राजतरङ्गिणी प्रथमो भागः.djvu/द्वितीयः तरङ्गः

← प्रथमः तरङ्गः राजतरङ्गिणी प्रथमो भागः.djvu
द्वितीयः तरङ्गः
कल्हणः
तृतीयः तरङ्गः →


दितीयस्तरङ्गः ।
विहितमजगोश्रृङ्गाग्राभ्यां धनुर्घटितं तथा
नरकरटिनोर्देहार्धाभ्यां गणं प्रतिगृह्णतः ।
द्विविधघरनावाल्लभ्यानां निधेरुचिता विभो-
र्जयति लटभापुंभागाभ्यां शारीरविनिर्मितिः ॥ १ ॥
भूयो राज्यार्जनोद्योगस्तेनत्यज्यत भूभुजा ।
जरसा शमिवाण्या च कर्णमूलमवाप्तया ॥ २॥
अनयद्विनयोदात्तः समं स्वविपयेण तान्‌ ।
विषयान्वशिनामम्ग्रः स तान्पञ्चापि विस्मृतिम् ॥ ३ ॥
धावन् राजेच्छया दुर्गागलिकायां स्वमन्निभिः ।
कालेन स्थापितो वङ्वेत्यभ्यधायि तु कैरपि ॥ ४॥
अथ प्रतापादित्याख्यस्तैरानीय दिगन्तरात्‌ ।
विक्रमादियभूभर्तुर्ज्ञातिरत्रभ्यषिच्यत ॥ ५ ॥
शकारिर्विक्रमादित्य स इति भ्रममाश्रितैः।
अन्यैरत्रान्यथालेखि विसंवादकदर्थितम्‌ ॥ ६ ॥
इदं स्वभेदविधुरं हर्षादीनां धराभुजाम्‌ ।
कंचित्कालमभूद्भोज्यं ततःप्रभृतिमण्डलम्‌ ॥ ७ ॥
असपूर्वापि तेनोर्वी सपूर्वेव महीभुजा
ललिता हृदयज्ञेन पत्या नववधूरिव ॥ ८ ॥
भुक्त्वा द्वात्रिंशतं वर्षान्भुवं तस्मिन्दिवं गते ।
जलौकास्तत्सुतो भूमेर्भूषणं समपद्यत ॥ ९
पितुरेव समं कालं वृद्धिहेतोः स दिद्युते।
विषुवत्पूर्णशीतांशुरिव शीतेतरयाशर्चिषः ॥ १० ॥



दितीयस्तरङ्कः । ३५

अथ वाक्युष्टया सार्धं देव्या दिव्यप्रभावया। भुवं तत्प्रभवो भुञ्जंस्तुञ्जीनोरञ्जयत्प्रजाः ॥ ११॥ दंपतिभ्यामियं ताभ्यामभूष्यत वसुंधरा 1 गङ्गामृगाङ्कखण्डाभ्यां जटाभूरिव धूर्जटेः ॥ १२॥ मण्डलं साध्वधत्तां तौ नानावर्णमनोरमम्‌ । रातहदापयोवादौ माहेन्द्रमिव कामुकम्‌ ॥ १३ ॥ चक्राते च महाभागौ विभ्रमाभरणं भुवः। तुङ्गेश्र्वरं हरावासं कतिकाख्यं च पत्तनम्‌ ॥ १४ ॥ क्वचिन्मडवराज्यान्तः स्थाने चण्डातपोल्बणे । तत्प्रभावेन फलितं वृक्षैस्तत्क्षण ॥ १५ ॥

नास्यं सर्वैजनपरक्यं यश्चक्रे स महाकविः । देपायनमुनेरंरास्तत्काके चन्दकोभवत्‌ ॥ १६ ॥ तयोः प्रभावमाहात्म्यजिक्ञासा्थमिवोद्यता । प्रजाखु दुःसहा जातु व्यापदैवी व्यजुम्भत ॥ १७ ॥ पाकोन्मुखशरारच्छालिच्छन्नकेदारमण्डले ।

मासि भाद्रपदेकस्मात्पपात तुहिनं महत्‌ ॥ १८ ॥ तस्िन्विश्वक्षयोयुक्तकाटखाशहसितोपमे । न्यमज्ञञ्छाखयः साकं प्रजानां जीविताशया ॥ १९ ॥ अथासीत्छुत्परिक्षामजनप्रेतकुखाकुलः ।

प्रकारो निरयस्येव घोरो दुरभिक्षविषएवः ॥ २० ॥ पलीप्रीति सुतस्नेहं पितदाक्षिण्यमातुरः। कुक्षिभरिः श्चुदुत्तप्ो विसस्माराखिरो जनः ॥ २१ ॥ श्ुत्तापाद्यस्सरलजामभिमानं कुलोन्नतिम्‌ । अशनादंक्रियाघ्रातो लोकोटक्ष्मीकराक्षितः ॥ २२॥ 02 c राजतरङ्गिणी

