राजतरङ्गिणी प्रथमो भागः.djvu/पञ्चमः तरङ्गः

← चतुर्थः तरङ्गः राजतरङ्गिणी प्रथमो भागः.djvu
पञ्चमः तरङ्गः
कल्हणः
षष्ठः तरङ्गः →

                
                     पञ्चमस्तरङ्गः
काप्येतेषु रुचिः कचेषु फणिनां पुंस्कोकिलस्यैव ते
गोभिः कण्ठतटस्य हृष्यति पुरो दृक्पश्य चक्षुःश्रुतेः ।
संधानेभिनवे मिथो भगवतोर्जिह्वापृथस्पन्दिनी
भिन्नार्थां सदृसशाक्षरामपि वदन्त्येवं गिरं पातु वः ॥ १॥
अवन्तिवर्मा साम्राज्यं प्राप्य पाटितकण्टकः ।
चकार चरितैश्चित्रं सतां कण्टकितं वपुः ॥ २॥
आसतां क्षितिपामात्यौ तौ द्वावपि परस्परम्‌ ।
आज्ञादाने परिवृढौ भृत्यावाज्ञापरिग्रहे ॥ २ ॥
कृतज्ञः क्षान्तिमान्क्ष्माभृन्मन्त्री भक्तः स्मयोज्झितः।
अभङ्गुरोग्यं संयोगः सुकृतैर्जातु दृश्यते ॥ ४ ॥ ८
विवेक्ता प्राप्तराज्यः स क्ष्माभृद्वीक्ष्य नृपश्रियम्।
अविलुप्तस्मृतिर्धीमानन्तरेवमचिन्तयत् ॥ ५ ॥
गोभुजां वल्लभा लक्ष्मीर्मातङ्गोत्सङ्गलालिता ।
सेयं स्पृहां समुत्पाद्य दूषयत्युन्नतात्मनः ॥ ६ ॥
स नास्ति कश्चित्प्रथमं यः प्रदर्श्यानुकूलताम्।
संताप्यते न चरमं नीचप्रीत्येव नानया ॥ ७ ॥
चपलाभिः प्रवृद्धेयं स्वर्वेश्याभिः सहाम्बुधौ ।
तदेकचारिणीवृत्तमनया शिक्षितं कुतः ॥ ८ ॥
निःस्नेहा नान्वगात्कांश्चित्सुचिरं संस्तुताप्यसौ ।
परलोकाध्वगान्भूपानपाथेयानबान्धवान्‌ ॥ ९ ॥
हेमभोजनभाण्डादि भाण्डागारे यदर्जितम्‌
कस्मादस्य न नाथास्ते लोकान्तरगता नृपाः॥ १० ॥



अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः ।
कस्मान्न लज्जामवहञ्शौचचिन्तां न वा दधुः ॥ १९॥
स्थूलेषु राजतस्थालकपालेष्ववलोकितैः ।
प्रेतभूपालनामाङ्कैः शङ्का कस्य न जायते ॥ १२॥
कृष्टाः प्रविष्टे ये कालपाशे कण्ठान्मुमूर्षताम्‌ ।
अशस्ता अपवित्राश्च ते हाराः कस्य हारिणः ॥ १२ ॥
संदूष्य बाष्पैर्दुःखोष्णैस्त्यक्तान्पूर्वैर्मुमूर्षभिः ।
स्पृशन्नेतानलंकारान्न कः संकोचमाप्नुयात् ॥ १४ ॥
या वारिराशिसलिलान्तरसन्निधान-
संसेवयापि सततं मलिनैव लक्ष्मीः ।
पात्रेषु रोरशिखिभागिषु सा विमुक्ता
वैमल्यमेति हरिणीव हुताशशौचा॥ १५ ॥
इति निर्ध्याय नृपतिर्नीत्वा स्वर्णादि चूर्णताम्‌ ।
निजैरञ्जलिभिः प्रादाद्द्विजन्मभ्यः करम्भकम्‌ ॥ १६ ॥
साधु भूपेति वक्तव्ये हर्षान्निर्गौरवं द्विजः ।
साध्ववन्तिन्निति वदन्नेकः प्रापाञ्जलीन्बहून् ॥ १७ ॥
लक्ष्मीं कृत्वार्थिसात्कृत्स्नां कृतिनावन्तिवर्मणा ।
विभूतिश्चामरच्छत्रमात्रशेषा व्यधीयत् ॥ १८ ॥
अनन्तसंपत्संपन्नभूरिगोत्रजविप्लवे ।
राजश्रीर्दुर्जरा तस्य नवत्वे भूभुजोभवत्‌ ॥ १९ ॥
विप्लुतान्समरे भ्रात्रृन्भ्रातृव्यांश्च विजित्य सः ।
चकार भूरिभिर्वारै राज्यं विगतकण्टकम्‌ ॥ २० ॥
राज्यं निष्पाद्य निर्विघ्नमथ वात्सल्यपेशलः ।
विभज्य बन्धुभृत्येषु बुभुजे पार्थिवः श्रियम्॥ २१ ॥

१६०

राजतरङ्किणी
भ्राता द्वैमातुरस्तेन शूरवर्माभिधः सुधीः ।
ज्ञातिप्रियेण वितते यौवराज्येभ्यषिच्यतः ॥ २२॥
खाधूयाहस्तिकर्णाख्यावग्रहारौ प्रदाय यः।
शूरवर्मस्वामिनं च गोकुलं च विनिर्ममे ॥ २३॥
सम्पूर्णः पूर्णमहिमामर्त्यमाहात्म्यमन्दिरम् ।
पञ्चहस्ताप्रदश्चक्रे मठं सुकृतकर्मठः ॥ २७ ॥
भ्राता व्यधत्त नृपतेरपरः समराभिधः।
केशवं चतुरात्मानं समरस्वामिनं तथा ॥ २५ ॥
द्वौ शूरावरजौ धीरविन्नपाख्यौ निजाख्यया ।
व्यधत्तां विवुधावासौ द्वावन्यौ गणनापती ॥ २६ ॥
भूत्वा वातूलताच्छन्नप्रभावानुभवौ भुवि ।
गतौ सविग्रहावेव हरावासाग्र्यसभ्यताम् ॥ २७ ॥
                           युग्मम्‌ ॥
राजदौवारिकः श्रीमाञ्शूरस्यासीन्महोदयः।
महोदयस्वामिनो यः प्रतिष्ठां समपादयत्‌ ॥ २८ ॥
रामजाख्यमुपाध्यायं ख्यातव्याकरणश्रमम् ।
व्याख्यातृपदकं चक्रे स तस्मिन्सुरमन्दिरे ॥ २९ ॥
अमात्येन महीभर्तुः श्रीप्रभाकरवर्मणा 1
कृतं प्रभाकरस्वामिनाम्नो विष्णोर्निकेतनम्‌ ॥ ३० ॥
आयातेन शुकैः सार्धं दत्ता गृहशुकेन यः ।
मुक्ताः प्राप्य प्रतिष्ठायां चक्रे ख्यातां शुकावलीम् ॥ ३९ ॥
विच्छिन्नप्रसरा विद्या भूयः शूरेण मन्त्रिणा
सत्कृत्य विदुषः सभ्यान्देशेस्मिन्नवतारिता ॥ २२ ॥






युग्मैः क्षितिभुजां योग्यैरुह्यमाना महर्द्वयहः ।
वुधाः प्रवृद्धसत्कारा विविशुर्भूपतेः सभाम्‌ ॥ ३३ ॥
मुक्ताकणः शिवस्वामी कविरानन्दवर्ह्धनः ।
प्रथां रत्नाकरश्चागात्साम्राज्येवन्तिवर्मणः ॥ ३४ ॥
आस्थाने कृतमन्दारो बन्दी शूरस्य मन्रिणः ।
संकल्पस्मृतिमाघातुमिमामार्यां सदा पठेत्‌ ॥ ३५ ॥
अयमवसर उपकृतये प्रकतिचला यावदस्ति संपदियम्‌।
विपदि सदाभ्युदयिन्यां पुनरुपकर्तुं कुतोवसरः ॥ २६ ॥
कृतः सुरेश्वरीक्षेत्रे बहुगेहविधायिना ।
रिवयोर्मिश्रयोस्तेन प्रासादः सोव्ययस्थितिः ॥ २७ ॥
शूरेश्वरं प्रतिष्ठाप्य स्ववेश्मेव समुन्नतम्‌ ।
चक्रे शूरमठं धीमान्स भोगाय तपस्विनाम्‌ ॥ ३८ ॥
स्वकृते पत्तनवरे तेन शुरपुराभिधे ।
कमवर्तप्रदेशस्थो ढक्कोभूद्विनिवेशितः ॥ ३९ ॥
सुरेश्वरीप्राङ्गनतश्चक्रे भूतेश्वरं हरम् ।
मठं शूरमठन्तश्च शूरजो रत्नवर्धनः ॥ ४० ॥
काव्यदेव्यभिधा शूरवधुः शुद्धान्वया व्यधात्‌ ।
सदादिवं सुरेश्वर्यो काव्यदेवीश्वराभिधम् ॥ ४१ ॥
निर्मत्सरोवन्तिवर्मा सोदरेभ्योनपायिनीम्‌ ।
शूराय च स पुत्राय नृपतिप्रक्रियां ददौ ॥ ४२॥
छन्दानुवर्ती भूपालो दैवतस्येव मन्निणः ।
आ बाल्याद्वैष्णवोप्यासीच्छैवतामुपदर्शयन् ॥ ४३ ॥
क्षेत्रे विश्वेकसाराख्ये मृतानामपवर्गदे।
भूरिभोगास्पदं राज्ञा तेनावन्तिपुरं कृतम्‌ ॥ ४४७ ॥


अवन्तिस्वामिनं तत्र प्राग्राज्याधिगमात्कृती ।
विधाय प्राप्तसाम्राज्यश्चक्रेवन्तीश्वरं तदा ॥ ४५ ॥
त्रिपुरेभ्वरभूतेशविजयेशेषु भूश्रता ।
स्नानद्रोण्या रौप्यमय्या तेन पीठत्रयं कृतम्‌ ॥ ४६ ॥
शूरस्यापि नरेन्द्रं तं ध्यायतः स्वाधिदैवतम्‌ ।
तत्प्रियार्थमुपेक्ष्योभूद्धर्मः प्राणाः खुतोपि वा ॥ ४७॥
तथा चार्चयितुं जातु यातो भूतेश्वरं नृपः
विभवानुगुणे स्वस्मिन्पूजोपकरणोर्पिते ॥ ४८ ॥
ददर्श पीठे देवस्य पूजकैरूपपादितम्‌ ।
वन्यमुत्पलशाकाख्यं तिक्तशाकमवस्थितम्‌ ॥ ४९. ॥
युग्मम्‌ ॥
तत्रस्थाः क्ष्माभुजा पृष्टास्तन्निवेदनकारणम्‌ ।
व्यजिज्ञपन्क्षितिन्यस्तजानु प्राञ्जलयस्ततः ॥ ५० ॥
डामरो धन्वनामास्ति लहरे विषये बली ।
शूरस्य मन्त्रिणो देव सेवको यः सुतोपमः ॥ ५१ ॥
हतेषु तेन ग्रामेषु निरवग्रहशक्तिना ।
निवेद्यमेतदेवास्मै भूतेशाय निवेद्यते ॥ ५२ ॥
अकाण्डशूलजनितां पार्थिवः कथयन्व्यथाम्‌ ।
श्रुतमश्रुतवत्कृत्वा व्यक्तपूजोथ निर्ययौ । ५२ ॥
पूजां संत्यज्य गमनं शूलं चाकस्मिकं प्रभोः ।
सहेतुकं विदञ्शूरो वृत्तान्तान्वेषकोभवत्‌ ॥ ५९ ॥
ज्ञाततत्वस्ततस्तूर्णं भूतेशाभ्यर्णवर्तिनः
कुद्धः समातृचक्रस्य भैरवस्याविशद्गृहम्॥ ५५ ॥
निषिद्धजनवाहल्याद्भूत्वा विरलपार्श्वगः ।
प्राहिणोद्धन्वमानेतुं ततो दूतान्पुनः पुनः ॥ ५६ ॥

