राजतरङ्गिणी प्रथमो भागः.djvu/सप्तमः तरङ्गः
← षष्ठः तरङ्गः | राजतरङ्गिणी प्रथमो भागः.djvu सप्तमः तरङ्गः कल्हणः |
अष्टमः तरङ्गः → |
मातुस्तेजनि निर्मिते पितृकुले श्लाघ्या तनुवैधसा
त्वं संध्याहितसंनिधीर्मम जपारक्तेधरे खेलसि ।
संध्यावन्दनसाभ्यसूयगिरिजास्तुत्येदृसशौर्वाक्छलै-
र्यः सन्ध्यामपि वन्दते स्म स जगत्प्रीणातु गौरीश्वरः ॥ १ ॥
क्षमां क्षमापतिर्बिभ्रन्मनसा च भुजेन च ।
गाम्भीर्येण च शक्त्या च सोजयद्वाहिनीपतीन् ॥ २॥
जज्ञे राज्ञीक्षये भङ्गो यैस्तुङ्गस्य तदाखिलै ।
दिनश्रीविगमे संध्याग्रसङ्गस्येव रागिणः ॥ ३॥
तत्तत्प्रतिभतटाटोपत्रोटनात्प्रत्युतास्य तैः ।
उदयो ददृशे शश्वद्गतिं को वेत्ति वेधसः ॥ ४ ॥
युग्मम् ॥
नृपेण जातज्ञातेयः शूरः शक्तिसमन्वितः।
सर्वाधिकारयोग्योगात्तदा चन्द्राकरः क्षयम् ॥ ५॥
अन्ये भीमतिकाग्रामदिबिरस्योरुसंपदः ।
पुण्याकरस्य तनयाः शूराः शान्ति प्रपेदिरे ॥ ६ ॥
समर्थमन्रिविरहादनिच्छन्नपि वेधसा ।
निन्ये गत्यन्तरत्यक्तस्तुङगपक्षं क्षमापतिः ॥ ७ ॥
संग्रामराजतुङ्गादीन्देवी कोशमपाययत् ।
मुमूर्षन्ति पुरा स्थातुमद्रोहेणेतरेतरम् ॥ < ॥
क्लेशासहो महीपालस्ततः कार्यवशादपि।
पर्याप्तं तस्य भीरुत्वं कियदन्यत्प्रकाश्यतां।
असमैर्यौनसंबन्धैश्चक्षमे यशसः क्षतिम् ॥ १०॥
साहायकार्थी यत्परादाच्छ्रीसशौर्यादिमते सुताम् । दिद्दाठाधिपतये प्रेमनाम्ने स लोठिकाम् ॥ ११ ॥ क्व लोकोद्वहनोन्नद्धभुभूद्योग्या नृपात्मजा । प्रतिग्रहजलक्लिन्नपणिः क्वाल्पमना द्विजः ॥ १२॥ अथ तुङ्गादिभङ्गाय प्रायं व्राम्हणमन्त्रिणः । परिहासपुरे विप्रपरिषद्द्यानकारयन् ॥ १३ ॥ विप्रमश्रिमतैक्येन कृतो राज्ञः स विप्लवः । दुःसहः पवमानाग्निसमागमसमोभवत् ॥ १४ ॥ राज्ञोप्युत्पाटने सज्जैः कथंचित्प्रार्थितो द्विज्जैः। मतिः क्षान्तिचरुप्राये तुङ्गनिःसारणे कृता ॥ १५ ॥ राज्ञस्तुङ्गादिभिसश्चैतद्द्यावतेभ्यहः प्रतिश्रुतम् । अन्यत्प्रार्थयितुं लग्नास्तावते शठवुद्धयः ॥ १६ ॥ तुङज्गास्कन्देन विप्रोयं यो खतस्तद्वहे वयम् । तं निदंहाम इत्युक्त्वा रावः कोप्यरघट्तः ॥ १७ ॥ तैरुद्धत्य यदा नीतः शैस्तुङ्गगरदान्प्रति । केरादोमाच्च विहिताया क्योत्थापिताभवत् ॥ १८॥ तया प्रतीपपातिन्या निःशौचानां द्विजन्मनाम् । अकस्मान्निरगाच्छखं विनाद्ायोत्थिते कलौ ॥ १९ ॥ तिलकम् ॥ ततः पायिता विप्रा यस्तेषां मत्रदोभवत् । निगूढं जकटशस्तद्वेदम प्राविशान्भयात् ॥ २० ॥ स व्यक्तीभूतकौटिल्यः सं्रामं खुचिरं व्यधात् । अपद्धरिस्तु ते विप्राः पलाय्य स्वगरहान्ययुः ॥ २९१ ॥ विजिते राज्ञकलशे समकाया द्विजातयः । मन्रिणः श्रीधरखुताः सत्तागत्य व्यथुखेधम् ॥ २२ ॥
१ प्राधितैः इद्युचितः पाठः । २ राज्ञा इल्युचितः पाटः । सप्तमस्तरङ्गः ।
ते कृत्वा सुमहत्कर्म समाप्ति समरे गताः ।
निर्भिद्य मण्डलं सप्त सप्तसप्तेरृतं ययुः ॥ २३ ॥
जितः सुगन्धिसीहेन तेषु शान्तेषु संयुगे ।
बवाथ राजकलशस्तुङ्गेनानायितो गृहम् ॥ २४ ॥
नीयमानोधिरोप्याशु स्कन्दं मार्गेषु विक्षतः ।
तुङ्गस्य युग्यवाहैः स नर्तितोपहृतायुधः ॥ २५ ॥
अन्योपि भूतिकलशो नाम मन्त्री विनिर्जितः ।
सुतेन राजकाख्येन सह शूरमठं ययौ ॥ २६ ॥
क्रमात्सुगन्धिसीहाद्यैर्मुक्तः करुणया ततः ।
सपुत्रः सोवमानाग्निततो देशान्तरं ययौ ॥ २७ ॥
परिहासपुरादेवं जातो यो देशविप्लवः ।
स दैवयोगात्तुङ्गस्य शुभाय प्रत्युताभवत् ॥ २८ ॥
ततः प्रसादिते राशि गुणदेवेन मत्रिणा |
आययौ भूतिकलशः कृतगङ्गानिमज्जनः ॥ २९ ॥
पुनर्नृपगृहे तस्मिन्किचिलुब्धपदे शनैः ।
तुङ्गं निहन्तुं राज्ञैनं गूढं दूताः प्रयोजिताः ॥ ३० ॥
ज्ञातवार्तेन तुङ्गेन तस्मिन्नर्थे प्रकाशिते ।
सपुत्रो भूतिकलशो राज्ञा निर्वासितः पुनः ॥ ३१ ॥
अवष्टम्भं मनाग्लेभे चन्द्राकरसुतः शनैः ।
यो मय्यामत्तकः सोपि तस्मिन्काले व्यपद्यत ॥ ३२ ॥
भूत्वा किंचित्क्षणं भूभृत्कन्यासंभोगभाजनम् ।
राजोपकारकृच्छ्रीमान्प्रेमापि प्रमयं ययौ ॥ ३३ ॥
विपेदिरेन्ये गङ्गाद्याः सर्वेपि नृपतिप्रियाः ।
अवाशिष्यत भोगाय तुङ्गः सभ्रातृकः परम् ॥ ३४ ॥
१ स्कन्धं इत्युचितः पाठः | २ कंचित् इत्युचितः पाठः । २३५ २३६ राजतरङ्गिणी
इति यो यो हि वृत्तान्तस्तस्य नाशाय शङ्कितः ।
स स दैवानुकूल्येन प्रत्युतोद्वेचकोभवत् ॥ ३५ ॥
कालक्रमत्रुटितसंश्रयभूः स्वमूल-
मात्राश्रयी तटतरुः सरितोम्बुपूरैः ।
यैः शङ्कयते निपततीति वितीर्णमृद्भि-
स्तैरेव तस्य हि भवेत्स्थितिभूमिदार्ढ्यम् ॥ ३६॥
नीत्युज्वलं व्यवहरन्प्रजाराधनतत्परः ।
प्राक्पुण्यसंक्षयात्तुङ्गः शनैस्त्वासीत्स्खलन्मतिः ॥ ३७ ॥
यत्स्वभाग्यापहाराय हीनजन्मानमाददे |
साहायकाय कायस्थं क्षुद्रं भद्रेश्वराभिधम् ॥ ३८ ॥
ड्डिवाणिज्यं सौनिकत्वं काष्ठविक्रयितादि च ।
आरामिकस्य यस्यासीत्कृत्यं वंशक्रमोचितम् ॥ ३९ ॥
कम्बलोद्धृष्टपृष्ठोथ भोजनार्थमवालगत् ।
भस्त्रामषीभाण्डवाही यश्च पश्चान्नियोगिनाम् ॥ ४० ॥
अनन्तराजकार्यादिचिन्ताश्रान्तो विधाय तम् ।
तुङ्गः सहायं नावुद्ध संसर्गाद्भाग्यसंक्षयम् ॥ ४१ ॥
धार्मिकं तेन धर्मात्कं विनिवार्यार्यचेतसम् ।
गृहकृत्याधिकारे स दुष्कृती विनिवेशितः ॥ ४२ ॥
देवगोब्राह्मणानाथातिथिराजोपजीविनाम् ।
अकालमृत्युर्विदधे वृत्तिच्छेदं स दुर्मतिः ॥ ४३ ॥
शवाजीवोपि पुष्णाति क्रूरः कापालिको निजान् ।
भद्रेश्वरस्तु पापोभून्निजानामपि जीवहृत् ॥ ४४ ॥
तुङ्गेन चैत्रे सर्वत्र कृते भद्रेश्वरे प्रभौ ।
सुगन्धिसीहः प्रययावाषाढे मासि संक्षयम् ॥ ४५ ॥
१ धर्माख्यं इति पाठ: स्यात् । सप्तमस्तरङ्गः ।
परलोकं गते तस्मिन्सर्वभारसहेनुजे ।
तुङ्गश्छिन्नोत्तमाङ्गत्वं सदैन्योमन्यतात्मनः ॥ ४६॥
श्रीत्रिलोचनपालस्य शाहेः साहायकार्थिनः ।
देशं ततो मार्गशीर्षे मासि तं व्यसृजन्नृपः ॥ ४७ ॥
राजपुत्रमहामात्यसामन्तादिनिरन्तरम् ।
सैन्यं तमन्वगाद्भूरि भुवनक्षोभणक्षमम् ॥ ४८ ॥
अग्रागतेन स तथा शाहिना कृतसत्क्रियः ।
पञ्चषाणि दिनान्यासीत्तद्देशे स यदोन्मदः ॥ ४९ ॥
प्रजागरचरन्यासशस्त्राभ्यासादिवासनाः ।
अभियोगोचिताः शाहिरपश्यंस्तं तदाब्रवीत् ॥ ५० ॥
युग्मम् ॥
तुरुष्कसमरे यावन्न यूयं कृतबुद्धयः ।
आलस्यविवशास्तावत्तिष्ठतास्मिन्गिरेस्तटे ॥ ५१ ॥
एवं त्रिलोचनेनोक्तं सोग्रहीन हितं वचः ।
तस्थौ परं समं सैन्यैरुत्सेकादाहवोत्सुकः ॥ ५२ ॥
हम्मीरेण तदा सैन्यं जिज्ञासार्थ विसर्जितम् ।
तौषपारे मितप्रायैस्ततस्तीत्ववधीद्वलैः ॥ ५३ ॥
ततस्तमाहितोत्सेकमपि शाहिः पुनः पुनः ।
जगादाहवतत्त्वज्ञः पूर्वोक्तामेव संविदम् ॥ ५४॥
स तस्य नाग्रहीद्वाक्यं रणौत्सुक्यवशंवदः ।
प्रत्यासन्नविनाशानामुपदेशो निरर्थकः ॥ ५५ ॥
प्रातस्ततः स्वयं कोपात्तु रुष्कानीकनायकः ।
सर्वाभिसारेणागच्छच्छलाहवविशारदः ॥ ५६ ॥
अथ तुङ्गस्य कटकः सहसा भङ्गमाययौ ।
शाहिसैन्यं परं संख्ये दहशे विचरत्क्षणम् ॥ ५७ ॥
२३७ २३८ राजतरङ्गिणी
शाहिसैन्ये गतेप्यासीजयसिंहः स्फुरव्रणे ।
श्रीवर्धनश्च संग्रामे विभ्रमार्कश्च डामरः ॥ ५८ ॥
घोरे तुरंगतुमुले प्रहरद्भिस्त्रिभिर्भरैः ।
वीरक्षेत्रे निजे देशे रक्षितस्तैर्यशःक्षयः ॥ ५९ ॥
कस्त्रिलोचनपालस्य माहात्म्यं वक्तुमीश्वरः ।
निःसंख्या अपि यं संख्ये न जेतुमशकन्द्विषः ॥ ६० ॥
शुशुभे रुधिरासारवर्षी युद्धे त्रिलोचनः ।
कल्पान्तदहनज्योतिर्विसारीव त्रिलोचनः ॥ ६१॥
स योधयित्वा संग्रामे कोटीः कङ्कटवाहिनाम् ।
एकाकी कार्यमर्मज्ञो निर्ययौ रिपुसंकटात् ॥ ६२ ॥
गते त्रिलोचने दूरमशेषं रिपुमण्डलम् ।
प्रचण्डचण्डालचमूशलभच्छायमानशे ॥ ६३ ॥
संप्राप्त विजयोप्यासीन्न हम्मीरः समुच्छ्रसन् ।
श्रीत्रिलोचनपालस्य स्मरञ्शौर्यममानुषम् ॥ ६४ ॥
त्रिलोचनोपि संश्रित्य हास्तिकं स्वपदाच्युतः ।
सयत्नोभून्महोत्साहः प्रत्याहतु जयश्रियम् ॥ ६५ ॥
यथा नामापि निर्नष्टं शीघ्रं शाहिश्रियस्तथा ।
इह प्रासङ्गिकत्वेन वर्णितं न सविस्तरम् ॥ ६६॥
स्वप्नेपि यदसंभाव्यं यत्र भग्ना मनोरथाः ।
हेलया तद्विद्धतो नासाध्यं विद्यते विधेः ॥ ६७ ॥
ईषद्यद्भूमिवैपुल्यं राज्ञः शंकरवर्मणः ।
वृत्तान्तवर्णने पूर्वममुत्र प्रकटीकृतम् ॥ ६८ ॥
स शाहिदेश: सामात्यः सभूभृत्सपरिच्छदः ।
किमभूत्किमु वा नाभूदिति संचिन्त्यतेधुना ॥ ६९ ॥
अवतारं तुरुष्काणां दत्त्वाशेषे महीतले ।
प्राप्तभङ्गस्ततस्तुङ्गः स्वदेशं प्राविशच्छनैः ॥ ७० ॥
सृगालायेव तुङ्गाय लब्धभङ्गाय भूपतिः ।
न तत्रागसि चुक्रोध स धैर्यसदृशाशयः ॥ ७१ ॥
किं तु खेदाय समभूत्तुङ्गायत्तत्वमीशितुः |
परायत्ततया चित्तं पशोरप्युपतप्यते ॥ ७२ ॥
तुङ्गात्मजोपि कंदर्पसिंहः श्रीशौर्यगर्वितः ।
रोज्योचितं व्यवहरंस्तस्योद्वेगप्रदोभवत् ॥ ७३ ॥
गूढलेखै: क्षणे तस्मिंश्छिद्रान्वेषी स भूभुजाम् ।
भ्राता विग्रहराजोपि प्रैरयत्तुङ्गमारणे ॥ ७४ ॥
कोशादिस्मरणाद्वाजा चिरं दोलायमानधीः ।
अभीक्ष्णप्रेरणोद्विग्नः प्रेरकानब्रवीत्ततः ॥ ७५ ॥
एकाक्येव सपुत्रः स गोचरे नः कदाचन ।
पतेद्यदि क्षणे तस्मिन्पश्यामः किं विदध्महे ॥ ७६ ॥
अन्यथा ध्रुवमाक्षिप्तो हन्यादस्मानसौ बलात् ।
इति कालापहारार्थमुक्त्वाभूद्विरतो नृपः ॥ ७७ ॥
तावन्मात्रं वचो बीजभूतं हृदि निधाय ते ।
विधातुं तदवस्थत्वं तुझ्स्यासन्कृतोद्यमाः ॥ ७८ ॥
षण्मासाभ्यन्तरे तुङ्गो भूपेनाकारितो गृहात् ।
ससुतो निर्ययौ दृष्टदुःस्वप्नोपि विधेर्वशात् ॥ ७९ ॥
स प्रविश्य नृपास्थानं स्थित्वा राज्ञोग्रतः क्षणम् ।
पञ्चषैः सहितो भृत्यैः प्राविशन्मत्रमण्डपम् ॥ ८० ॥
पश्चात्प्रविष्टास्तत्रैनं पर्वशर्करकादयः ।
अनुक्त्वापि महीपालं तुङ्गं शस्त्रैरपातयन् ॥ ८१ ॥
१ राजोचितं इत्युचितः पाठः | २ भूभुजम् इत्युचितः पाठः । २३९ २४० राजतरङ्गिणी
मन्त्री महारथो नाम योभूच्छंकरवर्मणः ।
तद्वंश्यस्तुङ्गभृत्येषु श्लाघ्यः सिंहरथः परम् ॥ ८२ ॥
निःशस्त्रो यः क्षणे तस्मिन्परित्राणविधित्सया ।
हन्यमानस्य तुङ्गस्य पृष्ठे स्वं वपुरक्षिपत् ॥ ८३ ॥
युग्मम् ॥
तुङ्गस्य प्रथमाघाते रुद्धश्वासोभवद्भयात् ।
राजा तस्मिन्निरुवासे सोच्छ्वासः समपद्यत ॥ ८४ ॥
आस्थानब्राह्मणस्यासीद्धर्मनाम्नः सुतोन्तिके |
यः पापकारी तुङ्गस्य पार्थः कङ्कश्च दुर्मतिः ॥ ८५ ॥
ताभ्यामाशुविरेकिभ्यां त्राणार्थं स्वाङ्गुलीर्मुखे ।
क्षिपद्भ्यां पशुवत्तत्र शस्त्रं त्रासवशाजहे ॥ ८६ ॥
युग्मम् ॥
अन्तरङ्गाश्च चङ्गाद्या येभूवंस्तुङ्गमन्त्रिणः ।
तैः स्त्रीवदासितं तूष्णीं त्रस्तैः शस्त्रान्वितैरपि ॥ ८७ ॥
अज्ञाततुङ्गमृत्युभ्यस्तुमुले तत्र भूपतिः ।
तद्भृत्येभ्यः शङ्कमानो वह्निदानाहवादिकम् ।। ८८ ।।
आश्वासाय स्वभृत्यानां छित्त्वा खड्नेन सत्वरम् ।
पातयामास तुङ्गस्य ससुतस्य शिरो बहिः ॥ ८९ ॥
युग्मम् ॥
दृष्ट्वा स्वामिशिरश्छिन्नं सैन्ये दैन्यात्पलायिते ।
भृत्यतामुज्ज्वलीचक्रुः कतिचित्तुङ्गसेवकाः ॥ ९० ॥
भुजंगनामा सामन्तद्विजापत्यो गृहागतः ।
संग्रामराजं विदधे गेहाद्नेहं पलायितम् ॥ ९१ ॥
द्वारं कनकदण्डेन भञ्जन्नर्गलितं ततः ।
विंशतिं हतवान्योधान्स राजास्थानमण्डपे ।। ९२ ।।
कोशाधिकारी त्रैलोक्यराजनामा हतो रणे ।
कय्यामत्तकधात्रेयो वीरोप्यभिनवाभिधः ॥ ९३ ॥
अङ्गने त्रिंशदेकाङ्क्षा वीरास्तुङ्गोपजीविनः |
श्रेणीं बबन्धुनिहता निःश्रेणीं स्वर्गपद्धतेः ॥ ९४ ॥
संग्रामं पद्मराजाख्यः कृत्वापि निसृतोक्षतः ।
स्वामिप्रमयदुःखाग्नितापं तीर्थाश्रयाजहौ ॥ ९५ ॥
अन्ये लोकद्वयत्राणमित्रं शस्त्रं रणाङ्गने |
संत्यजन्तो व्ययुज्यन्त यशसा जीवितेन च ॥ ९६ ॥
चन्दाख्यः सुभमन्यो दैशिकश्चार्जुनाभिधः ।
हेलाचक्रो डामरश्च व्यक्तशस्त्राः परैर्हताः ॥ ९७ ॥
लोठितावसथस्तुङ्गो लुण्ठितश्रीर्महीभुजा ।
आषाढशुक्लद्वादश्यां कथाशेषो व्यधीयत ॥ ९८ ॥
निर्दोहवृत्तौ भूभर्त्रा तुङ्गे सतनये हते 1
लब्धोदया व्यजूभन्त खलप्राया नृपास्पदे ॥ ९९ ॥
राज्ञो मनः कलुषयन्गूढपैशुन्यकर्मणा ।
यो भ्रातृभ्रातृसुतयोर्विपत्तौ हेतुतां गतः ॥ १०० ॥
स दुष्प्रवादनिर्दग्धो नागो निजकुलान्तकः ।
तुङ्गभ्राता ततो राज्ञा कम्पनाधिपतिः कृतः ॥ १०१ ॥
गुगलकम् ॥
भार्या कंदर्पसिंहस्य क्षेमा परमचर्षणी ।
नागेन संगम चक्रे रक्षसेवासितक्षपा ॥ १०२ ॥
प्रशान्ते तुमुले बिम्बा चतुर्भिर्दिवसैः सती |
तुङ्गस्नुषा सुता शाहेः प्रविवेश हुताशनम् ॥ १०३ ॥
१ मय्यामत्तक इति स्यात् ।
२४९
मम्मायामवरुद्धायां कंदर्पो यावजीजनत् । |
तदात्मजाः कृता नानभोगनन्दिमुखात्रयः ।
अधीशाः पृतनाङ्गस्य राज्ञा तुङ्गोपजीविनः ॥ ११६ ॥
हास्यं बभूव भूभर्तुस्तेषां तुङ्गपदार्पणम् ।
बन्धनं यवकाण्डीनां हेमस्थाने शिशोरिव ॥ ११७ ॥
ते तुरुष्काहवे राज्ञा तुङ्गवत्प्रहिताः पुनः ।
प्रत्यावृत्त्य ययुर्देशं निजमेव पलायिताः ॥ ११८ ॥
इत्थं मत्रिष्वयोग्येषु क्षान्तिशीले च भूपतौ ।
केचिदुद्रेकमभजन्दरद्दिबिरडामराः ॥ ११९ ॥
सा लोठिकामठं कृत्वा लोठिका नृपतेः सुता ।
तिलोत्तमाया विदधे मातुर्नाम्ना परं मठम् ॥ १२० ॥
पापिनामपि हन्तेयं कापि सत्कर्मवासना 1
भद्रेश्वरोप यश्चक्रे विहारं सुकृतोज्ज्वलम् ॥ १२१ ॥
सत्यं विवेक्ता संग्रामराजो यो न्यायतोर्जितम् ।
निजं ब्रुवाणो द्रविणं प्रपामपि न निर्ममे ॥ १२२ ॥
श्रीलेखा पार्थिववधूः श्रीयशोमङ्गलात्मजा ।
पत्यौ शिथिलसामर्थ्य स्वैरिणीत्वमसेवत ॥ १२३ ॥
सुतः सुगन्धिसीहस्य जयलक्ष्म्यां बभूव यः |
वल्लभो निर्भरं देव्याः सोस्यास्त्रिभुवनोभवत् ॥ १२४ ॥
स जयाकरगञ्जादिगञ्जस्रष्टातितीक्ष्णधीः ।
कोशोपकारकृत्तस्या जारोप्यासीजयाकरः ॥ १२५ ॥
मयग्रामीणगञ्जदिकर्त्री संचयतत्परा |
२४३
साभूगर्तुः प्रसादेन सुभगा भूरिवैभवा ॥ १२६ ॥
स चतुर्थसमाषाढप्रारम्भाहे महीपतिः ।
हरिराजाभिधं पुत्रमभिषिच्यास्तमाययौ ॥ १२७ ॥
१ यच्चक्रे इत्युचितः पाठः । २४४ राजतरङ्गिणी
सुमनः सेवितः कुर्वन्नशेषाशाप्रकाशनम् ।
ह्लादावहः स सर्वस्य चैत्रोत्सव इवाभवत् ॥ १२८ ॥
अमोघाशेन तेनेमां निश्चौरां कुर्वता महीम् ।
पण्यवीथ्यां निशीथिन्यां निषिद्धा द्वारसंवृतिः ॥ १२९ ॥
अचिरस्थायिनी राज्ञस्तस्याज्ञा चिन्तितोन्नतिः ।
वन्द्या नवेन्दुलेखेव पार्थिवानामजायत ॥ १३० ॥
द्वाविंशतिमहान्युर्वी स रक्षित्वा क्षमापतिः ।
क्षयं ययौ शुचियशाः शुचिशुक्लाष्टमीदिने ॥ १३१ ॥
प्राणिनां द्योतमानानां नक्षत्राणामिव क्षणात् ।
लक्ष्मीग्रष्मक्षपेवेयं संगता भङ्गदायिनी ॥ १३२ ॥
समन्योः स्वैरिणीवृत्तिः सुतस्य जननी निजा
अभिचारं चकारास्येत्यविगाना जनश्रुतिः ॥ १३३ ॥
राज्योपकरणे सजीकृते राज्यार्थिनी स्वयम् ।
सा राजमाता श्रीलेखा यावत्स्नात्वा समागता ॥ १३४ ॥
मिलितैस्तावदेकार्भात्रा धात्रेयकेण च ।
सागराख्येण तत्पुत्रो बालोनन्तो नृपः कृतः ॥ १३५ ॥
युग्मम् ॥
रत्नं जिघृक्षोरन्येन हृते तत्र प्रमापणम् ।
तदक्षिणोहेर्लुब्धस्य पापायैव यथा किल ॥ १३६ ॥
राजमातुस्तथा राज्यलुब्धायाः पुत्रनाशनम् ।
अभूदन्यहृते राज्ये वृजिनायैव केवलम् ॥ १३७ ॥
युग्मम् ॥
सा राज्यविप्रलम्भेन तादृशा व्यथिताशया ।
व्यस्मरत्तनयस्नेहं धिग्भोगाभ्यासवासनाम् ॥ १३८ ॥
अथाजगाम स्थविरः पितृव्यो बालभूपतेः ।
राज्यं विग्रहराजाख्यो र्हन्तुं विततविक्रमः ॥ १३९ ॥
स लोहरात्प्रचलितो दग्ध्वा द्वारमतर्कितः ।
दिनद्वयेन सार्धेन नगरं सत्वरोविशत् ॥ १४० ॥
श्रीलेखाप्रेरिताः सेनाः प्रविष्टं लोठिकामठम् ।
उद्दीपिता नयस्तत्र निजघ्नुस्तं सहानुगम् ॥ १४१ ॥
मठद्वयं ततः कृत्वा स्वस्य भर्तुः सुतस्य च ।
तस्थौ व्ययवती राज्ञी राज्यद्रोहोद्यतानिशम् ॥ १४२ ॥
ततो नरपतिः किंचिच्छनैः शिथिलेशवः
अतिव्ययादिव्यसनी गर्भेश्वरतयाभवत् ॥ १४३ ॥
तस्यासन्रुद्रपालाद्याः शाहिपुत्राः परं प्रियाः ।
अनल्पवेतनादानै राज्योत्पत्त्यपहारिणः ॥ १४४ ॥
कृतप्रत्यहनिर्वाहः सार्धलक्षेण भूभुजा ।
२४५
रुद्रपालो दरिद्रत्वं कदाचिदपि नात्यजत् ॥ १४५ ॥
दिद्दापालः क्षमापाललब्धया प्रतिवासरम् ।
सहस्राणामशीत्यापि शेते स्म न सुखं निशि ॥ १४६ ॥
अनङ्गपालवेतालश्चक्रे क्षमापाललालितः ।
शश्वत्सुवर्णगीर्वाणप्रतिमापाटने मनः ॥ १४७ ॥
रुद्रपालः परित्राता धनप्राणादिहारिणाम् ।
बभूव चौरचण्डालप्रायाणां वज्रपञ्जरः ॥ १४८ ॥
कायस्था रुद्रपालाप्ताः प्रजानां पीडनं व्यधुः ।
चकारान्धमठं श्रीमानुत्पलाख्यो यदग्रणीः ॥ १४९ ॥
कियद्भूपालवाल्लभ्यमन्यत्तस्याभिधीयताम् ।
जालन्धराधिपस्येन्दुचद्रस्येन्दुमुखीं सुताम् ॥ १५० ॥
१ हर्तु इत्युचितः पाठः । २४६ राजतरङ्गिणी
उपयेमे मनोज्ञत्वाज्ज्येष्ठामासमतिं स्वयम् ।
यया मठः स्वाभिधया विदधे त्रिपुरेश्वरे ॥ १५१ ॥
तस्याः किंचिद्वयोन्यूनां स्वसारं यो यवीयसीम् ।
अथ सूर्यमतीं देवीं भूभुजे परिणीतवान् ॥ १५२ ॥
रुद्रेण भूपतिः सख्या स कर्णसुखदायिना ।
पात्रीकृतो दुर्नयानां कर्णेनेव सुयोधनः ॥ १५३ ॥
कम्पनाधिपतिस्तत्र क्षणे त्रिभुवनो बली |
आययौ भूपतेर्हर्नु राज्यं संभृतडामरः ॥ १५४ ॥
आकृष्टाशेषकटके तस्मिन्योद्धुमुपागते ।
एकाङ्गाः सहयारोहा राजपक्षं न तत्यजुः ॥ १५५ ॥
असिना लङ्घयन्प्रासानमोघाञ्छ्राध्यविक्रमः ।
प्रजहारानन्तदेवः स्वयं त्रिभुवनं रणे ॥ १५६ ॥
संनाहरक्षिताङ्गः स दृढप्रहृतिपीडितः ।
विद्रौ वदनेनासृक्स्वप्रतापमिवोद्वमन् ॥ १५७ ॥
विनयच्छन्नशौटीर्यः शिशुप्रायः स भूपतिः ।
दृष्ट्वा बलमसंभाव्यं तस्मिंस्त्यक्त्वा रणं गते ॥ १५८ ॥
शमालाडामरं नन्तं प्रासैरभिनवाभिधम् |
शालास्थले व्यधाच्याघ्यविक्रमो मोघविक्रमम् ॥ १५९ ॥
मांसासृग्वेष्टनाद्यष्टीभूतखड्गो भ्रमन्त्रणे ।
भुवनक्षोभकृदभूङ्गैरवोनन्तभूपतिः ॥ १६० ॥
पश्यन्प्रहारलूनाङ्गानेकाङ्गान्स पदे पदे ।
निवेद्यमानानग्रस्थैर्नामग्रहणपूर्वकम् ॥ १६१ ॥
क्षितिभृज्जातदाक्षिण्यो विलब्धिस्थावरे ततः ।
चाञ्चल्यमक्षपटलादेकाङ्गानां न्यवारयत् ॥ १६२ ॥
युग्मम् || x 1 सप्तमस्तरङ्गः ।
एवं तत्र कृतज्ञेन भृत्येभ्यः प्रतिपादिता ।
विलब्धिस्तेन दीन्नारकोटिषण्णवतेः क्रमात् ॥ १६३ ॥
राज्ञो रणान्निवृत्तस्य दुग्धसेकैः करात्सरुः ।
स्थिरग्रहदृढः कृष्टश्चिरेणेति जनश्रुतिः ॥ १६४ ॥
अहो महत्त्वं भूभर्तुनो देशान्तरागतः ।
तादृक्त्रिभुवनो येन संविभेजे विमन्युना ॥ १६५ ॥
ब्रह्मराजाभिधस्तेन वन्धुर्गञ्जाधिपः कृतः ।
रुद्रपालकृतद्वेषो विरक्तश्चलितो ययौ ॥ १६६ ॥
सप्तभिम्लेंच्छभूपालैः समं मिलितडयमरः ।
तेनानीतो दरद्वाजो यत्नादचलमङ्गलः ॥ १६७ ।।
क्षीरपृष्ठाभिधं ग्रामं प्राप्तस्य समरोत्सुकः ।
तस्याग्रं विक्रमोदग्रो रुद्रपालो विनिर्ययौ ॥ १६८ ॥
श्वो व्यवस्थापिते युद्धे सैन्याभ्यां दरदीश्वरः ।
क्रीडन्पिण्डारकाव्यस्य नागस्य भवनं ययौ
दुर्नयाचरणात्तत्र पार्श्वस्थैर्वारितोपि सः
प्लवमानस्य मत्स्यस्य गात्रे कुन्तमपातयत् ॥ १७० ॥
अथोजगाम गोमायुवपुः कुण्डाद्भुजंगमः ।
स च तं मृगयौत्सुक्यादधावद्दरदीश्वरः ॥ १७१ ॥
तमापतन्तमालोक्य व्यवस्थोन्मूलनं विदत् ।
आस्कन्दाशकि भूभर्तुः सैन्यं युद्धाय निर्ययौ ॥ १७२ ॥
अभूत्ततोस्त्रसंघर्षसंजातानलसंहतिः ।
२४७
कृतस्वर्गाङ्गनोद्वाहो वीराणां समरोत्सवः ॥ १७३ ॥
तस्मिन्महाभटाटोपे शिरश्छिन्नं दरत्पतेः ।
रुद्रस्य रौद्रमहसः संप्ररूढं यशः पुनः ॥ १७४ ॥
राजतरङ्गिणी
समरे वधबन्धादि म्लेच्छराजाः प्रपेदिरे ।
संप्राप हेमरत्नादि पुनः कश्मीरभूपतिः ॥ १७५ ॥
उत्तंसमुक्ताद्योताम्भःक्षालितास्रझलज्झलम् ।
रुद्रपालो दरद्वाजशिरो भर्तुरूपानयन् ॥ १७६ ॥
भ्रात्रोदयनवत्सेन कृतप्रायैस्तथा द्विजैः ।
तथाह्येवंविधास्तस्य वभूवुरवदालिकाः ॥ १७७ ॥
रुद्रपाले ततो लूतामयेन प्रमयं गते ।
अन्येपि शाहितनयाः क्षिप्रमेव क्षयं ययुः ॥ १७८ ॥
पालस्नेहान्ध्यविगमे शुद्धाशयजुषोभवत् ।
देवी सूर्यमती भर्तुर्दर्पणस्येव बिम्बिता ॥ १७९ ॥
सुभटापरनामा सा गौरीश्वरविधायिनी ।
पुण्यं वितस्तापुलिने निर्ममे सुभटामठम् ॥ १८० ॥
गोहेमहयरत्नादिप्रदानैः सुबइन्द्विजान् ।
सदाशिवप्रतिष्ठायामदरिद्रांश्चकार सा ॥ १८१ ॥
आशाचन्द्रापराख्यस्य कल्लनस्यातुजन्मनः ।
नाम्ना व्यधायि वात्सल्यात्साग्रहारो मठस्तया ॥ १२ ॥
सिल्लनाव्यस्य च भ्रातुर्भर्तुश्चाभिधया सती ।
मठौ चाकारयत्पार्श्वे विजयेशामरेशयोः ॥ १८३ ॥
अष्टोत्तरं चाग्रहारशतं श्रीविजयेश्वरे |
ब्राह्मणेभ्यो महापुण्यं विद्वद्भयः प्रत्यपादयत् ॥ १८४ ॥
पत्युर्नाम्नाप्यग्रहारान्प्रददावमरेश्वरे ।
त्रिशूलबाणलिङ्गादिप्रतिष्ठाश्च विनिर्ममे ॥ १८५ ॥
दंपती राजराजाख्ये मृते पुत्रे प्रचऋतुः ।
सदाशिवान्तिके राजवेश्म संत्यज्य तौ स्थितिम् ॥ १६ ॥
सप्तमस्तरङ्गः ।
ततः प्रभृति संत्यज्य पूर्वराजकुलस्थितिम् ।
तयैव रूढ्या भूपालास्तत्रैव वसतीर्व्यधुः ॥ १८७ ॥
पार्थिवस्याश्वशालीयाः प्रियवाजितया प्रियाः ।
प्रसादैर्देशलुण्ठ्या च सर्वतः समतां ययुः ॥ १८८ ॥
गर्भेश्वरतया भर्तुर्वल्लभो नर्मकोविदः ।
अलुण्ठयत्प्रजा नित्यं डल्लको नाम देशिकः ॥ १८९ ॥
मालवाधिपतिर्भोजः प्रहितैः स्वर्णसंचयैः ।
अकारयद्येन कुण्डयोजनं कपटेश्वरे ॥ १९० ॥
प्रतिशा भोजराजेन पापसूदनतीर्थजैः ।
सततं वदनस्त्राने या तोयैर्विहिताभवत् ॥ १९१ ॥
अपूरयत्तस्य यस्तां दुस्तरां नियमादितः ।
प्रहितैः काचकलशीकुलैस्तद्वारिपूरितैः ॥ १९२ ॥
स तस्य पद्मराजाख्यः पर्णप्राप्तिकदैशिकः ।
प्रियताम्बूलशीलस्य त्यागिनो वल्लभोभवत् ॥ १९३ ॥
चकलकम् ॥
२४९
तेन नागरखण्डादिपर्णविक्रयिणा नृपः ।
देशोत्पत्तिधनं प्रायो निःशेषं दापितस्तदा ॥ १९४ ॥
पञ्चचन्द्रकशोभाकमौलिसिहांसने नृपात् ।
बन्धायादत्त लब्धव्ये धने स धनिकोधिके ॥ १९५ ॥
तद्राजचिह्नमास्थानोपयुक्तं तस्य मन्दिरात् ।
आनीयमानं मासार्ववासरे मासि मास्यभूत् ॥ १९६ ॥
स्वकोशसंचयं दत्त्वा देवी सूर्यमती ततः ।
पद्मराजोद्भवां देशस्याव्यवस्थां न्यवारयत् ॥ १९७ ॥
शमिते चाश्वशालीयडल्लकादिभये तदा ।
प्रावर्तन्त पुनर्देशे व्यवस्था निरुपद्रवाः ॥ १९८ ॥
१ सिंहासनं इत्युचितम् । ३२ २५० राजतरङ्गिणी
ततः प्रभृति राश्येव राजकार्योद्यताभवत् ।
तस्थौं शौर्यकथां त्यक्त्वा राजा कार्यकरः पुनः ॥ १९९ ॥
भर्तुर्नारीविधेयत्वं तस्या भर्तृजयस्तथा ।
निष्कलङ्केन शीलेन नान्योन्यं गर्ह्यतामगात् ॥ २०० ॥
भवभक्तिव्रतस्नानत्यागशीलादिभिर्गुणैः ।
कृतिनानन्तदेवेन मुनयोपि विनिर्जिताः ॥ २०१ ॥
राज्ये तस्य महीभर्तुर्दीर्घे तांस्तानलङ्घयत् ।
पतिंवरेव राजश्रीभृत्यान्नवनवोन्मुखी ॥ २०२ ॥
क्षेमाभिधो राजगञ्जपूरणं वालभञ्जकः ।
व्यधाद्वादशभागादिप्रकारैढौंकयन्धनम् ॥ २०३ ॥
मन्त्री ततोभवत्साधुस्त्रैगर्तः केशवो द्विजः ।
सौधश्चन्द्रातपेनेव भूपालो येन भूषितः ॥ २०४ ॥
भ्राम्यन्गतश्रीरेकाकी स एव ददृशे जनैः ।
भाग्याम्वुवाहतडितो निबिडाः कस्य संपदः ॥ २५ ॥
युग्मम् ॥
भाग्याधीनं धनं ध्यात्वा मुधा मुग्धधियामसौ ।
कुलविक्रमयोर्दप मिथ्यैव पृथुतां प्रति ॥ २६ ॥