क्षामं कण्ठगतप्राणं याचमानं सुतं पिता ।
पुत्रो वा पितरं त्यक्त्वा चकार स्वस्य पोषणम् ॥ २३ ॥
स्नाय्वस्थिशेषे बीभत्से स्वदेहेहंक्रियावताम् ।
अभूगोज्यार्थिनां युद्धं प्रेतानामिव देहिनाम् ॥ २४ ॥
रूक्षाभिभाषी क्षुत्क्षामो घोरो दिश्वक्षिणी क्षिपन् ।
एक एको जगज्जीवैरियेष स्वात्मपोषणम् ॥ २५ ॥
तस्मिन्महाभये घोरे प्राणिनामतिदुःसहे ।
दडशे लोकनाथस्य तस्यैव करुणाईता ॥ २६ ॥
निवारितप्रतीहारः स रत्नौषधिशोभिना ।
दर्शनेनैव दीनानामलक्ष्मीकुममच्छिनत् ॥ २७ ॥
सपत्नीको निजैः कोशैः संचयैर्मत्रिणामपि ।
क्रीतान्नः स दिवारात्रं प्राणिनः समजीवयत् ॥ २८ ॥
अटवीषु श्मशानेषु रथ्यास्ववसथेषु च ।
क्षुत्क्षामः क्ष्माभुजा तेन नहि कश्चिदुपैश्यत ॥ २९ ॥
ततो निःशेषितधनः क्षीणान्नां वीक्ष्य मेदिनीम् ।
क्षपायामेकदा देवीमेवमूचे स दुःखितः ॥ ३० ॥
देव्यस्मदपचारेण ध्रुवं केनापि दुस्तरा ।
जाता निरपराधानां जनानां व्यापदीदृशी ॥ ३१ ॥
धियामधन्यं यस्याग्रे लोकोयं शोकपीडितः ।
पश्यन्नशरणामुर्वीमनुग्राह्यो विपद्यते ॥ ३२ ॥
प्रजा निःशरणा एता अन्योन्यं बान्धवोज्झिताः ।
अरक्षतो भयेमुष्मिन्कि कार्य जीवितेन मे ॥ ३३ ॥
यथाकथंचिल्लोकोयं दिनान्येतानि यत्नतः ।
मयातिवाहितः सर्वो न च कोपि व्यपद्यत ॥ ३४ ॥

द्वितीयस्तरङ्गः ।

अतिक्रान्तप्रभावेयं कालदौरात्म्यपीडिता ।
निष्किचनाद्य संजाता पृथिवी गतगौरवा ॥ ३५ ॥
तदिमाः सर्वतो मना दारुणे व्यसनार्णवे ।
उपाय: कतमस्तावत्समुद्धर्तु क्षमः प्रजाः ॥ ३६॥
निरालोको हि लोकोयं दुर्दिनग्रस्तभास्करः ।
कालरात्रिकुलैविष्वक्परीत इव वर्तते ॥ ३७ ।।
हिमसंघातदुर्लङ्घयक्षितिभृदुद्धनिर्गमाः ।
बद्धद्धारकुलायस्थखगवद्विवशा जनाः ॥ ३८ ॥
शूराश्च मतिमन्तश्च विद्यावन्तश्च जन्तवः ।
कालदौरात्म्यतः पश्य जाता निहतयोग्यताः ॥ ३९ ॥
आशाः काञ्चनपुष्पकुड्यलकुलच्छन्ना न काः क्ष्मातल
सौजन्यामृतर्वार्षभिस्तिलकितं सेव्यैर्न किं मण्डलम् ।
पन्थानः सुचिरोपचाररुचिरैर्व्याप्ता न कैः संस्तुतै-
स्तेषामत्र वसन्ति निद्रुतगुणाः कालेन ये मोहिताः ॥ ४० ॥
तदेष गलितोपायो जुहोमि ज्वलने तनुम् ।
न तु द्रष्टुं समर्थोस्मि प्रजानां नाशमीदृशम् ॥ ४१ ॥
धन्यास्ते पृथिवीपालाः सुखं ये निशि शेरते ।
पौरान्पुत्रानिव पुरः सर्वतो वीक्ष्य निर्वृतान् ॥ ४२ ॥
इत्युक्त्वा करुणाविष्टो मुखमाच्छाद्य वाससा |
निपत्य तल्पे निःशब्द रुरोद पृथिवीपतिः ॥ ४३ ॥
निवातस्तिमितैर्दीपैरुड्रीवैः कौतुकादिव ।
वीक्ष्यमाणाथ तं देवी जगाद जगतीभुजम् ॥ ४४ ॥
राजन्प्रजानां कुकृतैः कोयं मतिविपर्ययः ।
येनेतर इव स्वैरमधीरोचितमीहसे ॥ ४५ ॥

