणानामपि काव्ये नाट्ये च अभिधापर्यायेण साधारणीकरणात्मना भावनाव्यापारेण स्वसम्बन्धितया विभावितानां साक्षाद्भावकचेतसि विपरिवर्तमानानामालम्बनत्वाद्यविरोधादनौचित्यादिविप्लवरहितः स्थायी निर्भरानन्दविश्रान्तिस्वभावेन भोगेन भावकैर्भुज्यते इति ।

अन्ये त्वन्यथा समाधानमाहुः । लोके प्रमदादिकारणादिभिः स्थाय्यनुमाने अभ्यासपाटववतां सहृदयानां काव्ये नाट्ये च विभावादिपदव्यपदेश्यैः (ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते न शत्रोरेवैते न तटस्थस्यैवैते इति सम्बन्धविशेषस्वीकारपरिहारनियमानध्यवसायात्) स्वसम्बन्धित्वेन अन्यसम्बन्धित्वेन च साधारण्यात्प्रतीतैरभिव्यक्तीभूतो वासनात्मतया स्थितः स्थायी रत्यादिः पानकरसन्यायेन चर्व्यमाणो लोकोत्तरचमत्कारकारी परमानन्दमिव कन्दलयन् रसरूपतामाप्नोतीति ।

एवं च भुक्तिव्यक्तिपक्षयोरुभयोरपि सामाजिकानां रसाश्रयत्वोपपत्तेरन्यतरपक्षपरिग्रहाग्रहादुदास्महे ।

प्रायेण भारतीयमतानुसारिणां प्रक्रिया तु (इत्थम्)लोके कारणकार्यसहकारितामुपगतैः काव्ये नाट्ये वा सरससूक्तिसुधामाधुरीधुरीणैर्यथोक्ताभिनयसमेतैर्वा पदार्थत्वेन विभावानुभावसञ्चारिव्यपदेशं प्रापितैः नायिकानायकचन्द्रचन्द्रिकामलयानिलादिभ्रूविक्षेपकटाक्षपातस्वेदरोमाञ्चादिनिर्वेदहर्षादिरूपैर्वासनात्मकैरात्मसम्बन्धित्वेनाभिमतैर्भावैः धर्मकीर्तिरतानां षडङ्गनाट्यसमयज्ञानां नानादेशवेषभाषाविचक्षणानां निखिलकलाकलापकोविदानां सन्त्यक्तमत्सराणां सकलसिद्धान्तवेदिनां रसभावविवेचकानां काव्यार्थनिहितचेतसां सामाजिकानां मनसि मुद्रामुदित्रन्यायेन विपरित्वर्तिताः वासिताश्चाभिवर्धिताः स्थायिनो भावाः (वाक्यार्थस्थानीयाः) काव्यार्थत्वेनाभिमताः बाह्यार्थावलम्बनात्मकाः सन्तो विकासविस्तरक्षोभविक्षेपात्मकतया विभिन्नाः तत्तद्रूपेण (रत्युत्साहादिरूपेण सामाजिकैः) आस्वाद्यमानाः परमानन्दरूपतामाप्नुवन्तीति सकलसहृदयसंवेदनसिद्धस्य रसस्य प्रमाणान्तरेण संसाधनपरिश्रमः श्रोतृजनचित्तक्षोभाय न केवलं, प्रत्युत नोपयोगायेति प्रकृतमनुसरामः ॥

अष्टधा स च शृङ्गारहास्यवीराद्भुता अपि । १६८
रौद्रः करुणबीभत्सौ भयानक इतीरितः ॥२.३६०॥
एषूत्तरस्तु पूर्वस्मात्सम्भूतो विषमात्समः । १६९
बहुवक्तव्यताहेतोः सकलाह्लादनादपि ॥२.३६१॥
रसेषु तत्र शृङ्गारः प्रथमं लक्ष्यते स्फुटम् । १७०
विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ॥२.३६२॥
नीता सदस्यरस्यत्वं रतिः शृङ्गार उच्यते । १७१
स विप्रलम्भः सम्भोग इति द्वेधा निगद्यते ॥२.३६३॥
अयुक्तयोस्तरुणयोर्योऽ नुरागः परस्परम् । १७२
अभीष्टालिङ्गनादीनामनवाप्तौ प्रकृष्यते ॥२.३६४॥
स विप्रलम्भो विज्ञेयः स चतुर्धा निगद्यते । १७३
पूर्वानुरागमानौ च प्रवासकरुणाविति ॥२.३६५॥

अत्रायमर्थःनायिकानायकयोः प्रागसङ्गतयोः सङ्गतवियुक्तयोर्वा (परस्परमनुरक्तयोः) स्वोचितविभावैरनुभाविश्चोपजायमानः परस्परानुरागोऽ न्यतरानुरागो वा स्वाभिलषितालिङ्गनादीनामनवाप्तौ सत्यामुत्पद्यमानैर्व्यभिचारिभिरनुभावैश्च प्रकृष्यमाणो विप्रलम्भशृङ्गार इत्याख्यायते । स च पूर्वानुरागादिभेदेन चातुर्विध्यमापद्यते ।

तत्र पूर्वानुरागः
यत्प्रेम सङ्गमात्पूर्वं दर्शनश्रवणादिभिः । १७४
पूर्वानुरागः स ज्ञेयः श्रवणं तद्गुणश्रुतिः ॥२.३६६॥

श्रवणेन पूर्वानुरागो, यथा
साधु त्वया तर्कितमेतदेव
स्वेनानलं यत्किल संश्रयिष्ये ।
विनामुना स्वात्मनि तु प्रहर्तुं
मृषागिरं त्वां नृपतौ न कुर्याम् ॥२.३६७॥ (नैषधीये ३.७७)

अत्र हंसमुखान्नलगुणश्रवणेन दमयन्त्याः पूर्वानुरागः ।

प्रत्यक्षचित्रस्वप्नादौ दर्शनं दर्शनं मतम् ॥३६७॥ १७५

प्रत्यक्षदर्शनाद्, यथा
तं वीक्ष्य सर्वावयवानवद्यं
न्यवर्तनान्योपगमात्कुमारी ।
न हि प्रफुल्लं सहकारमेत्य
वृक्षान्तरं काङ्क्षति षट्पदाली ॥२.३६८॥ (र.वं. ६.६९)

चित्रदर्शनेन, यथा
लीलावधूतकमला कलयन्ती पक्षपातमधिकं नः ।
मानसमुपैति केयं चित्रगता राजहंसीव ॥२.३६९॥ (रत्नावली २.८)

अत्र चित्रगतरत्नावलीदर्शनाद्वत्सराजस्य पूर्वानुरागः ।

स्वप्नदर्शनेन, यथा
स्वप्ने दृष्टाकारा तमपि समादाय गतवती भवती ।
अन्यमुपायं न लभे प्रसीद रम्भोरु दासाय ॥२.३७०॥

अत्र कामपि स्वप्ने दृष्टवतः कस्यचिन्नायकस्य पूर्वानुरागः ।

यतः पूर्वानुरागोऽ यं सङ्कल्पात्मा प्रवर्तते ।
सोऽ यं पूर्वानुरागाख्यो विप्रलम्भ इतीरितः ॥२.३७१॥ १७६
पारतन्त्र्यादयं द्वेधा दैवमानुषकल्पनात् ।
तत्र सञ्चारिणो ग्लानिः शङ्कासूये श्रमो भयम् ॥२.३७२॥ १७७
निर्वेदौत्सुक्यदैन्यानि चिन्तानिद्रे प्रबोधता ।
विषादो जडतोन्मादो मोहो मरणमेव च ॥२.३७३॥ १७८

तत्र दैवपारतन्त्र्येण, यथा
शैलात्मजापि पितुरुच्छिरसोऽ भिलाषं
व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
सख्योः समक्षमिति चाधिकजातलज्जा
शून्या जगाम भवनाभिमुखी कथंचित् ॥२.३७४॥ (कु.सं. ३.७५)

अत्र जनकाद्यानुकूल्येऽ पि दैवपारतन्त्र्येण पार्वत्याः पूर्वानुरागः ।

मानुषपारतन्त्र्येण, यथा

दुल्लहो पिओ मे तस्मिं भव हिअअ णिरासं
अम्मो अपंगो मे परिप्फुरै किं बि वामो ।
एसो सो चिरदिट्ठो कहं उण दक्खिदब्बो
णाह मं पराहीणं तुइ परिगणअ सतिण्हम् ॥२.३७५॥ (मा.अ.मि. २.४)

[दुर्लभः प्रियो मे तस्मिन् भव हृदयनिरासं
अम्हो अपाङ्गो मे परिस्फुरति किमपि वामः ।
एष स चिरदृष्टः कथं पुनर्द्रष्टव्यः
नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥]

अत्र (चतुष्पदवस्तुके गीते) देवयानीपारतन्त्र्येण शर्मिष्ठायाः ययातिविषयः पूर्वानुरागः ।

एतस्मिन्नभिलाषादि मरणान्तमनेकधा ।
तत्तत्सञ्चारिभावानामुत्कटत्वाद्दशा भवेत् ॥२.३७६॥ १७९
तथापि प्राक्तनैरस्या दशावस्थाः समासतः ।
प्रोक्तास्तदनुरोधेन तासां लक्षणमुच्यते ॥२.३७७॥ १८०
अभिलाषश्चिन्तानुस्मृतिगुणसङ्कीर्तनोद्वेगाः ।
सविलापा उन्मादव्याधी जडता मृतिश्च ताः क्रमशः ॥२.३७८॥ १८१

तत्र अभिलाषः
सङ्गमोपायरचितप्रारब्धव्यवसायतः ।
सङ्कल्पेच्छासमुद्भूतिरभिलाषोऽ त्र विक्रियाः ॥२.३७९॥ १८२
प्रवेशनिर्गमौ तूष्णीं तद्दृष्टिपथगामिनौ ।
रागप्रकाशनपराश्चेष्टाः स्वात्मप्रसाधनम् । १८३
व्याजोक्तयश्च विजने स्थितिरित्येवमादयः ॥२.३८०॥

यथा
अलोलैश्च श्वासप्रविदलितलज्जापरिमलैः
प्रमोदादुद्वेलैश्चकितहरिणीवीक्षणसखैः ।
अमन्दैरौत्सुक्यात्प्रणयलहरीमर्मपिशुनैर्
अपाङ्गैः सिंहक्ष्मारमणमबला वीक्षितवती ॥२.३८१॥

अत्र रागप्रकाशनपरैर्दृष्टिविशेषैर्नायके कस्याश्चिदभिलाषो व्यज्यते ।

अथ चिन्ता
केनोपायेन संसिद्धिः कदा तस्य समागमः । १८४
दूतीमुखेन किं वाच्यमित्याद्यूहस्तु चिन्तनम् ॥२.३८२॥
अत्र नीव्यादिसंस्पर्शः शय्यायां परिवर्तनम् । १८५
सबाष्पाकेकरा दृष्टिर्मुद्रिकादिविवर्तनम् ।
निर्लक्ष्यवीक्षणं चैवमाद्या विकृतयो मताः ॥२.३८३॥ १८६

यथा
उद्यानं किमुपागतास्मि सुकृती देवो न किं दर्शितः
श्रीसिंहः स्वसखीमुखेन स कथं नेयः स किं वक्ष्यति ।
सिद्ध्येत्तेन कदा समागम इति ध्यानेन सव्याकुला
शय्यायां परिवर्तने श्वसिति च क्षिप्त्वा कपोलं करे ॥२.३८४॥

अथ अनुस्मृतिः
अर्थानामनुभूतानां देशकालानुवर्तिनाम् । सान्तत्येन परामर्शो मानसः स्यादनुस्मृतिः ॥२.३८५॥ १८७
तत्रानुभावा निःश्वासो ध्याणं कृत्यविहस्तता ।
शय्यासनादिविद्वेष इत्याद्याः स्मरकल्पिताः ॥२.३८६॥ १८८

यथा
आरामे रतिराजपूजनविधावासन्नसञ्चारिणो
व्यापाराननपोतसिंहनृपते रागानुसन्धायकान् ।
स्मारं स्मारममुं क्षणं शशिमुखी श्वासैर्विवर्णाधरा
नान्यत्काङ्क्षति कर्म कर्तुमुचितं नास्ते न शेते क्वचित् ॥२.३८७॥

अतह्गुणकीर्तनम्
सौन्दर्यादिगुणश्लाघा गुणकीर्तनमत्र तु ।
रोमाञ्चो गद्गदा वाणी भावमन्थरवीक्षणम् । १८९
तत्सङ्गचिन्तनं सख्या गण्डस्वेदादयोऽ पि च ॥२.३८८॥

यथा
किं कामेन किमिन्दुना सुरभिणा किं वा जयन्तेन किं
मद्भाग्यआदनपोतसिंहनृपते रूपं मया वीक्षितम् ।
अन्यास्तत्परिचर्ययेव सुदृशो हन्तेति रोमाञ्चिता
स्विद्यद्गण्डतलं सगद्गदपदं साख्याति सख्याः पुरः ॥२.३८९॥

अथ उद्वेगः
मनसः कम्प उद्वेगः कथितस्तत्र विक्रियाः । १९०
चिन्ता सन्तापनिःश्वासौ द्वेषः शय्यासनादिषु ।
स्तम्भचिन्ताश्रुवैवर्ण्यदीनत्वादय ईरिताः ॥२.३९०॥ १९१

यथा
सेवाया अनपोतसिंहनृपतेर्यातेषु राजस्वथो
तत्स्त्रीभिश्चिरयत्सुतेषु विलसच्चेतःसमुद्भ्रान्तिभिः ।
निःश्वासग्लपिताधरं परिपतत्संरुद्धबाष्पोदयं
कामं स्निग्धसखीजने विरचिता दीना दृशोर्वृत्तयः ॥२.३९१॥

अथ विलापः
इह मे दृक्पथं प्रापदिहातिष्ठदिहास्त च ।
इहालपदिहावात्सीदिहैव न्यवृतत्तथा ॥२.३९२॥ १९२
इत्यादिवाक्यविन्यासो विलाप इति कीर्तितः ।
तत्र चेष्टास्तु कुत्रापि गमनं क्वचिदीक्षणम् । १९३
क्वचित्क्वचिदवस्थानं क्वचिच्च भ्रमणादयः ॥२.३९३॥

यथा
अत्राभूदनपोतसिंहनृपतिस्तत्राहमस्मिन् लता
कुञ्जे सादरमीक्षिताहमिह ममानन्दयन् स स्मितैः ।
इत्यालापवती विलोकितमपि व्यालोकते सम्भ्रमाद्
यातं याति च सत्वरा तरुतलं लीलात एकाकिनी ॥२.३९४॥

अथ उन्मादः
सर्वावस्थासु सर्वत्र तन्मनस्कतया सदा । १९४
अतस्मिंस्तदिति भ्रान्तिरुन्मादो विरहोद्भवः ॥२.३९५॥
तत्र चेष्टास्तु विज्ञेया द्वेषः स्वेष्टेऽ पि वस्तुनि । १९५
दीर्घं मुहुश्च निःश्वासो निर्निमेषतया स्थितिः ।
निर्निमित्तस्मितध्यानगानमौनादयोऽ पि च ॥२.३९६॥ १९६

औत्सुक्यादनपोतसिंहनृपतेराकारमालिख्य सा
निर्वर्ण्यायमसौ मम प्रिय इति प्रेमाभियोगभ्रमात् ।
आशूत्थाय ततोऽ पसृत्य तरसा किंचिद्विवृत्तानना
सासूयं सदरस्मितं सचकितं साकाङ्क्षमालोकते ॥२.३९७॥

अथ व्याधिः
अभीष्टसङ्गमाभावाद्व्याधिः सन्तापलक्षणः ।
अत्र सन्तापनिःश्वासौ शीतवस्तुनिषेवणम् ॥२.३९८॥ १९७
जीवितोपेक्षणं मोहो मुमूर्षा धृतिवर्जनम् ।
यत्र क्वचिच्च पतनं स्रस्ताक्षत्वादयोऽ पि च ॥२.३९९॥ १९८

यथा
सङ्गत्यामनपोतसिंहनृपतेरासक्तचेतोगतैः
कन्दर्पानलदीपितानि सुतनोरङ्गानि पर्याकुलाः ।
व्यालिम्पन् हिमबालुकापरिचितैः श्रीगन्धसारद्रवैः
सख्यः पाणितलानि पत्रमरुता निर्वापयन्त्यो मुहुः ॥२.४००॥

अथ जडता
इदमिष्टमनिष्टं तदिति वेत्ति न किञ्चन ।
नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च ॥२.४०१॥ १९९
यत्र ध्यायति निःसंज्ञं जडता सा प्रकीर्तिता ।
अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता । २००
अकाण्डहुङ्कृतिः स्तम्भो निःश्वासकृशतादयः ॥२.४०२॥

यथा
सङ्कल्पैरनपोतसिंहनृपतौ संरूढमूलाङ्कुरैर्
आक्रान्ता तनुतां गता स्मरशरैः शातेव शातोदरी ।
अस्मन्मूलमिदं तनुत्वमिति किं लज्जालसे लोचने
प्राप्ते पक्ष्मपुटावृतिं रतिपतेस्तत्केतनं जृम्भताम् ॥२.४०३॥

अथ मरणं
तैस्तैः कृतैः प्रतीकारैर्यदि न स्यात्समागमः । २०१
ततः स्यान्मरणोद्योगह्कामाग्नेस्तत्र विक्रियाः ॥२.४०४॥
लीलाशुकचकोरादिन्यासः स्निग्धसखीकरे । २०२
कलकण्ठकलालापश्रुतिर्मन्दानिलादरः ।
ज्योत्स्नाप्रवेशमाकन्दमञ्जरीवीक्षणादयः ॥२.४०५॥ २०३

यथा
तन्वी दर्शनसंज्ञयैव लैत्कामापृच्छ्य संवर्धितां
न्यासीकृत्य च शारिकां परिजने स्निग्धे समं वीणया ।
ज्योत्स्नामाविशती विशारदसखीवर्गेण कर्णान्तिके
सिक्तेन ह्यनपोतसिंहनृपतेर्नाम्ना पुनर्जीविता ॥२.४०६॥

अत्र केचिदभिलाषात्पूर्वमिच्छोत्कण्ठालक्षणमवस्थाद्वयमङ्गीकृत्य द्वादशावस्था इति वर्णयन्ति । तत्रेच्छा पुनरभिलाषान्न भिद्यते । तत्प्राप्तित्वरालक्षणा उत्कण्ठा तु चिन्तनान्नातिरिच्यते इत्युदासितम् ।

अथ मानविप्रलम्भः
मुहुःकृतो मेति नेति प्रतिषेधार्थवीप्सया ।
ईप्सितालिङ्गनादीनां निरोधो मान उच्यते ॥२.४०७॥ २०४
सोऽ यं सहेतुनिर्हेतुभेदाद्द्वेधात्र हेतुजः ।
ईर्ष्यया सम्भवेदीर्ष्या त्वन्यासङ्गिनि वल्लभे ॥२.४०८॥ २०५
असहिष्णुत्वमेव स्याद्दृष्टेरनुमितेः श्रुतेः ।
ईर्ष्यामाने तु निर्वेदावहित्थग्लानिदीनताः । २०६
चिन्ताचापल्यजडतामोहाद्या व्यभिचारिणः ॥२.४०९॥

तत्र दर्शनेर्ष्यामानो, यथा
पच्चक्खमंतुकारअ ज{इ} चुम्बसि मह इमे हदकपोले ।
ता मज्झ पिअसहीए बिसेसओ कीस बिण्णओ ॥२.४१०॥

[प्रत्यक्षमन्तुकारक यदि चुम्बसि ममैमौ हतकपोलौ ।
ततो मम प्रियसख्या विशेषकः कस्माद्विज्ञातः ॥]

अत्र नायिकाकपोलचुम्बनव्याजेन तत्प्रतिबिम्बितां सखीं चुम्बति नायके तदीर्ष्यया जनितो नायिकामानः प्रत्यक्षमन्तुकारकेत्यनया सम्बुद्ध्या व्यज्यते ।

भोगाङ्कगोत्रस्खलनोत्स्वप्नैरनुमितिस्त्रिधा ॥२.४११॥ २०७

भोगाङ्कानुमितिजनितेर्ष्यमानो, यथा ममैव

को दोषो मणिमालिका यदि भवेत्कण्ठे न किं शङ्करो
धत्ते भूषणमर्धचन्द्रममलं चन्द्रे न किं कालिमा ।
तत्साध्वेव कृतं कृतं भणितिभिर्नैवापराद्धं त्वया
भाग्यं द्रष्टुमनीशयैव भवतः कान्तापराद्धं मया ॥२.४१२॥ [*१५]
[*१५] थिस्वेर्से अप्पेअरेद्प्रेविओउस्ल्यिन् १.१२५.


अत्र मणिमालिकादिलक्षणमदनमुद्रानुमितिप्रियापराधजनितेर्ष्यासम्भूतो मानः तत्साध्वेव कृतमित्यादिभिर्विपरीतलक्षणोक्तिभिर्व्यज्यते ।

गोत्रस्खलनेन यथा ममैव
नामव्यतिक्रमनिमित्तरुषारुणेन
नेत्राञ्चलेन मयि ताडनमाचरन्त्याः ।
मा मा स्पृशेति परुषाक्षरवादरम्यं
मन्ये तदेव मुखपङ्कजमायताक्ष्याः ॥२.४१३॥

उत्स्वप्नेर्ष्यया, यथा
स्वप्नकीर्तितविपक्षमङ्गनाः
प्रत्यभित्सुरवदन्त्य एव तम् ।
प्रच्छदान्तगलिताश्रुबिन्दुभिः
क्रोधभिन्नवलयैर्विवर्तनैः ॥२.४१४॥ (र.वं. १९.२२)

श्रुतिः प्रियापराधस्य श्रुतिराप्तसखीमुखात् ॥२.४१५॥ २०८ ब्

श्रुतिजनितेर्ष्यया मानो, यथा

अङ्गुल्यग्रनखेन बाष्यसलिलं विक्षिप्य विक्षिप्य
किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।
यस्यास्ते पिशुनोपदेशवचनैर्मानेऽ तिभूमिं गते
निर्विण्णोऽ नुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥२.४१६॥ (अमरु. ५)

अत्र पिशुनसखीजनोपदेशजनितो मानो बाष्पादिभिर्व्यज्यते ।

कारणाभाससम्भूतो निर्हेतुः स्याद्द्वयोरपि । २०८
अवहित्थादयस्तत्र विज्ञेया व्यभिचारिणः ॥२.४१७॥

तत्र पुरुषस्य, यथा
लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूणनयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्
तवावस्था चेयं विसृज कठिने मानमधुना ॥२.४१८॥ (अमरु. ७)

यथा वा
अलिअपसुत्तअ विणिमीलिअच्छ देहि सुहअ मज्झ ओआसम् ।
गण्डपरिचुंबणापुलैअङ्ग ण पुणो चिराइस्सम् ॥२.४१९॥ (गा.स. १.२०)

(अलीकप्रसुप्त विनिमीलिताक्ष देहि सुभग ममावकाशम् ।
गण्डपरिचुम्बनापुलकिताङ्ग न पुनश्चिरयिष्यामि ॥)

अत्रालीकस्वापाक्षिनिमीलनादिसूचितपुरुषमानकारणस्य प्रसाधनगृहव्यापारनिमित्तं विलम्बनस्याभासत्वम् ।

स्त्रिया, यथा
मुञ्च कोपमनिमित्तलोचने
सन्ध्यया प्रणमितोऽ स्मि नान्यथा ।
किं न वेत्सि सहधर्मचारिणं
चक्रवाकसमवृत्तिमात्मनः ॥२.४२०॥ (कु.सं. ८.५७)

अत्र पार्वतीमानकारणस्य परमेश्वरकृतसन्ध्याप्रणामस्याभासत्वम् ।

ननु अलिअपसुत्तेत्यत्र गण्डपरिचुम्बनस्य निषेधो नास्ति । एवं मुञ्च कोपमित्यत्र च निषेधो न श्रूयते । तत्कथमस्य निर्हेतुकस्य (मेति वा नेति वा निषेधाभावेऽ पि) मानत्वमिति चेत् । मेति नेति वाचिकनिषेधस्य उपलक्सणत्वात्(अलिअपसुत्तेति) पूर्वस्मिन्नुदाहरणे अप्रतिक्रियया चुम्बनानङ्गीकारलक्षणो निषेधो विद्यत एव । अपरत्र (मुञ्च कोपमित्यत्र) पुनरनुत्तरदानादिना अनङ्गीकारलक्षणो निषेधो वक्तव्य एव ।

ननु निर्हेतुकस्य मानस्य भावकौटिल्यरूपमानस्य च को भेद इति चेदुच्यते । निर्हेतुकमाने तु कोपव्याजेन चुम्बनादिविलम्बनात्प्रेमपरीक्षणं फलम् । भावकौटिल्यमाने तु चुम्बनाद्यविलम्बः फलमिति स्पष्ट एव तयोर्भेदः ।

निर्हेतुकः स्वयं शाम्येत्स्वयं ग्राहस्मितादिभिः ॥२.४२१॥ २०९

यथा
इदं किमार्येण कृतं ममाङ्गे
मुग्धे किमेतद्रचितं त्वयेति ।
तयोः क्रियान्तेष्वनुभोगचिह्नैः
स्मितोत्तरोऽ भूत्कुहनाविरोधः ॥२.४२२॥

अत्र लक्ष्मीनारायणयोरन्योन्यमानस्य परस्परकृतभोगचिह्नलक्षणकारणाभासजनितस्य स्मितोत्तरतया स्वयं शान्तिरवगम्यते ।

हेतुजस्तु शमं याति यथायोग्यं प्रकल्पितैः ।
साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः । २१०
तत्र प्रियोक्तिकथनं यत्तु तत्साम गीयते ॥२.४२३॥

तत्र यथा ममैव
अनन्यसाधारण एष दासः
किमन्यथा चेतसि शङ्कयेति ।
प्रिये वदत्यादृतया कयाचिन्
नाज्ञायि मानोऽ पि सखीजनोऽ पि ॥२.४२४॥

अत्र प्रियसामोक्तिजनिता कस्याश्चिद्मानशान्तिः सखीजनमानाद्यज्ञानसूचितैरालिङ्गनादिभिर्व्यज्यते ।

सख्यादिभिरुपालम्भप्रयोगो भेद उच्यते ॥२.४२५॥ २११

यथा
विहायैतन्मानव्यसनमनयोस्तन्वि कुचयोर्
विधेयस्ते प्रेयान् यदि वयमनुल्लङ्घ्यवचसः ।
सखीभ्यः स्निग्धाभ्यो गिरमिति निशम्यैणनयना
निवापाम्भो दत्ते नयनसलिलैर्मानसुहृदे ॥२.४२६॥

व्याजेन भूषणादीनां प्रदानं दानमुच्यते ॥२.४२७॥ २१२ ब्

यथा
मुहुरुपहसितामिवालिनादैर्
वितरसि नः कलिकां किमर्थमेनाम् ।
अधिरजनि गतेन धाम्नि तस्याः
शठः कलिरेव महांस्त्वयाद्य दत्तः ॥२.४२८॥ (शि.व. ७.५५)

नतिः पादप्रणामः स्यात् ॥२.४२९॥ २१२

तया, यथा
पिशुनवचनरोषात्किंचिदाकुञ्चितभ्रूः
प्रणमति निजनाथे पादपर्यन्तपीठम् ।
युवतिरलमपाङ्गस्यन्दिनो बाष्पबिन्दून्
अनयत कुचयुग्मे निर्गुणां हारवल्लीम् ॥२.४३०॥

तूष्णीं स्थितिरुपेक्षणम् ॥२.४३१॥ २१२

यथा
चरणोआसणिसण्णस्स तस्स भरिमो अणालबन्तस्स ।
पाअङ्गुट्ठाबेट्ठिअ केसदिढाअड्ढणसुहम् ॥२.४३२॥ (गाथा २.८)

[चरणावकाशनिषण्णस्य तस्य स्मरामोऽ नालपतः ।
पादाङ्गुष्ठावेष्ठित केशदृढाकर्षणसुखम् ॥]

अत्र शय्यायां चरणावकाशस्थितिमौनादिभिरुपेक्षा । तया जनिता मानस्य शान्तिश्चरणाङ्गुष्ठवेष्टितकेशदृढाकर्षणेन व्यज्यते ।

आकस्मिकभयादीनां कल्पना स्यद्रसान्तरम् ।
यादृच्छिकं बुद्धिपूर्वमिति द्वेधा निगद्यते । २१३
अनुकूलेन दैवेन कृतं यादृच्छिकं भवेत् ॥२.४३३॥

तेन मानशान्तिर्, यथा
मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्यैतदुदीणं घनगर्जितम् ॥२.४३४॥ (का.आ. २.२९०)

अत्र मानप्रणोदनघनगर्जितसन्त्रासस्य प्रियप्रयत्नैर्विना दैववशेन सम्भूतत्वाद्यादृच्छिकत्वम् ।

प्रत्युत्पन्नधिया पुंसा कल्पितं बुद्धिपूर्वकम् ॥२.४३५॥ २१४

यथा
लीलातामरसाहतोऽ न्यवनितानिःशङ्कदष्टाधरः
कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा
भ्रान्त्या धूर्ततयाथ सा नतिमृते तेनानिशं चुम्बिता ॥२.४३६॥ (अमरु ७२)

अत्र मानापनोदनस्य प्रियत्रासस्य नेत्रव्यावृत्तिनटनलक्षणतया नायकस्य प्रत्युत्पन्नमत्या कल्पितत्वाद्बुद्धिपूर्वकत्वम् ।

अथ प्रवासः
पूर्वसङ्गतयोर्यूनोर्भवेद्देशान्तरादिभिः ।
चरणव्यवधानं यत्स प्रवास इतीर्यते ॥२.४३७॥ २१५
तज्जन्यो विप्रलम्भोऽ पि प्रवासत्वेन संमतः ।
हर्षगर्वमदव्रीडा वर्जयित्वा समीरिताः ॥२.४३८॥ २१६
शृङ्गारयोग्याः सर्वेऽ पि प्रवासव्यभिचारिणः ।
कार्यतः सम्भ्रमाच्छापात्स त्रिधा तत्र कार्यजः ॥२.४३९॥ २१७
बुद्धिपूर्वतया यूनोः संविधानव्यपेक्षया ।
वृत्तो वर्तिष्यमाणश्च वर्तमान इति त्रिधा ॥२.४४०॥ २१८

धर्मार्थसङ्ग्रहाय बुद्धिपूर्वो व्यापारः कार्यम् । तेन वृत्तो, यथा

क्रियाप्रबन्धादयमध्वराणाम्
अजस्रमाहूतसहस्रनेत्रः ।
शच्याश्चिरं पाण्डुकपोललम्बान्
मन्दारशून्यानलकांश्चकार ॥२.४४१॥ (र.वं. ६.२३)

अत्र पुरन्दरस्य पूर्वं शचीमामन्त्र्य पश्चादध्वरप्रदेशगमनेन तयोः संविधानव्यपेक्षया (कार्यतो) विप्रलम्भस्य भूतपूर्वत्वम् ।

वर्तिष्यमाणो, यथा

भवतु विदितं छद्मालापैरलं प्रिय गम्यतां
तनुरपि न ते दोषोऽ स्माकं विधिस्तु पराङ्मुखः ।
तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशां
प्रकृतिचपले का नः पीडा गते हतजीविते ॥२.४४२॥ (अमरु ३०)

वर्तमानो, यथा
यामीति प्रियपुष्टायाः प्रियायाः कण्ठलग्नयोः ।
वचोजीवितयोरासीत्पुरो निःसरणे रणः ॥२.४४३॥

अथ सम्भ्रमात्
आवेगः सम्भ्रमः सोऽ पि नैको दिव्यादिभेदतः ॥२.४४४॥ २१९

तत्र दिव्यो, यथा
तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषोऽ पि न च मे शक्ताः पुरोवर्तिनीं
सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽ यं विधिः ॥२.४४५॥ (वि.उ. ४.९)

अत्र विप्रलम्भस्य कारणान्तरनिरासेन कोऽ यं विधिरिति विधेः कारणत्वाभिप्रायेण दिव्यसम्भ्रमजनितत्वं प्रतीयते ।

अथ शापः
शापो वैरूप्यताद्रूप्यप्रवृत्तेर्द्विविधो भवेत् । २१९
प्रवासः शापवैरूप्यादहल्यागौतमादिषु ॥२.४४६॥

ताद्रूप्येण, यथा
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥२.४४७॥ [मे.दू. १.१]

अथ करुणविप्रलम्भः
द्वयोरेकस्य मरणे पुनरुज्जीवनावधौ । २२०
विरहः करुणोऽ न्यस्य सङ्गमाशानुवर्तनात् ॥२.४४८॥
करुणभ्रमकारित्वात्सोऽ यं करुण उच्यते । २२१
सञ्चारिणोऽ नुभावाश्च करुणेऽ पि प्रवासवत् ॥२.४४९॥

यथा
अथ मदनवधूरुपप्लवान्तं
व्यसनकृशो प्रतिपालयां बभूव ।
शशिन इव दिवातनस्य रेखा
किरणपरिक्षयधूसरा प्रदोषम् ॥२.४५०॥ (कु.सं. ४.४६)

अत्राकाशसरस्वतीप्रत्ययेन रतेर्विप्रलम्भः कृशत्वाद्यनुमितैर्ग्लान्यादिभिः व्यभिचारिभावैः पोषितः समयपरिपालनादिभिरनुभावैर्व्यज्यते ।

अत्र केचिदाहुःकरुणो नाम विप्रलम्भशृङ्गारो नास्ति । उभयालम्बनस्य तस्य एकत्रैवासम्भवात् । यत्र त्वेकस्यापाये सति तदितरगताः प्रलापादयो भवन्ति स शोकान्न भिद्यते इति । तदयुक्तम् । यत्र पुनरुज्जीवनेन सम्भोगो नास्ति, तत्र सत्यं शोक एव । यत्र सोऽ स्ति तत्र विप्रलम्भ एव । अन्यथा सम्भोगशिरस्के अन्यतरापायलक्षणे वैरूप्यशापप्रवासेऽ पि शोकरूपत्वापत्तेः ।

नन्वेवं प्रवासकरुणयोः को भेद इति चेदुच्यतेशरीरेण देशान्तरगमने प्रवासः । प्राणैर्देशान्तरगमने करुण इति ।

अत्र केचिदयोगशब्दस्य पूर्वानुरागवाचकत्वं विप्रयोगशब्दस्य मानादिवाचकत्वं चाभिप्रेत्य अयोगो विप्रयोगश्चेति सम्भोगादन्यस्य शृङ्गारस्य विभागमाहुः । विप्रलम्भपदस्याप्रयोगे च कारणं ब्रुवते(सङ्केतस्थानमागमिष्यामीति) उक्त्वा सङ्केतमप्राप्तौ तद्व्यतिक्रमे (ततो) नायिकान्तरानुसरणे च विप्रलम्भशब्दस्य (मुख्यः) प्रयोगः । वञ्चनार्थत्वात्तस्य । (अयोगविप्रयोगविशेषत्वाद्विप्रलम्भस्य तादृशविशेषाभिधायकस्य विप्रलम्भशब्दस्य) तत्सामान्याभिधायित्वे तु विप्रलम्भशब्दस्य उपचरितत्वापत्तेरिति । तदयुक्तम् । चतुर्विधेऽ पि विप्रलम्भे वञ्चनरूपस्यार्थस्य मुख्यत एव सिद्धेः । तथा च श्रीभोजः