प्रासादपालवैश्यस्य गौरीशत्रिदशालये ।
भूतेर्हलधरो वज्रो वराहश्चाभवन्सुताः ॥ २०७ ॥
तेभ्यो हलधरः सूर्यमत्या विहितसेवनः ।
वृद्धिं दिने दिने गच्छँल्लेभे सर्वाधिकारिताम् ॥ २८ ॥
विधेयान्बुद्धियुक्तेन कुर्वतः क्षित्यनन्तरम् ।
सपत्नीकोभवत्तस्य मुखप्रेक्षी क्षमापतिः ॥ २०९ ॥
१ क्षिन्यनन्तगन् इत्युचितः पाठः |
क्षेमेण सूत्रितं पूर्वं सपादाग्रमुदग्रधीः ।
कर्मस्थानं स्फुटीचक्रे सर्वस्थानधुरंधरम् ॥ २१० ॥
अभूद्वर्णकमूल्यादिलेखनं कनकस्य यत् ।
राजायत्तं जनस्यार्थसंचयानां प्रकाशकम् ॥ २९१२९ ॥
स तन्निवारयामास भाविनां भूभुजां विदन् ।
ज्ञानी संचितवित्तस्य दण्डाद्यायासकारिताम् ॥ २१२
भर्त्सितानश्वशालीयान्धनदारापहारिण: ।
कांश्चिह्यापाद्य स शमं नित्ये लोकस्य विल्पवम् ॥ २१३ ॥
तेनायासह्र्ता नीतः कचत्स्वर्णै: सुरास्पदैः ।
शोभां मठाग्रहारैश्च वितस्तासिन्धुसंगमः ॥ २१४ ॥
भ्रातरश्च सुताश्चास्य लक्ष्मीपरिचयोन्मदा: ।
द्विरदा इव न क्कापि दानप्रणयितां जहुः ॥ २१५ ॥
तद्भ्रातृपुत्रो बिम्बाख्यः श्रीमान्वीरो वराहजः ।
द्वाराधिकारकार्यासीद्दानप्रलयवारिद: ॥ २१६ ॥
स डामरकुलाकालमृत्यु: स्वल्पानुगो भवन् ।
खशाहवेजहत्प्राणान्पपलायनपराङ्मुखः ॥ २१७ ॥
चम्पायां सालभूपालमुन्मूल्यानन्तभूपतिः ।
तत्तन्नुपजयी नव्यं धराधवमरोपयत् ॥ २१८ ॥
मन्त्रशून्येन शौर्येण परदेशेषु भूपतिः ।
हठप्रवेशान्विदधत्सोभूत्कच्छ्रगतोसकृत् ॥ २१९. ॥
तुक्कात्मजस्य कलरास्यारब्धो खिन्नसैनिकम् ।
अमोचयद्धलधरो युक्त्या वल्लापुरादमुम् ॥ २२० ॥
उरशां च प्रविष्टस्य वैरिरुद्धाध्वनो व्यधात् ।
कम्पनाधिपतिस्तस्य मार्गान्संशोध्य निर्गमम् ॥ २२१ ॥
कालेनन्तमहीभर्तुर्वैरिविग्रहसंकटे ।
साहसान्युदजृम्भन्त तानि तानि क्षणे क्षणे ॥ २२२ ॥
राजेश्वरो द्वारपतिः श्रीमान्भद्रेश्वरात्मज: ।
डामरै: क्र्मराज्यस्थैरन्येपि बहवो हताः ॥ २२३ ॥
वीक्ष्य नीतिदृशा कार्यं भीत्या व्यवहरन्नपि ।
भृत्यतां निष्परिभवां को भुङ्क्ते नृपमन्दिरे ॥ २२४ ॥
दुष्प्रवादास्पदीभूतो देव्या निबिडसेवनात् ।
आशाचन्द्रादिभि: क्रुद्धैर्बद्धो हलधरोप्यभूत् ॥ २२५ ॥
स राज्ञा हृतसर्वस्वो बन्धनक्लेशमन्वभूत् |
भाग्यप्रभावे निःसारे सुखमेकान्ततः कुतः ॥ २२६ ॥
नृपेण बन्धनात्त्यक्तं तं श्रीः प्रत्यागता पुनः ।
आलिलिङ्ग सितच्छत्रलज्जास्मितसितानना ॥ २२७ ॥
स राइया: प्रावृष इव प्रणयेन क्षणे क्षणे ।
कोपप्रसादमेघार्कपर्यापातमन्वभूत् ॥ २२८ ॥
ततः सरलचित्तस्य क्रमेण समपद्यत ।
भार्याजितत्वं भूभर्तुर्दुर्विपाकार्पणोन्मुखम् ॥ २२९ ॥
अधिकारपरित्यागाद्दोषाननुशयावहान् ।
वदभ्दिर्वार्यमानणोपि प्राज्ञैर्हलधरादिभि: ॥ २३० ॥
पत्न्या संप्रेरित: शश्वत्तनयस्रेहमूढया ।
पुत्राय कलशायाभूद्राज्यं दातुं समुद्यतः ॥ २३१ ॥
यास्यस्यनुशयं राजन्नेवंवाद्यपि कारितः ।
सज्जं तेन रणादित्यनामा क्षत्ताभिषेचनम् ॥ २३२ ॥
एकान्नचत्वारिंशस्य वर्षस्य तनयः सिते ।
षष्टेह्नि बाहुलस्याभूदभिषिक्तो महिभुजा ॥ २३३ ॥
अथास्थाने रणादित्यो राजपुत्रान्निवेशयन् |
चिन्तयव्राज्यमाहात्म्यं प्रतिपत्तिषु निष्टुर: ॥ २२४॥
अनन्तो राजपुत्रोयं देवेति कथयन्वचः |
कृकाटिकान्यस्तदस्तः क्षितिपालं न्यवेदयत् ॥ २३५ ॥
कुपितेन स भूभर्त्रा परिवृत्यावलोकित: ।
एवं कृतस्मितो व्यक्तं तमूचे नीतिनिष्टुर: ॥ २३६ ॥
इत्थं यत्र निवेदयन्ते कन्यकुञादिभूभुजः ।
तत्रैव त्यक्तराज्यस्य कान्यास्तु प्रक्रिया तव ॥ २३७ ॥
दिने दिने सानुशयो नियतं भविता भवान् |
नाभिमानपरित्यागः कर्तुं शक्यो मुनेरपि ॥ २३८ ॥
सुदूरदर्शिनां तत्र मन्त्रिणां हृदयंगमम् ।
राजा तस्य वचः श्रुत्वा प्रतिवाक्याक्षमोनभवत् ॥ २३९ ॥
दष्ट्वान्येद्दुर्नवं भूपं राजचक्रेण सेवितम् ।
नवेतरं च सहितं परिमेयैः परिच्छदैः ॥ २४० ॥
धीमान्हलधरो युत्क्या कृतकासूयया नृपम्।
एवं निर्भर्त्संयल्लक्ष्मीं तं प्रत्याजीहरत्पुन: ॥ २४१ ॥
विधाय निःसुखं सूनुं राज्यभारार्पणाच्छिशुम् ।
कस्मात्स्वसुस्ब्रसापे न जि वाधेके ॥ २४२ ॥
तत्स्वयं राजकार्याणां कार्यमुदुहनं त्वया ।
अशून्यो यौवनाभोगैरयमस्तु सुतस्तव ॥ २४२ ॥
इत्युक्त्वा स पुनभूपमधिकारमजिग्रहत् ।
चक्रे कलशदेवं च कलया युक्तिवतम्॥ २४४ ॥
पित्रोरेवान्तिके कुर्वन्नाहाराद्यपि संततम् ।
ततो बभूव कलशो नाममात्रमहीपति: ॥ २४५
१ निवेदयन् इत्युचितम् ।
राजतरङ्गिणी
सर्वास्थानास्त्रपूजादिविधाने पार्थिवोचिते |
पितुः सहायकल्पः स पौरोहित्यमिवाकरोत् ॥ २४६ ॥
अनिमित्तप्रहृष्टानामनिमित्तानुतापिनाम् ।
न क्वापि चलचित्तानां तिरश्चामिव निश्चयः ॥ २४७ ॥
दापयित्वा पतिं राज्यं निर्वन्धेनापि तावता ।
सूनौ बभूव यद्राशी क्षिप्रमेवानुतापिनी ॥ २४८ ॥
सेर्या स्नुषाणामुत्कर्षे पार्थिवप्रमदोचितम् ।
वेषालंकरणादौ सा रूक्षचित्ता न चक्षमे ॥ २४९ ॥
दासीकृत्यं तया पुत्रमहिप्यः कारिताः सदा ।
गृहोपलेपने यावन्न वैमुख्यमदर्शयन् ॥ २५ ॥
पुत्रो विग्रहराजस्य क्षितिराजाभिधस्ततः ।
राज्ञः पितृव्यजो भ्राता कदाचित्पार्श्वमाययौ ॥ २५१ ॥
तस्मै न्यवेदयत्खेदं स चित्तस्योपतापकम् ।
पुत्रे भुवनराजाख्ये राज्यलुब्धेतिविप्लुते ॥ २५२ ॥
स हि तस्यात्मजो नीलपुराराज्यं समाश्रितः ।
तद्वलैः पितुरारब्धि विधातुं सोद्यमोभवत् ॥ २५३ ॥
नाम भागवतानां च पूज्यानां स्वपितुर्व्यधात् ।
दत्तयज्ञोपवीतानां शुनामशुचिमानसः ॥ २५४ ॥
क्षितिराजः स्ववध्वां च विरुद्धायां विशुद्धधीः ।
मनस्तापापहे चक्रे सर्वत्यागामृते स्पृहाम् ॥ २५५ ॥
राज्यं कलशपुत्राय ज्येष्ठानन्तरजन्मने ।
रामलेखाभिधानायां राज्ञ्यां जाताय सत्वरम् ॥ २५६ ॥
दत्त्वा स्तनंधयायापि तदोत्कर्षाभिधाय सः ।
राजर्पिर्विवुधैः सार्धं विदधे तीर्थसेवनम् ॥ २५७ ॥
भुक्त्वा शमसुखं भूरीन्वर्षान्परमवैष्णवः ।
स चक्रायुधसायुज्यं ययौ चक्रधरे सुधीः ॥ २५८ ॥
स च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ ।
सूरी तस्मिन्क्षणे तुल्यं द्वावास्तां कविबान्धवौ ॥ २५९ ॥
पितुः पितृव्यजाद्भ्रातुर्जातस्यानन्तभूभुजा ।
तन्वङ्गराजस्योत्सङ्गे नप्ता न्यासीकृतः शिशुः ॥ २६० ॥
तन्वङ्गोपि विवृद्धिं तन्नीत्वा राष्ट्रं शिशुं च तम्
पुनः प्रविष्टः कश्मीरानस्तं चक्रधरे ययौ ॥ २६१ ॥
सर्वसाधारणीभूतभोगानां राजवीजिनाम् ।
तावज्ज्ञातेयमभवन्नेह द्रोहकलङ्कितम् ॥ २६२ ॥
इन्दुराजात्मजात्सिद्धराजो यो बुद्धराजतः ।
जातो मदनराजाख्यं वीरं पुत्रमजीजनत् ॥ २६३ ॥
अत्युत्सिक्तः सुतस्तस्य दरन्नृपतिमण्डलात् ।
विधुरे राज्ञि निर्यातः शौर्योद्रेकादखण्डितः ॥ २६४ ॥
तदानीं जिन्दुराजाख्यो डामरोद्रेकखिन्नया ।
राज्ञ्या स्वयं गृहं नीत्वा साचिव्यं ग्राहितोभवत् ॥ २६५ ॥
काण: शोभाभिधस्तेन गाढोद्वेगावहः प्रभोः ।
२५५
देग्रामस्थो डामरोथ दत्त्वास्कन्दं निपातितः ॥ २६६ ॥
कम्पनाधिपतां दत्त्वा ततस्तस्य प्रतापिनः ।
पार्थिवो राजपुर्यादीन्देशांश्चक्रे करप्रदान् ॥ २६७ ॥
अनन्तभूभुजो राज्ये तत्तत्स्खलितसंकटे ।
आलम्बयष्टिप्रतिमो ययौ हलधरः क्षयम् ॥ २६८ ॥
मुमूर्षुणा चक्रधरे तेन पार्श्वस्थितो नृपः ।
सजानिरुपदेशार्थी स तदेत्थमकथ्यत ॥ २६९ ॥
राजतरङ्गिणी
मा कार्ट परराष्ट्रेषु रभसारब्धिसाहसम् ।
युक्त्या वल्लापुरादौ वो व्यपोढं व्यसनं मया ॥ २७० ॥
विशङ्कयो जिन्दुराजोयं परार्ध्या वृद्धिमागतः ।
भेदं वः सह पुत्रेण जयानन्दो विधास्यति ॥ २७१ ॥
कथितं तेन तत्स्मृत्वा जिन्दुराजं महौजसम् ।
विजेनाबन्धयद्राजा युक्तिमांस्त्याजितायुधम् ॥ २७२ ॥
अथ कालेन कलशक्ष्माभृत्कलुषिताशयः ।
भृत्यैरसाधुसंसेव्ये प्रसक्किं ग्राहितोध्वनि ॥ २७३ ॥
तस्याभवद्विज्जपित्थराजपाजादयः प्रियाः ।
उत्सेकदा राजपुत्राश्चत्वारः शाहिवंशजाः ॥ २७४ ॥
पुत्रो गञ्जपतेर्नागनाम्नो निकटसेवकः ।
सोपि तस्य जयानन्दः कौटिल्याध्यापकोभवत् ॥ २७५ ॥
द्विजेन्द्रेमरकण्ठे तु याते शिवसमानताम् ।
राजा प्रमदकण्ठस्य ययौ तज्जस्य शिष्यताम् ॥ २७६ ॥
दुःशीलस्य प्रकृत्यैव तस्याकृत्योपदेशकृत् ।
गम्यागम्यविचारस्य परिहर्ताभवद्गुरुः ॥ २७७ ॥
गुरोर्गतविकल्पत्वं तस्यान्यत्किमिवोच्यताम् ।
व्यक्तशङ्कः प्रववृते स्वसुतासुरतेपि यः ॥ २७८ ॥
महासमयसंचारचतुरैर्यैरभीतितः ।
गण्यते स्वप्रभावोभैरवोपि न निर्भयैः ॥ २७९ ॥
ते भट्टपादास्त्रासेन पतिता भग्नजानवः ।
विडालवणिजा स्वस्थाः शिरोहस्तार्पणैः कृताः ॥ २८० ॥
पुरा कृष्णविडालाङ्को वणिक्कश्चिदिहाभिधाम् ।
विडालवणिगित्यात्मनामविस्मारिकां दधे ॥ २८१ ॥
१ तस्याभवन् इत्युचितः पाठः । सप्तमस्तरङ्गः ।
योव्याजमूर्खो वैद्यत्वगुरुत्वाहंकृतः क्रमात् ।
पंदकृद्रजकादीनां शिल्पिनां गुरुतामगात् ॥ २८२ ॥
स भट्टपादानुल्लाघांश्चक्रे मूर्ध्यधिरोपयन् ।
श्रेष्ठी विडालविष्ठौघहिङ्गुगन्धोत्कटं करम् ॥ २८३ ॥
एवं प्रकृतिनिःसारैरपि गर्जद्भिरन्वहम् ।
आन्ध्यं स गुरुभिर्निन्ये दिवसोम्वुधरैरिव ॥ २८४ ॥
ये दीर्घजागरा रात्रौ भूरिभोजनसेविनः ।
अजीर्णपिशितोद्गारनित्यदुर्गन्धकंधराः ॥ २८५ ॥
अवस्करप्रणालाभाः पृष्ठे क्षिप्तमधः पथैः
शौचपाथ इव क्षिप्रमुज्झन्ति मधुनिर्झरम् ॥ २८६ ॥
नक्तमातोद्यवाद्यज्ञैस्तैः सार्धं कृतसेवनः |
२५७
चारणो वेणुवाद्यज्ञो योषितां धर्षयन्हठात् ॥ २८७ ॥
कनकाख्ये मदोद्दामे क्रुद्धे हलधरात्मजे ।
स्तम्भे निवध्य तद्भूत्यैरिछन्ननासो व्यधीयत ॥ २८८ ॥
यो विटश्चमको नाम लूनाङ्गोमङ्गलावहः ।
शनैर्लेभे स वात्सल्यं कौट्टन्यान्नवभूपतेः ॥ २८९ ॥
प्रसादवित्तो भूभर्तुरन्तरे मत्रिणामपि ।
लब्धप्रतिष्ठः स प्राप ठक्कुराख्यां नृकुक्कुरः ॥ २९० ॥
प्रथां प्राप्तस्त्रपाहेतुं स भञ्जन्वंशमञ्जसा |
प्रागेव नासावंशस्य भञ्जनं वह्वमन्यत ॥ २९१ ॥
तेनोद्दीपितदौःशील्यः स यच्चक्रे त्रपोज्झितः ।
अवाच्यमपि वृत्तान्तं मध्यपातात्तदुच्यते ॥ २९२ ॥
कल्लनाख्या स्वसा राज्ञो नागाख्या च तदात्मजा ।
परदारप्रसक्तेन संभोक्तुं नावशेषिता ॥ २९३ ॥
१ पादूकृत् इति पाठो भाति । २ योषितो इति स्यात् । ३३ २५८ राजतरङ्गिणी
तमुदन्तं सपत्नीको बुद्धवान्वृद्धभूपतिः ।
तु
न प्रत्यभैसीन्त्रपया तस्थौ तु निभृतव्यथः ॥ २९४ ॥
भिक्षुको धान्यमुष्टीनामोवनाग्रामजो द्विजः ।
योप्यभूद्रामदैवज्ञो वैधेयो लोष्टकाभिधः ॥ २९५ ॥
स ग्रामक्षेत्रपालस्य प्रसादात्पर्यटन्निशि ।
वस्तूनां मुष्टिवद्धानां विज्ञानान्मुष्टिलोष्टकः ॥ २९६ ॥
परां प्रसिद्धि संप्राप्तो नवक्ष्मापस्य रागिणः ।
आसीद्गुरुत्वकौट्टन्यदैवशत्यैरतिप्रियः ॥ २९७ ॥
तिलकम् ॥
भट्टारकमठाधीशः साधुर्व्यामशिवो जटी ।
खुर्खुटाख्याधिकरणे गृहीतनियतव्रतः ॥ २९८ ॥
अन्धगान्धर्विकान्मम्मनाम्नः स्वार्चनसेवकात् ।
अवन्तिपुरजं हस्तग्राहकद्विजचेलकम् ॥ २९९ ॥
परिभ्रष्टमुपादत्त लालितत्वेन यं पुरा ।
स तेन वारिताशस्तभङ्गासूत्रमयाम्बरः ॥ ३०० ॥
विसृज्यमानः पुष्पाणि ग्राहयित्वा नृपान्तिकम् ।
मदनो नाम वाचालः प्रपेदेत्यन्तरङ्गताम् ॥ ३०१ ॥
शनैः कौट्टन्यदुर्गोष्ठीमध्यपातं समाश्रयन् ।
....
....
॥ ३०२ ॥
चकलकम् ।।
तैश्चान्यैश्च विटैश्चाटुकारैः क्षिप्रविमोहितः ।
दोषानपि गुणान्मेने कलशः कलुषीकृतः ॥ ३०३ ॥
नर्म हेपणकारि वाक्यमुचितं कृत्यं प्रजापीडनं
तेजस्वित्वमलज्जता सरसतागम्याङ्गनासंगमः ।
१ कुलकम् इति स्यात् । २५९ सप्तमस्तरङ्गः ।
सारल्यं खलगालिदानसहनं येषां न तत्संनिधौ ।
किंचित्कर्म कुकर्मदोष इति यद्विशाय संत्यज्यते ॥ ३०४ ॥
राजा चौर्यरतौत्सुक्यात्प्रतिगेहं परिभ्रमन् ।
स्वदारालिङ्गनैः प्रीतिं क्षणदासु न लब्धवान् ॥ ३०५ ॥
पारतंत्र्यकृतापारप्रीतिः परवधूरतिः ।
अभिलाषानलोत्सेके रागभाजां घृताहुतिः ॥ ३०६ ॥
तान्कुट्टनान्पुरस्कृत्य पञ्चषानेकदा नृपः ।
जिन्दुराजगृहं प्रायात्स रात्रौ चौर्यकामुकः ॥ ३०७ ॥
तत्रासीजिन्दुराजस्य स्नुषा परमपुंश्चली ।
स्वगृहे दत्तसंकेता नक्तं कलशभूभुजः ॥ ३०८ ॥
प्रविशन्तमधावंस्तं भषद्भिः सूचितं श्वभिः ।
धृतासयो गृहद्वारं चण्डालाचौरशङ्किताः ॥ ३०९ ॥
तान्हन्तुमुद्यतान्दृष्ट्वा तं क्षितौ पतितं भयात् ।
पृष्ठन्यस्तस्ववपुषो ररक्षुरनुयायिनः ॥ ३१० ॥
तेभ्यः स मुष्टिघातादि ददद्भ्यः कथमप्यभूत् ।
मैवं कलशदेवोयमित्युक्त्वा त्याजितो निजैः ॥ ३११ ॥
घ्राणहीनं पुरस्कृत्य नारीमभिससार यत् ।
तदेव कामिनस्तस्य नूनमासीदमङ्गलम् ॥ ३१२ ॥
स निर्यातो गृहात्कान्ताकटाक्षविवशीकृतः ।
पथि कालीकटाक्षाच्च दैवान्न प्रलयं ययौ ॥ ३१३ ॥
निजचित्तापराधेन कुर्वन्नीतिव्यतिक्रमम् |
अस्पृश्येभ्यः परिभवं भूपालोप्युपलब्धवान् ॥ ३१४ ॥
इन्द्रियैरिन्द्रचन्द्राद्या हेपिता यैः सुरा अपि ।
अपरिम्लानमानत्वं तैर्मर्त्यस्याथवा कथम् ॥ ३१५ ॥
राजतरङ्गिणी
प्रागुन्मीलति दुर्यशः सुविषमं गर्हाभिलाषस्ततो
धर्मः पूर्वमुपैति संक्षयमथो श्लाघ्योभिमानक्रमः ।
संदेहं प्रथमं प्रयात्यभिजनं पश्चात्पुनर्जीवितं
किं नाभ्येति विपर्ययं विगलने शीलस्य चिन्तामणेः ॥ ३१६॥
राजधानीमवातस्य दुःशीलस्य महीपतेः ।
क्षपायामेव तां वार्ता पितरावधिजग्मतुः ॥ ३१७ ।।
तौ रुदित्वा सुतस्नेहलज्जाशोकान्वितौ चिरम् ।
निश्चयं बन्धने तस्य सदोषस्य प्रचऋतुः ॥ ३१८ ॥
सर्वविद्यानिधि ज्येष्ठं नप्तॄणां वप्पिकात्मजम् ।
हर्षे राज्ये चिकीर्षु च निन्यतुस्तां निशीथिनीम् ॥ ३१९ ॥
आकारितस्ततस्ताभ्यां प्रातः कलशभूपतिः ।
ऊचे विजजयानन्दौ साशङ्को जनकाद्भयम् ॥ ३२० ॥
तन्मतेन जयानन्ददत्तहस्तः कथंचन ।
अन्वीयमानो विज्जेन स पित्रोः प्राविशद्गृहम् ॥ ३२१ ॥
पिता प्रविष्टमात्रं तं वक्रे दत्तचपेटकः ।
अभाग्यभागिञ्जहिहि क्षुरिकामित्यथाब्रवीत् ॥ ३२२ ॥
एनं त्रासविसूत्राङ्गसंधिमालम्ब्य पाणिना ।
सावष्टम्भं स्पृशञ्शस्त्रं विज्जो राजानमब्रवीत् ॥ ३२३ ॥
राजन्मानवतां धुर्यो भवन्नपि भवान्कथम् ।
नात्याज्यं मानिनां वेत्ति मानग्रहमहाव्रतम् ॥ ३२४ ॥
गृहीतवेतनेनायं राजपुत्रेण शस्त्रिणा ।
संकटेस्मिन्मया स्वामी जीवता त्यज्यते कथम् ॥ ३२५ ॥
पिता भवानयं पुत्रः क्षणेन्यस्मिन्महीपते ।
मय्यसंनिहितेमुष्य यद्योग्यं तद्विधीयताम् ॥ ३२६ ॥
<poem>
मुग्धं विमोह्य नृपतिं वचोभिः स्रिग्धकर्कशैः |
विज्ज:स्वामिनमादाय निरात्तत्र्कामत्तदन्तिकत ॥ विज्जस्यापूजयन्धीरास्तद्धैर्यमतिमानुपषम्|
अनन्तदेवस्याप्यग्रे यदेवं स व्यजुम्भत ॥ ३२८ ॥
चण्डी नरपतेः पत्नी भाव्यर्थबलवत्तया|
अत्याज्यजपमौनस्था तसिन्नवसरेभवत् ॥ ३२९ ॥
सा चेदासिप्यतोद्युक्ता नाभविष्यत्तदेतरत् ।
नियमात्सर्वनाशाद्वा वन्धनात्कलशस्य वा ॥ ३२३० ॥
ततो विज्जेन कल्श: सत्वरेण प्रवेशित: ।
त्रस्यन्दिल्हाभिधानाया वहभाया निवेशनम् ॥ २२३१ ॥
रिरोर्तिरस्य संजातेत्युक्त्वा भीतं पति व्यधात् ।
सा पाज्ञा ञातवृतान्ता तैलेनाभ्यत्कमस्त्कम् ॥ २३२ ॥
व्याजेन तेन सर्वस्य संप्रवेशं निषिध्य सा ।
पति जुगोप विन्यस्य विज्जं द्वारस्य रक्षणे ॥ ३३२ ॥
ततः समाधेर्विरता राज्ञी निर्भर्त्स्य भूपतिम् ।
कुशलान्वेषणमिपात्तनयस्यान्तिकं ययौ । बन्द्धुं ब्यद्धोद्यमो राजा तथैव प्रययौ यदा
दत्तपरवेशो विज्जेन तदैकाक्येव सोभवत् ॥ ३३५ ॥
निषेधादनुगन्तॄणां ततः क्रुद्धो धराधवः ।
रुषित्वा विजयक्षेत्रं गन्तुं प्रावर्ततोद्धतः ॥ ३३६ ॥
तं प्रयान्तं सपत्नीकं प्राप्तं पद्मपुरान्तिकम् ।
अवोचन्नेत्य तत्रस्था विश्शावट्टादयो द्विजाः ॥ ३३७ ॥
अधिकारं स्वयं त्यक्त्वा राजन्किमुनुतप्यसे । ६
कृतस्यानुशयो युक्तो न सतो नासतोपि वा ॥ ३३८ ॥
</poem>
न च ते दुर्मतौ त्यक्ताः प्रजा एता मयेत्यपि ।
ध्वात्वा सूनोः समुचिता कर्तुं दुष्टस्य वाच्यता ॥ ३३९ ॥
न यस्त्रपुत्रकस्येव शत्कि: कापि हि भूभुजः ।
भवेत्साधुरसाधुर्वा स प्रजानां शुभाशुभै: २४० ॥
उज्झन्ति यत्पयोवाहा जलानि तडितोथवा ।
वनस्पतीनां सद सत्कर्मपाकस्य तत्फलम् ॥ ३४१ ॥
यच्चापथस्थितं पुत्रं त्यक्त्वेच्छस्यासितुं सुखम् ।
कोशं त्यक्त्वा प्रस्थितस्य घटते तत्कथं तव ॥ ३४२ ॥
धाराधिरूढसामर्थ्य सद्वंश: शुचिमानपि ।
संस्पृश्यते क्षीणकोशः कृपाण इव कैः पुमान् ॥ २४३ ॥
श्रुत्वेत्यैच्छन्नृपो यावतप्रत्यावृत्तिं विचारवान् ।
तावत्स पुत्रेणाभ्येत्य सभार्येण प्रसादितः ॥ ३४४ ॥
अथ प्रविश्य नगरं स प्रमादापवर्जिताम् ।
अशान्तमन्युरादाय लक्ष्मीं भूयो विनिर्ययौ ॥ ३४५ ॥
हयायुधतनुत्रादि स्वयं स्वीकृत्य निर्गत: ।
देवीं प्रतीक्षमाणोस्थात्सरित्पारे ततः क्षणम् ॥ ३४६ ॥
नानाप्रकारानारोप्य कोशान्नौषु नृपाङ्गना:|
नायःशङ्कूनपि गृहे निर्यान्त्यः पर्यशेषयन् ॥ ३४७ ॥
अज्ञातवार्त: प्राक्तूष्णीं तत्प्रस्थानेभवज्जन: |
ज्ञातवार्तस्तदा त्वासीदाक्रन्दमुखरानन: ॥ ३४८ ॥
प्रतिमोत्कुं पुरे ताभ्यां दत्तपुष्पाञ्जलौ जनः ।
वाष्पबिन्दुमिषादौज्झीद्दीर्घानर्घकणानिव ॥ ३४९ ॥
हा मातर्हा पितः क्वेत्थं गच्छतः परिदेवितात् ।
इत्यस्मा<poem>
मार्गैन्तरान्तराक्रन्दविरतौ निर्झरध्वनि: ।
शैलानां शोकनिःश्वासशूत्कार इव शुश्रुवे ॥ २५१ ॥
तयोराक्रन्दितैः शश्वत्पथि संजातसंस्तवौ ।
कर्णौ शून्येप्यशृणुतामाक्रन्दितमिवासकृत्॥ ३५२ ॥
पु्त्रागसा तादृशौ तौ दृष्ट्वा मार्गे द्रुमौकसाम् ।
खगानां शावभरणमपि लोको व्यगर्हत ॥ ३५३ ॥
तयोः पुत्रानयोत्तप्तचेतसोर्विजयेश्वर: ।
मनःप्रसादं संदृष्टः स्रिग्धबन्धुरिवाकरोत् ॥ ३५४ ॥
तत्तत्र भाण्डागाराश्वभृत्याद्यावसथार्पणै: ।
संविधानक्रियाभिश्च व्यग्रयोरगमद्दिनम् ॥ ३५५ ॥
देशे कोशोपकरणपूर्णगोणीगणवृते ।
आसन्निन्धनगण्डालीछन्नरथ्या इवापणाः ॥ ३५६ ॥
तन्वङगराजतुङगादिज्ञातिपुत्रा नृपात्मजा: ।
तं सूर्यवर्मचन्द्राद्या डामराश्चानुवव्रजु: ॥ ३५७ ॥
डामरान्क्षीरभूपादीन्राजा नौनगरादिषु ।
स्थानेषु स्वेषु निक्षिप्य रक्षित्वे गुप्तिमानभूत् ॥ ३५८ ॥
विश्रान्तसर्वचिंत्तस्य श्रीमतोनन्तभूपतेः ।
प्रावर्तन्तोत्सवैर्गन्तुं दिनानि विजयेश्वरे ॥ २३५९. ॥
राजपु्त्रहयारोहशास्त्रिडामरमण्डलै: | 1
कृत्स्रैरेव स्थितिर्बद्धा सविधे वृद्धभूमुजः ॥ ३६० ॥
वत्सरे पञ्चपञ्चाशे ज्येष्ठे मासि विनिर्गतः ।
आसाद्य विजयक्षेत्रं स स्वर्गसुखमन्वभूत् ॥ ३६१ ॥
कलशस्तु गते राज्ञि प्राप वीतवसुं महीम् ।
रक्षाहौ चलिते यातरत्नां निधिमहीमिव॥ ३६२ ॥
` १चिन्तस्य इति पाटः खात्। `
( राजतरङ्गिणी
स्वराज्यमुज्ज्वलीकर्ते रिक्तोपि विहितोद्यमः ।
चक्रे संत्र्य विज्ञाद्यैः संमतानधिकारिणः ॥ ३६३ ॥
तेन सर्वाधिकारेषु जयानन्दो नियोजितः ।
द्वारे वराहदेवश्च वितस्तात्रपुरोद्भवः ॥ ३६४ ॥
यो ह्यम्बराधिकार्यासीजिन्दुराजस्य कम्पने |
राज्ञा विजयमित्रः स कम्पनाधिपतिः कृतः ॥ ३६५ ॥
यथाधिकारमन्यांश्च विनिधायाधिकारिणः ।
राजार्थचिन्तामारेभे संरब्धः पितृविग्रहे ॥ ३६६ ॥
जयानन्दः पदातीनां चिकीर्षुरथ संग्रहम् ।
यत्नादनुचितेभ्योपि धनिकेभ्योग्रहीदृणम् ॥ ३६७ ॥
स्वीकृत्य पत्तीन्विजादिराजपुत्रगणान्वितः ।
अथावन्तिपुरं प्राप योद्धुं वृद्धनराधिपम् ॥ ३६८ ॥
अभ्यर्थ्य करितो वेलां राज्ञा काराविनिर्गतः ।
शिमिकावर्त्मना योद्धुं जिन्दुराजो विनिर्ययौ ॥ ३६९ ॥
तेषामुद्योगमाकर्ण्य क्रुद्धा वृद्धमहीभुजम् ।
स्वे डामराश्ववाराद्याः संरम्भादुपतस्थिरे ॥ ३७० ॥
अजायत न्यस्तगुडक्रीडत्तुरगमण्डला ।
शस्त्रैः सन्त्राटवी कृत्स्ना संकटा विजयेश्वरे ॥ ३७१ ॥
ततः सूर्यमती यत्नात्पतिं परमकोपनम् ।
ययाचे पुत्रवात्सल्यादयुद्धं दिवसद्वयम् ॥ ३७२ ॥
अत्याप्तानथ मय्यादीन्द्विजान्निशि विसृज्य सा ।
तन्मुखेनातिवात्सल्यादिदमूचे रहः सुतम् ॥ ३७३ ॥
विनाशशंस्ययं पुत्र कस्ते मतिविपर्ययः ।
तीव्रशौर्येण पित्राद्य यदेवं योद्धुमिच्छसि ॥ ३७४ ॥
यस्य भ्रूभङ्गमात्रेण दरद्वाजादयो हताः ।
तत्प्रकोपानले कस्मादीहसे शलभायितुम् ॥ ३७५ ॥
अस्तु वीतिमारूढे वीतिहोत्रसमे नृपे ।
कस्त्राता स्यात्त्वदीयानां तृणानामिव शस्त्रिणाम् ॥ ३७६ ॥
सेनाङ्गैः कतमैः केन शौर्येण कतमैर्धनैः ।
भवाञ्शक्तिमतां धुर्य योद्धुमेनं प्रधावति ॥ ३७७ ॥
दैवात्संत्यक्तमेतेन राज्यमखण्डितम् ।
२६५
पित्रा तीर्थोपविष्टेन किमिवापकृतं तव ॥ ३७८ ॥
द्वैधेच्छुभिः पात्यमानो व्यसनेमिन्सुदारुणे |
प्रयास्यसि दिनैरेव रिक्तोप्यत्यन्तरिक्तताम् ॥ ३७९ ॥
नय सेनाः पितुर्भीतिर्जीवन्त्यां मयि नास्ति ते ।
ऋजुमेनं नयस्वार्द्रे प्रत्युतानुनयोक्तिभिः ॥ ३८० ॥
इति दूतमुखैर्गुढं पुत्रो मात्रा कृतार्थनः ।
सर्वाशाभ्योनयत्सैन्यं रात्र वेव निजान्तिकम् ॥ ३८१ ॥
श्रुतापसारं सैन्यानां दूतैश्चैत्यप्रसादितम् ।
उपालेभे पतिं प्रातर्दृष्टा प्रत्युत वल्लभा ॥ ३८२ ॥
राझ्या मिथस्तयोरेवं शमिताक्षेपयोरपि ।
पिशुनप्रेरणात्प्राप कालुष्यं धीः क्षणे क्षणे ॥ ३८३ ॥
वैरस्य रूपमेतद्धि भेदं याति मुहुर्मुहुः ।
संधीयमानमपि यत्कृिन्नाम्बरभिवाशयम् ॥ ३८४ ॥
बाह्याल्यादौ सुतोदन्तं श्रुत्वा तप्ताशयो नृपः ।
गृहं प्रविष्टो धृष्टस्त्रीभाषितैर्जडतां ययौ ॥ ३८५ ॥
एवं प्रतिदिनं तप्तस्त्यक्ततापः प्रतिक्षपम् ।
स्वच्छाशयः शरत्तुच्छतडाकौपम्यमाययौ ॥ ३८६ ॥
३४ २६६ 1 राजतरङ्गिणी
चकार पितृपक्षाणां पुत्रो वेश्मादिनाशनम् |
पिता तु पुत्रपक्षाणां न किंचित्स्त्रीवशीकृतः ॥ ३८७ ॥
पुत्रस्नेहान्धया पत्न्या वाधितैश्चानुयायिभिः |
रूक्षोक्तिभिस्ताप्यमानस्तस्थौ दुःस्थः सदा नृपः ॥ ३८८ ॥
राज्यं जिहीर्षुः पुत्रस्य निःशूरं तद्वलं विदन् ।
षत्स जिन्दुराजस्य गणनां पौरुपेकरोत् ॥ ३८९ ॥
पुत्राजिहीर्षुणा राज्यं तेन तन्वङ्गनन्दनाः |
प्रार्थ्यन्ते स्म तदा राज्यकृतये तत्पराङ्मुखाः ॥ ३९० ॥
संप्रेर्य तं तदा रात्रौ स्वान्चयाशर्मशङ्किनी ।
हर्षे देवी नृपं कर्तुं दूतैराहृतवत्यभूत् ॥ ३९१ ॥
स पितामहयोर्दूतैराहृतः साहसोन्मुखः ।
बाह्याल्यां निर्गतः सजै रक्ष्यमाणोपि रक्षिभिः ॥ ३९२ ॥
दत्तपाणिकषाघातः क्षणार्धेनोदलङ्घयत् ।
मनोजवेनाभग्नौजा वाजिना पञ्चयोजनीम् ॥ ३९३ ॥
वाजिनं विजिताभ्यासमनुगन्तुं समुद्यताः ।
अगच्छन्बहवो मार्गे दीनाः सेनायाः श्रमम् ॥ ३९४ ॥
प्राप्तस्य पादयोस्तस्य पतितस्य पितामहौ ।
आनन्दाश्रुजलस्यन्दैरभिषेकं प्रचक्रतुः ॥ ३९५ ॥
पुत्रे तन्निकटं प्राप्ते कलश: कम्पिताशयः ।
अप्रियाचरणात्पित्रोः संघित्सुः स न्यवर्तत ॥ ३९६ ॥
स तस्य नगरात्पन्त्रीः पार्श्व प्राज्ञो व्यसर्जयत् ।
अकरोद्विप्ठते राष्ट्रे स्वभेदस्याप्रकाशनम् ॥ ३९७ ॥
एवं प्रवर्तमानेपि वैरे कलशभूपतिः ।
कंचित्कालं मते मातुरवर्तिष्ट मनागिव ॥ ३९८ ॥
खशालाः कलशादेशाधियासोः कम्पनापतेः ।
तया प्रावर्तितनतेर्मार्ग संत्याजितः पतिः ॥ ३९९ ॥
अवान्तरे शमयितुं वैरं देशोपघातकृत् ।
ताबुद्दिश्य पितापुत्रौ द्विजाः प्रायं प्रचक्रिरे ॥ ४०० ॥
संधिवन्धे समुत्पन्ने ततस्तदनुरोधतः ।
दंपती संप्रविष्टौ तौ सार्धं मासद्वयं पुरम् ॥ ४०१ ॥