9 ३८ राजतरङ्गिणी

यद्यसाध्यानि दुःखानि च्छेत्तुं न प्रभविष्णुता ।
तन्महीपाल महतां महत्त्वस्य किमङ्कनम् ॥ ४६ ॥
कः शक्रः कतमः स्रष्टा वराकः कतमो यमः ।
सत्यव्रतानां भूपानां कर्तुं शासनलङ्घनम् ॥ ४७ ॥
पत्यौ भक्तिव्रतं स्त्रीणामद्रोहो मत्रिणां व्रतम् ।
प्रजानुपालनेनन्यकर्मता भूभृतां व्रतम् ॥ ४८ ॥
उत्तिष्ठ व्रतिनामग्य व विपर्योति मइचः ।
प्रजापाल प्रजानां ते नास्त्येव क्षुत्कृतं भयम् ॥ ४९ ॥
इति संरम्भतः प्रोक्ते तयानुध्याय देवताः ।
प्रतिगेहं गतप्राणः कपोतनिवहोपतत् ॥ ५० ॥
प्रातस्तन्नृपतिर्वीक्ष्य व्यरंसीन्मरणोद्यमात् ।
प्रजाश्च प्रत्यहं प्राप्तैः कपोतैर्जीवितं दधुः ॥ ५१ ॥
वस्त्वन्तरं किमपि तत्साध्वी नूनं ससर्ज सा |
जनताजीवितावाध्यै न कपोतास्तु तेभवन् ॥ ५२ ॥
तादृशां नहि निर्व्याजप्राणिकारुण्यशालिनाम् ।
हिंसया धर्मचर्यायाः शक्यं क्वापि कलङ्कनम् ॥ ५३ ॥
अभवन्निर्मलं व्योम देवीकृत्यैः सह क्रमात् ।
साकं भूपालशोकेन दुर्भिक्षं च शमं ययौ ॥ ५४ ॥
सा भूतिविभवोदग्रमग्रहारं द्विजन्मनाम् ।
सती कतीमुषां चक्रे रामुषां चापकल्मषा ॥ ५५ ॥
वर्षेः षशिता शान्ते पत्यौ विरहजो ज्वरः ।
तत्यजे ज्वलनज्वालानलिनप्रच्छदे तया ॥ ५६ ॥
सा यत्र शुचिचारित्रा विपन्नं पतिमन्वगात् ।
स्थानं जनैस्तद्वाक्पुष्टाटवीत्यद्यापि गद्यते ॥ ५७ ॥

द्वितीयस्तरङ्गः ।

चारुचारित्रया तत्र तया सन्त्रेवतारिते ।
नानापथागतानाथसार्थैरद्यापि भुज्यते ॥ ५८ ॥
आभ्यामभ्यधिकं कर्तुं शक्तिः कस्येति निश्चितम् ।
विचिन्त्यारोचकी धाता नापत्यं निर्ममे तयोः ॥ ५९ ॥
वेधाः परां धुरमुपैति परीक्षकाणा-
मिक्षोः फलप्रजनने न कृतश्रमो यः ।
विस्मारितोद्धुरसुधारसयोग्यतान्तु
तस्माद्देत्य किमिवाभ्यधिकं विदध्यात् ।। ६० ।।
दीर्घदुदिननष्टार्क राष्ट्रमात्मापचारतः |
ज्ञात्वा रायग्निसादेहं सा चकारेति केचन ॥ ६१ ॥
ततोन्यकुलजो राजा विजयोष्टावभूत्समाः ।
पत्तनेन परीतं यश्चकार विजयेश्वरम् ॥ ६२ ॥
सुतो महीमहेन्द्रस्य जयेन्द्रस्तस्य भूपतेः ।
क्ष्मामाजानुभुजो राजा बुभोजाथ पृथुप्रथः ॥ ६३ ॥
आलोलकीर्तिकल्लोलदुगूलवलनोज्ज्वलाम् ।
बभार यद्भुजस्तम्भो जयश्रीसालभञ्जिकाम् ॥ ६४ ॥
तस्याभूदद्भुतोदात्तो भवभक्तिविभूषितः ।
राज्ञः संधिगतिर्नाम मत्री मतिमतां वरः ॥ ६५ ॥
नास्त्युपायः स संसारे कोपि योपोहितुं क्षमः ।
भूपालमत्तकरिणामेषां चपलकर्णताम् ॥ ६६ ।।
अत्यद्भुतमतिः शङ्क्यः सोयमुक्त्वेति यद्वितैः ।
तस्मिन्धीसचिवे द्वेषस्तेनाग्राह्यत भूभुजा ॥ ६७ ॥
युग्मम् ॥
निवारितप्रवेशोथ स कोपात्तमहेतुकम् ।
निनाय हृतसर्वस्वं यावदायुर्दरिद्रताम् ॥ ६८ ॥

