राघवाष्टकम्
राघवाष्टकम् रामस्तोत्राणि [[लेखकः :|]] |
राघवं करुणाकरं मुनिसेवितं सुरवन्दितं
जानकीवदनारविन्ददिवाकरं गुणभाजनम् ।
वालिसूनुहितैषिणं हनुमत्प्रियं कमलेक्षणं
यातुधानभयंकरं प्रणमामि राघवकुञ्जरम् ॥ १॥
मैथिलीकुचभूषणामलनीलमौक्तिकमीश्वरं
रावणानुजपालनं रघुपुङ्गवं मम दैवतम् ।
नागरीवनिताननांबुजबोधनीयकलेवरं
सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ २॥
हेमकुण्डलमण्डितामलकण्ठदेशमरिन्दमं
शातकुंभमयूरनेत्रविभूषणेनविभूषितम् ।
चारुनूपुरहारकौस्तुभकर्णभूषणभूषितं
भानुवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ ३॥
दण्डकाख्यवने रतामरसिद्धयोगिगणाश्रयं
शिष्टपालनतत्परं धृतिशालिपार्थकृतस्तुतिम् ।
कुंभकर्णभुजाभुजंगविकर्तने सुविशारदं
लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम् ॥ ४॥
केतकीकरवीरजातिसुगन्धिमाल्यसुशोभितं
श्रीधरं मिथिलात्मजाकुचकुंकुमारुणवक्षसम् ।
देवदेवमशेषभूतमनोहरं जगतां पतिं
दासभूतभयापहं प्रणमामि राघवकुञ्जरम् ॥ ५॥
यागदानसमाधिहोमजपादिकर्मकरैर्द्विजैः
वेदपारगतैरहर्निशमादरेण सुपूजितम् ।
ताटकावधहेतुमंगततातवालिनिषूदनं
पैतृउकोदितपालकं प्रणमामि राघवकुञ्जरम् ॥ ६॥
लीलया खरदूषणादिनिशाचराशुविनाशनं
रावणान्तकमच्युतं हरियूथकोटिगणाश्रयम् ।
नीरजाननमंबुजांघ्रियुगं हरिं भुवनाश्रयं
देवकार्यविवक्षणं प्रणमामि राघवकुञ्जरम् ॥ ७॥
कौशिकेन सुशिक्षितास्त्रकलापमायतलोचनं
चारुहासमनाथबन्धुमशेषलोकनिवासिनम् ।
वासवादिसुरारिरावण्शासनं च परांगतिं
नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरम् ॥ ८॥
राघवाष्टकमिष्टसिद्धिदमच्युताश्रयसाधकं
मुक्तिभुक्तिफलप्रदं धनधान्यसिद्धिविवर्धनम् ।
रामचन्द्रकृपाकटाक्षदमादरेण सदा जपेत्
रामचन्द्रपदांबुजद्वयसन्ततार्पितमानसः ॥ ९॥
राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते
रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते ।
देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते
वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते ॥ १०॥
॥ इति श्रीराघवाष्टकं संपूर्णम् ॥