जयानन्दादिबुद्ध्याथ वुद्धा बन्धोद्यतं सुतम् ।
भूयोपि ययतुः खेदान्निर्गत्य विजयेश्वरम् ॥ ४०२ ॥
तस्याश्वघासकूटानि पुत्रो रात्रावदाहयत् ।
व्यापादयत्पदातींश्च विषशस्त्राग्नियुक्तिभिः ॥ ४०३ ॥
तया प्रवर्धमानेपि विरोधे सत्यरोधयत् ।
२६७
वात्सल्यविवशा राज्ञी भर्तुः प्रतिचिकीर्पितम् ॥ ४०४ ॥
लुड्डाभिधाभूत्कैवर्तबन्धकी तद्विधेयधीः ।
थक्कडामरनामा च तजारः खलतिस्तदा ॥ ४५ ॥
स तन्नाम्नैव दुष्टात्मा कथ्यमानौ समीपगैः ।
शुश्राव पितरौ नित्यं लीलास्मितसिताननः ॥ ४०६ ॥
युग्मम् ॥
तौ दंपती पुनर्हेमतुलापुरुषयुग्मदौ ।
चित्राभिर्धर्मचर्याभिर्मनस्तापममुञ्चताम् ॥ ४०७ ॥
यदा पुनस्तयोर्दार्थमाढ्यत्वान्न व्यहीयत |
तदा सेर्ष्यः स दुष्पुत्रो रात्रौ वह्निमदापयत् ॥ ४०८ ॥
तेनाग्निनोर्वरीशस्य सर्वोपकरणैः : समम् ।
भस्सावशेषमभवद्विजयेश्वरपत्तनम् ॥ ४०९ ॥
१ तथा इत्युचितः पाठः । २६८ ( राजतरङ्गिणी
सर्वनाशशुचा दीना राशी मर्तु समुद्यता ।
तन्वङ्गपुत्रैश्चकृषे कथंचिज्ज्वलतो गृहात् ॥ ४१० ॥
त्यक्त्वांशुकानि शय्याभ्यो निशायां सुप्तमुत्थितम् ।
निःशेषं राजसैन्यं तद्जायत दिगम्बरम् ॥ ४११ ॥
तद्राजधानीसौधाग्रात्पश्यन्कलशभूपतिः
तोपादनृत्यज्ज्वालौघैर्गगनालिङ्गिभिः
अतरन्नष्टसर्वस्वः स पारं सरितो नृपः ।
।
समम् ॥ ४१२ ॥
निममज्ज सजानिस्तु दुस्तरे शोकसागरे ॥ ४१३ ॥
संप्राप्य प्रातरप्लुष्टं रत्नलिङ्गं नृपाङ्गना ।
व्यकीणाल्लक्षसप्तत्या जाकानां पूर्वमीयुषाम् ॥ ४१४ ॥
क्रीत्वा तत्प्रददौ पूर्व भृत्यानां भोजनांशुके ।
धनेन तेन निर्दग्धान्यपि धामान्यशोधयत् ॥ ४१५ ॥
भस्मर्कूलतलात्तावल्लब्धं स्वर्णादि भूभुजा ।
कथापि यावतो हन्त ग्रथयत्यद्य कौतुकम् ॥ ४१६ ॥
राजा शून्याटवीभूते पत्तने तत्र सानुगः ।
नडत्वग्ग्रथितच्छत्रपटलाच्छादितेवसत् ॥ ४१७ ।।
तावत्यप्यर्थसामर्थ्य चिकीर्षोस्तत्पुरं नवम् ।
विना राजोचितामाज्ञां न सिद्धं वृद्धभूपतेः ॥ ४१८ ॥
अदृष्टाभिभवो मातुरानुकूल्यान्नवो नृपः ।
परितापं पितुस्तैस्तैर्दुःसंदेशैः सदाकरोत् ॥ ४१९ ॥
निर्बन्धादथ पुत्रेण पर्णोत्सगमनं पिता ।
निर्वासनोत्सुकेनोक्तः शश्वदूतमुखैर्यदा ॥ ४२० ॥
प्रभवन्त्या यदा चासीत्पत्त्या तस्यैव वस्तुनः ।
निष्पत्तये प्रेर्यमाणः साधिक्षेपं क्षणे क्षणे ॥ ४२१ ॥
१ कूट इत्युचितः पाठः । २ छादितः इत्युचितः पाठः । सप्तमस्तरङ्गः ।
तदा जातु रहः कुप्यंस्तन्वङ्गे थक्कने स्थिते ।
उवाचानुक्तपूर्व तामेवं स परुषं वचः ॥ ४२२ ॥
तिलकम् ॥
२६९
अभिमानो यशः शौर्य राज्यमोजो मतिर्धनम् ।
मया जायाविधेयेन हन्त किं किं न हारितम् ॥ ४२३ ॥
मिथ्योपकरणं नारीर्गणयन्ति नृणां जनाः ।
परिणामे तु नारीणां क्रीडोपकरणं नराः ॥ ४२४ ॥
द्वेषोन्मेषात्प्रसक्ताभिर्विरक्ताभिरसूयया ।
के नाम नात्र कान्ताभिः कृतान्तस्यातिथीकृताः ॥ ४२५ ॥
रूपं काश्चिद्वलं काश्चित्प्रज्ञां काश्चिञ्च कार्मणैः ।
पुंस्त्वं काश्चिदसून्काश्चिद्भर्तॄणां जद्दुरङ्गनाः ॥ ४२६ ॥
हरन्ति ग्रावभिरिव क्ष्मां पुत्रैरन्यगोत्रजैः ।
मत्ताः पयोधरौन्नत्यात्तरङ्गिण्य इवाङ्गनाः ॥ ४२७ ॥
पर्यन्ते वेतनमिमे किं जीर्णैरीदृशैरिति ।
पोपयन्ति सुतान्भर्तृञ्शोषयन्ति तु योषितः ॥ ४२८ ॥
सर्वकालं विदित्वापि दोषान्योषित्कृतानमून् ।
प्रतिपत्त्यनुरोधेन मयेयं नावधीरिता ॥ ४२९ ॥
प्रभविष्णुर्निहत्येयमैहिकीः सुखसंपदः ।
परलोकसुखस्याशामपि हन्तुं ममोद्यता ॥ ४३० ॥
वलीपलितयुक्तस्य नेदीयोमरणावधेः ।
विहाय विजयक्षेत्रं कुत्र गन्तुं ममोचितम् ॥ ४३१ ॥
क्षपाकरकलामौलेः किल्विषक्षपणक्षमा ।
द्वारोपकण्ठसंसेवोत्कण्ठा कुण्ठीभवेस्कथम् ॥ ४३२ ॥
पुत्रो लोकद्वयत्राता कस्यान्यस्येदृशो भवेत् ।
तीर्थात्प्रस्थापयन्मां यत्कुपथे मृतमिच्छति ॥ ४३३ ॥
( राजतरङ्गिणी ।
प्रतिभात्यवगीतोयं प्रवादो मेद्य चेतसि ।
अनयान्यकुलोद्भूतो यदयं संप्रवेशितः ॥ ४३४ ॥
विसंवादिनमाकाराचारैर्वन्धुविरोधिनम्
पुत्रं पितुरसंस्निग्धं जानीयादन्यरेतसम् ॥ ४३५ ॥
सुचिराविष्कृताकृतां त्यक्त्वाप्राणाय यत्रणाम् ।
एवं वदन्पतिस्तस्याश्चक्रे मर्मसु ताडनम् ॥ ४३६ ॥
गोत्रजस्य पुरः पुत्रोत्पत्तिगुह्ये प्रकाशिते ।
आमृष्टविप्रियालापा साभूदधिकलजिता ॥ ४३७ ॥
महत्तमस्य पुत्रो हि प्रशस्ताख्यस्य सोभवत् ।
विपन्नापत्ययोपात्तस्तयेत्यासीजनश्रुतिः ॥ ४३८ ॥
उत्सिक्तभापितं भर्तुर्योपितो जितभर्तृकाः ।
जानन्त्यन्याङ्किसंवृत्तशिरस्ताडनसंनिभम् ॥ ४३९ ॥
अतः सा सुदृढं प्रौढिसंस्कारपरूपं वचः ।
प्राकृतप्रमदेवोच्चैरित्युवाच रुपा पतिम् ॥ ४४० ॥
गतश्रीस्तापसो मन्दो जातभाग्यविपर्ययः ।
वृथा वृद्धः क्व किं वाच्यमिति मूढो न वेत्त्ययम् ॥ ४४१ ॥
स्नात्वोत्थितस्य यस्यास्य नाभूत्प्रावरणं पुरा ।
लोको जानात्ययं किं न तेन मां प्राप्य हारितम् ॥ ४४२ ॥
स्वकुलस्त्रीसमुचितं यत्किचिन्मामभापथाः ।
क्रियते किं न कालोयं यत्प्रायश्चित्तसेवने ॥ ४४३ ॥
अकर्मण्यो गतवया देशात्पुत्रेण वारितः ।
पत्यापि व्यक्त इत्यस्मात्परिवादाद्धि मे भयम् ॥ ४४४ ॥
कुलदोषादिवृत्तान्तगर्भीपालम्भनिर्भरैः
।
वचोभिर्व्यथितस्तस्यास्तस्थौ तूष्णीं यदा नृपः ॥ ४४५ ॥
तदा तस्यासनप्रान्तनिःसृतः प्रसरन्बहिः ।
निर्विकाराकृतेर्व्यक्तं ददृशे रक्तनिर्झरः ॥ ४४६ ॥
संभ्रान्तायां ततो राश्यामपश्यत्थक्कनो रुदन् । '
असिधेनुं गुदे तेन क्रुधा राज्ञा प्रवेशिताम् ॥ ४४७ ॥
ततोतिधीरो राजैव तं लज्जाचकितोन्वशात् ।
राज्ञो रक्तातिसरणं जातमित्युच्यतां वहिः ॥ ४४८ ॥
विधेया नारीणां तनयनिहिताशेषविभवाः
कृतम्लानौ भृत्ये पुनरुदितवित्रम्भरभसाः ।
नयन्तो गण्यत्वं प्रसभम॑भियोगं लघुमरिं
२७१
नयत्यक्ताः क्षमापाः प्रलयमुपगच्छन्ति न चिरात् ॥ ४४९ ॥
नृपतिर्वाहितहयः शरदातपखेदितः ।
तृष्यन्निपीय धान्याम्वु च्युतासृग्जात इत्यभूत् ॥ ४५ ॥
गम्भीरै राजपुरुषैस्तथा वार्ता प्रवर्तिता ।
यथा नावुद्ध वृत्तान्तमेतं कोपि वहिर्जनः ॥ ४५१ ॥
युग्मम् ॥
वत्सरे सप्तपञ्चाशे पौर्णमास्यां स कार्तिके ।
विजयेशाग्रतो राजा जीवितेन व्ययुज्यत ॥ ४५२ ॥
पत्याः पुत्रस्य चोद्वेगैस्त्यक्तो राजा सुखोचितः ।
प्रसार्य पादौ निद्रातुं प्राप सोवसरं चिरात् ॥ ४५३ ॥
चुकोपासौ न कस्मैचिञ्चुकोपास्मै न कश्चन ।
चक्रे सुखी विमन्युश्च मरणेन महामनाः ॥ ४५४ ॥
संग्रामराजदायादो न कस्यचिदिव प्रियः ।
अंशुकाच्छादितो भूमावनाथ इव सोस्वपत् ॥ ४५५ ॥
१ अभियोगैः इति पाठ: स्यात् । २७२ राजतरंगिणी
न प्रियाक्रन्दितैः स्निह्यन्न कुप्यन्नप्रियोक्तिभिः ।
सर्वत्यागी ययौ राजा दीधैनिद्रारसन्ञताम् ॥ ४५६ ॥
दाक्षिण्योल्ल्ंघनप्रायश्चित्तायेव त्यजन्नसून् |
कृतग्यया पतिः पत्न्या ततो निन्ये सनाथताम् ॥ ४५७ ॥
आराजपुत्रचण्डालं देयं प्रत्यह वेतनम् ।
ददौ स्वस्थेव भरत्येभ्यः सा कर्तमनरणं पतिम् ॥ ४५८ ॥
गृहीतवेतना भ्रत्याः कोशम् सर्वे तया स्वयम् ।
पुरस्ताद्विजयेशास्य नसुः क्षेमाय पायिताः ॥ ४५९ ॥
पादन्यस्तशिराः पौञो ख्दन्नर्पितकोदाया ।
मूधैन्याघ्ाय कथितो मा पितुर्विश्वसीरिति ॥ ४६० ॥
उत्थितैव ततो भूत्वा स्वयमात्तरखुता सती ।
ग्रातिहार्य व्यधाद्धतः कारयन्त्यन्तमण्डनाम् ॥ ४६१ ॥
सादिनां शतमादिदय नसुस्तत्नैव रक्षणे ।
सा पुनः रिविकारूढमथ परास्थापयत्पतिम् ॥ ४६२ ॥
क्षपामेकां दिनार्धं च स््थित्वेवं पतिदेवता ।
अरणस्य विजयेशानं युम्यारूढा विनिर्ययौ ॥ ४६२ ॥
नियन्त वीक्ष्य तौ प्रेततूर्यकलललोकमिधरितैः ।
ोकस्याकन्दतुसुरेभैन्ना इव दिशोभवन् ॥ ४६४ ॥
विमानस्योत्पताकस्य परिप्कारेषु विभ्विताः ।
प्रजा राज्ञोन्तिके रेजुरनुगन्तुमिवोद्यताः ॥ ४६५ ॥
राज्ञां वितीर्णस्कन्धानां मरुहोखाः शिरोरुहाः ।
विमानस्थस्य अपतेरवदंश्चामरभियम् ॥ ४६६ ॥
पयन्ती पथिमां सेवां सेन्यानां खृपतिभिया ।
अस्ताभिलापिणि दिने प्रपेदे पितृकाननम् ॥ ४६७ ॥
दुस्त्यजात्सुतवात्सल्याद्यद्रा केनापि हेतुना ।
सा वभूव क्षणे तस्मिस्तनयाखोकनोत्खुका ॥ ४६८ ॥
जानन्ती पवनोद्धूतं रजः सेनासमुत्थितम् ।
चकितोत्कण्ठिता साभूत्कलशागमनाशया ॥ ४६९. ॥
तस्मिन्क्क्षणे जनाः केचिद्ायाता नगराध्वना ।
अङ्ग कि कलाः प्राप्त इति प्ृष्रास्तया स्वयम् ॥ ४७० ॥
स तु पुत्रः क्षणे तस्मिन्यियासुमार्तुरन्तिकम्।
दत्वा विभीपिकास्तास्ता निरुद्धो दैधकारिभिः ॥ ४७१ ॥
ततो गृहीतनैराश्या राज्ञी पुत्रावलोकने ।
सा प्रार्थयित्वा वैतस्तं वारि श्लओक ४७२ ॥
वैतस्तेन तु तोयेन जठरस्थेन ये मृताः ।
मोक्षं गच्छन्तयसदेहं ते यथा ब्रह्मवादिनः ॥ ४७३ ॥
उपनीतं वितस्ताम्बु पीत्वोपस्पर्स्य चाथ सा।
एवं शाप पिद्युनान्सेद संक्षयकारिणः ॥ ४७४ ॥
जनितं प्राणहदेरं यैः पुत्रेण सहावयोः
सान्वयानां क्षयस्तेपां भूयात्परिमितेर्दिनैः ॥ ४७५ ॥
तस्यास्तेनोपतन्नायाः शापेनाव्यभिचारिणा
क्षिप्रमेव जयानन्द्जिन्दुराजादयो मृताः ॥ ४७६ ॥
चक्रे हलधराप्तत्वजातकौलीनसशान्तये ।
परलोकं पणीकृत्य युक्त्या च शपथम् सती ॥ ४७७ ॥
एवं विश्युद्धशीलत्वं संप्रकाश्य सुचिस्मिता ।
कर्णीरथाददाज्झम्पां ज्वलिते जातवेदसि ॥ ७७८ ॥
अजायत नभो वहिलञ्वालावटयमालितम् ।
तदागमोत्सवे दत्तसिन्दूरमिव निर्जरैः ॥ ४७९ ॥
३५
साक्रन्दैर्न चटत्कारी दुःखोत्तत्पैर्न चोष्मलः ।
परमालेख्यलिखित इव जज्ञे शिखी जनैः ॥ ४८० ॥
गङ्गाधरष्टक्किवुद्धो युम्यवाहश्च दण्डकः ।
तावुद्दा नोनिका वल्गा चेति दास्यस्तदान्वयुः ॥ ४८१ ॥
बप्पटोद्भटयोः कुल्यौ सोनटक्क्षौमटावुभौ ।
भूपालवल्लभावास्तां वैराग्याद्विजयेश्वरे ॥ ४८२ ॥
भावा यत्र निसर्गभंगुरतरास्तिष्ठन्ति नैते चिरं
चेतःकाचघटरस्य तस्य घटते दीर्घोयमेको गुणः ।
यत्तस्मिन्निहितप्ररूढि न गरुत्यायाति न म्लानतां
धत्ते नापचयं चमत्कृतिवचोगीर्वाणगंगापयः ॥ ४८२ ॥
एकपष्तिमतिक्रम्य वपोन्भूपतिरायुषः ।
सपत्निकः पुरारातिगौरीसायुज्यमासदत् ॥ ४८४ ॥
अथास्थीनि समादाय चतुर्थे दिवसे तयोः ।
पुत्रास्तन्वंगराजस्य सर्वे गङ्गां प्रतस्थिरे ॥ ४८५ ॥
पैतामहेन कोशेन परिवारेण चान्वितः ।
पित्रा विरोधं जग्राह हर्षस्तु विजयेश्वरे ॥ ४८६ ॥
आद्ये पिता पुत्रवरे पिता श्रीविजयेश्वरे ।
तस्मिन्पुत्रस्तु तत्रासीत्पिता तु नगरान्तिके ॥ ४८७ ॥
ततोतिव्ययिनं पुत्रं दरिद्रो नीतिमान्पिता ।
अभ्यर्थ्यानर्थभीतश्च संधि दूतैरयाचत ॥ ४८८ ॥
स तैरसकृदायातैरुत्सिक्तो युक्तवादिभिः ।
राजपुत्रः समं पित्रा संधि निन्ये कथंचन ॥ ४८९. ॥
रक्षां पैतामहे कोशो शरीरे चात्मजन्मने ।
प्रतिशुश्राव "जनकः कृतप्रत्यहवेतनः ॥ ७९.० ॥
</poem>}}
नृपते पुत्रमानेतुं विशतो विजयेश्वरम् ।
दृष्टिः प्लुष्टैर्गृहैर्दग्घा श्रुतिश्च जनगर्हया ||४९१||
स पीतकोशः संगृह्य तनयं प्राविशत्पुरम् ।
कोशं चास्थापयन्मुद्रां दत्वा तदभिधांकिताम्॥ ६९२ ॥
अत्रान्तरे तस्य राज्ञो धार्मिकी धीरजायत ।
दारिद्यच्छेदिनी धर्म्या धनवृद्धिश्च सर्वतः ॥ ४९२ ॥
तनयो नयनाख्यस्य कल्यः सेल्यपुरौकसः ।
कुटुम्बिनो जय्यकाख्यः कमाडुमरतामगात् ॥ ४९४ ॥
स्थूलोत्पत्तिः स दिग्देशाविकीतान्नो वणिज्यया ।
संभृतार्थ शनैर्लुब्धो धनेशास्पर्धितां दधे ॥ ४९५ ॥
सार्धं कोशं खनित्वा स नित्यं दीन्नाररारिभिः।
पूरितायाः क्षितेः पृष्ठे बहन्व्रीहीनवापयत् ॥ ४९६ ॥
दीन्नारम्यसनं भृत्यै कारयित्वा पतिक्षपम् ।
बहवो भेदभीतेन तेन गूढं निपातिताः ॥ 2९७ ॥
स भांगिलं लब्धुमिच्छन्वलेकस्मात्पलायिते ।
द्राक्षालतानिरुद्धाश्वो हतः केनापि पत्तिना ॥ ४९८ ॥
तदीयेनोपलब्धेन धनेन वशुधातलात् ।
पर्याप्तेनात्यजद्राजा यावदायुर्दरिद्रताम् ॥ ४९९. ॥
समृत्सु क्षाल्यमानेषु तदीन्नारेष्वहर्निराम् ।
कलषाम्भा बहून्मासान्वितस्ता समपद्यत ॥ ५०० ॥
दानोपभोगरदिताः काले क्लेशेन भूयसा ।
अन्यार्थमर्थात्रक्षन्ति चित्रं लुब्धा महारयाः ॥ ५०१ ॥
प्राणान्धारयते निपीय मरूतः शेते तमोन्धे विले
संभोगे परदत्तमिच्छति पटं नग्नस्त्रपाशान्तये ।
विस्तार्येति कदर्यतामहिरवत्यन्यस्य हेतोर्निधि
न्नान्यः कोपि परं परोपकृतिपु भोढोस्ति द्युव्धं विना॥५०२॥
अन्यैश्च वहुभिमार्गैनद्यः सिन्धुमिवाविशन् ।
नानाथसंपदस्तास्ता भाग्यभाजं महीभुजम् ॥ ५०३ ॥
अथौ भाग्योदये जन्तुं विशन्ति रातशः स्वयम् ।
दिग्भ्योभ्युपेत्य सर्वाभ्यः सायं तरुमिवाण्डजाः ॥ ५०४ ॥
स्रोतांसि प्रव्त्मेलय वसुधां मूटेषु पुप्णन्त्यधो
व्योम्रोम्भः पतति त्यजन्ति हरितो वारि प्रणालीमुखैः ।
इत्थं शुष्कसरः पयोदसमये संपूयैते स्वतो
भाग्यानामुदये विशन्ति दातशो द्वेन कैः संपदः ॥५०५॥
जनरक्चषणदाक्षिण्ये ततः पितुरिवान्वहम् ।
कुशला कलशस्यासीत्प्रजापुण्योदयेर्मतिः ॥ ५०६ ॥
स्वयं बणिगिवाथौनां गणनाङुरालोपि सः ।
विवेक्ता सत्पथत्यागे सुक्तहस्तः सदाभवत् ॥ ५०७ ॥
उपस्थितौ भाविनो च पश्यन्नायव्ययो स्वयम् ।
अन्तिकान्नात्यजद्भुर्जखटिकादि नियो गिवत् ॥ ५०८ ॥
तस्य स्वरूपमूल्येन रत्नादि क्रीणतः स्वयम् ।
नाराकन्वञ्चनां कतुं केपि विक्रयकारिणः ॥ ५०९ ॥
त्रिवर्ग सेवमानः स विभज्य समयं सुखी ।
मध्याहादू्वमभवददश्यः सर्कायिर्णम् ॥ ५२० ॥
तस्य स्वेपाम् परेषां च कृत्यमन्विप्यतश्चरेः ।
अज्ञातः स्वप्नवृटत्तन्तः प्रजानामभ्रवद्यदि ॥ ५९११ 1॥
स्ववेश्मेव गृहस्थस्य ध्यायतश्चास्य मण्डलम् ।
जनो जनपदे जातु न कश्चिदैन्यमस्पृरात् ॥ ५९२ ॥
सप्तमस्तरङ्गः ।
कौलीनचकितो राजा कुर्वन्कण्टकशोधनम् ।
प्रकटं नात्यजद्दण्डं चौरेभ्योपि स जातुचित् ॥ ५१३ ॥
न तस्यार्थः कोपि नष्टो मन्त्रिणो यमयोजयन् ।
मत्रिणां स पुनश्चक्रे नष्टस्यार्थस्य योजनम् ॥ ५१४ ॥
विवाहयशयात्रादिमहोत्सवशताकुलः ।
नित्यप्रहृष्टो निर्देन्यस्तद्राज्ये दहशे जनैः ॥ ५१५ ॥
तेन नीतिविदाक्रान्ताः क्षमाभुजः क्षित्यनन्तराः ।
आहाराचरणेप्यासंस्तद्ध्यक्षान्विनाक्षमाः ॥ ५१६ ॥
तन्वङ्गस्थस्थक्कनादींस्त्रीनायातान्दिगन्तरात्
व्ययितैकानुजान्मल्लप्रमुखान्गुङ्गजानपि ॥ ५१७ ॥
अप्रीणयद्वन्धुभृत्यान्स भव्याभिर्विभूतिभिः |
कलाभिरमृतार्द्राभिः सोमः सुरपितॄनिव ॥ ५१८ ॥
।
युग्मम् ॥
अवाप्तपरिपाकोपि दौःशील्येन न भूपतिः ।
कुदैशिकोपदिष्टेन दुष्टाचारेण चोज्झितः ॥ ५१९ ॥
टक्केन बुल्लियाख्येन कन्यकाः समुपाहृताः ।
क्रीतास्तस्य तुरुष्केभ्यो नानादिग्देशसंभवाः ॥ ५२० ॥
स ताभिः परदारैश्च रूपलोभादुपाहृतैः ।
अवरोधपुरंध्रीणां द्वासप्ततिमढौकयत् ॥ ५२१ ॥
बह्वीः कामयमानस्य योषितः प्रतिवासरम् ।
मत्स्ययूषादिभिर्वृष्यैर्नास्य पुष्टिरहीयत । ५२२ ॥
महासमयपूजास्वव्यग्रः स गुरुभिः समम् ।
महाचरूणामाहारं नीतिमुत्सृज्य चाकरोत् ॥ ५२३ ॥
. १ जनः इत्युचितः पाठः । २७८ राजतरङ्गिणी
एवं शवलकृत्येन पुरं तेन नवीकृतम् ।
निर्दग्धे विजयक्षेत्रे शिलावेईमान शूलिनः ॥ ५२४ ॥
विजयेशशिलावेश्ममौलावातपवारणम् ।
नृपोम्बरशिरश्रुम्बि जाम्बूनदमयं व्यधात् ॥ ५२५ ॥
व्यवस्थितिं चानपायां व्यधत्त त्रिपुरेश्वरे |
पिनाकिनश्च प्रासादं स स्वर्णामलसारकम् ॥ ५२६ ॥
ततः सत्कर्मकुशलश्चकार कलशेश्वरम् ।
निःसंख्यहाटकघटीपटलाङ्कशिलागृहम् ॥ ५२७ ॥
कलशेशोपरिच्छत्रं चिकीर्पोः काञ्चनाञ्चितम् ।
तुरुष्कदेशजः शिल्पी राशोभ्यर्णमुपाययौ ॥ ५२८ ॥
सहस्रैर्भूरिभिर्हेम्नश्छन्त्रसिद्धिं वदन्कलाम् ।
स च्छादयन्निजां ताम्रे काञ्चनारोपणं विदन् ॥ ५२९
कानिचिद्दिवसान्यासीत्प्राप्नुवन्नृपसत्क्रियाम् ।
ततोतितीक्ष्णप्रज्ञेन नोनकाख्येन मन्त्रिणा ॥ ५३० ॥
अभ्यूह्य शिक्षितकलो विलक्षोगाद्यथागतम् ।
तच्च च्छन्त्रं ययौ सिद्धिमत्यल्पैरेव काञ्चनैः ॥ ५३१ ।।
अनन्तेशाभिधं वाणलिङ्गमन्याश्च भूपतिः ।
प्रतिष्ठा विविधाश्च स शक्राधिकवैभवः ॥ ५३२ ॥
नृपे सहजपालाख्ये शान्ति यातेभ्यषिच्यत ।
ततः संग्रामपालाख्यो राजपुर्या तदात्मजः ॥ ५३३ ॥
राज्यं जिहीर्षुर्वालस्य पितृव्यस्तस्य भूपतेः ।
भेजे मदनपालाख्यो बलीयानुद्यमं मदात् ॥ ५३४ ॥
तद्भयाच्छरणं प्रायान्नृपं साहायकार्थिनी ।
स्वसा संग्रामपालस्य जस्सराजश्च ठक्कुरः ॥ ५३५ ॥
१ वेश्म च इत्युचितः पाठः । २७९ सप्तमस्तरङ्गः ।
कृतप्रसादो नृपतिः साहायककृते ददौ ।
तयोः पश्चाजयानन्दं शूरैर्विजादिभिः समम् ॥ ५३६ ॥
तत्र विद्रावितामित्रः संस्फूर्जत्क्रान्तमण्डलः ॥
संग्रामपालामात्यानां कार्यान्तेशक्यतां ययौ ॥ ५३७ ॥
काङ्क्षन्तो गमनं तस्य दत्त्वा तास्ता विभीषिकाः ।
ते त्रासमैच्छन्नाधातुं स वीरो न त्वकम्पत ॥ ५३८ ॥
मतिं राजपुरीयाणामसावेतामदादिति ।
शङ्कमानेन तेनाथ विजे मन्युरुपाहृतः ॥ ५३९ ॥
तैस्तत्र दत्तद्रविणैः प्रार्थितोथ महामतिः ।
रक्षापदेशात्स्वं सैन्यं स्थापयित्वा न्यवर्तत ॥ ५४० ॥
एवं राजपुरीं तस्मिन्स्वीकृत्यान्तिकमागते ।
तुतोष कार्यमर्मज्ञः प्राज्ञः कलशभूपतिः ॥ ५४१ ॥
क्रमाद्राजायमानेषु विजादिष्वथ पस्पृशे ।
आमयेन जयानन्दो दैवात्प्रमयहेतुना ॥ ५४२ ॥
स्वास्थ्यवार्तोपलम्भाय भूपति गृहमागतम् ।
वाच्यमस्ति रहः किंचिदित्यूचे स कथान्तरे ॥ ५४३ ॥
निर्यातेष्वथ सर्वेषु किंचिन्नैवाब्रवीद्यदा |
तदा ताम्बूलतित्यक्षाव्याजाद्विज्जो विनिर्ययौ ॥ ५४४ ॥
आप्तेनोक्तोपि निर्गच्छन्कि प्रयासीति भूभुजा ।
मन्त्रिणा चैत्य स प्राज्ञो बहिरेव व्यलम्बत ॥ ५४५ ॥
जयानन्दोभ्यधाद्भूपमुक्त्वा राजपुरीकथाम् ।
व्यक्तं नास्त्येव ते राज्यं विजे वृद्धिमुपागते ॥ ९४६ ॥
आदीयमानाद्विजेन कार्येभ्यो वेतनापि ।
दर्शयामास गणनां बहुमूल्यां महीभुजे ॥ ५४७ ॥
राजतरङ्गिणी
प्राप्तः कलुपतां राजा प्रयातः स्वगृहांस्ततः ।
याचितो गमनानुज्ञां विजेनेङ्गितवेदिना ॥ ५४८ ॥
निषेधन्निव दाक्षिण्यलेशान्निर्बन्धकारिणः ।
तस्यानुज्ञां ददौ गन्तुं सान्तस्तोषो महीपतिः ॥ ५४९ ॥
लब्धादेशो गृहान्गत्वा सर्वोपकरणैः समम् ।
प्रस्थाप्य सोग्रतो भ्रातॄनाप्रष्टुं नृपतिं ययौ ॥ ५५० ॥
राजधर्मगभीरत्वक्रूरयोः स्वामिभृत्ययोः ।
काचिदेव क्षणे तस्मिंश्चेष्टाभूदद्भुतावहा ॥ ५५१ ॥
न यत्प्रभुः प्रियं भृत्यं गमनात्स न्यवर्तयत् ।
उपालेभे समन्युश्च न यद्भृत्यः प्रियं प्रभुम् ॥ ५५२ ॥
सहोत्थितेन कतिचित्पदानि सह भूभुजा ।
चिरं कृत्वा कथां नीचैर्हसन्विजो विनिर्ययौ ॥ ५५३ ॥
जिन्दुराजं हलधरो मुमूर्षुर्दूपयन्यथा ।
तथा विजं जयानन्दः स व्यवारोपयत्पदात् ५५४ ॥
तल्लक्ष्मीमात्रशेषां क्ष्मां कृत्वा गच्छन्विधीयताम् ।
हृतार्थी विज इत्युक्ति नाग्रहीन्मत्रिणां नृपः ॥ ५५५ ॥
निवर्तयिष्यति क्षमाभृन्नियतं गमनामुम् ।
इत्याशयान्वगाद्विजं राजवर्ज जनोखिलः ॥ ५५६ ॥
आस्कन्दं शङ्कमानोस्थाद्विजावाजा बलोर्जितात् ।
तृणस्पन्देपि चकितो निर्निद्रः पञ्च यामिनीः ॥ ५५७ ॥
तस्मिञ्शूरपुराद्याते निवृत्तेष्वनुगन्तृषु ।
निवृत्तशङ्कस्तां शङ्कां प्रादुश्चक्रे स मन्त्रिणाम् ॥ ५५८ ॥
ते तदाकर्ण्य यं मन्त्रं विजार्थहरणेब्रुवन् ।
तस्याविधाने भूभर्तुरमन्यन्त नयज्ञताम् ॥ ५५९ ॥
विज्जादयस्तु निर्द्रोहा यं यं देशमशिश्रयन् ।
त्तत्र तत्रैव पूज्यत्वं रत्नानीव प्रपेदिरे ॥ ५६० ॥
विज्जोधिकं प्रवृद्धोपि दैवतस्येव भक्तिमान् ।
पभ्द्यां कलशदेवस्य सत्यंकार: सदाभवत् ॥ ५६१ ॥
एवं निर्वास्य विज्जादीनचिरावाप्तवैभव: ।
क्षिप्रं सूर्यमतीशापाज्ज्यानन्दः क्षयं ययौ ॥ ५६२ ॥
राज्ञो विरोधकृद्वक्तुं शापस्याव्यभिचारिताम् ।
प्रमयं जिन्दुराजोपि तस्मिन्नेव क्षणे ययौ ॥ ५६३ ॥
तेपि विज्जादय: क्षिप्रमचिरावाप्तसंपदः ।
प्रापुः शापोचितं सर्वे प्रमयं गौडमण्डमले ॥ ५६४ ॥
आकस्मिकेथ प्रमये विज्ज: प्रमयमाययौ ।
सुदीर्घवन्धनक्लेशं प्रापुस्तदनुजा अपि ॥ ५६५ ॥
पलायितेषु कारायास्तेषु व्याघ्रेण पाजकः ।
हतस्तदनुजाः शेपा भुक्तङ्केशाः क्षयं ययुः ॥ ५६६ ॥
द्दित्रास्तव्द्दैधकाराणां नानश्यन्मदनादयः ।
अदीर्घेणैव कालेन दुरन्तैर्यैर्भविप्यते ॥ ५६७ ॥
जयानन्दसहायोथ तत्पुत्रान्परिपालयन् ।
सर्वाधिकारे भूपेन वामनाख्यो व्यधीयत ॥ ५६८ ॥
यस्य तास्ता व्यवहृतीर्नीतिज्ञस्याभ्दुतावहाः ।
वर्णयन्ति वयोवृद्धा गोष्टीष्वद्यापि धीमताम् ॥ ५६९ ॥
ग्रामानवन्तिस्वाम्यादिभोग्यानाहृत्य लुब्धधीः ।
राजा कलशगञ्जाख्यं कर्मस्थानं विनिर्ममे ॥ ५७० ॥
मन्त्रिणे नोनकायासौ ध्रनोत्पादविदेप्यदात् ।
कौर्यत्रस्तो न पादाग्रं जनरक्षणदक्षिणः<poem>
३६ ।।
</poem>
मन्त्रिणो राजकलशापत्यान्यत्यन्तरङगताम् ।
लेभिरे क्ष्माभुजः पार्श्वे प्रशस्तकलशदयः ॥ ५७
सुताः स्वाच्छन्द्यविवशाश्चौरः संध्यादिसंश्रयाः ।
युक्त्या निदधिरे राज्ञा निबद्धस्वाधिकारिणः ॥ ५७३ ॥
पुनर्मदनपालेन क्रान्ते राजपुरीपतौ ।
साहायकाय व्यसजत्सेनान्यं बप्पटं नृपः ॥ ५७४ ॥
प्रतापैर्भुपतेस्तेन भत्यांशेनापि निर्जितः ।
बध्द्वा मदनपालोपि कश्मीरान्संप्रवेशितः ॥ ५७५ ॥
भ्राता वराहदेवस्य कंदर्पाख्यो महीभुजा ।
कृतो द्वाराधिपो वीरो विदधे डामरक्षयम् ॥ ५७द ॥
वभूव जिन्दुराजात्स शिक्षितो नयविक्रमौ ।
भूम्यनन्तरसामन्तमुकटस्पृष्टशासनः ॥ ५९७७ ॥
स राजपुर्यादिजयी द्वारं परमकोपनः ।
क्षणे क्षणेत्यजद्राज्ञा प्रसाद्य ग्राहितः स्वयम् ॥ ५७८ ॥
मदनः क्षितिपालेन प्रापितः कम्पनेशाताम् ।
लब्धप्रकर्षान्वोपादीन्डामरान्बहुशोवधीत् ॥ ५७९ ॥
सेवावशीकृतः श्येनपालं स नगराधिपम् ।
चक्रे विजयसिंहाख्यं हतारोषमलिम्लुचम्॥ ५८० ॥
कंदर्पोदयसिंहाद्यैः प्रहिते लोहरेसकृत् ।
राजा भुवनराजस्य दूरं निःसारणं व्यधात् ॥ ५८१ ॥
कीर्तिराजस्य तनयां स च नीलपुरप्रभो: ।
लब्ध्वा भुवनमत्याख्यां रिपोरिछन्नामयोभवत् ॥ ५८२ ॥
कार्यप्रतिग्रहे कर्तुं प्रवृत्तिं ग्रहितोभवत् ।
हृत्वा विजयसिंहाद्यो नृपेण नगरेशताम् ॥ ५८३ ॥
गुङगात्मजः स मल्लोथ तेन द्वारपतिः कृतः ।
राज्ञां मौोलिमणिस्थाने स्वप्रतापमरोपयत् ॥ ५८४ ॥
युग्मम्||
शौर्यं निष्परिवारस्य पार्थस्योत्तरगौग्रहे ।
उरशासंप्रवेशो वा श्रुतं मल्लस्य मानिनः ॥ ५८५ ॥
पञ्चाशैस्तुरगैर्यत्स कृष्णां तीर्त्वा व्यपाहरत् ।
राज्यं वाजिव्रजैः सार्धामभयाख्यस्य भूभुजः ॥ ५८६ ॥
एवं वशीकृतभवो भूपतेर्नयवेदिनः
सममेवाष्ट भूपालास्त्रिषप्टेब्देविशन्पुरम् ॥ ५८७ ॥
कीर्तिन्यर्ध्वपुरधीशश्चाम्पेयो भूभृदासटः ।
तुक्कात्मजस्तु कलशो वल्लापुरनरेश्वेरः ॥ ५८८ ॥
राजा संग्रामपालाख्यः स च राजपुरीपतिः ।
उत्कर्षो लोहरोर्वीभृदौर्वशो मुङगजो नृपः ॥ ५८९ ॥
गाम्भीरसीहः कान्देशः काष्टवाटधराधिपः ।
श्रीमानुत्तमराजोपि राजानमुपतस्थिरे ॥ ५९० ॥
तिलकम् ॥
राजलोकः प्रवृध्दोपि घने जनपदेभवत् ।
दुर्लक्ष्यो वार्पिकसरित्पूरो वारिनिधाविव ॥ ५९१ ॥
तस्मिन्क्षणे शिलीभूतवितस्तासलिले नृपैः ।
शीतक्षणेप्यसंक्षीणं सुखं तैरन्वभूयत ॥ ५९२ ॥
मनसापि हि भूपाला यत्ते किंचिदचिन्तयन् ।
प्राप्तमेव पुरोपश्यन्वामनेन तदाहृतम् ॥ ५९३ ॥
कौशलं मन्त्रिणस्तस्य रराजेतरदुर्लभम्।
निमित्तं तद्संभ्रान्तो नित्यवद्योत्यवाहृयत् ॥ ५९४ ॥
पार्थिवेष्वथ यातेषु मल्ले कार्यपराङ्मुखे !