३९ ४० राजतरङ्गिणी

तस्य भूपतिविद्वेषग्रीष्मोष्मपरिशोषिणः ।
आप्यायं राजपुरुषा वार्तयापि न चक्रिरे ॥ ६९ ॥
गिरं गभीरो गृह्णाति क्ष्माभृद्यावत्तदग्रगाः ।
उक्तानुवादिनस्तावद्यक्तं प्रतिरवा इव ॥ ७० ॥
स तु राजविरुद्धत्वदारिद्र्याभ्यां न विव्यथे।
गतप्रत्यूहया प्रीतः प्राप्तया हरसेवया ॥ ७९ ॥
अथ भाव्यर्थमाहात्म्यात्पप्रथे प्रतिमन्दिरम् ।
राज्यं संधिमतेर्भावीत्यश्रुतापि सरस्वती ॥ ७२ ॥
नाचोदिता वाक्करतीत्याप्तेभ्यः श्रुतवान्नृपः ।
ततः संभूतसंत्रासः कारावेश्मान तं न्यधात् ॥ ७३ ||
तत्र तस्योग्रनिगडैः पीडिताङ्गेर्विशुष्यतः ।
पूर्णाभूद्दशमो वर्षा भूपतेश्चायुषोवधिः ॥ ७४ ॥
निष्पुत्रः स महीपालो मुमूर्षुर्दाहमादधे ।
रोगोत्थया पीडया च चिन्तया च तदीयया ॥ ७५ ॥
ऊष्मायमाणो विद्वेषवह्निना ज्वलतानिशम् ।
न विना तद्वधं मेने भवितव्यप्रतिक्रियाम् ॥ ७६ ।।
भाव्यर्थस्याबुधाः कुर्युरुपायं स्थगनाय यम् ।
स एवापावृतं द्वारं ज्ञेयं दैवेन कल्पितम् ॥ ७७॥
दग्धाङ्गारकदम्बके विलुठतः स्तोकोन्मिषत्तेजसो
वेधा वह्निकणस्य शक्तिमतुलामाधातुकामो हठात् ।
तन्निर्वापणमिच्छतः प्रतनुते पुंसः समीपस्थितः
संतापद्रुतभूरिसर्पिषि घटे पानीयकुम्भभ्रमम् ॥ ७८ ॥
अथ राजाज्ञया क्रूरैर्वधकर्माधिकारिभिः ।
निशि संधिमतिः शूले समारोप्य विपादितः ॥ ७९ ॥

प्रोतशूले श्रुते तस्मिञ्शोकशङ्कुर्महीपतेः।
निरगाद्रोगभग्नस्य पूर्वे पश्चात्तु जीवितम्‌॥८०॥
सप्तत्रिंशतिवर्षेषु यातेष्वस्मिन्निरन्वये।
प्रशान्तभूमिपालाभूत्कतिचिद्दिवसानि भूः॥८१॥
अथ संधिमतिं बुद्धा तथा व्यापादितं गुरोः।
ईशानाख्यस्य हृदयं विवशं वशिनोप्यभूत्॥८२॥
शिरीष इव संसारे सुखोच्छेद्ये मनीषिणाम्‌।
हन्तानृशंस्यं तद्धृन्तमिवैकमवशिष्यते॥८२॥
स श्मशानभुवं प्रायादनाथस्येव शुष्यतः।
कर्तुं विनयिनस्तस्य स्वोचितामन्तसत्क्रियाम्॥८४॥
तं चास्थिशेषमद्राक्षीत्कृष्यमाणं बलाद्धृकैः।
शूलमूलावबद्धास्थिखण्डावष्टम्भनिश्चलम्॥८५॥
समीरणसमाकीर्णमुन्डरन्ध्राग्रनिर्गतैः।
ध्वनितैरनुशोचन्तमिवावस्थां तथाविधाम्‌॥८६॥
हा वत्स द्रष्टुमीद्दक्ते जीवाम्यद्येति वादिना।
तस्याकृष्यत शूलान्तःप्रोतं तेनाथ कीकसम्‌॥८७॥
वेष्टिताङ्घ्रिः शिरःशीर्णैस्तत्कचैर्धूलिधूसरैः।
अनैषीत्तं स कङ्कालं वारयन्भषतो वृकान्॥८८॥
उचितां सत्क्रियां कर्तुं ततस्तस्य समुद्यतः।
भाले विधातृलिखितं श्लोकमेतमवाचयत्॥८९॥
यावज्जीवं दरिद्रत्वं दश वर्षाणि बन्धनम्‌।
शूलस्य पृष्ठे मरणं पुना राज्यं भविष्यति॥९०॥
पादत्रयस्य दृष्टार्थः श्लोकस्यासीत्स योगवित्‌।
द्रष्टव्ये तुर्यपादार्थप्रत्यये कौतुकान्वितः॥९१॥