पञ्चमस्तरङ्गः ।

स क्षिति पत्तिपृतनासंमर्देन प्रकम्पयन् ।
अप्रकम्पतनुः प्राप क्रूरः शूरान्तिकं पुरः ॥ ५७ ॥
तस्य प्रविष्टमात्रस्य शस्त्रिणः शूरचोदिताः ।
मुण्डं सजीवितस्यैव चिच्छिदुर्भैरवाप्रतः ॥ ५८ ॥
आसन्ने सरसि क्षित्वा रुधिरोद्गारि तद्वपुः ।
क्ष्मापतेः क्षालितामर्षो धीरः शूरो विनिर्ययौ ॥ ५९ ॥
तस्य श्रुत्वा शिरश्छिन्नं स्वपुत्रस्येव मत्रिणा ।
क्षीणमन्युः क्षितिपतिः सवैलक्ष्य इवाभवत् ॥ ६० ॥
शूरोथ पृष्टकुशलो निर्व्यथोस्मीति भाषिणम् ।
उत्थाप्य तल्पात्तं देवं पूजाशेषमकारयत् ॥ ६१ ॥
इत्थं समस्तकृत्येषु भावज्ञः स महीपतेः ।
अनुक्त्वैव हितं तत्तत्प्राणांस्त्यक्त्वाप्यसाधयत् ॥ ६२ ॥
परस्परमनुत्पन्नमन्युकालुष्यदूषणौ ।
न दृष्टौ न श्रुतौ वान्यौ तादृशौ राजमत्रिणौ ॥ ६३ ॥
श्रीमेघवाहनस्येव साम्राज्येवन्तिवर्मणः ।
अशेषप्राणिनामासीदमारो दश वत्सरान् ॥ ६४ ॥
जलं जहद्भिः शिशिरं तटानेत्याकुतोभयैः ।
तत्कालं सेवितः पृष्ठे पाठीनैः शरदातपः ॥ ६५ ॥
अनुग्रहाय लोकानां भट्टश्रीकल्लुटादयः ।
अवन्तिवर्मणः काले सिद्धा भुवमवातरन् ॥ ६६ ॥
चरित्रे बहुवक्तव्ये येषामेकस्य पावनः ।
अयं प्रासङ्गिकः कश्चिद्वृत्तान्तो वर्णयिष्यते ॥ ६७ ॥
देशः प्रबलतोयोयं महापद्मसरोजलैः ।
कूलिनीभिश्च शबलः स्वल्पोत्पत्तिः सदाभवत् ॥ ६८ ॥


ललितादित्यभूभरुद्योगेन बलीयसा ।
किंचिदाकॄष्टसलिलः प्रापोत्पत्तिं मनाक्ततः ॥ ६९ ॥
जयापीडे कमाद्याते स्वल्पवीर्येषु राजसु ।
सलिलोपप्ल्वौरासीत्पुनरेवावृता क्षितिः ॥ ७० ॥
दीन्नाराणां दराशती पश्चाशदधिकाभवत्‌ ।
धान्यखारीक्रये हेतुर्देशे दुर्भिक्षविक्षते ॥ ७१ ॥
अवन्तिवर्मणः पुण्यैर्जन्तूञ्जीवयितुं ततः।
स्वयमन्नपतिः श्रीमान्सुय्यः क्षितिमचातरत्‌ ॥ ७२॥
यस्याविज्ञातसंभूतेस्तुर्ये कालेपि निश्चितम्‌।
अयोनिजत्वं कृतिनश्चरितैर्भुवनाद्भुतेः ॥ ७२ ॥
पुरा रथ्यारजःपुञ्जं संमार्जन्ती पिधानवत्‌ ।
पूयाभिधाना नण्डाली मृद्भाण्डं प्राप नूतनम्‌ ॥ ७४७ ॥
तस्मिन्पिधानमुद्द्धृत्य सापश्यन्मध्यशायिनम् ।
बालं कमलपत्राक्षं धयन्तं स्वकरांगुलीः ॥ ७५ ॥
मात्रा कयापि त्यक्तोसौ सुन्दरो मन्दभाग्यया ।
अथेति चिन्तयन्यासीत्सा स्नेहात्प्रस्नुतस्तनी ॥ ७६ ॥
अदुषयन्त्या स्पर्शेन धात्र्याः शूद्रस्त्रियौ गृहे ।
तया विदितवृत्तिः स शिशुर्वृद्धिमनीयत् ॥ ७७ ॥
स सुय्यनामा मतिमान्प्रवृद्धः शिक्षिताक्षरः।
कस्याप्यासीद्गृहपतेरर्भकाध्यापको गृहे ॥ ७८ ॥
व्रतस्नानादिनियमैस्तं सतां हदयंगमम्‌ ।
गोष्ठीषु विशदप्रज्ञं विदग्धाः पर्यवारयन्‌ ॥ ७९ ॥
तेषां कथाव्यवस्थासु निन्दतां जलविप्लवम् ।
धीरस्ति मे निरर्थस्तु किं कुर्यामिति सोब्रवीत्‌ ॥ ८० ॥

पञ्चमस्तरङ्गः ।

उन्मत्तस्येव वदतस्तस्य तन्नियमाद्वचः ।
निशम्य भूभृच्चारेभ्यश्चिरमासीत्सविस्मयः ॥ ८१ ॥
ततस्तमानीय नृपः किं ब्रूष इति पृष्टवान् ।
धीरस्तीत्यादि राजाग्रेप्यवोचत्सोप्यसंभ्रमः ॥ ८२ ॥
वातूलोसाविति निजैरुक्तोप्यथ महीपतिः ।
धियं दिक्षुर्विदधे तस्यायत्तं निजं धनम् ॥ ८३ ।।
कोशाहीन्नारभाण्डानि बहून्यादाय हेलया ।
ययौ मडवराज्यं स नावमारुह्य रंहसा ॥ ८४ ॥
ग्रामे तत्र प्रवृद्धाम्बुनिमग्ने नन्दकाभिधे ।
एकं निक्षिप्य दीन्नारभाण्डं व्यावर्तत द्रुतम् ॥ ८५ ॥
सत्यं वातूल एवासौ सभ्येष्वपि वदत्स्वपि ।
वार्ता निशम्य तां राजा तन्निष्ठान्वेषकोभवत् ॥ ८६ ॥
क्रमराज्यं स संप्राप्य देशे यक्षदराभिधे ।
अञ्जलिभ्यां निचिक्षेप दीन्नारान्सलिलान्तरे ॥ ८७ ॥
यत्र तीरद्वयालम्बिशैलनिर्लुठिताः शिलाः ।
चक्रुर्वितस्तां निष्पीड्य पयः प्रतिपथोन्मुखम् ॥ ८८ ॥
दुर्भिक्षोपहता ग्राम्या दीन्नारान्वेषिणस्तदा ।
शिलाः प्रवाहादुद्धृत्य वितस्तां समशोधयन् ॥ ८९ ॥
एवं दिनानि द्वित्राणि पयो युक्त्या विकृष्य तत् ।
वितस्तामेकतः स्थानात्कर्मकृद्भिरबन्धयत् ॥ ९० ॥
पाषाणसेतुबन्धेन सुय्येनाद्भुतकर्मणा ।
सप्ताहमभवद्वद्धा निखिला नीलजा सरित् ॥ ९१ ॥
अध: प्रवाहं संशोध्य लुठदश्मप्रतिक्रियाम् ।
कृत्वा बद्धैः शिलाबन्धैः सेतुबन्धमपाटयत् ॥ ९२ ॥

राजतरङ्गिणी

चिरकालनिरोधन सोत्कण्ठेवाम्बुधिं प्रति ।
ततः प्रावर्तत जवाद्गन्तुं सागरगामिनी ॥ ९३ ॥
जम्बालाङ्का स्फुरन्मीना भूर्वभौ सलिलोज्झिता ।
व्यक्तकार्ष्या सनक्षत्रा निर्मेघेव नभःस्थली ॥ १४ ॥
यत्र यत्र विवेदौघवेधं सलिलविप्लवे ।
तत्र तत्र वितस्तायाः प्रवाहान्नूतनान्व्यधात् ॥ ९५ ॥
मूलस्रोतोग्र्यनिष्ठ्यूतभूरिस्रोता वौ सरित् ।
एकभोगाश्रयाने कफणेवासितपन्नगी ॥ ९६ ।।
वामेन सिन्धुस्त्रिग्राम्या वितस्ता दक्षिणेन तु ।
यान्त्यौ ये समगंसातां प्राग्वैन्यस्वामिनोन्तिके ॥ ९७ ॥
वर्ततेद्य महानद्योः कल्पापायेप्यनत्ययः ।
संगमो नगरोपान्ते स सुय्योपक्रमस्तयोः ॥ ९८ ॥
अद्याप्यास्तां फलपुरपरिहासपुरस्थितौ ।
विष्णुस्वामी संगमस्य वैन्यस्वामी च तीरयोः ॥ ९९ ॥
सुन्दरीभवनाभ्यर्णप्राप्तस्याद्यतनस्य तु ।
योगशायी हृषीकेशः सुय्यस्यायचतस्तटे ॥ १०० ॥
दृश्यन्तेद्यापि सरितां पूर्वस्रोतस्तटोद्भवाः ।
निषादाकृष्टनौरज्जुरेखाङ्का जीर्णपादपाः ॥ १०१ ॥
स्फुरत्तरङ्गजिह्वाः स नदीर्मार्गमजिग्रहत् ।
तास्ताः स्वेच्छानुसारेण मात्रिकः पन्नगीरिव ॥ १०२ ॥
बडा शैलमयान्सेतून्वितस्तां सप्तयोजनीम् ।
महापद्मसरोवारि स चकार नियत्रितम् ॥ १०३ ॥
महापद्मसरः कुण्डाद्वितस्ता येन योजिता ।
जवान्निर्याति कोदण्डयत्रादिषुरिवाधुना ॥ १०४ ॥

१ स्रोतोग्र इत्युचितम् । पञ्चमस्तरङ्गः ।

उद्धृत्य सलिलादुर्वीमेवमादिवराहवत् ।
अनेकजनसंकीर्णान्ग्रामान्नानाविधान्व्यधात् ॥ १०५ ॥
पालीभिरम्भः संरोध्य यान्कुण्डसदृशान्व्यधात् ।
कुण्डलानीति सर्वान्नसमृद्धान्ब्रुवते जनाः ॥ १०६ ॥
उत्खात की लनिवहान्नद्योद्यापि शरत्कृशाः ।
व्यञ्जन्ति जलगन्धेभबन्धनस्तम्भसंनिभान् ॥ १०७ ॥
दीन्नारभाण्डानौज्झीत्स यद्गाधजलान्तरे ।
नन्दके निर्गतजले स्थलान्तात्तदलभ्यत ॥ १०८ ॥
अदेवमातृकान्ग्रामान्परीक्ष्य विविधाः क्षितीः ।
संविभेजे विभक्तेन नादेयेन स वारिणा ॥ १०९ ।।
असिचश्च जलैर्ग्रामान्यामान्मृदमुपाहृताम् ।
या यावता क्षणेनागाच्छोषं तां तावता हृदि ॥ ११० ।।
कालेन मत्वा सेका प्रतिग्रामं जलस्रुतेः ।
परिमाणं विभागं च परिकल्प्य निरत्ययम् ॥ १११ ॥
चकार चानूलाद्याभिः सिन्धुभिः सर्वतो दिशः ।
सत्फलोदारकेदारसंपत्संपन्नविभ्रमाः ॥ ११२ ॥
तिलकम् ||
न कश्यपेनोपकृतं न यत्संकर्षणेन वा ।
हेलया मण्डलेमुष्मिस्तत्सुय्येन सुकर्मणा ॥ ११३ ॥
भूमेर्जलादुद्धरणं द्विजक्षेत्रे तथार्पणम् ।
सेतुबन्धोश्मभिस्तोये यमनं कालियस्य च ॥ ११४ ॥
चतुर्षु सिद्धमिति यद्विष्णोः सत्कर्म जन्मसु ।
सुय्यस्य तत्पुण्यराशेरेकस्मिन्नेव जन्मनि ॥ ११५ ॥

युग्मम् ॥ १ भाण्डं इत्युचितम् । १६७ १६८ राजतरङ्गिणी

यस्मिन्महासुभिक्षेषु
दीनाराणां शतद्वयी ।
धान्य खारीप्राप्तिहेतुरा सर्गाभवत्पुरा ॥ ११६ ॥
ततः प्रभृति तत्रैव चित्रं कश्मीरमण्डले ।
पशिता धान्यखारेन्नारैरुदितः क्रयः ॥ ११७ ॥
निर्गताया महापद्मसलिलात्स्वर्गसंनिभम् ।
वितस्तायास्तटे चक्रे स्वनामाङ्कं स पत्तनम् ॥ ११८ ॥
स्वकृता स्थापिता तेन सरसि व्याप्तदिक्तटे ।
आसंसारं स्थिता मारमर्यादा झषपक्षिणाम् ॥ ११९ ॥
सुय्याकुण्डलनामानं ग्रामं कृत्वा द्विजातिसात् ।
सुय्यामुद्दिश्य तन्नाम्ना सुय्यासेतुं स निर्ममे ॥ १२० ॥
तेनोद्धृतासु सलिलाद्भुषु ग्रामाः सहस्रशः ।
अवन्तिवर्मप्रमुखै र्जयस्थलमुखाः कृताः ॥ १२१ ॥
ईदृशैर्धर्म्यवृत्तान्तैः प्रवर्तितकृतोदयः ।
अवन्तिदेवः पाति स्म मांधातेव वसुंधराम् ।। १२२ ।।
प्राणप्रयाणसोद्योगरोगग्रस्तस्ततो ययौ ।
क्षेत्रं स त्रिपुरेशाद्रिनिष्ठज्येष्ठेश्वराश्रितम् ॥ १२३ ॥
आत्मनस्तत्र निश्चित्य विपत्ति चिरगोपितम् ।
प्राणान्ते प्राञ्जलिः शूरों वैष्णवत्वमदर्शयत् ॥ १२४ ॥
तेनान्ते भगवद्गीताः शृण्वता भावितात्मना ।
ध्यायता वैष्णवं धाम निरमुच्यत जीवितम् ॥ १२५ ॥
आषाढ शुक्लपक्षस्य तृतीयस्यां क्षमापतिः ।
वर्ष एकोनषष्टे स क्ष्मावृषास्तमुपाययौ ॥ १२६ ॥
तस्मिन्प्रशान्ते प्रत्येकं विभवोत्सिक्तचेतसाम् ।
तुल्यमुत्पलवंश्यानां राज्येच्छा भूयसामभूत् ॥ १२७ ॥