क्षितिपालेन कंदर्पो द्वारं स्वीकारितः पुनः ॥ ५९५ ॥
अभिमानधनो मन्त्री कृतारब्धिर्निजैर्धनैः ।
दुंर्ग स स्वापिकं नाम युक्तया दुर्ग्रहमग्रहीत् ॥ ५९६ ॥
स प्रविष्टोपि नगरं खिन्नः केनापि हेतुना ।
पार्थिवाभ्यर्थ्यमानोपि कांर्य नैवाग्रहीद्यदा ॥ ५९७ ॥
तदा प्रशस्तकलशं नित्यं दूत्यं समाचरन् ।
तदुत्सिक्तोक्तिसंतप्तः संस्पृशन्नभिमानिताम् ॥ ५९८ ॥
निजश्रियातिभूयस्या भूरीन्संगृह्य शस्त्रिणः ।
तत्पदे रत्नकलशं स्वभ्रातरमकारयत् ॥ ५९९ ॥
सोर्थैः क्रितप्रथोप्यासीन्न कंदर्पसमः क्वचित् ।
कि चित्रोल्लिखितः सिंहः सत्यसिंहक्रियां स्पृशेत् ॥ ६००॥
ततः क्रमेण भूभर्त्रा भृत्यरत्नं कथंचन ।
राजस्थानाधिकारं स नगरे ग्राहितः पुनः ॥ ६०१ ॥
अतिताडनतश्चौरे विपन्नेथ कृपाकुलः ।
त्यक्त्वा तमप्यधीकारं विपण्णो जाह्नवीमगात्॥ ६०२ ॥ |
पटान्तकृतसंरोधस्ताडयित्वा करं प्रभोः ।
कोपाद्देशान्तरं यातस्तं प्रत्यास्ते स्म मन्युमान् ॥ ६०३ ॥
अत्यन्तस्त्रेदितोप्यासीदानीतस्यान्तिकं पुनः ।
दर्पं हर्तुं नृपस्तस्य संनद्धो न तु जीवितम् ॥ ६०४ ॥
इत्थं पुरुषसिंहानां प्रौढदार्ढ्यो विसोढवान् ।
आरोदमवरोहं च सोन्तरज्ञः क्षमापतिः ॥ ६०५ ॥
उपाङ्गगीतव्यसनं नर्तकीसंग्रहादरः ।
देशान्तरोचितं राज्ञा तेनैवेह प्रवर्तितम् ॥ ६०६ ॥
ततो जयवनोपान्ते निरन्तरमहागृहम् ।
स्वनामा पुरं कर्तुं प्रावर्तत विशांपतिः ॥ ६०७ ॥
मठाग्रहारप्रासाद्महागृहपरम्पराः |
सतोयोपवनास्तत्र ययुः सिद्धिं सहस्रधा ॥ ६०८ ॥
अत्रान्तरे राजसूनुर्हर्पः सोत्कर्षपौरुषः ।
गुणैलेंभे प्रकाशत्वमन्यभूपालदुर्लभैः ॥ ६०९ ॥
सोशेपदेशभाषाज्ञः सर्वभापासु सत्कविः ।
कृत्स्नविद्यानिधिः प्राप ख्याति देशान्तरेष्वपि ॥ ६१० ॥
लुब्धेन पित्रा संत्यक्ता जना नानादिगागताः ।
गुणशौर्योज्वलास्तेन गृहीताः कृतवेतनाः ॥ ६११ ॥
अपर्याप्ते पितृकृते वेतने व्ययशालिनः ।
एकाहान्तरितं तस्य भोजनं त्यागिनोभवत् ॥ ६१२ ॥
पितरं गायन इव व्यक्तं गीतैः स रञ्जयन् ।
अर्तव्यभरणं चक्रे तहत्तैः पारितोषकैः ॥ ६१३ ॥
उद्गायति पुरस्तस्मिन्कदाचिदथ पार्थिवः |
सभ्येषु प्रीयमाणेषु शौचायोत्थाय निर्ययौ ॥ ६१४ ॥
तेन प्रसङ्गभङ्गेन जाततेजोवधः सुधीः ।
क्षुभ्यन्वैलक्ष्यकोपाभ्यां कुमारः क्षितिमैक्षत ॥ ६१५ ॥
प्रभुर्वीतक्षान्तिः सुहृदतिशठः स्त्री परुषवा-
क्सुतो गर्वोन्नद्धः परिजन उदात्तप्रतिवचाः ।
इयान्सोढुं शक्यो ननु हृदयदाही परिकरो
न तु श्रोतावशालुलितनयनान्तं परिभवन् ॥ ६१६ ॥
२८५ २८६ राजतरङ्गिणी
पितुरेव तदा भृत्यो विश्शावट्टाभिधो विटः ।
शाधि राज्यं निहत्येमं नर्मणेवेत्युवाच तम् ।। ६१७ ।।
अधिक्षिपन्स तं रोषान्नानेनोक्तमसांप्रतम् ।
इत्यासन्नेन हसता धम्मटेनाप्यकथ्यत ॥ ६१८ ॥
अग्रे भोगेच्छवश्छन्ना: कुमाराननुगान्पितुः ।
स्नेहं प्रदर्श्य स्वीकुर्युर्वेश्याः कमिसखीरिव ॥ ६१९ ॥
पुनः सभां संप्रविष्टस्तं पिता पर्यतोषयत् ।
प्रीतिदायैस्ततस्तैस्तैः साधुवादैश्च मोनिनाम् ॥ ६२० ॥
अन्येस्तु पितुः पार्थ्यात्स भुक्त्वा स्वगृहान्गतः ।
अभ्येय विश्शावट्टेन तदेव जगदे रहः ॥ ६२१ ॥
उपपन्नं तत्तदुक्त्वा तेनाभीक्ष्णं निषेधता ।
निर्बघ्नन्नपि हस्तेन सोथ कोपादताड्यत || ६२२ ॥
लग्नाभिघातं रुधिरं वमन्तं घ्राणवर्त्मना ।
तं वीक्ष्य सोभिजातोभूत्सदाक्षिण्यो नृपात्मजः ॥ ६२३ ॥
भृत्यैः प्रक्षालयन्नस्रं तस्येदृक्पाप्मनो भवेत् ।
उक्तेनापीति कथयन्स्मित्वा वासांस्यदापयत् ॥ ६२४ ॥
अनिच्छोरपि तस्येच्छा दानात्तेनान्वमीयत ।
दुःशीलेनान्यकामिन्याः स्मितमात्रादिव स्पृहा ॥ ६२५ ॥
असकृत्कृतयत्नः स ततः कालेन भूयसा ।
तं प्रैरयत्तत्र कृत्ये मध्ये स्वीकृत्य धम्मटम् ॥ ६२६ ॥
स रोहद्रोहसंकल्पजन्मना पाप्मना श्रितः ।
संमत्र्य पितरं हन्तुं तीक्ष्णान्प्रायुङ्क सर्वतः ॥ ६२७ ॥
१ कामिसखीनिव इत्युचितः पाठः | २ मानिनम् इत्युचितः पाठः | सप्तमस्तरङ्गः ।
शश्वत्स गोचरीभूतस्तेषां स्नेहलवस्पृशाम् ।
न घातितः सूनुना च वर्जिता न च तत्कथा ॥ ६२८ ।।
आप्तत्वं तीक्ष्णवर्गेथ प्रतिभेदभागते ।
तां विश्शावट्ट एवाशु वार्ता राज्ञे न्यवेदयत् ॥ ६२९ ॥
बुद्धवान्राजपुत्रस्तत्तस्मिन्नहनि जातभीः ।
भोक्तुं नागात्पितुः पार्श्वमपि दूतैः कृतार्थनः ॥ ६३० ॥
सोपि तस्मिन्ननायाते तत्रार्थे शान्तसंशयः ।
२८७
दिने तत्र मनस्तापान्नाभुङ्ग सपरिच्छदः ॥ ६३१ ॥
सभ्रातृकस्य प्राप्तस्य प्रातर्दुःखं न्यवेदयत् ।
सुचिरं थक्कनस्याङ्केशिरो विन्यस्य सोरुदत् ॥ ६३२ ॥
उक्त्वा च धम्मटोदन्तं बुद्ध्या तस्य समर्पणम् ।
विधेहीत्यभ्यान्नापि तं अङ्गीभणितिक्रमैः ॥ ६३३ ॥
न कृताधिगमावावां कृत्यस्यास्येत्युदीर्य ताम् ।
अभाषेतां भ्रातुरर्थे पुनस्तन्वङ्गनन्दनौ ॥ ६३४ ॥
त्वत्प्रसादबलाद्राजन्नापन्नत्राणदीक्षितौ ।
यावावां तत्प्रवेशार्थं व्यक्तद्वारं निशास्वपि ॥ ६३५ ॥
कथं नु पृथिवीपाल प्राप्ते प्राणात्ययक्षणे ।
निर्दोषो वा सदोषो वा ताभ्यां संत्यज्यतेनुजः ॥ ६३६ ॥
युगलकम् ॥
स्वामिद्रोहापवादश्च भवेत्तद्रक्षणाद्ध्रुवम् ।
देशत्यागं तदुत्सृज्य शरणं नान्यदावयोः ॥ ६३७ ॥
१ निवेदयन् इत्युचितः पाठः | २ बद्धा इत्युचितः पाठः । ३ चापि इत्युचितः पाठः । ४ तम् इत्युचितः पाठः । २८८ राजतरङ्गिणी
इत्यादि संभाव्य तयोः पादन्यस्तोत्तमाङ्गयोः ।
रुदित्वा गमनानुज्ञां कथंचित्पार्थिवो ददौ ॥ ६३८ ॥
पथि कश्चिदमुं हन्यान्मध्येकृत्येति धम्मटम् ।
तौ विनिर्जग्मतुर्देशात्ततः सबलवाहनौ ॥ ६३९ ॥
तन्वङ्गजेषु यातेषु विविक्तीकृतमन्दिरः ।
सुतमानीय नृपतिः सान्त्वयन्निदमब्रवीत् ॥ ६४० ॥
आसंसारं जगत्यस्मिन्सर्वतः ख्यातकीर्तिना ।
जनकेनैव जन्यस्य ज्ञप्तिरुत्पाद्यते जनैः ॥ ६४१ ॥
पुत्र शीतांशुनेवात्रिं दिग्द्वीपख्यातकीर्तिना ।
भवता तु सुपुत्रेण मां जानात्यखिलो जनः ॥ ६४२ ॥
स त्वं गुणवतामग्र्यो निरर्गलयशा भवन् ।
असाधुसेव्यमध्वानं वद कस्मान्निपेवसे ॥ ६४३ ॥
पैतामहं निजं चार्थे यन्न तुभ्यं समार्पयम् ।
तत्र हेतुमनाकर्ण्य नासूयां कर्तुमर्हसि ॥ ६४४ ।।
रिक्तः स्वेभ्यः परेभ्यश्च प्राप्नोत्यभिभवं नृपः ।
इति निर्ध्याय हि मया क्रियते कोशरक्षणम् ॥ ६४५ ॥
पुरप्रतिष्ठां निष्पाद्य क्षिप्त्वा राज्यधुरं त्वयि ।
वाराणस्यां गमिष्यामि नन्दिक्षेत्रेथवा पुनः ॥ ६४६ ॥
तद्राज्यकोशयोः स्वामी बुभूषुर्न चिराद्भवान् ।
अतितात्पर्यतः कस्मादनार्योंचितमीहसे ॥ ६४७ ॥
संभाव्यते त्वयि न तद्यन्ममावेदितं खलैः ।
यथार्थकथनात्तस्मात्कौलीनं विनिवार्यताम् ॥ ६४८ ॥
विशुद्धये करोत्वेष स्वकृतस्याप्रतिश्रवम् ।
स्नेहादितीच्छंस्तद्वाजा साभिप्रायं वचोभ्यधात् ॥ ६४९ ॥
अपलापवचोमात्रं निनीषुस्तस्य हेतुताम् ।
जनप्रत्यायने सोभूयस्मात्सान्तिसमुत्सुकः ॥ ६५० ॥
हर्षस्तु साधुवादैस्तत्पितुः संपूज्य भाषितम् ।
वक्ष्याम्याप्तमुखे तत्त्वमित्युक्त्वा निर्ययौ बहिः ॥ ६५१ ॥
सामान्यप्रेरणादेषा चिकीर्षाभूदिति ब्रुवन् ।
स पितृप्रहितं दूतं ह्रीतः स्वावसथं ययौ ॥ ६५२ ॥
द्रुतं म्लानाननं वीक्ष्य पाणिभ्यां ताडयन्शिरः ।
हा पुत्रेति वदत्राजा तस्यास्कन्दमदापयत् ॥ ६५३ ।।
हतेस्मिन्स्वशिरश्छिन्द्यामिति प्रोक्तवतः प्रभोः ।
निदेशाद्वेष्टयित्वैव तस्थुस्तद्वेश्म शस्त्रिणः ॥ ६५४ ॥
तीक्ष्णास्तु पिहितद्वाराः परिवार्य नृपात्मजम् ।
ऊचुः सपरुषां वाचमेवं निश्चितमृत्यवः ॥ ६५५ ।।
अस्मान्घृणी प्रमादी च विरुद्धं छद्म कारयन् ।
घातयित्वा दुराचार व जीवन्स्थातुमिच्छसि ॥ ६५६ ॥
रक्षिष्यति सुतं स त्वां स पिता रक्षितस्त्वया ।
ज्ञातेयं युवयोरस्ति वयमेव हताः पुनः ।। ६५७ ।।
युध्यस्व मध्यगोस्माकं त्वां निहन्मोन्यथा वयम् ।
एवं सर्वप्रकारं ते व्यक्तं नास्त्येव जीवितम् ॥ ६५८ ॥
तां वार्ता भूपतेः श्रुत्वा व्याकुलस्याग्रतः स्थितः ।
हर्षान्तिकं दण्डकाख्यः प्रायान्निजमहत्तरः ॥ ६५९ ।।
तीक्ष्णैर्निजतया दत्तप्रवेशः स नृपात्मजम् ।
प्रसृत्योवाच मतिमानेवं सर्वान्विमोहयन् ॥ ६६० ॥
क्षत्रियापुत्र जीवित्वा कल्पानल्पेतरानपि ।
कारणैरपि गन्तव्यं नियमान्नियतेर्वशम् ॥ ६६१ ॥
२७ २९० राजतरङ्गिणी
तदेतस्मिन्समासने मरणेव्यभिचारिणि ।
यदर्थं गृह्यते शस्त्रं स मानः पाल्यतां त्वया ॥ ६६२ ॥
कृतश्रुतः ख्यातयशा युवा सुक्षत्रियो भवान् ।
तदाहवविलम्वेन कार्य किमिव पश्यसि ॥ ६६३ ॥
एतेषु सुसहायेषु मयि चाग्रेसरेधुना ।
विपत्तिर्विजयो वापि प्रतापिस्तव शोभते ॥ ६६४ ॥
उत्तिष्ट नखकेशादियोजनं कारय द्रुतम् ।
वीरपट्टं बधानापि स्वःस्त्रीपरिणयत्रजम् ॥ ६६५ ॥
इत्युक्त्वा क्षुरकर्मार्थ राजपुत्रं सनापितम् ।
प्रावेशयत्पूज्यमानस्तीक्ष्णैराभ्यन्तरं गृहम् ॥ ६६६ ॥
न्यस्तासिधेनुर्हर्षेण दत्तझम्पः क्षणात्स्वयम् ।
पश्चात्प्रविश्य तद्वेश्म चक्रे सुनिहितार्गलम् ॥ ६६७ ॥
ततः स राजस्थानीयं तमाराद्ब्रवीद्वचः ।
रक्षितो राजपुत्रोयं क्रियतां स्वोचितं त्वया ॥ ६६८ ॥
भूतग्रहादिभवमोषधिभिर्विरोधि-
जातं बलैः प्रहरणप्रभवं तनुत्रैः ।
निर्वाप्यते प्रतिभयं पृथिवीपतीनां
सार्वत्रिकं तु रभसाद्भुवि बुद्धिवृद्धैः ॥ ६६९ ॥
नदन्तस्तुमुलं योधास्ततो राजसुतास्पदे ।
आरोदुमाययुर्वग्रहर्म्यादि प्रविवेशवः ॥ ६७० ॥
तीक्ष्णा दृढद्वारगृहस्थितं त्यक्त्वा नृपात्मजम् ।
यावन्निर्गन्तुमिच्छन्ति हन्यमांना युयुत्सवः ॥ ६७१ ॥
द्वित्राः प्रसङ्गसांनिध्यान्मध्यपातं समाश्रिताः ।
तावद्विनिर्ययुवरा निहा अभिमानिनः ॥ ६७२ ॥
१ प्रविविक्षवः इत्युचितम् । 1 २९१ सप्तमस्तरङ्गः ।
ते निर्याताः सूर्यमतीगौरीशाश्रयिणो गृहात् ।
सदाशिवान्तिकं प्रापुर्नन्तो युधि विरोधिनः ॥ ६७३ ॥
रक्ष्यमाणोपि भूभर्तुर्गिरा ज्ञातेयशालिनः ।
राजशातिर्हतस्तेषु प्रथमं सहजाभिधः ॥ ६७४ ॥
द्विजस्तिव्याभिधो वीरः पण्डितः शौर्यमण्डितः ।
रामदेवश्च केशी च कर्णाटोरिभदैर्हतः ॥ ६७५ ॥
केचित्त्यजन्तः शस्त्राणि स्वं घ्नन्तः केपि च स्वयम् ।
लेभिरे बधबन्धादि पापाः कापुरुषोचितम् ॥ ६७६ ॥
सितषष्ठ्यां सहस्यस्य चतुःषष्टे स वत्सरे ।
वैरं नीत्वा पितापुत्रौ विप्लवः कारितो विटैः ६७७ ॥
हठत्यागासक्तिः प्रिययुवतिसंप्रेरणवचः
खलासङ्गः पूर्वप्रणयपरिहारो जनयितुः ।
अमात्येन भ्रात्रा सममपरमात्राथ कलहः
कुमाराणां बुद्धिं पितरि विपरीतां प्रतनुते ॥ ६७८ ॥
एवं स खलसंगत्या कुमारो लब्धलाघवः ।
बन्धं कारागृहे प्रापदसुखानि सुखोचितः ॥ ६७९ ॥
राशी भुवनमत्यस्मिन्बद्धे माध्यस्थसंविदि ।
स्थापिता मानिनी कण्ठच्छेदं कृत्वा जहावसून् ॥ ६८० ॥
रक्षिणो मन्त्रिणामाप्तांस्तस्य विन्यस्य भूपतिः ।
प्राहिणोदुचितान्भोगान्सुतस्नेहाद्दिने दिने ॥ ६८१ ॥
चक्रिकायामशक्तोयमिति संचिन्त्य भूभुजा ।
भृत्यः प्रयागनामास्य निजः पार्थ्यान्न वारितः ॥ ६८२ ॥
नोनको हर्षमुद्दिश्य स्वेनान्यैश्च महीभुजम् ।
जीवितं लोचने वास्य कृष्येतामित्यभाषत ॥ ६८३ ॥
१ बद्धः इत्युचितम् । २९२ राजतरङ्गिणी
नृपः स शीलवैकल्ये पशुतुल्ये ह्रियं त्यजन् ।
रिपोरिव तनूजस्य चकमे कतिचित्प्रियाः ॥ ६८४ ॥
तासु श्वशुरवाल्लभ्यमवाप्य सुगलाभिधा ।
बभूव तुक्कभूभर्तृन॑त॒भर्तृपदार्थिनी ॥ ६८५ ॥
संमत्र्य नोनकः सा च द्वौ सूदावशनान्तरे ।
रसं प्रदातुं हर्षस्य पापं भैरयतां ततः ॥ ६८६ ॥
अन्यसूदमुखाद्वार्ता प्रयागस्तामवाप्तवान् ।
प्रभुं तद्दाप्यमानान्नपरिहारमकारयत् ॥ ६८७ ॥
तेनान्नेन परीक्षार्थ दापितेनापजीवितौ ।
हर्ष: श्वानौ निशम्याभून्निराशो निजजीविते ॥ ६८८ ॥
प्रयुक्ति गूढदण्डस्य पितुरेव स तां विदन् ।
ततः सर्वाणि भोज्यानि स्पृष्यै॒वौज्झीद्दिने दिने ॥ ६८९ ॥
प्रयागोपहृतेनासीत्परं बाह्येन सर्वदा ।
ओज्येन येन केनापि कुर्वञ्जीवितधारणम् ॥ ६९० ॥
अन्नस्याभोजनं श्रुत्वा राजा सूदैनिवेदितम् ।
ततः प्रयागमानीय तत्र पप्रच्छ कारणम् ॥ ६९१ ॥
प्रयोजकौ च सूदौ च सोपलभ्य न्यवेदयत् ।
रसार्पणकथां कृत्स्नां तज्ज्ञानं च स्वयं प्रभोः ॥ ६९२ ॥
अथान्येष्वपि सूदेषु पित्रा दत्तेषु शङ्कितः ।
राजसूनुर्न बुभुजे प्रयागोपहृतं विना ॥ ६९३ ॥
स सर्वेषु विरुद्धेषु यद्यत्तत्रात्यवाहयत् ।
मेने तत्तद्दिनं लब्धं शेषेष्वास्थापराङ्मुखः ॥ ६९४ ॥
अत्रान्तरे समुद्भूदकस्मान्नाशसूचकः ।
अदृष्टपूर्वी भूभर्तुः सदाचारविपर्ययः ॥ ६९५ ॥
१ नप्वी भर्तृवधार्थिनी इति पाठः स्यात् । २ पापी इत्युचितः पाठः । सप्तमस्तरङ्गः । २९३
उत्पाट्य ताम्रस्वाम्याख्यं पूर्व ताम्रमयं रविम् ।
स रीतिप्रतिमाः स्वैरं विहारेभ्योप्यपाहरत् ॥ ६९६ ॥
धनानि निरपत्यानामाहर्तुं व्यवसायिना ।
न्यवार्यतार्यमर्यादा क्रौर्याक्रान्तेन भूभुजा ॥ ६९७ ॥
ततोभिशापसंतापव्यञ्जकेनाञ्जसाभवत् ।
· अतिसंभोगजातेन धातुक्षैण्येन सोर्दितः ॥ ६९८ ॥
कुम्भप्रतिष्ठासंभारं चिकीर्षोर्हरमन्दिरे ।
तस्यापतन्महाकालकुम्भे नासापुटादसृक् ॥ ६९९ ॥
आकस्मिकं दुर्निमित्तं तत्प्रतीकारसंविदा ।
न मनागप्यगाच्छान्ति प्रवृद्धिं प्रत्युताययौ ॥ ७०० ॥
अस्रुस्रुत्यनुबन्धेन तेन ग्लपितसौष्ठवः ।
शनैः शय्याप्रणयितामन्तः स प्रत्यपद्यत ॥ ७० ॥
बलमांसकृतक्षैण्यमग्निमान्द्याद्युपद्रवैः ।
कलाशेषेण शशिना तद्वपुः साम्यमाययौ ॥ ७०२ ॥
राज्यं स दित्सुर्हर्षाय दृष्ट्रामात्यान्पराड्युखान् ।
ततोभिषेकमौत्कर्षमानिन्ये लोहराचलात् ॥ ७०३ ॥
उच्चावचास्तेन सर्वे संविभक्ता मुमूर्षुणा ।
परमीयविधेयेन न शुद्धान्तवधूजनः ॥ ७०४ ।।
कृत्वा धनार्पणं कुर्या देशादस्य प्रवासनम् ।
इत्युक्त्वा हर्षमानेतुं तेनाप्रार्थ्यन्त मत्रिणः ॥ ७०५ ॥
ते तु गोतृन्निवार्या द्यांष्ठकुरालोहराश्रितान् ।
विन्यस्य रक्षिभावे तमुत्कर्षाय न्यवेदयन् ॥ ७०६ ॥
● १ अस्र इत्युचितः पाठः | २ ततोभिषेक्तमुत्कर्ष इत्युचितः पाठः | ३ तेन प्रार्थ्य- न्त इत्युचितम् । २९४ राजतरङ्गिणी
स नाट्यमण्डपात्तेन निष्कृष्टः क्षामविग्रहः ।
निवेशितश्चतुःस्तम्भे बद्धा बान्धववर्जितः ॥ ७०७ ॥
अथोजिगमिषून्प्राणान्निःसामर्थ्यो विदन्नृपः ।
मुमूर्षुरभवत्तीर्थप्रस्थानाय कृतत्वरः ॥ ७०८ ॥
स जानन्दैवतक्रोधं ताम्रस्वामिविपाटनात् ।
इयेष शरणं कर्तुं मार्ताण्डं प्राणलब्धये ॥ ७०९ ॥
संत्यज्य विजयक्षेत्रमत एवापवर्गदम् ।
महीश्वरोपि प्रययौ तत्र त्रासवशंवदः ॥ ७१० ॥
अधीकारप्रात्या तृणमिव विदन्विश्वमखिलं
नियोगी जातार्तिर्नमति गृहदासीरपि रुदन् ।
नदन्मूख ज्ञानी बहुदुरुपदेशोधिगमतः
करोति प्राणान्ते शिशुरिव च किं किं न विगुणम् ॥७११॥
तादृश्या कृपणप्रायसेव्यया क्लैब्यसंविदा |
गुरूपदेशाहंकारस्तस्य हास्यत्वमाययौ ॥ ७१२ ॥
शुक्लायां मार्गशीर्षस्य तृतीयस्यां निशामुखे ।
तलांदेवाश्रितो युग्यं भूभृन्मर्तु विनिर्ययौ ॥ ७१३ ॥
स भेरीतूर्यनिर्घोषैर्जनाकन्दं तिरोधत् ।
सामात्यान्तःपुरो नौभिः प्रतस्थे जलवर्त्मना ॥ ७१४ ॥
यामशेषे दिनेन्यस्मिन्प्राप्तस्य चरणान्तिके ।
मार्ताण्डस्य स्वजीवात्यै सौवर्णी प्रतिमां व्यधात् ॥७१५॥
भृत्यैरगणिताशस्य दिदृक्षोर्ज्येष्ठमात्मजम् ।
औत्सुक्येनारतिस्तस्य व्यथितस्याधिकाभवत् ॥ ७१६ ॥
बहिर्हर्षकृतं गीतं गायनानां स गायताम् ।
विवृतद्वारविवरः शृणोति स्म विनिःश्वसन् ॥ ७१७ ॥
१ माहेश्वरोपि इति स्यात् । २ तल्पादेव इति स्यात् । सप्तमस्तरङ्गः ।
प्राणावसानसमये परिसंकुचन्ती
स्वप्नप्रसङ्ग इव धावनशक्तिराज्ञा ।
प्राचुर्यदा खलु रुजो मरणोद्भवाया
मर्मव्यथां प्रथयते पृथिवीपतीनाम् ॥ ७१८ ॥
प्रजा ज्येष्ठं तनूजं च संविभक्तुं कृतार्थनः ।
उत्कर्ष ग्राहयशिक्षां बद्धजिह्वोभवत्ततः ॥ ७१९ ॥
अव्यक्तं वदतो हर्ष इति वाचं पुनः पुनः ।
निह्नोतुं नोनको भावं तस्यादर्शमढौकयत् ॥ ७२० ॥
स तन्निवार्य विहसन्दष्टौष्ठः कम्पयञ्शिरः ।
जपन्किमपि सार्धे द्वे वद्धवागभवद्दिने ॥ ७२१ ॥
आसन्नप्राणनिर्याण: संज्ञयाहूय मत्रिणः ।
ततः स्वं तैरसंमूढैर्मार्ताण्डाग्रमनाययत् ॥ ७२२ ॥
वर्षानेकान्नपञ्चाशद्भुक्तवान्स सितेहनि ।
मार्गस्य पञ्चषष्ठेदे षष्ठयां निष्ठामथासदत् ॥ ७२३ ॥
सप्त मम्मनिकामुख्या देव्यः परिणयाहृताः ।
अवरुद्धापि जयमत्यभिधाना तमन्वगुः ॥ ७२४ ॥
प्रसादवित्तया तस्य पुनः कय्याभिधानया ।
अवरुद्धिकया कृत्स्ना स्त्रीजातिरपवित्रिता ॥ ७२५ ॥
सर्वावरोधप्राधान्यप्रदानं नास्मरद्यदि |
मा स्माषनाम भर्तुस्तदनुच्चाभिजनोद्भवा ॥ ७२६ ॥
संश्रित्य विजयक्षेत्रं क्रमाङ्ग्रामनियोगिनः ।
भेजे यत्त्ववरुद्धात्वमतो दुःखाकरोति नः ॥ ७२७ ॥
भूपालभोग्यं स्ववपुः सा भोगाभ्यासभासुरम् ।
निनाय ग्राम्यभोग्यत्वं धिङ्कारीनींचचेतसः ॥ ७२८ ॥
२९५ २९६ राजतरङ्गिणी
उत्कर्षस्याभिषेकाय व्यग्रेष्वखिलमत्रिषु ।
अन्तेष्टिमकरोद्वाज्ञः कृतज्ञो वामनः परम् ॥ ७२९ ॥
घोषोभिषेकतूर्याणामेकतो गीतमङ्गलः ।
साक्रन्द: प्रेततूर्याणां नादोन्यत्र समुद्ययौ ॥ ७३० ॥
जातः पद्मश्रियो देव्याः पुत्रः कलशभूभुजा ।
ततो विजयमल्लाख्यो भ्रातुर्वैमत्यमादधे ॥ ७३१ ॥
यददाद्धर्षदेवस्य पिता प्रत्यहवेतनम् ।
प्रतिशुश्राव तस्मै स तदेवोत्कर्षभूपतिः ॥ ७३२ ॥
आश्वासाय च मध्यस्थान्ददौ सामन्तमन्त्रिणः ।
कय्यात्मजस्य चक्रे च जयराजस्य वेतनम् ॥ ७३३ ॥
अन्विष्यन्ति रुदत्य एव तरला गत्यन्तरं योषितो
योगक्षेमकथां चितान्तिकगता एवात्मजाः कुर्वते ।
अन्येषां शतशोवसानसमये चर्चा विचार्येदृशीं
स्त्रीपुत्रादिकृते कुकर्मभिरही संचिन्वतेथे जडाः ॥ ७३४ ॥
प्रविवेश ततः श्रीमान्नगरं नृपतिर्नवः ।
न तु हर्षोदयाकाङ्क्ष हृदयं नगरौकसाम् ॥ ७३५ ॥
तद्राज्यलाभदिवसो जनस्याभोगदृषितः ।
सन्नपि प्रत्यभान्नैव सरोगार्तेरिवोत्सवः ॥ ७३६ ॥
हर्षदेवस्तु पितरि प्रयाते मर्तुमातुरे ।
नववद्धश्चतुःस्तम्भे न तस्मिन्नहि भुक्तवान् ॥ ७३७ ॥
सार्थभ्रष्टमिवाध्वन्यमन्यस्मिन्नहि ठक्कुराः ।
ते शोकमूकं संप्रार्थ्य कथंचित्तमभोजयन् ॥ ७३८ ॥
राज्यं दातुं निजे देशे चक्रुश्चास्य प्रतिश्रवम् ।
राज्यद्वयं नायमर्हत्येक एवेति वादिनः ॥ ७३९ ॥
१ अन्त्येष्टि इति स्यात् । सप्तमस्तरङ्गः ।
एवं मिलितचित्तस्तैर्विपत्तिं श्रुतवान्पितुः ।
कृतोपवासः सोन्येयुः शुश्रावोत्कर्षमागतम् ॥ ७४० ॥
बाष्पैः पित्रे प्रयच्छन्तं निवापसलिलाञ्जलीन् ।
तं दूतैरनुजो राजा स्नातुं प्रार्थयताथ सः ॥ ७४१ ॥
तस्य स्नानक्षणे राशि सजे राज्याभिषेचने ।
घोषोभिषेकतूर्याणामुदभूत्सजयध्वनिः ॥ ७४२ ॥
स तेन सुनिमित्तेन प्राप्तां मेने निमित्तवित् ।
विद्युद्द्योतेन जीमूतगर्जामिव नृपश्रियम् ॥ ७४३ ॥
ततः प्रभृत्युन्मुखता सुनिमित्तैरगृह्यत ।
तस्यात्यासन्नराज्यस्य भृत्यैरिव दिने दिने ॥ ७४४ ॥
स भोजनं कारयितुं दूतान्भ्रात्रा विसर्जितान् ।
देशान्निर्वासयतु मां राज्यात्संत्यज्य बन्धनात् ॥ ७४५ ॥
स्थातुमप्रत्यवस्थित्या विदध्यां कोशसंविदम् ।
म्रियेन्यथा निरशनैः संदिश्येति व्यसर्जयत् ॥ ७४६ ॥
स तन्मिथ्या प्रतिश्रुत्य तं दूतैः प्रहितैस्ततः ।
कृतकोशं सान्त्वयित्वा राजा भोज्यमभोजयत् ॥ ७४७ ॥
नित्यं च श्वो विधास्ये तंदर्थमान इति ब्रुवन् ।
कालापहारं कुर्वाणः शङ्कां तस्योदपादयत् ॥ ७४८ ॥
विश्वासाय स्वताडङ्कपाणि कृत्वा प्रयागकम् ।
पार्श्व विजयमल्लस्य सोथ गूढं व्यसर्जयत् ॥ ७४९ ॥
तदेवोक्त्वा तमूचे स त्वां ब्रूते दुःस्थितोग्रजः ।
कुमारे त्वयि राज्येस्मिञ्युश्यामो बन्धने वयम् ॥ ७५० ॥
संक्रान्तदुःखः संचिन्त्य चिरेणापि तमब्रवीत् ।
कार्य कुर्यात्कथमिदं मद्भिरा नीतिमान्नृपः ॥ ७५१ ॥
१ राज्ञ: इतिस्यात् । २ तदर्थ्यमान इत्युचितम् । ३ शुष्यामः इत्युचितम् । ३८ २९७ २९८ राजतरङ्गिणी
तथाप्यस्मिन्यथाशक्ति यतिष्ये त्वद्विमोक्षणे ।
त्वया तु सावधानेन रक्षणीयं स्वजीवितम् ॥ ७५२ ॥
तं पार्श्व हर्षदेवस्य संदिश्येति व्यसर्जयत् ।
उपायांश्चिन्तयन्नासीत्तस्य कार्यस्य सिद्धये ॥ ७५३ ॥
उत्कर्षः प्राप्तराज्यस्तु दैवतैरिव मोहितः ।
नादधे किंचिदारम्भं व्यवस्थाग्रथनक्षमम् ॥ ७५४ ॥
समर्पिताधिकारोपि कंदर्पादीन्सं मत्रिणः ।
राज्यकृत्यं न पप्रच्छ विधे स च न स्वयम् ॥ ७५५ ॥
परिमातुं परीमाणं कोशसंचयवीक्षणे ।
परं क्षमापतेस्तस्य दिनकृत्यमजायत ॥ ७५६ ॥
कर्मणा निर्व्ययेनास्य चिन्त्यमानस्य येन वा ।
सुदीर्घदर्शी लोकोभूत्तेन लुब्धत्वंनिश्चयी ॥ ७५७ ॥
सा तस्य लुब्धताख्यातिः समुद्गान्नप्रदायिनः ।
भूभर्तुः पितृपत्नीभिः स्वैरिणीभिः प्रवर्धिता ॥ ७५८ ॥
स श्रोत्रिय इवोत्कम्पी व्यवहारमिताशयः ।
महाहृदयभोग्यानां प्रजानां नाभवत्प्रियः ॥ ७५९ ॥
ततो नियमितां वृत्तिं तस्माल्लुब्धादनानुवन् ।
कुप्यन्विजयमल्लोभूद्देशान्गन्तुं कृतोद्यमः ॥ ७६० ॥
स्वं रक्षितुं स मध्यस्थाननुव्रज्याकृतेखिलान् ।
प्रार्थयामास तेनाँपि सज्जास्तमनुवत्रजुः ॥ ७६१ ॥
लवणोत्से निशामेकां पुरान्निर्गत्य तस्थुषः ।
मध्यस्थदेव्यास्तस्यैव योधाः पक्षमशिश्रियन् ॥ ७६२ ॥
१ सुमन्त्रिणः इति स्यात् । २ देशाद्गन्तुं इत्युचितम् । ३ ते चापि इति स्यात् । ४ देश्या: इति स्यात् । सप्तमस्तरङ्गः ।