अचिन्तयच्च संभ्रान्तः कथमेतद्भविष्यति।
उवाच च विधेः शक्तिमचिन्त्यां कलयंश्चिरम्॥९२॥
तत्तत्कर्मव्यतिकरकृतः पारतन्त्र्यानुरोधा-
त्सज्जाः सर्वे व्यवसितहठोन्मूलनाय प्रयत्नात्।
चित्रं तत्राप्युदयति विधेः शक्तिरत्यद्भुतेयं
यन्माहात्म्याद्विविधघटनासिद्धयो निर्निरोधाः॥९३॥
मणिपूरपुरे पार्थं निहतं समजीवयत्‌।
फणिकन्याप्रभावेन सर्वाश्चर्यनिधिर्विधिः॥९४॥
द्रोणपुत्रास्त्रनिर्दग्धं मातुर्गर्भे परीक्षितम्।
जीवयन्कृष्णमाहात्म्याद्धाता धुर्योधिकारिणाम्‌॥९५॥
कचं भस्मीकृतं दैत्यैर्नागांस्तार्क्ष्येण भक्षितान्‌।
पुनजीवयितुं को वा देवादन्यः प्रगल्भते॥९६॥
इत्युक्त्वा भाविनोर्थस्य द्रष्टुं सिद्धिं समुद्यतः।
तत्रैव बद्धवसतिः कङ्कालं स ररक्ष तम्‌॥९७॥
अथार्धरात्रे निर्निद्रस्तयैवाद्भुतचिन्तया।
धूपाधिवासमीशानो घ्रातवान्दिव्यमेकदा॥९८॥
उच्चण्डलाडनादण्डोद्धृष्ट्घण्टौघटांकृतैः।
चण्डैर्डमरुनिर्घौषैर्घर्घरं श्रुतवान्ध्वनिम्‌॥९९॥
उद्धाटिततमोरिः स ततः पितृवनावनौ।
दर्दश योगिनीस्तेजःपरिवेषान्तरस्थिताः॥१००॥
तासां संभ्रममालक्ष्य कङ्कालं चापवाहितम्‌।
इशानस्तां श्मशानोर्वीं धृतासिश्चकितो ययौ॥१०१॥
अथापश्यत्तरुच्छन्नः शायितं मण्डलान्तरे।
संधीयमानसर्वाङ्गं कङ्काल्ं योगिनीगणैः॥१०२॥

उल्लसद्वरसंभोगवाञ्छा मद्यपदेवताः।
वीरालाभात्समन्विष्य कङ्कालं तमपाहरन्‌॥१०३॥
एकमेकं स्वमङ्ग च विनिधाय क्षणादथ।
कुतोप्यनीय पुंलक्ष्म पूर्णाङ्गं तं प्रचक्रिरे॥१०४॥
अथ पुर्यष्टकं भ्राम्यदनाक्रान्तान्यविग्रहम्।
योगेनाकृष्य योगिन्यस्तत्र संधिमतेर्न्यधुः॥१०५॥
ततः सुप्तोत्थित इव प्रत्तदिव्यविलेपनः।
समभुज्यत ताभिः स यथेच्छं चक्रनायकः॥१०६॥
ईशानस्तस्य देवीनां वितीर्णाङ्गाहृतिं पुनः।
क्षपायां क्षीयमाणायां चकितः पर्यशङ्कत॥१०७॥
नदंस्तद्रक्षया धीरः स च तत्स्थानमाययौ।
तच्च योगेश्वरीचक्रं क्षिप्रमन्तरधीयत॥१०८॥
अथाश्रूयत वाक्तासां मा भूदीशान भीस्तव।
नास्त्यङ्गहानिरस्माकं वृते चास्मिन्न वश्चना॥१०९॥
अस्मद्धरादिव्यवपुःसंधितः संधिमानसौ।
आर्य॑त्वादार्यराजश्च ख्यातो भुवि भविष्यति॥११९॥
ततो दिव्याम्बरः स्रग्वी दिव्यभूषणभूषितः।
ववन्दे संधिमान्प्रहः प्राप्तपूर्वस्मृतिर्गुरुम्॥१११॥
ईशानोपि तमालिङ्य स्वप्नेष्वपि सुदुर्लभम्।
भूमिकामाललम्भे कामिति को वक्तुमर्हति॥११२॥
असारं च विचित्रं च संसारं ध्यायतोर्मिथः।
विवेकविशदा तत्र प्रावर्तत तयोः कथा॥१९३॥
अथ वार्तां विदित्वेमां कुतोपि नगरौकसः।
सबालवृद्धाः सामात्यास्तमेवोद्देशमाययुः॥११४॥