१ शूरं इत्युचितः पाठः । पञ्चमस्तरङ्गः ।

ततश्चक्रे प्रतीहारः प्रयत्नाद्रत्नवर्धनः ।
नृपं शंकरवर्माणमवन्तिनृपतेः सुतम् ॥ १२८ ॥
कर्णपो विन्नपामात्यस्तनूजं शूरवर्मणः ।
तद्वेषात्सुखवर्माख्यं यौवराज्येप्ययोजयत् ॥ १२९ ॥
अतस्तयोरभूद्वैरं क्षितीशयुवराजयोः ।
यस्मिन्क्षणे क्षणे राज्यमासीद्दोलामिवाश्रयत् ॥ १३० ॥
शिवशक्त्यायो वीराः स्वामिकार्योज्झितासवः ।
यत्राभूवन्स्वसत्त्वस्य परीक्षाक्षणलाभिनः ॥ १३१ ॥
कुर्वतां स्वामिशत्रूणां दानमानप्रतिश्रवम् ।
सत्त्वैकाग्र्यान्न ते यस्मादानुकूल्यमशिश्रियन् ॥ १३२ ॥
पिण्डस्पृहां परित्यज्याहंकृताः शिक्षिताः क्वचित् ।
तावन्न वीततमसः श्ववृत्तिमनुजीविनः ॥ १३३ ॥
कथंचिद्ध निर्जित्य युवराजं महौजसम् ।
प्राज्यः स्वविजयकारश्चक्रे शंकरवर्मणा ॥ १३४ ॥
सम्रागमरवर्माद्यैर्वितीर्णसमरोसकृत् ।
कीर्ति श्रिया प्रणयिनीं लब्धयाधिविवेद सः ।। १३५ ।।
अथ निर्जित्य दायादांलब्ध्वा लक्ष्मी क्षितीश्वरः ।
जिष्णुर्दिग्विजयं कर्तुं श्रीमानासीन्महोद्यमः ॥ १३६ ॥
तस्य कालबलादेशे प्रक्षीणजनसंपदि ।
लक्षाणि नव पत्तीनां द्वारान्निष्कामतोभवन् ॥ १३७ ॥
स्वपुरस्योपकण्ठेपि योभूत्कुण्ठितशासनः ।
स एव रत्नोत्तंसेषु राज्ञामाज्ञां न्यवेशयत् ॥ १३८ ।
गच्छन्नाम्नायविच्छेदं संप्रदायः ककुञ्जये ।
स्वप्रज्ञया समुन्नीतो राज्ञा शंकरवर्मणा ॥ १३९ ॥

२२ १७० राजतरङ्गिणी

तत्सेना नरनाथानां पृतनाभिः पदे पदे ।
कुलापगेव कुल्याभिर्विशन्तीभिरवर्धत ॥ १४० ॥
दार्वाभिसारराजेन त्रस्यता समुपाश्रिताः ।
अद्विद्रोण्यो न वाहिन्यस्तत्सेनानादमादधुः ॥ १४१ ॥
जनोल्बणैर्हरिगणैर्गृह्णन्हरिगणं क्षणात् ।
अनासहितदुर्ग स चक्रे दुर्गान्तरातिथिम् ॥ १४२ ॥
लक्षाणि नव पत्तीनां वारणानां शतत्रयी ।
लक्षं च वाजिनामासीद्यस्य सेनापुरःसरम् ॥ १४३ ॥
स गुर्जरजयव्यग्रः स्वपराभवशङ्किनम् ।
त्रैगर्त पृथिवीचन्द्रं निन्ये तैमसि हास्यताम् ॥ १४४ ॥
पुत्रं भुवनचन्द्राख्यं नीविं प्रागेव दत्तवान् ।
स ह्यभूत्प्रणतिं कर्तुं तस्याभ्यर्णमुपागतः ॥ १४५ ॥
अथ तत्कटकं भ्राम्यद्भूरिमण्डलनायकम् ।
वीक्ष्य संमुखमायान्तं महार्णवमिवोल्बणम् ॥ १४६ ॥
समागमक्षणे यस्माच्छङ्कमानः स्वबन्धनम् ।
पलाय्य प्रययौ दूरं निर्वाणौजोविजृम्भितः ॥ १४७ ॥
तिलकम् ।।
यमप्रतिमसौन्दर्यमद्याप्याहुः पुराविदः ।
तमेवाद्राक्षुरुत्रस्ता नृपाः कालमिवोल्वणम् ॥ १४८ ॥
उच्चखानालखानस्य संख्ये गूर्जरभूभुजः ।
बद्धमूलां क्षणाल्लक्ष्मीं शुचं दीर्घामरोपयत् ॥ १४९ ॥
तस्मै दत्त्वा टक्कदेशं विनयादङ्गुलीमिव ।
स्वशरीरभिवापासीन्मण्डलं गूर्जराधिपः ॥ १५० ॥

१ जवोल्वणैः इति स्यात् । २ अनासादितदुर्ग इत्युचितः पाठः | ३ तमपि इति स्यात् ।


हृतं भोजाधिराजेन स सम्राज्यमदापयन् ।
प्रतीहारतया भृत्यीभूते थक्कियकान्वये॥ १५१ ॥
दरत्तुरुष्काधिपयोर्यः केसरिवराहयोः।
हिमवद्विन्ध्ययोरासीदार्यावर्त इवान्तरे॥ १५२ ॥
उदभाण्डपुरे तस्थुर्यदीये निर्भया नृपा:।
पक्षच्छेदव्यथात्रस्ता महार्णव इवाद्रयः १५३ ॥
नक्षत्रेष्विव भूपेषु नभसीवोत्तरापथे ।
यस्यैव विपुलाख्याति मार्ताण्डस्येव मण्डलम्‌ ॥ १५४ ॥
स श्रीमाल्लल्लियः शाहिरलखानाश्रयः क्रुधा ।
निराकरिष्णोः साम्राज्यात्तस्य सेवां न लब्धवान् ॥ १५५ ॥
एवं दिग्विजयं कृत्वा प्राप्तः स निजमण्डलम्‌ ।
प्रदेशे पञ्चसत्राख्ये स्वनाम्ना विदधे पुरम्‌ ॥ १५६ ॥
तस्य श्रीस्वामिराजस्य तनयोद्क्पथप्रभोः ।
पूर्णिमेव क्षपाबन्धोः सुगन्धाख्याभवत्प्रिया ॥ १५७ ॥
तया समं पुरवरे सुरराजोपमो नृपः ।
तस्मिञ्शंकरगौरीरासुगन्धेशौ विनिर्ममे ॥ १५८ ॥
द्विजस्तयोर्नायकाख्यो गौरीरासुरसद्मनोः ।
चातुर्विद्यः कृतस्तेन वाग्देवीकुलमन्दिरम्‌ ॥ १५९ ॥
परकाव्येन कवयः परद्रव्येण चेश्वराः ।
निर्लोठितेन स्वकृतिं पुष्णन्त्यद्यतने क्षणे ॥ १६० ॥
स्वल्पसत्वो नरपतिः स्वपुराख्यापनाय सः ।
सारापहारमकरोत्परिहासपुरस्य यत्‌ ॥ १६१ ॥
ख्यातिहेतुः पट्टवानं पशुनां क्रयविक्रयौ ।
इत्यादि यत्पत्तनेस्ति तत्तस्मिन्हि पुरेभवत्‌ ॥ १९६२ ॥


राज्यप्रदेन नृपते रत्नवर्धनमन्त्रिणा ।
श्रीरत्नवर्धनेशाख्यो व्यधीयत सदाशिवः ॥ १६३ ॥
चित्रं नृपाद्विपाः पूतमूर्तयः कीर्तिनिर्झरैः ।
भवन्ति व्यसनासक्तिपांसुस्नानमलीमसाः ॥ १६४ ॥
अथ कमेण नृपतिर्लोभाभ्यासेणन भूयसा ।
आधीयमानचित्तोभूत्प्रजापीडनपण्डितः ॥ १६५ ॥
आरब्धैर्व्यसनैर्भूम्ना क्षीणकोशः क्षणे क्षणे ।
देवादीनां स सर्वस्वं जहारायासयुक्तिभिः॥ १६६ ॥
कर्मस्थाने पुरगृहग्रामादिधनहारिणा ।
तेनाट्टपतिभागाख्यगृहकृत्याभिधे कृते॥ १६७ ॥
धूपचन्दनतैलादिविक्रयोत्थं समाददे ।
द्रविणं देववेश्मभ्यः क्रयमूल्यकलाछलान् ॥ १६८ ॥
प्रत्यवेक्षां मुखे दत्वा विभक्तैरधिकारिभिः।
चतुःषष्टिं सुरगृहान्मुमोषेतरदञ्जसा ॥ १६९ ॥
ग्रामान्देवगृहग्राह्यात्राजा प्रतिकरेण सः ।
स्वयं स्वीकृत्य चोत्पत्तिं क्ष्मां कार्षक इव व्यधात्‌ ॥ १७० ॥
तुलां कृत्वा त्रिभागोनां बर्षदेयां स पर्षदे ।
भुक्तिकम्बलमूल्यादिदम्भादभ्यधिकं ददौ ॥ १७१ ॥
दिगन्तरस्थो ग्रामीणानूढभाराननागताम् ।
तद्देशार्धैर्भारमूल्यं वर्षमेकमदण्डयत्‌ ॥ १७२ ॥
वर्षेपरस्मिन्निखिलान्भारमूल्यं निरागसः ।
तयेव संख्यया ग्राम्यान्प्रतिग्राममदण्डयत् ॥ १७३ ॥
इत्येषा गुढभारोढिः प्रथमं तेन पातिता ।
दारिद्य्रदूती ग्रामाणां या त्रयोदराधा स्थिता ॥ १७७ ॥

स्कन्धकग्रामकायस्यमासवृत्त्यादिसंग्रहै ।
अन्यैश्च विविधायासैर्व्यधाद्ग्रामान्स निर्धनान्‌ ॥ १ ॥
तुलापहारोपचयग्रामदण्डादिसंग्रहैः ।
इत्येष तेन संवाहो गृहकृत्ये प्रवर्तितः ॥ १७६ ॥
व्यधत्त पञ्च दिबिरान्स तस्मिन्भिन्नकर्मणि।
षष्ठं तथा गञ्जवरं शकचं लवटाभिधम्‌ ॥ १७७ ॥
आत्मनो निरयं मूढः सोङ्गीकृत्येत्युपक्रियाम्‌ ।
भाविनामकरोद्राज्ञां पापी यद्वा नियोगिनाम्‌ ॥ १७८ ॥
निमित्तं मण्डलेमुष्मिन्सविद्यानामनादरे ।
राज्ञां प्रतापहानौ च नान्यः शंकरवर्मणः ॥ १७९ ॥
मुख्येन गुणिनां राज्ञा धनहान्या प्रथापहाः ।
मूर्खेण येन कायस्था दास्याः पुत्राः प्रवर्तिताः ॥ १८० ॥
तथा कायस्थभोज्या भूर्जाता तत्प्रत्यवेक्षया ।
यथा संजायतेवर्णे हरणादिव भूभुजाम्‌ ॥ १८९ ॥
तस्मिन्धोरे प्रजादुःखे कृपार्देः पृथिवीपतिम्‌ ।
पुत्रो गोपालवर्माख्यः कदाचिदिदमब्रवीत् ॥ १८२ ॥
प्रदातुस्तात भवतः पूर्वे न्यासीकृतः स्थितः ।
वरो यः सत्यसंधस्य सोधुना प्रार्थ्यते मया ॥ १८२ ॥
कायस्थप्रेरणादेतैर्दैवेनाद्य प्रवर्तितैः ।
आयासैः श्वासशेषैव प्राणवृत्तिः शरीरिणाम् ॥ १८४ ॥
न च नामास्ति तातस्य काचिल्लोकद्वयोचिता ।
मनागपि हितप्राप्तिरेतया जनपीडया ॥ १८५ ॥
अदृष्टविषयां वार्तां गहनां विवृणोति कः ।
दष्टेप्यनिस्टादन्यन्न कर्मणानेन दृश्यते ॥ १८६ ॥