विप्रलम्भस्य यदि वा वञ्चनामात्रवाचिनः ।
विना समासे चतुराश्चतुरोऽ र्थान्नियुञ्जते ॥२.४५१॥
पूर्वानुरागे विविधं वञ्चनं व्रीडितादिभिः ।
माने विरुद्धं तत्प्राहुः पुनरीर्ष्यायितादिभिः ॥२.४५२॥
न्याविद्धं दीर्घकालत्वात्प्रवासे तत्प्रतीयते ।
विनिषिद्धं तु करुणे करुणत्वेन गीयते ॥२.४५३॥ (स.क.आ. ५.६३,६५६)

अथ सम्भोगः
स्पर्शनालिङ्गनादीनामानुकूल्यान्निषेवणम् । २२२
घटते यत्र यूनोर्यत्स सम्भोगश्चतुर्विधः ॥२.४५४॥

अत्रायमर्थःप्रागसङ्गतयोः सङ्गतवियुक्तयोर्वा नायिकानायकयोः परस्परसमागमे प्रागुत्पन्ना तदानीन्तनी वा रतिः प्रेप्सितालिङ्गनादीनां प्राप्तौ सत्यां उपजायमानैर्हर्षादिभिः संसृज्यमाना चन्द्रोदयादिभिरुद्दीपिता स्मितादिभिर्व्यज्यमाना प्राप्तप्रकर्षा सम्भोगशृङ्गार इत्याख्यायते । स च वक्ष्यमाणक्रमेण चतुर्विधः ।

सङ्क्षिप्तः सङ्कीर्णः सम्पन्नतरः समृद्धिमानिति ते । २२३
पूर्वानुरागमानप्रवासकरुणानुसम्भवाः क्रमतः ॥२.४५५॥

तत्र सङ्क्षिप्तः
युवानौ यत्र संक्षिप्तान् साध्वसव्रीडितादिभिः । २२४
उपचारान्निषेवेते स संक्षिप्त इतीरितः ॥२.४५६॥

पुरुषगतसाध्वसेन सङ्क्षिप्तो, यथा

लीलाहितुलिअसेलो रक्खदु वो राहिआइ त्थणपट्ठे ।
हरिणो पुढमसमाअमसद्धसबसबेबिलो हत्थो ॥२.४५७॥

(लीलाभितुलितशैलो रक्षतु वो राधिकास्तनस्पर्शे ।
हरेः प्रथमसमागमसाध्वसवशवेपनशीलो हस्तः ॥)

स्त्रीसाध्वसात्सङ्क्षिप्तो, यथा
चुम्बनेष्वधरदानवर्जितं
सन्नहस्तमदयोपगूहने ।
क्लिष्टमन्मथमपि प्रियं प्रभोर्
दुर्लभप्रतिकृतं वधूरतम् ॥२.४५८॥ (कु.सं. ८.८)

अथ सङ्कीर्णः
सङ्कीर्णस्तु पराधीन व्यलीकमरणादिभिः । २२५
सङ्कीर्यमाणः सम्भोगः किञ्चित्पुष्पेषुपेशलः ॥२.४५९॥

यथा
विमर्दरम्याणि समत्सराणि
विभेजिरे तैर्मिथुनै रतानि ।
वैयात्यविस्रम्भविकल्पितानि
मानावसादाद्विशदीकृतानि ॥२.४६०॥

अथ सम्पन्नः
भयव्यलीकस्मरणाद्यभावात्प्राप्तवैभवः । २२६
प्रोषितागतयोर्यूनोर्भोगः सम्पन्न ईरितः ॥२.४६१॥

यथा
दंतक्खअं कबोले कअग्गहुब्बेल्लिओ अ धम्मिल्लो ।
परिघुम्मिराअ दिट्ठी पिआगमं साहै बहूए ॥२.४६२॥

(दन्तक्षतं कपोले कचग्रहोद्वेएल्लितश्च धम्मिल्लः ।
परिघूर्णनशीला च दृष्टिः प्रियागमं साधयति वध्वाः ॥)

अत्र अप्रथमसम्भोगत्वाद्भयाभावः । दन्तक्षतादिष्वङ्गार्पणानुकूल्येन व्यलीकस्मरणाद्यभावः । ताभ्यामुपारूढवैभवः सम्पद्यते सम्भोगः ।

अथ समृद्धिमान्
पुनरुज्जीवने भोगसमृद्धिः कियती भवेत् । २२७
शिवाभ्यामेव विज्ञेयमित्ययं हि समृद्धिमान् ॥२.४६३॥

यथा
चन्द्रापीडं सा च जग्राह कण्ठे
कण्ठस्थानं जीवितं च प्रपेदे । तेनापूर्वा सा समुल्लासलक्ष्मीम्
इन्दुस्पृष्टां सिन्धुलेखेव भेजे ॥२.४६४॥
(अभिनन्दस्य कादम्बरीकथासारे, ८.८०)

यथा वा
अकलिअपरिरम्भबिब्भमाइ
अजणिअचुम्बणडम्बराइ दूरम् ।
अघडिअघणताडणाइ णिच्चं
णमह अणंगरहीण मोहणाइम् ॥२.४६५॥

(अकलितपरिरम्भविभ्रमाणि
अजनितचुम्बनडम्बराणि दूरम् ।
अघटितघनताडनानि नित्यं
नमतानङ्गरत्योर्मोहनानि ॥)

अत्र पुनरुज्जीवितेनअ कामेन सह रत्या रतेर्बाह्योपचारानपेक्षयैव तत्फलरूपसुखप्राप्तिकथनात्सम्भोगः समृद्ध्यति ।

अथ हास्यः
विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । २२८
हासः सदस्यरस्यत्वं नीतो हास्य इतीर्यते ॥२.४६६॥
तत्रालस्यग्लानिनिद्राव्याध्याद्या व्यभिचारिणः । २२९
एष द्वेधा भवेदात्मपरस्थितिविभागतः ॥२.४६७॥
आत्मस्थस्तु यदा स्वस्य विकारैर्हसति स्वयम् । २३०

यथा बालरामायणेभृङ्गिरिटिः (आत्मानं निर्वर्ण्य सोपहासम्)अहो त्रिभुवनाधिपतेरस्य अनुचरस्य महार्हवेषता ।

कौपीनाच्छादने वल्कमक्षसूत्रं जटाच्छटाः ।
रुद्राङ्कुशस्त्रिपुण्ड्रं च वेषो भृङ्गिरिटेरयम् ॥२.४६८॥ (बा.रा. २.२)

अत्र भृङ्गिरिटिः स्ववेषवैकृतेनैव स्वयमात्मानं हसति ।

परस्थस्तु परप्राप्तैरेतैर्हसति चेत्परम् ॥२.४६८॥ २३१

यथा
त्रस्तः समस्तजनहासकरः करेणोस्
तावत्खरः प्रखरमुल्ललयांचकार ।
यावच्चलासनविलोलनितम्बबिम्ब
विस्रस्तवस्त्रमवरोधवधूः पपात ॥२.४६९॥ (शि.व. ५.७)

प्रकृतिवशात्स च षोढा स्मितहसिते विहसितावहसिते च । २३१
अपहसितातिहसितके ज्येष्ठादीनां क्रमाद्द्वे द्वे ॥४६९॥

तत्र स्मितम्
स्मितं चालक्ष्यदशनं दृक्कपोलविकाशकृत् ॥२.४७०॥ २३२

यथा
उत्फुल्लगण्डमण्डलमुल्लसितदृगन्तसूचिताकूतम् ।
नमयन्त्यापि मुखाम्बुजमुन्नमितं रागसाम्राज्यम् ॥२.४७१॥ (कु.आ. २.१५)

अत्र गण्डमण्डलविकासदृगन्तोल्लासाभ्यां नायिकायाः स्मितं व्यज्यते ।

हसितं, यथा
तदेव लक्ष्यदशनशिखरं हसितं भवेत् ॥२.४७२॥ २३३
स्मयमानमायताक्ष्याः
किंचिदभिव्यक्तदशनशोभि मुखम् ।
असमग्रलक्ष्यकेसरम्
उच्छ्वसदिव पङ्कजं दृष्टम् ॥२.४७३॥ (मा.अ.मि. २.११)

अत्र किञ्चिदभिव्यक्तदशनत्वादिदं हसितम् ।

विहसितं, यथा
तदेव कुञ्चितापाङ्गगण्डं मधुरनिःस्वनम् । २३३
कालोचितं सानुरागमुक्तं विहसितं भवेत् ॥२.४७४॥

यथा
सविधेऽ पि मय्यपश्यति शिशुजनचेष्टाविलोकनव्याजात् ।
हसितं स्मरामि तस्याः सस्वनमाकुञ्चितापाङ्गम् ॥२.४७५॥

अवहसितम्, यथा
फुल्लनासापुटं यत्स्यान्निकुञ्चितशिरोऽ ंसकम् । २३४
जिह्मावलोकनयनं तच्चावहसितं मतम् ॥२.४७६॥

यथा
खर्वाटधम्मिल्लभरं करेण
संस्पृष्टमात्रं पतितं विलोक्य ।
निकुञ्चितांसं कुटिलेक्षणान्तं
फुल्लाग्रनासं हसितं सखीभिः ॥

कम्पिताङ्गं साश्रुनेत्रं तच्चापहसितं भवेत् ॥२.४७७॥ २३५

यथा
समं पुत्रप्रेम्णा करटयुगलं चुम्बितुमनो
गजास्ये कृष्टास्ये निविडमिलदन्योन्यवदनम् ।
अपायात्पायाद्वः प्रमथमिथुनं वीक्ष्य तदिदं
हसन् क्रीडानृत्तश्लथचलिततुन्दः स च शिशुः ॥२.४७८॥

अतिहसितम्, यथा
करोपगूढपार्श्वं यदुद्धतायतनिःस्वनम् ।
बाष्पाकुलाक्षयुगलं तच्चातिहसितं भवेत् ॥२.४७९॥ २३६

यथा
इति वाचमुद्धतमुदीर्य
सपदि सह वेणुदारिणा ।
सोढरिपुबलभरोऽ सहनः
स जहास दत्तकरतालमुच्चकैः ॥२.४८०॥ (शि.व. १५.३९)

अथ वीरः
विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ।
नीतः सदस्यरस्यत्वमुत्साहो वीर उच्यते ॥२.४८१॥ २३७
एष त्रिधा समासेन दानयुद्धदयोद्भवाः ।
दानवीरो धृतिर्हर्षो मत्याद्या व्यभिचारिणः ॥२.४८२॥ २३८
स्मितपूर्वाभिभाषित्वं स्मितपूर्वं च वीक्षितम् ।
प्रसादे बहुदातृत्वं तद्वद्वाचानुमोदितम् । २३९
गुणागुणविचाराद्यास्त्वनुभावाः समीरिताः ॥२.४८३॥

यथा
अमुष्मै चौराय प्रतिनिहतमृत्युप्रतिभिये
प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।
सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन्
गजेन्द्रानप्यष्टौ मदमुदितकूजन्मधुलिहः ॥२.४८४॥

युद्धवीरे हर्षगर्वामर्षादया व्यभिचारिणा । २४०
असाहाय्येऽ पि युद्धेच्छा समरादपलायनम् ।
भीताभयप्रदानाद्या विकारास्तत्र कीर्तिताः ॥२.४८५॥ २४१

यथा
रथी निषङ्गी कवची धनुष्मान्
दृप्तह्स राजन्यकमेकवीरः ।
विलोलयामास महावराहः
कल्पक्षयोद्वृत्तमिवार्णवाम्भः ॥२.४८६॥ (र.वं. ७.५६)

दयावीरे धृतिमतिप्रमुखा व्यभिचारिणः ।
स्वार्थप्राणव्ययेनापि विपन्नत्राणशीलता । २४२
आश्वासनोक्तयः स्थैर्यमित्याद्यास्तत्र विक्रियाः ॥२.४८७॥

यथा
आर्तं कण्ठगतप्राणं परित्यक्तं स्वबान्धवैः ।
त्राये नैनं यदि ततः कः शरीरेण मे गुणः ॥२.४८८॥ (नागानन्द ४.११)

अथ अद्भुतः
विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । २४३
नीतः सदस्यरस्यत्वं विस्मयोऽ द्भुततां व्रजेत् ॥२.४८९॥
अत्र धृत्यावेगजाड्यहर्षाद्या व्यभिचारिणः । २४४
चेष्टास्तु नेत्रविस्तारस्वेदाश्रुपुलकादयः ॥२.४९०॥

यथा
सोढाहे नमतेति दूतमुखतः कार्योपदेशान्तरं
तत्तादृक्समराङ्गणेषु भुजयोर्विक्रान्तमव्याहतम् ।
भीतानां परिरक्षणं पुनरपि स्वे स्वे पदे स्थापनं
स्मारं स्मारमरातयः पुलकिता रेचर्लसिंहप्रभोः ॥२.४९१॥

अत्र नायकगुणातिशयजनितो विरोधिनां विस्मयः स्मृतिहर्षादिभिः व्यभिचारिभिरुपचितः पुलकादिभिरनुभावैर्व्यज्यमानोऽ द्भुतत्वमापद्यते ।

अथ रौद्रः
विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । २४५
क्रोधः सदस्यरस्यत्वं नीतो रौद्र इतीर्यते ॥२.४९२॥
आवेगगर्वौग्र्यामर्षमोहाद्या व्यभिचारिणः । २४६
प्रस्वेदभ्रुकुटीनेत्ररागाद्यास्तत्र विक्रियाः ॥२.४९३॥

यथा करुणाकन्दले
आत्माक्षेपक्षोभितैः पीडितोष्ठैः
प्राप्तोद्योगैर्यौगपद्यादभेद्यैः ।
भिन्धिच्छिन्धिध्वानिभिर्भिल्लवर्गैर्
दर्पादन्धैरानिरुद्धिर्निरुद्धः ॥२.४९४॥

अत्र वज्रविषयो भिल्लवर्गक्रोधः स्वात्माक्षेपादिभिरुद्दीपिता दर्पान्धपरुषवागारम्भाद्यनुमितैर्गर्वासूयादिभिः परिपोषितः स्वोष्ठपीडनशत्रुनिरोधादिभिरनुभावैरभिव्यक्तो रौद्रतया निष्पद्यते ।

अथ करुणः
विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । २४७
नीतः सदस्यरस्यत्वं शोकः करुण उच्यते ॥२.४९५॥
अत्राष्टौ सात्त्विका जाड्यनिर्वेदग्लानिदीनताः । २४८
आलस्यापस्मृतिव्याधिमोहाद्या व्यभिचारिणः ॥२.४९६॥

यथा करुणाकन्दले
कुलस्य व्यापत्त्या सपदि शतधोद्दीपिततनुर्
मुहुर्बाष्पं श्वासान्मलिनमपि रागं प्रकटयन् ।
श्लथैरङ्गैः शून्यैरसकृदुपरुद्धैश्च करणैर्
युतो धत्ते ग्लानिं करुण इव मूर्तो यदुपतिः ॥२.४९७॥

अत्र बन्धुव्यापत्तिजनितो वसुदेवस्य शोको बन्धुगुणस्मरणादिभिरुद्दीपितो म्लानत्वेन्द्रियशून्यत्वादिसूचितैर्दैन्यमोहग्लान्यादिसञ्चारिभिः प्रपञ्चितो मुहुर्बाष्पश्वासमलिनमुखरागादिभिरनुभावैरभिव्यक्तः करुणत्वमापद्यते ।

अथ बीभत्सः
विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । २४९
जुगुप्सा पोषमापन्ना बीभत्सत्वेन रस्यते ॥२.४९८॥
अत्र ग्लानिश्रमोन्मादमोहापस्मारदीनताः । २५०
विषादचापलावेगजाड्याद्या व्यभिचारिणः ।
स्वेदरोमाञ्चनामाग्रच्छादनाद्याश्च विक्रियाः ॥२.४९९॥ २५१

यथा
अंहःशेषैरिव परिवृतो मक्षिकामण्डलीभिः
पूयक्लिन्नं व्रणमभिमृशन् वाससः खण्डकेन ।
रथोपान्ते द्रुतमपसृतं सङ्कुचन्नेत्रकोणं
छन्नघ्राणं रचयति जनं दद्रुरोगी दरिद्रः ॥२.५००॥

अत्र दर्दुरोगिविषया रथ्याजनजुगुप्सा मक्षिकापूयादिभिरुद्दीपिता त्वरापसरणानुमितैर्विषादादिभिः पोषिता नेत्रसङ्कोचनादिभिरभिव्यक्ता बीभत्सतामाप्नोति ।

अथ भयानकः
विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः ।
भयं सदस्यरस्यत्वं नीतं प्रोक्तं भयानकः ॥२.५०१॥ २५२
तत्र सन्त्रासमरणचापलावेगदीनताः ।
विषादमोहापस्मारशङ्काद्या व्यभिचारिणः । २५३
विक्रियास्त्वास्यशोषाद्याः सात्त्विकाश्चाश्रुवर्जिताः ॥२.५०२॥

यथा
श्रीसिंहक्षितिनायकस्य रिपवो धाटीश्रुतेराकुलाः
शुष्यत्तालुपुटं स्खलत्पदतलं व्यालोकयन्तो दिशः ।
धावित्वा कथमप्युपेत्य तमसा गाढोपगूढां गुहाम्
अन्विष्यन्ति तदन्तरेऽ पि करसंस्पर्शेन गर्तान्तरम् ॥२.५०३॥

अत्र नायकप्रतिभूपतिनां भयं तद्धाटीश्रवणादिनोद्दीपितं व्याकुलत्वतालुशोषपदस्खलनाद्यनुमितैरावेगशङ्कात्रासादिभिर्व्यभिचारिभिरुपचितं पलायनगुहाप्रवेशगर्तान्तरान्वेषणादिभिरनुभावैरनुभूयमानं भयानकत्वेन निष्पद्यते ।

केचित्समानबलयो रसयोः सङ्करं विदुः । २५४
न परीक्षाक्षममिदं मतं प्रेक्षावतां भवेत् ॥२.५०४॥
तुष्यत्वे पूर्व आस्वादः कतरस्येत्यनिश्चयात् । २५५
स्पर्धापरत्वादुभयोरनास्वादप्रसङ्गतः ॥२.५०५॥
तयोरन्यतरस्यैव प्रायेणास्वादनादपि । २५६
युगपद्रसनीयत्वं नोभयोरुपपद्यते ।
एषामङ्गाङ्गिभावेन सङ्करो मम संमतः ॥२.५०६॥ २५७

तथा च भारतीये
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा ।
सर्वेषां समवेतानां रूपं यस्य भवेद्बहु ॥
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥२.५०७॥ (ना.शा. ७.११९) इति ।

तुलाधृतत्वमनयोर्न स्यात्प्रकरणादिना ।
कवितात्पर्यविश्रान्तेरेकत्रैवावलोकनात् ॥२.५०८॥ २५८

अथ परस्परविरुद्धरसप्रतिपादनम्
उभौ शृङ्गारबीभत्सावुभौ वीरभयानकौ ।
रौद्राद्भुतावुभौ हास्यकरुणौ प्रकृतिद्विषौ ॥२.५०९॥ २५९
स्वभाववैरिणोरङ्गाङ्गिभावेनापि मिश्रणम् ।
विवेकिभ्यो न स्वदते गन्धगन्धकयोरिव ॥२.५१०॥ २६०
विरोधिनोऽ पि सांनिध्यादतिरस्कारलक्षणम् ।
पोषणं प्रकृतस्येति चेदङ्गत्वं न तावता ॥२.५११॥ २६१
यत्किञ्चिदुपकारित्वादङ्गस्याङ्गित्वमङ्गिनि ।
न तत्संनिधिमात्रेण चर्वणानुपकारतः ॥२.५१२॥ २६२
अन्यथा पानकाद्येषु शर्करादेरिवापतेत् ।
अन्तरा पतितस्यापि तृणादेरुपकारिता । २६३
तच्चर्वणाभिमाने स्यात्सतृणाभ्यवहारिता ॥२.५१३॥

निसर्गवैरिणोरङ्गाङ्गिभावात्स्वादाभावो, यथा
लालाजलं स्रवतु वा दशनास्थिपूर्णम्
अप्यस्तु वा रुधिरबन्धुरिताधरं वा ।
सुस्निग्धमांसकलितोज्ज्वललोचनं वा
संसारसारमिदमेव मुखं भवत्याः ॥२.५१४॥

अत्र शृङ्गाररसाङ्गतामङ्गीकृतवता बीभत्सेन अङ्गिनोऽ पि विच्छेदाय मूले कुठारो व्यापारितः । एवमन्येषामपि विरोधिनामङ्गाङ्गिभावेनास्वादाभावस्तत्र तत्रोदाहरणे द्रष्टव्यः ।

भृत्योर्नायकस्येव निसर्गद्वेषिणोरपि । २६४
अङ्गयोरङ्गिनो वृद्धौ भवेदेकत्र सङ्गतिः ॥२.५१५॥

यथा
कस्तूर्या तत्कपोलद्वयभुवि मकरीनिर्मितौ प्रस्तुतायां
निर्मित्सूनां स्ववक्षस्यतिपरिचयनात्त्वत्प्रशस्तीरुपांशु ।
वीर श्रीसिंहभूप त्वदहितकुभुजां राज्यलक्ष्मीसपत्नीम्
आनव्याजेन लज्जां सपदि विदधते स्वावरोधे प्रगल्भाः ॥२.५१६॥

अत्र प्रतिनायकगतयोः शृङ्गारबीभत्सयोः नायकगतवीररसाङ्गत्वादेकत्र समावेशो न दोषाय ।

नन्वत्र शत्रूणां स्ववक्षसि नायकविरुदविलेखनेन जीवितान्तनिर्मितस्थानीयेन जनिता निजजीवितजुगुप्सा स्वावरोधसांनिध्यादिभिरुद्दीपिता लज्जानुमितैर्निर्वेददैन्यविषादादिभिरुपचिता तदनुमितैरेव मानसिककुत्सादिभिः अभिव्यक्ता सती नायकगतं शरणागतरक्षालक्षणं वीरं पुष्णातीति प्रतीयते । न पुनः प्रतिनायकगतस्य शृङ्गारस्य नायकवीरोपकरणत्वम् (इति चेद्), उच्यतेनायककृपाकटाक्षस्थिरीकृतराज्यानां प्रतिनायकानां तादृशाः (शृङ्गार) विनोदाः सम्भवेयुः । नान्यथेति तस्य शृङ्गारस्य नायकवीरोपकरणत्वविरुदधारणादिपरिचयेन राज्यलक्ष्मीसपत्नीपदप्रयोगेण चाभिव्यज्यते ।

अथ रसाभासः
अङ्गेनाङ्गी रसः स्वेच्छावृत्तिवर्धितसम्पदा । २६५
अमात्येनाविनीतेन स्वामीवाभासतां व्रजेत् ॥२.५१७॥

तथा च भावप्रकाशिकायाम्
शृङ्गारो हास्यभूयिष्ठः शृङ्गाराभास ईरितः ।
हास्यो बीभत्सभूयिष्ठो हास्याभास इतीरितः ॥२.५१८॥
वीरो भयानकप्रायो वीराभास इतीरितः ।
अद्भुतः करुणाश्लेषादद्भुताभास उच्यते ॥२.५१९॥
रौद्रः शोकभयाश्लेषाद्रौद्राभास इतीरितः ।
करुणो हास्यभूयिष्ठः करुणाभास उच्यते ॥२.५२०॥
बीभत्सोऽ द्भुतशृङ्गारी बीभत्साभास उच्यते ।
स स्याद्भयानकाभासो रौद्रवीरोपसङ्गमात् ॥२.५२१॥ इति ।

अत्र शृङ्गाररसस्य अरागादनेकरागात्तिर्यग्रागात्म्लेच्छरागाच्चेति चतुर्विधमाभासभूयस्त्वम् । तत्र अरागस्त्वेकत्र रागाभावः । तेन रसस्याभासत्वं, यथा
स रामो नः स्थाता न युधि पुरतो लक्ष्मणसखो
भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना ।
प्रयास्यत्येवोच्चैर्विपदमचिराद्वानरचमूर्
लघिष्ठेदं षष्ठाक्षरपरविलोपात्पठ पुनः ॥२.५२२॥ (ह.ना. १०.१२)

अत्र सीतायां रावणविषयरागात्यन्ताभावादाभासत्वम् ।

नन्वेकत्र रागाभावाद्रसस्याभासत्वं न युज्यते । प्रथममजातानुरागे वत्सराजे जातानुरागायाः रत्नावल्याः

दुल्लहजणाणुराओ लज्जा गुरुई परब्बसो अप्पा ।
पिअसहि विसमं पेम्मं मरणं सरणं नु वरमेक्कम् ॥२.५२३॥ (र.आ. २.१)

[दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा ।
प्रियसखि विषमं प्रेम मरणं शरणं नु वरमेकम् ॥]

इत्यत्र पूर्वानुरागस्याभासत्वप्रसङ्ग इति चेदुच्यते । अभावो हि त्रिविधः प्रागभावोऽ त्यन्ताभावः प्रध्वंसाभावश्चेति । तत्र प्रागभावे दर्शनादिकारणेषु सम्भावितेषु रागोत्पत्तिसम्भावनया नाभासत्वम् । इतरयोस्तु कारणसद्भावेऽ पि रागानुत्पत्तेराभासत्वमेव । अन्ये तु स्त्रिया एव रागाभावे रसस्याभासत्वं प्रतिजानते । न तदुपपद्यते । पुरुषेऽ पि रागाभावे रसस्यानास्वादनीयत्वात् । यथा

गते प्रेमावेशे प्रणयबहुमानेऽ पि गलिते
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्
न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥२.५२४॥ (अमरु ४३)

अत्र हृदयदलनाभावपूर्वगतदिवसोत्प्रेक्षाद्यनुमितैर्निर्वेदस्मृत्यादिभिरभिव्यक्तोऽ पि स्त्रिया अनुरागः प्रेमावेशश्लथनादिकथितेन पुरुषगतरागध्वंसनेन चारुतां नाप्नोति ।

पुरुषरागात्यन्ताभावेन रसाभासत्वं, यथा

ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं
पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि ।
मिथ्याकारुणिकोऽ सि निर्घूणतरस्त्वत्तः कुतोऽ न्यः पुमान्
सेर्ष्यं मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः ॥२.५२५॥ (नागा. १.१)

अत्र जिनस्य रागात्यन्ताभावेन रसाभासत्वम् ।

अनेकत्र योषितो रागाभासत्वं, यथा
परस्परेण क्षतयोः प्रहर्त्रोर्
उत्क्रान्तवाय्वोः समकालमेव ।
अमर्त्यभावेऽ पि कयोश्चिदासीद्
एकाप्सरःप्रार्थनयोर्विवादः ॥२.५२६॥ (र.वं. ७.५३)

अत्र कस्याश्चिद्दिव्यवनिताया वीरद्वये रणानिवृत्तिमरणप्राप्तदेवताभावे अनुरागस्य निरुपमानशूरगुणोपाधेरवैषम्येण प्रतिभासनादाभासत्वम् ।

अनेकत्र पुंसो रागाद्, यथा

रम्यं गायति मेनका कृतरुचिर्वीणास्वनैरुर्वशी
चित्रं वक्ति तिलोत्तमा परिचयं नानाङ्गहारक्रमे ।
आसां रूपमिदं तदुत्तममिति प्रेमानवस्था द्विषा
भेजे श्रीयनपोतसिंहनृपते त्वत्खड्गभिन्नात्मना ॥२.५२७॥

अत्र नायकखड्गधारागलितात्मनः कस्यचित्स्वर्गप्रतिनायकवीरस्य मेनकादिस्वर्लोकगणिकासु अवैषम्येण रागादाभासत्वम् ।

नन्वेवं दक्षिणादीनामपि रागस्याभासत्वमिति चेत्, न । दक्षिणस्य नायकस्य नायिकासु अनेकासु वृत्तिमात्रेणैव साधारण्यम् । न रागेण । तदेकस्यामेव रागस्य प्रौढत्वम् । इतरासु तु मध्यमत्वं मन्दत्वं चेति तदनुरागस्य नाभासता । अत्र तु अवैषम्येण अनेकत्र प्रवृत्तेराभासत्वमुपपद्यते ।

तिर्यग्रागाद्, यथा
मधु द्विरेफः कुसुमैकपात्रे
पपौ प्रियां स्वामनुवर्तमानः ।
शृङ्गेण च स्पर्शनिमीलिताक्षीं
मृगीमकण्डूयत कृष्णसारः ॥२.५२८॥ (कु.सं. ३.३६)

म्लेच्छरागाद्, यथा
अज्जं मोहणसुहिअं मुअत्ति मोत्तू पलाइए हलिए ।
दरफुडिअबेण्टभारोणआइ हसिअं ब फलहीए ॥२.५२९॥ (गाथा ४.६०)

[आर्यां मोहनसुखितां मृतेति मुक्त्वा पलायिते हलिके ।
दरस्फुटितवृन्तभारावनतया हसितमिव कार्पास्या ॥]

अत्र सुरतमोहनसुप्तिमरणदशयोर्विवेकाभावेन हालिकस्य म्लेच्छत्वं गम्यते ।

ननु तिर्यङ्म्लेच्छगतयोराभासत्वं न युज्यते । तयोर्विभावादिसम्भवात् । आस्वादयोग्यताप्रतीतेरिति चेत्, न । भो म्लेच्छरसवादिन् ! उक्तलाधिपतेः शृङ्गाररसाभिमानिनो नरसिंहदेवस्य चित्तमनुवर्तमानेन विद्याधरेण कविना बाढमभ्यन्तरीकृतोऽ सि । एवं खलु समर्थितमेकावल्यामनेन

अपरे तु रसाभासं तिर्यक्षु प्रचक्षते । तन्न परीक्षाक्षमम् । तेष्वपि विभावादिसम्भवात् । विभावादिज्ञानशून्यास्तिर्यञ्चो न भाजनं भवितुमर्हन्ति रसस्येति चेत्, न । मनुष्येष्वपि केषुचित्तथाभूतेषु रसविषयभावाभावप्रसङ्गात् । विभावादिसम्भवो हि रसं प्रति प्रयोजकः । न विभावादिज्ञानम् । ततश्च तिरश्चामप्यस्त्येव रसः इति । (एकावल्याम् १०६)

न तावत्तिरश्चां विभावतमुपपद्यते । शृङ्गारे हि समुज्ज्वलस्य शुचिनो दर्शनीयस्यैव वस्तुनो मुनिना विभावत्वेनाम्नातम् । तिरश्चमुद्वर्तनमज्जनाकल्परचनाद्यभावादुज्ज्वलशुचिदर्शनीयत्वानामसम्भावना प्रसिद्धैव ।

अथ स्वजातियोग्यैर्धर्मैः कारिणां करिणीं प्रति (ददौ सरः पङ्कज इत्यादि (कु.सं. ३.३७) पद्ये इव) विभावत्वमिति चेन्, न । तस्यां कक्ष्यायां करिणां करिणीरागं प्रति कारणत्वं न पुनर्विभावत्वम् ।

किं च, जातियोग्यैर्धर्मैर्वस्तुनो न विभावत्वम् । अपि तु भावकचित्तोल्लासहेतुभिः रतिविशिष्टैरेव ।

किं च, विभावादिज्ञानं नाम औचित्यविवेकः । तेन शून्यास्तिर्यञ्चो न विभावतामर्हन्ति ।

तर्हि विभावादिज्ञानरहितेषु मनुष्येषु रसाभासप्रसङ्ग इति चेत्, नैष दोषः । विवेकरहितजनोपलक्षणम्लेच्छगतस्य रसस्याभासत्वे स्वेष्टावाप्तेः ।

किं च विभावादिसम्भवो हि रसं प्रति प्रयोजको न विभावादिज्ञानमित्येतन्न युज्यते । तथा हिविभावादेर्विशिष्टस्य वस्तुमात्रस्य वा सम्भवो रसं प्रति प्रयोजकः । विशिष्टप्रयोजकत्वाङ्गीकारे विवेकादिप्रवेशोऽ ङ्गीकृत इति अस्मदनुसरणमेव शरणं गतोऽ सि ।

अत्र विवेकं विना तदितरविशेषवत्त्वं वैशिष्ट्यमिति चेन्, न । विशेषाणां धर्मिणि परमोत्कर्षानुसन्धानतत्पराणामन्योन्यसहिष्णूनामियत्तया नियमासम्भवात् ।

अथ यदि वस्तुमात्रस्य तर्हि अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् (र.वं. १.५६) इत्यादावपि स्त्रीपुंसव्यक्तिमात्रविभावसद्भावादन्वासनालक्षणानुभावसम्भवाच्च शृङ्गारः स्वदनीयः प्रसज्येत । किं च

अज्जं मोहणसुहिअं मुअत्ति मोत्तू पलाइए हलिए ।
दरफुडिअबेण्टभारोणआइ हसिअं ब फलहीए ॥[*१६]
[*१६] ५२९ सङ्ख्यकपद्यं द्रष्टव्यम् ।


इत्यादिषु स्त्रीपुंसव्यक्तिमात्रविभावसद्भावः स्फुट एव । तदविवेकजनितहास्यपङ्कनिर्मग्नं शृङ्गारगन्धगजमुद्धर्तुं त्वरतामित्यलं रसाभासापलापसंरम्भेण ।

ननु सीतादिविभावैर्वस्तुमात्रैरेव योषिन्मात्रप्रतीतौ सामाजिकानां रसोदयः । न पुनर्विशिष्टैः । तत्कथमिति चेद्, उच्यते । अत्र जनकतनयत्वरामपरिग्रहत्वादिविरुद्धधर्मपरिहारेण ललितोज्ज्वलशुचिदर्शनीयत्वादिविशिष्ट एव शब्दतः । (प्रतिपद्यमानो) सीतादिविभावो योषित्सामान्यं तादृशमेव ज्ञापयति । न पुनः स्त्रीजातिमात्रमिति सकलमपि कल्याणम् ।

हरिश्चन्द्रो रक्षाकरणरुचिसत्येषु वचसां
विलासे वागीशो महति नियमे नीतिनिगमे ।
विजेता गाङ्गेयं जनभरणसंमोहनकला
व्रतेषु श्रीसिंहक्षितिपतिरुदारो विहरते ॥२.५३०॥ २६७

नित्य श्रीयन्नपोतक्षितिपतिजनुषः सिंहभूपालमौलेः
सौन्दर्यं सुन्दरीणां हरिणविजयिनां वागुरा लोचनानाम् ।
दानं मन्दारचिन्तामणिसुरसुरभीगर्वनिर्वापणाङ्कं
विज्ञानं सर्वविद्यानिधिबुधपरिषच्छेमुषीभाग्यरेखा ॥२.५३१॥ २६८

इति श्रीमदान्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचिते रसार्णवसुधाकरनाम्नि नाट्यालङ्कारशास्त्रे रसिकोल्लासो नाम
द्वितीयो विलासः
॥२॥

तृतीयो विलासः - भावकोल्लासः

सम्पाद्यताम्

</poem>

स क्षेमदायी कमलानुकूलः कठोरपारावतकण्ठनीलः । कृपानिधिर्भव्यगुणाभिरामः परः पुमान् रजमहीध्रवासी ॥३.१॥ १

भवत्विति सम्बन्धः स्मरणीयः ।

तदीदृशरसाधारं नाट्यं रूपकमित्यपि । नटस्यातिप्रवीणस्य कर्मत्वान्नाट्यमुच्यते ॥३.२॥ २ यथा मुखादौ पद्मादेरारोपे रूपकप्रथा । तथैव नायकारोपो नटे रूपकमुच्यते । ३ तच्च नाट्यं दशविधं वाक्यार्थाभिनयात्मकम् ॥३.३॥ ४