पूर्वाकृतिविसंवादाद्भ्रमो नायं स इत्यथ।
तेनाच्छिद्यत संवादि निखिलान्प्रच्छता वचः॥११५॥
अर्थनां शासितुं राष्ट्रं पौराणामपराजकम्‌।
सोन्वमन्यत कृच्छ्रेण निःस्पृहः शासनाद्गुरोः॥११६॥
प्रापय्योपवनोपान्तं तं दिव्याकृतिशोभिनम्।
सतूर्यं स्नापयामासुरभिषेकाम्बुभिर्द्विजाः॥११७॥
नवराजोचिताचारे न स शिक्षामपैक्षत।
दृष्टकर्मा समस्तास्तु निस्तुषाः प्रक्रिया व्यधात्‌॥११८॥
स राजोचितनेपथ्यः पौरारीर्घोषशोभिनीम्।
सौधोन्मिषल्लाजवर्षां ससैन्यः प्राविशत्पुरीम्‌॥११९॥
तस्मिन्विरजसि प्राज्यमाक्रामति नृपासनम्‌।
आचक्राम प्रजा व्यापन्न दैवी न च मानुषी॥१२०॥
अहरन्हृदयं तस्य शृङ्गारहितविभ्रमाः।
नितम्बिन्यो वनभुवः शमिनो न तु योषितः॥१२१॥
वनप्रसूनसंपर्कपुण्यगन्धैस्तपस्विनाम्।
कर्पूरधूपसुरभिः करैः स्पृष्टः स पिप्रिये॥१२२॥
भूतेशवर्धमानेशविजयेशानपश्यतः।
नियमो राजकार्येषु तस्याभूत्प्रतिवसरम्॥१२३॥
हरायतनसोपानक्षालनाम्भःकणाश्चितैः।
संस्पृष्टः पवनैः: सोभूदानन्दास्पन्दविग्रहः॥१२४॥
पूर्वपूजापनयने निराडम्बरसुन्दरः।
तेनैव द्रष्टुमज्ञायि स्नपितो विजयेश्वरः॥१२५॥
लिङ्गपीठलुठत्सानकुम्भाम्भःक्षोभभूर्ध्वनिः।
शयानस्याप्यभूत्तस्य वल्लभो वल्लकीद्विषः॥१२६॥

तापसैर्भस्मरुद्राक्षजटाजूटाङ्कितैर्बभौ।
तस्य माहेश्वरी पर्षदिव भूमिपतेः सभा॥१२७॥
शिवलिङ्गसहस्रस्य प्रतिष्ठाकर्मणि प्रभोः।
प्रतिज्ञा प्रत्यहं तस्य नाभूद्विघटिता क्वचित्‌॥१२८॥
प्रमादात्तदनिष्पत्तौ शिलामुत्कीर्य कल्पिता ।
सहस्रलिङ्गी तद्भभृत्यैः सवैतोद्यापि दृश्यते॥१२९॥
तास तासु स वापीषु लिङ्गव्याजादरोपयत्‌।
स्वपुण्यपुण्डरीकाणां जन्मनेक्षपरम्पराम्॥१३०॥
स्थाने स्थाने जलान्तश्च बहुसंख्यैनिवेशितैः।
अनयन्नर्मदाभङ्गिं शिवलिङ्गैस्तरङ्गिणीः॥१३१॥
प्रतिलिङ्गं महाग्रामाः प्रत्यपाद्यन्त तेन ये।
पर्षदामद्य तद्भोगः कालेनान्तर्धिनमागतः॥१३२॥
अकरोत्स महाहर्म्यैर्महालिङ्गैर्महावृषैः।
महात्रिशूलैर्महतीं महामाहेश्वरो महीम्‌॥१३३॥
कृत्वा संधीश्वरं देहसंधानपितृकानने।
ईशानस्य गुरोर्नाम्ना व्यधादीशेश्वरं हरम्‌॥१३४॥
थेदां च भीमादेवीं च देशांश्चान्यान्पदे पदे।
स मठप्रतिमालिङ्गेैर्हर्म्यैर्निन्ये महार्घताम्॥१३५॥
स्वयंभूमिश्च तीर्थैश्च पूतं भक्तिविशेषतः।
स एव भोक्तुमज्ञासीत्प्राज्ञः काश्मीरमण्डलम्‌॥१३६॥
स्नातस्य निर्झराम्भोभिः पुष्पलिङ्गार्चनोत्सवैः।
राज्ञस्तस्य वनोर्वीषु मासः पुष्पाकरो ययौ॥१३७॥
स चातिरभ्यः काश्मीरो ग्रीष्मस्त्रिदिवदुर्लभः।
हिमलिङ्गार्चनैः प्रयाद्वनान्तेषु कृतार्थताम्‌॥१३८॥

७६.