हर्षे बद्धे त्वयि गते कृतकृत्यो भवेन्नृपः ।
तत्तं निष्कृष्य काराया गमनं तव सांप्रतम् ॥ ७६३ ॥
इति तैः प्रेर्यमाणः स राजसूनुरुदायुधैः ।
विनिवृत्त्याकरोद्यात्रां प्रत्यूषे नगरोन्मुखः ॥ ७६४ ॥
श्रुत्वा चिकीर्षितं तस्य व्यावृत्तस्य तथाविधम् ।
सहायाः समपद्यन्त कतिचिड्डामरा अपि ॥ ७६५ ॥
अकरोन्मधुरावट्टो हयसेनापतिः सुतम् ।
राजसूनुर्यियासुर्य मध्यस्थाननुयात्रिकम् ॥ ७६६ ॥
नागाह्वयो द्रोहहीनो राजपक्षमसंत्यजन् ।
कैश्चित्सह हयारोहैः स पद्मपुरवर्त्मना ॥ ७६७ ॥
आगच्छन्नन्तिकं राशो दुर्निमित्तहृतत्वरः ।
न यावन्नगरं प्राप क्षिप्रकारी नृपात्मजः ॥ ७६८ ॥
शकुनैराहितोत्साहः शालाग्रोद्दीपिताग्निभिः ।
सैन्यैर्गृहान्दहंस्तावद्राजधानीमवेष्टयत् ॥ ७६९ ॥
चकलकम् ॥
२९९
समयाय विनिर्यातं त्यक्त्वोत्कर्षे महीभुजम् ।
तत्पक्षं जयराजोपि राजसूनुरशिश्रियत् ॥ ७७० ॥
हस्तस्थितौ राजपुत्रौ तस्याचिन्तयतां गतिम् ।
नवौ कवी व्यवहृतिं सिद्धवाचः कवेरिव ॥ ७७१ ॥
हर्षदेवे परित्यक्ते यास्याम इति वादिनः ।
स हस्तिमहिषादीनां शालाः सैन्यैरदाहयत् ॥ ७७२ ॥
त्यागप्रलयजीमूतो हर्षदेवोभिषिच्यताम् ।
लुब्धः खशो वणिक्प्रायो राज्यादेव निवार्यताम् ॥ ७७३ ॥
एवं वदन्तः सन्तोपि हर्षमेत्य पुरौकसः ।
पुष्पैः प्राच्छादयन्बद्धं तमोरिविवरार्पितैः ॥ ७७४ ॥
राजतरङ्गिणी
उत्पिञ्जे तत्र संजाते भग्नसैन्यस्य भूपतेः ।
संप्रेष्य ठक्कुरान्हर्षस्तटस्थं तद्वलं व्यधात् ॥ ७७९ ॥
इत्थं वद्धोपि तत्कृत्वा वैरिकार्यविरोधिनः ।
संदेहवेपमानाङ्गस्ततस्तानेवमब्रवीत् ॥ ७७६ ॥
वर्तेद्य संकटे दुष्टे तन्मां मुञ्चत बन्धनात् ।
न चेदाशु महीपालादनिष्टं नियमाद्भवेत् ॥ ७७७ ॥
इत्युच्यमानास्ते यावद्विमृशन्ति स्म तन्मुहुः ।
पादप्रहारा न्यपतंस्तावद्वारगृहाइहिः ॥ ७७८ ॥
उच्चचार स किं द्रोहः प्रक्रान्तोयं दुराशयैः ।
रे ठक्कुरा विवृणुत द्वारमित्युच्चकैर्वचः ॥ ७७९ ॥
ठक्कुरेण्वथ भीतेषु धैर्यादगणयन्भयम् ।
अकारयद्धर्षदेव एव द्वारमपावृतम् ॥ ७८० ॥
नेत्रमात्रस्थितप्राणो ददर्श विशतस्ततः ।
लोहराञ्शस्त्रिणो हन्तुं प्राप्तान्षोडश वारिकान् ॥ ७८१ ॥
ते हि च्छित्त्वोज्झिते हर्षशीर्षे सर्वमिदं क्षणात् ।
शाम्येदिह भयं मत्रं नोनकस्येति जल्पतः ॥ ७८२ ॥
उत्कर्षेणासकृच्छ्रुत्वा तं निहन्तुं विसर्जिताः ।
विमृश्य चोक्ता गच्छन्तः कार्यशेषं विमुञ्चता ॥ ७८३ ॥
कदाचित्तेन कृत्यं स्यादहतेनेति तत्क्षणम् ।
निवार्य ठक्कुरान्रक्ष्यो हन्तव्यश्च यदोर्मिकाम् ॥ ७८४ ॥
इमां दद्यामभिज्ञानं यदा चेयं विसृज्यते ।
तदा तु बन्धनात्त्याज्य इत्युदीर्याङ्गुलीयकम् ॥ ७८५ ॥
पाणौ दर्शयता चोक्ता विलम्वालम्बनं यतः ।
निवार्य ठक्कुरांस्तस्मिन्क्षिप्रं न प्राहरंस्ततः ॥ ७८६ ॥
कुलकम् ॥
स तु प्रत्येकमाहूय नामग्रहणपूर्वकम् ।
अजिग्रहत्तांस्ताम्बूलमप्युपावेशयत्पुरः ॥ ७८७ ॥
जहुस्ते कृतसत्कारास्ताम्बूलग्रहणक्षणे ।
ह्रीताः कराग्राच्छस्त्राणि प्रजिहीर्षां च मानसात् ॥ ७८८ ॥
धत्ते श्रियं सृजति कीर्तिमचं लुनीते
मित्रत्वमानयति हन्त विरोधिनोपि ।
यात्यध्वभिः प्रतिपदं सुमनोनुकूलै-
गौः कामधुकमिव नापहरत्यनर्थम् ॥ ७८९ ॥
राजपुत्रः स तानूचे किं ह्रीता इव तिष्ठथ ।
निर्दोषाः सर्वथा प्रेष्याः स्वाम्यादेशानुपालने ॥ ७९० ॥
विलम्ब्यतां तथाप्यत्र द्रष्टव्यं महदद्भुतम् ।
यथोदेष्यत्यवस्थानामन्यथात्वं क्षणे क्षणे ॥ ७९१ ॥
द्विपद्वीपिक्रव्यादुरगतुरगादिभ्रमकृतो
यथास्यां भिद्यन्ते दिवि किल त एवाम्बुदलवाः ।
तथा सौम्यरक्रमविकृतिभाजस्तनुभृतां
क्षणानां नानात्वाननु हृदि विकारोर्मय इमाः ॥ ७९२ ॥
क्षणानुवृत्तिं कुर्वाणास्तद्यथात्र स्थिता वयम् ।
तथा सन्तु भवन्तोपि कार्यान्तरदिदृक्षवः ॥ ७९३ ॥
अपि चैवंविधा एव वितन्वन्तो रसान्तरम् ।
आसन्नराज्यप्राप्तीनां राज्ञां स्युः प्राणसंशयाः ॥ ७९४ ॥
ग्रीष्मस्योष्मा व्रजति धनतां नूनमासन्नवृष्टे-
नैशं गाढीभवति तिमिरं संनिकृष्टप्रभातम् ।
जन्तोरेवं प्रसभविभवस्फारसंपत्प्रचारा-
निष्कामन्ती विपदुपचितोपद्रवोद्रेकमेति ॥ ७९५ ॥
प्राणचारेण शकुनं निस्चैत्येति वदन्सत आचचक्षे शुभोद कः स्वोदन्तसदशीः कथाः ॥ ७९६ ॥ कालम् क्षेतुमुपन्यस्तशयुद्धिव्यक्तीभवद्र साम् । तेभ्यश्च कथयामास हरिश्चन्द्राश्रयां कथाम् ॥ ७९७ ॥ तद्रञ्जने स्वरक्षायां बाह्याबार्तग्गबेसषण । व्याप्रृतत्वं गभीरस्य न तस्य समलक्ष्यत ॥ ७९.८ ॥ अजरान्तरे तमुषिद्य मते जाते नवे नवे । राजधियश्च काल्याश्च शतशोभूद्रतागतम् ॥ ७९९ ॥ उत्कर्षो भूमिपस्तस्य परित्यागं ह्यमन्यत । आदिदेशाुगांस्तांस्तान्भूरिशश्च भमापणे ॥ ८०० ॥ अभिक्ञानोर्मिकादानं वधादेशे तु नास्रत् । तेनोक्ति वस्य दूतानामन्वतिष्ठन्त रक्षिणः ॥ ८०१ ॥ स तान्वन्ध्यश्रमान्वीक्ष्य स्मृत्वाभिक्ञान संविदम् । सत्वात्मजं राजपुरं शूराख्यं व्यखजत्ततः ॥ ८०२ ॥ अभिज्ञानं वितरतस्तत्करे तस्य मुद्यतः । दैवयोगातक्षणे तस्मिन्रूभिकाव्यत्ययोभवत् ॥ ८०३ ॥ यः पातार्थसुपार्जितोन्यशिरसस्तेनेब ससिन्धु्भुप्रभु- कृद्धक्षन्रधराधवः स्वरिरसः पातं वरेणान्वभूत् । दिव्या स्वैव गदा श्रुतायुधनरपं हन्तावधीदाहवे यञ्चाणाय विगण्यते विधिवशात्तेनैव नाशो मवेत् ॥ ८०६॥ तथा चेकस्य विस्म्रुत्या व्यत्ययेनापरस्य च । अभिज्ञानस्य स नृपो नाशं प्रत्युत लब्धवान् ॥ ८०५ आभिजन्येन हषैस्य ते क्षणादेव रक्षिणः । प्रपेदिरे हितेषित्वसुत्कर्षाज्ञाविरोधिनः ॥ ८०६ ॥ १ अन्वतिष्ठन्न इत्युचितम् । द्वारमाक्रान्तमुत्कोधो बधायायमुपागतः । इति निध्यौय ते दारं दन्तुमेच्छल्लदायुधा ॥ ८०७ ॥
उद्धारिताररिपुटा दृष्ट्वा तस्योमिकां करे । तेनेव साकम् च्त्यन्तो हर्ष समुपतस्थिरे ॥ ८०८
पादन्यस्तोत्तमाङ्गिस्तैनिर्गच्छेत्यर्थितस्ततः अविभ्वसत्राजसूनुः क्षणमासीत्स चिन्तयन् ॥ ८०९. ॥
तस्मिन्क्षणे दर्षदेवं हतं ज्ञात्वा रणे स्थितः । क्रुध्यन्विजयमल्लोभूदधिकोद्धिक्तपौरुषः ॥ ८१० ॥
तं दग्धुमुद्यतं राजधानिं जीवति तेनुजः । अभिधायेति रुरुधुः कथंचित्पार्थिबानुगाः ॥ ८११
प्रत्ययार्थं ततस्तस्य राज्ञा हष्रबधुद्रुतम् । गृहितभत्रुताङ्का सुगला प्रित्ष्यप्तान्तिकम् ॥ ८१२
तां विरोक्यैव विरते वहिद्ाहान्नुपात्मजे । रजिा भयश्रतीकारं दषेत्यागादमन्यत ॥ ८१२
गत्वामास्याः स्वयं नोनप्रशस्तकल्शादयः । ` हषे निर्निंगडं कृत्वा कारागारात्ततोत्यजन् ॥ ८१४ ॥
मन्नः स तेषां शोकेन वक्रात्छृतगतागतः । अन्त्यक्चषणे श्वास इव प्रससार बहिश्रन् ॥ ८१५ ॥
हषैहः ्च्छद्ययमानस्तु पौराणां पुष्पवृष्िभिः । हयमारुह्य सामात्यो रणस्थं गपमासदत् ॥ ८१६ ॥
अभिनन्याजुजो राजा तमूचे भ्रातरं रणात् । निवा्यागम्यतां कमेः प्रा्तकारं ततो वयम् ॥ ८१७ ॥
तथेति भस्थिते तसमस्त्यक्त्वा तत्स रणाजिरम् । ाविशान्मन्निभिः सार्धं कों ेमादिसं्रयम् ॥ ८१८ ॥
उत्तीर्णं महतः क्रुच्छाद्धषदेवमुपस्थितम् । दृष्ट्रा विजयमल्लोभुत्प्रहर्ष्रान्निष्क्रियः क्षणम् ॥ ८१९ ॥
ततो ववन्दे तत्पादौ स चोत्काम्यालिलिङ्ग तम् । तास्ताः कथास्तयोरासन्नुपकर्त्रुपकार्ययोहः ॥ ८२० ॥
व्यापादयेनमेवादौ हर्षोत्कषं ततो न्रु़पः । निष्कण्टकोसि भवितेत्याप्तस्योपांसु जल्पतः ॥ ८८१ ॥
ततो विजयमल्लेन नाद्रोहेणाद्दतं वचः ।ज्ञात्वेङितङ्ह्यो हर्सस्तत्तस्तु चकितः क्षणम् ॥ ८२२ ॥
युग्मम् ॥
स्वदेहमामिषीभूतं स भ्रात्रोः श्येनयोरिव । निष्प्रपश्चप्रतिमो ररक्चार्वगतश्चरन् ॥ ८२२ ॥
आसन्नाभ्रजलस्य दावविगमे विद्युद्भयं शाखिनो नक्रास्याद्रलतश्च मज्जनमयी शङ्का भवेद्धारिधो ।
भोक्तव्यस्य विधिः शुभस्य रमसात्स्वादुत्वनिष्पत्तये जन्तोः संतुनुते निराक्रुतभियो भीत्यन्तरोत्पदनम् ॥८४॥
तं हयभ्रमणव्याजाद्रक्षन्त्न् निजजीवितम् । ज्ञातवार्ता निज्जः केचित्पत्तयः पर्यवारयन् ॥ ८२५ ॥
साकं विजयमल्लेन ततः संमन्र्य स क्षणात् । चचाल विप्लबापयमाक्ष्यातुं तं महीभुजे ॥ ८२६ ॥
अग्रं तद्धेस्मनः प्राप्तं विनिर्यान्तं न्रुपात्मजात् । ततो विजयसिंहस्तं संप्रवेशान्यबारयत् ॥ ८२७ ॥
ऊचे च मरणात्तीणों मतुं विशासि किं पुनः । निष्प्रज्ञ गत्वोपविश व्यक्तशङ्क न्रुपासने ॥ ८२८ ॥ १ पक्षिप्रतिमः इट्युचितम् । सप्तमस्तर॑ङ्ग । 2०५
एवमुक्तवतस्तस्य भ्रुत्येः कोशादुपाह्रुते । सिंहासने ह्रुषैदेवस्ततस्तूणैमुपाविशत् ॥ ८२९ ॥
वैयात्यच्छादितानन्तप्रतिककूल्या तदन्तिके । उपाविशच्च सुगला महादबीत्वसिद्धये ॥ ८३० ॥
तस्याभिषेकशब्देन समधट्यन्त सर्बतहः । रसितेनाम्बुवाहस्य चातका इव मन्रिणः ॥ ८३२ ॥
तद्वार्ताश्रवणेनार्वमुत्कषं मन्दिरात्ततः । धूतो विजयरशींंहोपि क्रुस्त्वन्यमनयद्रुहम् ॥ ८३२ ॥
आस्थानस्थस्य भूमतौरप्रेण स मिताुगः । नष्श्चीर्ददशे गच्छन्स्थिराः कस्य विभूतयः ॥ ८३३ ॥
तस्य वेस्म प्रविष्टस्य वहिर्विन्यस्य रक्षिणः । राज्ञो विजयसिंहस्तत्क्रुतं कार्यं न्यवेद्यपः ॥ ८३४ ॥
कारायां संस्तुतान्राजपार्स्वमनीय थाक्कुरन् । तत्सेन्येग्रस्थितेत्याक्षिद्भय विजयमल्लतः ॥ ८३५ ॥
सोप्यग्रजं प्राप्तराज्यं श्रुत्वा तत्सविधं ब्रजन् । निन्ये संमान्य तद्दतौः स्वामेव वसतिं क्षणात् ॥ ८३६ ॥
तत्सैन्यं स्वान्तिकं प्राप्तमथ वीक्ष्य क्षमापतिः । आनिनाय तमभ्यर्ण क्षणमात्रेण नीतिवित् ॥ ८३७ ॥
मह्यं प्राणाश्च राज्यं च त्वया दत्तमिति बुवन् ।
सप्प्ऱाञ्जलिस्तमकरोत्छ्केशसाफल्यदायिनम् ॥ ८३८ ॥ तस्य दैवाडुक्रल्येन नीण्य्यॅईवं खुभयुक्तया ।
तत्कालमेव तद्ाज्यराय्यायां समुपाविशत् ॥ ८३९ ॥ कारागरृदान्तःसंबीतान्येव वासांसि धारयन् । सिहासनेन शुशुभे श्रीसांनिध्यान्नवो नरुप ॥ ८४० ॥
१ तद्राज्यं इति स्यात् । ३९ ३०६ राजतरद्धिणी
तादक्सादससंरम्भपरि्चान्तो दिनात्यये ।
कृतारोरोथ शय्यायां व्यक्तमार इवापतत् ॥ ८४१ ॥ पदयन्निव सं तामेव ख्बतो विराराख्ताम् ।
न स निद्राखुखं तत्र मीखिवाक्षोपि रन्धवान् ॥ ८४२ ॥ उत्को युद्धिबद्धस्तु मनर पृच्छन्स्वमन्निणः । आश्षिप्यान्यद्चो रूक्षं नोनकेनेत्यकथ्यत ॥ ८४३ ॥ प्रातः पोक्तोसि यन्मत्रं तन्नाकार्षौमंदीपते । पतितामनयादस्मादद्धाविनी श्णु संविदम् ॥ ८४४ ॥ अध्याश्षिपो बन्धनस्थं स्वं तमुच्चष्टभोजिनाम् ।
श्वः अ्वमांसार्पिणां दृस्ते स तु त्वामपैयिष्यति ॥ ८४५ ॥ शरणं मरणादन्युत्तस्ादस्मिन्क्षणेस्ति किम् । व्यक्ताहवान। भ $ तदप्यप्राप्यतां गतम् ॥ ८४६ ॥ अवसाद फलास्वादकारेदयन्तमरुतुदम् । यद्वोपारूम्भपाण्डिव्यं न विपक्षेषु शोभते ॥ ८४७ ॥ त्वयापायमनाटोच्य य उपायः प्रवर्तितः ।
सर्वमेकपदे तेन मुहत॑नेव दारितम् ॥ ८४८ ॥ संस्थाप्यमानो दुर्नीत्या सूच्येव जरः पटः । अत्युतोपद्रवोल्पोपि शतद्वार प्रजायते ॥ ८४९ ॥
एवं श्रुत्वा स तन्मध्यान्निभेत्याभ्यन्तरं गदम् । अवरुद्धिकया साध विवेदा सहजाख्यया ॥ ८५० ॥ तत्र संध्यासमाधिस्थस्तिष्ठामीदयभिधाय ताम् ।
क्षणं तिरस्करिण्यन्तरेकाक्येवाकरोस्स्थितिम् ॥ <५१ ॥ निःशखेण गले क्षिस्वा परच्छेदनकर्तैरीम् ।
१ च तामेव इ्युचितम् । सप्तमस्तरङ्गः । ॥ ८५३ ॥
फणत्कारेण कर्तर्याच्युताया भुवि शङ्किता ।
अपश्यत्सहजा रक्तं त्र्योतजवनिकान्तरात्
सोथ लम्बशिरोनिर्यत्सान्द्रासृग्ददृशे तया ।
वज्रावभग्नशृङ्गान्तः त्र्योतद्धातुरिवाचलः ॥ ८५४ ॥
तस्यास्तदानी मौचित्यं निर्व्यूढं येन योषिताम् ।
भर्तृप्रसादपात्राणामद्याप्युच्चैस्तरां शिरः ॥ ८५५ ॥
व्रजति रजनी त्यक्त्वा क्वापि क्षये क्षणदाकरं
पदमुपगतस्यास्तं संध्या रवेरनुगच्छति ।
इति परिणतौ प्रेमण्युच्चावचे परिचिन्तिते
क्वचन नियमान्निन्द्या वन्द्या न वा सुधियां स्त्रियः ॥८५६ ॥
कुलाचारपतिप्रेमसादृश्येप्यभवत्तदा ।
३०७
कय्यासहजयोर्यस्मान्निन्द्या वन्द्या च पद्धतिः ॥ ८५७ ॥
युग्मम् ॥
सापि हि द्युसदो वेश्मनर्तकी नाट्यमण्डपे ।
दृष्ट्वा तेनावरुद्धात्वं निन्ये राजवधूः पुरा ॥ ८५८ ॥
कान्ता नगैरिकास्यन्दकृतसान्द्राङ्गरागया |
प्रेम्णो हेन इवौज्वल्यं प्रविश्याग्निं तयार्पितम् ॥ ८५९ ॥
हर्षदेवस्यापि पूर्व वेश्यात्वे साभवत्प्रिया ।
अतस्तेनार्थ्यमानापि मरणान्न न्यवर्तत ॥ ८६० ॥
चतुर्विंशाब्ददेशीयो दिनद्वाविंशतौ नृपः ।
मृतस्तिष्ठन्निशामेकां प्रातः सोक्रियताग्निसात् ॥ ८६१ ॥
तस्यावरोधलोलाक्ष्यो लोहराद्रिस्थिता अपि ।
कृशानुवर्त्मना काश्चित्पदवीं द्रुतमन्वयुः ॥ ८६२ ॥
शस्त्रं संत्याज्यमानेषु तन्मत्रिषु नृपानुगैः ।
मुमूर्षुर्नोनकः शस्त्रं न तत्याज क्षणं यदा ॥ ८६३ ॥
राजतरङ्गिणी
विनास्मान्मत्रदो राज्ञः कोन्यः स्याद्यद्दिनैरसौ ।
मोक्ष्यत्यस्मांस्ततः प्राणान्नोपैक्षिष्टाविचारयन् ॥ ८६४ ॥
स्वयूथ्य एवेति वचः प्रशस्तकलशो वदन् ।
तदा संत्याजयामास स्वयं तच्च समर्पितम् ॥ ८६५ ॥
तिलकम् ॥
नोनसिह्लारभट्टारप्रशस्तकलशादयः ।
बवाथ हर्षदेवेन कारागारं प्रवेशिताः ॥ ८६६ ॥
इत्येवमेकेनैवाह्रा तादृग्राजविपर्ययः ।
कृतश्च हर्षदेवेन दैवेनेव महाद्भुतः ॥ ८६७ ॥
यथाकथंचिद्युत्क्रान्ता बहवः पृथिवीभृतः ।
प्रतीतिविषमो मार्गः कष्टमापतितोधुना ॥ ८६८ ॥
सर्वोत्साहोदकक्षेत्रं सर्वानुल्लासदूतिका ।
सर्वव्यवस्थाजननी सर्वनीतिव्यपोहकृत् ॥ ८६९ ॥
उद्भिक्तशासनस्फूर्तिरुद्रिक्ताशाक्षयक्षितिः ।
उद्भिक्तत्यागसंपत्तिरुद्रितहरणग्रहा ॥ ८७० ॥
कारुण्योत्सेकसुभगा हिंसोत्सेकभयंकरी ।
सत्कर्मोत्सेकललिता पापोत्सेककलङ्किता ॥ ८७१ ॥
स्पृहणीया च वर्ज्या च वन्द्या निन्द्या च सर्वतः ।
निश्श्रोद्या चोपहास्या च काम्या शोच्या च धीमताम् ८७२
आशास्या चापकीर्त्या च स्मार्या त्याज्या च मानसात् ।
हर्षराजाश्रया चर्चाकथा व्यावर्णयिष्यते ॥ ८७३ ॥
कुलकम् ॥
नूनं स तैजसैरेव ससृजे परमाणुभिः ।
कुतोन्यथाभूत्प्रसवे दुष्प्रेक्ष्यो महतामपि ॥ ८७४ ॥
न मर्त्येषु न देवेषु तद्वेषो दृश्यते क्वचित् ।
दानवेन्द्रेषु स प्राज्ञैः परमुत्प्रेक्ष्यते यदि ॥ ८७५ ॥
प्रतिमार्कपरीमाणज्वलत्कुण्डलमण्डितः
।
उत्तुङ्गमुकुटानद्धविकटोष्णीषमण्डलः ॥ ८७६ ॥
प्रसन्नसिंहविप्रेक्षी नीचश्मश्रुच्छटाञ्चितः ।
वृषस्कन्धो महाबाहुः श्यामलोहितविग्रहः ॥ ८७७ ॥
ब्यूढवंक्षः क्षाममध्यो मेघघोषगभीरवाक् ।
सोमानुषाणामपि यत्प्रतिभाभङ्गकार्यभूत् ॥ ८७८ ॥
तिलकम् ॥
सिंहद्वारे महाघण्टाश्चतुर्दिक्कमबन्धयत् ।
ज्ञातुं विज्ञप्तिकामान्स प्राप्तांस्तद्वाद्यसंज्ञया ॥ ८७९ ॥
आर्ता च वाचमाकर्ण्य तेषां तृष्णानिवारणम् ।
प्रावृषेण्यः पयोवाहश्चातकानामिवाकरोत् ॥ ८८० ॥
अचित्रवस्त्रो निर्हेमभूषणोल्पपरिच्छदः ।
दहशे विगतोष्णीषो न कश्चिद्राजमन्दिरे ॥ ८८१ ॥
सिंहद्वारे नरपतेर्नानाजनसमाश्रिते ।
सर्वदेशथियोश्रान्तमासत्राशीकृता इव ॥ ८८२ ॥
अपेतसंख्याः सौवर्णशृङ्खलाकटकान्विताः ।
भ्रेमुर्मन्त्रिप्रतीहारमुख्याः क्षमापतिमन्दिरे ॥ ८८३ ॥
एवं स्फूर्जन्स नृपतिर्नवसाम्राज्यसुन्दरः ।
अभूद्विजयमल्लस्य गुरोरिव मते स्थितः ॥ ८८४ ॥
आदीयमानवचसः कृतज्ञेन महीभुजा ।
तस्याभूत्पार्थिवस्येव सेवकै: संकटा सभा ॥ ८८५ ॥
१ वक्षाः इत्युचितम् । ३०९ राजतरङ्गिणी
स्वसेवकाननादृत्य रक्षन्संस्थाव्यतिक्रमम् ।
पित्र्येभ्य एव मत्रिभ्यः सोधिकारान्संमपर्यत् ॥ ८८६ ||
द्वारे चकार कंदर्प मदनं चापि कम्पने |
अन्यान्विजयसिंहादीन्कर्तव्ये च निजे निजे ॥ ८८७ ॥
तेन प्रशस्तकलशप्रमुखाः शान्तमन्युना ।
बन्धात्संत्यज्य कार्येषु निजेष्वेव नियोजिताः ॥ ८८८ ॥
स्मृत्वापकारान्सुबहूनमात्यो नोनकः परम् ।
धात्रेयेण समं भ्रात्रा कोपाच्छूले विपादितः ॥ ८८९ ॥
काले काले तु कार्येषु संकटेषु महामतिम् ।
संस्मरन्स्वामिभक्तं तं पश्चात्तापेन पस्पृशे ॥ ८९० ॥
योग्यः कृतापकारोपि कदाचिदुपयुज्यते ।
विहितागारदाहोग्निः शरणं भोज्यसिद्धये ॥ ८९१ ॥
संदर्याने स्वभार्यायाः कर्णनासावकर्तनम् ।
विश्शाभट्टो राजभृत्यैः शूलेनैव विपादितः ॥ ८९२ ॥
उदये संविभेजे स भृत्यान्काराविनिर्गतान् ।
मधौ प्रफुल्लः शाखीव भृङ्गाम्भूविवरोत्थितान् ॥ ८९३ ॥
राक्केः क्षेमस्य यः पौत्रो वज्रजः स महीभुजा ।
सर्वामात्यप्रधानत्वं निन्ये सुन्नः सहानुजः ॥ ८९४ ॥
राज्ञो यात्रादिसमये प्रेक्षकाणां पदे पदे ।
एक एकोभवन्मत्री महीपालभ्रमप्रदः ॥ ८९५ ॥
सर्वप्रतीहारघटामूर्धानमधिरोपितः ।
यायराजोनुजस्तस्य जीवितादधिकोभवत् ॥ ८९६ ॥
१ समार्पयत् इत्युचितम् ।
३१०जाह्नवीयात्रया भ्रात्रोरानृशंस्या........।
धम्मटः सोपि तान्वङ्गैर्भ्रातृपुत्रैः सहाययौ ॥ ८९७ ॥
संमान्य तं नरपतिः स्वकृते हारिताग्रजम् ।
सभ्रातृपुत्रमद्राक्षीत्स्वाविशेषेण सर्वदा ॥ ८९८ ॥
विभज्य भुञ्जतो राज्यं तस्यैवं प्रेरितः खलैः ।
क्रमाद्विजयमल्लोथ दुद्रुक्षुर्विक्रुतिं दधे ॥ ८९९ ॥
राज्यं प्रादाः किमन्यस्मै जित्वेत्युक्तः स दुर्जनैः ।
तल्लिप्सुर्मन्त्रयामास वधं प्रथमजन्मनः ॥ ९०० ॥
विजने मन्दिरे हन्यामिति संमन्त्र्य भूपतिः ।
यागं विधाय व्याजेन तेनागन्तुं निमन्त्रितः ॥ ९०१ ॥
मन्त्रे श्रुतिं गते राज्ञः सोथास्कन्दविशङ्कितः ।
आदिदेश स्वसैन्यानां द्रुतं संर्नहनोद्यतम् ॥ ९०२ ॥
संनद्धे राजसैन्येथ द्रुतं निर्गत्य भूपतेः ।
हृता विजयमल्लेन मन्दुराभ्यस्तुरंगमाः ॥ ९०३ ॥
संहरंस्तुरगान्वीक्ष्य प्रहरन्नृपतेर्बलम् ।
कुर्वन्महाहवं वीरो निर्गन्तुं तत्वरे पुरात् ॥ ९०४ ॥
आश्लिष्य पृष्ठं तिष्ठन्त्या जायया सहितो व्रजन् । स चकार तुरंगस्थः संग्राममतिमानुषम् ॥ ९०५ ॥
धारासारैः क्षणे तस्मिन्नकालजलदोज्झितैः।
विपर्यस्तेव पृथिवी सर्वतः समलक्ष्यत ॥ ९०६ ॥
भांकारमारूतारब्धभूरिभेरीरवे रणे ।
आसारेण शरैश्चासीच्छाद्यमानो नृपात्मजः ॥ ९०७ ॥
तं क्षीयमाणपृतनं यान्तं हन्तुं समुद्यताः ।
कर्माणि प्राकृतानीव न चण्डकसुता जहुः ॥ ९०८ ॥
भग्नसेतुं पयोवेगैर्वितस्तासिन्धुसंगमम् ।
सजानिरतरद्धोर्भ्यामवतीर्य स वाजिनः ॥ ९०९
सत्ववानकरोत्पत्न्यासज्जनं रिपुसंकटे ।
सिन्धुं भबद्धासुत्तीय तुरगोपि तमन्वगात् ॥ ९१० ॥
द्विषां दृग्गोचराद्यातः स तमारुह्य वाजिनम् ।
दरद्देशोन्मुखो वीरः प्रायाल्लहरवर्त्मना ॥ ९.११ ॥
कंदर्पद्वारपतिना सर्वतो रुद्धपद्धतिः ।
गिरीनुल्लङ्घ्य चाविक्षद्गिरिगुप्तां दरत्पुरीम् ॥ ९२२ ॥
दरदाभ्यर्चितं तत्र श्रीविद्याधरदेहिना ।
केचिन्निजाः परिजनाः शनकैस्तं प्रपेदिरे ॥ ९१३ ॥
श्रुत्वा स्वीकार्यमाणं च संरम्भं डामरादिभिः ।
प्रायुङ्क्त हर्षपृथिवीभृदुपायांश्चकितोन्वहम् ॥ ९१४ ॥
तेषु वन्ध्येषु शीतर्तुं सोतिवाह्य दरत्पुरे ।
डामरैः प्रहितालापश्चैत्रे यात्रामदान्मदात् ॥ ९१५ ॥
उत्तीर्य संकटांस्तिष्ठन्मार्गान्तः पटमण्डपे ।
अकस्मादभवन्मानी हिमानीहृतजीवितः ॥ ९१६ ॥
यदुल्लासाय संरम्भो धीरैर्विस्तार्यते महान् ।
कृत्यं हिनस्ति तद्दैवमत्यल्पनेनैव वस्तुना ॥ ९१७ ॥
उन्मीलनं तिग्मरुचिः प्रयत्ना-
द्येषां सहस्रेण करै: करोति ।
उन्मूलयत्येककरेण तानि
पद्मानि धाता कुपितो द्विपेन ॥ ९१८ ॥
द्वैराज्यशङ्कया कंचित्कालं संकुचितं ततः ।
भूयः प्रभयंतो लग्नं राज्यं हर्षमहीभुजः ॥ ९१९ ॥
राजशब्दस्तदा सेहे न कुत्राप्यधिरोहणम् ।
अत्युदग्रतया तस्मिल्लँघुत्वेनान्यराजसु ॥ ९२० ॥
स शोभादायिनीर्भकी: प्रावर्तयत मण्डले ।
निर्मत्सरो नरपतिः पुष्पर्तुरिव कानने ॥ ९२१ ॥
मुक्तकेशा निरुष्णीषा निष्कलाभरणाः पुरः ।
संत्यज्यैकं महीपालमभवन्निह देहिनः ॥ ९२२ ॥
धम्मिल्लग्रथनाद्यत्र मदनः कम्पनापतिः ।
जयानन्दोप्यमात्याग्र्यश्चित्रार्धोरुकधारणात् ॥ ९२३ ॥
अन्वभूत्पार्थिवक्रोधमविशेषेण मण्डले ।
तेन राज्योचितो वेषस्तत्र राज्ञा प्रवर्तितः ॥ ९२४ ॥
युग्मम् ||
स केषांचिदमात्यानामाकल्पोल्लासशोभिनाम् ।
निर्मत्सरः स्वदासीभिरारात्रिकमकारयत् ॥ ९२५ ॥
दाक्षिणात्याभवद्भङ्गिः प्रिया तस्य विलासिनः ।
कर्णाटानुगुणष्टङ्कस्ततस्तेन प्रवर्तितः ॥ ९२६ ॥
लडत्तालीदलाः स्थूलचन्दनस्थाससुन्दराः ।
रेजुर्जनास्तदास्थाने श्लाघ्यदीर्घासिधेनवः ॥ ९२७ ॥
स्वर्णकेतकपत्राङ्कजूटलम्बोर्जितस्रजः ।
चटुलातिलकाश्लिष्टविलोलतिलकाङ्कराः ॥ ९२८ ।।
अपाङ्गश्रोत्रयोर्बद्धसंधयोञ्जनरेखया ।
निर्नीरङ्गिककेशान्तबद्धहेमोपवीतकाः ॥९२९ ॥
अधराम्बरपुच्छान्तैर्लम्बैचुम्बितभूतलाः ।
प्रच्छादितार्धदोर्लेखक चुकाङ्कपयोधराः ॥ ९३० ॥
१ प्रभवतो इति स्यात् ।
४०
३१३कर्पूरोद्धूलनस्मेरा भ्रमन्त्यस्तरलभ्रुवः ।
बभ्रुराश्रितपुंवेषा झषाङ्कच्छलदङ्कताम्॥ ९३१ ॥
चक्कलकम् ॥
अन्योपजीव्यतां प्रापुस्तस्यार्थित्वेन मार्गणाः ।
विश्वाप्यायकतां मेघाः प्रणयेनेव वारिधेः ॥ ९३२ ॥
प्रसादैस्त्याग्निस्तस्य राज्ञः कनकवर्षिणः ।
समस्ता गाथकगणाः पार्थिवस्पर्धितां ययुः ॥ ९३२ ॥
विद्वच्चूडामणिर्भूभृत्पण्डितान्रत्नमण्डितान् ।
चकार युग्यतुरगच्छत्त्रादिप्रक्रियाभृतः ॥ ९३४ ॥
कश्मीरेभ्यो विनिर्यान्तं राज्ये कलशभूपतेः ।
विद्यापतिं यं कर्णाटश्चक्रे पर्माडिभूपतिः ॥ ९३५ ॥
प्रसर्पतः करटिभिः कर्णारकटकान्तरे ।