एकतो व्याधिदुर्भिक्षप्रमुखा विपदोखिलाः ।
प्रजानामेकतस्त्वेका लुब्धता वसुधापतेः ॥ १८७ ॥
भूभुजोभ्यस्तलोभस्य श्रीः केश्चिन्नाभिनन्द्यते ।
अकालकुसुमस्येव फलसंभावनोज्झिता ॥ १८८ ॥
दानं च सूनृता सूक्तिर्विश्वसंवननं प्रभोः ।
लोभः पूर्वे तयोरेव विनाशाय महोद्यमः ॥ १८९ ॥
प्रतापमायतिं शोभां हेमन्ताहस्य वारिदः।
स्मृतिशेषां करोत्येव लोभश्च पृथिवीभुजाम्‌ ॥ १९० ॥
दायादा व्ययभीरुतापरिहृतारब्धेर्भवन्त्युन्नता ।
भृत्याः प्रत्युपकारकातरमतेः कुर्युर्न केपि प्रियम्‌ ।
राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा ।
भूभर्तुः क्रियते द्विषेव रभसाल्लोभेन किं नाप्रियम्‌ ॥ १९१ ॥
राजसंवाहनामायं नवायासो जनासुहृत्‌ ।
तदेष लोभप्रभवः प्रजानाथ निवार्यताम्‌ ॥ १९२ ॥
श्रुत्वेति राजपुत्रस्य सोजन्येनोज्ज्वलं वचः ।
स्मितधौताधरो राजा शनैर्वचनमब्रवीत् ॥ १९३ ॥
तवाकृत्यविसंवादि वचः सौजन्यपेशलम्‌ ।
स्मारयत्यद्य मामेतच्चितवृत्तिं पुरातनीम्‌ ॥ १९४ ॥
कुमारभावे पूर्वं मे तवेवार्द्रान्तरात्मनः ।
प्रजावत्सलता वत्स पर्याप्ता पर्यवर्धत ॥ १९५ ॥
सोहं धर्मे महद्धर्मे शीति दत्त्वोच्छमंशुकम् ।
पदातिरपपादत्रः पित्रा संचारितोभवम्‌ ॥ १९६ ॥
मृगव्यादौ हयैः सार्धमटन्तं कण्टकक्षतम् ।
अन्तर्बाष्पं मां विलोक्य तमसूयिषुरग्रगाः ॥ १९७ ॥


स तानुवाच सामान्यो भूत्वाहं राज्यमाप्तवान्‌ ।
काले काले सेवकानां जाने सेवापरिश्रमम् ॥ १९८ ॥
ईदृग्दुःखमयं भुक्त्वा ज्ञास्यत्यन्यव्यथां ध्रुवम्‌ ।
प्राप्तैश्वर्यो भवेन्मूढो गर्भेश्चरतयान्यथा ॥ १९९ ॥
उपायैरीदृरौर्योहं कृतः पित्रा सुशिक्षितः ।
तेनापि प्राप्तराज्येन मयैवं पीडिताः प्रजाः ॥ २०० ॥
गर्भवासव्यथां जातः शरीरी विस्मरेद्यथा ।
प्राप्तराज्यस्तथा राजा नियतं पूर्वचिन्तितम्‌ ॥ २०१ ॥
त्वयैव तस्मादेकोद्य वरो मह्यं प्रदीयताम्‌ ।
प्राप्तराज्यः प्रजापीडां मा कार्षीस्त्वमतोधिकाम्‌ ॥ २०२॥
सासूयमिति तेनोक्तः कृतान्योन्यस्मितैर्विटैः ।
राजात्पैर्वीक्षितश्चासीत्कुमारो ह्रीनताननः ॥ २०३ ॥
त्यागभीरुतया तस्मिन्गुणिसङ्गपराङ्मुखे।
आसेवन्तावरावृत्तीः कवयो भल्लटादयः ॥ २०४ ॥
निर्वेतनाः सुकवयो भारिको लवटस्त्वभूत् ।
प्रसादात्तस्य दीन्नारसहस्रद्वयवेतनः ॥ २०५ ॥
कल्पपालकुले जन्म तत्तेनैव प्रमाणितम्‌ 1
क्षीबोचितापभ्रंशोक्तेर्दैवी वाग्यस्य नाभवत्‌ ॥ २०६ ॥
वेष्टितश्मश्रुरुष्णीषो घ्राणस्याग्रे प्रदेशिनी ।
ध्यानैकाग्रा दृगित्यासीत्युस्रराजस्य मन्त्रिणः ॥ २०७ ॥
योयमार्योचितो वेषो दुर्नयासेविनः प्रभोः ।
छन्दानुवृत्त्या स प्राप नटस्येव विडम्बनाम्‌ ॥ २०८ ॥
                            युग्मम्‌ ॥
सोनुगैः सह निर्द्रोहं जघान द्रोहराङ्कया ।
शूरं दार्वाभिसारेशं शर्वर्यो नरवाहनम्‌ ॥ २०९ ॥

प्रजाभिशापे पतिते नृपस्योन्मार्गवर्त्तिनः।
त्रिंशद्विंशाः सुतास्तस्य व्यपद्यन्तामयं विना ॥ २१० ॥
वंशः श्रीर्जीवितं दारा नामापि पृथिर्वाभुजाम्‌।
क्षणादेव क्षयं याति प्रजाविप्रियकारिणाम्‌ ॥ २११ ॥
इत्युक्तं वक्ष्यते चाग्रे व्यक्तमेतत्तु चिन्त्यताम् ।
प्रणष्टं तस्य नामापि यथा क्रुरेण कर्मणा ॥ २१२ ॥
नाम्ना पत्तनमित्येव प्रख्यातं स्वपुरं कृतम्‌ ।
कस्यान्यस्याभिधाध्वंसि यथा शंकरवर्मणः ॥ २१३ ॥
स्वस्त्रीयः सुखराजस्य तेन द्वारधिपः कृतः ।
वीरानकाभिधे स्थाने प्रमादादासदद्धधम्‌ ॥ २१४ ॥
तत्कोपात्स स्वयं राजा दत्तयात्रो मदोर्जितः ।
वीरानकं समुन्मूल्य प्रविवेशोत्तरापथम्‌ ॥ २१५ ॥
सिन्धुकूलाश्रयान्देशाञ्जित्वा भूरीन्भयातुरैः ।
कृतानतिर्महीपालैः प्रत्यावृत्तोभवत्ततः ॥ २१६ ॥
उरशां विरातस्तस्य वास्तव्यैरौरशौः समम्‌ ।
निकेतहेतोः सैन्यानामकस्मादुदभूत्कलिः ॥ २१७ ॥
गिरिशृङ्गाधिरूढेन श्वपाकेन निपातितः ।
वेगवाही शरस्तस्य प्रमादादविशद्गलम् ॥ २१८ ॥
मुमूर्षुराप्तान्कटकं संरक्ष्य नयतेति सः ।
उक्त्वा कर्णीरथारूढः स्थानात्तस्माद्विनिर्ययौ ॥ २१९. ॥
हीनदर्शनसामर्थ्यः परिज्ञाय शनैर्गिरा ।
क्रन्दन्त्या वपुरालिङ्ग्य स्थितायाः क्षामभाषितः ॥ २२० ॥
पुत्रं गोपालवर्माख्यं न्यासीकृत्य च रक्षितुम्‌ ।
रिशुदेश्यं महादेव्याः सुगन्धाया अबान्धवम्‌ ॥ २२१ ॥


फाल्गुने कृष्णसप्तम्यां वत्सरे सप्तसप्ततौ ।
उत्खायमानविशिखो मार्ग एव व्यपद्यत ॥ २२२ ॥
                                 तिलकम्‌ ॥
सुखराजादयः सैन्यं रक्षन्तः परभूमिषु ।
वृत्तान्तैर्गोपयन्तस्तं यान्त एवाभवन्पथि ॥ २२३ ॥
तं यत्रसूत्रैस्ते मू्र्ध्नो नम्रतोन्नम्रतावहैः ।
प्रतिप्रणामं प्राप्तानां सामन्तानामकारयन्‌ ॥ २२४ ॥
षड्भिर्दिनैजे स्थाने प्राप्ते बोल्यासकाभिधे ।
चक्रिरे गतसंत्रासास्ततस्तस्यान्तसक्रियाम्‌ ॥ २२५ ॥
तिस्रः सुरेन्द्रवत्याद्या राज्ञ्यो राजानमन्वयुः ।
वालविभुः कृतज्ञश्च जयसिंहाह्वयः कृती ॥ २२६ ॥
द्धौ लाडो वज्रासारश्च तं भृत्यावनुजग्मतुः ।
इति षड्भिश्चितारूढौः सहसाक्रियताग्निसात् ॥ २२७ ॥
ततो जुगोप गोपालवर्मो धार्भिकतोज्ज्वलः ।
सुगन्धया पाल्यमानः सत्यसंघो वसुंधराम्‌ ॥ २२८ ॥
मध्ये लालितकादीनां दुर्वृत्तानां वसन्नपि ।
अनतिक्रान्तवाल्योपि दुःसंस्कारान्न सोग्रहीत्‌ ॥ २२९ ॥
भूपालजननी भोगैर्वैधव्येधिकमुन्मदा ।
सा प्रभाकरदेवाख्यमचीकमत मन्त्रिणम् ॥ २३० ॥
तया निर्भरसंभोगप्रीतया स व्यधीयत ।
सोभाग्यपदशृङ्गारमौलिचक्रत्रयाङ्कितः ॥ २३१ ॥
कोशाध्यक्षेण रागिण्यास्तस्या लुण्ठितसंपदा ।
उदभाण्डपुरे तेन शाहिराज्यं व्यधीयत ॥ २३२ ॥
आज्ञातिक्रमिणः शाहे: कृत्वा कमलुकाभिधाम्‌ ।
तोमराणाय सख प्रादाद्राज्यं लल्लियसूनवे ॥ २३३ ॥

१ मह सोक्रियत इतिस्यात्‌ ।
      २३


प्रत्यावृत्तोथ नगरं विवेश विजयोर्जितः।
शौर्यशृङ्गारवसतौ साभिमानः स्वविग्रहे ॥ २३४ ॥
स राजजननीजारः साहंकारो जयार्जनात्‌ ।
मानक्षतिमधिक्षेपैर्वीराणां व्यधितान्वहम्‌ ॥ २३५ ॥
क्षुद्रेण कामिना वेश्यावेश्मनीव नृपास्पदे ।
तेनावृते संप्रवेशो नाभूदन्यस्य कस्यचित्‌ ॥ २३६ ॥
शनैर्विज्ञातवार्तस्य धनमानापहारकृत्‌ ।
सोभूदक्षिगतोत्यर्थे राज्ञो गोपालवर्मणः ॥ २३७ ॥
विद्यते यन्न गञ्जेस्मिंस्तत्सर्वे शाहिविग्रहे ।
गतमित्यव्रवीद्भूपं स कोशगणनोद्यतम्‌ ॥ २३८ ॥
अथ गञ्जाधिपो राजभीतः खार्खोदवेदिनम्‌ ।
रामदेवाह्वयं बन्धुमभिचारमकारयत्‌ ॥ २३९ ॥ #
तयाभिचारक्रियया भुक्तभूर्वत्सरद्वयम्‌ ।
गोपालवर्मनृपतिर्जातदोहो व्यपद्यत ॥ २४० ॥
व्यक्तीभूतकुकर्मा स राजदण्डभयाकुलः ।
रामदेवोवधीत्पापः स्वयमेव स्वविग्रहम्‌ ॥ २४१ ॥
रथ्यागृहीतो गोपालवर्मभ्राताथ संकटः ।
बभूव प्राप्तराज्यः स दशभिर्दिवसैर्व्यसुः ॥ २४२ ॥
अथ वंराक्षये वृत्ते राज्ञः शंकरवर्मणः।
प्रजाप्रार्थनया राज्यं सुगन्धा विदधे स्वयम्‌ ॥ २४३ ॥
गोपालपुरगोपालमठगोपालकेशवान्‌ ।
सा पुरं च स्वनामाङ्कं विदधे धर्मवृद्धये ॥ २४४ ॥
गोपालोवर्मणो जाया नन्दानिन्द्यान्वयोद्भवा ।
शिशुरप्यभवन्नन्दामठकेशवधारिणी ॥ २४५ ॥