तथा च भारतीये (१८.२३) नाटकं सप्रकरणमङ्को व्यायोग एव च । भाणः समवकारश्च वीथी प्रहसनं डिमः । ईहामृगश्च विज्ञेयो दशधा नाट्यलक्षणम् ॥।३.४॥

रसेतिवृत्तनेतारस्तत्तद्रूपकभेदकाः । ४ लक्षितौ रसनेतारावितिवृत्तं तु कथ्यते ॥३.५॥ इतिवृत्तकथावस्तुशब्दाः पर्यायवाचिनः । ५ इतिवृत्तं प्रबन्धस्य शरीरं त्रिविधं हि तत् ॥३.६॥ ख्यातं कल्प्यं च सङ्कीर्णं ख्यातं रामकथादिकम् । ६ कविबुद्धिकृतं कल्प्यं मालतीमाधवादिकम् ॥३.७॥ सङ्कीर्णमुभयायत्तं लवराघवचेष्टितम् । ७ लक्ष्येष्वेतत्तु बहुधा दिव्यमर्त्यादिभेदतः ॥३.८॥ तच्चेतिवृत्तं विद्वद्भिः पञ्चधा परिकीर्तितम् । ८ बीजं बिन्दुः पताका च प्रकरी कार्यमित्यपि ॥३.९॥

अथ बीजः यत्तु स्वल्पमुपक्षिप्तं बहुधा विस्तृतिं गतम् । ९ कार्यस्य कारणं प्राज्ञैस्तद्बीजमिति कथ्यते । उप्तं बीजं तरोर्यद्वदङ्कुरादिप्रभेदतः ॥३.१०॥ १० फलाय कल्पते तद्वन्नायकादिविभेदतः । फलायैतद्भवेद्यस्माद्बीजमित्यभिधीयते ॥३.११॥ ११

यथा बालरामायणे प्रथमद्वितीयाङ्कयोः कल्पिते मुखसन्धौ स्वल्पो रामोत्साहो बीजमित्युच्यते ।

अथ बिन्दुः फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः । विच्छिन्ने यदविच्छेदकारणं बिन्दुरुच्यते ॥३.१२॥ १२ जलबिन्दुर्यथा सिञ्चंस्तरुमूलं फलाय हि । तथैवायमुपक्षिप्तो बिन्दुरित्यभिधीयते ॥३.१३॥ १३

यथा तत्रैव [बालरामायणे] तृतीयचतुर्थाङ्कयोः कल्पिते प्रतिमुखसन्धौ निक्षिप्तो रावणविरोधमूलं सीतापरिग्रहो बिन्दुरुच्यते ।

अथ पताका यत्प्रधानोपकरणप्रसङ्गात्स्वार्थमृच्छति । सा स्यात्पताका सुग्रीवमकरन्दादिवृत्तवत् ॥३.१४॥ १४

अथ प्रकरी यत्केवलं परार्थस्य साधकं च प्रदेशभाक् । प्रकरी सा समुद्दिष्टा नववृन्दादिवृत्तवत् ॥३.१५॥ १५

पताकाप्रकरीव्यपदेशो भावप्रकाशिकाकारेणोक्तः, यथा

यथा पताका कस्यापि शोभाकृच्चिह्नरूपतः । स्वस्योपनायकादीनां वृत्तान्तस्तद्वदुच्यते ॥३.१६॥ शोभायै वेदिकादीनां यथा पुष्पाक्षतादयः । तथ र्तुवर्णनादिस्तु प्रसङ्गे प्रकरी भवेत् ॥३.१७॥ इति (भावप्रकाशे) ।

अथ पताकास्थानकानि अङ्गस्य च प्रधानस्य भाव्यवस्थस्य सूचकम् । यदागन्तुकभावेन पताकास्थानकं हि तत् ॥३.१८॥ १६ एतद्द्विधा तुल्यसंविधानं तुल्यविशेषणम् । तत्राद्यं त्रिप्रकारं स्याद्द्वितीयं त्वेकमेव हि ।१७ एवं चतुर्विधं ज्ञेयं पताकास्थानकं बुधैः ॥३.१९॥ १८

तथा च भरतः (१९.३१) सहसैवार्थसम्पत्तिर्गुणवत्युपचारतः । पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥३.२०॥ इति ।

यथा रत्नावल्याम् विदूषकः भोः ! एसा क्खु अबरा देबी बासबदत्ता । (भोः ! एषा खलु अपरा देवी वासवदत्ता ।)

राजा (सशङ्कं रत्नावलीहस्तं विसृजति ।)

इत्यत्र इयं वासवत्तेत्यनेनोपचारप्रयोगेण भाविनो वासवदत्ताकोपस्य सूचनात्सहसार्थसम्पत्तिरूपमिदमेकं पताकास्थानकम् ।

तथा च (१९.३२) वचः सातिशयं श्लिष्टं काव्यबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ॥३.२१॥ इति ।

यथा उत्तररामचरिते (१.३८) इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोर् असावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥३.२२॥

(प्रविश्य) प्रतीहारीदेव उपस्थितः ।

रामःये कः ? इत्यत्र भविष्यतः सीताविरहस्य सूचनादिदं श्लिष्टं नाम द्वितीयं पताकास्थानकम् ।

तथा च (१९.३३) अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ॥३.२३॥

यथा वेणीसंहारे (२.२३), राजा

लोलांशुकस्य पवनाकुलितांशुकान्तं त्वद्दृष्टिहारि मम लोचनबान्धवस्य । अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्तमेव करभोरु मओरुयुग्मम् ॥३.२४॥

(प्रविश्य सम्भ्रान्तः) कञ्चुकीदेव भग्नम् । देव भग्नम् !

राजाकेन ?

कञ्चुकीदेव भीमेन ।

राजाआः किं प्रलपसि ?

इत्यत्र श्लिष्टप्रत्युत्तरेण कञ्चुकिवाक्येन भाविनो दुर्योधनोरुभङ्गस्य सूचनेन श्लिष्टोत्तरं नाम तृतीयमिदं पताकास्थानकम् ।

तथा च (१९.३४) द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः । उपन्याससुयुक्तश्च तच्चतुर्थमुदाहृतम् ॥३.२५॥ इति ।

यथा उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणाद् आयासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥३.२६॥ (रत्नावल्यां २.४)

इत्यत्र विशेषणश्लेषेण भाविनो रत्नावलीसन्दर्शनस्य सूचनात्तुल्यविशेषणं नाम चतुर्थं पताकास्थानकमिदम् ।

अथ कार्यम् वस्तुनस्तु समस्तस्य धर्मकामार्थलक्षणम् । १८ फलं कार्यमिति शुद्धं मिश्रं वा कल्पयेत्सुधीः ॥३.२७॥ १९

शुद्धं, यथा मालतीमाधवे (१०.२३), कामन्दकी यत्प्रागेव मनोरथैर्वृतमभूत्कल्याणमायुष्मतोस् तत्पुण्यैर्मदुपक्रमैश्च फलितं क्लेशोऽ पि मच्छिष्ययोः । निष्णातश्च समागमोऽ भिविहितस्त्वत्प्रेयसः कान्तया सम्प्रीतौ नृपनन्दनौ यदपरं प्रेयस्तदप्युच्यताम् ॥३.२८॥

इत्यत्र काव्योपसंहारश्लोकेन तृतीयपुरुषार्थस्यैव फलकथनात्शुद्धं कार्यमिदम् ।

मिश्रं, यथा बालरामायणे (१०.१०४)

रुग्णं चाजगवं न चातिकुपितो भर्गः सुरग्रामणीः सेतुश्च ग्रथितः प्रसन्नमधुरो दृष्टश्च वारां निधिः । पौलस्त्यश्चरमस्थितश्च भगवान् प्रीतः श्रुतीनां कविः प्राप्तं यानमिदं च याचितवते दत्तं कुबेराय च ॥३.२९॥

इत्यनेनोपसंहारश्लोकेन मिश्रस्य त्रिवर्गफलस्य कथनान्मिश्रमिदम् ।

प्रधानमङ्गमिति च तद्वस्तु द्विविधं पुनः । १९ प्रधानं नेतृचरितं प्रधानफलबन्धि च ॥३.३०॥ काव्ये व्यापि प्रधानं तद्यथा रामादिचेष्टितम् । २० नायकार्थकृदङ्गं स्यान्नायकेतरचेष्टितम् ॥३.३१॥ नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् । २१ बीजत्वाद्बीजमादौ स्यात्फलत्वात्कार्यमन्ततः ॥३.३२॥ तयोः सन्धान् अहेतुत्वान्मध्ये बिन्दुं प्रकल्पयेत् । २२ यथायोगं पताकायाः प्रकर्याश्च नियोजनम् ॥३.३३॥

अथ कार्यस्य पञ्चावस्थाः कार्यस्य पञ्चधावस्था नायकादिक्रियावशात् । २३ आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः । तत्र मुख्यफलोद्योगमात्रमारम्भ इष्यते ॥३.३४॥ २४

यथा बालरामायणे मुखसन्धौ रामस्य लोकोत्तरोत्कर्षप्राप्तये व्यवसायमात्रमारम्भः ।

अथ यत्नः यत्नस्तु तत्फलप्राप्त्यामौत्सुक्येन तु वर्तनम् ॥३.३५॥ २५

यथा तत्रैव प्रतिमुखसन्धौ ताटकपातनभूतपतिधनुर्दलनादिषु रामस्य यत्नः ।

अथ प्राप्त्याशा प्राप्त्याशा तु महार्थस्य सिद्धिसद्भावभावना[*१७] ॥३.३६॥ २५ [*१७] सिद्धसद्भावना मता.


यथा तत्रैव गर्भसन्धौ मालवन्मायाप्रयोगवनप्रवाससीतापहरणादिभिरन्तरितायाः रामस्य परमोत्कर्षप्राप्तेर्धनुर्भङ्गादिसुग्रीवसन्धिसेतुबन्धनादिभिः सिद्धिसद्भावभावनाकथनात्प्राप्त्याशा ।

अथ नियताप्तिः नियताप्तिरविघ्नेन कार्यसंसिद्धिनिश्चयः ॥३.३७॥ २६

यथा तत्रैव [बालरामायणे] विमर्शसन्धौ निखिलरक्षःकुलनिबर्हणादविघ्नेन रामस्य फलसंसिद्धिनिश्चयो नियताप्तिः ।

अथ फलागमः समग्रेष्टफलावाप्तिर्भवेदेव फलागमः ॥३.३८॥ २६

यथा तत्रैव [बालरामायणे] निर्वहणसन्धौ रामस्य ताताज्ञानिर्बहणवैरप्रशमनराज्योपभोगैर्लोकोत्तरत्रिवर्गफलस्यावाप्तिः फलागमः ।

अथ सन्धिः एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया । योगः सन्धिरिति ज्ञेयो नाट्यविद्याविशारदैः ॥३.३९॥ २७ पताकायास्त्ववस्थानं क्वचिदस्ति न वा क्वचित् । पताकाविरहे बीजं बिन्दुं वा कल्पयेत्सुधीः ॥३.४०॥ २८ मुख्यप्रयोजनवशात्कथाङ्गानां समन्वये । अवान्तरार्थसम्बन्धः सन्धिः सन्धानरूपतः ॥३.४१॥ २९

(तत्र पञ्चसन्धयो भवन्ति) मुखप्रतिमुखे गर्भविमर्शावुपसंहृतिः । पञ्चैते सन्धयः

(मुखसन्धिस्तदङ्गानि चेत्थम्) तेषु यत्र बीजसमुद्भवः ॥३.४२॥ ३० नानाविधानामर्थानां रसानामपि कारणम् । तन्मुखं तत्र चाङ्गानि बीजारम्भानुरोधतः ॥३.४३॥ ३१ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना । ३२ उद्भेदभेदौ करणमिति द्वादश योजयेत् ॥३.४४॥ ३३

तत्रोपक्षेपः उपक्षेपस्तु बीजस्य सूचना कथ्यते बुधैः ॥३.४५॥ ३३

यथा बालरामायणे प्रतिज्ञातपौलस्त्यनामनि प्रथएऽ ङ्के

(ततः प्रविशति विश्व ामित्रशिष्यः) शुनःशेपःप्रातःसवन एव यजमानं द्रष्टुमिच्छामिइत्युपक्रम्य… राक्षसरक्षौषधं राममानेतुं सिद्धाश्रमादयोध्यां गतवता तातविश्वामित्रेण यज्ञोपनिमन्त्रितस्य परमसुहृदः श्रोत्रियक्षत्रियस्य सीरध्वजस्य स्वप्रतिनिधिः प्रेषितोऽ स्मि इत्यन्तेन (१.२३ पद्यात्पूर्वम्] रावणादिदुष्टराक्षसशिक्षालक्षणरामोत्साहोपबृंहकविश्वामित्रारम्भरूपस्य बीजस्य सूचनादुपक्षेपः ।

अथ परिकरः परिक्रिया तु बीजस्य बहुलीकरणं मतम् ॥३.४६॥ ३४

यथा तत्रैव [बालरामायणे] (प्रविश्य तापसच्छमना) राक्षसः

सम्प्रेषितो माल्यवतामहमद्य ज्ञातुं प्रवृत्तिं कुशिकात्मजस्य । पुरीं निमीनां मिथिलां च गन्तुं तां चाप्ययोध्यां रघुराजधानीम् ॥३.४७॥ (१.२३)

कुलपुत्रकेति सप्रसामदाश्लिष्टोऽ स्मि इत्युपक्रम्य… स हि नक्तंचराणां निसर्गामित्रो विश्वामित्रो व्रतचर्यया, वीरव्रतचर्यया समर्थो दशरथोऽ पि तथाविध एव एव (१.२५ पद्यादनन्तरं] इत्यन्तेन विश्वामित्रारम्भस्य माल्यवदादिवितर्कगोचरत्वेन बहुलीकरणात्परिकरः ।

अथ परिन्यासः बीजनिष्पत्तिकथनं परिन्यास इतीर्यते ॥३.४८॥ ३४

यथा तत्रैव [बालरामायणे] राक्षसः (पुरोऽ वलोक्य)कथं तापसः । (प्रत्यभिज्ञाय) तत्रापि विश्वामित्रधर्मपुत्रः शुनःशेपः इत्युपक्रम्य… सम्प्रत्येव राक्षसभयात्सत्रे दीक्षिष्यमाणः स भगवान् गोप्तारं रामभद्रं वरीतुमयोध्यां गतः । राक्षसः (सत्रासं स्वगतम्)हन्त कथमेतदपि निष्पन्नम् । (प्रकाशम्) भगवन्मा कोपीः इत्यादिना (स्वगतम्) कृतं यत्कर्तव्यम् । सम्प्रति चारसञ्चारस्यायमवसरः (१.२७ पद्यादनन्तरम्] इत्यन्तेन विश्वामित्रानुभावकथनात्सराक्षत्रासकथनाच्च बीजनिष्पत्तेः परिन्यासः ।

अथ विलोभनम् नायकादिगुणानां यद्वर्णनं तद्विलोभनम् ॥३.४९॥ ३५

यथा तत्रैव [बालरामायणे] रावणः

यस्यारोपणकर्मणापि बहवो वीरव्रतं त्याजिताः ॥३.५०॥

इत्युपक्रम्य, रावणः (सप्रत्याशम्)

निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी कान्तिः प्रावरणं तनोर्मधुमुचो यस्याश्च वाचः किल । विंशत्या रचिताञ्जलिः करपुटैस्त्वां याचते रावणस् तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु ॥३.५१॥ (१.४०)

इत्यन्तेन तद्गुणवर्णनाद्विलोभनम् ।

अथ युक्तिः सम्यक्प्रयोजनानां हि निर्णयो युक्तिरिष्यते ॥३.५२॥ ३५

यथा तत्रैव [बालरामायणे] परशुरामरावणीयनामनि द्वितीयाङ्के

(ततः प्रविशति) भृङ्गिरिटिः (परिक्रामन्नात्मानं निर्वर्ण्य)अये निरूपतापि क्वचिन्महतेऽ भुयदयाय इत्युपक्रम्य, भृङ्गिरिटिःाम्, नारद यथा समर्थयसे । तथा हि

एकं कैलासमद्रिं करगतमकरोच्चिच्छदे क्रौञ्चमन्यो लङ्कामेकः कुबेरादहृत वसतये कोङ्कणानब्धितोऽ न्यः । एकः शक्रस्य जेता समिति भगवतः कार्तिकेयस्य चान्यस् तत्कामं कर्मसाम्यात्किमपरमनयोर्मध्यगा वीरलक्ष्मीः ॥३.५३॥ (२.१५)

इत्यन्तेन राघवप्रतिनायकयोर्भार्गवरावणयोः कर्मसाम्यनिर्णयकथनाद्युक्तिः ।

अथ प्राप्तिः प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिरित्यभिधीयते ॥३.५४॥ ३६

यथा तत्रैव [बालरामायणे] नारदः (सहर्षं हस्तमुद्यम्य)

चित्रं नेत्ररसायनं त्रिदशतासिद्धेर्महामङ्गलं मोक्षद्वारमपावृतं मम मनःप्रह्लादनाभेषजम् । साकं नाकपुरन्धिर्भिर्नवपतिप्राप्त्युत्सुकाभिः सुराः सर्वे पश्यत रामरावणरणं वक्त्येष वो नारदः ॥३.५५॥ (२.१६)

इत्यत्र नारदस्य युद्धावलोकनहर्षप्राप्तेः प्राप्तिः ।

अथ समाधानं बीजस्य पुनराधानं समाधानमिहोच्यते ॥३.५६॥ ३६

यथा तत्रैव [बालरामायणे] भृङ्गिरिटिःयुद्धरुचे मा निर्भरं संरम्भस्व । इत्युपक्रम्य । अयोध्यां गत्वा परं रामरावणीयं योजयिष्यामि (२.१६ पद्यादनन्तरम्] इत्यन्तेन राघवोत्साहबीजस्य नारदेन पुनराधानात्समाधानम् ।

अथ विधानं सुखदुःखकरं यत्तु तद्विधानं बुधा विदुः ॥३.५७॥ ३७

यथा तत्रैव [बालरामायणे] प्रथमाङ्के, सीता (ससाध्वसौत्सुक्यम्)अम्मो रक्खसो त्ति सुणिअ सच्चं सज्झसकोदहलाणं मज्झे बट्टामि । (अंहो राक्षस इति श्रुत्वा सत्यं साध्वसकौतूहलयोरन्तरे वर्ते ।) इत्युपक्रम्य सीतातादसदानंदमिस्साणं अन्तरे उबबिसिस्सं (तातशतानन्दमिश्राणामन्तरे उपवेक्ष्यामि) । (१.४२ पद्यात्पूर्वम्] इत्यन्तेन सीतायाः अदृष्टपूर्वराक्षसदर्शनेन सुखदुःखव्यतिकराख्यानाद्विधानम् ।

अथ परिभावना श्लाघ्यैश्चित्तचमत्कारो गुणाद्यैः परिभावना ॥३.५८॥ ३७

यथा तत्रैव [बालरामायणे], रावणः (सौत्सुक्यं विलोक्य स्वगतम्)अहो त्रिभुवनातिशायि मकरध्वजसञ्जीवनं रामणीयकमस्याः । तथा हि

इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा । पारुष्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥३.५९॥ (१.४२)

इत्युपक्रम्य, शतानन्दः (अपवर्य)अहो लङ्काधिपतेरपूर्वगर्वगरिमा । यन्ममापि शतानन्दस्य न निश्चिनुते चेतः । किं भविष्यति (१.४६ पद्यादनन्तरम्] इत्यन्तेन रावणस्य सीतारामणीयकदर्शनेन शतानन्दस्य रावणोत्साहदर्शनेन च तयोश्चित्तचमत्कारकथनात्परिभावना ।

अथोद्भेदः उद्घातनं यद्बीजस्य स उद्भेदः प्रकीर्तितः ॥३.६०॥ ३८

यथा तत्रैव [बालरामायणे] द्वितीयाङ्के, रावणःत्रैयाम्बकः परशुरेष निसर्गचण्ड (२.३६) इत्यादि पठति । जामदग्न्यःपकुर्वतापि भवता परमुपकृतम् । यदेष स्मारितोऽ स्मीत्युपक्रम्य (२.४४ पद्यात्पूर्वम्]

लोकोत्तरं चरितमर्पयति प्रतिष्ठां पुंसां कुलं न हि निमित्तमुदारतायाः । वातापितापनमुनेः कलशात्प्रसूतिर् लीलायितं पुनरमुष्य समुद्रपानम् ॥३.६१॥ (२.५१)

इत्यन्तेन गूढशङ्करधनुरधिक्षेपोद्घाटनाद्वा लोकोत्तरचरितसामान्यवर्णनेन तिरोहितरामचन्द्रोत्साहोद्घाटनाद्वा उद्भेदः ।

अथ भेदः बीजस्योत्तेजनं भेदो यद्वा सङ्घातभेदनम् ॥३.६२॥ ३८

यथा तत्रैव [बालरामायणे] रावणः (विलोक्य)अथ याचितपरशुना परशुरामेण किमभिहितमासीत् ।

मायामयःत्रैलोक्यमाणिक्य रामोदन्तमाकर्णयतु स्वामी ।

पौलस्त्यः प्रणयेन याचत इति श्र्तुवा मनो मोदते देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति । तद्वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही तुभ्यं ब्रूहि रसातलत्रिदिवयोर्निर्जित्य किं दीयताम् ॥३.६३॥ (२.२०)

रावणःकदा नु खलु परशुरामो रसातलत्रिदिवयोर्जेता दाता च संवृत्तः । रावणः पुनः प्रतिग्रहीता च । ततस्त्वया किमसौ प्रत्युक्तः । इत्युपक्रम्य

मायामयःदेव प्रकृतिरोषणो रेणुकापुत्रः । तत्तमेवागतमहमुत्प्रेक्षे ।

रावणःप्रियं नः (२.२४ पद्यात्पूर्वम्] इत्यन्तेन प्रतिनायकरूपभार्गवरावणयोरुत्तेजनाद्भेदः ।

अथ करणम् प्रस्तुतार्थसमारम्भं करणं परिचक्षते ॥३.६४॥ ३९

यथा तत्रैव [बालरामायणे] (२.२५ पद्यादनन्तरम्] उभावपि चापारोपणं नाटयतः इत्युपक्रम्य आ अङ्कपरिसमाप्तेः जामदग्न्यरावणयोः प्रस्तुतयुद्धारम्भकथनात्करणम् ।

अथ प्रतिमुखसन्धिः बीजप्रकाशनं यत्र दृश्यादृश्यतया भवेत् । ३९ तत्स्यात्प्रतिमुखं बिन्दोः प्रयत्नस्यानुरोधतः ॥३.६५॥ इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः । ४० विलासपरिसर्पौ च विधुतं शमनर्मणी ॥३.६६॥ नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् । ४१ पुष्पं वज्रमुपन्यासो वर्णसङ्ग्रहनं तथा ॥३.६७॥

तत्र विलासः विलासः सङ्गमार्थस्तु व्यापारः परिकीर्तितः ॥३.६८॥ ४२

यथा तत्रैव [बालरामायणे] विलक्षलङ्केश्वरनामनि तृतीयाङ्के (३.२१ पद्यात्पूर्वम्] रामःये इयमसौ सा सीता, यस्याः स्वयं वसुमती माता यागभूर्जन्ममन्दिरं इन्दुशेखरकार्मुकारोपणं च पणः । (सस्पृहं निर्वर्ण्य) इत्यारभ्य, प्रतीहारः

एतेनोच्चैर्विहसितमसौ काकलीगर्भकण्ठो लौल्याच्चक्षुः प्रहितममुना साङ्गभङ्गः स्थितोऽ यम् । हारस्याग्रं कलयति करेणैष हर्षाच्च किंचित् स्त्रैणः पुंसां नवपरिगमः काममुन्मादहेतुः ॥३.६९॥ (३.२६)

इत्यन्तेन रामादीनां सीतालम्बनाभिलाषकथनाद्विलासः ।

अथ परिसर्पः पूर्वदृष्टस्य बीजस्य त्वङ्कच्छेदादिना तथा । नष्टस्यानुस्मृतिः शश्वत्परिसर्प इति स्मृतः ॥३.७०॥ ४३

यथा तत्रैव [बालरामायणे] प्रतीहारः (स्वगतम्)कथमेते क्षत्रियजनसमुचितेऽ पि चापारोपणकर्मणि निखिलाः क्षत्रियाः वितथसामर्थ्याः वर्तन्ते । तदेष परमनाकलितसारो विकर्तनकुलकुमार आस्ते । यद्वा, किमनेनापि

यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः । करोतु तत्र किं नाम नारीनखविडम्बनम् ॥३.७१॥ (३.६६)

(विचिन्त्य) भवतु । तथापि सङ्कीर्तयाम्येनम् । अनाकलितसारो हि वीरप्रकाण्डसम्भूतिः इत्युपक्रम्य ।

हेमप्रभासंपण्णं च पिअसहीए पाणिग्गहणम् (३.७९ पद्यादनन्तरम्] (सम्पन्नं च प्रियसख्या पाणिग्रहणम्) इत्यन्तेन पूर्वं ताटकादिवधदृष्टस्य पश्चान्निखिलक्षत्रियदुरारोपधूर्जटिचापारोपणप्रभाववर्णनाद्नष्टस्य रामभद्रोत्साहस्य तद्धनुर्भङ्गक्रियारूपेण स्मरणात्परिसर्पः ।

अथ विधुतम् नायकादेरीप्सितानामर्थानामनवाप्तितः । अरतिर्यद्भवेद्तद्धि विद्वद्भिर्विधुतं मतम् । ४४ अथवानुनयोत्कर्षं विधुतं स्यान्निराकृतिः ॥३.७२॥ ४५ यथा तत्रैव [बालरामायणे] भार्गवभङ्गनामनि चतुर्थेऽ ङ्के, शतानन्दः

यस्यास्ते जननी स्वयं क्षितिरयं योगीश्वरस्ते पिता ॥३.७३॥ (४.४२)

इत्यारभ्य, रामः (विचिन्त्य स्वगतम्)रुदत्यपि कमनीया जानकीइत्यन्तेन (४.४७ पद्यादनन्तरं] सीतायाः बन्धुविरहजनितारतिकथनाद्विधुतम् । अथ वा मतान्तरेण तत्रैव, रामः (समुपसृत्य)भगवन् भार्गव सदयं प्रसीद इत्यारभ्य, जामदग्न्यःनाभिवादनप्रसाद्यो रेणुकासूनुः (४.५८ पद्यात्पूर्वम्] इत्यत्र रामानुनयस्य भार्गवेणास्वीकाराद्विधूतम् ।

अथ शमः अरतेः शमनं तज्ज्ञाः शममाहुर्मनीषिणः ॥३.७४॥ ४५

यथा तत्रैव [बालरामायणे] (४.५७ पद्यात्पूर्वं) हेमप्रभाजुज्जै पफुल्लकोदूहलत्तणम् । परसुरामदंसणेण उण ससज्झसत्तणं भग्गधनद्दण्डचण्डचरितस्स पुरदो रामचंदस्स । (युज्यते प्रफुल्लकौतूहलत्वं परशुरामदंशनेन पुनः ससाध्वसत्वं भग्नधनुर्दण्डचण्डचरितस्य पुरतो रामचन्द्रस्य) इत्यत्र रामचन्द्रपराक्रमकथनात्सीतायाः अरतिशमनात्शमः ।

अथ नर्म परिहासप्रधानं यद्वचनं नर्म तद्विदुः ॥३.७५॥ ४६

यथा तत्रैव [बालरामायणे] तृतीयेऽ ङ्के, रामः (सकण्ठरोधम्)

वाचा कार्मुकमस्य कौशिकपतेरारोपणायार्पितं मद्दोर्दण्डहठाञ्चनेन तदिदं भग्नं कृतन्यक्कृति । नो जाने जनकस्तदत्र भगवान् व्रीडावशादुत्तरं निक्षेप्त्रे नतकन्धरो भगवते रुद्राय किं दास्यति ॥३.७६॥ (३.७१)

इत्यत्र जनकाधिपापलापेन हासप्रधानं नर्म ।

अथ नर्मद्युतिः कोपस्यापह्नवार्थं यद्धास्यं नर्मद्युतिर्मता ॥३.७७॥ ४६

यथा तत्रैव [बालरामायणे] चतुर्थाङ्के विश्वामित्रो जामदग्न्यं प्रति

रामः शिष्यो भृगुभव भवान् भागिनेयीसुतो मे वामे बाहावुत तदितरे कार्यतः को विशेषः । दिव्यास्त्राणां तव पशुपतेरस्य लाभस्तु मत्तस् तत्त्वां याचे विरम कलहादार्यकर्मारभस्व ॥३.७८॥ (४.६९)

जामदग्न्यः (विहस्य) मातुर्मातुल न किंचिदन्तरं भवतो भवानीवल्लभस्य च । (इत्युपक्रम्य)

रामः (विहस्य) जामदग्न्य ! एकः पुनरयं शस्त्रग्रहणाधिकारो यद्गुरुष्वपि तिरस्कारः (तत्रैव किञ्चित्परस्तात्) इत्यन्तेन भार्गवराघवयोः पूज्यविषयक्रोधापह्नवार्थं हास्यकथनान्नर्मद्युतिः ।

अथ प्रगमणम् तत्तु प्रगमनं यत्स्यादुत्तरोत्तरभाषणम् ॥३.७९॥ ४७

यथा तत्रैव [बालरामायणे], रामः

किं पुनरिमाः सर्वङ्कषा रोषवाचः । सर्वत्यागी परिणतवयाः सप्तमः पद्मयोनेः ॥३.८०॥ (४.७१)

इति श्लोकान्ते जामदग्न्यः तत्किम् ?

रामः (सखेदम्) यस्याचार्यकमिन्दुमौलिरकरोत्सब्रह्मचारी चिरं जातो यत्र गुहश्चकार च भुवं यद्गीतवीरव्रताम् । तत्कोदण्डरहस्यमद्य भगवन् द्रष्टैष रामः स ते हेलोज्जृम्भितजृम्भकेण धनुषा क्षत्रं च नालं वयम् ॥३.८१॥ (४.७२)

जामदग्न्यः साधु रे क्षत्रियडिम्भ, साधु । इत्यन्तेन भार्गवराघवयोरुक्तिप्रत्युक्तिकथनात्प्रगमनम् ।

अथ निरोधः यत्र व्यसनमायाति निरोधः स निगद्यते ॥३.८२॥ ४७

यथा तत्रैव [बालरामायणे] जामदग्न्यः

पक्वकर्पूरनिष्पेषमयं निरपिषत्त्रयम् । मम व्रीडां च चण्डीशचापं च स्वं च जीवितम् ॥३.८३॥ (४.६५)

जनकःकथं सन्न्यस्तशस्त्रस्यापि पुनरस्त्रग्रहणक्षणो वर्तते इत्युपक्रम्य,

प्रहिणु तदिह बाणान् वार्धकं मां दुनोति ॥३.८४॥ (४.६७)

दशरथःभोः सम्बन्धिन् कृतं कार्मुकपरिग्रहव्यसनेनैत्यन्तेन जनकस्य भार्गवनिमित्तस्य जरानिमित्तस्य वा व्यसनस्य कथनाद्निरोधः ।

अथ पर्युपासनम् रुष्टस्यानुनयो यः स्यात्पर्युपासनमीरितम् ॥३.८५॥ ४८

यथा तत्रैव [बालरामायणे] विश्वामित्रः (जामदग्न्यं प्रति)

रामः शिष्यो भृगुसुत भवान् भागिनेयीसुतो मे ॥३.८६॥ (४.६९)

इत्यत्र श्लोके रोषान्धस्य भार्गवस्यानुनयो विश्वामित्रेण कृत इति पर्युपासनम् ।

अथ पुष्पम् सविशेषाभिधानं यत्पुष्पं तदिति संज्ञितम् ॥३.८७॥ ४८

यथा तत्रैव [बालरामायणे] तृतीयाङ्के (प्रविश्य) कोहलः

कर्पूर इव दग्धोऽ पि शक्तिमान् यो जने जने ॥३.८८॥ [बा.रा. ३.११] इत्युपक्रम्य,

प्रकटितरामाम्भोजः कौशिकवा सपदि लक्ष्मणानन्दी । सुरचापनमनहेतोरयमवतीर्णः शरत्समयः ॥३.८९॥ [बा.रा. ३.१६]

इत्यन्ते रामचन्द्रलक्षणार्थविशेषाभिधानात्पुष्पम् ।

अथ वज्रम् वज्रं तदिति विज्ञेयं साक्षान्निष्ठुरभाषणम् ॥३.९०॥ ४९

यथा तत्रैव [बालरामायणे] चतुर्थाङ्के, जामदग्न्यःनिदर्शितलाघव राघव तदाकर्णय यत्ते करोमि

त्रुटितनिविडनाडीचक्रवालप्रणाली प्रसृतरुधिरधाराचर्चितोच्चण्डरुण्डम् । मडमडितमृडानीकान्तचापस्य भङ्क्तुः परशुरमरवन्द्यः खण्डयत्यद्य मुण्डम् ॥३.९१॥ [बा.रा. ४.६१]

इत्युपक्रम्य, यः प्रेतनाथस्यातिथ्यमनुभवितुकाम इत्यन्तेन वज्रनिष्ठुरभाषणाद्वज्रम् ।

अथोपन्यासः युक्तिभिः सहितो योऽ र्थः उपन्यासः स इष्यते ॥३.९२॥ ४९

यथा तत्रैव [बालरामायणे] मातलिःयं हि पितृभक्त्यतिशयः परशुरामस्य यदुत रेणुकाशिरश्छेदः [४.२९ पद्यादनन्तरम्] इत्युपक्रम्य

यद्वा ते गुरवोऽ विचिन्त्यचरितास्तेभ्योऽ यमस्त्वञ्जलिः ॥३.९३॥ [बा.रा. ४.३३]

इत्यन्तेन उपपत्तिभिः पितुर्निदेशकरणादपि मातृवधकरणस्यैव प्रतिपादनाद्वा गुरूणामविचिन्त्यचरितत्वोपन्यासेन सर्वोपपन्नत्वप्रतिपादनाद्वा उपन्यासः ।

अथ वर्णसंहारः सर्ववर्णोपगमनं वर्णसंहार उच्यते ॥३.९४॥ ५० यथा तत्रैव [बालरामायणे] जामदग्न्यः (कर्णं दत्त्वा आकाशे)किं ब्रूथ ? केन न वर्णितं दाशरथेः शङ्करकार्मुकारोपणम् ? को न विस्मितस्तद्भङ्गेन ? (साक्षेपम्) (केन न वर्णितमित्यादि पठति) शृणुत भोः ।

यः कर्ता हरचापदण्डदलने यश्चानुमन्ता ननु द्रष्टा यश्च परीक्षिता च य इह स्तोता च वक्ता च यः ॥३.९५॥ [बा.रा. ४.५६]

इत्युपक्रम्य रामो राममयं स्वयं गुहसहाध्यायी समन्विष्यति ॥३.९६॥ [बा.रा. ४.५७]

इत्यन्तेन हरचापदलनस्य निषिद्धया कर्तृतया अनुमन्तृतया स्तोतृतया च राघवविश्वामित्रपीरादिपरामर्शेन ब्राह्मणक्षत्रियादिवर्णानां सङ्ग्रहणाद्वर्णसंहारः ।

अथ गर्भसन्धिः दृष्टादृष्टस्य बीजस्य गर्भस्त्वन्वेषणं मुहुः । ५० अत्राप्याचापताकानुरोधादङ्गानि कल्पयेत् ॥३.९७॥ अभूताहरणं मार्गो रूपोदाहरणे क्रमः । ५१ सङ्ग्रहश्चानुमानं च तोटकाधिबले तथा । उद्वेगः सम्भ्रमाक्सेपौ द्वादशैषां तु लक्षणम् ॥३.९८॥ ५२

तत्राभूताहरणम् अभूताहरणं तत्स्याद्वाक्यं यत्कपटाश्रयम् ॥३.९९॥ ५३

यया तत्रैव [बालरामायणे] उन्मत्तदशानननामनि पञ्चमाङ्के माल्यवान् (हसित्वा)वृद्धबुद्धिर्हि प्रथमं पश्यति चरमं कार्यम् । यन्मया धूर्जटिधनुरधिक्षेपतः प्रभृति मतिचक्षुषा दृष्टमेव यदुत दशकन्धरोऽ नुसन्धास्यति सीताहरणम् ।

मायामयः ततस्ततः ?