राजतरङ्गिणी

फुल्लाज्ञषण्डरुद्धाशाः प्राप्य पुष्करिणीतटीः । लक्ष्मीसखः स खण्डेन्दुचूडध्यानपरोभवत्‌ ॥ १३९ ॥ नीलोत्पलवतीर्वापीरगस्त्योदयनिर्विषाः । अवगाह्य हरार्चाभिः शरदं निर्विवेश सः ॥ १४० ॥ सार्धं तपोधनैस्तैस्तैर्भजतो जागरोत्सवान्‌ । तस्याभूवन्भुवो भर्तुरमोघा माघरात्रयः ॥ १७१ ॥ अल्यभ्दुतं राज्यलाभमित्थं सफटखयन्कृती ।

पश्चारातं ्िवर्षोनामत्यक्रामत्स वत्सरान्‌ ॥ १४२ ॥ शामव्यसनिनस्तस्य राज्यकायोण्यपदयतः । तस्िन्काछे प्रङृतयो विरागं प्रतिपेदिरे ॥ १४३ ॥ अन्वैष्यत नरुपस्ताभिः कथिद्राज्याय शुश्रुवे । राजपुत्रो जिगीषुश्च श्रीमान्योधिष्टिरे कुठे ॥ १४४ ॥ जुगोप गोपादिदययाख्यं कदमीरेन्द्रजिगीषया । युधिष्ठिरप्रपौत्रं हि गान्धाराधिपतिस्तदा ॥ १४५ ॥ वसन्नपास्तसाच्राज्यः स तज तनयं कमात्‌ ।

अवाप टक्षणैदिव्यैरमोधं भेघवाहनम्‌ ॥ १७६ ॥

स युवा पितुरादेशद्वैष्णवान्वयजन्मनः।

राष्ट्र पराग्ज्योतिषेन्द्रस्य ययौ कन्यास्वयंवरे ॥ १७७ ॥ तञ तं वारुणं छत्रं छायया राजसंनिधौ ।

भेजे वरसख्रजा राजकन्यका चास्रतप्रभा ॥ १७८ ॥ तेन तस्य निमित्तेन चुद्धिमागामिनीं जनाः । अजानन्नम्बु वाहस्य पाञ्चालयेनेव वायुना ॥ १७९ ॥ राज्ञा हि नरकेणैतद्वरुणादुष्णवारणम्‌ । आनीतमकरोच्छायां न चिना चक्रवतिनम्‌ ॥ १५० ॥ द्वितीयस्तरङ्गः ।

तमन्तिकं पितुः प्राप्तं पत्न्या लक्ष्म्या च संश्रितम् ।
भुवा निमन्त्रयामासुर्मन्त्रिणो वंशयोग्यया ॥ १५१ ॥
अथार्यराजो विज्ञाय स्वराज्यं भेदजर्जरम् ।
प्रतिचक्रे न शक्तोपि तस्थौ तु त्यक्तमुत्सुकः ॥ १५२ ।।
अचिन्तयच्च सत्यं मे संप्रीतो भूतभावनः ।
सिद्धिविघ्नानमून्दीर्घानपाकर्तुं समुद्यतः ॥ १५३ ॥
कृत्ये बहुनि निष्पाद्ये श्रमात्कौसीद्यमाश्रयन् ।
प्रावृषीवाध्वगो दिष्ट्या मोहितोस्मि न निद्रया ॥ १५४ ॥
स्वकाले त्यजता लक्ष्मी विरक्तां बन्धकीमिव ।
हठनिर्वासनव्रीडा दिष्ट्या नासादिता मया ॥ १५५ ।।
शैलूषस्येव मे राज्यरङ्गेस्मिन् वल्गतश्चिरम् ।
निर्व्यूढमपि वैरस्यं दिष्ट्या न प्रेक्षका गताः ॥ १५६ ॥
दिष्ट्या सदैव वैमुख्यमुच्चैरुद्घोषयञ्श्रियः ।
त्यागक्षणे न भीतोस्मि विकत्थन इवाहवे ॥ १५७ ॥
इति संचिन्तयन्नन्तः सर्वत्यागोन्मुखो नृपः ।
मनोराज्यानि कुर्वाणो दरिद्र इव पिप्रिये ॥१५८ ॥
अन्येयुः प्रकृतीः सर्वाः संनिपत्य सभान्तरे ।
ताभ्यः प्रत्यर्पयन्न्यासमिव राज्यं सुरक्षितम् ॥ १५९ ।।
उज्झितं स्वेच्छया तच्च प्रयत्नेनापि नाशकत् ।
तं स्वीकारयितुं कश्चित्फणीन्द्रमिव कञ्चकम् ॥ १६० ॥
अर्चालिङ्गमुपादाय सोथ प्रायादुदङ्मुखः । '
'धौतवासा निरुष्णीषः पद्भयामेव प्रजेश्वरः ॥ १६१ ॥
तस्य पादार्पितदृशो व्रजतो मौनिनः प्रभोः ।
पन्थानं जगृहुः पौरा निःशब्दस्रवदस्रवः ॥ १६२ ॥