राज्ञोग्रे ददृशे तुङ्गं यस्यैवातपवारणम् ॥ ९३६ ॥
त्यागिनं हर्षदेवं स श्रुत्वा सुकविबान्धवम् ।
बिल्हणो वञ्चनां मेने विभूतिं तावतीमपि ॥ ९२७ ॥
सौवर्णामलसाराढ्या राजधान्यो धरापतेः ।
सुबह्व्योभ्रंलिहगृहा भ्रेजिरे भुवनाद्भुताः ॥ ९३८ ॥
तदीये नन्दनवने द्रुमेभ्यो न व्यधुः स्थितिम् ।
त्यागिना निर्जितास्तेन केवलं कल्पपादपाः ॥ ९३९ ॥
विविधाभिरशून्याम्बु विहङ्गमृगजातिभिः ।
तेन व्याप्तदिगाभोगं चक्रे पम्पाभिधं सरः ॥ ९४० ॥
सोज्ञासीद्यावतीर्विद्यास्तासां नामापि निश्चितम्।
वक्तुं नास्त्येव सामर्थ्यं व्यक्तं वाचस्पतेरपि ॥ ९४१ ॥
गीतमाकर्ण्यतेद्यापि तस्य वाग्गेयकारिणः ।
विपक्षैरपि पक्षमाग्रलुठद्वाष्पोदविन्दुभिः ॥ ९४२ ॥
स्वपतो दिनयामौ द्वौ सर्वकालं विलासिनः ।
दत्तस्थानस्य तस्यासीद्यामिनीषु प्रजागरः ॥ ९४३ ॥
तस्य दीपसहस्राङ्के स्थितस्यास्थानमण्डपे ।
विद्वद्गोष्ठीगीतनृत्तप्रस्तावेन क्षपा ययुः ॥ ९४४ ॥
कथान्ते शुश्रुवे तत्र पर्णचर्वणजः परम् ।
कान्ताधम्मिल्लशेफालीत्रुटिजन्मा
वितानैः सपयोदेव साग्निवप्रेव दीपकैः ।
रुक्मदण्डै: सशम्पेव सधूमेवासिमण्डलैः ॥ ९४६ ॥
साप्सरा इव कान्ताभिः सनक्षत्रेव मन्त्रिभिः ।
सर्षिसंघेव विबुधैः सगन्धर्वेव गायनैः ॥ ९४७ ॥
नित्यसंकेतवसतिर्धनदस्य यमस्य च ।
च मर्मरः ॥ ९४५ ॥
एकं विहरणारण्यं दानस्य च भयस्य च ॥ ९४८ ॥
क्षपास्थानस्थितिस्तस्य राज्ञः शक्राधिकश्रियः ।
कस्य वाचस्पतेर्वाचा वक्तुं कार्त्स्न्येन शक्यते ॥ ९४९ ॥
चक्कलकम् ॥
३१५
रौक्मैश्च राजतैश्चासीद्व्यवहारस्तदा घनः ।
मण्डले विरलोमुष्मिन्दीन्नारैस्ताम्रजैः पुनः ॥ ९५० ॥
दण्डनायकतां प्राप्य सुन्नः सर्वोन्नतिं भजन् ।
तस्मिन्काले त्वभूल्लोभान्नीचो मुष्टिंपचः परम् ॥ ९५१ ॥
निजा जयवने सूर्यामूलके विजयेश्वरे ।
आख्यान्ति यस्य लुब्धत्वं निर्व्ययस्थितयो मठाः ॥ ९५२ ॥
क्षुधितव्याधितानाथदीनाद्यार्तिनिवारणम् ।
सुस्पष्टं प्राप पट्टस्य राज्यलक्ष्मीः कृतार्थताम् ॥ ९५३ ।।
१ निवारणात् इत्युचितम् । राजतरङ्गिणी
नन्दिक्षेत्रे व्ययीकृत्य प्रत्यब्दं सप्त वासरान् ।
चण्पकः सफलां चक्रे सर्वकालार्जितां श्रियम् ॥ ९५४ ॥
कृष्णाजिनोभयमुखीमुख्यैर्दानैः क्षमाभुजा ।
अदरिद्रीकृता विप्रा निःशेषार्तिच्छिदार्थिनाम् ॥ ९५५ ॥
राज्ञो वसन्तलेखाख्या शाहिवंशप्रियाकरोत् ।
मठाग्रहारानगरे पूज्ये च त्रिपुरेश्वरे ॥ ९५६ ॥
माहेश्वर्यमयी काचिदित्थं ज्वालेव सोद्ययौ ।
उदारव्यवहारं तु न तद्राज्यं प्रचक्षते ॥ ९५७ ॥
अथ प्रवृद्धि संप्राप्ताः शनकैर्नवमन्त्रिणः ।
पूर्वामात्यद्विषो राज्ञो मतिमोहं प्रचक्रिरे ॥ ९५८ ॥
कुष्ठार्ताङ्घ्रियुगः शिखी बहुपदं गृह्णाति धावन्नहिं
भानुः पादसहस्रभाक्प्रतिपदं संचार्यतेनूरुणा ।
वञ्ज्यन्ते बलिनोपि यल्लघुबलैः सामर्थ्यहीनैश्च य-
ग्राम्यन्ते परिपूर्णवृत्तय इदं दैवस्य लीलायितम् ॥ ९५९ ॥
स सर्वशास्त्राधिगमप्रौढः परिवृढो विशाम् ।
यन्मोहितमतिश्चक्रे वैधेयैरपि मत्रिभिः ॥ ९६० ॥
विपन्नस्य पितुर्वैरप्रतिकारविधित्सया ।
स राजधानीनामाङ्के मठादि निरलोठयत् ॥ ९६१ ॥
त्यागी तत्कोशसंभारं व्ययीकुर्वन्नितस्ततः ।
लुब्धस्य चाभिधां तस्य पापसेन इति व्यधात् ॥ ९६२ ।।
शुद्धान्तेशुद्धशीलानां ढौकितं मूढचेतसा ।
स्पष्टं षष्ट्यधिकं राज्ञा स्त्रीणां तेन शतत्रयम् ।। ९६३ ।।
याहशीस्तादृशीस्तत्र नारीर्विन्यस्यतानिशम् ।
नागृह्यन्त परं डोम्बजनंगमकुलाङ्गनाः ॥ ९६४ ॥
अत्रान्तरे पूर्यमाणो गूढं कोटपदातिभिः ।
पुनर्भुवनराजोभूल्लहरालब्धिलुब्धधीः ॥ ९६५ ॥
स दर्पितपुरं प्राप्तः कंदर्पद्वारनायकम् ।
श्रुत्वा योद्धुं विनिर्यातं ययौ भूयोग्यदृश्यताम् ।। ९६६ ।।
तस्मिन्प्रसङ्गेपि नृपो दृप्यन्त्राजपुरीपतिः ।
संग्रामपालः केनापि हेतुना विक्रियां ययौ । ९६७ ।।
कंदर्पे कोटभृत्यानां भिन्नानां संग्रहोद्यते ।
क्रुध्यन्नाजपुरीं राजा व्यसृजद्दण्डनायकम् ॥ ९६८ ।।
स महद्भिः समं सैन्यैर्गच्छल्लोहरवर्त्मना ।
अधीरः कोटकच्छेषु सार्धं मासं व्यलम्बत ॥ ९६९ ॥
प्रत्यासन्नाच्छुचेर्मासात्प्रतापाञ्च विरोधिनाम् ।
त्रस्यतस्तस्य यात्रायां न संकल्पोप्यराजत ॥ ९७० ॥
अविशेषज्ञभावेन भर्तुस्तिष्ठन्निरुद्यमः ।
ततो जगाम कंदर्प एवोपालम्भमात्रताम् ॥ ९७१ ॥
कृतप्रतिज्ञोनाहारतया राजपुरीजये ।
उपालम्भार्दितः सोथ निःसामग्र्योप्यवाचलत् ॥ ९७२ ॥
निराहारस्य वसतः कंदर्पस्याद्रिगहरे ।
षष्ठेह्रथभूद्राजपुरीयोजनेभ्यधिके स्थिता ॥ ९७३ ॥
अव्याहतः सोरिबलाद्विषच्छस्त्राणि पातयन् ।
कदलीपल्लवान्मृद्गन्वनं सिंह इवाविशत् ॥ ९७४ ॥
दण्डनायकसैन्येभ्यः परमेक स्तमन्वगात् ।
सेनानी: कुलराजाख्यो बुद्धराजकुलोद्भवः ९७५ ॥
तं बाह्याल्पां राजपुर्या हतासंख्याहितं द्विषः ।
निहत्य शुक्लृच्छत्राङ्कं कंदर्प मेनिरे हतम् ॥ ९७६ ॥
१ पात्रतामित्युचितम् । ३१८ राजतरङ्गिणी
मध्यान्हे स तु कंदर्पः स्वयं संप्राविशद्वली ।
राजधानी राजपुर्या विंशत्रिंशैः समं भटैः ॥ ९७७ ॥
द्विपां त्रिंशत्सहस्राणि योधानामनिवर्तिनाम् ।
रुरोध राजपुर्यग्रे तत्पदातिशतत्रयम् ॥ ९७८ ॥
काश्मीरकाणां निहतं रणे तत्र शतद्वयम् ।
चत्वारि तु शतान्युर्वी खशानामप्यशेरत ॥ ९७९ ॥
भग्ने रिपुवले दूरमसंख्येयैश्चिताग्निभिः ।
संस्कुर्वद्भिर्हतांन्राशीव्रणो मृत्योर्महानसः ॥ ९८० ॥
तेनैवं स्वाम्युपालम्भवेतालो रभसार्पितः ।
रणश्मशाने वीरेण शमितो मांसशोणितैः ॥ ९८१ ॥
याममात्रावशेषेह्नि पुनरेवाथ संहताः ।
द्विषः परिभवोत्तप्ताः कंदर्प योद्धुमाययुः ॥ ९८२ ॥
ततस्तानथ नाराचान्निचिक्षेप स संयुगे ।
लिप्तानौषधतैलेन विद्धा यैः प्राज्वलन्दिशः ॥ ९८३ ॥
आग्नेयं वेत्यसावस्त्रमिति मूढा विशङ्किताः ।
ते दूरं प्रययुर्भीता निन्दन्तः पुनरागमम् ॥ ९८४ ।।
प्रगल्भभावः प्रतिभानमोजः
प्रयोगचातुर्यमसंभ्रमश्च ।
महाशयानामतिसंकटेषु
धैर्योपनद्धां न धियं जहाति ॥ ९८५ ॥
राजधानीं प्रविष्टः स भानावस्ताभिलाषिणि ।
भूयोप्यपश्यत्संछन्नां बाह्याली बहुलैर्बलैः ॥ ९८६ ॥
योद्धुं यियासुः शुश्राव प्राप्तं तं दण्डनायकम् ।
घोरां रणाटवीं दृष्ट्वा भयात्स्थगितसैनिकम् ॥ ९८७ ॥
१ तानासीद्वणो इति स्यात् । सप्तमस्तरङ्गः ।
स्वीयैर्दृष्टैः क्षतैः कैश्चिंद्दृप्यन्त्यधिकमाहवे ।
पारकीयैस्त्रसन्त्यन्ये कोन्तरं वेत्ति देहिनाम् ॥ ९८८ ॥
आनीतोथ विनिर्गत्य तेनैव स भये ब्रुडन् ।
स्पर्धमानो यथाम्भोधौ मजन्हंसेन वायसः ॥ ९८९ ॥
रक्तप्रजं वीर्तसैन्यमभिन्नं बहुकोशवत् ।
परराष्ट्रं विशेदेवं स्ववीर्येणैव कोपरः ॥ ९९० ॥
प्रणतात्करमादाय ततो राजपुरीपतेः ।
मासमात्रेण कंदर्पः पुनः से भुवमाययौ ॥ ९९९ ॥
प्रत्युद्गमादिसत्कारैः कृतपूजो महीभुजा ।
३१९
स दण्डनायकादीनां शिरःशूलावहोभवत् ।। ९९२ ।।
परिहासपुरे पारिपाल्यं कुर्वन्कठोरधीः ।
वातगण्डाख्यया ख्याति निन्ये यस्तत्र पर्षदा ॥ ९९३ ॥
प्रभूतोत्कोचसंप्रीतसचिवप्रेरणस्पृशा ।
अपास्य वासनं राज्ञा पादाग्रादौ नियोजितः ॥ ९९४ ॥
आनन्दः स क्षणे तस्मिन्निच्छन्द्वाराधिकारिताम् ।
कंदर्पद्वेषिणामासीन्मत्रिणामभिसंमतः ॥ ९९५ ॥
तत्प्रेरितस्ततः पातुं लोहरं विताहितम् ।
मण्डलेश्वरतां दत्त्वा कंदर्प प्राहिणोन्नृपः ॥ ९९६ ॥
मन्त्रविक्रमसंपन्नः कुभृत्यैः स्वोदये सुभिः ।
युक्त्या तया राजपशोः समीपात्सोपवाहितः ॥ ९९७ ॥
दूत्यार्होयमिति प्रहाय निकटाद्देशान्तरं वाग्ग्मिनं
सूरिं बन्धुवियोगकृन्ननु वचोमुष्येति संत्यज्य च ।
शूरं राज्यमसौ हरेदिति तैया हित्वा विचारोज्झितो
धूर्तप्रेरणयाबुधो नृपपशुर्नायाति नाशं चिरात् ॥ ९९८ ॥
१ केचित् इति स्यात् । २ वीरसैन्यं इत्युचितम् | ३ स्त्रभुवं इत्युचितम् । ४ भ. यात् इति स्यात् । राजतरङ्गिणी
अदर्शनात्सुबद्धापि कंदर्पप्रीतिराशयात् ।
राज्ञो जगाल कालेन सा मुष्टेरिव वालुका ॥ ९९९ ॥
उत्कर्षपुत्रावादाय चिकीर्षुर्लोहरेशताम् ।
कंदर्पो वर्तत इति क्षितिपं मत्रिणोवदन् ॥ १००० ॥
तथेति नृपतिर्गृह्णन्बन्दुं हन्तुमथाशु तम् ।
ससैन्यं व्यसृजत्पट्टं टक्कं चासिधराभिधम् ॥ १००१ ॥
तयोः संप्राप्तयोर्वार्ता तां लेख्यव्यत्ययाद्विदन् ।
विमुखश्चकितात्मा च कंदपभूद्यथा मुहुः ॥ १००२ ॥
केलिद्यूतक्षणे हस्तं मृद्गन्सेवकवत्पुरः ।
आसीदसिधरस्तस्य बन्दुमभ्युद्यतस्तदा ॥ १००३ ॥
ततः पाणि विनिष्कृत्य सोनुष्ठाग्रेण तत्करम् ।
अमृद्गाद्येन निस्त्वक्त्वं क्लिन्नः पक्षीव सोगमत् ॥१००४॥
अनन्तरज्ञो भूभृच्च तेनात्मा च नृपाश्रितः ।
विगर्ह्यते स्म खिन्नेन पट्टश्चैवमकथ्यत ॥ १००५ ॥
नेयाशयो नरपतिः कुटुम्बं प्रहिणोतु मे ।
अर्पयित्वा ततः कोट्टं प्रयास्यामि दिगन्तरम् ॥ १००६ ॥
आनीय दत्तांस्तैर्ज्ञातीनादाय द्रोहवर्जितः ।
स विमुक्ताधिकारोथ मन्त्री वाराणसीं ययौ ॥ १००७॥
हत्वा गयायां सामन्तमेकमन्यं निवेश्य च ।
काश्मीरकाणां चक्रे स श्राद्धशुल्कनिवारणम् ॥ १००८ ॥
स हत्वा चौरसेनान्यं ससैन्ये दुर्गमेध्वनि ।
पूर्वाशामध्वनीनां च व्यधान्निर्घृतकण्ठकम् ॥ १००९ ।।
१ यदा इत्युचितम् । २ विनिष्कृष्य इत्युचितम् । ३ कण्टकाम् इत्युचितम् । ३२० सप्तमस्तरङ्गः ।
व्याघ्रं निहत्योग्रसत्त्वं वाराणस्यां निरस्यता ।
पूर्वा दिग्भूषिता तेन मठैः सुकृतकर्मठैः ॥ १०१० ॥
ते तन्निर्वासनादेव लब्धलक्षाः कुमत्रिणः |
अन्योन्यासूयया जघ्नुरथ कार्याणि भूभुजः ॥ १०११ ॥
॥
स्वैराहारोदितगुरुमदाः शृङ्गकण्डूतिशान्त्यै
दुर्वारेर्ष्याकलुषमतयो यत्र दुर्मत्रिमेषाः ।
अन्त्यन्योन्यं भवति गणितैर्वासरैरेव कैश्चि
न्मध्यस्थाणोरिव नरपतेस्तत्र सर्वाङ्गभङ्गः ॥ १०१२ ॥
अतिक्रामति कालेथ पार्थिवं हन्तुमुद्यमम् ।
दुद्रुभुर्जातराज्येच्छस्तान्वनिर्धम्मटोभजत् ॥ १०१३ ॥
द्रोहापवादद्भागेष भवेद्राज्यमिदं पुनः ।
मामेव वेश्यापुत्रत्वाद नर्हेस्मिन्नुपैष्यति ॥ १०१४ ॥
इति संमत्र्य सुचिरं निहन्तुं पृथिवीभुजम् ।
प्रेरितो जयराजोभूत्तेनासरलचेतसा ॥ १०१५ ॥
३२१
युग्मम् ॥
विलावग्रामजान्क्षिप्त्वा तीक्ष्णान्द्रोहाय भूपतेः ।
सोवरोधवधूद्वित्रा विदधे मध्यपातिनीः ॥ १०१६ ॥
कमात्सिद्युन्मुखे तस्मिन्कार्ये राजपुरी नृपः ।
दूत्याय व्यसृजजातु बहुमानेन धम्मटम् ॥ १०१७ ॥
सहस्रमङ्गलगृहे सुदिनापेक्षया स्थिंतिम् ।
तं सिद्धिभङ्गचकितो जयराजः समाययौ ॥ १०१८ ॥
तमर्थ मण्डपे गूढं तयोर्मन्त्रीयमाणयोः ।
प्रयागानुचरः कश्चिद्भित्तिव्यवहितोशृणोत् ॥ १०१९ ॥
१ दुध्रुक्षुः इत्युचितम् । २ स्थितम् इत्युचितम् । ३ मन्त्रयमाणयोः इत्युचितम् ।
४१३२२ राजतरङ्गिणी
तदावेदिततद्वार्तात्प्रायागात्तत्कथां ततः ।
बुद्ध्वा निवर्तयामास धम्मटं गमनान्नृपः ॥ १०२० ॥
कुलक्षयभयात्तिष्ठंस्तत्प्रतीकारमन्थरः ।
स्वमेव केवलं रक्षन्नासीत्स चकितोन्वहम् ॥ २०२१ ॥
असिद्धिं जयराजस्तु दृष्ट्वा दूतैः स्वंसमुखौ ।
शमालडामरौ वीरौ वागपाजाभिधौ व्यधात् ॥ ९०२२ ॥
स्वभृत्यैर्भेदनिर्यासुंदनिर्यातैर्यियासुं तं निवेदितम् ।
श्रुत्वा क्षपायां क्षितिभृद्दिक्षु चिक्षेप रक्षिणः ॥ १०२३ ॥
व्याजाद्यात्रां वदन्सज्जः प्रातस्तान्वङ्गिरेव तम् ।
चतुष्कं पूजने धूर्तो जयराजमुपानयत् ॥ १०२४ ॥
राज्ञो दत्तार्गले धास्नि स्थितस्यास्थानमण्डपम् ।
सत्रा स भ्रातृपुत्रेण धम्मटेन ततोविशत् ॥ १०२५ ॥
रक्षिणोथ बहिर्न्य॑स्य प्रयागः पाथिवाज्ञया ।
जयराजं बधानेति नीचैर्धम्मटमभ्यधात् ॥ १०२६ ॥
धम्मटे विभ्वसञ्शस्त्रं जयराजस्त्यजेद्धुवम् ।
निदेशेनामुना वेत्ति स्वमज्ञातं च धम्मटः ॥ १०२७ ॥
द्वयोरेकस्य वा युद्धे तयोर्मृत्यौ हितं च नः ।
व्यक्तीकृतैक्ययोर्वापि वधो लोकेप्यगर्हितः ॥ १०२८ ॥
इति निर्ध्यायतः शश्वदविरोधेन वेधसः ।
प्रज्ञास्य प्रत्यभाद्राज्ञो मन्त्रो युक्ततमस्तथा ॥ १०२९ ॥
तिलकम् ||
नाबुद्ध मां ध्रुवं राजा तान्वङ्गिरिति विश्वसन् ।
जयराजमुपागत्य ततो धार्ष्ट्याद्वचोव्रवीत् ॥ १०३० ॥
१ प्राज्ञस्य इत्युचितम् । २ तदा इत्युचितम् ¦
1
सप्तमस्तरङ्गः ¦ २२
अप्रसन्नस्त्वयि नृपो यद्यद्रोहोसि निश्चयात् ।
तत्त्वयाशु वि शुद्ध्यर्थमसिधेनुः समर्प्यताम् ॥ १०३१ ॥
दैवेन वा मोहितः स तद्धिश्वासेन वालयजत् ।
आक्षिप्यमाणः शस्त्रास्त्रकोविदः शस्त्रमन्यवत् ॥ १०३२ ॥
वैक्ल्व्यदर्शनात्सेर्ष्यस्ततः स परुषां गिरम् ।
तन्वङ्गपौत्रष्टुल्लाख्यस्तं जगादाज्जकात्मजः ॥ १०३३ ॥
न त्वं निःसत्त्व कय्याया जातः कलदाभूभुजा ।
आसीज्ज्नयिता नूनं क्लीबो यः कश्चदेव ते ॥ १०३४ ॥
निष्ठायां धैर्यचर्यणां परिणाममजानता ।
तेनेत्युक्तः स रीताम्बुसिक्तसुप्तोपमोभवत् ॥ १०३५ ॥
युगलकम् ॥
द्रोहोदन्तं पृच्छ्यमानो धीरस्तन्मध्यपातिनम् ।
यातनाक्लेशितोप्यूचे स्वमेव न तु धम्मटम् ॥ १०३६ ॥
विषघ्नमन्त्रवीर्येण मोघीकृतविपाशनः ।
रज्ज्वा निपीड्य ग्रीवाग्रं ततो निशि विपादितः ॥१९०३७॥
जय्यकेन प्रतीहर्त्रा शिरश्छित्त्त्वोज्झितं ययौ ।
भट्टारनड्वलातोये तद्वपुर्मत्स्य भोज्यताम् ॥ १०३८ ॥
तमेकसप्तते वर्च हत्वा भाद्रपदे नृपः।
वधं गभीरहदयो धम्मटस्पाप्यचिन्तयत् ॥ १०२९. ॥
आदिदेशाथ तत्सिद्धैः रहः शस्त्रभृतां वरम् ।
शूरं कलशराजाख्यं ठक्कुरं लोहराश्रयम् ॥ १०४० ॥
प्रहिणोति यदा दूतं प्रयागस्ते तदा त्वया ।
संपाद्यमेतदित्यूचे तं चोपचितसत्क्रियम् ॥ १०४१ ॥
असिद्धिभीत्या स्वं दतं स प्रहिण्वप्रयागकः ।
समन्त्र्य क्रियतामेतदित्यूचे कुपितो नृपम् ॥ १०४२ ॥
राज्ञि मन्त्रियमाणेथ पञ्चानीयाग्यमन्त्रिणः ।
वामनः सागरे व्दारे त्यक्तदेहोव्रवीद्वचः ॥ १०४३ ॥
मन्त्रश्च मत्रिणश्चेते न यावन्निःसृता बहिः ।
तावत्क्रियेत येत चेदेतन्न भद्राणि दरिद्रति ॥ १०४४ ॥
राजाज्ञया प्रयागेण ततो दूते विसर्जिते ।
तीक्ष्णः कलशराजाख्यस्तनयाभ्यां सहाययौ ॥ १०४५ ॥
तस्मिन्प्रसङ्गे तान्वङ्गिः श्यनस्य दददातपम् ।
राजधान्यन्तरेवासीद्द्वित्रैरनुचरैः समम् ॥ १०४६ ॥
पुरः कलशराजं तं दृष्ट्वा पश्चाच्च तत्सुतौ ।
यावत्सशङ्कमाचख्यौ तावभृत्यैर्निजैर्जहे ॥ १०४७ ॥
शक्तोपि धम्मटः क्रष्टुं कृपाणीमिति वादिनम् ।
हन्तुं कलशराजं तु यावच्छस्त्रे व्यधात्करम् ॥ १०४८ ॥
तावत्तेनाग्रतः पश्चात्तत्पुत्राभ्यां छृताहतिः ।
आसनादुच्चलन्नेव क्षिप्रं पराणैरमुच्यत ॥ १०४९ ॥
मुमूषुर्णा क्षतस्तेन ज्यायान्क कलशराजजः ।
चित्रमायुधवैगुण्यान्नाभीक्ष्ण व्रणितोभवत् ॥ १०५० ॥
तस्य ह्यभाग्ययोगेन तेष्वेवाहःसु शस्त्रिणः ।
निजा कृपाणी तुत्रोट तेनाभद्रायुधोभवत् ॥ १०५१ ॥
निहत्य पातितः पृष्ठात्स तैर्व्याधैरिवाण्डजः ।
शुनां ग्रासाय संत्यक्तः श्वपाकैः पार्थिवाज्ञया ॥ १०५२ ॥
राज्ञा तन्वनप्तारौ स्वयं रह्लणसह्लणौ ।
" आगत्य प्राङ्गणे त्यक्तकृपाणी परिरक्षितौ ॥ १०५३ ॥
दत्तास्कन्दास्तु दुल्लाद्याः संरम्भेण युयुत्सवः
माययोदयसिंहेन दाम्भिकेनैत्य वञ्चिताः ॥ १०५४ ॥
यूयं पुत्रा ममेत्युक्तवतस्ते धार्मिकस्य यत् ।
प्रत्ययात्तस्य शस्त्राणि तत्यजुर्जीवितेच्छवः ॥ १०५५ ॥
राज्ञो विशुद्धिः क्रियतां पार्श्वमेत्येति तद्वचः ।
तैः समागत्य जगृहे मार्गों राजगृहान्प्रति ॥ १०५६ ॥
तन्वङ्गजगृहोच्छिदैर्वाल एव विवर्धितः ।
दुल्लुं ततो विहस्यैवं स्वच्छत्र
छत्रग्राहकोवदत् ॥ १०५७ ॥
तन्वङ्गनतो यत्पूर्व जयराजमभाषथाः ।
न त्वं निःसत्त्व कय्याया इति तद्विस्मृतं तव ॥ १०५८ ।।
स ते तादृश एवायं वर्तते संकटः क्षण |
कि धैर्यावसरे मूढ वैलव्यमवलम्वसे ॥ १०५९ ॥
तस्माज्जातोसि नियतं मत्पित्रोच्छिष्टमुष्टिना ।
अहं तु तेन वीरेण त्वत्पित्रा कीर्तिभागिना ॥ १०६० ॥
इत्युक्त्वा स रणे गृह्णन्खड्डधाराजलंजलाम् ।
पपात जन्ममालिन्यं मानी प्रक्षालयन्निव
नृपान्तिकं प्रयास्याम इति निश्चयतस्ततः ।
ढुल्लादीन्राजपुरुषाः कारागारे निचिक्षिपुः ॥ १०६२ ॥
ते यौवनभरोन्मत्ता द्रुमा वासन्तिका इव ।
प्रत्यभासन्त कारुण्याद्रक्षणीयाः क्षमाभुजः ॥ १०६३ ॥
टक्कस्तु बिम्वियो नाम पापः संप्रेक्ष्य भूभुजम् ।
न्यजिग्रहत्तान्ग्रीवासु निशि पाशान्निवेशयन् ॥ १०६४ ॥
गुल्लो विजयराजश्च वल्लो गुल्लच तेलुठन् ।
तन्वङ्गपौवाश्चत्वारो हता वध्यमहीतले ॥ १०६५ ॥
१ संकटक्षण: इत्युचितम् । २ झलज्झलाम् इति स्यात् । ३ टुल्लो इति स्यात् । ● ३२६ राजतरङ्गिणी
हतानामपि सौन्दर्य तेषामद्यापि वर्ण्यते ।
कथान्तरे वयोवृद्धैर्वद्धास्रुस्यन्ददुर्दिनैः ॥ १०६६ ॥
सतताभ्यस्तताम्बूलैः स्रस्तैस्तद्दशनाङ्कुरैः ।
कीर्णगोणाश्ममालेव सुचिरं वध्यभूरभूत् ॥ १०६७ ॥
वृद्धिमानीतयो राज्ञाप्युत्कर्षापत्ययोस्ततः ।
ज्यायान्प्रमिभ्ये डोम्वाख्यो गूढदण्डैः कुलच्छिदा ॥ १०६८॥
स्फुलिङ्गमिव संभाव्य तेजोविस्फूर्जितं शिशुम् ।
जघान जयमल्लं च तद्वद्विजयमल्लुजम् ॥ १०६९ ॥
गोप्तॄन्स्वगोत्रजान्हत्वा भोक्तुमेकस्य कस्यचित् ।
कुर्वन्ति दैवोपहता राज्यं निष्कण्टकं नृपाः ॥ १०७० ॥
संरूढं मधुगोलमुञ्चविटपव्यूहावलीगहरे
मूढः कर्तुमकृच्छ्रहार्यमभितः कस्यापि भव्यात्मनः ।
दैवप्रेरणया प्रकम्पविवश: पत्रप्रहारैर्हढं
(
तद्गोप्तॄन्मधुपान्निहत्य शमयत्यश्वत्थपृथ्वीरुहः ॥ १०७१ ॥
शातिद्रोहमहापाप्मनष्टधीरथ पार्थिवः ।
डिम्बानामप्यसंभाव्यामभजद्विटभोज्यताम् ॥ १०७२ ॥
वामनस्यात्मजः क्षेमस्तं जानञ्जनकद्विषम् ।
गैरयत्कलशेशस्थच्छत्र हेमनिवर्हणे ॥ १०७३ ॥
तामिच्छामच्छिनत्तस्य भक्तो युक्त्या प्रयागकः ।
धावतः श्वभ्रपातेच्छां धीरो यन्तेव दन्तिनः ॥ १०७४ ॥
अनिशं नष्टचेष्टानां शवानामिव भूभुजाम् ।
अन्तः प्रवेशकुशलो यो वेताल इवाभवत् ॥ १०७५ ॥
१ शोणाश्म इत्युचितम् । २ डिम्भानां इत्युचितम् । सप्तमस्तरङ्गः ।
नप्ता हलधरस्याथ विटो लोष्टधराभिधः ।
जगाद निर्जने जातु राजानं रञ्जनेच्छया ॥ १०७६ ॥
युग्मम् ॥
३२७
ह्रियतां ग्रामहेमादि कलशेश्वरसंश्रयम् ।
तत्प्रसादाश्मभिः सेतुं वितस्तायां करोमि ते ॥ १०७७ ॥
आलेख्यं गगने लिखामि बिसिनीसूत्रैर्वयाम्यम्बरं
स्वप्नालोकितमानयामि कनकं ग्रामि वप्रं हिमैः ।
इत्याधुक्तमपि स्फुटं जडमतिर्जानाति सत्यं नृपो
यस्तादृक्त्रपया न वक्ति स गतप्रौढिः परं वञ्ज्यते ॥ १०७८
निषिषेध चिकीर्षा तु प्रयागस्तामपि प्रभोः ।
सदुपस्थायिकोपथ्याभ्यर्थनामिव रोगिणः ॥ १०७९ ॥
अथ लोष्टधरो हास्यावसरे जातु भूपतिम् ।
बद्धस्य मोक्षो देवस्य क्रियतामित्यभाषत ॥ १०८० ॥
स्मित्वा किमेतदित्युक्तवन्तं तं स व्यजिशपत् ।
तंदभुण्डपुरे भीम चाँहिरभूत्पुरा ॥ १०८१ ॥
विरोधात्परिपत्यानां तत्कृतो भीमकेशवः ।
राज्ये कलशदेवस्य बद्धद्वारोभवच्चिरम् ॥ १०८२ ॥
तैः शान्तवैरैर्विदधे यदाथ विवृताररिः ।
चौरापहृतदुर्वर्णकवचो ददृशे तदा ॥ १०८३ ॥
भूयोपि चक्रे तद्भीत्या कोशसामग्र्यभागिति ।
ततः प्रभृत्यद्य यावद्वद्धद्वाराररिः स्फुटम् ॥ १०८४ ॥
आदीयतां तदीयस्तत्कोशश्चौरभयावहः ।
सोपि बन्धाद्विमुक्तोस्तु पुष्पदीपादिभोगभाक् ॥ १०८५ ॥
१ तत्प्रासादाश्मभिः इति समुचितः पाठः । २ उदभाण्डपुरे इति स्यात् । ३ शाहिः इति स्यात् । ४ पारिषद्यानां इति स्यात् । ३२८ ● राजतरङ्गिणी
इति संप्रेरितस्तेन तथा चक्रे स भूपतिः ।
कोशं ततः प्रपेदे च मणिस्वर्णादिनिर्भरम् । १०८६ ।।
अचिन्तयच्च यत्रेदृग्वस्तु शून्यसुरास्पदे ।
कीहक्तत्रापरेषु स्यादाढ्येषु सुरवेश्मसु ॥ १०८७ ॥
कृतप्रायः स तत्रत्यैः पारिषद्यैस्ततो नृपः ।
निष्क्रयं रूढभारोढिवारणेन प्रदापितः ॥ १०८८ ॥
क्रमेण सेनानानाङ्गव्ययव्यसनशालिनः ।
सुरार्थहरणे रूढा धीः संभावनया तया ॥ १०८९ ॥
पूर्वराजार्पितान्कोशांस्ततः स भुवनाद्भुतान् ।
सर्वगीर्वाणवेश्मभ्यो लुब्धबुद्धिरपाहरत् ॥ १०९० ॥
हृतेषु कोशेष्वानेतुं देवानां प्रतिमा अपि ।
चकारोदयराजाख्यं देवोत्पाटननायकम् ॥ १०९१ ॥
वदनेषु स नग्नाटै: शीर्णघ्राणाङ्किपाणिभिः ।
मूर्तिनाशाय देवानां शकुन्मूत्राद्यपातयत् ॥ १०९२ ॥
स्वर्णरूप्यादिघटिता गीर्वाणाकृतयोलुठन् ।
अध्वस्विन्धनगण्डाल्य इव सावस्करेष्वपि ॥ १०९३ ॥
विवुधप्रतिमाश्चक्रुराकृष्टा गुल्फदामभिः ।
थूत्कारकुसुमच्छन्ना रुग्ननाटकादयः ॥ १०९४ ॥
ग्रामे पुरेथ नगरे प्रासादो न स कञ्चन ।
हर्षराजतुरुष्केण न यो निष्प्रतिमीकृतः ॥ १०९५ ॥
तस्य देवावधृष्यौ द्वौ परमास्तां प्रभाविनौ ।
नगरे श्रीरणस्वामी मार्त्ताण्डः पत्तनेष्विव ॥ १०९६ ॥
द्वौ महाप्रतिमामध्यादुद्धविम्बावरक्षताम् ।
दानप्रसङ्गे तं जातु याचित्वा त्यागिनं नृपम् ॥ १०९७ ॥
१ रुग्ण इत्युचितम् । सप्तमस्तरङ्गः ।
परिहासपुरे जन्ममेदिन्यां कनकाभिधः ।
गायनः कुशलश्रीश्च श्रमणो नगरान्तरे ॥ १०९८ ॥
अधिगतवतां लोके विश्वाद्भुतामपि संपदं
न खलु विरतिर्दुष्कर्मभ्यो धनार्जनकाङ्क्षिणाम् ।
किमपि कमलावात्यै पद्माकरोद्धृतिपातकं
भजति कमलालीलावासो भवन्नपि हि द्विपः ॥ १०९९ ॥
पैतामहेन पित्र्येण तथा राज्यचिकीर्षया ।
लोहरादाहृतार्थस्य कोशेनोत्कर्षभूपतिः ॥ ११०० ॥
युक्तोपि पूर्वराजार्थं देवौकोभ्यो जहार यः ।
ऐच्छद्धनार्जनं हा त्रिक्सोपि वास्तव्यपीडया ॥ ११०१ ॥