माल्यवान् ततश्च मया मन्दोदरीपितुर्मायागुरोर्मयस्य प्रथमशिष्यो विशारदनामा यन्त्रकारः सबहुमानं नियुक्तः सीताप्रतिकृतिकरणाय । विरचिता च सा रावणोपच्छन्दनार्थम् । अभिहितं च

सूत्रधारचलद्दारुगात्रेयं यन्त्रजानकी । वक्त्रस्थशारिकालाप लङ्केन्द्रं वञ्चयिष्यति ॥३.१००॥ [बा.रा. ५.५]

इत्युपक्रम्य, रावणः (पुनर्निरूप्य शारिकाधिष्ठितवक्त्रं सीताप्रतिकृतियन्त्रं) अहो मतिमान्मायामयः । छालितोऽ सि जनकराजपुत्र्याः प्रतिकृतिसमर्पणेन (५.२० पद्यादनन्तरम्] इत्यन्तेन माल्यवत्कपटवाक्यसंविधानादभूताहरणम् ।

अथ मार्गः मार्गस्तत्त्वार्थकथनम् ॥३.१०१॥ ५३

यथा तत्रैव [बालरामायणे] निर्दोषदशरथनामनि षष्ठाङ्के मायामयःार्य किमपि द्विषतामप्यावर्जकमुदात्तजनचरितम् । पश्य

क्रूरक्रमा किमपि राक्षसजातिरेका तत्रापि कार्यपरतेति मयि प्रकर्षः । रामेण तु प्रवसता पितुराज्ञयैव बाष्पाम्भसामहमपीह कृतो रसज्ञः ॥३.१०२॥ [बा.रा. ६.९]

इत्युपक्रम्य, मायामयःततश्च वामदेवप्रभृतिभिर्मन्त्रिभिर्यथावृत्तमभिधाय सपादोपग्रहं निवारितोऽ पि तदिदमभिधाय प्रस्थितः

मया मूर्ध्नि प्रह्वे पितुरिति धृतं शासनमिदं स यक्षो रक्षो वा भवतु भगवान् वा रघुपतिः । निवर्तिष्ये सोऽ हं भरतकृतरक्षां रघुपुरीं समाः सम्यङ्नीत्वा वनभुवि चतस्रश्च दश च ॥३.१०३॥ [बा.रा. ६.११]

इत्यन्तेन रामप्रवासविषयस्य मायमयदुःखस्य सत्यस्यैव व्यक्तत्वाद्वा मायामयादेः कपटत्वज्ञानेऽ पि रामचन्द्रेण सत्यतयाङ्गीकाराद्वा मार्गः ।

अथ रूपम् रूपं सन्देहकृद्वचः ॥३.१०४॥ ५३

यथा तत्रैव [बालरामायणे] षष्ठाङ्के कैकेयी (सोद्वेगम्)पणमामि भअवदिं सरऊं जा पुब्बं दीसमाणा णयणपीऊसगण्डूसकबलं करेंति असि । सा संपदं हालाहलकबडपडिरूबा पडिहाअदि । किं पुण मे अओज्झादंसणे बि अकारणपज्जाउलं हिअअम् । [प्रणमामि भगवतीं सरयूं या पूर्वं दृश्यमाना नयणपीयूषगण्डूषकवलं कुर्वती आसीत्, सा सम्प्रतं हालाहलकवलप्रतिरूपा प्रतिभाति । किं पुनर्मे अयोध्यादर्शनेऽ पि अकारणपर्याकुलं हृदयम् ।]

इत्युपक्रम्य, दशरथः (अकर्णितकेन)

एतच्छ्रान्तविचित्रचत्वरपथं विश्रान्तवैतालिक श्लाघाश्लोकमगुञ्जिमञ्जुमुरजं विध्वस्तगीतध्वनि । व्यावृत्ताध्ययनं निवृत्तसुकविक्रीडासमस्यं नमद् विद्वद्वद्वादकथं कथं पुरमिदं मौनव्रते वर्तते ॥३.१०५॥ [बा.रा. ६.१२]

इत्यन्तेन कैकेयीदशरथयोरयोध्याविषयविषादवितर्कविन्यासाद्रूपम् ।

अथोदाहरणम् सोत्कर्षवचनं यत्तु तदुदाहरणं मतम् ॥३.१०६॥ ५४

यथा तत्रैव [बालरामायणे] असमपराक्रमनामनि सप्तमाङ्के विभीषणःसखे सुग्रीव ! अतिशशाङ्कशेखरमिदमाचेष्टितं रामदेवस्य यदनेन

निर्वाणं जलपानपीडनबलैर्यस्मिन् युगान्तानलैर् यस्याभाति कुकूलमुर्मुरमृदुः क्रोडे शिखी बाडवः । तस्याप्यस्य कृशानुसङ्क्रमकृतज्योतिःशिखण्डैः शरैर् दत्तश्चण्डदवाग्निअम्बरविधिर्देवस्य वारांनिधेः ॥३.१०७॥ (७.३२)

इत्युपक्रम्य, समुद्रःतर्हि बालनारायणं राममेवोपसर्पामः । न हि राकामृगाङ्कमन्तरेण चन्द्रमणेरानन्दजलनिष्यन्दः (७.३६ पद्याद्पूर्वम्] इत्यन्तेन समुद्रक्षोभकरामचन्द्रोत्साहोत्कर्षकथनादुदाहरणम् ।

अथ क्रमः भावज्ञानं क्रमो यद्वा चिन्त्यमानार्थसङ्गतिः ॥३.१०८॥ ५४

यथा तत्रैव [बालरामायणे] षष्ठाङ्के [६.४ पद्यादनन्तरम्] माल्यवान् (स्मृतिनाटिकेन)न जाने किं हि वृत्तं कैकेयीदशरथयोः ।

(उपसर्पितकेन) मायमयःजयत्वार्यः ।

शूर्पणखाजेदु जेदु कणिट्ठमादामहो । [जयतु जयतु कनिष्ठमातामहः ।]

माल्यवानथ किं वृत्तं तत्र ?

मायमयःयथादिष्टमार्येण । इत्युपक्रम्य ।

माल्यवान् (सहर्षम्)तर्हि विस्तरतः कथ्यताम् ।

इत्यन्तेन माल्यवच्चिन्तासमकालमेव शूर्पणखामायामययोरुपगमनाद्वा माल्यवतो विलम्बासहाभिप्रायपरिज्ञानवता मायामयेन निष्पन्नस्य कार्यस्य सङ्क्षेपकथनाद्वा क्रमः ।

अथ सङ्ग्रहः सङ्ग्रहः सामदानार्थसंयोगः परिकीर्तितः ॥३.१०९॥ ५५

यथा तत्रैव [बालरामायणे] सप्तमाङ्के, समुद्रः (साभ्यर्थनम्)

इन्दुर्लक्ष्मीरमृतमदिरे कौस्तुभः पारिजातः स्वर्मातङ्गः सुरयुवतयो देव धन्वन्तरिश्च । मन्थाम्रेडैः स्मरसि तदिदं पूर्वमेव त्वयात्त सम्प्रत्यब्धिः शृणु जलधनस्त्वां प्रपन्नः प्रशाधि ॥३.११०॥ [बा.रा. ७.३६]

रामः (सगौरवम्)भगवन् रत्नाकर ! नमस्ते । इत्युपक्रम्य,

समुद्रःयथा सप्तमो वैकुण्ठावतारः [७.४४ पद्यात्पूर्वम्] इत्यन्तेन समुद्ररामचन्द्रयोः परस्परप्रियवचनसङ्ग्रहणात्सङ्ग्रहः ।

अथ अनुमानम् अर्थस्याभ्यूहनं लिङ्गादनुमानं प्रचक्षते ॥३.१११॥ ५५

यथा तत्रैव [बालरामायणे, ७.२१ पद्यात्पूर्वम्] प्रतीहारी (समन्तादवलोक्य)कथमयमन्यादृश इव लक्ष्यतेऽ म्बुराशिः ।

वन्दी (यथोपलक्षितमार्गेण सचमत्कारं पुरोऽ वलोक्य)पश्य । विलीयमानजलमानुषमिथुनमत्यर्थकदर्थ्यमानशङ्खिनीयूथमित्युपक्रम्य,

प्रतीहारी आं ज्ञातं धाम्नि वारां रघुपतिर् विशिखाः प्रज्वलन्तः पतन्ति ॥३.११२॥ [बा.रा. ७.३०]

इत्यन्तेन समुद्रक्षोभलिङ्गानुमितरामोत्साहार्थकथनादनुमानम् ।

अथ तोटकम् संरम्भं तु वचनं सङ्गिरन्ते हि तोटकम् ॥३.११३॥ ५६

यथा तत्रैव [बालरामायणे] हनुमान्यथादिशति स्वामी । (सर्वतोऽ वलोक्य)

दृप्यद्विक्रमकेलयः कपिभटाः शृण्वन्तु सुग्रीवजाम् आज्ञां मौलिनिवेशिताञ्जलिपुटाः सतोरिह व्यूहने । दोर्दण्डद्वयताडनश्लथधराबन्धोद्धृतान् भूधरान् आनेतुं सकलाः प्रयात ककुभः किं नाम वो दुष्करम् ॥३.११४॥ [बा.रा. ७.४६]

इत्युपक्रम्याङ्कपरिसमाप्तेः कपिराक्षसादिसंरम्भकथनात्तोटकम् ।

अथ अधिबलम् बुधैरधिबलं प्रोक्तं कपटेनातिवञ्चनम् ॥३.११५॥ ५६

यथा तत्रैव [बालरामायणे] षष्ठाङ्के [६.५ पद्यात्पूर्वम्] मायामयःथैकदा दयितस्नेहमय्या कैकेय्या सममसुरानीकविजयाय पूरितसुहृन्मनोरथे दशरथे त्गिर्विष्टपतिलकभूतं पुरुहूतं प्रभाववति समुपस्थितवति तद्रूपधारिणौ कुवलयाभिरामं रामं सपरिच्छदं छलयितुं अयोध्यां शूर्पणखा अहं च प्राप्तवन्तौ । इत्युपक्रम्य,

माल्यवान्किमसाध्यं वैदग्ध्यस्य [६.५ पद्यादनन्तरं] इत्यन्तेन मायामयशूर्पणखाभ्यां कपटवेषधारणेन रामवामदेववञ्चनादधिबलम् ।

अथ उद्वेगः शत्रुवैरादिसम्भूतं भयमुद्वेग उच्यते ॥३.११६॥ ५७

यथा तत्रैव [६.५६ पद्यात्पूर्वम्] (ततः प्रविशति गगनार्धावतरणनाटितकेन रत्नशिखण्डः)स्वस्ति महाराजदशरथाय ।

दशरथःपि कुशलं वयस्यस्य जटायोः ।

रत्नशिखण्डःप्रियसुहृदुपयोगेन । न पुनः शरीरेण ।

दशरथःभद्र समुपविश्य कथ्यताम् । व्याकुलोऽ स्मि इत्युपक्रम्य,

कोसल्याहा देब्ब तुए किदविडंबं समत्थिअं बणगदं राहवकुटुंबम् । [हा देव त्वया कृतविडम्बं समर्थितं वनगतं राघवकुटुम्बम् । ]

सुमित्राण केबलं बणगदम् । भुबणगदं बि । [न केवलं वनगतम् । भुवनगतमपि ।] (६.७० पद्यादनन्तरं] इत्यन्तेन मातृगतभीतेरुपन्यासादुद्वेगः ।

अथ सम्भ्रमः शत्रुव्याघ्रादिसम्भूतौ शङ्कात्रासौ च सम्भ्रमः ॥३.११७॥ ५७

यथा तत्रैव [बालरामायणे] वामदेवः (सास्रं स्वगतम्)

हे मद्वाणि निजां विमुञ्च वसति द्राग्देहि यात्रां बहिः (राजानं प्रति प्रकाशम्) देव स्तम्भय चेतनां श्रवणयोरभ्येति शुष्काशनिः । (दम्पती शङ्कां नाटयतः) वामदेवः त्वद्रूपाद्विपिनाय चीवरधरो धन्वी जटी शासनं रामः प्राप्य गतः कुतश्चन वनं सौमित्रिसीतासखः ॥३.११८॥ [बा.रा. ६.१३]

उभौ मूर्च्छतः । वामदेवःदेव समाश्वसिहि ।

दशरथः (समाश्वास्य)केन पुनः कारणेन इत्युपक्रम्य,

दशरथःवत्स रामभद्र मन्ये ममैव मलयाचलनिवासिनः प्रियवयस्यस्य जटायोरपि शोकशङ्कुरयं सर्वङ्कषो भविष्यति । [६.५५ पद्यादनन्तरम्] इत्यन्तेन कौसल्यादशरथादीनां रक्षस्तरक्षुहर्यक्षप्रभृतिसञ्चरणदारुणारण्यादिषु रामप्रवासविषयशङ्कात्रासानुवृत्तिकथनात्सम्भ्रमः ।

अथ आक्षेपः गर्भबीजसमाक्षेपमाक्षेपं परिचक्षते ॥३.११९॥ ५८

यथा तत्रैव [बालरामायणे] पञ्चमाङ्के [५.७४ पद्यादनन्तरं] (प्रविश्य अपटीक्षेपेण छिन्ननामा कृतावगुण्ठना) शूर्पणखा (साक्रन्दं पादयोर्निपत्य)अज्ज एक्कमादुअ पेक्ख तक्खअचूडामणी उप्पाडिदो । बडवाणलजालाकलापअं घुंतलिदम् । दसकण्ठकनिट्ठबहिणिए अच्चाहिदम् । [आर्य एकमातृक प्रेक्षस्व तक्षकचूडामणिरुत्पाटितः । बडवानलज्वालाकलापकं चूर्णितम् । दशकण्ठकनिष्ठभगिन्या अत्याहितम् ।] इत्युपक्रम्य,

रावणः (प्रकाशम्)ततः किं तस्याः ?

शूर्पणखासापि लंकेस्सरस्स समुचिदत्ति अबहरंती तेहिं काबालिअब्बदजोग्गा किदंहि । [सापि लङ्केश्वरस्य समुचितेति व्यवहरन्ती तैः कापालिकव्रतयोग्या कृतास्मि ।]

इत्यन्तेन अङ्कान्तगतभागेन सकलदेवतातेजस्तिरस्करणरावणातिशयवर्णनागर्भीकृतस्य रामोत्साहस्य शूर्पणखाकर्णनासानिकृन्तनरूपेण समुद्भेदादाक्षेपः ।

अथ विमर्शसन्धिः यत्र प्रलोभनक्रोधव्यसनाद्यैर्विमृश्यते । ५८ बीजार्थो गर्भनिर्भिन्नः स विमर्श इतीर्यते ॥३.१२०॥ प्रकरीनियताप्त्यानुगुण्यादत्राङ्गकल्पनम् । ५९ अपवादोऽ थ सम्फेटो विद्रवद्रवशक्तयः ॥३.१२१॥ द्युतिप्रसङ्गौ छलनव्यवसायौ निरोधनम् । ६० प्ररोचना विचलनमादानं स्युस्त्रयोदश ॥३.१२२॥

अथ अपवादः तत्रापवादो दोषाणां प्रख्यापनमितीर्यते ॥३.१२३॥ ६१

यथा तत्रैव [बालरामायणे] अष्टमाङ्के वीरविलासनामनि [आदौ] (ततः प्रविशतो राक्षसौ) एकःसखे दुर्मुख किमपि महान् सत्त्वभ्रंशो दशकण्ठस्य यत्कुमारसिंहनादवधमप्याकर्ण्य न शोकं कृतो नाप्यमर्षः । इत्युपक्रम्य,

त्रिजटाकहं देवेण दिण्णो लज्जादेईए जलांजली । [कथं देवेन दत्तो लज्जादेव्यै जलाञ्जलिः ।] [८.१० पद्यादनन्तरम्] इत्यन्तेन रावणगतदुर्बुद्धिदोषप्रख्यापनादपवादः ।

अथ सम्फेटः दोषसङ्ग्रथितं वाक्यं सम्फेटं सम्प्रचक्षते ॥३.१२४॥ ६२

यथा तत्रैव, सुमुखः (जनान्तिकम्)सखे दुर्मुख ! किमपि शौर्यातिरेको रामानुजस्य यदमुना निकुम्भिलां प्रस्थितस्य कुमारमेघनादस्य सन्दिष्टम्, यदुत यावन्नैव निकुम्भिलायजनतः सिद्धे हविर्लेहिनि प्राप्तस्यन्दनबाणचापकवचः स्वं मन्यसे दुर्जयम् । वैदेहीविरहव्यथाविधुरितेऽ प्यार्ये विधाय क्रुधो वन्ध्यास्तावदयं स शक्रविजयिंस्त्वां लक्ष्मणो जेष्यति ॥३.१२५॥ [बा.रा. ८.१५]

इत्युपक्रम्य, नेपथ्ये

सीताप्रियं च दलितेश्वरकार्मुकं च बालिद्रुहं च रचिताम्बुधिबन्धनं च । रक्षोहणं च विजिगीषुविभीषणं च रामं निहत्य चरणौ तव वन्दिताहे ॥३.१२६॥ [बा.रा. ८.४७]

इत्यन्तेन, लक्ष्मणेन्द्रजित्कुम्भकर्णानां रोषवाक्यग्रहणात्सम्फेटः ।

अथ विद्रवः विरोधवधदाहादिर्विद्रवः परिकीर्तितः ॥३.१२७॥ ६२

यथा तत्रैव (८.४८ पद्यादनन्तरं] सुमुखःदेव पदातिलवः सुमुखस्तु मन्यते लक्ष्मणदिधक्षया कुमारमेघनादेन पावकीयः शरः संहित इति उपक्रम्य,

(दक्षिणतः) सुमुखःयमपरः क्षते क्षारावसेकः ।

आकर्णाकृष्टचापोन्मुखविशिखशिखाशेखरः शूलपाणिर् बिभ्राणो भैरवत्वं बहुलकलकलारावरौद्राट्टहासः । ध्यातः सौमित्रिणाथ प्रसरदुरुतरोत्तालवेतालमालस् तद्वक्त्रादुत्पतद्भिः समजनि शिखिभिर्भस्मसादिन्द्रजिच्च ॥३.१२८॥ [८.८५]

(रावणो मूर्च्छति सर्वे यथोचितमुपचरन्ति ।) रावणः (मूर्च्छाविच्छेदनाटितकेन) इत्यन्तेन कपिसेनाविक्षोभसुग्रीवनिरोधकुम्भकर्णवधेन्द्रजिद्भस्मीकरणरावणमूर्च्छादिसङ्कथनाद्विद्रवः ।

अथ द्रवः गुरुव्यतिक्रमं प्राह द्रवं तु भरतो मुनिः ॥३.१२९॥ ६३

यथा तत्रैव, करङ्कः

धिक्शौण्डीर्यमदोद्धतं भुजवनं धिक्चन्द्रहासं च ते धिग्वक्त्राणि निकृत्तकण्ठवलयप्रीतेन्दुमौलीनि च । निद्रालावतिघस्मरे प्रतिदिनं स्वापान्महामेदुरे प्रत्याशा चिरविस्मृतायुधविधौ यत्कुम्भकर्णे स्थिता ॥३.१३०॥ [बा.रा. ८.७४]

इत्यत्र स्वामिनोर्दशकण्ठकुम्भकर्णयोरनुजीविना राक्षसेन निन्दाकरणाद्द्रवः ।

अथ शक्तिः उत्पन्नस्य विरोधस्य शमनं शक्तिरिष्यते ॥३.१३१॥ ६३

यथा तत्रैव रावणवधनामनि नवमाङ्के [९.४९ पद्याद्पूर्वम्], पुरन्दरःयत्कुलाचलसन्दोहदहनकर्मणि भगवान् कालाग्निरुद्रः इत्युपक्रम्य,

नेपथ्ये बाणैर्लाञ्छितकेतुयष्टिशिखरो मूर्च्छानमत्सारथिर् मासास्वादनलुब्धगृध्रविहगश्रेणीभिरासेवितः । रक्षोनाथमहाकबन्धपतनक्षुण्णाक्षदण्डो हयैर् हेषित्वा स्मृतमन्दुरास्थितिहृतैर्लङ्कां रथो नीयत ॥३.१३२॥ [बा.रा. ९.५६]

इत्यन्तेन निरवशेषप्रतिनायकभूतरावणकण्ठोत्सादनकथनेन विरोधशमनात्शक्तिः ।

अथ द्युतिः द्युतिर्नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः ॥३.१३३॥ ६४

यथा तत्रैव अष्टमाङ्के, रावणः (ऊर्ध्वमवलोक्य)किमयमतिसत्वरः सुरसमाजः ? शङ्के कतिपययातुधानवधान् तापसं प्रति प्रीयते । (सक्रोधतर्जनम्)

हर्षोत्कर्षः किमयममराः क्षुद्ररक्षोवधाद्वस् तन्मे दोष्णां विजितजगतां विक्रमं विस्तृताः स्थ । किं चाद्यैव प्रियरणरसो बोध्यते कुम्भकर्णस् तूर्णं जेता स च दिविषदां बोध्यते मेघनादः ॥३.१३४॥ [बा.रा. ८.१२]

इत्युपक्रम्य, नेपथ्येबिरएह केलिआकड्ढणपाडणिज्जं गोउरदुवारं, बोढेह बिबिहप्पहरणसण्णाहदहसहस्साइ । (व्रचयत केलिकाकर्षणपातनीयं गोपुरद्वारम् । वहत विविधप्रहरणसंनाहदशसहस्राणि ।) इत्यन्तेन देवतातर्जनलङ्कापुरजनोद्वेजनकथनाद्द्युतिः ।

अथ प्रसङ्गः प्रस्तुतार्थस्य कथनं प्रसङ्गः परिकीर्तितः । ६४ प्रसङ्गं कथयन्त्यन्ये गुरूणां परिकीर्तनम् ॥३.१३५॥

यथा तत्रैव नवमाङ्के [आदौ] (प्रविश्य) यमपुरुषःतत्रभवतो लुलायलक्षणः सकलप्राणिभृतां विहितनाशस्य कीनाशस्य किमपि विश्वातिशायिनी प्रभविष्णुता इत्युपक्रम्य,

दशरथःभगवन् गीर्वाणनाथ सप्रसादमितो निधीयन्तां दृष्टयः । [९.१८ पद्यात्पूर्वम्] इत्यन्तेन यमपुरन्दरादिपूज्यसङ्कीर्तनाद्वा प्रस्तुतराक्षसवधरूपस्यार्थस्य प्रपञ्चनाद्वा प्रसङ्गः ।

अथ छलनम्[*१८] अवमानादिकरणं कार्यार्थे छलनं विदुः ॥३.१३६॥ ६५ [*१८] नात्यशास्त्रे अत्र छादन इति संज्ञा प्राप्यते ।


यथा तत्रैव [बालरामायणे] चारणः (कर्णं दत्त्वा आकाशे)किमाह रामभद्रः । रे रे राक्षसपुत्र यद्गौरीचरणाब्जयोः प्रथमतस्त्यक्तप्रणामक्रियं प्रेमार्द्रेण सविभ्रमेण च पुरा येनेक्षिता जानकी । लूनं ते तदिदंच राक्षसशिरो जातं च शान्तं मनः शेषच्छेदविधिस्तु सम्प्रति परं स्वर्वन्दिन्मोक्षाय मे ॥३.१३७॥ [बा.रा. ९.१०]

किमाह रावणः ? रे रे क्षत्रियापुत्र सुलभविभ्रमचर्मचक्षुरसि इत्युपक्रम्य,

रामःतदित्थमभिधानमपवित्रं ते वक्त्रम् । इतो निर्विशतु वधशुद्धिम् [९.४६ पद्यादनन्तरम्] इत्यन्तेन रामरावणाभ्यां परस्परावमाननकरणात्छलनम् ।

अथ व्यवसायः व्यवसायः स्वसामर्थ्यप्रख्यापनमितीर्यते ॥३.१३८॥ ६६

यथा तत्रैव [बालरामायणे]

भो लङ्केश्वर दीयतां जनकजा रामः स्वयं याचते कोऽ यं ते मतिविभ्रमः स्मर नयं नाद्यापि किंचिद्गतम् । नैवं चेत्खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः ॥३.१३९॥ [बा.रा. ९.१९]

इत्युपक्रम्यकिमाह रावणः ? रे रे मानुषीपुत्र ! अयमसौ अक्षत्रियो रावणः । क्षत्रियो रामः । तदत्र दृश्यताम् । कतरो विनेयः । कतरो विनेता इति । किमाह रामभद्रः ? हंहो अमानुषीपुत्र ! क्षत्रियो रामः । अयमसौ अक्षत्रियो रावणः । तदत्र दृश्यतां कतरो विनेयः, कतरो विनेता [९.२६ पद्यादनन्तरं] इत्यन्तेन रामरावणाभ्यां स्वसामर्थ्यप्रख्यापनाद्व्यवसायः ।

अथ विरोधनम् विरोधनं निरोधोक्तिः संरब्धानां परस्परम् ॥३.१४०॥ ६६ यथा तत्रैव [बालरामायणे तस्मिन्नेव स्थाने] चारणःकथममर्षिताभ्यां रामरावणाभ्यां प्रत्युपक्रान्तमिषुवर्षाद्वैतमित्युपक्रम्य, चारणःनन्वयमोंकारो रावणशिरोमण्डलच्छेदनविद्यायाः [९.३९ पद्यादनन्तरम्] इत्यन्तेन संरब्धयो रामरावणयोः दिव्यास्त्रप्रयोगरूपपरस्परसंरोधकरणाद्विरोधनम् ।

अथ प्ररोचना सिद्धवद्भाविनोऽ र्थस्य सूचना स्यात्प्ररोचना ॥३.१४१॥ ६७

यथा तत्रैव अष्टमाङ्के [८.१६ पद्यादनन्तरम्], करङ्कः (जनान्तिकम्)सखे कञ्काल देवः कुम्भकर्णं प्रबोधयति । न पुनरात्मानम् । किं च प्रयत्नेन बोधितोऽ प्यसौ रामेण पुनः शायितव्य एव ।

कङ्कालःमण्णे बिभीसणं बज्जिअ सब्बस्स बि एसा गई । [मन्ये विभीषणं वर्जयित्वा सर्वस्याप्येषा गतिः ।]

करङ्कःतथैव । इत्यत्र भविष्यतः कुम्भकर्णादिराक्षसनाशस्य कङ्कालकरङ्काभ्यां सिद्धवत्निश्चित्य सूचनात्प्ररोचना ।

अथ विचलनम् आत्मश्लाघा विचलनम् ॥३.१४२॥ ६७

यथा तत्रैव, करङ्कःकिमाह कुम्भकर्णः

आस्तां धनुः किमसिना परतो भुसुण्डी चक्रैरलं भवतु पट्टिशमुद्गराद्यैः । धावत्प्लवङ्गपृतनाकबलक्रमेण यास्याम्यहं सुहिततां च रिपुक्षयं च ॥३.१४३॥ [बा.रा. ८.३७]

(पुनः पृच्छति रावणः) साधु वत्स, साधु । सत्यं मदनुजोऽ सि, इत्युपक्रम्य

अनेन लङ्का यदकारि मत्पुरी हनूमतो गात्रगतेन भस्मसात् । निजापराधप्रशमाय तद्ध्रुवं निषेवितुं मामुपयाति पावकः ॥३.१४४॥ [बा.रा. ८.४८]

इत्यन्तेन रावणकुम्भकर्णाभ्यामात्मश्लाघा कृतेति विचलनम् ।

अथ आदानं आदानं कार्यसङ्ग्रहः ॥३.१४५॥ ६७

यथा तत्रैव [बालरामायणे] नवमाङ्के पुरन्दरःसखे दशरथ कथमयमनन्यसदृशाकारो रामभद्रपुरुषकारः । अतश्च

निर्दग्धत्रिपुरेन्धनोऽ स्तु गिरिशः क्रौञ्चाचलच्छेदने पाण्डित्यं विदितं गुहस्य किमु तावज्ञातयुद्धोत्सवौ । लूत्वा पङ्कजलावमाननवनं वीरस्य लङ्कापतेर् वीराणां चरिताद्भुतस्य परमे रामः स्थितः सीमनि ॥३.१४६॥ [बा.रा. ९.५७]

इत्युपक्रम्य रणरसिकसुरस्त्रीमुक्तमन्दारदामा स्वयमयमवतीर्णो लक्ष्मणन्यस्तहस्तः । विरचितजयशब्दो वन्दिभिः स्यन्दनाङ्गाद् दिनकरकुललक्ष्मीवल्लभो रामभद्रः ॥३.१४७॥ [बा.रा. ९.५९]

इत्यन्तेन निखिलभुवनबाधाशमनरूपरावणवधसम्पादितधर्मादिलक्षणकार्यविशेषसङ्ग्रहणादादानम् ।

अथ निर्वहणसन्धिः मुखसन्ध्यादयो यत्र विकीर्णा बीजसंयुताः । महत्प्रयोजनं यान्ति तन्निर्वहणमुच्यते ॥३.१४८॥ ६८ सन्धिविरोधौ ग्रथनं निर्णयः परिभाषणे प्रसादश्च । आनन्दसमयकृतयो भाषोपगूहने तद्वत् ॥३.१४९॥ ६९ अथ पूर्वभावसयुजावुपसंहारप्रशस्ती च । इति निर्वहणस्याङ्गान्याहुरमीषां तु लक्षणं वक्ष्ये ॥३.१५०॥ ७०

तत्र सन्धिः बीजोपगमनं सन्धिः ॥३.१५१॥ ७१

यथा तत्रैव [बालरामायणे] राघवानन्दनामनि दशमाङ्के [आदौ] (ततः प्रविशति सशोका) लङ्काहा दुद्धरतबविसेसपरितोसिदारबिन्दासण तिहुबणेक्कमल्ल दसकण्ठ हा हेलाबन्दीकिदमहिन्द मेहनाद हा समरसंरंभसुप्पसण्ण कुंभकण्ण कहिंसि देहि मे पडिबअणम् । [हा दुर्धरतपोविशेषपरितोषितारविन्दासन त्रिभुवनैकमल्ल दशकण्ठ ! हा हेलाबन्दीकृतमहेन्द्र मेघनाद ! हा समरसंरम्भसुप्रसन्न ! कुम्भकर्ण क्वासि देहि मे प्रतिवचनम् ।] इत्युपक्रम्य,

(प्रविश्य सत्वरा) अलकासखि धर्मजेतरि विभीषणेऽ पि नेतरि तत्रभवती सशोकशङ्कुरिव ।

लङ्काजं तिणेत्तमित्तस्स णअरी भणदी । [यत्त्रिनेत्रमित्रस्य नगरी भणति ।] [१०.२ पद्यात्पूर्वम्] इत्यन्तेन दुष्टराक्षसशिक्षारूपरामोत्साहबीजोपगमनात्सन्धिः ।

अथ विरोधः कार्यान्वेषणं विरोधः स्यात् ॥३.१५२॥ ७१

यथा तत्रैव, नेपथ्ये रुद्राणि लक्ष्मि वरुणानि सरस्वति द्यौः सावित्रि धात्रि सकलाः कुलदेवताश्च । शुद्ध्यर्थिनी विशति शुष्मणि रामकान्ता तत्संनिधत्त सहसा सह लोकपालैः ॥३.१५३॥ [बा.रा. १०.२]

इत्युपक्रम्य, लङ्काअहो देवदाणं बि सीदापक्खबादो । अधवा सब्बो गुणेसु रज्जदि । ण सरीरेसु । [अहो देवतानामपि सीतापक्षपातः । अथवा सर्वो गुणेषु रज्यति । न शरीरेषु ।] [१०.८ पद्यादनन्तरम्] इत्यन्तेन सीताशुद्धिरूपकार्यान्वेषणाद्विरोधः ।

अथ ग्रथनम् ग्रथनं तदुपेक्षेपः ॥३.१५४॥ ७१

यथा तत्रैव [बालरामायणे] बद्धः सेतुर्लवणजलधो क्रोधवह्नेः समित्त्वं नीतं रक्षःकुलमधिगताः शुद्धिमन्तश्च दाराः । तेनेदानीं विपिनवसतावेष पूर्णप्रतिज्ञो दिष्ट्यायोध्यां व्रजति दयिताप्रीतये पुष्पकेण ॥३.१५५॥ [बा.रा. १०.१५]

तद्भोः सकलप्लवङ्गयूथपतयः इत्यारभ्य,

सम्प्रेषितश्च हनुमान् भरतस्य पार्श्वं लङ्काङ्गनाचकितनेत्रनिरीक्षितश्रीः । यात्येष वारिनिधिलङ्घनदृष्टसारो राज्याभिषेकसमयोचितकार्यसिद्धेः ॥३.१५६॥ [बा.रा. १०.१६]

इत्यन्तेन रामाभिषेकरूपपरमकारोपेक्षाद्ग्रथनम् ।

अथ निर्णयः स्यादनुभूतस्य निर्णयः कथनम् ॥३.१५७॥ ७१

यथा तत्रैव [बालरामायणे] रामः (अपवार्य)

अय्यस्मदग्रकरयन्त्रनिपीडितानां धाराम्भसां स्मरसि मज्जनकेलिकाले । सुभ्रु त्वया निजकुचाभरणैकयोग्यम् अत्राब्जवल्लिदलमावरणाय दत्तम् ॥३.१५८॥ [बा.रा. १०.७६]

किं च तदिह कलहकेली सैकते नर्मदायाः स्मरसि सुतनु किंचिन्नौ पराधीनसुप्तम् । उषसि जलसमीरप्रेङ्खणाचार्यकार्यं तदनु मदनमुद्रां तच्च गाढोपगूढम् ॥३.१५९॥ [बा.रा. १०.७७]

इत्यत्र रामेण स्वानुभूतार्थकथनान्निर्णयः ।

अथ परिभाषा परिभाषा त्वन्योन्यं जल्पनमथवा परिवादः ॥३.१६०॥ ७२

यथा तत्रैव [१०.९२ पद्यादनन्तरम्] सीताअज्जौत्त दसकण्ठणिसूअण वाराणसीसंकित्तणेण सुमराबिदम्हि अक्खिआणद्दं जणणीभूदं मिहिलां महाणाअरीम् । [आर्यपुत्र दशकण्ठनिसूदन वाराणसीसङ्कीर्तनेन स्मारितास्मि अक्ष्यानन्दं जननीभूतं मिथिलां महानागरीम् ।] इत्युपक्रम्य,

विभीषणःिह हि खलु क्षत्रियान्तकरस्य भङ्गो भार्गवमुनेर्दत्तः ।

सुग्रीवः अपां फेनेन तृप्तोऽ सौ स्नातश्चन्द्रिकया च सः । यदप्रसूतकौशल्यं क्षत्रं क्षपितवान्मुनिः ॥३.१६१॥ [बा.रा. १०.९४]