पञ्चमस्तरङ्गः ।

अन्तर्वत्याः क्षणे तस्मिन्पढ्या गोपालवर्मणः ।
जयलक्ष्म्या बबन्धास्थां श्वश्रूः संतानकाङ्क्षिणी ॥ २४६ ॥
तस्यां विपन्नापत्यायां प्रसवान्तेतिदुःखिता ।
साभूदन्वयिने राज्यं कस्मैचिहातुमुद्यता ॥ २४७ ॥
तस्मिन्काले महीपालनिग्रहानुग्रहक्षमम् ।
१७२
तत्र तत्रिपदातीनां कृतसंहत्यभूत्कुलम् ॥ २४८ ॥
ततः समाश्रितैकाङ्गा स्वयं संवत्सरद्वयम् |
सुगन्धा विदधे राज्यं सा मित्रत्वेन तत्रिणाम् ॥ २४९ ॥
योग्याय दातुं साम्राज्यं कस्मैचित्सा किलैकदा ।
मत्राय मत्रिसामन्तांस्तत्र्येकाङ्गानढौकयत ॥ २५० ॥
अवन्तिवर्मवंशान्ते नतारं शूरवर्मणः ।
गग्गायाः स्वकुटुम्बिन्याः संजातं सुखवर्मणा ॥ २५१ ॥
अनुव्रतो मे संबन्धिस्नेहादेवं भवेदिति ।
राज्ये निर्जितवर्माख्यं कर्तुं तस्या मनोभवत् ॥ २५२ ॥
युग्मम् ॥
तया तदुक्तं विषयव्यसनित्वेन जागरात् ।
रात्रौ दिवाशयतया योप्यनुत्थानदूषितः ॥ २५३ ॥
नाम पङ्गुरिति प्राप राज्ये का तस्य योग्यतां ।
इत्युदीर्याभवन्नन्तो यावत्केचन मत्रिणः ॥ २५४ ॥
संहतैर्भेदनिर्यातैस्तावन्निजितवर्मजः ।
दशवर्षः कृतो राजा पार्थस्तत्रिपदातिभिः ॥ २५५ ॥

तिलकम् || १८० राजतरङ्गिणी

ते गञ्जाधिपवाक्यानां सुगन्धोत्पाटनात्कृतम् ।
प्रायश्चित्तममन्यन्त मानक्षतिविधायिनाम् ॥ २५६ ॥
सा राजधान्याः साम्राज्यपरिभ्रष्टा विनिर्ययौ ।
हृताधिकारा हारस्य पतितैर्वाष्पबिन्दुभिः ॥ २५७ ॥
शरणं प्रत्यभाद्भुत्यो यो यस्तस्याः क्रमागतः ।
तं तमैक्षिष्ट निर्यान्ती विपक्षैः सह संगतम् ॥ २५८ ॥
वर्ष एकोननवते संभूयैकाङ्गसैनिकाः ।
गत्वा सुगन्धामानिन्युः पुनर्हष्कपुरस्थिताम् ॥ २५९ ॥
तामापतन्तीमाकर्ण्य पार्थानुग्राहका मदात् ।
चैत्रान्ते तत्रिणः सर्वे निर्ययुः समरोन्मुखाः ॥ २६० ॥
ते जित्वा नवते वर्षे वैशाखे भिन्नसंहतीन् ।
एकाङ्गान्व्यूढसंघातान्वबन्धुस्तां पलायिताम् ॥ २६१ ॥
निष्पालकविहारान्तस्तैर्वद्धा सा व्यपद्यत ।
अनित्यपतनोच्छ्राया विचित्रा भाग्यवृत्तयः ॥ २६२ ॥
अस्मिन्धनजनक्षैण्यनिमित्तं मण्डलोत्तमे ।
सर्वतोदिक्कमुत्तस्थावधानर्थपरम्परा ॥ २६३ ॥
जनकः पालको भूत्वा पङ्गुर्बालस्य भूपतेः ।
सामात्योपीडयल्लोकमुत्कोचग्रहतत्परः ॥ २६४ ॥
भूभुजो ग्रामकायस्था इवान्योन्यविपाटनम् ।
दत्ताधिकाधिकोत्कोचा विदधुस्तन्त्रिसेवया ॥ २६५ ॥
यंद्राज्यैः कन्यकुब्जाद्या विलब्धास्तत्र मण्डले ।
तन्त्रिणां हुण्डिकादानानभुजां जीविकाभवत् ॥ २६६ ॥
विष्णु पुराणाधिष्ठाने मेरुवर्धनमत्रिणा |
श्रीमेरुवर्धनस्वाभिनामा येन व्यधीयत ॥ २६७ ॥

१ यद्राजैः इत्युचितम् ।

Y":

तवात्मजाः क्षणे तस्मिन्गहनद्धोदचाक्रिकाः ।
चकुर्निगूढराज्येच्छा: प्रजायासैर्धनार्जनम् ॥ २६८ ॥
                       युग्मम्‌ ॥
सार्धे सुगन्धादित्येन गूढं शंकरवर्धनः ।
तेषां ज्येष्टो बद्धसख्यो मुमोष नृपमन्दिरम् ॥ २६९ ॥
क्षीणप्रजे क्षणे तस्मिन्क्षारपात इव क्षते ।
उदीपः प्लाविताशेषशरच्छालिरजृम्भत ॥ २७० ॥
स्रार्ये सहस्रकेयायां दुर्लभे भोजनेभवत्‌ ।
वर्ष त्रिनवते घोरे दुर्भिक्षेण जनक्षयः ॥ २७१ ॥
शवैश्चिरप्रविष्टाम्वुषसंसेकोच्छूनविग्रहै: ।
वितस्ता सर्वतश्छन्ना दुर्लक्ष्यसलिलाभवत्॥ २७२ ॥
विश्वतोस्थिमये जाते नैबिड्यात्क्षितिमण्डले ।
सवेभूतभयादायि श्मशानैक्यमजायत ॥ २७६३ ॥
महार्घधान्यसंभारविक्रयप्राप्तसंपदः ।
मन्त्रिणः क्ष्मापतेः प्रापुस्तत्रिणश्च धनाढ्यताम्‌ ॥ २७४ ॥
आदेयः क्ष्माभुजः सोभून्मन्री यस्तादृशीः प्रजाः ।
विक्रीय वाहयन्नासीत्तन्न्रिणां हुण्डिकाधनम्‌ ॥ २७५ ॥
अटव्यां वृष्टिसंपाते वातवर्षैरुपद्रुतम् ।
बहिः सर्व जनं पश्यन्कश्चित्प्राप्तोष्णमन्दिरः ॥ २७६ ॥
यथा तथा जनं दुःस्थं वीक्ष्य कापुरुषश्चिरम् ।
राजधानीस्थितः पङ्गुः स्वसुखं बह्वमन्यत ॥ २७७ ॥
                            युग्मम्‌ ॥
तुञ्जीनचन्द्रापीडादिप्रजापालप्रियाः प्रजाः।
एवं तस्मिन्क्षणे नीताः संक्षयं राजराक्षसैः ।॥। २७८ ॥

प्रापुश्चिरमवस्थानं पार्थिवा न तदा क्वचित् ।
धारासंपातसंभूता वुद्धुदा इव दुर्दिने ॥ २७९ ॥
पार्थः पितरमुत्पाट्य कदाचित्प्राभवत्स्वयम्‌ ।
कदाचित्स तमुत्पाट्य तन्निचक्रिकयाप्यभूत् ॥ २८० ॥
अप्रीणयत्पङ्गुवधूवडवामण्डलं युवा ।
सुगन्धादित्यबीजाश्बो व्यवायविधिसेवया ॥ २८१ ॥
राज्ञ्या वप्पटदेव्याः स निर्दयैः सुरतोत्सवैः ।
खण्डयामास कण्डूतिं साप्यस्यार्थेषणां धनैः ॥ २८२ ॥
भगिनीभगसौभाग्यवद्धराज्याः स्वयं ददुः ।
यां पङ्गवे मनोज्ञाङ्गीं मेरुवर्धनसूनवः ॥ २८३ ॥
सुगन्धादित्य्मौत्सुक्यात्सापि देवी मृगावती ।
स्वयं संवुभुजेभ्यर्थ्य कान्ता कामितकामिनी ॥ २८४ ॥ `
पर्यायेणाश्नवद्भृत्यः स तयोर्भोगवृद्धये । ।
दरिद्रयोषितोरेकं भुक्तिपात्रमिवान्वहम् ॥ २८५ ॥
पुत्रयो राज्यलाभाय स्पर्धायाभ्यां स्वमन्त्रिणे ।
दत्ता निधुवनश्रद्धा धनदानैः सदक्षिणा ॥ २८६ ॥
अथ पार्थं समुत्पाटय तत्पिता पङगुराश्रितः।
तत्रिभिः सप्ननवते वर्षे पौषेभिषेचितः ॥ २८७ ॥
माघेष्टानवते वर्षे सोभिषिच्य शिशुं सुतम्‌ ।
चक्रवर्माभिधं राज्ये क्षीणपुण्यो व्यपद्यत ॥ २८८ ॥ ५.
 पैतृकं वान्छतो रज्यं पार्थस्यानुचरा व्यधुः ।
एकाङ्कैः सह संग्रामं तत्र तत्रिपदातयः ॥ २८९ ॥ ५.
मातुर्वप्पटदेव्याःस कांचित्कालं शिशुर्नृपः|
मातामह्याःक्षिल्लिकायाः पाल्यस्त्वासीत्सामा दश॥ २९० ॥

बाल्यादव्यक्तदौःशील्ये तसिस्तत्पाल्न्ं तयोः ।
निर्दोषमासीदण्डस्थफणिलालनसंनिभम् ॥ २९२१ ॥
जातः पङ्गोर्मृगावत्यां नवमेब्देथ तन्त्रिभिः।
चकवर्माणमुत्पाटय शूरवर्मा नृपः कृतः ॥ २९२ ॥
निःस्न्नेहा मातुलामात्याः प्रययुः स्वाथैतत्पराः ।
अदत्त्वा तन्रिणां देयं तस्योत्पाटनहेतुताम् ॥ २९३ ॥
अदुर्वृत्तोपि स क्षमाभृद्विना भूरिधनापर्णम्‌ ।
गुणवानिव वेश्यानां तन्रिणां नाभवत्प्रियः ॥ २९४ ॥
वर्षे गते तमुत्पात्य दृष्टोत्पत्तितया नृपम्‌ ।
वह्मर्थदं पुनः पार्थे व्यघुस्तत्रिपदातयः ॥ २९५ ॥
अभूत्साम्बवती वेश्या साम्बेश्वरविधायिनी ।
पार्थप्रिया तन्त्रिचक्रसंग्रहे ज्ञातचकिका ॥ २९दे ॥
कालापेक्षी चक्रवमा ततोप्यैच्छद्ध्नं बहु ।
एकाशाब्दस्याषाढे कृतो भूयोपि तन्त्रिभिः ॥ २९७ ॥
पाथोदीन्यैः समुल्पारटय भुक्तं चकिक्या पुरा ।
तैस्तैः स्थानैश्च ये तेभ्यो जीवनाद्युपलेभिरे ॥ २९८ ॥
पिता भ्राता च यैरस्य राज्यादुत्पारितोभवत्‌ ।
संबन्धिभ्योपि यैर्द्रुग्धं कन्यां दत्वेतरेतरम्‌ ॥ २९९. ॥
अकरोदृष्टदोषाणां तेषामेव स नष्टधीः ।
मेरुवश्चैनपुत्रांणामधिकारसमर्पणम् ॥ ३२० ॥

                         तिलकम्‌ ॥
कृतोक्षपटलाधीशस्तेन शंकरवर्धनः ।
गृहकृत्येप्यसत्कृत्यो दाम्भिकः शंभुवर्धनः ॥ ३०१ ॥
पौषे तस्यैव वर्षस्य धनाभावात्स तन्त्रिणाम् ।
अदत्तहुण्डिकादेयः पलायिष्ट भयाकुलः ॥ २०२ ॥

स्थिते मडवराज्यान्तस्तस्मिञ्शंकरवर्धनः।
राज्यार्थो तन्त्रिणां दूतं प्राहिणोच्छंभुवर्धनम् ॥ ३०२ ॥
आवर्जितैः स निखिलैरधिकोत्कोचर्चया ।
वश्चयित्वाग्रजं राज्ये तैः स्वमेवाभ्यषेचयत्‌ ॥ २०४७ ॥ ५
तीर्थस्थितः स्वकुलजांस्तिमिरत्ति भुङ्केः
मौनी बकस्तिमिमुपेत्य वनान्तवासी ।
व्याधो निहन्ति तु बकं प्रभवन्ति ते ते
पात्राण्युपर्युपरि वञ्चनचुञ्चुतायाः ॥ २०५ ॥
भ्रष्टश्रीश्चकवर्माथ निशि श्रिढक्कवासिनः
एकदा डामराग्र्यस्य संग्रामस्याविशद्रुहम् ॥ ३०६ ॥
ज्ञात्वा कान्तिविरोषेण राजानं स कृताञ्जिलिः।
प्रण्म्य ग्राहयामास संभ्रमान्निजमासनम्‌ ॥ ३०७ ॥
राज्यभ्रंरादिवुत्तान्तमुक्त्वा साहायकार्थिनम् ।
तं विपत्येशलं प्रह्नो विचिन्त्योवाच डामरः ॥ ३०८ ॥
तन्त्रिणां वा तृणानां वा राजन्का गणना रणे ।
व्वत्सेवनार्थं सामर्थियं कस्मिन्न मम कर्मणि ॥ ३०९. ॥
प्राप्तोत्साहः पुनर्नूनमस्मानेव् हनिष्यसि ।
विस्मरन्त्युपकारं हि कतकार्या महीभुजः ॥ २१० ॥
ऊर्ध्वारोहे य आलम्वहेतुर्भूभृच्छित्ति तम्‌। ।
कुठारिकस्तरुस्कन्धमिवाधोगमनोन्मुखः ॥ ३९१९ ॥
धीधैर्यादिप्रकर्षे येनोपक्रियते नृपः।
प्रात्पोदयः स तेनैव् शङ्क्यं वेत्त्युपकारिणम्॥ ३१२ ॥ `
अस्मिन्स्थिते विपदभूदिति संचिन्त्य वर्ज्यते ।
मूढैः परवृढैरापत्सेव्को मङ्गलेच्छुभिः ॥ २९२३ ॥