१ प्रत्यार्पयत् इत्युचितम् । ४७ राजतरङ्गिणी

स विलङ्घितगव्यूतिरुपविश्य तरोरधः ।
जनमेकैकमुद्वाष्पं न्यवर्तयत सान्त्वयन् ॥ १६३ ॥
पथि शिखरिणां मूले मूले विलम्ब्य जहजना-
न्मितपरिकरो गच्छन्नूर्ध्व क्रमात्समदृश्यत ।
गहनवसुधाः संपूर्योच्चैर्वजन्स निजात्पदा-
नद इव विनिर्यातः स्तोकैः कृतानुगमो जलैः ॥ १६४ ॥
निःशेषं निकटात्स लोकमटवीमध्ये निरुन्धत्पदं
शोकावेशसबाष्पगद्गदपदं संमान्य चोत्सार्य च ।
भूर्जत्वक्परिरोधमर्मरभरुन्निद्राणसिद्धाध्वग-
श्रेणी मौलिमणिप्रभोज्ज्वलगुहागेहं जगाहे वनम् ॥ १६५ ॥
अथ वनसरसीतटदुमाधः
पुटकघटोदर संभृताम्बुपूराम् ।
वसतिमकृत वासरावसाने
शुचितरुपल्लवकल्पितोच्चतल्पाम् ।। १६६ ।।
शृङ्गासक्तमितातपाः शवलितच्छायाभुवः शाइलै-
रुत्फुल्लामलमल्लिकातलमिलत्सुप्त व्रजस्त्रीजनाः ।
सध्वाना वनपालवेणुरणितोन्मिथैः प्रपाताम्बुभिः
श्रान्तं दृक्पथमागतास्तमनयन्निद्रामदूराद्रयः ॥ १६७ ॥
वनकरिरसितैः पदे पदे स
प्रतिभटतां पटहध्वनेर्दधानैः ।
अमनुत रटितैश्च कर्करेटोः
परिगलितां गमनोन्मुखस्त्रियामाम् ॥ १६८ ॥
अन्येद्युविधिवदुपास्य पूर्वसंध्या-
मासन्ने नलिनसरस्यपास्तनिद्रः ।

तृतीयस्तरङ्गः ।

क्ष्मापालः परिचितसोदराम्बु तीर्थं
नन्दीशाध्युषितमवाप भूतभर्तुः ॥ १६९ ॥
नन्दिक्षेत्रे त्रिभुवनगुरोः सोग्रतस्तत्र याव-
त्तस्थौ तावत्स्वयमभिमतावाप्तये जायते स्म ।
भस्मस्मेरः सुघटितजटाजूटबन्धोक्षसूत्री
रुद्राक्षाको जरढमुनिभिः सस्पृहं वीक्ष्यमाणः ॥ १७० ॥
भ्राम्यञ्श्रीकण्ठदत्तव्रतजनित महासत्क्रियो भैक्षहेतो-
भिक्षादानोद्यतासु प्रतिमुनिनिलयं संभ्रमात्तापसीषु ।
वृक्षैभिक्षाकपाले शुचिफलकुसुम श्रेणिभिः पूर्यमाणे
मान्यो वैराग्ययोगेप्यनुपनतपरप्रार्थनालाघवोभूत् ॥ १७१ ॥
इति श्रीकाश्मीरिकमहामात्यश्रीचण्पकप्रभुसुनोः कहणम्य कृतौ
राजतरङ्गिण्यां द्वितीयस्तरङ्गः ॥
शतद्वये वत्सराणामष्टभिः परिवर्जिते ।
अस्मिद्वितीये व्याख्याताः षट् प्रख्यातगुणा नृपाः ॥
४९
तृतीयस्तरङ्गः ।
मुञ्चेभाजिनमस्य कुम्भकुहरे मुक्ताः कुचाग्रोचिताः
किं भालज्वलनेन कज्जलमतः स्वीकार्यमणोः कृते ।
संघाने वपुरर्धयोः प्रतिवदन्नेवं निषेत्रेण्यः
कर्तव्ये प्रिययोत्तरानुसरणोधुक्तो हरः पातु वः ॥ १ ॥
अथोल्लसत्पृथुश्लाघमानिन्युर्मेघवाहनम् ।
गान्धारविषयं गत्वा सत्रिवाधिष्ठिताः प्रजाः ॥ २ ॥