इत्यन्तेन सीतारामविभीषणसुग्रीवाणामन्योन्यसंजल्पनेन वा सुग्रीवेण भार्गवपरीवादसूचनाद्वा परिभाषणम् ।

अथ प्रसादः शुश्रूषादिप्राप्तं प्रसादमाहुः प्रसन्नत्वम् ॥३.१६२॥ ७२

यथा तत्रैव, रामः (हस्तमुद्यम्य)

हंहो पुष्पकवायुवेगमुनिना धूमः पुरः पीयते छायां मा कुरु कोऽ प्ययं दिनमणावेकाग्रदृष्टिः स्थितः । दूरादत्र भव प्रदक्षिणगतिः स्थाणोरिदं मन्दिरं किञ्चित्तिष्ठ तपस्विनस्तव पुरो यावत्पर्यान्त्यध्वनः ॥३.१६३॥ [बा.रा. १०.५९]

इत्युपक्रम्य, अगस्त्यः

का दीयतां तव रघूद्वह सम्यगाशीर् निष्कण्टकानि विहितानि जगन्ति येन । आशास्महे ननु तथापि सह स्ववीरैर् भूकाश्यपोपमसुतद्वितया वधूः स्यात् ॥३.१६४॥ [बा.रा. १०.६४]

रामःपरमनुगृहीतं रघुकुलमित्यन्तेन अगस्त्यदत्ताशीर्वादरूपप्रसादकथनात्प्रसादः ।

अथ आनन्दः अभिलषितार्थसमागममानन्दं प्राहुराचार्याः ॥३.१६५॥ ७३

यथा तत्रैव, रामःहंहो विमानराज विमुच्य वसुधासविधवर्तिनी गतिं किञ्चिदुच्चैर्भव । कुतूहलिनी जानकी दिव्यलोकदर्शनव्यतिकरस्य । (ऊर्ध्वगतिनाटिकेन)

यथा यथारोहति बद्धवेगं व्योम्नः शिखां पुष्पकमानताङ्गि । महाम्बुधीनां वलयैर्विशालैस् तथा तथा सङ्कुचितेव पृथ्वी ॥३.१६६॥ [बा.रा. १०.२२]

सुरचारणकिंनरविद्याधरकुलसङ्कुलं गगनगर्भमीक्षस्व । (प्रविश्य) विद्याधरः अतः परमगम्या अस्मादृशां भुवः । स च ब्रह्मलोक इति श्रूयते ।

इत्यन्तेन सीतादीनामभिलषितदिव्यलोकदर्शनरूपार्थसिद्धेरानन्दः ।

अथ समयः समयो दुःखसङ्क्षयः ॥३.१६७॥ ७३

यथा तत्रैव, भरतः आर्य ! रावणविद्रावण भरतोऽ हमभिवादये । इत्युपक्रम्य (भरतसुग्रीवविभीषणाः परस्परं परिष्वजन्ते ।) इत्यन्तेन बन्धूनामन्योन्यावलोकनपरिष्वङ्गादिभिर्दुःखापगमकथनात्समयः ।

अथ कृतिः कृतिरपि लब्धार्थसुस्थिरीकरणम् ॥३.१६८॥ ७३

यथा तत्रैव, (प्रविश्य) हनुमान्देव मत्तः श्रुतवृत्तान्तो वसिष्ठः समं भरतशतुर्घ्नाभ्यामन्याभिश्च प्रकृतिभिर्भवदभिषेकसज्जस्तिष्ठति । इत्युपक्रम्य, वसिष्ठः का दीयतां त्व रघूद्वह सम्यगाशीरित्यादि पठति ।

रामः आर्षं हि वचनं विभिन्नवक्तृकमपि न विसंवदति यदगस्त्यवाचा वसिष्ठोऽ पि ब्रूते [१०.६९ पद्यादनन्तरम्] इत्यन्तेन अगस्त्यलब्धाशीर्वादस्य वसिष्ठवचनसंवादेन स्थिरीकरणात्कृतिः ।

अथ भाषणम् मानाद्याप्तिश्च भाषणम् ॥३.१६९॥ ७३

यथा तत्रैव, वसिष्ठः

रामो दान्तदशाननः किमपरं सीता सतीष्वग्रणीः सौमित्रिः सदृशोऽ स्तु कस्य समरे येनेद्रजिन्निर्जितः । किं ब्रूमो भरतं च रामविरहे तत्पादुकाराधकं शत्रुघ्नः कथितोऽ ग्रजस्य च गुणैर्वन्द्यं कुटुम्बं रघोः ॥३.१७०॥ [बा.रा. १०.१०२]

इत्यत्र वसिष्ठेन रघुकुटुम्बस्य रामचन्द्रादिसत्पुरुषोत्पत्तिस्थानतया तल्लक्षणबहुमानप्राप्तिकथनाद्भाषणम् ।

अथ उपगूहनम् उपगूहनमद्भुतप्राप्तिः ॥१७०॥ ७४

यथ तत्रैव, अलकाअहो नु खलु भोः पतिव्रतामयं ज्योतिः अनभिभवनीयं ज्योतिरन्तरैः । यतः, प्रविशन्त्या चिताचक्रं जानक्या परिशुद्धये । न भेदः कोऽ पि निर्णीतः पयसः पावकस्य च ॥३.१७१॥ [बा.रा. १०.९]

(विचिन्त्य) इत्युपक्रम्य, नेपथ्ये योगीन्द्रश्च नरेन्द्रश्च यस्याः स जनकः पिता । विशुद्धा रामगृहिणी बभौ दशरथस्नुषा ॥३.१७२॥ [बा.रा. १०.१४]

इत्यन्तेन सीतायाः निःशङ्कज्वलनप्रवेशनिरपायनिर्गमनरूपाश्चर्यकथनादुपगूहनम् ।

अथ पूर्वभावः दृष्टक्रमकार्यस्य स्याद्दृष्टिः पूर्वभावस्तु ॥३.१७३॥ ७४

यथा तत्रैव [१०.१०२ पद्यादनन्तरम्]वत्स रामभद्र प्रशस्तो मुहूर्तो वर्तते । तदध्यास्स्व पित्र्यं सिंहासनमित्युपक्रम्य, वसिष्ठःरामभद्र धन्योऽ सि । यस्य ते भगवान् कुबेरोऽ र्थी इत्यन्तेन वसिष्ठेन रामभद्रस्याभिषेकाङ्गीकरणकुबेरविमानप्रत्यर्पणरूपयोरर्थयोर्दर्शनात्पूर्वभावः ।

अथ उपसंहारः धर्मार्थाद्युपगमनादुपसंहारः कृतार्थताकथनम् ॥३.१७४॥ ७५

यथा तत्रैव, वसिष्ठःवत्स रामभद्र किं ते भूयः प्रियमुपकरोमि ।

रामःकिमतः प्रियमस्ति ।

रुग्णं चाजगवं न चापि कुपितो भर्गः सुरग्रामणीः सेतुश्च ग्रथितः प्रसन्नमधुरो दृष्टश्च वारां निधिः । पौलस्त्यश्चरमः स्थितश्च भगवान् प्रीतः श्रुतीनां कविः प्राप्तं यानमिदं च याचितवते दत्तं कुबेराय च ॥३.१७५॥ [बा.रा. १०.१०४]

इत्यत्र रुग्णं चाजगवं इत्यनेन भूतपतिधनुर्दलनेन सीताधिगमरूपकामप्राप्तेः पौलस्य्तश्चरमः स्थितः इत्यनेन शरणागतरक्षणेन धर्मप्राप्तेः प्राप्तं यानमिदं चेत्यत्र विमानरत्नलाभेनार्थप्राप्तेश्च न चापि कुपितो भर्गः सुरग्रामिणीरित्यादिभिः पादान्तवाक्यैः रामचन्द्रेण स्वकृतार्थताकथनादुपसंहारः ।

किं च, रुग्णं चाजगवं सेतुश्च ग्रथित इत्यादिभ्यां युद्धोत्साहसिद्धेः पौलस्त्यश्चरमः स्थितः इत्यत्र विभीषणस्य पालनेन दयावीरसिद्धेः याचितवते दत्तं कुबेराय चेत्यनेन दानवीरसिद्धेश्च रामभद्रेण स्वकृतार्थताकथनाद्वा उपसंहारः ।

अथ प्रशस्तिः भरतैश्चराचराणामाशीराशंसनं प्रशस्तिः स्यात् ॥३.१७६॥ ७५

यथा तत्रैव, तथा चेदमस्तु भरतवाक्यम्

सम्यक्संस्कार्रविद्याविशदमुपनिषद्भूतमर्थाद्भुतानां ग्रथ्नन्तु ग्रन्थबन्धं वचनमनुपतत्सूक्तिमुद्राः कवीन्द्राः । सन्तः सन्तर्पितान्तःकरणमनुगुणं ब्रह्मणः काव्यमूर्तेस् तत्तत्त्वं सात्त्विकैश्च प्रथमपिशुनितं भावयन्तोऽ र्चयन्तु ॥३.१७७॥ [बा.रा. १०.१०५]

इत्यत्र कवीन्द्राणां निर्दोषसूक्तिग्रथनाशंसनेन भावकानां च तद्ग्रन्थभावनाशंसनेन च सकलव्यवहारप्रवर्तकवाङ्मयरूपजगन्मङ्गलकथनात्प्रशस्तिरिति सर्वं प्रशस्तम् ।

रसभावानुरोधेन प्रयोजनमपेक्ष्य च । साफल्यं कार्यमङ्गानामित्याचार्याः प्रचक्षते ॥३.१७८॥ ७६ केषांचिदेषामङ्गानां विकल्पं केचिदूचिरे । मुखादिसन्धिष्वङ्गानां क्रमोऽ यं न विवक्षितः ॥३.१७९॥ ७७ क्रमस्यानादृतत्वेन भरतादिभिरादिमैः । लक्ष्येषु व्युत्क्रमेणापि कथनेन विचक्षणैः ॥३.१८०॥ ७८ चतुःषष्ठिकलामर्मवेदिना सिंहभूभुजा । लक्षिता च चतुःषष्ठिर्बालरामायणे स्फुटम् ॥३.१८१॥ ७९

अथ सन्ध्यन्तराणि मुखादिसन्धिष्वङ्गानामशैथिल्यप्रतीतये । सन्ध्यन्तराणि योज्यानि तत्र तत्रैकविंशतिः ॥३.१८२॥ ८० आचार्यान्तरसंमत्या चमत्कारोदयादपि । वक्ष्ये लक्षणमेतेषामुदाहृतिमपि स्फुटम् ॥३.१८३॥ ८१ सामदाने भेददण्डौ प्रत्युत्पन्नमतिर्वधः । गोत्रस्खलितमोजश्च धीः क्रोधः साहसं भयम् ॥३.१८४॥ ८२ माया च संवृतिर्भ्रान्तिर्दूत्यं हेत्ववधारणम् । स्वप्नलेखौ मदश्चित्रमित्येतान्येकविंशतिः ॥३.१८५॥ ८३

तत्र साम तत्र साम प्रियं वाक्यं स्वानुवृत्तिप्रकाशनम् ॥३.१८६॥ ८४

यथा मालविकाग्निमित्रे, राजाअये न भेतव्यम् ।

मालविका (सावष्टम्भम्)जो ण भाअदि सो मए भट्टिणीदंसणे दिट्ठसामत्थो भट्टा । [यो न बिभेति स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता ।]

राजा दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुलव्रतम् । तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥३.१८७॥ [मा.अ.मि. ४.१४]

इत्यत्र राज्ञो वचनं नाम ।

अथ दानं दानमात्मप्रतिनिधिर्भूषणादिसमर्पणम् ॥३.१८८॥ ८४

यथा मालतीमाधवे, मालतीपिअसहि सब्बदा सुमरिदब्बह्मि । एसा बि माहबसहत्थणिम्माणमणोहरा बौलमाला मालदीणिब्बिसेसं पिअसहीए दट्टब्बा । सब्बदा हिअएण अ धारणिज्जा इति । [प्रियसखि ! सर्वदा स्मर्तव्यास्मि । एषा च माधवस्वहस्तनिर्माणमनोहरा बकुलमाला मालतीनिर्विशेषं प्रियसख्या द्रष्टव्या । सर्वदा हृदयेन च धारणिया इति ।] (इति स्वकण्ठादुन्मुच्य माधवस्य कण्ठे विन्यस्यन्ती सहसापसृत्य साध्वसोत्कम्पं नाटयति ।) [६.११ पद्यादनन्तरम्] ।

अत्र मालत्या मर्तुकामायाः प्रतिनिधितया लवङ्गिकायां बकुलमालासमर्पणं दानम् ।

अथ भेदः भेदस्तु कपटालापैः सुहृदां भेदकल्पनम् ॥३.१८९॥ ८५

यथा मालतीमाधवे, कामन्दकी

राज्ञः प्रियाय सुहृदे सचिवाय कार्याद् दत्त्वात्मजां भवतु निर्वृतिमानमात्यः । दुर्दर्शनेन घटतामियमप्यनेन धूमग्रहेण विमला शशिनः कलेव ॥३.१९०॥ [मा.मा. २.८]

मालती (स्वगतम्)हा ताद तुमं बि णाम मम एब्बं ति सब्बहा जिदं भोअतिह्णाए । [हा तात त्वमपि नाम ममैवमिति सर्वथा जितं भोगतृष्णया ।] इत्यत्र कामन्दक्या मालतीतज्जनकयोर्भेदकल्पनं भेदः ।

अथ दण्डः दण्डस्त्वविनयादीनां दृष्ट्या श्रुत्याथ तर्जनम् ॥३.१९१॥ ८५

दृष्ट्या, यथा मालतीमाधवे, माधवःरे रे पाप !

प्रणयिसखीसलीलपरिहासरसाधिगतैर् ललितशिरीषपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥३.१९२॥ [मा.मा. ५.३१]

अत्राघोरघण्टस्याविनयदर्शनेन माधवकृततर्जनं दण्डः ।

श्रुत्या, यथा शाकुन्तले, राजा (सहसोपसृत्य)

कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् । अयमाचरत्यविनयं मुग्धासु तस्पस्विकन्यासु ॥३.१९३॥ [अ.श. १.२१]

अत्राविनयश्रुत्या दुष्यन्तेन कृतं तर्जनं दण्डः ।

अथ प्रत्युत्पन्नमतिः तात्कालिकी च प्रतिभा प्रत्युत्पन्नमतिर्स्मृता ॥३.१९४॥ ८६

यथा मालविकाग्निमित्रे, राजान खलु मुद्रामधिकृत्य ब्रवीमि । एतयोर्बद्धयोः [मालविकाबकुलावलिकयोः] किंनिमित्तो मोक्षः । किं देव्याः परिजनमतिक्रम्य भवान् सन्दिष्टः इत्येवमनया [माधविकया] प्रष्टव्यम् ।

विदूषकःणं पुच्छिदो ह्मि । पुणो मन्दस्स बि मे तस्मिं पञ्चुप्पण्णा मदी आसि । [ननु पृष्टोऽ स्मि । पुनर्मन्दस्स्यापि मे तस्मिन् प्रत्युत्पन्ना मतिरासीत् ।]

राजाकथ्यताम् ।

विदूषकःभणिदं मए, देब्बचिंतएहिं विण्णाविदो राआ । सोबसग्गं बो णक्खत्तं ता अवस्सं सब्बबन्धमोक्खो करीअदुत्ति । [भणितं मया, दैवचिन्तकैर्विज्ञापितो राजा । सोपसर्गं वो नक्षत्रम् । तदवश्यं सर्वबन्धमोक्षः क्रियतामिति ।]

राजा (सहर्षं)ततस्ततः ?

विदूषकःतं सुणिअ देवीए इरावदीचित्तं रक्खंतीए राआ किल मोएदि त्ति अहं संदिट्ठो त्ति तदो जुज्जदि त्ति ताए इब्बं संपादिदो अत्थो । [तत्श्रुत्वा देव्या इरावतीचित्तं रक्षन्त्या राजा किल मोचयतीत्यहं सन्दिष्ट इति । ततो युज्यते इति तयैव सम्पादितोऽ र्थः ।]

राजा (विदूषकं परिष्वज्य)सखे ! प्रियोऽ हं खलु तव । [४.५ पद्यादनन्तरं]

इत्यत्र विदूषकस्य समुचितोत्तरप्रतिभा प्रत्युत्पन्नमतिः ।

अथ वधः वधस्तु जीवितद्रोहक्रिया स्यादाततायिनः ॥३.१९५॥ ८६

यथा वेणीसंहारे [६.४४ पद्यादनन्तरम्], कृष्णःहं पुनश्चार्वाकेण रक्षसा व्याकुलीकृतं भवन्तमुपलभ्यार्जुनेन सह त्वरिततरमायातः ।

युधिष्ठिरःकिं नाम चार्वाकेण रक्षसा वयमेवं विप्रलब्धाः ?

भीमः (सरोषम्)भगवन् क्वासौ धार्तराष्ट्रसखो राक्षसश्चार्वाको येनार्यस्य महांश्चित्तविभ्रमः कृतः ।

कृष्णःनिगृहीतः स दुरात्मा नकुलेन ।

युधिष्ठिरःप्रियं नः, प्रियं नः । इत्यत्र चार्वाकनिग्रहो वधः ।

अथ गोत्रस्खलितम् तद्गोत्रस्खलितं यत्तु नामव्यत्ययभाषणम् ॥३.१९६॥ ८७

यथा विक्रमोर्वशीये [तृतीयाङ्के आदौ] (ततः प्रविशतो भरतशिष्यौ) प्रथमःये सदोषावकाश इव ते वाक्यशेषः ।

द्वितीयःाम् । तर्हि उब्बसीए बअणं पमादक्खलिदं आसि । [आं, तत्र उर्वस्या वचनं प्रमादस्खलितमासीत् ।]

प्रथमःकथमिव ?

द्वितीयःलच्छीभूमिआए बट्टमाणा उब्बसी वारुणीभूमिआए बट्टमाणाए मेणआए पुच्छिदा । सहि समाअदा एदे तेल्लोक्कपुरिसा सकेसवा लोअबाला । कदमस्सिं दे भावाहिणिबेसोत्ति [लक्ष्मीभूमिकायां वर्तमाना उर्वशी वारुणीभूमिकायां वर्तमानया मेनकया पृष्टा । सखि समागता एते त्रैलोक्यपुरुषाः सकेशवा लोकपालाः । कतमस्मिइंस्ते भावाभिनिबेशः ? इति ।]

प्रथमःततस्ततः ?

द्वितीयःतदो ताए पुरिसोत्तमे त्ति भणिदब्बे पुरूरवसि त्ति णिग्गदा बाणी । [ततस्तस्याः पुरुषोत्तम इति भणितव्ये पुरूरवसीति निर्गता बाणी ।] इत्यत्र नामव्यतिक्रमः स्फुट एव ।

अथ औजः ओजस्तु वागुपन्यासो निजशक्तिप्रकाशकः ॥३.१९७॥ ८७

यथा उत्तररामचरिते, कुशःसखे दण्डायन !

आयुष्मतः किल लवस्य नरेन्द्रसैन्यैर् आयोधनं ननु किमात्थ सखे तथेति । अद्यास्तमेतु भुवनेषु स राजशब्दः क्षत्त्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥३.१९८॥ [उ.रा.च. ६.१६]

इत्यत्र ओजः स्पष्टमेव ।

अथ धीः इष्टार्थसिद्धिपर्यन्ता चिन्ता धीरिति कथ्यते ॥३.१९९॥ ८८

यथा मालविकाग्निमित्रे चतुर्थाङ्के [४.२ पद्यादनन्तरम्] राजा (निश्वस्य सपरामर्शम्)सखे किमत्र कर्तव्यम् ?

विदूषकः (विचिन्त्य)अत्थि एत्थ उबाओ । [अस्त्यत्रोपायः ।]

राजकिमिव ?

विदूषकः (सदृष्टिक्षेपम्)को बि अदिट्ठो सुणिस्सद् । कण्णे दे कहेमि (इत्युपश्लिष्य कर्णे) एवं बिअ । [कोऽ प्यदृष्टः श्रोष्यति । कर्णे ते कथयामि । एवमिव । ] इत्यावेदयति ।

राजा सहर्षंसुष्ठु प्रयुज्यतां सिद्धये । इत्यत्र विदूषकेण धारिणीहस्तमणिमुद्रिकाकर्षाणहेतुभूतस्य भुजगविषवेगकपटस्य चिन्तनं धीः ।

अथ क्रोधः क्रोधस्तु चेतसो दीप्तिरपराधादिदर्शनात् ॥३.२००॥ ८८

यथा रत्नावल्यां तृतीयाङ्के [अन्ते ३.१९ पद्यात्पूर्वम्], वासवदत्ताहञ्जे कंचणमाले एदेण एब्ब लदापासेण बन्धिअ गेहण एणं बह्मणम् । एणं दुट्ठकण्णआं अ अग्गदो करेहि । [हञ्जे कञ्चनमाले एतेनैव लतापाशेन बद्ध्वा गृहाणैनं ब्राह्मणम् । इमां दुष्टकन्यकां चाग्रतः कुरु ।] इत्यत्र वासवदत्तायाः रोषः क्रोधः ।

अथ साहसम् स्वजीवितनिराकाङ्क्षो व्यापारः साहसं भवेत् ॥३.२०१॥ ८९

यथा मालतीमाधवे

अशस्त्रपातमव्याजपुरुषाङ्गोपकल्पितम् ।[*१९] विक्रीयते महामांसं गृह्यतां गृह्यतामिदम् ॥३.२०२॥ [मा.मा. ५.१२] [*१९] स्वशस्त्रपूतनिर्व्याजपुरुषाङ्गोपकल्पितमिति मुद्रितमालतीमाधवपाठः ।


अत्र माधवस्य महामांसविक्रयव्यापारः साहसम् ।

अथ भयम् भयं त्वाकस्मिकत्रासः ॥३.२०३॥ ८९

यथा अभिरामराघवे द्वितीयाङ्के, (प्रविश्यापटीक्षेपेण सम्भ्रान्तः) बटुःय्य परित्ताअहि परित्ताअहि । अच्चहिदे पडिदो ह्मि । [आर्य परित्राहि परित्राहि । अत्याहिते पतितोऽ स्मि ।] (इत्यभिद्रवति) इत्यादौ बटुत्रासो भयम् ।

अथ माया माया कैतवकल्पना ॥३.२०४॥ ८९

यथा रत्नावल्यां, राजा (आसनादवतीर्य)देवि पश्य

एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शङ्करोऽ यं दोर्भिर्दैत्यान्तकोऽ सौ सधनुरसिगदाचक्रचिह्नैश्चतुर्भिः । एषोऽ प्यैरावतस्थस्त्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योम्नि चैताश्चलचरणरणन्नूपुरा दिव्यनार्यः ॥३.२०५॥ [र. ४.११]

इत्यत्र ऐन्द्रजालिककल्पितं कैतवं माया ।

अत्र संवृत्तिः संवृत्तिः स्वयमुक्तस्य स्वयं प्रच्छादनं भवेत् ॥३.२०६॥ ९०

यथा शाकुन्तले, राजा (स्वगतम्)अतिचपलोऽ यं बटुः । कदाचिदिमां कथामन्तःपुरेभ्यः कथयेत् । भवतु । एनमेव वक्ष्ये

क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः । परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥३.२०७॥ [अ.श. २.१८]

अत्र दुष्यन्तेन स्वयमुक्तस्य शकुन्तलाप्रसङ्गस्य स्वयं प्रच्छादनं संवृत्तिः ।

अथ भ्रान्तिः भ्रान्तिर्विपर्ययज्ञानं प्रसङ्गस्य ह्यनिश्चयात् ॥३.२०८॥ ९०

यथा वेणीसंहारे द्वितीयाङ्के [२.१० पद्यादनन्तरं], भानुमतीतदो अहं तस्स अदिसैददिब्बरूबिणो णौलस्स दंसणेण उच्छुआ जादा हिदहिअआ अ । तदो उज्झिअ तं आसनट्ठाणं लदामण्डपं पबिसिदुं आरद्धा । [ततोऽ हं तस्यातिशयितदिव्यरूपिणो मकुलस्य दर्शनेनोत्सुका जाता हृतहृदया च । तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रवेष्टुमारब्धा ।]

राजा (सवैलक्ष्यम्)किं नामातिशयितदिव्यरूपिणो नकुलस्य दर्चानेनोत्सुका जाता । हृतहृदया च । तत्कथमनया पापया माद्रीसुतानुरक्तया वयमेवं विप्रलब्धाः । मूर्ख दुर्योधन कुलटाविप्रलभ्यमानमात्मानं बहु मन्यमानोऽ धुना किं वक्ष्यसि । (किं कण्ठे शिथिलीकृत [वे.सं. २.९] इत्यादि पठित्वा दिशोऽ वलोक्य) अहो एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसङ्कथासु च पक्षपातः । दुर्योधनस्तु मोहादविज्ञातबन्धकीहृदयसारः क्वापि परिभ्रान्तः । इत्यत्र देवीस्वप्नस्य अनिश्चयाद्दुर्योधनस्य विपरीतज्ञानं भ्रान्तिः ।

अथ माया माया कैतवकल्पना ॥३.२०९॥ ८९

यथा रत्नावल्यां, राजा (आसनादवतीर्य)देवि पश्य

एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शङ्करोऽ यं दोर्भिर्दैत्यान्तकोऽ सौ सधनुरसिगदाचक्रचिह्नैश्चतुर्भिः । एषोऽ प्यैरावतस्थस्त्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योम्नि चैताश्चलचरणरणन्नूपुरा दिव्यनार्यः ॥३.२१०॥ [र. ४.११]

इत्यत्र ऐन्द्रजालिककल्पितं कैतवं माया ।

अत्र संवृत्तिः संवृत्तिः स्वयमुक्तस्य स्वयं प्रच्छादनं भवेत् ॥३.२११॥ ९०

यथा शाकुन्तले, राजा (स्वगतम्)अतिचपलोऽ यं बटुः । कदाचिदिमां कथामन्तःपुरेभ्यः कथयेत् । भवतु । एनमेव वक्ष्ये

क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः । परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥३.२१२॥ [अ.श. २.१८]

अत्र दुष्यन्तेन स्वयमुक्तस्य शकुन्तलाप्रसङ्गस्य स्वयं प्रच्छादनं संवृत्तिः ।

अथ भ्रान्तिः भ्रान्तिर्विपर्ययज्ञानं प्रसङ्गस्य ह्यनिश्चयात् ॥३.२१३॥ ९०

यथा वेणीसंहारे द्वितीयाङ्के [२.१० पद्यादनन्तरं], भानुमतीतदो अहं तस्स अदिसैददिब्बरूबिणो णौलस्स दंसणेण उच्छुआ जादा हिदहिअआ अ । तदो उज्झिअ तं आसनट्ठाणं लदामण्डपं पबिसिदुं आरद्धा । [ततोऽ हं तस्यातिशयितदिव्यरूपिणो मकुलस्य दर्शनेनोत्सुका जाता हृतहृदया च । तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रवेष्टुमारब्धा ।]

राजा (सवैलक्ष्यम्)किं नामातिशयितदिव्यरूपिणो नकुलस्य दर्चानेनोत्सुका जाता । हृतहृदया च । तत्कथमनया पापया माद्रीसुतानुरक्तया वयमेवं विप्रलब्धाः । मूर्ख दुर्योधन कुलटाविप्रलभ्यमानमात्मानं बहु मन्यमानोऽ धुना किं वक्ष्यसि । (किं कण्ठे शिथिलीकृत [वे.सं. २.९] इत्यादि पठित्वा दिशोऽ वलोक्य) अहो एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसङ्कथासु च पक्षपातः । दुर्योधनस्तु मोहादविज्ञातबन्धकीहृदयसारः क्वापि परिभ्रान्तः । इत्यत्र देवीस्वप्नस्य अनिश्चयाद्दुर्योधनस्य विपरीतज्ञानं भ्रान्तिः ।

अथ दूत्यम् दूत्यं तु सहकारित्वं दुर्घटे कार्यवस्तुनि ॥३.२१४॥ ९१

यथा मालविकाग्निमित्रे [तृतीयाङ्के] विदूषकःलं भवदो धीरदं उज्झिअ परिदेबिदेण । दिट्ठा क्खु मए तत्तहोदीए मालबिआए पिअसही बौलाबलिआ । सुणाबिदाअ मह जं भवदा संदिट्ठम् । [अलं भवतो धीरतां उज्झित्वा परिदेवितेन । दृष्टा खलु मया तत्रभवत्या मालविकायाः प्रियसखी बकुलावलिका । श्राविता च मया यद्भवता सन्दिष्टम्] [३.१ पद्यादनन्तरम्] राजाततः किमुक्तवती ।

विदूषकःविज्ञापय भट्टारकम्… तथापि घटयिष्यामि इति । अत्र च बकुलावलिकया मालविकाग्निमित्रयोर्घटने सहकारित्वमङ्गीकृतमिति दूत्यम् ।

अथ हेत्ववधारणम् निश्चयो हेतुनार्थस्य मतं हेत्ववधारणम् ॥३.२१५॥ ९१

यथा शाकुन्तले, राजा

स्त्रीणामशिक्षितपटुत्वममानुषीषु सन्दृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनात्स्वमपत्यजातम् अन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥३.२१६॥ [अ.श. ५.२२]

अत्र परभृतानिदर्शनोपबृंहितेन स्त्रीत्वहेतुना मृषाभाषणलक्षणस्यार्थस्य निश्चयो हेत्ववधारणम् ।

अथ स्वप्नः स्वप्नो निद्रान्तरे मन्त्रभेदकृद्वचनं मतम् ॥३.२१७॥ ९२

यथा मालविकाग्निमित्रे [४.१५ पद्यादनन्तरम्] विदूषकः (उत्स्वप्नायते)भोदि मालबिए ! [भवति मालिके !]

निपुणिकासुदं भट्टिणीए । कस्स एसो अत्तणिओअसंपादण्विस्ससणिज्जो हदासो । सब्बकालं इदो एब्ब सोत्थिबाअणमोदएहिं कुच्छिं पूरिअ संपदं मालबिअं उस्सिबिणाबेदि । [श्रुतं भट्टन्या । कस्यैव आत्मनियोगसम्पादने विश्वसनीयो हताशः । सर्वकालमित एव स्वस्तिवाचनमोदकैः कुक्षिं पूरयित्वा साम्प्रतं मालविकामुत्स्वप्नायते ।]

विदूषकःिरावदिं अदिक्कमंती होहि । [इरावतीमतिक्रामन्ती भव ।]

इत्यत्र विदूषकस्योत्स्वप्नायितं स्वप्नः ।

अथ लेखः विवक्षितार्थकलिता पत्रिका लेख ईरितः ॥३.२१८॥ ९२

यथा विक्रमोर्वशीये [२.११ पद्यादनन्तरम्] राजा (विभाव्य)सखे ! भूर्जपत्रगतोऽ यमक्षरविन्यासः । इत्यारभ्य,

राजावयस्य अङ्गुलिस्वेदेन दूष्येरन्नक्षराणि । धार्यतामयं प्रियायाः स्वहस्तलेखः । इत्यत्र उर्वशीप्रहितपत्रिकार्थो लेखः ।

अथ मदः मदस्तु मद्यजः ॥३.२१९॥ ९३

यथा मालविकाग्निमित्रे [३.१२ पद्यादनन्तरम्] (ततः प्रविशति युक्तमदा इरावती चेटी च) इत्यत्रेरावतीमदः ।

अथ चित्रम् चित्रं चाकार्स्य विलेखनम् ॥३.२२०॥ ९३

यथा शाकुन्तले [६.१३, पद्यादनन्तरम्] राजा अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः पुनर्दर्शनेन । इत्यारभ्य, राजा

दर्शनमुखमनुभवतः साक्षादिव तन्मयेन हृदयेन । स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥३.२२१॥

इत्यन्तेन चित्रं स्फुटमिति कल्याणम् ।

भागकल्पनयाङ्गानां मुखप्रमुखसन्धिषु । ९३ प्रत्येकं नियतत्वेन योज्या तत्रैव कल्पना ॥३.२२२॥ सन्ध्यन्तराणां विज्ञेयः प्रयोगस्त्वविभागतः । ९४ तथैव दर्शनादेषामनैयत्येन सन्धिषु ॥३.२२३॥ तदेषामविचारेण कथितो दशरूपके । ९५ सन्ध्यन्तराणामङ्गेषु नान्तर्भावो मतो मम ॥३.२२४॥ सामाद्युपायदक्षेण सन्ध्यादिगुणशोभिता । ९६ निर्व्यूढं सिंहभूपेन सन्ध्यन्तरनिरूपणम् ॥३.२२५॥

अथ षट्त्रिंशद्भूषणानि एवमङ्गैरुपाङ्गैश्च सुश्लिष्टं रूपकश्रियः । ९७ शरीरं वस्त्वलङ्कुर्यात्षट्त्रिंशद्भूषणैः स्फुटम् ॥३.२२६॥ भूषणाक्षरसङ्घातौ हेतुः प्राप्तिरुदाहृतिः । ९८ शोभा संशयदृष्टान्तावभिप्रायो निदर्शनम् ॥३.२२७॥ सिद्धिप्रसिद्धी दाक्षिण्यमर्थापत्तिर्विशेषणम् । ९९ पदोच्चयस्तुल्यतर्को विचारस्तद्विपर्ययः ॥३.२२८॥ गुणातिपातोऽ तिशयो निरुक्तं गुणकीर्तनम् । १०० गर्हणानुनयो भ्रंशो लेशक्षोभौ मनोरथः ॥३.२२९॥ अनुक्तिसिद्धिः सारूप्यं माला मधुरभाषणम् । १०१ पृच्छोपदिष्टदृष्टानि षट्त्रिंशद्भूषणानि हि ॥३.२३०॥

तत्र भूषणम् गुणालङ्कारबहुलं भाषणं भूषणं मतम् ॥३.२३१॥ १०२

यथा रामानन्दे खं वस्ते कलबिङ्ककण्ठमलिनं कादम्बिनी कम्बल चर्चां पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् । गन्धं मुञ्चति सिक्तलाजसुरभिर्वर्षेण सिक्ता स्थली दुर्लक्षोऽ पि विभाव्यते कमलिनीहासेन भासां पतिः ॥३.२३२॥

अत्र श्लेषप्रसादसमाधिसमतादीनां गुणानां उपमारूपकोत्प्रेक्षहेतूनामलङ्काराणां च सम्भवादिदं भूषणम् ।

अथ अक्षरसङ्घातः वाक्यमक्षरसङ्घातो भिन्नार्थं श्लिष्टवर्णकम् ॥३.२३३॥

यथा शाकुन्तले [७.२० पद्यादनन्तरम्] राजा (स्वगतम्) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि । अथवा अन्याय्यः परदारव्यवहारः । इत्युपक्रम्य,

(प्रविश्य मृन्मयूरहस्ता) तापसीसब्बदमण ! सौंदलाबण्णं पेक्ख [सर्वदमन ! शकुन्तलावण्यं प्रेक्षस्व ।]

बालः (सदृष्टिक्षेपम्)कहिं वा मे अज्जू । [कुत्र वा मम माता ।]

उभेणामसारिस्सेण बंचिदो माउबच्छलो । [नामसादृश्येन वञ्चितो मातृवत्सलः ।]

द्वितीयाबच्छ, इमस्स मित्तिआमोरस्स रंमत्तणं देक्ख त्ति भणिदोऽ सि । [वत्स, अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽ सि ।]

राजा (आत्मगतम्)किं वा शकुन्तलेत्यस्य मातुराख्या । इत्यन्तम् । अत्र शकुन्तलावण्यमित्यत्र शकुन्तलानामाक्षराणां प्रतिभानादयमक्षरसङ्घातः ।

अथ हेतुः स हेतुरिति निर्दिष्टो यत्साध्यार्थप्रसाधकः ॥३.२३४॥ १०३

यथा रत्नावल्यां, राजा (तथा कृत्वा श्रुत्वा च)

स्पष्टाक्षरमिदं यत्नान्मधुरं स्त्रीस्वभावतः । अल्पाङ्गत्वादनिर्ह्रादि मन्ये वदति शारिका ॥३.२३५॥

अत्र शारिकालापसाधनाय यत्नस्पष्टाक्षरत्वादिहेतूनां कथनादयं हेतुः ।

अथ प्राप्तिः एकदेशपरिज्ञानात्प्राप्तिः शेषाभियोजनम् ॥३.२३६॥

यथा विक्रमोर्वशीये, राजा (चर्चरिकयापसृत्य अञ्जलिं बद्ध्वा)

हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हता । विभावितैकदेशेन देयं यदभियुज्यते ॥३.२३७॥

अत्र हंसे प्रियागमनमात्रविभाव्यप्रियाहरणाभियोगः प्राप्तिः ।

अथ उदाहरणम् वाक्यं यद्गूढतुल्यार्थं तदुदाहरणं मतम् ॥३.२३८॥

यथा शाकुन्तले, राजा (स्वगतम्)कथमात्मापहारं करोमि ? भवतु, एवं तावदेनां वक्ष्ये । (प्रकाशम्) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽ हमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः । इत्यारभ्य,

शकुन्तलातुम्हे अवेध । किं बि हिअए करिअ मतेध । ण बो बअणं सुणिस्सम् । [युवामपेतम् । किमपि हृदये कृत्वा मन्त्रयेथे । न युवयोर्वचनं श्रोष्यामि ।] इत्यन्तम् [१.२१ पद्यादनन्तरम्] । अत्र साभिप्रायगूढार्थतया तदिदमुदाहरणम् ।

अथ शोभा शोभा स्वभावप्राकट्यं यूनोरन्योन्यमुच्यते ॥३.२३९॥

यथा रत्नावल्यां, सागरिका (राजानं दृष्ट्वा सहर्षं ससाध्वसं सकम्पं च स्वगतम्)एणं पेक्खिअ अदिसद्धसेण ण सक्कणोमि पदादो पदं बि गन्तुम् । ता किं वा एत्थ करिस्सं ? [एनं प्रेक्ष्य अतिसाध्वसेन न शक्नोमि पदात्पदमपि गन्तुम् । तत्किं वा अत्र करिष्यामि ?]