युग्मम् ॥
३२९
तदाज्ञामात्रमादाय सचिवैरथ पापिभिः ।
ते ते नवनवायासनामाङ्का नायकाः कृताः ॥ ११०२ ॥
कालानुवृत्तिपरतां धिग्धिग्राजोपजीविनाम् ।
•
यत्र मन्त्री वयस्थः सन्सदाचारोपि गौरकः ॥ ११०३ ॥
सर्वदेवगृहग्रामसर्वस्वापहृतिव्रतम् ।
स्वीचकाराज्ञया भर्तुरर्थनायकतामपि ॥ ११०४ ॥
गुग्मम् ॥
पार्षदः समरस्वामिदेवागारे च हेलकः ।
आप्तो विजयमल्लस्य यो राज्ञो द्वेष्यतां ययौ ॥ ११०५ ॥
द्विगुणोत्पत्तिदानेन सोर्थनायकतां गतः ।
लब्धावकाशो राजाने क्रमेणासीन्महत्तमः । १९०६ ॥
किमन्यद्धरता तेन सर्वार्थान्सर्वनायकैः ।
व्यधीयत धनावात्यै पुरीषस्थापि नायकः ॥ ११०७ ॥
१ भूपते: इत्युचितम् । ४२ ३३०
राजतरङ्गिणी
श्रीगर्भपदपर्यायच्छन्नजाड्यप्रभावतः ।
तथार्जितस्य कोशस्य सोनुरूपव्ययोभवत् ॥ ११०८ ॥
मृगीदृशां दुर्लभतां हयानां
श्वासान्विटानां कुवचःसहत्वम् ।
वैतालिकानां च विकत्थनत्वं
क्रेतुं क्षितीशाः क्षपयन्ति लक्ष्मीम् ॥ ११०९ ॥
कोपप्रसादैर्दयिताजनस्य
हयादिवृत्तान्तगवेषणेन ।
भृत्यानुवृत्त्या मृगयाकथाभी
राज्ञां शिशूनामिव याति कालः ॥ १११० ॥
विलासहासासनयानदान-
पानाशनाद्या असतीः सतीर्वा ।
छायेव चेष्टाः क्षितिपालवर्गः
परानुकारेण करोति सर्वाः ॥ ११११ ॥
अमानुषत्वं पुरुषाधिराजा
विस्तवैः स्वस्य विचिन्त्य सत्यम् ।
तृतीयमक्ष्यभ्यधिकं भुजौ वा
ममेति मत्वा न विदन्ति मृत्युम् ॥ १११२ ॥
निशासु येषां प्रभवन्ति दारा
दिनेष्वमात्या नियताधिकाराः ।
अहो भ्रमः स्वस्य यदत्र तेपि
विदन्ति भूपाः प्रभविष्णुभावम् ॥ १११३ ॥
स्वादूचितं स्वादुतयैव भुते
धूत्कृत्य मुञ्चत्यपि धूत्कृतानि ।
वित्रासितस्त्रासमुपैत्यकस्मा-
भ्दूभृच्च बालश्च समानभावः ॥ १११४ ॥
जाड्यमित्यादि यत्किंचित्क्षितिपानां कटाक्षितम् ।
तत्सर्वं हर्षदेवस्य जाड्येन लघुतां ययौ ॥ १११५ ॥
तुष्टः पटहवाद्येन हृद्यातोद्यविदे ददौ ।
भीमनायकनाम्ने स करिणं करिणीसखम् ॥ १२१६ ॥
स्वशिष्यस्तेन तस्यासीद्रायनः कनकोथ सः ।
चण्पकावरजः खेदाद्गीताभ्यासकृतोद्यमः ॥ २११७ ॥
प्रसादीकृतमस्मै च खेदच्छेदनमिच्छता ।
तेन काञ्चनदीन्नारलक्षमक्षतचेतसा ॥ १९११८ ॥
कर्णाटभर्तुः पर्माण्डेः सुन्दरीं चन्दलाभिधाम् ।
अलेख्यलिखितां वीक्ष्य सोभूत्पुष्पायुधक्षतः ॥ १११९ ॥
उत्तेजयन्ति संघर्षे हास्ये जडमतीन्विटाः ।
सारमेयानिवाजस्रं प्रोत्साह्य प्राकृताशयाः ॥ ११२० ॥
स विटोद्रेचितो वीतत्रपश्चक्रे सभान्तरे ।
प्रतिज्ञां चन्द्रलावाप्त्यै पर्माण्डेश्च विलोडने ॥ ११२१ ॥
कृतापक्त्रिमकर्पूर्परित्यागं प्रतिज्ञया ।
तं च स्तुतिमिषादेवं जहसुः कविचारणाः ॥ ११२२ ॥
भाषावेषविशेषतः परिगतस्त्वं दाक्षिणात्योध्वगो
गन्धादप्यवधारितं यदुत ते कर्पूरकोलं करे ।
पक्वं चेदिदमङ्ग हर्षनृपतेस्तत्कल्पयोपायनं
नो चेत्तिष्ठतु नालिकेरकुहरे संप्रत्यमुष्मिन्यतः ॥ ११२३ ॥
आ कर्णाटवसुंधराधववधादा चन्दलालिङ्गना-
दा कल्याणपुरप्रवेशनविधेरा पिम्मलादर्शनात् ।
राजतरङ्गिणी
आ राजाश्रयकाननान्तवसुधापारर्द्धिकौतूहला-
द्देवेन प्रतिषिद्धमिद्धमहसा पोताससंचर्वणम् ॥ ११२४ ॥
विटः प्रसाद्य नृपतिं मदनः कम्पनापतिः ।
महत्तरत्वं जग्राह तस्याश्चित्रार्पिताकृतेः ॥ ११२५ ॥
वस्त्रालंकारनिर्वाहकृतेमुष्याश्च वेतनम् ।
नित्यमादत्त भूपालाद्दायमीर्ष्याशमाय च ॥ ११२६ ॥
विरत्वे नित्रपत्वे च मदनस्य कथाक्रमः ।
मौग्ध्ये पारिप्लवत्वे च नृपस्य निकषोभवत् ॥ ११२७ ॥
मातेयं वर्द्धिका नाकात्तवानीतेति वादिभिः ।
संदर्य जरतीं नारी मुषितः सोपरैर्विटैः ॥ ११२८ ॥
दासीश्च देवता एता इत्युक्त्वान्यैः प्रवेशिताः ।
उन्नतिं च श्रियं चौज्झत्प्रणमञ्जहसे जनैः ॥ ११२९ ॥
दास्यो मदनसंलापमन्त्राद्युल्लेखकारिभिः ।
अध्यापिता विटैस्तस्य मतिमोहं प्रचक्रिरे ॥ ११३० ॥
ताभ्यः काभिरपि क्ष्माभृत्सुरतं समयोचितम् ।
वाञ्छन्तीभिः कृतः स्वाङ्गस्पर्शाद्भाग्याशयोज्झितः॥ ११३१॥
आयुष्कामाय भूयांसं कालं जीवितकाङ्क्षिणे ।
आयुर्वर्षशतान्यस्मै ता मूढमतये ददुः ॥ ११३२ ॥
डोम्बेन पिण्डसिद्ध्यर्थी केनाप्येतद्रसायनम् ।
पिण्डसिद्धिकृदित्युक्त्वा पेयं किमपि पायितः ॥ ११३३ ॥
किं तस्य कथितैरन्यैर्मोग्ध्यैर्यो याचितो विटैः ।
विद्यमानादिव धनादायुषोपि व्ययं व्यधात् ॥ ११३४ ॥
बलरूपेच्छुरपरानुपायान्यानसेवत ।
कथयेत्कः सदाचारस्तानतोपि त्रपावहान् ॥ ११३५ ॥
१ पाहिलात इत्युचितम् । २ वप्पिका इति स्यात् ।
स एवमन्धतामिस्त्रे निक्षिप्तः शाश्वतीः समाः ।
मुग्धबुद्धिः स्वजाड्येन दुर्जातैश्च कुमन्त्रिभिः ॥ १२१३६ ॥
मेघवाहनमुख्यानां कृते लोकोत्तरे यथा ।
सन्तद्याल्पधियः केचित्संदेहान्दोलिताशयाः ॥ ११२३७ ॥
तथास्मिन्नपि दुष्कृत्ये वर्ण्यमानेद्भुतावहे ।
भविष्यतीव कालेन नूनमप्रत्ययो जनः ॥ ११३८ ॥
राज्ये बहुच्छले तादृग्दुर्नीत्योपहतोप्यभूत् ।
आयुःशेषेण न वशे स रन्ध्रान्वेषिणां द्विषाम् ॥ ११३९. ॥
नर्तकी: शिक्षयव्रात्रावुत्थायाभिनयं स्वयम् ।
तिष्टन्दीपोज्ज्वले धाम्नि दूरात्केनापि शत्रुणा ॥ ११४० ॥
क्षिप्तेषुरपि नाभूद्यन्निहतो व्रणितोथवा ।
फलं तस्यायुःशेषस्य प्रजानां कुकृतस्य वा ॥ ११४१ ॥
कश्चिदेवान्त शुद्धान्ते पातदूतो महीपतेः ।
सर्वशुद्धनिधेः प्राभून्नारीचारित्रविप्लवः॥ ११४२ ॥
ते युवानो मदोन्मत्तास्ताः स्त्रियो यौवनोन्मदाः ।
नाशाय हर्षदेवस्य तस्मिन्नेवाभवन्क्षणे ॥ ११४३ ॥
निगृहीतास्तेन रोषात्सजाराः काश्चन स्त्रियः ।
काश्चित्वाकृष्य शुद्धान्ताज्जारैर्नीता दिगन्तरम् ॥ ११४४ ॥
स्वेन दौःशील्यदोषेण सर्व एव विशङ्किताः ।
भृत्यास्तस्याशुभान्येच्छन्नयतन्त च शान्तये ॥ ११४५ ॥
तस्यापि शीलवैकल्यं तावत्सर्वत्र पप्रथे ।
यावत्कलशभूपालात्संजातस्योपपद्यते ॥ ११४६ ॥
शैशवे वर्धितो याभिरङ्कमारुह्य मातृभिः ।
सोङ्कमारोप्य ता एव चुम्बन्संबेजेनिशम् ॥ ११४७ ॥
संभोगं भगिनीवर्गे कुर्वता दुर्वचोरुषा ।
निगृहीता च भुक्ता च नागा पुत्री पितृष्वसुः ॥ ११४८ ॥
स तुरुष्कशताधीशाननिशां पोषयन्धनैः ।
निधनावधि दुर्बुद्धिर्वुभुजे ग्राम्यसूकरान् ॥ ११४९ ॥
अथ सेवाभिसारेण कदापि कुपितो नृपः ।
स मन्दबुद्धिरास्कन्दमदाद्राजपुरीं प्रति ॥ ११९५० ॥
विलोक्य सैन्यसामग्रीमनन्यसदृशीं पथि ।
त्रैलोक्याक्रान्तिसामर्थ्यं पार्थिवैस्तस्य शङ्कितम् ॥ ११५१ ॥
सतु पृथ्वीगिरिं दुर्गं दृष्ट्वा तद्ग्रहणोद्यतः।
अप्रविष्टो राजपुरीं तन्मूले समुपाविशत् ॥ ११५२ ॥
मासमभ्यधिकं तेन तस्थुषा परिपीडिताः ।
प्रक्षीणान्नादिसंभारा वभूवुर्दुर्गरक्षिणः ॥ ११५२ ॥
त्रातुं संग्रामपालास्तानूरीचक्रे धरापतिः ।
कियन्तं न करं भीतः कियतीर्नच संविधाः ॥ ११५४ ॥
उपोढदार्ढ्ये नृपतौ स तदप्रतिगृह्णति।
लुब्धमुत्कोचदानेन स्वीचक्रे दण्डनायकम् ॥ ११५५ ॥
अमन्यमाने नृपतौ व्यावृत्तिं प्रेरिता रहः ।
प्रवासवेतनं भूरि मार्गितुं तेन शास्त्रिणः ॥ ११५६ ॥
तैः प्राये प्राकृतप्रायैः कृते सोल्लुण्ठभाषितैः।
राज्ञो दूरस्थकोशस्य कटकः क्षोभमाययौ ॥ ११५७ ॥
स तत्समर्थनां यावच्चक्रे तावद्धिभीषिकाम् ।
तुरुष्कास्कन्दजामन्यां प्रददौ दण्डनायकः ॥ ११५८ ॥
अथाल्पधैर्यो नृपतिरुत्थाप्य कटकं ययौ ।
कृत्स्ना च कोशसामग्रीं तत्याजाध्वसु साध्वसात् ॥११५९॥
अपरीक्ष्यादृतो भृत्य: स्वामिनामतिसंकटे ।
करोति व्यसनापातमजाव्योसिरिवाहवे ॥ ११६० ॥
तेन स्वयमयोग्येन योग्यानन्याननिच्छता ।
कलङ्किता नरेन्द्रश्रीः श्चुद्राश्वेनेव मन्दुरा ॥ ११९६२ ॥
ततःप्रभृति निर्वाणप्रतापस्य महीपतेः ।
प्रतापचक्रवर्ताख्या सर्वतो म्लानिमाययौ ॥ १९१६२ ॥
म्लानानतो न यत्सिद्धं स्वेन भृत्यैस्तथाखिलैः ।
तत्कर्म कृतवन्तं स कंदं बह्वमन्यत ॥ ११६३ ॥
आनिनीषोश्च तं तस्य जडस्याकृत भूपतेः ।
दण्डनायक एवेच्छाछेदं पैशुनकर्मणा ॥ ११६४ ॥
ज्ञातद्रोहोथ नृपतिरबध्राद्दण्डनायकम् ।
प्रातिपत्यानुरोधेन न क्रुधा न्यग्रहीत्पुनः ॥ ११६५ ॥
दुग्धे संदिग्धजीवोपि निवसन्संचिकाय सः ।
लुब्धस्ताम्बूलवस्त्रादि प्रहितं भृत्यबान्धवैः ॥ ११६६ ॥
आत्मनः सर्वनाशाय संजातं दैवमोहितः ।
वधार्हं प्रत्युत पुनर्निन्ये तं स्वपदं नृपः ॥ ११६७ ॥
तं विटाश्चाटुभिर्भूयो राजानमुदतेजयन् ।
घोषयात्राजितं स्तोत्रैः कर्णाद्या इव कौरवम् ॥ १९१६८ ॥
वादी वादपराजितः प्रतिभटं गालीभरत्याक्षिप-
न्योषिन्नष्टसतीव्रता कुकुलहैरुद्धेजयन्ती पतिम् ।
कायस्थश्च हृताखिलार्थमहिमा कृच्छ्रे नृपं पातय-
न्स्वस्यासन्नपराभवस्य कुरुते भूयः समुत्तम्भनम् ॥११६९॥
भुक्तदेयधनो विभ्यत्तं सहेलमहत्तमः ।
उर्वीपतिं दुर्व्यसने प्रेरयन्स्वार्थपण्डितः ॥ ११७० ॥
बन्धुमन्विष्य दरदं लवन्यैः सह लाहरैः ।
दुर्गघाताभिधं दुर्गे ग्रहीतुं तमचूचुदत् ॥ ११७१ ॥
तद्धि लक्कनचन्द्राख्ये पुरा गोप्तरि डामरे ।
जनकद्धारपतिना हतेनन्तनृपाज्ञया ॥ ११७२ ॥
प्रायोपविष्ट्या द्वारे तत्पत्न्यापि समर्पितम् ।
कलाशक्ष्माभुजा क्लृप्तोपेक्षं प्राप दरन्नृपः ॥ ११७३ ॥
तद्वलद्दारदैः क्रान्तानन्तग्रामेत्र मण्डले ।
राजा च मन्त्रिणा चाथ बभूव स्वीकृतोद्यमः ॥ ११७४ ॥
निर्ह्रादे तत्र गोपॄनणां वृत्तये संभृतं हिमम् ।
अवग्रहेण तत्तस्मिन्क्षणे निःशेषतां ययौ ॥ ११७५ ॥
चारैस्तद्रन्धमालक्ष्य तद्ग्रहाय् महत्तमः ।
अभीक्ष्णं प्रेरयत्क्ष्मापं स च तत्रोद्यमं व्यधात् ॥ ११७६ ॥
वातगण्डस्तदुद्योगे प्रतिष्ठासुं नृपाज्ञया ।
चण्पको द्वारकार्यस्थमभिसन्धातुमैहते ॥ ११७७ ॥
द्वारं निर्वाय भूपेन प्रापितो मण्डलेशतम् ।
सर्वैः सहाभजद्द्वारं स हि द्वाराधिकारिभिः ॥ ११७८ ॥
विसूत्रितापि कटके तेन द्वारपतिस्ततः ।
तीर्त्वा मधुमतीं सिन्धुं सैन्यैदुर्गमवैष्टयत् ॥ ११७९ ॥
समस्तानपि सामन्तान्प्रहिण्वन्सर्वतः स्वयम् ।
एकप्रयाणान्तरितः कोटेपि न्यवसन्रृपः ॥ ११८० ॥
त्यजद्भिर्गण्डशैलादि दुर्गसंश्रयदुर्जयैः ।
काश्मीरकाः सह दरत्सैनिकैः समरं व्यधुः ॥ ११८१ ॥
विदधे विदधेप्राजिमिठिकानाम्न्याघातपदे वसन् ।
सपुत्रो गुङ्गजो मल्लः संभ्रमानातिदुःसहान् ॥ ११८२ ॥
तत्पुत्रौ दैववित्प्रोक्तराज्यप्राप्ति तदिच्छया ।
मानं व्यवर्धिषातां यौ वीरावुच्चलसुस्सलौ ॥ २१८३ ॥
अत्युद्दामस्तयोर्ज्यायान्द्विषन्नपि नृपासनम् ।
आसीद्भाव्यर्थमाहात्म्याद्यात्रायां तत्र निर्गतः ॥ ११८४ ॥
अवग्रहेणे भूपालप्रतापेन च शोषिताः ।
यथाकथंचित्तद्दुर्गं ररक्षुर्दारदा भटाः ॥ ११८५ ॥
अथाज्ञेव विधेर्हर्षप्रतापपरिपन्थिनी ।
पपात महती वृष्टिरेकीकृतजलस्थला ॥११८६॥
दुर्गशृङ्गं हिमैः कृत्स्नं दुर्भेद्यैः पर्यवार्यत ।
अनुकूलेन विधिना संनाहैर्निहितैरिव ॥ ११८७ ॥
उत्थाने पातयन्कांश्चित्पतने कांश्चिदुत्क्षिपन् ।
वेधाः कन्दलयत्येव कन्दुकक्रीडितभ्रमम् ॥ ११८८ ॥
ततः स्मृत्वा गृहान्वृष्तिदुः स्थास्ते दुष्टमन्त्रिणः ।
चक्रिरे पूर्ववद्राज्ञह् स्कन्दवारे विसूत्रणम् ॥ ११८९ ॥
ऊर्ध्वस्रोतोजुसासीव तिमिः शोल ताननः ।
ततोपि चक्रे व्यावृत्तिं राजा जयपराङ्मुखः ॥ ११९० ॥
मुक्तापणः शीर्णकोशस्त्यक्त श्रीकश्च्युतायुधः ।
कटकः सर्व एवाभूत्पलायनपरायणः ॥ ११९१ ॥
धावतः पथिभिस्तैस्तैः साक्रन्दात्राजसैनिकान् ।
पृष्ठलग्नरिपून्दीर्घा मार्गेग्रसिषतापगा ॥ ११९२ ॥
क्षौमैः संहसमालैव साञषण्डेव खेटकैः ॥११९३ ॥
सशेवलेव खड्गौघैः सशीले तुरंगमैः ॥ ११९२ ॥
सौवर्णैः सरथाङ्गेव राजतैर्भाजनैरपि ।
सफेनेव जनत्यक्तैरासीन्मधुमती सरित् ॥ १२१९४ ॥
१ स्कन्धावारे इत्युचितम् ।
४३
नीतानां च हतानां च दरदैः प्रसृतोदयैः ।
अभून्नदीहृतानां च संख्या काचिन्न देहिनाम् ॥ ११९५ ॥
अनाथवत्तथाभूतं सैन्यं त्रातुं कृतोद्यमः ।
एकस्तु सानुजो मानी नाचलन्माल्लिरुच्चलः ॥ ११९६ ॥
दरद्ववाबुधिर्धावन्स विश्वाक्रमणोद्यतः ।
ताभ्यां वेलगिरीन्द्राभ्यामिव संस्तम्भितोखिलः ॥ ११९७॥
तौ रक्षित्वा बलं प्राप्तौ प्रसिद्धिमतुलां गतौ ।
पतिंवरेव राजश्रीर्भेजे लक्ष्येण तेजसा ॥ ११९८ ॥
ततः प्रभृति लोकस्य सर्वस्यासीदसौ मतिः ।
राज्यार्हौ मानिनावेतौ क्लिबोयं न तु भूपतिः ॥ ११९९ ॥
तथा कृत्वापि यद्राज्ञे दर्शनं परिजह्रतुः ।
तौ प्रितिदायविमुखौ बबन्धास्थां ततो जनः ॥ १२०० ॥
अथ शान्तरिपुत्रासो नगरं प्राविशन्नृपः ।
प्रतापस्तु दिशः प्रायान्मल्लराजतनूजयोः ॥ १२०२ ॥
तौ रामलक्ष्मणावेताविति सर्वस्तदाब्रवीत् ।
रावणप्रतिमे राज्ञि भाव्यर्थानुगुणं वचः ॥ १२०२ ॥
राजा तु गतलज्जः स नित्यकृत्योपमं जडः ।
कर्तुं प्रारभताखिन्नः पुनर्मण्डलपीडनम् ॥ १२०३ ॥
अल्पापकारमपि पार्श्वगतिं निहन्ति
नीचो न दूरमसमागसमप्यरातिम् ।
श्वा निर्दशत्युपलमन्तिकमापतन्तं
तत्यागिनं न तु विदूरगमग्ररोषः ॥ १२०४ ॥
ततः प्रविष्टः संप्रीतः सेवया दत्तकम्पनम् ।
मदनं सोशृणोत्स्वैरं शंसन्तं तत्पराभवम् ॥ १२०५ ॥
तद्रोषेण जिघांसुस्तमागो जग्राह सोपरम् ।
तस्य देवीविसृष्टाज्ञालेखोल्लङ्घनलक्षनणम् ॥ १२०६ ॥
प्राप्तो मडवराज्यात्स क्षमाभुजादत्तदर्शनः ।
भीतो लक्ष्मीधरस्यागान्मन्दिरं ठक्कमन्त्रिणः ॥ १२०७ ॥
राजा प्रसाद्यमानोपि तत्कृतेन्येन मन्त्रिणा ।
सस्मितं वीक्षितं सैन्यैस्तं सपुत्रमघातयत् ॥ १२०८ ॥
कोपस्मितं नरपतेरकालकुसुमं तरोः ।
वेतालस्याट्टहसितं नैवमेव प्रशाम्यति ॥ १२०९ ॥
ये संप्ररुढविपुलप्रणयाभिमाना
निःशङ्कमीश्वरनिषेवणमाचरन्ति ।
मन्त्रानुषङ्करभसाद्भुजगेन्द्रसख्यं
प्रख्यापयन्त इव ते प्रलयं प्रयान्ति ॥ १२९१० ॥
कर्णेजपकुले तावन्मदनप्रलयावधिः ।
शापः सूर्यमतीदेव्याः प्रसारितभुजोभवत् ॥ १२११ ॥
विक्रमालोकनोत्कम्पी निचिक्षेप क्षमापतिः ।
बध्वा कलशराजं तं लक्ष्मीधरनिवेशने ॥ १२१२ ॥
विरुद्धं तस्य बद्धस्य शिक्षापेक्षामिषानृपः ।
तेजोवधाय सविधमुदयाख्यं व्यसर्जयेत् ॥ १२१३ ॥
लक्ष्म्या जाज्वल्यमानं तं वीक्ष्य प्रज्वलितः क्रुधा ।
लब्धासिधेनुः कस्माच्चिन्मनस्वी सहसावधीत् ॥ १२१४ ॥
तद्भृत्यैरथ संक्रुद्धैर्निपत्य स विपादितः ।
दुर्बुद्धेस्तस्य भूभर्तुरेवं भृत्या विपेदिरे ॥ १२१५ ॥
मण्डले राजदण्डेन क्षतेनेव परिक्षते ।
क्षारपातोपमान्यापि प्राभूद्दुः खपरम्परा ॥ १२१६ ॥
अहारि काञ्चनस्थाली यैः पार्थिवगृहादपि ।
सत्यप्यहस्करे जघ्रुस्तस्करास्तादृशा विशः ॥ १२१७ ॥
प्रवर्धमाने मरके कन्दितध्वनिर्भरः ।
निर्घोषः प्रेतवाद्यानां न व्यरंसीद्दिवानिशम् ॥ १२१८ ॥
उद्दीपव्रुडितग्रामे वत्सरे पच्ञसप्तमे ।
अखण्डं सर्वभाण्डानां दुर्भिक्षमुदजृम्भत ॥ १२१९ ॥
दीन्नाराणां धान्यखारिः प्राप्याभूत्पच्ञभिः शतैः।
दीन्नारेणाभवल्लुभ्यं मार्द्वीकस्य पलद्वयम् ॥ १२२० ॥
ऊर्णापलस्य दीन्नारैः क्रयः षड्भिरजायत ।
लवणोषणहिङ्कादेरभिधाप्यास्त दुर्लभा ॥ १२२१ ॥
शवैर्नद्योभवन्नम्भःसंसेकोच्छूनविग्रहैः ।
छन्नतोया गिरिस्रस्तैश्छिन्न्दारुवनैरिव ॥ १२२२ ॥
एतद्भयवहिता राजधानी दृश्यते ।
ध्यात्वेति सर्वतो राजा द्रुमाणां छेदमादिशत् ॥ १२२३ ॥
सप्रसूनकला वृक्षा गृहस्था इव पातिताः ।
कुटुम्बैरिव रोलम्बैरशोच्यन्त पदे पदे ॥ १२२४ ॥
प्राणापहं महादण्डं तथार्तेपि जने नृपः ।
हलावरुग्णे वृद्धोक्षे गण्डशैलमिवाक्षिपत् ॥ १२२५ ॥
निपीड्य लोकं कायस्थ्यैर्महादण्डव्यवस्थया ।
पुरग्रामादिषु क्वापि न मृदप्यवशेषिता ॥ १२२६ ॥
अथोल्बणत्वं संप्राप्तान्निहन्तुं सर्वडामरान् ।
सदण्डभृदिव क्रुध्यन्नादिक्षन्मण्डलेश्वरम् ॥ १२२७ ॥
पूर्वं मडवराज्योर्वा होलडान्तः स डामरान् ।
दत्तास्कन्दोवधीत्तांस्तान्कुलाये विहगानिव ॥ १२२८ ॥
घ्नता लवन्यान्नु न्नद्धकुन्तलोद्धकुन्तलो विकटाकृतिम्|
जीवन्मडवराज्यान्तस्तेन विप्रोपि नोज्झित:||॥ २२२९. ॥
लवन्यबुद्ध्या शूलानि पान्थैरप्यथ रोपितैः ।
भीमरूपाभवद्धूमिर्भैरवस्य महानसः ॥ १२२३० ॥
शुले लवन्यस्यैकस्य क्रूरां विन्यस्यतो वधूम् ।
ययुः सर्वे दिशो भीता लवन्या मण्डलेश्वरात् ॥ १२३१॥
केचिद्वुभुजिरे तेषां गोमांसं म्लेच्छभूमिषु ।
अरघट्टघरट्टादिकृष्टा: के चिदवालगन् ॥ १२३२ ॥
प्राहिणोत्प्राभृतं भूरि भै रवाय महीभुजे ।
लवन्यमुण्डमालालीरखण्डा मण्डलेश्वरः ॥ १२३३ ॥
तोरणावलयो राजद्वारेदृश्यन्त सर्वतः ।
डामराणां करोटिभिर्घटीभिरिव निर्भराः ॥ १२३४ ॥
द्वारे कङ्कणवस्त्रादि लम्बमानं नृपौकस: ।
नेता डामरमुण्डस्य यः कोपि स किलासदत् ॥ १२३५ ॥
भोक्तुं डामरमुण्डानि व्याप्ता विस्तीर्णतोरणाः ।
विदधुर्कगृघ्रङ्काद्या राजद्वारोपसेवनम् ॥ १२३६ ॥
यत्र यत्रास्त भूपालस्तत्र तत्र व्यधुर्जनाः । १
लवन्यमुन्डैरुच्चण्डैर्विस्तीर्णास्तोरणस्रज:||
गन्धेनाशुचिना घ्राणं कर्णौ भीमै: शिवारुतै: ।
अखिद्यत शवकीर्णे श्मशान इव मण्डले ॥ १२३८ ॥
बलेरकप्रपाप्रन्ताल्लोकपुण्यावधि व्यधात् ।
एकश्रेणीं मण्डलेशो डामरै: शूलकीलितै: ॥ १२३९ ॥
एवं मडवराज्यं स कत्वा निर्नष्टडामरम्|
अधावत्क्रमराज्योर्वीं कर्तुं तामेव पद्धतिम् ॥ १२४० ॥ अवश्यं न भविष्याम इति निश्चित्य डामराः । चक्रिरे क्रमराज्यस्था लौलाहे सैन्यसंग्रहम् ॥ १२४१ ॥ तैः सर्वेर्दत्तसंग्रामैः कुर्वद्धिः कदनं महत्| आस्ते स्म तत्र सुचिरं निरुद्धो मण्डलेश्वरः ॥१२४२ ॥ किमन्यद्राक्षस: कश्चित्सुरतीर्थर्षिपूजितम् । निहन्तुं मण्डलमिदं हर्षव्याजादवातरत् ॥ १२४२ ॥ उल्लासो रात्रिषु दिने स्वापः क्रौर्यमुदग्रता । अवाङ्मयत्वं कर्तव्ये दक्षिणेशोचिते रतिः ॥ १२४४ ॥ इत्यादयस्तस्य केचिद्धर्मा नक्तंचरोचिताः । तथाहि तत्कालभवैः प्रियाः प्राज्ञै: प्रकीर्तिताः ॥ १२४५ ॥
अत्रान्तरे मल्लसूनुः कनीयान्यौवनोन्मदः ।
लक्ष्मीधरस्य गेहिन्या हृदयाह्रादकोभवत् ॥ १२४६ ॥ सा हि राजसुते तस्मिन्संसक्ता प्रातिवेश्मिके । नारज्यत निजे पत्यौ वानरप्रतिमाकृतौ ॥ २२४७ ॥ ज्ञातीनगण्यान्हत्वान्यान्कस्माद्राज्यार्हलक्षणौ ।
नावधीरुद्धतावेतौ राजन्नुचलसुस्सलौ॥ १२४८ ॥
इति लक्ष्मीधरेणेर्ष्यारोषादुक्तोपि भूपतिः । न चुक्रोधानुतापार्तिं पूर्वज्ञातिवधाद्गतः ॥ १२४९ ॥ स्वयमन्यमुखेनापि स तेनोक्तस्ततोसकृत् । 6 घाते तदौद्धत्यं ध्यात्वा साध्वसमादधे ॥ १२५० ॥ ˆ ज्ञातिप्रीत्यनुवृत्यादि तेन विस्मरता ततः ।
संमत्र्य मन्त्रिभिः सार्ध्ं दध्रे तद्वधनिश्चय: ॥ १२५१ ॥आसन्नवारवनिता थक्कनाख्याथ तं व्यधात् ।
भूभर्तुर्दुरभिप्रायं तयोः कर्णपथातिथिम् ॥ २२५२ ॥
सख्या दर्शनपालेन तत्रार्थे छिन्नसंशयौ ।
निरगातां निशीथिन्यां द्वित्रैस्तावनुगै:समम् ॥ २२५३ ॥
षट्सप्तेब्दे नगरान्मार्गशीर्षेथ निर्गतौ ।
तत्रासवसतेः प्राप्तौ डामरस्योपवेशनम् ॥ २२५४ ॥
प्रशस्तराजो दुध्रुक्षु: सिल्लराजं निजानुजम्।
सोभिसंधाय तौ निन्ये लवन्यो मण्डलान्तरम् ॥ १२५५ ॥
ततो राजपुरीं ज्यायान्प्रयात्कह्रस्य भूपते: ।
कनीयान्प्रययौ पार्श्वं कालिञ्जरधरेशितुः ॥ १२५६ ॥
तयोर्भिंगतयो राज्यं न कथिच्छ्दधीयत ।
निभित्तज्ञेनं राज्ञैव दुर्निमित्तैस्त्वशङ्क्यत॥ १२५७ ॥
लक्षमीधरमुखेनैव प्रार्थनां हन्तुमुच्चलम् ।
चक्रे संग्रामपालस्य सोङ्गीकृत्य धनं ततः ॥ १२५८ ॥
स त्वन्तिकागतस्येषन्मल्लसूनोः कृतादर: ।
तया विशङ्क्या शत्रोरासीदधिक गौरवः ॥ १२५९ ॥
आसन्नाभ्युदयं शत्रुं द्वेष्टैव विधिचोदितः ।
शाङ्काविष्करणाल्लोके नयेत्संभावनाभुवम् ॥ १२६० ॥
राजपुर्या: प्रकृत्यैव कास्मीरानर्थकाङ्क्षिता::: ।
प्रभविष्णौ रिपौ प्राप्ते चक्रिकायां किमुच्यताम् ॥ १२६१९॥
कांश्चिन्निकृतिक प्रायान्पार्श्वायातानथोच्चल: ।
गमागमान्कृतोदयोगो डामराणामकारयत् ॥ १२६२ ॥
डामरास्तु मदोत्सा हास्तमानेतुं व्यसर्जयन् ।
राज्ञा विप्रकृता दुतान्वितीर्णोपायनान्बहून् ॥ १२६३ ॥
राजतरङ्गिणी
तं सूर्यवर्मचन्द्रस्य तनयो जनकाभिधः ।
चकारोपचितोत्साहं मायादूतैर्विसर्जितैः ॥ १२६४ ॥
वीक्ष्य डामरदूतांस्ताञ्जहता राजतो भयम् ।
व्यक्तं संग्रामपालेन निन्ये माहात्म्यमुच्चलः ॥ १२६५ ॥
स कार्यगौरवात्प्रहो मूर्ध्नि कर्पूरचूर्णनम् ।
कृत्वा तमविनाशाय यावद्विस्रष्टुमैहत ॥ १२६६ ॥
तावत्कलशराजाख्यस्तद्देशे मुख्यठक्कुरः ।
हर्षदेवार्पितोत्कोचस्तमेत्य विजनेब्रवीत् ॥ १२६७ ॥
राज्ञः प्रसादनं त्यक्त्वा तवोच्चलहितैषिणः ।
कामधेनुं विनिर्धूय च्छागकण्ठग्रहे ग्रहः ॥ १२६८ ॥
कोयं काश्मीरभूपानां कास्य शक्तिस्तपस्विनः ।
आराधनेन तद्राज्ञो विधेहि स्वमसाध्वसम् ॥ १२६९ ॥
अयं राजगिरौ दुर्गे स्थाप्यतां पार्थिवस्ततः ।
स्यान्मनीषितवर्षी वस्त्रासान्मित्रं च सर्वदा ॥ १२७० ॥
तेनेति प्रभुराख्यातः खशानां स मिताशयः ।
तद्भीतः स्वार्थलुब्धञ्च तथेति प्रतिपद्यत ॥ १२७१ ॥
तमभ्यधाच्च नो बन्दुं शक्तोहममुमुद्यतम् ।
त्वयैव बध्यतामेष मिषतः प्रेषितोन्तिकम् ॥ १२७२ ॥
इत्युक्त्वा तं स्ववसतिं विसृज्यावद्दुच्चलम् ।
प्रातः कलशराजस्य त्वया गन्तव्यमन्तिकम् ॥ १२७३ ॥
इह प्रधानामात्योसौ तेन ते स्यादनत्ययः ।
ततो विपक्षोच्छित्त्यै त्वां प्रतिमोक्ष्यामि सानुगम् ॥ १२७४॥
अथ तद्वसतिं गन्तुं चलितोन्येचुरुञ्चलः |
प्राग्दुर्निमित्तैस्तत्कृत्यमाप्तैरथ निबोधितः ॥ १२७५ ॥