संपद्यापत्सहायस्य विस्मृतोपक्रिया नृपाः।
मध्ये प्रमादस्खलितमुत्पन्नं हृदि कुर्वते ॥ २३१४ ॥
आमयार्तिरिपुत्रासक्षुदाद दृष्टवैकृतान् ॥ २१५ ॥
लब्धोदया ह्वीभयेन क्षमापा ध्रन्त्यनुयायिनः
राज्ञः सतोपि नाश्वासो यस्येभस्येव कर्णयोः ।
अविशुद्धप्रकृतयो ध्वनन्ति मधुपाः इव ॥ ३१६ ॥
दिवसे संनिधानेन पिशुनप्रेरणा प्रभोः ।
ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्यते ॥ ३१७ ॥
राजत्रजन्युपाध्यायो देवी यच्छिक्षयेद्रहः ।
त्र प्रजागरः कलुंमसर्वजञेनै राक्यते ॥ २१८ ॥
कथंचिदह्व् हृदये कुशलैर्विनिवेशिता ।
शिक्षा गौरखरेणेव राज्ञा विस्मार्यते निशि ॥ ३१९ ॥
न के लोभं समुत्पाद्य जिह्वया स्त्रिग्धदीर्धया ।
पिपीलका इव ग्रस्ताः क्ष्मापालै शल्यकैरिव ॥ ३२० ॥
जानाति हन्तुं हन्तव्यमासन्नं न तु दूरगम्‌ ।
एको बकः परः सत्यं द्रोहवृत्तिर्महीपतिः ॥ ३२१ ॥
न नाम कण्टकाकीर्णः कौटिल्यं ल्क्ष्यतां नयेत ।
कालापेक्षी क्षितिपतिः शरीरमिव जाहकः ॥ ३२२ ॥
नमन्नपि हरिर्हन्यादाश्लिष्यन्नपि पन्नगः ।
विहसन्नपि वेतालः स्तुवन्नपि महीपतिः ॥ ३२३ ॥
अद्रोहवृत्त्या तस्मात्त्वं द्रक्ष्यस्यस्मान्सदा यदि ।
ससैन्यस्ते तदेषोहं प्रातरेव पुरःसरः ॥ २२४ ॥
तदाकर्ण्याब्रवीद्राजा लज्जास्मिताधरः।
स्वात्मेव यूयं संरक्ष्या मम पूर्वोपकारिणः ॥ ३२५ ॥
२४

राजतरत्रिणी

ततो निक्षिप्य चरणं रक्ताक्ते मेषचर्मणि ।
कोशं चक्रतुरन्योन्यं सखगौ नृपडामरौ ॥ ३२६ ॥
अथ संघटितासंख्यचण्डडामरमण्डलः |
चक्रवर्माकरोद्यात्रां प्रत्यूषे नगरोन्मुखः ॥ ३२७ ॥
तस्मिन्क्षणे पुरस्कृत्य योद्धुं शंकरवर्धनम् ।
विनिर्ययुः सिताष्टम्यां चैत्रे तत्रिपदातयः ॥ ३२८ ॥
कालानुवृत्तिप्रच्छन्नं तेषां संभावनोज्झितम् ।
स तत्वरे पुरस्कर्तुं चक्रवर्मा स्वविक्रमम् ॥ ३२९ ॥
अथ प्रवृत्ते संग्रामे घोरे पद्मपुराद्वहिः ।
जघान प्रेरितहयः पूर्व शंकरवर्धनम् ॥ ३३० ॥
हते सेनाधिपे तत्र शतधा तत्रिवाहिनी ।
प्रययौ पवनाघातप्रेरिता नौरिवार्णवे ॥ ३३१ ॥
पृष्ठानुसरणोद्युक्तो नृपस्तेषामपाहरत् ।
गतिं तुरगवेगेण शिरःश्रेणिं तथासिना || ३३२ ॥
भ्रमतः समरे बभ्रुवरपट्टाञ्चलच्छटाः ।
चक्रवर्ममृगेन्द्रस्य सटापटलविभ्रमम् ॥ ३३३ ॥
किमन्यत्पञ्चषाण्यासन्सहस्राणि रणाङ्गने ।
पतितानि क्षणादेव हतानां तत्र तत्रिणाम् ॥ ३३४ ॥
तत्रिणो रणसंरम्भपरिश्रान्ताः क्षमातले ।
गृध्रपक्षकृतच्छाये शायिताश्चक्रवर्मणा || ३३५ ॥
विशुद्धवंश्यैर्गुणिभिनिहतः संश्रितैः समम् ।
अभूषयद्वीरशय्यां शूरः शंकरवर्धनः || ३३६ ॥
उदयं संहता एव संहता एव च क्षयम् ।
प्रयान्तः स्पृहणीयत्वं तत्रिणः कस्य नागमन् ॥ ३३७ ॥

पञ्चमस्तरङ्गः ।

माननीयानधृष्यांश्च महावंश्यान्महीपतीन् ।
अहीनिव खिलीकृत्य भिक्षयन्तः क्षणे क्षणे ॥ ३३८ ।।
अनयन्क्रीडया व्रीडां माद्यन्तो जीविकाकृते ।
प्रागाहितुण्डिकाः क्रूरा इव ये गर्ह्यवृत्तयः ॥ ३३९ ॥
ते तत्रिणः क्षणाद्दग्धा गूढवैरविषाग्निना ।
विमाननाविविग्नेन चक्रवर्ममहाहिना ॥ ३४० ॥
तिलकम् ॥

अथ द्वितीये दिवसे भग्नानामपि तत्रिणाम् ।
वीरः संघटनां यावदकरोच्छंभुवर्धनः ॥ ३४१ ॥
तावन्मिलितसामन्तसचिवैकाङ्गलालितः
सैन्यैर्नानापथायातैर्नदद्भिर्व्याप्तदिक्पथः ॥ ३४२ ॥
वल्गन्मध्येश्ववाराणां नृत्यतेवाग्यवाजिना।
वल्गाङ्केनोद्वहल्लम्बं शिरस्त्रं वामपाणिना ॥ ३४३ ॥
सस्वेदेतरहस्ताग्रवेष्टनोल्लासनस्पृशः ।
खड्गस्य बिम्बितार्कस्य भाभिद्यतितकुण्डलः ॥ ३४४ ॥
कवचोत्सेधसंरब्धकण्ठायासेन ताम्यता |
बद्धभ्रुकुटिबन्धेन वदनेन भयावहः ॥ ३४५ ॥
तर्जयन्कृतहुंकाराल्लुण्ठकालूँण्ठितापणान् ।
शिरोक्षिसंशया त्रस्तवास्तव्यकृतसान्त्वनः ॥ ३४६ ॥
भेरीरवैः श्रुतिं भिन्दन्पौराशीघषरोधिभिः ।
संग्रामजयशोभाकश्चक्रवर्माविशत्पुरम् ॥ ३४७ ॥
कुलकम् ॥
तस्मिन्सिहासनं प्राज्यमाक्रामति जयोजिते ।
बडा कुतश्चिदानिन्ये भूभटः शंभुवर्धनम् ॥ ३४८ ॥

१८८

राजतरङ्गिणी

राशः पुरस्तात्तं शस्त्रपात भीमीलितेक्षणम् ।
भक्तिं प्रदर्शयन्पापञ्चण्डाल इव सोवधीत् ॥ ३४९ ॥
उज्झतां धर्ममर्यादां भृत्यानां जनकोपमान् ।
हन्तुं नरेन्द्रान्द्रोहेण प्रारम्भः शंभुवर्धनात् ॥ ३५० ॥
प्राप्य निष्कण्टकं राज्यं चक्रवर्मनृपः क्रमात् ।
अजायत धृतोत्सेको नृशंसविषमक्रियः ॥ ३५१ ॥
स्वविक्रमकथास्तोत्ररोमन्थप्रियताहृतः ।
सोभवद्विटवन्द्यादिचाटुकारविधेयधीः ॥ ३५२ ॥
आत्मानं दैवतमिव स्तुतिमोहितचेतसः ।
जानतः प्राभवंस्तस्य विवेकविगुणाः क्रियाः ॥ ३५३ ।।
तस्मिन्प्रसङ्गे रङ्गाख्यः प्रख्यातो डोम्बगायनः ।
वैदेशिकोभवद्राज्ञा वितीर्णावसरो बहिः ॥ ३५४ ॥
प्राप्तान्सचिवसामन्तान्विन्यस्यन्तो यथाक्रमम् ।
प्रतीहारा नृपस्याग्रमनयन्त विविक्तताम् ॥ ३५५ ॥
विबभौ धवलोष्णीषा सभा दीपप्रभोज्ज्वला ।
शेषशय्येव मणिभिः कृतालोका फणोद्भवैः ॥ ३५६ ॥
कृतावरोधधम्मिल्लमालान्दोलनकेलिभिः ।
प्रदोषपवनैश्चक्रे शिशिरैर्घाणतर्पणम् ॥ ३५७ ॥
जातगीतदिदृक्षाणां गवाक्षावलयो बभुः ।
आसवामोदिभिर्वकैरवरोधमृगीदृशाम् ॥ ३५८ ।।
हारकङ्कणकेयूरपारिहार्यादिशोभिना ।
स्ववृन्देनानुयातोथ प्राविशड्रोम्बगायनः ॥ ३५९ ॥
हंसी नागलता चास्य सुते ललितलोचने ।
चक्रतुः कौतुकोड्रीवां सभां चित्रार्पितामिव ॥ ३६० ॥

पञ्चमस्तरङ्गः ।

तयोविलासवलितैश्चलितापाङ्गविभ्रमैः ।
द्वितीयपुष्पप्रकरो व्यकीर्यत सभान्तरे ॥ ३६१ ॥
गायनैर्जयजीवेति कृतकोलाहलैरभूत् ।
सदः सशब्दं कुर्वद्भिस्तत्तन्नूपगुणग्रहम् ॥ ३६२ ॥
भुक्तोत्तरोचितोदञ्चत्पञ्चमस्थानचारिणः ।
वंशै रागविशेषस्य दत्ते स्थाने ततः शनैः ॥ ३६३ ॥
अविक्रियशिरःकम्पभ्रूनेत्रभ्रमशोभितः ।
अभिन्न इव गायन्त्योर्गीतध्वनिरजृम्भत ॥ ३६४ ॥
युग्मम् ॥
अथ ताम्बूलरोमन्थत्यागनिश्चलमूर्त्तिना ।
जातं राजकुरङ्गेण प्रमोदास्पन्ददृष्टिना ॥ ३६५ ॥
गायन्त्यौ भावमालक्ष्य तस्य स्निग्धमगायताम् ।
अधिकोद्रेचिताभिख्यं विलासस्मितविभ्रमैः ॥ ३६६ ॥
राशस्तयोश्च संसक्तचित्तयोरितरेतरम् ।
दृग्व्यापारैः स्वसंवेद्यैः संलाप इव पप्रथे ॥ ३६७ ॥
नृपं हारितचित्तं तं विज्ञायैकः प्रियो विटः ।
ततः प्रसङ्गे प्रोवाच प्रीतिवृद्धिकरं वचः ॥ ३६८ ॥
देव गीतमिदं यातं संप्राप्यैते मनोरमे ।
कर्पूरपारीपतितं मैरेयमित्र हारिताम् ॥ ३६९ ॥
गायन्त्योर्मार्जितामेतां रागाद्दन्तचतुष्किकाम् ।
अनयोः प्रतिमाव्याजाचुम्बतीव निशाकरः ॥ ३७० ॥
करन्यस्तकपोलान्तमुद्गायन्त्याविमे ध्रुवम् ।
कटाक्षैः कुरुतो व्योनि वैमानिकविमोहनम् ॥ ३७१ ॥
जानत्या स्वाश्रयां चर्चामनयोरेकयावयोः ।
असूयास्मितगर्भोयं कटाक्षः पश्य पातितः ॥ ३७२ ॥