विदूषकः (सागरिकां दृष्ट्वा)अहो अच्चरिअम् । ईरिसं कण्णारअणं माणुसलोए ण दीसदि । भो बअस्स तह तक्केमि पआवैणोबि एदं णिम्माबिअ पुणो पुणो बिह्मओ संबुत्तो त्ति । [अहो आश्चर्यम् । ईदृशं कन्यारत्नं मानुसलोके न दृश्यते । भो वयस्य तस्मात्तर्कयामि प्रजापतेरपि इदं निर्माय पुनः पुनर्विस्मयः संवृत्त इति ।]

राजासखे ममाप्येतदेव मनसि वर्तते [२.१५ पद्यात्पूर्वम्] इत्यादिना सागरिकावत्सराजयोरन्योन्यनिर्वर्णनेन रूपातिशयप्रकटनं शोभा ।

अथ संशयः अनिश्चयान्तं यद्वाक्यं संशयः स निगद्यते ॥३.२४०॥ १०५

यथा मालतीमाधवे, मकरन्दः

याता भवेद्भगवतीभवनं सखी नो जीवन्त्यथैष्यति न वेत्यभिशङ्कितोऽ स्मि । प्रायेण बान्धवसुहृत्प्रियसङ्गमादि सौदामिनीस्फुरण्चञ्चलमेव सौख्यम् ॥३.२४१॥

इत्यत्र मालती कामन्धक्याः गृहं गता वा जीवति वा न वेति संशयेन वाक्यसमाप्तेरयं संशयः ।

अथ दृष्टान्तः स्वपक्षे दर्शनं हेतोर्दृष्टान्तः साध्यसिद्धये ॥३.२४२॥ १०६

यथा शाकुन्तले, राजा

शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः । स्पर्शानुकूला इव सूर्यकान्तास् तदन्यतेजोऽ भिभवाद्वमन्ति ॥३.२४३॥ [अ.श. २.७]

इत्यत्र तपोधनेषु गूढदाहात्मकतेजःसद्भावे साध्ये तत्साधकस्य अन्यतेजस्तिरस्कारजनिततेजःसमुद्गाररूपस्य हेतोः सूर्यकान्तेषु दर्शितत्वाद्दृष्टान्तः ।

अथ अभिप्रायः अभिप्रायस्त्वभूतार्थो हृद्यः साम्येन कल्पितः । १०६ अभिप्रायं परे प्राहुर्ममतां हृद्यवस्तुनि ॥३.२४४॥

यथा रत्नावल्यां, राजा

किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् । वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥३.२४५॥ [र. ३.१३]

इत्यत्र चन्द्रसाम्येन मुखे अमृतकल्पनादयमभिप्रायः । अथवा तत्रैवातिहृद्यबिम्बाधरे राज्ञो ममत्वमभिप्रायः ।

अथ निदर्शनं यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । १०७ परोपेक्षाव्युदासार्थं तन्निदर्शनमुच्यते ॥३.२४६॥

यथा शाकुन्तले, राजाउपपद्यते

मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः । न प्रभातरलज्योतिरुदेति वसुधातलात् ॥३.२४७॥ [अ.श. १.२२]

अत्र प्रतिवस्तुन्यायेन सदृशवस्तुकीर्तनं निदर्शनम् ।

अथ सिद्धिः अतर्कितोपपन्नः स्यात्सिद्धिरिष्टार्थसङ्गमः ॥३.२४८॥ १०८

यथा मालविकाग्निमित्रे, विदूषकः (दृष्ट्वा)ही ही बअस्स एदं खु सीहुपाणुबेज्जिदस्स मच्छआडिआ उबणदा । [आश्चर्यं आश्चर्यं वयस्य एतत्खलु सीधुपानोद्वेजितस्य मत्स्यण्डिका उपनता ।]

राजाअये किमेतत्?

विदूषकःेसा णादिपरिक्खिदबेसा ऊसुअबअणा एआइणी मालबिआ अदूरे बट्टदि । [एषा नादिपरिष्कृतवेषा उत्सुकवदना एकाकिनी मालविका अदूरे वर्तते ।]

राजा (सहर्षं)कथं मालविका ।

विदूषकःह इम् । [अथ किम् ।]

राजाशक्यमिदानीं जीवितमवलम्बितम् [३.५ पद्यादनन्तरम्] इत्यत्र इरावतीसङ्केतं गच्छतो राज्ञः मालविकादर्शनसिद्धिरचिन्तिता सिद्धिः ।

अथ प्रसिद्धिः प्रसिद्धिर्लोकविख्यातैर्वाक्यैरर्थप्रसाधनम् ॥३.२४९॥ १०९

यथा शाकुन्तले, राजा

सरसिजमनुविद्धं शवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इत्यमधिकमनोज्ञा बल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥३.२५०॥

अत्र शवलाद्यनुवेधेऽ पि रमणीयतया प्रसिद्धानां सरसिजादीनां कथनेन शकुन्तलामनोज्ञतासाधनं प्रसिद्धिः ।

अथ दाक्सिण्यम् चित्तानुवर्तनं यत्र तद्दाक्षिण्यमितीरितम् ॥३.२५१॥ १०९

यथा शाकुन्तले, सेनापतिःजयतु स्वामी । राजाभद्र सेनापते मन्दोत्साहः कृतोऽ स्मि मृगयापवादिना माढव्येन ।

सेनापतिः (विदूषकं प्रति, जनान्तिकम्)सखे स्थिरप्रतिबन्धो भव । अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये । (प्रकाशम्) प्रलपत्वेष वैधेयः । ननु प्रभुरेव निदर्शनम् ।

मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥३.२५२॥ [अ.श. २.५]

इत्यत्र सेनापतेः राजचित्तानुवर्तनं दाक्षिण्यम् ।

अथ अर्थापत्तिः उक्तार्थानुपपत्त्याऽन्यो यस्मिन्नर्थः प्रकल्प्यते । वाक्यमाधुर्यसंयुक्ता सार्थापत्तिरुदाहृता ॥३.२५३॥ ११०

यथा रत्नावल्यां, विदूषकःभोः एसा क्खु तुए अपुब्बा सिरी समासादिदा । [भो एषा खलु त्वया अपूर्वा श्रीः समासादिता ।]

राजावयस्य, सत्यम् ।

श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः । कुतोऽ न्यथा स्रवत्येष स्वेदच्छद्मामृतद्रवः ॥३.२५४॥ [र. २.१७]

अत्र स्वेदच्छद्मामृतद्रवोत्पत्तेरन्यथानुपपत्त्या पाणेः पारिजातत्वकल्पनादियमर्थापत्तिः ।

अथ विशेषणम् सिद्धान् बहून् प्रधानार्थानुक्त्वा यत्र प्रयुज्यते । विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥३.२५५॥ १११

यथा मालतीमाधवे, माधवः (अभिलिख्य प्रदर्शयति)

मकरन्दः (सकौतुकम्)कथमचिरेणैव निर्माय लिखितः श्लोकः । (वाचयति)

जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥३.२५६॥ [मा.मा. १.३९]

इत्यत्र इन्दुकलादीन्मनोमदहेतुतया प्रसिद्धानुक्त्वा तत्समानमाधुर्यायामपि मालत्यां विशेषकथनादिदं विशेषणम् ।

अथ पदोच्चयः बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥३.२५७॥ ११२

यथा कर्पूरमञ्जर्याम्, राजा (वाचयति)

सह दिवसणिसाहिं दीहरा सासदंडा सह मणिबलएहिं बाहधारा गलंति । तुह सुहअ बिओए तीअ उब्बेअणीए सहअ तणुलदाए दुब्बला जीविदासा ॥३.२५८॥ [क.म. २.९]

[सह दिवसनिशाभ्यां दीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति । तव सुभग वियोगे तस्या उद्वेगिन्याः सह च तनुलतया दुर्बला जीविताशा ॥]

इत्यत्र श्वासदण्डादीनां दीर्घभावादिक्रियासु दिवसनिशादिभिः सह समावेशादयं पदोच्चयः ।

अथ तुल्यार्थकः रूपकैरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितः । अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्क इतीरितः ॥३.२५९॥ ११३

यथा मालतीमाधवे, माधवः (सहर्षम्)दिष्ट्या लवङ्गिकाद्वितीया मालत्यपि (परागता) आश्चर्यमुत्पलदृशो वदनामलेन्दु सांनिध्यतो मम मुहुर्जदिमानमेत्य । जात्येन चन्द्रमणिनेव महीधरस्य सन्धार्यते द्रवमयो मनसा विकारः ॥३.२६०॥ [मा.मा. ३.५]

इत्यत्र इन्दुचन्द्रकान्ताद्युपमया परत्यक्षस्य स्नेहरूपविकारस्य कथनात्तुल्यतर्कः ॥

अथ विचारः विचारस्त्वेकसाध्यस्य बहुसाधनवर्णनम् ॥३.२६१॥ ११४

यथा मालतीमाधवे, मकरन्दःवयस्य माधव सर्वथा समाश्वसिहि

या कौमुदी नयनयोर्भवतः सुजन्मा तस्या भवानपि मनोरथलब्धबन्धुः । तत्सङ्गमं प्रति सखे न हि संशयोऽ स्ति यस्मिन् विधिश्च मदनश्च कृताभियोगः ॥३.२६२॥ [मा.मा. १.३७]

अत्र सङ्गमरूपसाध्यार्थसिद्धये परस्परानुरागसिद्धिमदनरूपाणामुपायानां सद्भावकथनाद्विचारः ।

अथ तद्विपर्ययः विचारस्यान्यथाभावो विज्ञेयस्तद्विपर्ययः ॥३.२६३॥ ११४

यथा रामानन्दे व्यर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं कपीनामपि प्रज्ञा जाम्बवतोऽ पि यत्र न गतिः पुत्रस्य वायोरपि । मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽ पि क्षमः सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे ॥३.२६४॥

अत्र बहूपायसामर्थ्याभावकथनाद्विचारविपर्ययः स्पष्ट एव ।

अथ गुणातिपातः गुणातिपातो व्यत्यस्तगुणाख्यानमुदाहृतम् ॥३.२६५॥ ११५

यथा वेणीसंहारे, (ततः प्रविशतो भीमार्जुनौ) भीमःभो भो अलमलमाशङ्कया । कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽ तिमानी कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोऽ सौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥३.२६६॥ [वे.सं. ५.२६]

अत्र अधिक्षेपवाक्यत्वाद्व्यत्यस्तगुणाख्यानं स्पष्टमेव ।

अथ अतिशयः बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रयान् । ११५ विशेषः कीर्त्यते यत्र ज्ञेयः सोऽ तिशयो बुधैः ॥३.२६७॥

यथा विक्रमोर्वशीये, राजा (सहर्षमाकर्ण्य)अनेन प्रियोपलब्धिशंसिना मन्द्रकण्ठगर्जितेन समाश्वासितोऽ स्मि । साधर्म्याच्च भूयसी मे त्वयि प्रीतिः ।

मामाहुः पृथिवीभृतामधिपतिं नागाधिराजो भवान् अव्युच्छिन्नपृथुप्रवृत्ति भवतो दानं ममाप्यर्थिषु । स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा सर्वं मामनु ते प्रियाविरहजां त्वं तु व्यथां मानुभूः ॥३.२६८॥ [वि.उ. ४.४७]

इत्यत्र समानधर्मणि गजाधिराजे पुरूरवसा प्रियाविरहाभावकथनादतिशयः ।

अथ निरुक्तिः[*२०] निरुक्तिर्निरवद्योक्तिर्नामान्यर्थप्रसिद्धये ॥३.२६९॥ ११६ [*२०] निरुक्तमिन् थे प्रिन्तेदेदितिओन्.


यथा शाकुन्तले, प्रियंवदाहला सौंदले ! एत्थ एब्ब दाव मुहुत्तअं चिट्ठ । जाब तुए उबगदाए लदासणाहो बिअ अअं केसररुक्खओ पडिभादि । [हला शकुन्तले, अत्रैव तावन्मुहूर्तं तिष्ठ । यावत्त्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति ।]

शकुन्तलाअदो खु पिअंबदासि तुमम् । [अतः खलु प्रियंवदासि त्वम् ।] [१.१८ पद्यात्पूर्वम्] । अत्र प्रियंवदायाः प्रियभाषणादिदं नामधेयमित्युक्तिर्निरुक्तिः ।

अथ गुणकीर्तनम् लोके गुणातिरिकानां बहूनां यत्र नामभिः । एकोऽ पि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ॥३.२७०॥ ११७

यथा उत्तररामचरिते, वासन्ती

त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे । इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमिहोत्तरेण ॥३.२७१॥ [उ.रा.च. ३.२६]

इत्यत्र अमृतकौमुदीप्रभृतिनामभिः सीताशंसनं गुणकीर्तनम् ।

अथ गर्हणम् यत्र सङ्कीर्तयन् दोषान् गुणमर्थेन दर्शयेत् । गुणान् वा कीर्तयन् दोषान् दर्शयेद्गर्हणं तु तत् ॥३.२७२॥ ११८

यथा मालतीमाधवे, लवङ्गिकाभअबदि किसणचौद्दसीरअणिमहामसाणसंचारणिब्बडिअबिसमब्बबसाओ णिट्ठाबिदचण्डपासण्डुद्दण्डभुअदण्डसाहसो साहसिओ क्खु एसो । अदो क्खु मे पिअसही उक्कंपिदा । [भगवति कृष्णचतुर्दशीरजनिमहाश्मशानसञ्चारपृथग्भूतविषमव्यवसायो निष्ठापितचण्डपाषण्डोद्दण्डभुजदण्डसाहसः साहसिकः खलु एषः । अतः खलु मे प्रियसखी उत्कम्पिता ।]

मकरन्दः (स्वगतम्)साधु लवङ्गिके साधु । स्थाने खल्वनुरागोपकारयोर्गरीयसोरुपन्यासः । [६.१५ पद्यादनन्तरम्]

इत्यत्र महामांसविक्रयसाहसस्य दोषरूपेण कथेनेऽ पि माधवानुरागोत्पादनगुणतया पर्यवसितमिदं प्रमुखगर्हणत्वाद्गर्हणम् ।

गुणकीर्तने दोषपर्यवसानम्, यथा मालतीमाधवे, मदयन्तिका (तथा कृत्वा)दुम्मणाअदि वा इअं वामसीला । [दुर्मनायते वा इयं वामशीला ।]

लवङ्गिकाकहं णाम णववहूविस्संभणोबाअजाणअं लडहं बिअड्ढमहुरभासणं अरोसणं अकादरं दे भादरं भत्तारं समासादिअ दुम्मणाइस्सदि मे पिअसही । [कथं नाम नववधूविस्रम्भनोपायज्ञं लटहं विदग्धमधुरभाषणमरोषणमकातरं ते भ्रातरं भर्तारं समासाद्य दुर्मणायिष्यते मे प्रियसखी ।]

मदयन्तिकापेक्ख बुद्धरक्खिदे ! बिप्पदीबं उबालभीआमो । [पश्य बुद्धरक्षिते ! विप्रतीपमुपालभ्यामहे ।] [सप्तमाङ्के उपक्रमे]

इत्यत्र मुखतो गुणकीर्तनमप्यन्ततो दोषायेति गर्हणमिदम् ।

अथ अनुनयः अभ्यर्थनापरं वाक्यं विज्ञेयोऽ नुनयो बुधैः ॥३.२७३॥ ११९

यथा वेणिसंहारे, धृतराष्ट्रःसञ्जय ! मद्वचनाद्ब्रूहि भारद्वाजमश्वत्थामानम्

स्मरति न भवान् पीतं स्तन्यं विभज्य सहामुना मम च मृदितं क्षौमं बाल्ये त्वदङ्गविवर्तनैः । अनुजनिधनस्फीताच्छोकादतिप्रणयाच्च यद् वचनविकृतिष्वस्य क्रोधो मुधा क्रियते त्वया ॥३.२७४॥ [वे.सं. ५.४७]

इत्यत्र अश्वत्थामप्रार्थनमनुनयः ।

अथ भ्रंशः पतनं प्रकृतादर्थादन्यस्मिन् भ्रंश ईरितः ॥३.२७५॥ ११९

यथा प्रसन्नराघवे, रावणः (संवृत्तनिजरूपः पुरुषरूपेण प्रविष्टः ।)कथय क्व तावत्कर्णान्तनिवेशनीयगुणं कन्यारत्नं कार्मुकं च ।

मञ्जरीकःिदं तावत्कार्मुकम् । कन्या तु चरमं लोचनपथमवतरिष्यति ।

रावणः (ससंरम्भम्)धिङ्मूर्ख ! कथं रे राशिनक्षत्रपाठकानां गोष्ठीं न दृष्टवानसि । तेऽ पि कन्यामेव प्रथमं प्रकटयन्ति । चरमं धनुः ।

मञ्जरीकः (स्वगतम्)कथमयं वाचाटतामेव प्रकटयति । [१.३२ पद्यादनन्तरम्]

इत्यत्र रावणेन [पुरुषरूपेण प्रविष्टेन] धनुःकन्ययोः प्रकृतमर्थं परित्यज्य राशिलक्षणस्यार्थस्य प्रसञ्जनादयं भ्रंशः ।

अथ लेशः लेशः स्यादिङ्गितज्ञानकृद्विशेषणवद्वचः ॥३.२७६॥ १२०

यथा मालतीमाधवे, कामन्दकी

असौ विद्याशाभिः शिशुरपि विनिर्गत्य भवनाद् इहायातः सम्प्रत्यविकलशरच्चन्द्रवदनः । यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥३.२७७॥ [मा.मा. २.११]

इत्यत्र कामन्दक्या मालत्यनुरागज्ञाननिवेदनस्य उन्मादतरलैरिति विशेषणस्य कथनादयं लेशः ।

अत्र क्षोभः क्षोभस्त्वन्यगते हेतावन्यस्मिन् कार्यकल्पनम् ॥३.२७८॥ १२०

यथा रत्नावल्यां, राजा (उपसृत्य उद्बन्धनमपनीय)देवि ! किमिदं अकार्यं क्रियते ? मम कण्ठगताः प्राणाः पाशे कण्ठगते तव । अनर्थार्थप्रयत्नोऽ यं त्यज्यतां साहसं प्रिये ॥३.२७९॥ [र. ३.१६]

अत्र पाशे वासवदत्ताकण्ठगते तत्कार्यभूतस्य प्राणानां कण्ठगतत्वस्य वत्सराजेन स्वस्मिन् कल्पनात्क्षोभः ।

अथ मनोरथः मनोरथस्तु व्याजेन विवक्षितनिवेदनम् ॥३.२८०॥ १२१

यथा शाकुन्तले, शकुन्तला (पदान्तरं गत्वा परिवृत्य प्रकाशम्)लदाबल्लअ संदाबहारअ आमंतेमि तुमं भूओबि पैर्भोअस्स । [लतावलय सन्तापहारक आमन्त्रये त्वां भूयोऽ पि परिभोगाय ।] [३.२१ पद्यादनन्तरम्]

अत्र लतामण्डपव्याजेन दुष्यन्तामन्त्रणं मनोरथः ।

अथ अनुक्तसिद्धिः प्रस्तावनैव शेषोऽ र्थो यत्रानुक्तोऽ पि गृह्यते । १२१ अनुक्तसिद्धिरेषा स्यादित्याह भरतो मुनिः[*२१] ॥३.२८१॥ [*२१] नाट्१६.१६९ = प्रस्तावेनैव शेषोऽ र्थः कृत्स्नो यन्न प्रतीयते । वचनेन विनानुक्तसिद्धिः सा परिकीर्तिता ॥


अथ सारूप्यं दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् । १२२ सादृश्यं यत्र सङ्क्षोभात्तत्सारूप्यं निरूप्यते ॥३.२८२॥

यथा वेणिसंहारे, (प्रविश्य गदापाणिः) भीमःतिष्ठ तिष्ठ भीरु ! क्वाधुना गम्यते ? (इति केशेषु ग्रहीतुमिच्छति)

युधिष्ठिरः (बलाद्भीममालिङ्ग्य)दुरात्मन् ! भीमार्जुनशत्रो दुर्योधनहतक ! आशैशवादनुदिनं जनितापराधः क्षीबो बलेन भुजयोर्हतराजपुत्र । आसाद्य मेऽ न्तरमिदं भुजपञ्जरसय जीवन् प्रयासि न पदात्पदमद्य पाप ॥३.२८३॥ [वे.सं. ६.३८]

भीमःये कथमार्यः सुयोधनशङ्कया निर्दयं मामालिङ्गति ?

इत्यत्र चार्वाकश्रावितदुर्योधनविजयसङ्कथासङ्क्षेपेण युधिष्ठिरादीनां भीमे सुयोधनबुद्धिकथनादिदं सारूप्यम् ।

अथ माला ईप्सितार्थप्रसिद्ध्यर्थं कथ्यन्ते यत्र सूरिभिः । १२३ प्रयोजनान्यनेकानि सा मालेत्यभिधीयते ॥३.२८४॥

यथा धनञ्जयविजये

गोरक्षणं समदशात्रवमानभङ्गः प्रीतिर्विराटनृपतेरुपकारिणश्च । पर्याप्तमेकमपि मे समर्तोसवाय सर्वं पुनर्मिलितमत्र ममैव भाग्यैः ॥३.२८५॥ [ध.वि. १६]

अथ मधुरभाषणम् यत्प्रसन्नेन मनसा पूज्यं पूजयितुर्वचः । १२४ स्तुतिप्रकाशनं तत्तु ज्ञेयं मधुरभाषणम् ॥३.२८६॥

यथा अनर्घराघवे, दशरथः (सप्रश्रयम्)भगवन् विश्वामित्र ! कच्चित्कान्तारभाजां भवति परिभवः कोऽ पि शौवापदो वा प्रत्यूहेन क्रतूनां न खलु मखभुजो भुञ्जते वा हवींषि । कर्तुं वा कच्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुर् यत्सम्प्राप्तोऽ सि किं वा रघुकुलतपसामीदृशोऽ यं विवर्तः ॥३.२८७॥ [अ.रा. १.२५]

विश्वामित्रः (विहस्य) जनयति त्वयि वीर दिशां पतीन् अपि गृहाङ्गणमात्रकुटुम्बिनः । रिपुरिति श्रुतिरेव न वास्तवी प्रतिभयोन्नतिरस्तु कुतस्तु नः ॥३.२८८॥ [अ.रा. १.२६]

इत्यादावन्योन्यं पूजावचनं मधुरभाषणम् ।

अथ पृच्छा प्रश्नेनैवोत्तरं यत्र सा पृच्छा परिकीर्तिता ॥३.२८९॥ १२५

यथा सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽ स्मिन्मया विरहिता त्वया ॥३.२९०॥ [वि.उ. ४.५१]

इत्यत्र पर्वतानां नाथ मया विरहिता प्रिया त्वया दृष्टेति प्रश्ने राज्ञां नाथ त्वया विरहिता मया दृष्टेत्युत्तरस्य प्रतीयमानत्वादियं पृच्छा ।

अथ उपदिष्टम् प्रतिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते । विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥३.२९१॥ १२६

यथा शाकुन्तले, शकुन्तला (भयं नाटयन्ती)पौरव रक्ख अबिणअम् । मअणसंतत्ताबि ण हु अत्तणो पहबामि । [पौरव रक्ष अविनयम् । मदनसन्तप्तापि न खल्वात्मनः प्रभवामि ।]

राजाभीरु अलं गुरुजनाद्भयेन । न ते विदितधर्मा हि भगवान् दोषमत्र ग्रहीष्यति कुलपतिः । अपि च गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः । श्रूयन्ते परिणीतास्ताः पितृभिश्चानुमोदिताः ॥३.२९२॥ [अ.श. ३.२०]

इत्यत्र शास्त्रानुरोधेनैव प्रवृत्तत्वादिदमुपदिष्टम् ।

अथ दृष्टम् यथादेशं यथाकालं यथारूपं च वर्ण्यते । यत्प्रत्यक्षं परोक्षं वा तद्दृष्टं दृष्टवन्मतम् ॥३.२९३॥ १२७

यथा मालविकाग्निमित्रे, राजाअहो सर्वास्ववस्थासु चारुता शोभान्तरं पुष्यति । तथा हि

वामं सन्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् । पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं नृत्तादस्याः स्थितमतितरां कान्तमृज्वायतार्धम् ॥३.२९४॥ [मा.अ.मि. २.६]

इत्यत्र इतरसमक्षं स्थितायाः संस्थानजातिवर्णनादिदं प्रत्यक्षदृष्टम् ।

अप्रत्यक्षदृष्टं, यथा पद्मावत्यां

व्यत्यस्तपादकमलं वलितत्रिभङ्गी सौभाग्यमंसविरलीकृतकेशपाशम् । पिञ्छावतंसमुररीकृतवंशनालं व्यामोहनं नवमुपैमि कृपाविशेषम् ॥३.२९५॥

इत्यत्र अप्रत्यक्षस्यैव गोपालसुन्दरस्य संस्थानविशेषजातिवर्णनादपि दृष्टवदाभासनादिदमप्रत्यक्षदृष्टम् ।

श्रीसिंहभूपेन कवीश्वराणां विश्राणितानेकविभूषणेन । षट्त्रिंशदुक्तानि हि भूषणानि सलक्ष्मलक्ष्याणि मुनेर्मतेन ॥३.२९६॥ १२८

साक्षदेवोपदेशेन प्रायो धर्मसमन्वयात् । अङ्गाङ्गिभावसम्पन्नसमस्तरससंश्रयात् ॥३.२९७॥ १२९ प्रकृत्यवस्थासन्ध्यादिसम्पत्त्युपनिबन्धनात् । आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधाः ॥३.२९८॥ १३० अतिदेशबलप्रापतनाटकाङ्गोपजीवनात् । अन्यानि रूपकाणि स्युर्विकारा नाटकं प्रति ॥३.२९९॥ १३१ अतो हि लक्षणं पूर्वं नाटकस्याभिधीयते । दिव्येन वा मानुषेण धीरोदात्तेन संयुतम् ॥३.३००॥ १३२ शृङ्गारवीरान्यतरप्रधानरससंश्रयम् । ख्यातेति वृत्तसम्बद्धं सन्धिपञ्चकसंयुतम् ॥३.३०१॥ १३३ प्रकृत्यवस्थासन्ध्यङ्गसन्ध्यन्तरविभूषणैः । पताकास्थानकैर्वृत्तितदङ्गैश्च प्रवृत्तिभिः ॥३.३०२॥ १३४ विष्कम्भकादिभिर्युक्तं नाटकं तत्त्रिवर्गदम् । तदेतन्नाटकारम्भप्रकारो वक्ष्यते मया ॥३.३०३॥ १३५ विधेर्यथैव सङ्कल्पो मुखतां प्रतिपद्यते । प्रधानस्य प्रबन्धस्य तथा प्रस्तावना स्मृता ॥३.३०४॥ १३६ अर्थस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते । प्रस्तावनायास्तु मुखे नान्दी कार्या शुभावहा ॥३.३०५॥ १३७ आशीर्नमस्क्रियावस्तुनिर्देशान्यतमा स्मृता । चन्द्रनामाङ्किता प्रायो मङ्गलार्थपदोज्ज्वला ॥३.३०६॥ १३८ अष्टाभिर्दशभिश्चेष्टा सेयं द्वादशभिः पदैः । समैर्वा विषमैर्वापि प्रयोज्येत्यपरे जगुः ॥३.३०७॥ १३९

तत्राशीरन्विता नान्दी यथाभिरामराघवे

क्रियासुः कल्याणं भुजगशयनादुत्थितवतः कटाक्षाः कारुण्यप्रणयरसवेणीलहरयः । हरेर्लक्ष्मीलीलाकमलदलसौभाग्यसुहृदः सुधासारस्मेराः सुचरितविशेषैकसुलभाः ॥३.३०८॥

नमस्क्रियावती नान्दी, यथा उत्तररामचरिते

इदं कविभ्यः पूर्वेभ्यह्नमोवाकं प्रशास्महे । वन्देमहि च तां वाणीममृतामात्मनः कलाम् ॥३.३०९॥ [उ.रा.च. १.१]

वस्तुनिर्देशवती नान्दी, यथा प्रबोधचन्द्रोदये

अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्ध्रं स्वान्ते शान्तिप्रणयिनि समुन्मीलदानन्दसान्द्रम् । प्रत्यग्ज्योतिर्जयति यमिनः स्पष्टलालाटनेत्र व्याजव्यक्तीकृतमिव जगद्व्यापि चन्द्रार्धमौलेः ॥३.३१०॥ [प्र.च. १.२]

अष्टापदान्विता, यथा महावीरचरिते

अथ स्वस्थाय देवाय नित्याय हतपाप्मने । त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः ॥३.३११॥ [म.वी.च. १.१]

दशपदान्विता यथा अभिरामराघवे क्रियासुः कल्याणमित्यादि । द्वादशपदान्विता, यथा अनर्घराघवे

निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटू ज्योतिष्मती लोचने । याभ्यामर्धविबोधमुग्धमधुरश्रीरर्धनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः ॥३.३१२॥ [अ.रा. १.१]

अत्रैव मङ्गलार्थपदप्रायत्वं चन्द्रनामाङ्कितत्वं च द्रष्टव्यम् ।

नान्द्यन्ते तु प्रविष्टेन सूत्रधारेण धीमता । प्रसाधनाय रङ्गस्य वृत्तिर्योज्या हि भारती ॥३.३१३॥ १४० अङ्गान्यस्याश्च चत्वारि भरतेनावभाषिरे । प्ररोचनामुखे चैव वीथीप्रहसने इति ॥३.३१४॥ १४१ वीथी प्रहसनं स्वस्वप्रसङ्गे वक्ष्यते स्फुटम् । प्ररोचना तु सा प्रोक्ता प्रकृतार्थप्रशंसया ॥३.३१५॥ १४२ सदस्यचित्तवृत्तीनां संमुखीकरणं च यत् । प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । १४३ अचेतनौ देशकालौ कालो मधुशरन्मुखः ॥३.३१६॥

तत्र वसन्तप्रशंसया प्ररोचना, यथा पद्मावत्यां

राजत्कोरककण्टका मधुकरीझङ्कारहुङ्कारिणीर् आलोलस्तवकस्तनीरविरलाधूतप्रवालाधराः । आलिङ्गन्ति लतावधूरतितरामासन्नशाखाकरैर् अत्यारूढरसालसालरसिकाः कान्ते वसन्तोदये ॥३.३१७॥

शरत्प्रशंसे, यथा वेणीसंहारे

सत्पक्षां मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः । निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥३.३१८॥ [वे.सं. १.६]

[अथ देशः] देशस्तु देवताराजतीर्थस्थानादिरुच्यते । १४४ तदद्य कालनाथस्य यात्रेत्यादिषु लक्ष्यताम् ॥३.३१९॥ चेतनास्तु कथानाथकविसभ्यनटाः स्मृताः । १४५ कथानाथास्तु धर्मार्थरसमोक्षोपयोगिनः ॥३.३२०॥ धर्मोपयोगिनस्तत्र युधिष्ठिरनलादयः । १४६ अर्थोपयोगिनो रुद्रनरसिंहनृपादयः ॥३.३२१॥ रसोपयोगिनो विद्याधरवत्सेश्वरादयः । १४७ मोक्षोपयोगिनो रामवासुदेवादयो मताः ॥३.३२२॥ एके त्वभेदमिच्छन्ति धर्ममोक्षोपयोगिनोः ॥३.३२३॥ १४८

[चतुर्विधाः कवयः] कवयस्तु प्रबन्धारस्ते भवेयुश्चतुर्विधाः । उदात्त उद्धतः प्रौढो विनीत इति भेदतः ॥३.३२४॥ १४९

तत्र उदात्तः अन्तर्गूढाभिमानोक्तिरुदात्त इति गीयते ॥३.३२५॥ १५०

यथा मालविकाग्निमित्रे

पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् । सन्तः परीक्ष्यान्तरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः ॥३.३२६॥ [मा.अ.मि. १.२]

अत्र सन्तः परीक्षेत्यनेन स्वकृतेः परीक्षणक्षमत्वकल्पितो निजगर्वः कालिदासेन विवक्षित इति तस्योदात्तत्वम् ।

अथ उद्धतः परापवादात्स्वोत्कर्षवादी तूद्धत उच्यते ॥३.३२७॥ १५०

यथा मालतीमाधवे ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः । उत्पत्स्यतेऽ स्ति मम कोऽ पि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥३.३२८॥ [मा.मा. १.८]

अत्र जानन्ति ते किमपीति परापवादात्मम तु कोऽ पि समानधर्मेत्यात्मोत्कर्षकथनाच्च भवभूतेरुद्धतत्वम् ।

यथा प्रौढः यथोचितनिजोत्कर्षवादी प्रौढ इतीरितः ॥३.३२९॥ १५१

यथा करुणाकन्दले कविर्भारद्वाजो जगदवधिजाग्रन्निजयशा रसश्रेणीमर्मव्यवहरणहेवाकरसिकः । यदीयानां वाचां रसिकहृदयोल्लासनविद्याव् अमन्दानन्दात्मा परिणमति सन्दर्भमहिमा ॥३.३३०॥

अत्र रसप्रौढिसन्दर्भप्रसादयोर्नाटकनिर्माणोचितयोरेव कथनात्निजोत्कर्षं प्रकटयन्नयं कविः प्रौढ इत्युच्यते ।

युक्त्या निजोत्कर्षवादी प्रौढ इत्यपरैः स्मृतः ॥३.३३१॥ १५१

यथा ममैवनेदानीन्तनदीपिका किमु तमःसङ्घातमुन्मूलयेदित्यादि [रसार्णवसुधाकरे १.५५] ।

अत्र ज्योत्स्नादिदृष्टान्तमुखेन माधुर्यौजःप्रसादाख्यानां गुणानां स्वसाहित्यं रसौचित्येन [सत्तां] प्रतिपादयन्नयं कविः प्रौढ इत्युच्यते ।

अथ विनीतः विनीतो विनयोत्कर्षात्स्वापकर्षप्रकाशकः ॥३.३३२॥ १५२

यथा रामानन्दे गुणो न कश्चिन्मम वाङ्निबन्धे लभ्येत यत्नेन गवेषितोऽ पि । तथाप्यमुं रामकथाप्रबन्धं सन्तोऽ नुरागेण समाद्रियन्ते ॥३.३३३॥

अत्र विनयोत्कर्षादपकर्षमात्मन्यारोपयन्नयं कविर्विनीत इत्युच्यते ।

अथ सभ्याः सभ्यास्तु विबुधैर्ज्ञेया ये दिदृक्षानिव्ता जनाः । १५२ तेऽ पि द्विधा प्रार्थनीयाः प्रार्थकिति च स्फुटम् ॥३.३३४॥ इदं प्रयोक्ष्ये युष्माभिरनुज्ञा दीयतामिति । १५३ सम्प्रार्थ्याः सूत्रधारेण प्रार्थनीया इति स्मृताः ॥३.३३५॥ त्वया प्रयोगः क्रियतामित्युत्कण्ठितचेतसः । १५४ ये सूत्रिणं प्रार्थयन्ते ते सभ्याः प्रार्थकाः स्मृताह् ॥३.३३६॥

अथ नटाः रङ्गोपजीविनः प्रोक्ता नटास्तेऽ पि त्रिधा स्मृताः । १५५ वादका गायकाश्चैव नर्तकाश्चेति कोविदैः ॥३.३३७॥ वीणावेणुमृदङ्गादिवादका वादकाः स्मृताः । १५६ आलापनध्रुवागीतगायका गायका मताः । नानाप्रकाराभिनयकर्तारो नर्तकाः स्मृताः ॥३.३३८॥ १५७

तदेवम् विस्तरादुत सङ्क्षेपात्प्रयुञ्जीत प्ररोचनाम् ॥३.३३९॥ १५८

तत्र सङ्क्षिप्ता प्ररोचना, यथा रत्नावल्याम्

श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् । वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनर् मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥३.३४०॥ [र. १.६]

अत्र कथानायककविसभ्यनटानां चतूर्णां सङ्क्षेपेण वर्णनादियं सङ्क्षिप्तप्ररोचना । विस्तरात्तु बालरामायणादिषु द्रष्टव्या ।

एवं प्ररोचयन् सभ्यान् सूत्री कुर्यादथामुखम् । १५८ सूत्रधारो नटीं ब्रूते स्वकार्यं प्रति युक्तितः ॥३.३४१॥ प्रस्तुताक्षेपचित्रोक्त्या यत्तदामुखमीरितम् । १५९ त्रीण्यामुखाङ्गान्युच्यन्ते कथोद्घातः प्रवर्तकः ॥३.३४२॥ प्रयोगातिशयश्चेति तेषां लक्षणमुच्यते । १६० सूत्रिणो वाक्यमर्थं वा स्वेतिवृत्तसमं यदा । स्वीकृत्य प्रविशेत्पात्रं कथोद्घातो द्विधा मतः ॥३.३४३॥ १६१

तत्र वाक्येन कथोद्घातो, यथा रत्नावल्यां द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽ प्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥३.३४४॥ [र. १.७]

इति सूत्रधारस्य प्रियासमाश्वासनवाक्यं स्वस्यानुकूलतया पठतो यौगन्धरायणस्य प्रवेशात्कथोद्घातः ।

अर्थेन कथोद्घातो, यथा वेणीसंहारः

निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥३.३४५॥ [वे.सं. १.७]

अत्रोत्तरार्धे सूत्रधारेण धार्तराष्ट्राणां स्वर्गस्थितिनिरुपद्रवलक्षणयोरर्थयोर्विवक्षितयोः सतोः भीमेन स्वस्था भवन्तु मयि जीवति धार्तराष्ट्रा इति निरुपद्रवलक्षणस्यैवार्थविशेषस्य ग्रहणेन प्रवेशः कृत इति अयमर्थेन कथोद्घातः ।

अथ प्रवर्तकः आक्षिप्तं कालसाम्येन प्रवृत्तिः स्यात्प्रवर्तकम् ॥३.३४६॥ १६२

यथा बालरामायणे प्रकटितरामाम्भोजः कौशिकवान् सपदि लक्ष्मणानन्दी । शरचापनमनहेतोरयमवतीर्णः शरत्समयः ॥३.३४७॥ [बा.रा. १.१६]

अत्र विश्वामित्ररामलक्ष्मणानां शरत्समयवर्णनसाम्येन प्रवेशः प्रवर्तकः ॥

अथ प्रयोगातिशयः एषोऽ यमित्युपक्षेपात्सूत्रधारप्रयोगतः । १६२ प्रयोगसूचनं यत्र प्रयोगातिशयो हि सः ॥३.३४८॥

यथा मालविकाग्निमित्रे शिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् । देव्या इव धारिण्याः सेवादक्षः परिजनोऽ यम् ॥३.३४९॥ [मा.अ.मि. १.३]

अत्रायमित्युपक्षेपेणाक्षिप्तः परिजनप्रवेशः प्रयोगातिशयः ।

तथा च शाकुन्तले तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥३.३५०॥ [अ.शा. १.५]

इत्यत्र एष इत्युपक्षिप्तो दुष्यन्तप्रवेशः प्रयोगातिशयः ।

प्रस्तावनास्थापनेति द्विधा स्यादिदमामुखम् । १६३ विदूषकनटीपारिपार्श्विकैः सह संलापन् ॥३.३५१॥ स्तोकवीथ्यङ्गसहितान्यामुखाङ्गानि सूत्रभृत् । १६४ योजयेद्यत्र नाट्यज्ञैरेषा प्रस्तावना स्मृता ॥३.३५२॥ सर्वामुखाङ्गवीथ्यङ्गसमेतैर्वाक्यविस्तरैः । १६५ सूत्रधारो यत्र नटीविदूषकनटादिभिः ॥३.३५३॥ संलपन प्रस्तुतं चार्थमाक्षिपेत्स्थापना हि सा । १६६ शृङ्गारप्रचुरे नाट्ये योग्यः स्यादामुखक्रमः ॥३.३५४॥ रत्नावल्य्दिके प्रायो लक्ष्यतां कोविदैरयम् । १६७ वीराद्भुतादि प्राये तु प्रायः प्रस्तावनोचिता ॥३.३५५॥ अनर्घराघवाद्येषु प्रायशो वीक्ष्यतामियम् । १६८ हास्यबीभत्सरौद्रादिप्राये तु स्थापना मता ॥३.३५६॥ वीरभद्रविजृम्भादौ सा प्रायेण समीक्ष्यताम् । १६९ कथितान्यामुखाङ्गानि वीथ्यङ्गानि प्रचक्ष्महे ॥३.३५७॥ आमुखेऽ पि च वीथ्यां च साधारण्येऽ पि संमतः । १७० वीथ्यङ्गसंप्रथा तेषां वीथ्यामावश्यकत्वतः ॥३.३५८॥ उद्घात्यकावलगितप्रपञ्चत्रिगते छलम् । १७१ वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ॥३.३५९॥ असत्प्रलापव्याहारौ मृदवं च त्रयोदश । १७२ तत्रोद्घात्यकमन्योन्यालापमाला द्विधा हि तत् । गूढारथपदपर्यायक्रमात्प्रश्नोत्तरक्रमात् ॥३.३६०॥ १७३

तत्र गूढार्थपदपर्यायक्रमादुद्घात्यकं, यथा वीरभद्रविजृम्भितनामनि डिमे सखे कोऽ यं रौद्रः कथय महितः कोऽ पि हि रसो रसो नामायं कः स्मृतिसुरभिरास्वादमहिमा । समास्वादः कोऽ यं क्रमगलितवेद्यान्तरमतिर् मनोऽ वस्था ज्ञातं ननु वदसि निद्रान्तरमिति ॥३.३६१॥

अत्र रौद्ररसस्वरूपविवेचनाय रसास्वादावस्थालक्षणैर्गूढार्थपदपर्यायैर्नटसूत्रधारयोः संलापादिदमादिममुद्घात्यकम् ।

प्रश्नोत्तरक्रमाद्, यथा तत्रैव डिमे

सेव्यं किं परमुत्तमस्य चरितं लोकोत्तरः कः पुमान् श्रीसिंहः स तु कीदृशो वद निधिर्धर्मस्य धर्मस्तु कः । सत्योक्तिर्वचनं तु किं कविनुतं को नाम तादृक्कविर् विश्वेशः स तु कीदृशो विजयते विश्वेषु विश्वेशवत् ॥३.३६२॥

अत्र गूढार्थपदपर्यायरहितप्रश्नोत्तरक्रमेण नटसूत्रधारयोः संलापात्प्रकृतकविवर्णनोपयुक्तमिदमुद्घात्यकम् ।

अथ अवलगितम् द्विधावलगितं प्रोक्तमर्थावलगनात्मकम् । अन्यप्रसङ्गादन्यस्य संसिद्धिः प्रकृतस्य व ॥३.३६३॥ १७४

अन्यप्रसङ्गादन्यस्य सिद्ध्या अवलगितं, यथा अभिरामराघवे अनपोतनायकीये

हन्त सारस्वतं चक्षुः कवीनां क्रान्तदर्शिनाम् । अतिशय्य प्रवर्तेत नियतार्थेषु वस्तुषु ॥३.३६४॥

अत्र सूत्रधारेण कवीनां सारस्वतं चक्षुरिति कविसामान्यवर्णनेन स्वाभिलषितकविविशेषोत्कर्षसाधनरूपात्प्रकृताएर्थावलगनादवलगितमिदम् ।

अन्यप्रसङ्गेन प्रकृतस्य सिद्धिर्, यथा अनर्घराघवे

सूत्रधारःमारिष, स्थाने खलु भवतः कुतूहलम् । ईदृशमेवैतत् ।

तत्तादृगुज्ज्वलककुत्स्थकुलप्रशस्ति सौरभ्यनिर्भरगभीरमनोहराणि । वाल्मीकिवागमृतकूपनिपानलक्ष्मीम् एतानि बिभ्रति मुरारिकवेर्वचांसि ॥३.३६५॥ [अ.रा. १.१२]

अत्राप्रकृतवाल्मीकिवर्णनप्रसङ्गेन प्रकृतमारिषकुतूहलोत्कर्षसंसाधनरूपात्प्रकृतनाट्यावलगनादिदं द्वितीयमवलगितम् ।

अथ प्रपञ्चः प्रपञ्चस्तु मिथः स्तोत्रमसद्भूतं च हास्यकृत् ॥३.३६६॥ १७५

यथा वीरभद्रविजृम्भणे नाट्याचार्यस्त्वमसि सुहृदां त्वादृशानां प्रसादात् कोऽ यं गीतश्रमविधिरहो भिन्नकण्ठोऽ द्य जातः । ज्ञातं ज्ञातं परिहससि मां भाषितैर्भावगर्भैर् मैवं वाच्यं त्वमसि हि गुरुस्तत्र चेष्टिः प्रमाणम् ॥३.३६७॥

अत्र नटसूत्रधारयोरन्यथार्थस्यान्योन्यस्तोत्रस्य हास्यायैव प्रवृत्तत्वात्प्रपञ्चः ।

अथ त्रिगतम् श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं भवेत् ॥३.३६८॥ १७५

यथाभिरामराघवे, पारिपार्श्विकः

वाणीमुरजक्वणितं श्रुतिसुभगं किं सुधामुचः स्तनितम् । जलदस्य किमा ज्ञातं तव मधुरगभीरवाग्विलासोऽ यम् ॥३.३६९॥

अत्र सूत्रधारवाग्विलासे मुरजजलदध्वनिवितर्कसम्भावनात्त्रिगतम् ।

अथ छलम् प्रोक्तं छलं ससोत्प्रासैः प्रियाभासैर्विलोभनम् ॥३.३७०॥ १७६

यथा अभिरामराघवे

विद्वानसौ कलावानपि रसिको बहुविधप्रयोगज्ञः । इति च भवन्तं विद्मो निर्व्यूढं साधु तत्त्वया सर्वम् ॥३.३७१॥

अत्र विपरीतलक्षणया प्रहेलिकार्थमजानतः पारिपार्श्विकस्योपालम्भनात्छलम् ।

अथ वाक्केलिः साकाङ्क्षस्यैव वाक्यस्य वाक्केलिः स्यात्समाप्तितः ॥३.३७२॥ १७६

यथा महेश्वरानन्दे

कुलशोकहरं कुमारमेकं कुहनाभैरवपारणोन्मुखाभ्याम् । उपहूय कृतादरं पितृभ्याम् उपरि प्रस्तुतमों नमः शिवाय ॥३.३७३॥

अत्र वाक्ये साकाङ्क्षे विशेषांशमनुक्त्वा नमः शिवायेति समाप्तिकथनाद्वाक्केलिः ।

अथ अधिबलम् स्पर्धयान्योन्यसामर्थ्यव्यक्तिस्त्वधिबलं भवेत् ॥३.३७४॥ १७७

यथा वीरभद्रविजृम्भणे

मा भूच्चिन्ता तवेयं मयि सति कुशले दुष्करः किं प्रयोगो मानिन् जानासि किं त्वं किमपि न विदिता चातुरी मे त्वया किम् । आस्तां स्वस्तोत्रकन्था कृतमिह कथैतैर्भूतपूर्वैः प्रसङ्गैः पत्न्याहं वश्यकर्मा सपदि नटविधावेष सज्जीभवामि ॥३.३७५॥

अत्र नटसूत्रधारयोः परस्परस्पर्धया स्वस्वप्रयोगसामर्थ्यप्रकाशनादधिबलम् ।

अथ गण्डम् गण्डं प्रस्तुतसम्बन्धि भिन्नार्थं सहसोदितम् ॥३.३७६॥ १७७

यथा वेणीसंहारे निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ [वे.सं. १.७]

तत्र सूत्रधारेण निरुपद्रवलक्षणेऽ र्थे विवक्षितेऽ पि स्वर्गस्थितिलक्षणार्थसूचकस्य रक्तप्रसाधितअभुव इत्यादिश्लिष्टवाक्यस्य सहसा प्रस्तुतसम्बन्धितया भाषितत्वाद्गण्डम् ।

अथ अवस्यन्दितम् पूर्वोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् ॥३.३७७॥ १७८

यथा वेणीसंहारे, सूत्रधारः

सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः । निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥३.३७८॥ [वे.सं. १.६]

पारिपार्श्विकः (प्रविश्य सम्भ्रान्तः)शान्तं पापम् । प्रतिहतममङ्गलम् ।

सूत्रधारःमा भैषीः । ननु शरत्समयवर्णनाशंसया हंसान् धार्तराष्ट्रा इति व्यपदिशामि ।

अत्र पूर्वोक्तस्य सुयोधनादिनिपातस्य हंसपातत्वेन व्याख्यानादिदमवस्यन्दितम् ।

अथ नालिका प्रहेलिका निगूढार्था हास्यार्थं नालिका स्मृता । १७८ अन्तर्लापा बहिर्लापेत्येषा द्वेधा समीरिता ॥३.३७९॥

तत्र अन्तर्लापा, यथा प्रसन्नराघवे

प्रत्यङ्कमङ्कुरितसर्वनवावतारन् नव्योल्लसत्कुसुमराजिविराजिबन्धम् । घर्मेतरांशुमिव वक्रतयातिरम्यं नाट्यप्रबन्धमतिमञ्जुलसंविधानम् ॥३.३८०॥ [प्र.रा. १.७]

अत्र प्रसन्नराघवनामेत्युत्तरस्य सप्ताक्षराष्टपङ्क्तिक्रमेण लिखितेऽ स्मिन्नेव श्लोके मृग्यत्वादन्तर्लापो नामेयम् ।

बहिर्लापा, यथा बालरामायणे कमबड्ढन्तविलासं रसासले कं करेइ कन्दप्पो । [क्रमवर्धमानविलासं रसातले कं करोति कन्दर्पः ।]

सूत्रधारःये प्रश्नोत्तरम् । सेयमस्मत्प्रीतिरिति देवादेशः । तत्स्वयमेव वाचयामि

निर्भयगुरुर्व्यधत्त च वाल्मीकिकथां किमनुसृत्य ॥३.३८१॥ [बा.रा. १.५]

इत्यत्र बालरामायणमित्युत्तरस्य बहिरेव मृग्यत्वाद्बहिर्लापा नाम नालिकेयम् ।

अथ असत्प्रलापः असम्बद्धकथालापोऽ सत्प्रलाप इतीरितः ॥३.३८२॥ १७९

यथा वीरभद्रविजृम्भणे, नटः पत्नी परिलम्बिकुचा तनया मम दन्तुरापि तरुणवयाः । क्रीडाकपिरस्ति गृहे तदहं नाट्यप्रयोगमर्मज्ञः ॥३.३८३॥

अत्र नटेन स्वकीयनाट्यप्रयोगमर्मज्ञत्वे हेतुतया कथितानां क्रीडाकपिसद्भावादीनामसम्बद्धत्वादयमसत्प्रलापः ।

अथ व्याहारः अन्यार्थं वचनं हास्यकरं व्याहार उच्यते ॥३.३८४॥ १८०

यथा आनन्दकोशनामनि प्रहसने(प्रविश्य) नटीअय्य को णिओओ ? [आर्य, को नियोगः ?]

सूत्रधारःार्ये गर्गरिके नूनमानन्दकोशनाभिलाषिणी परिषदियम् ।

नटीता दंसेदु अय्यो । तदो किं बिलंबेण । [तद्दर्शयतु आर्यः । ततः किं विलम्बेन ?]

सूत्रधारःयि गायिके गर्गरिके भवत्या मुखव्यापारेण बीजोत्थापनानुसन्धायिना भवितव्यम् ।

नटी (सहर्षम्)कीरिसो सो मुहबाबारो । [कीदृशः स मुख्यव्यापारः ?]

सूत्रधारःनन्वमुमेव शिशिरमधिकृत्य ध्रुवागानरूपः ।

इत्यत्र आनन्दकोशबीजोत्थापनमुखव्यापाराणां रूपकबीजोत्थापनध्रुवागानार्थानामपि अन्यार्थप्रतीत्या हास्यकरत्वादयं व्याहारः ।

अथ मृदवम् दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ॥३.३८५॥ १८०

यथा नार्हाः केवलवेदपाठविधिना कीरा इव छान्दसाः शास्त्रीयाभ्यसनाच्छुनामिव नृणामन्योन्यकोलाहलः । व्यर्थं काव्यमसत्यवस्तुघटनात्स्वप्नेन्द्रजालादिवद् व्याकीर्णव्यवहारनिर्णयकृते त्वेकैव कार्या स्मृतिः ॥३.३८६॥

अत्र काव्यादिषु गुणभूतेष्वपि दोषत्वकथनाद्मृदवमिदम् ।

एवमामुखमायोज्य सूत्रधारे सहानुगे । निष्क्रान्तेऽ थत्तदाक्षिप्तैः पात्रैर्वस्तु प्रपञ्चयेत् ॥३.३८७॥ १८१ वस्तु सर्वं द्विधा सूच्यमसूच्यमिति भेदतः । रसहीनं भवेदत्र वस्तु तत्सूच्यमुच्यते ॥३.३८८॥ १८२ यद्वस्तु नीरसं तत्तु सूचयेत्सूचकास्त्वमी । विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकाः ॥३.३८९॥ १८३

तत्र विष्कम्भो भूतभाविवस्त्वंशसूचकः । अमुख्यपात्ररचितः सङ्क्षेपैकप्रयोजनः ॥३.३९०॥ १८४ स शुद्धो मिश्र इत्युक्तो मिश्रः स्यान्नीचमध्यमैः । सोऽ यं चेटीनटाचार्यसंलापपरिकल्पितः ॥३.३९१॥ १८५ मालविकाग्निमित्रस्य प्रथमाङ्के निरूप्यताम् । शुद्धः केवलमध्योऽ यमेकानेककृतो द्विधा ॥३.३९२॥ १८६ रत्नावल्यामेकशुद्धः प्राप्तयौगन्धरायणः । अनेकशुद्धो विष्कम्भः षष्ठाङ्केऽ नर्घराघवे । १८७ निरूप्यतां सम्प्रयुक्तो माल्यवच्छुकसारणैः ॥३.३९३॥

अथ चूलिका वन्दिमागधसूताद्यैः प्रतिसीरान्तरस्थितैः । १८८ अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका ॥३.३९४॥ सा द्विधा चूलिका खण्डचूलिका चेति भेदतः । १८९ पात्रैर्यवनिकान्तःस्थैः केवलं या तु निर्मिता ॥३.३९५॥ आदावङ्कस्य मध्ये वा चूलिका नाम सा स्मृता । १९० प्रवेशनिर्गमाभावादियमङ्काद्बहिर्गता ॥३.३९६॥

अङ्कादौ चूलिका, यथा अनर्घराघवे सप्तमाङ्के, नेपथ्ये

तमिस्रामूर्च्छालत्रिजगदगद्ङ्कारकिरणे रघूणां गोत्रस्य प्रसवितरि देवे सवितरि । पुरःस्थे दिक्पालैः सह परगृहावासवचनात् प्रविष्टो वैदेही दहनमथ शुद्धा च निरगात् ॥३.३९७॥ [अ.रा. ७.१]

इत्यादौ नेपथ्यगतैरेव पात्रैः सीताज्वलनप्रवेशनिर्गमादीनामर्थानां प्रयोगानुचितानां सूचनादियं चूलिका ।

अङ्कमध्ये, यथा रत्नावल्यां द्वितीयाङ्के, (नेपथ्ये कलकलः)

कण्ठे कृत्तावशेषं कनकमयमधः शृङ्खलादाम कर्षन् क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्कणीचक्रवालः । दत्तातङ्कोऽ ङ्गनानामनुसृतसरणिः सम्भ्रमादश्वपालैः प्रभ्रष्टोऽ यं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः ॥३.३९८॥ [र. २.२]

अत्र नेपथ्यगतैः पात्रैः प्रयोगानुचितस्य वानरविप्लवाद्यर्थस्य सूचनादियं मध्यचूलिका ।

अथ खण्डचूलिका रङ्गनेपथसंस्थायिपात्रसंलापविस्तरैः । १९१ आदौ केवलमङ्कस्य कल्पिता खण्डचूलिका । प्रवेशनिर्गमाप्राप्तेरियमङ्काद्बहिर्गता ॥३.३९९॥ १९२

यथा बालरामायणे सप्तमाङ्कस्यादौ, (ततः प्रविशति वैतालिकः कर्पूरचण्डः) वैतालिकःभद्र चन्दनचण्ड परित्यज निद्रामुद्राम् । विमुञ्च निजोटजाभ्यन्तरम् ।

नेपथ्येअय्य कप्पुरचंड एसा मिट्ठा पभादणिद्दा । सुविस्सं दाव । [आर्य कर्पूरचण्ड एषा मिष्टा प्रभातनिद्रा । स्वप्स्यामि तावत् ।]

कर्पूरचण्डःहो उत्साहशक्तिर्भवतः । अमन्त्रशीलो महीपतिः अपरप्रबन्धदर्शी कविः अपाठरुचिश्च वद्नी न चिरं नन्दति ।

नेपथ्येता एत्थ संत्थरत्थिदो णिमीलिदणअणो जेब्ब सुप्पभादं पठिस्सम् । [तदत्र संस्तरस्थितो निमीलितनयन एव सुप्रभातं पठिष्यामि ।]

कर्पूरचण्डःेतदपि भवतो भूरि । तदुपश्लोकयावो रामभद्रम् । (किञ्चिदुच्चैः)

मार्तण्डैककुलप्रकाण्डतिलकस्त्रैलोक्यरक्षामणिर् विश्वामित्रमहामुनेर्निरुपधिः शिष्यो रघुग्रामणीः । रामस्ताडितताटकः किमपरं प्रत्यक्षनारायणः कौसल्यानयनोत्सवो विजयतां भूकाश्यपस्यात्मजः ॥३.४००॥ [बा.रा. ७.३]

नेपथ्ये कन्दप्पुद्दामदप्पप्पसमणगुरुणो बह्मणो कालदण्डे पाणिं देंतस्स गंगातरलिदससिणो पब्बईबल्लहस्स । चाबं चंडाहिसिंजारबहरिदणहं कर्षणारुद्धमज्झं जं भग्गं तस्स सद्दो णिसुणिति हुअणे बित्थरंतो णमाइ ॥३.४०१॥ [बा.रा. ७.४]

[कन्दर्पोद्दामदर्पप्रशमनगुरोर्ब्रह्मणः कालदण्डे पाणिं दातुर्गङ्गातरलितशशिनः पर्वतीवल्लभस्य । चापं चण्डाभिशिञ्जारवभरितनभः कर्षणारुद्धमध्यं यत्भग्नं तस्य शब्दो निःश्रूयते भुवने विस्तरन्न माति ॥]

अत्र प्रविष्टेन कर्पूरचण्डेन यवनिकान्तर्गतेन चन्दनचण्डेन च पर्यायप्रवृत्तवाग्विलासैस्ताटकावधादिविभीषणाभयप्रदानान्तस्य रामभद्रचरितस्य बाहुल्यात्प्रयोगानुचितस्य सूचनादियं खण्डचूलिका ।

एनां विष्कम्भमेवान्ये प्राहुर्नैतन्मतं मम । अप्रविष्टस्य संलापो विष्कम्भे न हि युज्यते । १९३ तद्विष्कम्भशिरस्कत्वान्मतेयं खण्डचूलिका ॥३.४०२॥

अथ अङ्कास्यम् पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर्भाव्यङ्कवस्तुनः । १९४ सूचनं तदविच्छित्यै यत्तदङ्कास्यमीरितम् ॥३.४०३॥ यथा हि वीरचरिते द्वितीयाङ्कावसानके । १९५ प्रविष्टेन सुमन्त्रेण सूचितं रामविग्रहे ॥३.४०४॥ वसिष्ठविश्वामित्रादिसमाभाषणलक्षणम् । १९६ वस्तूत्तराङ्के पूर्वार्थाविच्छेदेनैव कल्पितम् ॥३.४०५॥

अथाङ्कावतारः अङ्कावतारः पात्राणां पूर्वकार्यानुवर्तिनाम् । १९७ अविभागेन सर्वेषां भाविन्यङ्के प्रवेशनम् ॥३.४०६॥ द्वितीयाङ्के मालविकाग्निमित्रे स निरूप्यताम् । १९८ पात्रेणाङ्कप्रविष्टेन केवलं सूचितत्वतः । भवेदङ्कादबाह्यत्वमङ्कास्याङ्कावतारयोः ॥३.४०७॥ १९९

अथ प्रवेशकः यन्नीचैः केवलं पात्रैर्भाविभूतार्थसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥३.४०८॥ २०० सोऽ यं चेटिद्वयालापसंविधानोपकल्पितः । मालतीमाधवे प्राज्ञैर्द्वितीयाङ्के निरूप्यताम् ॥३.४०९॥ २०१ असूच्यं तु शुभोदात्तरसभावनिरन्तरम् । प्रारम्भे यद्यसूच्यं स्यादङ्कमेवात्र कल्पयेत् ॥३.४१०॥ २०२ रसालङ्कारवस्तूनामुपलालनकाङ्क्षिणाम् । जनन्यङ्कवदाधारभूतत्वादङ्क उच्यते ॥३.४११॥ २०३ अङ्कस्तु पञ्चषैर्द्वित्रैरङ्गिनोऽ ङ्गस्य वस्तुनः । रसस्य वा समालम्बभूतैः पात्रैर्मनोहरः । २०४ संविधानविशेषः स्यात्तत्रासूच्यं प्रपञ्चयेत् ॥३.४१२॥

अथ असूच्यविभागः असूच्यं तद्द्विधा दृश्यं श्राव्यं चाद्यं तु दर्शयेत् । २०५ द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः ॥३.४१३॥ स्वगतं स्वैकविज्ञेयं प्रकाशं तद्द्विधा भवेत् । २०६ सर्वप्रकाशं नियतप्रकाशं चेति भेदतः ॥३.४१४॥ सर्वप्रकाशं सर्वेषां स्थितानां श्रवणोचितम् । २०७ द्वितीयं तु स्थितेष्वप्येष्वेकस्य श्रवणोचितम् ॥३.४१५॥ द्विधा विभाव्यतेऽ न्यच्च जनान्तमपवारितम् । २०८ त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् ॥३.४१६॥ अन्येनामन्त्रणं यत्स्यात्तज्जनान्तिकमुच्यते । २०९ रहस्यं कथ्यतेऽ न्यस्य परावृत्यापवारितम् ॥३.४१७॥ इत्थं श्राव्यं च दृश्यं च प्रयुज्य सुसमाहितैः । २१०। पात्रैर्निष्क्रमणं कार्यमङ्कान्ते सममेव हि ॥३.४१८॥ अङ्कच्छेदश्च कर्तव्यः कालावस्थानुरोधतः । २११ दिनार्धदिनयोर्योग्यमङ्के वस्तु प्रवर्तयेत् ॥३.४१९॥

अथ गर्भाङ्कः अङ्कप्रसङ्गाद्गर्भाङ्कलक्षणं वक्ष्यते मया । २१२ रसनायकवस्तूनां महोत्कर्षाय कोविदैः ॥३.४२०॥ अङ्कस्य मध्ये योऽ ङ्कः स्यादसौ गर्भाङ्क ईरितः । २१३ वस्तुसूचकनान्दीको दिङ्मात्रमुखसङ्गतः ॥३.४२१॥ अर्थोपक्षेपकैर्हीनश्चूलिकापरिवर्जितैः । २१४ अनेष्यद्वस्तुविषयः पात्रैश्त्रिचतुरैर्युतः ॥३.४२२॥ नातिप्रपञ्चेतिवृत्तः स्वाधाराङ्काङ्गशोभितः । २१५ प्रस्तुतार्थानुबन्धी च पात्रनिष्क्रमणावधिः ॥३.४२३॥ प्रथमाङ्के न कर्तव्यः सोऽ यं काव्यविशारदैः । २१६ सोऽ यमुत्तररामे तु रसोत्कर्षाय कथ्यताम् ॥३.४२४॥ नेतुरुत्कर्षको ज्ञेयो बालरामायणे त्वयम् । २१७ अमोघराघवे सोऽ यं वस्तूत्कर्षैककारणम् ॥३.४२५॥

नाटके अङ्कनियमः नाटकेऽ ङ्का न कर्तव्याः पञ्चन्यूना दशाधिकाः । २१८ तदीदृशगुणोपेतं नाटकं भुक्तिमुक्तिदम् ॥३.४२६॥

तथा च भरतः धर्मार्थसाधनं नाट्यं सर्वदुःखापनोदकृत् । आसेवध्वं तदृषयस्तस्योत्थानं तु नाटकम् ॥३.४२७॥ इति ।

पूर्णादिनाटकभेदानङ्गीकारः नाटकस्य तु पूर्णादिभेदाः केचन कल्पिताः । २१९ तेषां नातीव रम्यत्वादपरीक्षाक्षमत्वतः । मुनिनानादृतत्वाच्च तानुद्देष्टुमुदास्महे ॥३.४२८॥ २२०

अथ प्रकरणम् यत्रेतिवृत्तमुत्पाद्यं धीरशान्तश्च नायकः । रसः प्रधानं शृङ्गारः शेषं नाटकवद्भवेत् ॥३.४२९॥ २२१ तद्धि प्रकरणं शुद्धं धूर्तं मिश्रं च तत्त्रिधा । कुलस्त्रीनायकं शुद्धं मालतीमाधवादिकम् ॥३.४३०॥ २२२ गणिकानायिकं धूर्तं कामदत्ताह्वयादिकम् । कितवध्य्पुतकारादिव्यापारं त्वत्र कल्पयेत् ॥३.४३१॥ २२३ मिश्रं तत्कुलजावेश्ये कल्पिते यत्र नायिके । धूर्तशुद्धक्रमोपेतं तन्मृच्छकटिकादिकम् ॥३.४३२॥ २२४

नाटिकायाः न पृथग्रूपत्वम् नाटिका त्वनयोर्भेदो न पृथग्रूपकं भवेत् । प्रख्यातं नृपतेर्वृत्तं नाटकादाहृतं यतः ॥३.४३३॥ २२५ बुद्धिकल्पितवस्तुत्वं तथा प्रकरणादपि । विमर्शसन्धिराहित्यं भेदकं चेन्न तन्मतम् ॥३.४३४॥ २२६ रत्नावल्यादिके लक्ष्ये तत्सन्धेरपि दर्शनात् । स्त्रीप्रायचतुरङ्कादिभेदकं चेन्न तन्मतम् ॥३.४३५॥ २२७ एकद्वित्र्यङ्कपात्रादिभेदेनानन्तता यतः । देवीवशात्सङ्गमेन भेदश्चेत्तन्न युज्यते । मालविकाग्निमित्रादौ नाटिकात्वप्रसङ्गतः ॥३.४३६॥ २२८

प्रकरणिकानाटिकयोरनुसरणीया हि नाटिकासरणिः । अत एव भरतमुनिना नाट्यं दशधा निरूपितं पूर्वम् ॥३.४३७॥ २२९

अथ उतृष्टिकाङ्कः ख्यातेन वा कल्पितेन वस्तुना प्राकृतैर्नरैः । अन्वितः कैशिकीहीनः सात्त्वत्यारभटीमृदुः ॥३.४३८॥ २३० स्त्रीणां विलापव्यापारैरुपेतः करुणाश्रयः । नानासङ्ग्रामसंनाहप्रहारमरणोत्कटः ॥३.४३९॥ २३१ मुखनिर्वाहवान् यः स्यादेकद्वित्र्यङ्क इच्छया । उत्सृष्टिकाङ्कः स ज्ञेयः सविष्कम्भप्रवेशकः ॥३.४४०॥ २३२ अस्मिन्नमङ्गलप्राये कुर्यान्मङ्गलमन्ततः । प्रयोज्यस्य वधः कार्यः पुनरुज्जीवनावधिः ॥३.४४१॥ २३३ उज्जीवनादप्यधिकं मनोरथफलोऽ पि वा । विज्ञेयमस्य लक्ष्यं तु करुणाकन्दलादिकम् ॥३.४४२॥ २३४

अथ व्यायोगः खातेतिवृत्तसम्पन्नो निःसहायकनायकः । युक्तो दशावरैह्ख्यातैरुद्धतैः प्रतिनायकैः ॥३.४४३॥ २३५ विमर्शगर्भरहितो भारत्यारभटीस्फुटः । हास्यशृङ्गाररहित एकाङ्को रौद्रसंश्रयः ॥३.४४४॥ २३६ एकवासरवृत्तान्तः प्राप्तविष्कम्भचूलिकः । अस्त्रीनिमित्तसमरो व्यायोगः कथितो बुधैः । २३७ विज्ञेयमस्य लक्ष्यं तु धनञ्जयजयादिकम् ॥३.४४५॥