१९०

राजतरङ्गिणी

गायन्त्येकानतमुखी कर्णव्यालोलकुण्डला ।
विपरीतरतोद्रेककृतारम्भेव शोभते ॥ ३७३ ॥
सफलं तस्य तारुण्यमीदृश्यो निर्जने स्त्रियः ।
औत्सुक्याद्विरहे यस्य गायन्त्येवंविधैः स्वरैः ॥ ३७४ ॥
उपपत्तिपरित्यक्तशास्त्रानुष्ठानमोहितैः ।
एकसार्थप्रयातेभ्यः कथमेको विवर्ज्यते ॥ ३७५ ॥
नेत्रस्य रूपं श्रोत्रस्य ध्वनिं संस्पृशतो न चेत् ।
तदङ्गस्यान्यकान्ताङ्गं स्पृशतो दुष्कृतं कुतः ।। ३७६ ।।
अभिलाषाङ्कुरः सिक्त इव तैर्विटभाषितैः ।
राज्ञः स्वभावलोलस्य शतशाखत्वमाययौ ॥ ३७७ ॥
ये विस्तारितवर्णसंकररुचः संदर्य गोत्रान्तकृ-
द्वद्धावस्थितिचापलङ्घनमलं पार्श्वे धनन्त्युद्धताः ।
नीयन्ते विपथावपातपरतां लब्धोदयैस्तैः क्षणा-
त्सिहा वारिधरैरमी च रभसाद्भूपालसिंहा विटैः ॥ ३७८ ॥
वस्तु क्षणादनुपपत्त्युपपत्तियुक्तं
कृत्वा जडान्यदि विमोहयितुं समर्थाः ।
न स्युविंटा अथ कुतर्कपथस्थिताश्च
नित्योद्वसेषु निरयेषु मृगाश्चरेयुः ॥ ३७९ ॥
संतोप्य हारकेयूरकुण्डलैडर्डोम्बमण्डलम् ।
अमार्गत्यागराधेयः शुद्धान्तमगमन्नृपः ॥ ३८० ॥
कान्तोस्याः क्षितिबल्लभोयमभिधेत्युर्वीपतेरेकतो
ब्रूतेसावतिचण्डताण्डवयुतं डोम्बस्य नामान्यतः ।
मध्ये यत्किमपीति गीतरचनाकाव्यं यदेतद्विदो
यल्लक्ष्मी क्षपयन्ति तान्धिगबुधान्कीर्त्यार्थिनः पार्थिवान् ||३८१ ॥

वेश्यानुरागस्य महेन्द्रचाप-
धाम्नो हरिद्रारसरञ्जनस्य ।
उपाङ्गगीतस्य च हारिणोपि
सौन्दर्यमस्थैर्यहतप्रकर्षम्।।३८२।।
दर्शनाभ्याससंवृद्धचक्षूरागः क्षमापतिः
विना श्वपाककन्ये ते न पुनः प्राप निर्वृतिम्॥ ३८३ ॥
गायन्त्यौ शयनोपान्ते शनैर्विहितचुम्वनम्
नृपं रतिसुखाभिज्ञं तं हठात्ते प्रचक्रतुः ॥ ३८४ ॥
समागमेन नव्येन तयोर्वैयात्यशोभिना ।
चक्रे क्षपितसामर्थ्यः स लज्जोद्वहनाक्षमः ॥ ३८५ ॥
रत्यन्तसुलभोद्भेदैर्निःसृतैः स्वेदबिन्दुभिः ।
भाग्योष्मसंक्षयजडं वपुस्तस्य व्यधीयत ॥ ३८६ ॥
रागान्धेन कृता हंसी महादेवी महीभुजा ।
भेजे राजवधूमध्ये वालव्यजनवीजनम् ॥ ३८७ ॥
तस्या यैर्भुक्तमुच्छिष्टं ते यथा चक्रवर्मणः ।
नृपान्तराणामन्येषामप्यभुवन्सभासदः ॥ ३८८ ॥
मन्रिणामक्षपटलप्रख्यमुख्याधिकारदा ।
प्रवृद्धिहेतुतां प्राप डोम्बसेवनचक्रिका ॥ ३८९
मौर्ख्यात्सचिवतां केचिच्छ्वपाका न व्यधुः स्वयम्‌ ।
केचित्त्वकुर्वन्नीतिज्ञा राजकार्याणि मन्त्रिवत् ॥ ३९० ॥
मन्त्रिणस्तस्करा राज्ञीश्वपाकी श्लोकाः प्रियाः।
किं न लोकोत्तरमभूद्भूपतेश्चक्रवर्मणः।।३९१।।
ऋतुस्नातार्तवाङ्कानि श्वपाकी स्वांशुकान्यदात्।
तदाच्छादनदृप्तेच्छा मन्त्रिणः प्राविशन्सभाम्।।३९२।।

कैश्चित्क्षितिभुजा वैरमङ्गीकृत्यापि तत्क्षणम्‌ ।
यैर्नाशि श्वपचोच्छिष्टं तेभूवन्सोमपैः समाः ॥ ३९३ ॥
मण्डलेस्मिन्प्रभावोग्रा न देवा न्यवसन्ध्रुवम् ।
तद्वेश्मानि तदा नो चेच्छ्वपाकी प्राविशत्कथम्‌ ॥ २९४ ॥
तां रणस्वामिनं द्र्ष्टुं तिलद्धादश्यहे गताम्‌ ।
सामन्तेभ्यः साभिमाना नान्वयुर्डामराः परम्‌ ॥ ३९५ ॥
राजकौटुम्ब्यदृप्तानां डोम्बानां निर्गता मुखात्‌ ।
राज्ञामिवाज्ञा दुर्लङ्घया न केनाप्युदलङ्घयत ॥ ३९६ ॥
राज्ञा प्रदत्ते रङ्गाय हेलु्ग्रामेग्रहारवत् ।
लिलेख पट्टोपाध्यायो न यदा दानपट्टकम् ॥ २३९७ ॥
तदाक्षपटलं गत्वा रङ्गः कोपात्तमव्रवीत्।
रङ्गस्स हेलु दिण्णेति दासीसुत न लिख्यते ॥ ३९८ ॥
                                  युग्मम्‌ ॥
लिलेख सोथ संत्रासाद्रङ्गभ्रूभङ्गतर्जितः।
को न राजनि दु्र्वृत्ते भवेन्नीतिव्यतिक्रमः ॥ ३९९ ॥
अन्त्यागमनपापस्य पापः पृच्छन्स निष्कृतिम्‌ ।
विटैर्हास्यावहान्येव प्रायश्चित्तानि कारितः ॥ ४०० ॥
हिमेनैव हिमं शाम्येद्दुष्कृतेनैव दुष्कृतम् ।
सोनुशिष्टो विटैरेवं दधत्पामरसारताम्‌ ॥ ४०१ ॥
पवित्रास्पर्शतोस्पृश्यास्पर्शपापं जिहीर्षुणा ।
तेनादुष्यत विप्रस्य योषिन्मासोपवासिनः ॥ ४०२ ॥
ततोपि पापिनोभूवन्केपि तस्मिन्क्षणे द्विजाः ।
तस्मादप्यग्रहारान्ये जगृहुर्गृहभोजिनः ॥ ४०२ ॥
चक्रे चक्रमठः सोपि पापः पाशुपताश्रयम् |
तस्मिन्हतेर्धनिष्पन्नं तद्धधूर्यमयोजयत्‌ ॥ ७०४ ॥

पूर्वोपकारन्विस्मृत्य डामरान्स निरागसः |
नृपतिः श्वपचाकामी विश्वस्तांश्छ्द्मनावधीत् ॥ ४०५ ॥
हन्तुं व्याजेन विश्वस्ताः केचिड्डामरतस्कराः।
तस्थुस्तस्यान्तिके दोहच्छिद्रानेहःप्रतीक्षिणः ॥ ४०६ ॥
श्वपाकीशयनावासासन्नावस्करमन्दिरे ।
शौचस्थितं तं निःशस्त्रं ते रात्रौ प्रापुरेकदा ॥ ४०७॥
अथ तैः प्राप्तसमयैरकस्मात्तस्य सर्वतः ।
क्षिप्रं न्यपात्यताशेषशातशस्त्रपरम्परा ॥ ७०८ ॥
सुप्तस्तटाद्भदे भ्रष्ट इव निद्रालसेक्षणः ।
प्र्वुद्धः शखपातैः स व्यमुचद्भैरवान्रवान् ॥ ४०९. ॥
निःशस्त्रः शस्त्रमन्विष्यन्क्षरत्क्षतजनिर्झरः |
अनुद्रतोरिभिर्धावञ्शय्या विवेश तत्‌ ॥ ४१० ॥
अप्राप्तहेर्ति क्रन्दन्त्या श्वपाक्यालिङ्गिताङ्गकम् ।
तत्कुचोत्सङ्गलग्नाङ्ग्ं जघ्नुस्तेनुप्रविश्य तम्‌ ॥ ४११ ॥
स्वैरेव प्रेरिता दारैस्ते तस्य नृपतेः किल ।
मुमूर्षोर्जानुनी स्वैरं शिलया समचूर्णयन् ॥ ४१२ ॥
त्रयोदशाब्दे ज्येष्ठस्य शुक्राष्टम्यां क्षपाक्षणे ।
श्वपाकभोग्यः स श्वेवावस्करे तस्करैःर्हतः ॥ ४१३ ॥
उन्मत्तावन्तिनामाथ पार्थसूनुर्दुराशयः ।
अभ्यषिच्यत वैधेयैः सचिवैः शर्वटादिभिः॥ ४१४ ॥
श्वपाकीकामुके पापे निहते निशि तस्करैः ।
प्रजानां पाप्मना सोभूत्पापात्पापतरो नृपः ॥ ४१५ ॥
स्थगिता तत्कथापापस्पर्शभीत्या सरस्वती ।
कथंचित्रस्नुरश्वेव सेयं प्रस्थाप्यते मया ॥ ४१६ ॥
२५

आसीत्पितृकुलं तस्य भर्क्ष्य टुर्नृपरक्षसः।
और्वाभिधस्य हव्याशविशेपस्येव जीवनम्‌ ॥ ४१७ ॥
तस्यासंप्टक्कराघातसटांकारकरोटिका ।
घ्राणस्क॑न्दादिवाद्यज्ञाः सभायां मुख्यमन्त्रिणः ॥ ४९१८ ॥
तेमात्याश्चारणत्वेन निर्लज्जास्तमरञ्जयन् ।
कालान्तरेण यैरेव भूमिपालैर्भविष्यते॥ ४१९ ॥
पर्वगुप्तोभवत्तस्य सर्वेभ्योप्यधिकं प्रियः ।
आस्थाने नर्तनं कुर्वन्नपाङ्तकटीपरः ॥ ४२० ॥
आ तत्रिविवादृष्टा कीटय्रायान्महीपतीन्।
पर्वगुप्तः सर्वदाभूद्राज्यावाप्तिकृतोद्यमः ॥ ४२१ ॥
तदा निगूढराज्येच्छः सख्यं मुख्यैः स मन्त्रिभिः।
पीतकोशैः प्रविदधे पञ्चभिर्भूभटादिभिः ॥ ४२२ ॥
भूभटः शर्वटश्छोजः कुमुदः सोमृताकरः ।
पवगुप्तेन संबन्धं चक्रिरे कोशपीथिनः ॥ ४२३ ॥
गवाक्षासरसि प्राप्तश्रीजलोवागलद्द्वजः।
संग्रामडामरगृहे यो रक्कः ख्यातपौरुषः ॥ ४२४ ॥
पदातिमात्रो भूपेन दृष्टशौर्यः स संयुगे ।
महोदरो महाकायः प्रापितो मुख्यमन्त्रिताम् ॥ ४२५ ॥
                           युग्मम्‌ ॥
यादृशी तेन ददृशे देवी श्रीः सरसोन्तरे ।
तादृद्रक्कजयादेवीत्यभिधानेन निर्ममे ॥ ४२६ ॥
राज्यं निष्कण्टकं कृत्वा धूर्तेनापजिहीर्षुणा
प्रेरितः पर्वगुप्तेन भूभृञ्चक्रे कुलक्षयम् ॥ ४२७ ॥
१ स्कन्धादि इति श्यात्‌ ।

पञ्चमस्तरङ्गः ।

तेन लुण्ठितसर्वस्वः पार्थस्तस्थौ कलत्रवान् ।
श्रीजयेन्द्रविहारान्तः श्रमणैर्दत्तभोजनः ॥ ४२८ ॥
शिशुञ्शंकरवर्मादीन्भ्रातृन्द्वारान्निरोध्य सः ।
तत्र स्थिताननशनैरुत्क्रान्तासूनकारयत् ॥ ४२९ ॥
उद्यतः पितरं हन्तुं मत्रिणोनुमतिप्रदान् ।
बद्धपट्टान्व्यधाद्बद्धनिगडानितरान्पुनः ॥ ४३० ॥
एकदा मत्रिसामन्ततत्रिकायस्थसैनिकाः
पार्थ तदाज्ञामासाद्य निशायां पर्यवेष्टयन् ॥ ४३१ ॥
म्लानक्षीणाम्बरां पत्नीं रुद्धद्वारां निपात्य ते ।
आलिङ्ग्यमानां क्रन्दद्भिस्तर्णकैरिव दारकैः ॥ ४३२ ॥
केशानालम्ब्य कर्षन्तः शर्करोत्पाटिताङ्गकम् ।
विपन्नं गोकुलाद्दान्तमिव निर्हत्य तं गृहात् ॥ ४३३ ॥
क्षुत्क्षामरूक्षं क्रन्दन्तं निजघ्नुर्नग्नविग्रहम् ।
चण्डाला इव निःशस्त्रं कुमुदाद्या नृपप्रियाः ॥ ४३४ ॥
युग्मम् ॥
पितरं निहतं श्रुत्वा राजा संजातकौतुकः ।
प्रातः स्वसचिवैः सार्धं गत्वा हृष्टोथ दृष्टवान् ॥ ४३५ ॥
अत्राङ्गेस्य प्रहारोयं मद्दत्त इति वादिनः ।
तस्याग्रे राजपुरुषाः शशंसुर्निजविक्रमम् ॥ ४३६ ॥
न्यकृत्य स्वीकृतो राज्ञा तदा तद्रञ्जनोद्यतः ।
अचूचुदत्पर्वगुप्तो देवगुप्ताभिधं सुतम् ॥ ४३७ ॥
पार्थस्य निहतस्याङ्गे सोक्षिपत्क्षुरिकां ततः ।
रञ्जितो येन भूपालो जातहासोभवच्चिरम् ॥ ४३८ ॥
डामरैर्लुण्ठितो देशः प्रणाशे चक्रवर्मणः ।
उत्थाप्य पापान्कायस्थांस्तेन भूयोपि दण्डितः ॥ ४३९ ॥