अथ भाणः स्वस्य वान्यस्य वा वृत्तं विटेन निपुणोक्तिना । २३८ शौर्यसौभाग्यसंस्तुत्या वीरशृङ्गारसूचकम् ॥३.४४६॥ बुद्धिकल्पितमेकाङ्कं मुखनिर्वहणान्वितम् । २३९ वर्ण्यते भारतीवृत्त्या यत्र तं भाणमीरते ॥३.४४७॥ एकपात्रप्रयोज्येऽ स्मिन् कुर्यादाकाशभाषितम् । २४० अन्येनानुक्तमप्यन्यो वचः श्रुत्वेव यद्वदेत् ॥३.४४८॥ इति किं भणसीत्येतद्भवेदाकाशभाषितम् । २४१ लास्याङ्गानि दशैतस्मिन् संयोज्यान्यत्र तानि तु ॥३.४४९॥ गेयपदं स्थितपाठ्यमासीनं पुष्पगन्धिका । २४२ प्रच्छेदकस्त्रिमूढं च सैन्धवाख्यं द्विमूढकम् । उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च ॥३.४५०॥ २४३

अथ गेयपदम् वीणादिवादनेनैव सहितं यत्र भाव्यते । ललितं नायिकागीतं तद्गेयपदमुच्यते ॥३.४५१॥ २४४ चञ्चत्पुटादिना वाक्याभिनयो नायिकाकृतः । भूमिचारीप्रचारेण स्थितपाठ्यं तदुच्यते ॥३.४५२॥ २४५ भ्रूनेत्रपाणिचरणविलासाभिनयान्वितम् । योज्यमासीनया पाठ्यमासीनं तदुदाहृतम् ॥३.४५३॥ २४६ नानाविधेन वाद्येन नानाताललयान्वितम् । लास्यं प्रयुज्यते यत्र सा ज्ञेया पुष्पगन्धिका ॥३.४५४॥ २४७ अन्यासङ्गमशङ्किन्या नायकस्यातिरोषया । प्रेमच्छेदप्रकटनं लास्यं प्रच्छेदकं विदुः ॥३.४५५॥ २४८ अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम् । नाट्यं पुरुषभावाढ्यं त्रिमूढकमुदाहृतम् ॥३.४५६॥ २४९ देशभाषाविशेषेण चलद्वलयशृङ्खलम् । लास्यं प्रयुज्यते यत्र तत्सैन्धवमिति स्मृतम् ॥३.४५७॥ २५० चारीभिर्ललिताभिश्च चित्रार्थाभिनयान्वितम् । स्पष्टभावरसोपेतं लास्यं यत्तद्द्विमूढकम् ॥३.४५८॥ २५१ अपरिज्ञातपार्श्वस्थं गेयभावविभूषितम् । लास्यं सोत्कण्ठवाक्यं तदुत्तमोत्तमकं भवेत् ॥३.४५९॥ २५२ कोपप्रसादजनितं साधिक्षेपपदाश्रयम् । वाक्यं तदुक्तप्रत्युक्तं यूनोः प्रश्नोत्तरात्मकम् ॥३.४६०॥ २५३ शृङ्गारमञ्जरीमुख्यमस्योदाहरणं मतम् । लास्याङ्गदशकं तत्र लक्ष्यं लक्ष्यविचक्षणैः ॥३.४६१॥ २५४

अथ समवकारः प्रख्यातेनेतिवृत्तेन नायकैरपि तद्विधैः । पृथक्प्रयोजनासक्तैर्मिलितैर्देवदानवैः ॥३.४६२॥ २५५ युक्तं द्वादशभिर्वीरप्रधानं कैशिकीमृदु । त्र्यङ्कं विमर्शहीनं च कपटत्रयसंयुतम् ॥३.४६३॥ २५६ त्रिविद्रवं त्रिशृङ्गारं विद्यात्समवकारकम् । मोहात्मको भ्रमः प्रोक्तः कपटस्त्रिविधस्त्वयम् ॥३.४६४॥ २५७ सत्त्वजः शत्रुजो दैवजनितश्चेति सत्त्वजः । क्रूरप्राणिसमुत्पन्नः शत्रुजस्तु रणादिजः ॥३.४६५॥ २५८ वात्यावर्षादिसम्भूतो दैवजः कपटः स्मृतः । उदाहरणमेतेषामावेगे लक्ष्यतां बुधैः ॥३.४६६॥ २५९ जीवग्राहोऽ पि मोहो वा कपटाद्विद्रवस्ततः । कपटत्रयसम्भूतेरयं च त्रिविधो मतः । २६० धर्मार्थकामसम्बद्धस्त्रिधा शृङ्गार ईरितः ॥३.४६७॥ धर्मशृङ्गारः व्रतादिजनितः कामो धर्मशृङ्गार ईरितः । २६१ पार्वतीशिवसम्भोगस्तदुदाहरणं मतम् ॥३.४६८॥

अर्थशृङ्गारः यत्र कामेन सम्बद्धैरर्थैरर्थानुबन्धिभिः । २६२ भुज्यमानैः सुखप्राप्तिरर्थशृङ्गार ईरितः ॥३.४६९॥ सार्वभौमफलप्राप्तिहेतुना वत्सभूपतेः । २६३ रत्नावल्या समं भोगो विज्ञेया तदुदाहृतिः ॥३.४७०॥

कामशृङ्गारः दुरादरसुरापानपरदारादिकेलिजः । २६४ तत्तदास्वादललितः कामशृङ्गार ईरितः ॥३.४७१॥ तदुदाहरणं प्रायो दृश्यं प्रसनादिषु । २६५ शृङ्गारत्रितयं तत्र नात्र बिन्दुप्रवेशकौ ॥३.४७२॥ मुखप्रतिमुखे सन्धी वस्तु द्वादशनाडिकम् । २६६ प्रथमे कल्पयेदङ्के नाडिका घटिकाद्वयम् ॥३.४७३॥ मुखादिसन्धित्रयवांश्चतुर्नाडिकवस्तुकः । २६७ द्वितीयाङ्कस्तृतीयस्तु द्विनाडिककथाश्रयः ॥३.४७४॥ निर्विमर्शचतुःसन्धिरेवमङ्कास्त्रयः स्मृताः । २६८ वीथीप्रहसनाङ्गानि कुर्यादत्र समासतः ॥३.४७५॥ प्रस्तावनायाः प्रस्तावे प्रोक्तो वीथ्यङ्गविस्तरः । २६९ दश प्रहसनाङ्गानि तत्प्रसङ्गे प्रचक्ष्महे । उदाहरणमेतस्य पयोधिमथनादिकम् ॥३.४७६॥ २७०

अथ वीथी सूच्यप्रधानशृङ्गारा मुखनिर्वहणान्विता । एकयोज्या द्वियोज्या वा कैशिकीवृत्तिनिर्मिता ॥३.४७७॥ २७१ वीथ्यङ्गसहितैकाङ्का वीथीति कथिता बुधैः । अस्यां प्रायेण लास्याङ्गदशकं योजयेन्न वा ॥३.४७८॥ २७२ सामान्या परकीया वा नायिकात्रानुरागिणी । वीथ्यङ्गप्रायवृत्तित्वान्नोचिता कुलपालिका । २७३ लक्ष्यमस्यास्तु विज्ञेयं माधवीवीथिकादिकम् ॥३.४७९॥

अथ प्रहसनम् वस्तुसन्ध्यङ्कलास्याङ्गवृत्तयो यत्र भाणवत् । २७४ रसो हास्यः प्रधानं स्यादेतत्प्रहसनं मतम् ॥३.४८०॥ विशेषेण दशाङ्गानि कल्पयेदत्र तानि तु । २७५ अवगलितावस्कन्दौ व्यवहारो विप्रलम्भ उपपत्तिः । भयमनृतं विभ्रान्तिर्गद्गदवाक्च प्रलापश्च ॥३.४८१॥ २७६

तत्र अवगलितम् पूर्वमात्मगृहीतस्य समाचारस्य मोहतः । दूषणं त्यजनं चात्र द्विधावगलितं मतम् ॥३.४८२॥ २७७

यथा आनन्दकोशनामनि प्रहसने, मिथ्यातीर्थः

यानि द्यन्ति गलादधः सुकृतिनो लोम्नां च तेषां स्थितिं यान्यूर्ध्वं परिपोषयन्ति पुरुषास्तेषां मुहुः खण्डनम् । कृत्वा सर्वजगद्विरुद्धविधिना सञ्चारिणां मादृशां श्रीगीता च हरीतकी च हरतो हन्तोपभोग्यं वयः ॥३.४८३॥

अत्र केनापि यतिभ्रष्टेन स्वगृहीतस्य यत्याश्रमस्य दूषणादिदमवगलितम् ।

त्यजनाद्, यथा प्रबोधचन्द्रोदये, क्षपणकः

अयि पीणघणत्थणसोहणि पलितत्थकुलंगविलोअणि । जै लमसि कावालिणीभावेहिं साबका किं कलिस्संदि ॥३.४८४॥

अहो कावालिणीअदंसणं जेब्ब एक्कं सौक्खमोक्खसाहणम् । (प्रकाशम्) भो काबालिअ हग्गे तुहके संपदं दासो संबुत्तो । मं पि महाभैरवानुसासणे दिक्खय ।

[अयि पीनघनस्तनशोभने परित्रस्तकुरङ्गविलोचने । यदि रमसे कापालिनीभावैः श्रावकाः किं करिष्यन्ति ।

अहो कापालिनीदर्शनमेव एकं सौख्यमोक्षसाधनम् । (प्रकाशम्) भो कापालिक अहं तव सम्प्रतं दासः संवृत्तः । मामपि महाभैरवानुशासने दिक्षय ।]

इत्यादौ क्षपणकस्य स्वमार्गपरिभ्रंश अवगलितम् ।

अथ अवस्कन्दः अवस्कन्दस्त्वनेकेषामयोग्यस्यैकवस्तुनः । सम्बन्धाभासकथनात्स्वस्वयोग्यत्वयोजना ॥३.४८५॥ २७८

यथा प्रहसने (आनन्दकोशनामनि)

यतिःसाक्षाद्भूतं वदति कुचयोरन्तरं द्वैतवादं

बौद्धःदृष्ट्योर्भेदः क्षणिकमहिमा सौगते दत्तपादः ।

जैनःबाह्वोर्मूले नयति शुचितामर्हती कापि दीक्षा

सर्वेनाभेर्मूलं प्रथयति फलं सर्वसिद्धान्तसारम् ॥३.४८६॥

अत्र यतिबौद्धजैनानां गणिकायां स्वस्वसिद्धान्तधर्मसम्बन्धकथनेन स्वस्वपक्षपरिग्रहयोग्यत्वयोजनादवस्कन्दः ।

अथ व्यवहारः व्यवहारस्तु संवादो द्वित्राणां हास्यकारणम् ॥३.४८७॥ २७९

यथा तत्रैव प्रहसने (आनन्दकोशनामनि) बौद्धः (यतिं विलोक्य)कुतो मण्ड एकदण्डी ।

मिथ्यातीर्थः (विलोक्य दृष्टिमपकर्षनात्मगतम्)क्षणिकवादी न सम्भाषणीय एव । तथापि दण्डमन्तर्धाय निरुत्तरं करोमि । (प्रकाशम्) अये शून्यवादिन् ! अदण्डः अमुण्डोऽ हमागलादस्मि ।

जैनः (आत्मगतम्)नूनमसौ मायावादी । भवतु । अहमपि किमप्यन्तर्धाय प्रस्तुतं पृच्छामि । (प्रकाशम्) अये महापरिणामवादिन् ! बृहद्बीज लोम्नां समानजातीयत्वेऽ पि केषाञ्चित्सङ्कर्तनमन्येषां संरक्षणमिति व्यवस्थितौ किं प्रमाणम् ?

मिथ्यातीर्थःजीवदमेध्यं जङ्गमनरको नरपिशाचोऽ यमन्तर्धायापि न सम्भाषणीयः ।

निष्कच्छकीर्तिः (सादरम्)सखे ! आर्हतमुने वादे त्वया अयमप्रतिपत्तिं नाम निग्रहस्थानमारोपितो मायावादी ।

मिथ्यातीर्थः (आत्मगतम्)नूनमिमावपि मादृशावेव लिङ्गधारणमात्रेण कुक्षिम्भरई स्याताम् । (इति पिप्पलमूलवेदिकायां निषीदति ।)

इत्यत्र यतिबौद्धजैनानां संवादो व्यवहारः ।

अथ विप्रलम्भः विप्रलम्भो वञ्चना स्याद्भूतावेशादिकैतवात् ॥३.४८८॥ २७९

यथा प्रहसने (आनन्दकोशनामनि तत्रैव)

प्रियामहं पूर्वभृतां नाम्ना स्वच्छन्दभक्षिणी । गृह्णाम्येनां यदि त्रातुं कृपा वः श्रूयतामिदम् ॥३.४८९॥ सुराघटानां सप्तत्या विंशत्या दृप्तगड्डुरैः । छागैश्च दशभिः कार्या चिरण्टीतर्पणक्रिया ॥३.४९०॥ अद्य कर्तुमशक्यं चेत्तत्पर्याप्ततमं धनम् । आस्थाप्यमस्याः साक्षिण्याः जरठायाः पटाञ्चले ॥३.४९१॥

(इति पुनरपि व्यात्तवदनं नृत्यति ।)

निष्कच्छकीर्तिःहे व्रतिनौ ! किमत्र विधेयम् ?

मिथ्यातीर्थःभोः अहिंसावादिन् ! म्रियमाणः प्राणी न रक्षणीय इति किं युष्मद्धर्मः ?

अरूपाम्बरः (साक्षेपम्)एकेन सुखमुपादेयम् । अन्येन धनं प्रदेयमिति किं युष्मद्धर्मः ?

निष्कच्छकीर्तिः सान्तर्हासं स्वधनं यतिधनं च जरठायाः पटाञ्चले बद्ध्वा सबलात्कारं जैनस्य कटकं तस्याः पादमूलेऽ र्पयति ।)

मधुमल्लिका (साङ्गभङ्गं सस्म्रणभयमिव)अम्मो देवदा विलम्बेण कुप्पिस्सदि । ता चिरंटिआतप्पणं कादुं गच्छेमि । [अम्हो ! देवता विलम्बेन कोपिष्यति । तत्चिरण्टिकातर्पणं कर्तुं गच्छामि ।] (इति कटकमादाय निष्क्रान्ता ।)

इत्यादौ भूतावेशकैतवेन जैनबौद्धसंन्यासिनो विलोभ्य धनं कयापि गणिकया गृहीतमित्ययं विप्रलम्भः ।

अथ उपपत्तिः उपपत्तिस्तु सा प्रोक्ता यत्प्रसिद्धस्य वस्तुनः । लोकप्रसिद्धया युक्त्या साधनं हास्यहेतुना ॥३.४९२॥ २८०

यथा तत्रैव प्रहसने (आनन्दकोशनामनि) मिथ्यातीर्थः (पुरोऽ वलोक्य)अये उपसरित्तीरे पिप्पलनामा वनस्पतिः । यश्च गीतासु भगवता निजविभूतितया निर्दिष्टः । (विचिन्त्य) कथमस्य तरोरियती महिमसम्भावना । (विमृश्य) उपपद्यत एव

तत्पदं तनुमध्याया येनाश्वत्थदलोपमम् । तदश्वत्थोऽ स्मि वृक्षाणामित्यूचे भगवान् हरिः ॥३.४९३॥ इति ।

अत्र लोकप्रसिद्धेन अश्वत्थदलोरुमूलयोः साम्येन हेतुना लोकप्रसिद्धस्यैव भगवदश्वत्थयोरैक्यस्य साधनं हास्यकारणमुपपत्तिः ।

अथ भयम् स्मृतं भयं तु नगरशोधकादिकृतो दरः ॥३.४९४॥ २८१

यथा तत्रैव प्रहसने (आनन्दकोशनामनि) जैनःहो अराजकोऽ यं विषयः यत्नगरपरिसराश्रिततपस्विनां धनं चोर्यते (इत्युद्वाहुराक्रोशति) ।

नगररक्षकाःये किमपहृतं धनम् । कियत्(इति तं परितः प्रविश्य परिसर्पन्ति ।)

अरूपाम्बरःधिक्कष्टम् । नगरशीघ्रकाः समायान्ति । (इत्यूर्ध्वबाहुरोष्ठस्पन्दनं करोति । मिथ्यातीर्थो गणिकामाक्षिप्य समाधिं नाटयति । निष्कच्छकीर्तिरेकपादेनावतिष्ठमानः कराङ्गुलीर्गणयति) इत्यादौ जैनादीनां भयकथनाद्भयम् ।

अथ अनृतम् अनृतं तु भवेद्वाक्यमसभ्यस्तुतिगुम्फितम् । २८१ तदेवानृतमित्याहुरपरे स्वमतस्तुतेः ॥३.४९५॥

यथा तत्रैव प्रहसने (आनन्दकोशनामनि)

बालातपेन परिमृष्टमिवारविन्दं माञ्जिष्ठचेलमिव मान्मथमातपत्रम् । सालक्तलेखमिव सौख्यकरण्डमद्य यूनां मुदे तरुणि तत्पदमार्तवं ते ॥३.४९६॥

अत्र आर्तवारुणस्योरुमूलस्य (असभ्यस्य) वर्णनादिदमनृतम् ।

अपरं, यथा कर्पूरमञ्जर्याम्, भैरवानन्दः

रंडा चंडा दिक्खदा धम्मदारा मज्जं मंसं पिज्जए खज्जए अ । भिक्खा भोज्जं चम्मखण्डं च सेज्जा कोलो धम्मो कस्स णो भादि रम्मो ॥३.४९७॥ [क.मं. १.२३]

[रण्डा चण्डा दीक्षिता धर्मदारा मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥]

अथ विभ्रान्तिः वस्तुसाम्यकृतो मोहो विभ्रान्तिरिति गीयते ॥३.४९८॥ २८२

यथा तत्रैव प्रहसने (आनन्दकोशनामनि) बौद्धः (पुरोऽ वलोक्य)

हेमकुम्भवती रम्यतोरणा चारुदर्पणा । कापि गन्धर्वनगरी दृश्यते भूमिचारिणी ॥३.४९९॥

जैनःये क्षणभङ्गवादिनेतदुत्पातफलं प्रथमदर्शिनो भवत एव परिणमेत् । (इति लोचने निमीलयति ।)

बौद्धः (पुनर्निर्वर्ण्य)हन्त किमपदे भ्रान्तोऽ स्मि ।

न पुरीयं विशालाक्षी न तोरणमिमे भ्रुवौ । न दर्पणमिमौ गण्डौ न च कुम्भाविमौ स्तनौ ॥३.५००॥

इत्यत्र बौद्धस्य मोहो विभ्रान्तिः ।

अथ गद्गदवाक् असत्यरुदितोन्मिश्रं वाक्यं गद्गदवाग्भवेत् ॥३.५०१॥ २८३

यथा तत्रैव प्रहसने (आनन्दकोशनामनि) (भगिन्यौ परस्परमाश्लिष्य रुदित इव) गुह्यग्राही (आत्मगतम्)

अनुपात्तबाष्पकणिकं गद्गदनिःश्वासकलितमव्यक्तम् । अनयोरसत्यरुदितं सुरतान्तदशां व्यनक्तीव ॥३.५०२॥

अत्र गद्गदवाक्त्वं स्पष्टम् ।

अथ प्रलापः प्रलापः स्यादयोग्यस्य योग्यत्वेनानुमोदनम् ॥३.५०३॥ २८३

यथा तत्रैव प्रहसने (आनन्दकोशनामनि) राजा (सौदार्योद्रेकम्)अये विडालाक्ष अस्मदीये नगरे विषये च

पतिहीना च या नारी जायाहीनश्च यः पुमान् । तौ दम्पती यथाकामं भवेतामिति घुष्यताम् ॥३.५०४॥

विडालाक्षःदेवः प्रमाणम् । (इति सानुचरो निष्क्रान्तः ।)

गुह्यग्राही (सश्लाघागौरवम्)

नष्टाश्वभग्नशकटन्यायेन प्रतिपादितम् । उचिता ते महाराज सेयं कारुण्यघोषणा ॥३.५०५॥

अपि च मन्वादयो महीपालाः शतशो गामपालयन् । न केनापि कृतो मार्ग एवमाश्चर्यशौख्यदः ॥३.५०६॥

अत्र अयोग्यस्यापि राजादेशस्य धर्माधिकारिणा गुह्यग्राहिणा न्यायपरिकल्पनया योग्यत्वेनानु मोदनादयं प्रलापः ।

प्रहसनस्य शुद्धादिभेदाः शुद्धं कीर्णं वैकृतं च तच्च प्रहसनं त्रिधा । शुद्धं श्रोत्रियशाखादेर्वेषभाषादिसंयुतम् ॥३.५०७॥ २८४ चेटचेटीजनव्याप्तं तल्लक्ष्यं तु निरूप्यताम् । आनन्दकोशप्रमुखं तथा भगवदज्जुकम् ॥३.५०८॥ २८५ कीर्णं तु सर्वैर्वीथ्यङ्गैः सङ्कीर्णं धूर्तसङ्कुलम् । तस्योदाहरणं ज्ञेयं बृहत्सौभद्रकादिकम् ॥३.५०९॥ २८६ यच्चेदं कामुकादीनां वेषभाषादिसङ्गतैः । षण्डतापसवृद्धाद्यैर्युतं तद्वैकृतं भवेत् । २८७ कलिकेलिप्रहसनप्रमुखं तदुदाहृतम् ॥३.५१०॥

अथ डिमः ख्यातेतिवृत्तं निर्हास्यशृङ्गारं रौद्रमुद्रितम् । २८८ सात्त्वतीवृत्तिविरलं भारत्यारभटीस्फुटम् ॥३.५११॥ नायकैरुद्धतैर्देवयक्षराक्षसपन्नगैः । २८९ गन्धर्वभूतवेतालसिद्धविद्याधरादिभिः ॥३.५१२॥ समन्वितं षोडशभिर्न्यायमार्गणनायकम् । २९० चतुर्भिराङ्कैरन्वीतं निर्विमर्शकसन्धिभिः ॥३.५१३॥ निर्घातोल्कोपरागादिघोरक्रूराजिसम्भ्रमम् । २९१ सप्रवेशकविष्कम्भचूलिकं हि डिमं विदुः । अस्योदाहरणं ज्ञेयं वीरभद्रविजृम्भितम् ॥३.५१४॥ २९२

अथ ईहामृगः यत्रेतिवृत्तं मिश्रं स्यात्सविष्कम्भप्रवेशकम् । चत्वारोऽ ङ्का निर्विमर्शगर्भाः स्युः सन्धयस्त्रयः ॥३.५१५॥ २९३ धीरोद्धत्तश्च प्रख्यातो दिव्यो मर्त्योऽ पि नायकः । दिव्यस्त्रियमनिच्छन्तीं कन्यां वाहर्तुमुद्यतः ॥३.५१६॥ २९४ स्त्रीनिमित्ताजिसंरम्भः पञ्चषाः प्रतिनायकाः । रसा निर्भयबीभत्सा वृत्तयः कैशिकीं विना ॥३.५१७॥ २९५ स्वल्पस्तस्याः प्रवेशो वा सोऽ यमीहामृगो मतः । व्याजान्निवारयेदत्र सङ्ग्रामं भीषणक्रमम् ॥३.५१८॥ २९६ तस्योदाहरणं ज्ञेयं प्राज्ञैर्मायाकुरङ्गिका । इत्थं श्रीसिंहभूपेन सर्वलक्षणशालिना । २९७ सर्वलक्षणसम्पूर्णो लक्षितो रूपकक्रमः ॥३.५१९॥

अथ नाटकपरिभाषा अथ रूपकनिर्माणपरिज्ञानोपयोगिनी । २९८ श्रीसिंहधरणीशेन परिभाषा निरूप्यते ॥३.५२०॥ परिभाषात्र मर्यादा पूर्वाचार्योपकल्पिता । २९९ सा हि नौरतिगम्भीरं विविक्षोर्नाट्यसागरम् ॥३.५२१॥ एषा च भाषानिर्देशनामभिस्त्रिविधा मता । ३०० तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥३.५२२॥ चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्यवृत्तयः । ३०१ आसां संस्कारराहित्याद्विनियोगो न कथ्यते ॥३.५२३॥ उत्तमादिषु तद्देशव्यवहारात्प्रतीयताम् । ३०२ भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः ॥३.५२४॥ कौमारपाणिनीयादिसंस्कृता संस्कृता मता । ३०३ इयं तु देवतादीनां मुनीनां नायकस्य च । लिङ्गिनां च विटादीन्मनीचानां प्रयुज्यते ॥३.५२५॥ ३०४

अथ प्राकृती प्रकृतेः संस्कृतायास्तु विकृतिः प्राकृती मता । ३०५ षड्विधा सा प्राकृतं च शौरसेनी च मागधी ॥३.५२६॥ पैशाची चूलिका पैशाच्यपभ्रंश इति क्रमात् । ३०६ अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् ॥३.५२७॥ क्वचिच्च देवी गणिका मन्त्रिजा चेति योषिताम् । ३०७ योगिन्यप्सरसोः शिल्पकारिण्या अपि संस्कृतम् ॥३.५२८॥ ये नीचाः कर्मणा जात्या तेषां प्राकृतमुच्यते । ३०८ छद्मलिङ्गवतां तद्वज्जैनानामिति केचन ॥३.५२९॥ अधमे मध्यमे चापि शौरसेनी प्रयुज्यते । ३०९ धीवराद्यतिनीचेषु मागधी च नियुज्यते ॥३.५३०॥ रक्षःपिशाचनीचेषु पैशाचीद्वितयं भवेत् । ३१० अपभ्रंशस्तु चण्डालयवनादिषु युज्यते ॥३.५३१॥ नाटकादावपभ्रंशविन्यासस्यासहिष्णवः । ३११ अन्ये चण्डालकादीनां मागध्यादीन् प्रयुञ्जते ॥३.५३२॥ सर्वेषां कारणवशात्कार्यो भाषाव्यतिक्रमः । ३१२ माहात्म्यस्य परिभ्रंशं मदस्यातिशयं तथा ॥३.५३३॥ प्रच्छादनं च विभ्रान्तिं यथालिखितवाचनम् । ३१३ कदाचिदनुवादं च कारणानि प्रचक्षते ॥३.५३४॥

अथ निर्देशपरिभाषा साक्षादनामग्राह्याणां जनानां प्रतिसंज्ञया । ३१४ आह्वानभङ्गी नाट्यज्ञैर्निर्देश इति गीयते ॥३.५३५॥ स त्रिधा पूज्यसदृशकनिष्ठविषयत्वतः । ३१५ पूज्यास्तु देवो मुनयो लिङ्गिनस्तत्समास्त्रियः ॥३.५३६॥ बहुश्रुताश्च भगवच्छब्दवाच्या भवन्ति हि । ३१६ आर्येति ब्राह्मणो वाच्यो वृद्धस्तातेति भाष्यते ॥३.५३७॥ उपाध्यायेति चाचार्यो गणिका त्वज्जुकाख्यया । ३१७ महाराजेति भूपालो विद्वान् भाव इतीर्यते ॥३.५३८॥ छन्दतो नामभिर्वाच्या ब्राह्मणैस्तु नराधिपाः । ३१८ देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा ॥३.५३९॥ सार्वभौमः परिजनैर्भट्टभट्टारकेति च । ३१९ वाच्यो राजेति मुनिभिरपत्यप्रत्ययेन वा ॥३.५४०॥ विदूषकेण तु प्रायः सखे राजन्नितीच्छया । ३२० ब्राह्मणैः सचिवो वाच्यो ह्यमात्य सचिवेति च ॥३.५४१॥ शैषाइरार्येत्यथायुष्मनिति सारथिना रथी । ३२१ तपस्विसाधुशब्दाभ्यां प्रशान्तः परिभाष्यते ॥३.५४२॥ स्वामीति युवराजस्तु कुमारो भर्तृदारकः । ३२२ आवुत्तेति स्वसुर्भर्ता स्यालेति पृतनापतिः ॥३.५४३॥ भट्टिनी स्वामिनी देवी तथा भट्टारिकेति च । ३२३ परिचारजनैर्वाच्या योषितो राजवल्लभाः ॥३.५४४॥ राज्ञा तु महिषी वाच्या देवीत्यन्याः प्रिया इति । ३२४ सर्वेण पत्नी त्वार्येति पितुर्नाम्ना सुतस्य वा ॥३.५४५॥ तातपादा इति पिता माताम्बेति सुतेन तु । ३२५ ज्येष्ठास्त्वार्या इति भ्रात्रा तथा स्युर्मातुलादयः ॥३.५४६॥

अथ सदृशनिर्देशः सदृशः सदृशो वाच्यो वयस्येत्याह्वयेन वा । ३२६ हलेति सख्या तु सखी कथनीया सखीति वा ॥३.५४७॥

अथ कनिष्ठनिर्देशः सुतशिष्यकनीयांसो वाच्या गुरुजनेन हि । ३२७ वत्सपुत्रकदीर्घायुस्तातजातेति संज्ञया ॥३.५४८॥ अन्यः कनीयानार्येण जनेन परिभाष्यते । ३२८ शिल्पाधिकारनामभ्यां भद्र भद्रमुखेति ॥३.५४९॥ वाच्ये नीचातिनीचे तु हण्डे हञ्जे इति क्रमात् । ३२९ भर्त्रा वाच्याः स्वस्वनाम्ना भृत्याः शिल्पोचितेन वा ॥३.५५०॥ एवमादि प्रकारेण योज्या निर्देशयोजना । ३३० लोकशास्त्राविरोधेन विज्ञेया काव्यकोविदैः ॥३.५५१॥

अथ नामपरिभाषा अनुक्तनाम्नः प्रख्याते कञ्चुकिप्रभृतेरपि । ३३१ इतिवृत्ते कल्पिते तु नायकादेरपि स्फुटम् ॥३.५५२॥ रसवस्तूपयोगीनि कविर्नामानि कल्पयेत् । ३३२ विनयन्धरबाभ्रव्यजयन्धरजयादिकम् ॥३.५५३॥ कार्यं कञ्चुकिनां नाम प्रायो विश्वाससूचकम् । ३३३ लतालङ्कारपुष्पादिवस्तूनां ललितात्मनाम् ॥३.५५४॥ नामभिर्गुणसिद्धैर्चेटीनां नाम कल्पयेत् । ३३४ करभः कलहंसश्चेत्यादि नामानुजीविनाम् ॥३.५५५॥ कर्पूरचण्डकाम्पिल्येत्यादिकं नाम वन्दिनाम् । ३३५ सुबुद्धिवसुभूत्यादिमन्त्रिणां नाम कल्पयेत् ॥३.५५६॥ देवरातः सोमरात इति नाम पुरोधसः । ३३६ श्रीवत्सो गौतमः कौत्सो गार्ग्यो मौद्गल्य इत्यपि ॥३.५५७॥ वसन्तकः कापिलेय इत्याख्येयो विदूषकः । ३३७ प्रतापवीरविजयमानविक्रमसाहसैः ॥३.५५८॥ वसन्तभूषणोत्तंसशेखराङ्कपदोत्तरैः । ३३८ धीरोत्तराणां नेतॄणां नाम कुर्वीत कोविदः ॥३.५५९॥ चन्द्रापीडः कामपाल इत्याद्यं ललितात्मनाम् । ३३९ उग्रवर्मा चण्डसेन इत्याद्युद्धतचेतसाम् ॥३.५६०॥ दत्तसेनान्तनामानि वैश्यानां कल्पयेत्सुधीः । ३४० कर्पूरमञ्जरी चन्द्रलेखा रागतरङ्गिका ॥३.५६१॥ पद्मावतीति प्रायेण नाम्ना वाच्या हि नायिका । ३४१ देव्यस्तु धारिणीलक्ष्मीवसुमत्यादिनामभिः ॥३.५६२॥ भोगवती कान्तिमती कमला कामवल्लरी । ३४२ इरावती हंसपदीत्यादिनाम्ना तु भोगिनी ॥३.५६३॥ विप्रक्षत्रविशः शर्मवर्मदत्तान्तनामभिः । ३४३ शिखण्डाङ्गदचूडान्तनाम्ना विद्याधराधिपाः ॥३.५६४॥ कुण्डलानन्दघण्टान्तनाम्ना कापालिका जनाः । ३४४ योगसुन्दरिका वंशप्रभा विकटमुद्रिका ॥३.५६५॥ शङ्खकेयूरिकेत्यादिनाम्ना कापालिकस्त्रियः । ३४५ आनन्दिनी सिद्धिमती श्रीमती सर्वमङ्गला ॥३.५६६॥ यशोवती पुत्रवतीत्यादिनाम्ना सुवासिनी । ३४६ इत्यादि सर्वमालोच्य लक्षणं कृतबुद्धिना ॥३.५६७॥ कविना कल्पितं काव्यमाचन्द्रार्कं प्रकाशते । ३४७ लक्ष्यलक्षणनिर्माणविज्ञानकृतबुद्धिभिः ॥३.५६८॥ परीक्ष्यतामयं ग्रन्थो विमत्सरमनीषया । ३४८ भरतागमपारीणः श्रीमान् सिंहमहीपतिः । रसिकः कृतवानेवं रसार्णवसुधाकरम् ॥३.५६९॥ ३४९

संरम्भादनपोतसिंहनृपतेर्धाटीसमाटीकने निःसाणेषु धणं धणं धणमिति ध्वानानुसन्धायिषु । मोदन्ते हि रणं रणं रणमिति प्रौढास्तदीया भटा भ्रान्तिं यान्ति तृणं तृणं तृणमिति प्रत्यर्थिपृथ्वीभुजः ॥३.५७०॥ ३५०

मत्वा धात्रा तुलायां लघुरिति धरणीं सिंहभूपालचन्द्रे सृष्टे तत्रातिगुर्व्यां तदुपनिधितया स्थाप्यमानैः क्रमेण । चिन्तारत्नौघकल्पद्रुमततिसुरभीमण्डलैः पूरितान्ताप्य् ऊर्ध्वं नीता लघिम्ना तदरिकुलशतैः पूर्यतेऽ द्यापि सा द्यौः ॥३.५७१॥ ३५१


इति श्रीमदान्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचिते रसार्णवसुधाकरनाम्नि नाट्यालङ्कारशास्त्रे भावकोल्लासो नाम तृतीयो विलासः ॥३॥


समाप्तश्चायं रसार्णवसुधाकरः

श्रीतोयशैलवसतिः स तमालनीलो जीयाद्धरिर्मुनिचकोरसुशारदेन्दुः । लक्ष्मीस्तनस्तवककुङ्कुमकर्दमश्री संलिप्तनिर्मलविशालभुजान्तरालः ॥

मलयगिरिनिवासी मारुतो यच्छताङ्गस् तरुणशिशिररश्मिर्यत्सुहृत्पुण्यकीर्तिः । चरति चिरमनङ्गः क्वापि करि अप्यदृश्यः स जयतु रसिकौघैर्वन्दितः पञ्चबाणः ॥

अशेषाणां द्विजनुषामाशीर्वादपरम्परा । तरङ्गयतु कल्याणं कवीनां चायुरायतम् ॥

</poem>

"https://sa.wikisource.org/w/index.php?title=रसार्णवसुधाकरः&oldid=85003" इत्यस्माद् प्रतिप्राप्तम्