१९६

राजतरङ्गिणी

संप्रेरितः कुसचिवैः शस्त्राभ्यासं चकार सः ।
पाटयन्सुरिकाघातैः कोटवीस्तनकोटरम् ॥ ४४० ॥
गर्भिणीनां च जठरं गर्भान्द्रष्टुमपाटयत् ।
काठिन्यस्य परीक्षार्थमङ्गं कर्मकृतामपि ॥ ४४१ ॥
प्रतिग्रहाग्रहाद्बोराद्यद्वा वधभयाद्विजाः ।
प्रत्यगृह्णन्नग्रहारांस्तस्मादपि नृपाधमात् ॥ ४४२ ॥
क्रूरपापानुरूपेण क्षयरोगेण पार्थिवः ।
ततोनुवाध्यमानोभूदपर्यन्तव्यथातुरः ॥ ४४३ ॥
व्यथया तस्य तादृश्या प्रजा एव न केवलम् ।
तुतुषुर्निजशुद्धान्तमहिष्योपि चतुर्दश ॥ ४४४ ॥
अथान्तःपुरदासीभिर्यः कुतश्चिदुपाहृतः ।
क्षितिपालात्प्रजातोयमिति प्रख्यापितो मृषा ॥ ४४५ ॥
तं शिशुं शूरवर्माख्यं विनिवेश्य नृपासने ।
हस्ते निक्षिप्य सामन्तसचिवैकाङ्गतत्रिणाम् ॥ ४४६ ॥
कम्पनाधिपतेर्बद्धद्वेषः कमलवर्धनात् ।
बिभ्यन्मडवराज्यस्थाड्डामरोत्पाटनक्षमात् ॥ ४४७ ॥
आसन्ननिरयप्राप्तिः पितृहा पार्थिवाधमः ।
शुचौ पञ्चदशाब्दस्य प्रजापुण्यैः क्षयं ययौ ॥ ४४८ ॥
चकलकम् ॥
पितृघातिसुतो राजा जयस्वामिविरोचनम् ।
आषाढशुक्लसप्तम्यां शिशुर्द्रष्टुं विनिर्ययौ ॥ ४४९ ॥
नवा विरेजे राजश्रीर्वालस्य पृथिवीपतेः ।
कृपाणवेणिललिता छत्रचामरहासिनी ॥ ४५० ॥
अत्रान्तरे जवायातैश्चारैरावेदितः श्रुतः ।
सामन्तैर्नगरोपान्तं प्राप्तः कमलवर्धनः ॥ ४५१ ॥

पञ्चमस्तरङ्गः ।

१९७

एकाङ्गतत्रिसामन्तस्यालहारकसादिभिः ।
नगरं प्रविशञ् श्रान्तः समं सैन्यैररुध्यत ॥ ४५२ ॥
विरुद्धडामरानीकान्युद्धा मार्गेषु निर्गतः ।
श्रान्तोप्यसौ वैरिसेनामजयद्विक मोर्जितः ॥ ४५३ ॥
सहस्रमश्ववाराणां विद्राव्य तुरगेमिंतैः ।
राजधानीमसंरुद्धः प्रविवेश ततः क्षणात् ॥ ४५४ ॥
तं लब्धजयमाकर्ण्य सैन्यैस्त्यक्तं पलायितैः ।
एकाकिनं क्वाप्यनयजननी शिशुभूपतिम् ॥ ४५५ ॥
प्राकर्मभिर्मोहितो वा प्रेरितो वा कुमत्रिभिः ।
नाभूत्सिंहासनारूढो मूढः कमलवर्धनः ॥ ४५६ ॥
तदानीं स्वगृहान्यातो राज्यकामोन्यवासरे ।
संघट्टयद्विजान्सर्वानचूचुदनीतिवित् ॥ ४५७ ॥
प्रौढं शक्तं च कुरुत क्षमापं कंचित्स्वदेशजम् |
मामेव कुर्युः सामर्थ्यादिति मूढः स चिन्तयन् ॥ ४५८ ॥
एकाकिनी रहः क्षीबां लब्ध्वा दुर्लभयोषितम् ।
अप्रौढोनुपभुज्यान्यदिने दूत्यार्थयेत यः ॥ ४५९ ॥
विभूतिं रभसावाप्तां यश्च संत्यज्य तत्क्षणम् ।
नीत्या कामयतेन्येद्युः शोच्यस्ताभ्यां परोस्ति कः ॥ ४६० ॥
युग्मम् ॥
अथोत्पलकुले छिन्ने स्थूलकम्बलवाहिनः ।
अटङ्गोक्षनिभा विप्राः समगंसत गोकुले ॥ ४६१ ॥
धूमनिर्दग्धकूर्चानां राज्ञस्तांस्तांश्चिकीर्षताम् ।
राज्यव्यवस्थोपन्यासस्तेषां चिरमवर्धत ॥ ४६२ ॥

१ संघध्यन् इत्युचितम् । १९८ राजतरङ्गिणी

वैमत्येन मिथस्तेषां नान्यः कोप्यभ्यषिच्यत ।
कूर्चा भाषणनिष्ट्यूतैः स्वकूर्चः ष्टीवनैः परम् ॥ ४६३ ॥
राज्यार्हान्वेषिभिर्विप्रैः प्राप्तः स्वस्मृतिकृप्तये ।
अवार्यतेष्टकाघातैर्मुग्धः कमलवर्धनः ॥ ४६४ ॥
पञ्चषाणि दिनान्येव यावत्तस्थुर्द्विजातयः |
काहलाकांस्यतालादिवाद्यकोलाहलाकुलम् ॥ ४६५ ॥
उत्पताकध्वजच्छत्रशोभियुग्यार्पितासनम्

अशेषं पारिषद्यानां तावत्तत्रामिलइलम् ॥ ४६६ ॥
युग्मम् ॥
स्वपत्नीं वन्धकीभूतामिवान्यवशवर्तिनीम् ।
वीक्ष्य राजश्रियं शोचन्नासीत्कमलवर्धनः ॥ ४६७ ।।
पितृघातिवधूश्छन्नपुत्रराज्यार्थिनी ततः ।
ग्राहिणोद्राजपुरुषान्पार्श्वे प्रायोपवेशिनाम् ॥ ४६८ ॥
पिशाचकपुरग्रामे वीरदेवाभिधस्य यः ।
कुटुम्विनः कामदेवनामा सूनुरजायत ॥ ४६९ ॥
स शिक्षिताक्षरो लब्ध्वा मेरुवर्धनमन्दिरे |
बालाध्यापकतां स्नानशीलादिगुणभूषितः ॥ ४७० ॥
क्रमाद्गञ्जाधिकार्यासीदथ तस्यात्मजः शनैः ।
लेभे गञ्जाधिकारित्वं राज्ञः शंकरवर्मणः ॥ ४७१ ॥
यः प्रभाकरदेवोपि सुगन्धाछन्नकामुकः ।
लक्ष्म्या सरस्वतीद्वेषाद्देशविप्लवतोथवा ॥ ४७२ ॥
विद्वान्यशस्करो नाम तत्पुत्रोत्यन्तदुर्गतः ।
सख्या फल्गुनकाख्येन समं देशान्तरं गतः ॥ ४७३ ॥

१ उच्चभाषण इति स्यात् । पञ्चमस्तरङ्गः ।

सुस्वप्नदर्शनैः पीठदेव्याशीर्भिश्च हर्षुलः ।
तस्मिन्प्रसङ्गे सोत्साहः प्रत्यावृत्तो निजां भुवम् ॥ ४७४ ॥
पितृधातिवधूदूतैर्यातैर्बोधयितुं द्विजान् ।
मध्ये गृहीतो वाग्ग्मित्वात्प्रविवेश तदन्तिकम् ॥ ४७५ ॥
कुलकम् ॥
१९९
दृष्ट्वैव तं दैववशादैकमत्यस्पृशो द्विजाः ।
ध्वनिं राजायमेवास्त्वित्युच्चकैरुदचारयन् ॥ ४७६ ॥
अथाभ्यषिच्यत क्षिप्रं विप्रैरेत्य यशस्करः ।
क्ष्माधृतिप्रौढसामर्थ्यः सानुमानिव तोयदैः ॥ ४७७ ॥
दग्धं वेणुवनं परस्परमहासंघर्षजेनाग्निना
तन्मूलोद्धृतिरम्भसा क्षणधृतोद्रेकेण संपादिता ।
वात्यावेगविपाटितं विटपिनं प्राप्तं कुतश्चिदृढां
रूढिं नेतुमहो महाद्रिकुहरे धात्रा न किं सूत्रितम् ॥ ४७८ ॥
भृत्यप्रेरणया वंशं पार्थजः स्वं न चेद्दहेत् ।
तत्पुत्रोत्पाटनं कुर्यान्न चेत्कमलवर्धनः ॥ ४७९ ॥
अनुच्चकुलजातस्य दरिद्रस्याटतः क्षितिम् ।
तद्यशस्करदेवस्य राज्यप्राप्तिः कथं भवेत् ॥ ४८० ॥
पद्भ्यां व्रजन्निरनुगो दहशे जनेन
यस्तत्क्षणं निखिललोकसमानमूर्तिः ।
साम्राज्यरम्यममुमीक्षितुमास्त नारी-
दृङ्गीरजस्तबकितो नरनाथमार्गः ॥ ४८१ ॥
नृपतिवसतिं प्रत्यागच्छन्य शस्करभूपतिः
पुरमृगदृशामाशीमध्ये वचोपि विवक्षितम् ।
स्तिमितवलितापाङ्गं शृण्वन्निमीलदहंकृतिः
कृतपरिकरस्तज्ज्ञैर्जज्ञे प्रजापरिपालने ॥ ४८२ ॥

२००

राजतरङ्गिणी

प्रतिमितरविदीपोद्भासिशुभ्रातपत्र-
प्रचयरजतपात्रासूत्रितारात्रिकश्रीः ।
अथ मुखरितमाशीर्मङ्गलैरङ्गनाना-
मवनिहरिणधामा राजधाम प्रपेदे ॥ ४८३ ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कहणस्य कृतौ राज-
तरङ्गिण्यां पञ्चमस्तरङ्गः ॥
त्र्यधिकायां समाशीतौ मासेषु च चतुर्ध्वगात् ।
कल्पपालाष्टकं रथ्याहृतस्त्रीसचिवा अपि ॥
षष्ठस्तरङ्गः ।
नेदं पर्णसमीरणाशनतपोमाहात्म्यमुक्षोरगौ
पश्यैतावत एव संप्रति कृतौ तन्मात्रवृत्ती बहिः ।
प्रेम्णैवार्धमिदं चराचरगुरोः प्रापेयमात्मस्तुती-
रेवं देववधूमुखाच्छ्रतिसुखाः शृण्वत्यपर्णावतात् ॥ १ ॥
इच्छन्नलङ्घनीयत्वमथ कक्ष्यां विलङ्घयन् ।
प्रतीहारान्द्विजा दूरं वार्यन्तामिति सोन्वशात् ॥ २ ॥
वेत्रिवित्रास्यमानांस्तु तान्कृताञ्जलिरब्रवीत् ।
राज्यप्रदाश्च पूज्याश्च यूयं नो दैवतैः समाः ॥ ३ ॥
राज्यदानाभिमानेन वर्तिष्यत मदोद्धताः ।
यत्कार्यकालादन्यत्र नागन्तव्यं मदन्तिकंम् ॥ ४ ॥
तदाकर्ण्याखिलो लोकस्तमधृष्यममन्यत ।
व्यस्मरत्सहसंवाससंभूतमपि लाघवम् ॥ ५ ॥
खिलीभूताः पूर्वराजव्यवस्थाः प्रतिभावलात् ।
उन्नीतवान्स सुकविः प्राक्कविप्रक्रिया इव ॥ ६॥