१ प्रत्यपद्यत इत्युचितम् । + सप्तमस्तरङ्गः ।
मन्त्रे भिन्ने निवृत्तं तं श्रुत्वा खशनृपान्तिकम् ।
कुप्यन्कलशराजोथ सज्जसैन्यः समाययौ ॥ १२७६ ॥
तमास्कन्दाय संप्राप्तं जानञ्शस्त्रभृतां वरः ।
ऐच्छद्रणाय निर्गन्तुं निजभृत्यैः सहोच्चलः ॥ १२७७ ॥
क्षोभे संप्रस्तुते तं स सान्त्वयित्वा खशाधिपः ।
तिष्ठन्कलशराजेन सहानिन्ये निजां सभाम् ॥ १२७८ ॥
निषेधाधायिनो भृत्यान्स विधूयौजसां निधिः ।
सजं खशसमाजं तं कोपकम्प्राधरोविशत् ॥ १२७९ ॥
द्रष्टुं तं नाशकत्कश्चित्कल्पान्तार्कमिवोल्वणम् ।
क्रुद्धं कलशराजो वा राजा वा तेजसां निधिम् ॥ १२८० ॥
स विविक्तीकृते धाम्नि खशाधीशं समत्रिणम् ।
सान्त्वयन्तं महातेजाः कोपरूक्षाक्षरोब्रवीत् ॥ १२८९ ॥
पूर्व दार्वाभिसारेभूद्भारद्वाजो नरो नृपः ।
नरवाहननामास्य सूनुः फुल्लमजीजनत् ॥ १२८२ ॥
स सार्थवाहनं तस्माच्चन्दोभूत्तत्सुतः सुतौ ।
गोपालसिंहराजाख्यौ चन्दराजोप्यवाप्तवान् ॥ १२८३ ॥
बह्वात्मजः सिंहराजो दिद्दाख्यां तनयां ददौ ।
क्ष्माभुजे क्षेमगुप्ताय सावीरा भ्रातृनन्दनम् ॥ १२८४ ॥
राज्ये संग्रामराजाख्यं व्यधादुदयराजजम् ।
३४५
भ्रातापि कान्तिराजोस्या जस्सराजमजीजनत् ॥ १२८५ ॥
पितानन्तस्य संग्रामो जस्सस्तन्वङ्गगुङ्गयोः ।
अनन्तः कलशक्ष्माभृगुङ्गान्मल्लोप्यजायत ॥ १२८६ |
कलशाद्धर्षदेवाद्या जाता मल्लात्तथा वयम् ।
कोयमित्यादि तन्मन्दैः क्रमेस्मिन्कथ्यते कथम् ॥ १२८७ ॥
१ अनन्तात् इत्युचितम् । ४४ राजतरङ्गिणी
पृथिव्यां वीरभोज्यायां क्रमो वा क्वोपयुज्यते ।
वीरस्य च सहायोस्तु कः स्वबाहुद्वयात्परः ॥ १२८८ ॥
दिष्ट्या तदनुकम्प्यानां मूर्ध्नि हस्तमिवास्पृशन् ।
काश्मीरकाणां भूपानां नाभूवं कुलपांसनः ॥ १२८९ ॥
तस्माद्द्रक्ष्यथ मे शक्तिमित्युक्त्वा निर्गतस्ततः ।
विजयाय स पत्तीनां शतेनानुगतोचलत् ॥ १२९० ॥
निहतं शशमादाय तस्याग्रे कश्चिदाययौ ।
स तेन सुनिमित्तेन प्राप्तां मेने रिपुश्रियम् ॥ १२९१ ॥
अरघट्टघरट्टादिकृष्टिमुत्सृज्य निर्गताः ।
डामरा वाट्टदेवाद्यास्तं यान्तमुपतस्थिरे ॥ १२९२ ॥
कटकस्थस्य संग्रामपालस्यायातमन्तिकात् ।
तद्देव्यो राजपुर्यन्तः खिन्नं निन्युः प्रसन्नताम् ॥ १२९३ ॥
भुक्त्वा तद्वसतेर्गच्छन्स्वावासं स दिनात्यये ।
सैन्यैः कलशराजस्य दत्तास्कन्दोभवद्वहिः ॥ १२९४ ॥
राशीभिर्निर्गमात्तस्मिन्द्वारं संरोध्य वारिते 1
तदीयाः सैनिका युद्धे लोष्टवट्टादयो हताः ॥ १२९५ ॥
मध्यं प्रविश्य शमिते प्रधानैस्तत्र संयुगे ।
सोल्पसैन्योपि संवृत्तः सुतरामल्पसैनिकः ॥ १२९६ ॥
चैत्रस्य पौर्णमास्यंतः कृच्छ्रमप्यनुभूतवान् ।
वैशाखासितपञ्चम्यां यात्रामत्रस्तधीर्व्यधात् ॥ १२९७ ॥
विसृज्य वैट्टदेवादीन्विप्लवाय स्ववर्त्मभिः |
आललम्बे प्रवेशेच्छां क्रमराज्याध्वना स्वयम् ॥ १२९८ ॥
१ पौर्णमास्यां तत् इत्युचितम् | २ वादेवादीन् इति स्यात् । ३४६ सप्तमस्तरङ्गः ।
यं राजोदयसीहान्ते कपिलं क्षेमजात्मजम् ।
आस्थापयल्लोहरोय स विशन्तं मुमोच तम् ॥ १२९९ ॥
स्वयम समग्राणां खड्गचर्मधरो व्रजन् ।
पलायने पूर्वशिष्यान्पर्णोत्से तद्भटान्व्यधात् ॥ १३०० ॥
बद्धा निःशङ्कमासीनं द्वारेशं सुजकाभिधम् ।
कश्मीरानामिषाकाङ्क्षी क्षिप्रं श्येन इवापतत् ॥ १३०१ ॥
तं डामराश्च कतिचित्खाशिकाश्चाद्विसंश्रयाः ।
राजद्विषः प्राप्तमात्रं सर्वतः पर्यवारयन् ॥ १३०२ ॥
तमाकाशादिव स्रस्तं भुवो गर्भादिवोत्थितम् ।
निशम्यातर्कितं प्राप्तं चकम्पे हर्षभूपतिः ॥ १३०३ ॥
मा भूदसौ बद्धमूलः क्रमराज्यान्तरस्थिंतिम् ।
मा वधीन्मण्डलेशं च ध्यायन्नित्याकुलोथ सः ॥ १३०४ ॥
विलम्बमाने संनद्धसैनिके दण्डनायके |
त्वरितं प्राहिणोत्पट्टं वितीर्णासंख्यनायकम् ॥ १३०५ ॥
दैवोपहतवीय वा कान्तो वा द्रोहचिन्तया |
अभ्यमित्रीणतां त्यक्त्वा स तु मार्गे व्यलम्बत ॥ १३०६ ॥
अन्यांश्च यान्यांस्तिलकराजादीन्व्यसृजन्नृपः ।
ते ते पट्टं समासाद्य नाकुर्वन्नग्रनिर्गमम् ॥ १३०७ ॥
दण्डनायकमुख्येपि लोके राज्ञा विसर्जिते ।
याते विमूढतां प्राप बद्धमूलत्वमुञ्चलः ॥ १३०८ ॥
वराहमूलं प्रविशन्नागतां द्विषतां बलात् ।
३४७
अश्वां सुलक्षणोपेतां राजलक्ष्मीमिवासदत् ॥ १३०९ ॥
महावराहमौलिस्रक्तस्य मूर्ध्नि पपात च ।
तदंसस्थितया पृथ्व्या वरणार्थमिवार्पिता ॥ १३१० ॥
१ स्थितः इत्युचितम् | ३४८ राजतरङ्गिणी
काकाद्यवैद्यकुलजैर्योधैः संरुद्धपद्धतिः ।
स हुष्कपुरमुत्सृज्य क्रमराज्योन्मुखो ययौ ॥ १३११ ॥
अत्रान्तरे तमायान्तमाकर्ण्योत्सेकमागतैः ।
विद्रवोन्मुखतां निन्ये डामरैर्मण्डलेश्वरः ॥ १३१२ ॥
तैर्हि प्रागेव भङ्गं स नीतो हत्वा महाभटान् ।
यशोराजमुखान्भूरीन्ययौ मन्दप्रतापताम् ॥ १३१३ ॥
शनैरपसरन्सोथ तारमूलकमासदत् ।
उच्चलाधिष्ठितास्तेपि विद्विषन्तस्तमन्वयुः ॥ १३१४ ॥
समेतानन्तसैन्येन तेन तत्र चिरं धृतः ।
उच्चलप्रलयाभ्रस्य पौरस्त्यानिलविभ्रमः ॥ १३१५ ॥
सैन्ययोरुभयोस्तत्र जयश्रीकरिणीकृते ।
बभूव तुल्यसंघर्ष: सेर्ययोरिव दन्तिनोः ॥ १३१६ ॥
आनन्दनामाप्युत्पिञ्जोत्थानमुच्चलमातुलः
।
चक्रे मडवराज्येथ निबिडीकृतडामरः ॥ १३१७ ॥
तद्विप्लवे डामरौधा दिग्देशेभ्यः सहस्रशः ।
उन्ममजुर्हिमापाये रन्ध्रेभ्य इव षट्पदाः ॥ १३१८ ॥
तत्क्षणं क्षीणभाग्यस्य यथा द्वारपतिस्तथा ।
कार्यस्थः कम्पने राज्ञः सहेलोभून्महत्तमः ॥ १३१९ ॥
आनन्देन कृतास्कन्दो बहुशो विहिताहवः ।
औज्झीन्मडवराज्यं स न यत्तद्बह्वभूत्तदा ॥ १३२० ॥
अथाद्भुतप्रतापेन वेष्टयित्वा महाचमूम् ।
उच्चलेनाहवे बद्धः ससैन्यो मण्डलेश्वरः ॥ १३२१ ॥
f
न विद्मः किं तदा वृत्तं योधानां यत्किलाविदन् ।
ते सखड्गाश्वसंनाहा बद्धा वयमिति स्फुटम् ॥ १३२२ ॥
सप्तमस्तरङ्गः
तथा बद्धोपि निर्दध्यौ स भव्यः प्रभवे हितम् ।
स्वामिभक्तिर्विपर्येति पर्यन्तेपि न मानिनाम् ॥ १३२३ ॥
तूर्ण पुरप्रवेशाय सोथ प्रैरयदुच्चलम् ।
विश्वास्य नेहगन्योस्ति क्षण इत्यसकृब्रुवन् ॥ १३२४ ॥
विशतस्तस्य चानेकैः पुरग्रामाद्यलुण्ठयत् ।
कर्मणानेन कौलीनमस्यास्त्विति विचिन्तयन् ॥ १३२५ ॥
परिहासपुरे तेन स ततः संप्रवेशितः ।
श्वभ्राम्बुविषमाद्यस्मान्निर्गमोत्यन्तदुर्गमः ॥ १३२६ ॥
तत्रोच्चलं चतुःशाले स्वं च दग्धुमचूचुदत् ।
निजान्स निशि ते तत्तु न चक्रुस्तद्धितैषिणः ॥ १३२७॥
यथा चित्तं तथास्य स्यात्कायश्चेत्साहसक्षमः ।
तदात्मनिरपेक्षस्य किं न सिध्येन्मनीषितम् ॥ १३२८ ॥
क्लीबश्छन्नवपुस्त्वचा सह वसत्यच्छेद्यया कच्छपो
निर्वर्मा रणकर्मसाहसमहोत्साहश्च सिंहः सदा ।
धिक्प्रादुष्कृतपक्षपातरअसो नीचेषु मुग्धो विधि-
वराणां कुरुते शरीरमझितो वैकल्यशल्याहतम् ॥१३२९॥
संदिदेशाथ समापमाकृष्यायं मयाग्रतः ।
सुगाल इव ते क्षिप्तः क्षिप्रं निर्गत्य वध्यताम् ॥ १३३० ॥
ततः समस्तसामन्तसैन्य संततिसंयुतः ।
अद्य मृत्युर्जयो वेति निश्चित्य निरगान्नृपः ॥ १३३१ ॥
स प्राणसंशये सर्वायासप्रशममादिशन् ।
पटहोद्धोषणेनासीत्पौरैरनुगतोखिलैः ॥ १३३२ ॥
प्राप्तं भरतसेत्वयं नन्तः सैन्यं विरोधि॑िनम् ।
आजानेयै राजभृत्याः क्षणान्मार्गमलङ्घयन् ॥ १३३३ ॥
१ विरोधिनाम् इति स्यात् । ३५० राजतरङ्गिणी
अभितेव्धाविवायाते राजसैन्ये द्विषद्बलम् ।
मण्डलेश्वर एवान्तः प्रविष्टो निरनाशयत् ॥
अथोच्चलबले भने विदः केपि जाङ्घिकाः ।
श्रान्ता राजविहारं च प्राविशन्केपि डामराः
त्रिल्लसेनाभिधं दृष्ट्वा प्रविष्टं डामरं परे ।
उच्चलोसाविति भ्रान्त्या विहारं तमदाहयन् ॥ १३३६ ॥
सोमपालाभिधेनारिहयारोहान्तरे चिरम् ।
१३३४ ॥
१३३५ ॥
कुर्वन्दर्शनपालस्य पितृव्येन सहाहवम् ॥ १३३७ ॥
यत्नाजनकचन्द्राद्यैर्मानी व्यावर्तितो रणात् ।
परिहासपुरात्प्रायान्मृत्युवकादिवोच्चलः ॥ १३३८ ॥
वितस्तां गौरिकाबालग्रामात्तीर्त्वा हयान्वितः ।
स डामरैः सह पुनः प्रययौ तारमूलकम् ॥ १३३९ ॥
जयेन तावन्मात्रेण कितवोल्प इवोन्मदः ।
राजा प्रशंसन्नानन्दं राजधानी न्यवर्तत ॥ १३४० ॥
जीवन्तमप्यरिं श्रुत्वा न पश्चादलगत्स यत् ।
आसन्नुच्छ्रसितास्तेन भङ्गभाजोोप डामराः ॥ १३४१ ॥
यातान्पलाय्य ताञ्ज्येष्ठामूलीये मासि सर्वतः ।
भूयोपि संघटयितुं स्थिरधीरैच्छदुच्चलः ॥ १३४२ ॥
स्वदोर्मात्रसहायस्य परायत्तस्य मानिनः ।
दुर्भिक्षान्तर्महोद्योगः स तस्य विषमोभवत् ॥ १३४३ ॥
तन्मध्येतिदरिद्रोपि संप्राप्तं स ररक्ष यत् ।
तमुत्पाट्यानयद्राजा श्रीपरीहासकेशवम् ॥ १३४४ ॥
तस्मिन्विघटिते पांसुः कपोतच्छदधूसरः ।
रोदसीछादनं हर्षशीर्षच्छेदावधि व्यधात् ॥ १३४५ ॥
प्रागन्धकारो देशेस्मिन्दिवसेपि व्यजृम्भत ।
रूपिकादिवसालोक इति यत्पप्रथे जने ॥ १३४६ ॥
निवेशिते परीहासकेरावे प्रशशाम तत् ।
तस्मिन्नुन्मूलिते भूयः सार्धे मासमजृम्भत ॥ १३४७ ॥
किंचिदुच्छ्वसिते राज्ञि मन्दोद्रेकतया रिपोः ।
दिशा शूरपुरस्थाथ सुस्सल: प्रत्यदृश्यत ॥ १३४८ ॥
अवनाहे स हि वसन्नुपालम्भपरैः पितुः ।
संदेशैः शंसतो ज्येष्टमौदासीन्यादपाहृत: ॥ १३४९ ॥
दत्तान्कह्लक्षितीशेन कांश्चिदादाय वाजिनः ।
चिरेण राजदाक्षिण्यमौज्झीत्तेन व्यलम्बत ॥ ९३५० ॥
आरम्भादुदयान्तं च तिष्ठन्वैरेपि निष्टुरे ।
साम प्रयुयुजे मोहावहं मायानिधी रिपोः ॥ २३५२ ॥
जित्वा माणिक्यनामानं तेन सेनापतिं रणे ।
प्रापि शूरपुरद्रङ्गाज्जयश्री श्रीश्च भूयसी ॥ १३५२ ॥
तस्याभ्युदयपात्रस्य तया संप्राप्तया श्रिया ।
आरब्धिसमय: कृत्स्नः स विभूत्यद्भुतोभवत् ॥ १३५३ ॥
मण्डलेश्वरपट्टादीनविचिन्त्योच्चलं ततः ।
प्राहिणोन्नृपतिर्योद्धुं सुस्सलं क्षिप्रकारिणम् ॥ १३५४ ॥
तेन शूरपुरे भग्नास्तद्योधा: शौर्यशालिना ।
भूयांसः प्रलयं प्रापुर्मग्ना वैतरणीजले ॥ १३५५ ॥
तत्र दर्शनपालस्य स्वामिद्रोहकृतो वपुः ।
विक्रामते न संस्पृष्टं खिन्नयेव जयश्रिया ॥ १३५६ ॥
राजसैन्यं तदन्येद्युर्हतशेषं पलायितम् ।
लोकपुण्ये निवसतः सहेलस्यान्तिकं ययौ ॥ १३५७ ॥ "
सुस्सलापातकल्पान्तं विशङ्कखयापि सहेलक: ।
तैस्तैर्भग्नैर्वलै: साकं नगरं प्राविशत्ततः ॥ १३५८ ॥
एवमभ्येत्य नृपतौ सुस्सलेन विसूत्रिते ।
अवाप तारमूलस्थः प्रतिष्ठां पुनरुच्चल: ॥ १३५९ ॥
विभ्यद्धिस्तुरगानीकात्पत्तिप्रायै: स डामरै: ।
आनिन्ये शैलदुर्गेण भूयो लहरवर्त्मना ॥ १३६० ॥
राजाप्युदयराजाख्यं कृत्वा द्वारपति पुनः ।
प्राहिणोदुच्चलं जेतुं लहरं मण्डलेश्वरम् ।॥ १३६२ ॥
ततः पद्मपुरं प्रात्पे मातुले मल्ल्जन्मनो: ।
न कोपि कम्पनं भूपान्मन्री त्रासातुरोग्रहीत् ॥ १३६२ ॥
को मेस्तीति विनिःश्वस्य वदतोथ महीपतेः ।
अधिकारस्रजं दस्ताच्चन्द्रराजः समाददे ॥ २३६३ ॥
अनाशीः शयने मृत्युर्येषां तेषां स वंशजः ।
श्रीजिन्दुराजसुख्यानामोौचित्यं प्रत्यपद्यत ॥ १३६४ ॥
स द्वौणिरिव निर्नष्टे काले सेनापतिः कृतः ।
निर्गत्य तत्पद्मपुरादरिसैन्यं न्यवारयत् ॥ १३६५ ॥
विपक्षः कम्पनेश: स तेन क्षमां क्रमता शनैः ।
नवम्यां शुक्ल्न्भ्रसो हतोवन्तिपुरान्तरे ॥ १३६६ ॥
स हि गोवर्धनधरोपान्ते कु्र्वद्भिराहवम् ।
स्वसैन्यैर्वर्जितो गीतं श्रुण्वन्परिमितानुग: ॥ १३६७ ॥
प्रविश्यारिहयारोहैर्वितस्तातीरवर्त्मना ।
प्राप्तोकस्माद्धधं लेभ्रे प्रमत्तानां शुभं कुतः ॥ १३६८ ॥
प्रहितं चन्द्रराजेन क्ष्मापतिर्वीक्ष्य तच्छिरः ।
भूयो जयाशामकरोदा नु कूल्यं विदन्विधेः ॥ २३६९ ॥
५
वैमुख्येन व्रजन्कुर्यात्सां मुख्यैरन्तरा विधिः ।
प्रत्यागमभ्रमं सिंह इव व्याव्रुत्य वीक्षितैः ॥ १३७० ॥
अथ लब्धबलश्चन्द्रराजोमन्दोद्दमोविशत् ।
विजयक्षेत्रमाकर्षन्कटकं दशधाष्टधा ॥ १२३७१ ॥
तुलाधर इव स्रष्टा साम्यभङ्गं न चक्षमे ।
तदा द्वयो: कटकयोस्तुलायाः पुटयोरिव ॥ १९३७२ ॥
प्राप्ते यतस्तृतीयस्मिन्दिवसे मण्डलेशितुः ।
अकालवृर्ष्टिविवशं लहरे व्यद्रवद्वलम् ॥ १३७२ ॥
शीतवातहता योधा मग्ना: केदारकर्दमे ।
तुरगासितनुत्रादि द्राक्तिर्यन्च इवामुचन् ॥ १३७४ ॥
उञ्चलेन ततो रक्ष्यमाणमप्यार्द्रचेतसा ।
प्राप्तं जनकचन्द्राद्या निजघ्नुमेण्डलेश्वरम् ॥ १२७५ ॥
हर्षभूभृद्भृत्यवर्गे द्रोहशङ्काङ्किते परम् ।
कलेवरव्ययात्कीर्तिः क्रीता तेनैव मन्त्रिणा ॥ २२३७६ ॥
ध्रुवं संस्पर्ध॑तो वन्द्या देवशर्मादयोस्य ते ॥
न चेत्कोपि विपर्यासे दोषमुद्धोषयेज्जनः ॥ १३५७७ ॥
लवन्योन्मूलनारातिव्यूहव्यामोहनादय: । ।
विध्यधीने फले ध्याते स्तुत्याः कस्य न तत्क्रिया:॥ २२३७८॥
किं पातालतमो न हन्ति हिमगुः किं नो विषं भीतये
पानीयं गिलतः किमान्तरशिखिध्वस्त्यै न धान्वन्तरिः ।
सर्वत्रैकपदे प्रयात्यफलतां वाच्यो जडो नाम्बुधिः
सिद्धेर्दैवविधेयतां विमृषतां स्तुत्यैव वस्तुज्ञता ॥ १३७९ ॥
स्वामिकृत्योद्यमस्त्युत्यसूतिषु स्त्रीषु पूज्यताम् । ।
गज्जा तज्जननी स्वस्य नमस्यन्त्यविशान्चिताम् ॥ १३८० ॥
साहसे सा हि तनये यत्र तत्र महीभुजा ।
प्रहीयमाणे तं स्रेहमोहिताह स्म भूभुजम् ॥ १३८१ ॥
अनन्यसंततेरेकं सुतमेतं प्रभो मम ।
मा नियुङ्क्था यत्र तत्र कार्ये संदेहितासुनि ॥ १३८२ ॥
- स तामकथयन्मातर्यथा तेनन्यसंततेः ।
तथा मेनन्यभ्रूत्यस्य सोयमेकोवलम्बनम् ॥ १३८२ ॥
स्वसंभवस्य तां भर्तुर्भक्तिसंभावनामसौ ।
प्राप्तप्रतिष्टानिष्टायां मेने मानवती सती ॥ १३८४ ॥
उच्चलस्य क्षणे तस्मिन्हिरण्यपुरमीयुष: ।
राज्याभिषेकं संभूय तत्रत्वा व्राह्मणा ददुः ॥ १३८५ ॥
नृपमत्यन्तविवशं प्रसङ्गे तत्र मन्रिणः ।
भूयांसः सन्ति तैः सार्धे व्रज तल्लोहरोचलम् ॥ २३८६ ॥
प्रजा एव ततः शान्तोत्कण्ठा नवनृपं प्रति ।
त्वामानेष्यन्ति न चिराद्दिनैर्वा स्वयमेष्यसि ॥ १३८७ ॥
सोभ्यधादवरोधस्त्रीकोशसिंहासनाद्यहम् ।
असामान्यं परित्यज्य गन्तुं सपदि नोत्सहे ॥ १३८८ ॥
पुनस्तेकथयन्नाप्ता यान्तोध्यारुह्य वाजिनः ।
पृष्ठे विन्यस्य नेष्यन्ति कोशान्त:पुरयोषित: ॥ १३ ।
श्र्वपाकीकामुकोप्यासीद्दस्मिंस्तदपरोपि चेत्
सिंहासनं समारोहेत्काभिमानक्षतिस्तत: ॥ १३९० ॥
आस्तामेतत्परं ब्रूथ मन्रमित्यथ चोदिताः ।
ते पर्थिवेन भूयोपि ससंरम्भं बभाषिरे ॥ १२३९१ ॥
क्षत्रधर्मे पुरस्कृत्य शासतां क्षमां क्षमाभुजाम् ।
को दैन्यस्यावकाशः स्यादाशीर्येषां मृधे वधः || १३९२||
अनुद्योगश्च लज्जा च भयं द्वैधं मत्त्रिणाम् । भूभृतां व्यसनोल्लासे शत्रवो न तु गोत्रिणः ॥ १३९३ ॥ काये न पश्येदलस: स्वयं यो भृत्येषु विन्यस्तसमस्तकृत्यः । यष्टयाश्रयस्येव विनष्टद्दष्टे: पदे पदे तस्य किलोपघातः ॥ १३९४ ॥ लज्जेहमस्य स्वयमात्तशस्त्र: स्वल्पस्य शत्रो: कल्यन्नवज्ञाम् । एवं किलादीर्घमतिर्ददाति स्वयं प्रवृद्धिं त्रपया विमुग्धः ॥ १३९५ ॥ कालेन याति क्रिमितां महेन्द्रो महेन्द्रभावं क्रिमिरप्युपैति । अयं प्रथीयानयमप्रतिष्ट इत्येष निषठानुचितोभिमानः ॥ १३९६ ॥ पराभवाधायि भयं जिगीषोः सर्वाङग्ंवैकल्यहतत्वमेव | येनाभियुक्तः स समस्तसंप- त्पूर्णोपि वैकल्यहतत्वमेति ॥ १३९७ ॥ लव्धस्थितिः स्फीतविभूतिपात्रं दीनोभियोक्ता परपिण्डवृत्तिः । आद्ये कथं नाम पराभवः स्या- द्भयं भवेन्चेह न तत्प्रभाव: ॥ १३९८ ॥ अमात्यवैमत्यवशेन निष्ठा द्दष्टा न कार्यस्य तर्नायसोपि| ३५६ राजतरङ्गिणी
वैशाखरज्जोरिव कर्षकाभ्यां
पर्याययोगेन कृते विकर्षे ॥ १३९९ ॥
समग्रशक्तेरेकेनाप्याशाकान्तस्य भूपतेः ।
वैरी सर्वाङ्गहीनोपि राज्यमायुश्च कर्षति ॥ १४०० ॥
यत्र द्विषस्तत्र याहि क्रान्तां क्रान्तां च मेदिनीम् ।
पातार्थी न चिरादेवं पुनर्जयमवाप्स्यसि ॥ १४०१ ॥
विधुरेपि विधौ शूरसहस्रपरिवारितैः ।
पतद्भिराहवे भूपैः ख्यात्याभिख्योपलभ्यते ॥ १४०२ ॥
नृत्यच्छिन्नशिरोधरोद्धुरनटे ज्यालावुवीणागुण-
प्रक्वाणिन्युदयच्छिवामुखशिखिज्वालाप्रदीपाङ्कुरे ।
धन्याः केप्युपलभ्य वीरशयने शान्ताभिमानज्वरो-
ल्लाघश्लाघ्यशरीरतासफलितस्निग्धाशिषः शेरते ॥१४०३ ॥
उदात्तमित्यन्तकृत्यं संचिन्त्य कितवा इव |
राज्ये भजन्ते दीव्यन्तः क्षत्रियास्त्रासहीनताम् ॥ १४०४ ॥
मत्रान्तरानुयोक्तारं तदप्युत्सृज्य मन्त्रितम् ।
परुषं प्राप्तकालं च ते निःश्वस्य तमब्रुवन् ॥ १४०५ ॥
उत्कर्षवदसुंस्त्यक्तुमपि शक्नोषि संकटे ।
अन्यथानुचितं किंचित्प्राप्स्यस्यहितचिन्तितम् ॥ १४०६ ॥
स तानुवाच स्वं हन्तुं न शक्तोहं ततो मयि ।
भवद्भिरेव विषमे प्रहर्तव्यमुपस्थिते ॥ १४०७ ॥
गिरं कापुरुषस्येव क्लैव्यग्रस्तस्य तां प्रभोः ।
सवाष्पास्तेनुशोचन्तः पुनरेवं बभाषिरे ॥ १४०८ ॥
प्रतीकाराय नः शक्तिर्न चेद्दैवहतौजसाम् ।
प्रत्युतैवंविधे कृत्ये प्रसरेयुः कराः कथम् ॥ १४०९ ॥
सप्तमस्तरङ्गः ।
पशून्पुरुषरूपान्स नूनं भूभृत्युपोष तान् ।
दुःखे नोदखन॑स्तस्य ये तादृग्दैन्यमीयुषः ॥ १४१० ॥
युगान्तानपि जीवित्वा काय: सापाय एव यः ।
तत्त्यागमात्रसाध्येर्थे धिग्दैन्यमनुजीविनाम् ॥ १४११ ।।
योषितोपि विशन्त्यग्निं यं ध्यात्वा विस्मृतिं व्रजेत् ।
भर्तृस्नेहः स पुंसोपि यस्य कोन्यस्ततोधमः ॥ १४१२ ॥
शैलूपस्येव ये शोकभयदैन्यादिविक्रियाः ।
भर्तुः पश्यन्ति तैरेषा भूः सतीर्थाप्यपावनी ॥ १४१३ ॥
क्षुत्क्षामस्तनयो वधूः परगृहप्रेष्यावसन्नः सुहृ
दुग्धा गौरशनाद्यभावविवशा हम्बारवोद्गारिणी ।
निष्पथ्यौ पितरावदूरमरणौ स्वामी द्विषन्निर्जितो
दृष्टो येन परं न तस्य निरये भोक्तव्यमस्त्यप्रियम् ॥ १४१४॥
भूयोपि मानुषपशून्स तान्नृपतिरब्रवीत् ।
उदात्तकृत्योप्याविश्य भूतैरिव विमोहितः ॥ १४१५ ॥
एतस्मिन्पश्चिमे काले भुक्तं राज्यं यथा मया ।
जाने विशालेच्छतया तथान्यो नोपभोक्ष्यते ॥ १४१६ ॥
यमः कुबेरश्चौष्ठाग्रे राज्ञां तिष्ठत इत्यसौ ।
मदेकशरणैवाभूत्ख्यातिरस्मिन्कलौ युगे ॥ १४१७ ॥
रुद्रोपेन्द्रमहेन्द्राद्याः प्रयातारो यदध्वना ।
उपस्थितायां नियतौ तत्र मर्त्यस्य काः शुचः ॥ १४१८ ॥
किंतु दूये यदेषा भूर्भूत्वा कुलवधूरिव ।
मद्दोषाद्धटचेटीव प्राप्ता प्रसभभोग्यता ॥ १४१९ ॥
इतः प्रभृति यः कश्चिद्राज्यस्यास्य गतौजसः ।
चक्रिकामात्रसाध्यत्वं जानन्नाशां करिष्यति ॥ १४२० ॥
। दुःखं इत्युचितम् । राजतरङ्गिणी
अलौकिके कृते यद्यत्तद्वीक्ष्य फलवन्ध्यताम् ।
प्राप्तोदयैरल्पसत्त्वैर्दर्पान्नूनं हसिष्यते ॥ १४२१ ॥
कार्यारम्भः फलोल्लासमालोक्य प्रायशो जनैः ।
अनानुगुण्यगणनां कुर्वाणैर्न विगर्ह्यते ॥ १४२२ ॥
पक्षान्तकोरिरवलम्बनभूः सनेत्रं
दुग्धेन यस्य मरणं घियि कैरिवेत्थम् ।
पारं गते मथनकर्मणि मन्दराद्रे-
दोषोते विगुणहेतुपरीक्षणेन ॥ १४२३ ॥
शास्त्रसंदर्भवित्त्वेपि श्रीगर्भत्वमदर्शयम् ।
जनोपजीवनार्थ यत्तजातं जाड्यसिद्धये ॥ १४२४ ॥
उच्चलेनापि मत्कृत्ये हस्ताग्रोञ्चेयचेतसा ।
दर्शितश्यामदशनं करिष्यन्ते विडम्बनाः ॥ १४२५ ॥
ततोवमानान्न त्रासात्संप्राप्तोद्य विहस्तताम् ।
समर्थनेच्छुर्वाञ्छामि मृत्युमीदृशमप्यहम् ॥ १४२६ ॥
स्वैरेव स हतो नोचेत्कस्तस्माद्वसुधां हरेत् ।
लब्धां रक्षितुमिच्छामि ख्यातिमेतेन हेतुना ॥ १४२७ ।।
मुक्तापीडः पुरा राजा ज्वलित्वा मूर्ध्नि भूभुजाम् ।
कार्पण्यप्रणयं प्राप लब्धरन्ध्रो विरोधिभिः ॥ १४२८ ॥
स ह्युत्तरापथे नानापथस्थगितसैनिकः ।
मितानुगोहितै रुद्धमार्गोभूदुर्गमेध्वनि ॥ १४२९ ॥
तं शल्यो नाम सामग्र्यवैरल्यविवशं नृपः ।
वन्दुं प्रतिज्ञामकरोद्वाजिलक्षैर्युतोष्टभिः ॥ १४३० ॥
'स सामप्रमुखोपायापायध्यानावसन्नधीः ।
भवस्वाम्यभिधं कृत्यमपृच्छन्मुख्यमत्रिणम् ॥ १४३१ ॥
३५९
असाध्यां सोपि निर्ध्याय विनिपातप्रतिक्रियाम् ।
न्याये निश्चित्य नैयत्यं कर्तव्ये प्रत्युवाच तम् ॥ १४३२ ॥
उपाययुक्तिप्रत्युक्ते कृत्ये कीर्त्यभिमानिनाम् ।
निःसंभ्रमैव प्रतिभा लोभेनाक्षोभिते हृदि ॥ १४३३ ॥
कृत्यं कृत्यविदो लब्धप्रसिद्धिपरिरक्षणम् ।
साम्राज्योपार्जनमुखो व्यापारस्त्वानुषङ्गिकः ॥ १४३४ ॥
गच्छञ्शरीरविच्छेदादपि भस्मावशेषताम् ।
कर्पूरः सौरभेणेव जन्तु: ख्यात्यानुमीयते ॥ १४३५ ॥
शान्तयोर्जीवितस्थानं द्वयमत्यद्भुतं द्वयोः ।
अनङ्गस्याङ्गनापाङ्गः स्तोतृजिह्वा यशस्विनः ॥ १४३६ ॥
ख्यातिसंरक्षणं नाम जन्तोः कैल्पान्तरस्थितिः ।
वर्तने कीर्तिकायस्य संपूर्णाः परमाणवः ॥ १४३७ ॥
धीरैर्विधिश्च निध्येयो विरोधिष्ववधानवान् ।
यस्तेषामुन्नतिधनध्वंसाय यततेन्वहम् ॥ १४३८ ॥
तुङ्गावपातनहठव्यसनी विधाता
स्वोत्पत्तिपद्मकुलजेपि सरोजषण्डे ।
संकोचिनि द्विजपतावपि शुद्धिवन्ध्ये
मातङ्गहस्तपतनैः कुरुतेवमानम् ॥ १४३९ ॥
ये हठापातिनो धातुरियं ख्यातिनिपातने ।
रक्षितुं समुपेक्षन्ते न तैः किं नाम रक्षितम् ॥ १४४० ॥
जाति: क्ष्माभृति वंशजाश्रयतया ख्यातिप्रतिष्ठामिमा-
मुद्दीप्यानलमुज्झितस्ववपुषः केप्यत्र वेत्राङ्कुराः ।
त्रातुं हन्त विदन्ति ये न विधिना क्रुद्धेन पृथ्वीभृता
द्वारि द्वाःस्थकरैर्गतागतखलीकाराणि संप्रापिताः ॥१४४१॥
१ न्याय्ये इत्युचितम् | २ कल्पान्तरस्थितेः इत्युचितम् । ३ पृथ्वीभृतां इत्युचितम् । ३६० राजतरङ्गिणी
भोगान्निर्वाणभूयिष्ठानिष्टान्प्राप्तानवेत्य तत् ।
प्रतिष्ठासौष्ठवत्राणे संरब्धं देव सांप्रतम् ॥ १४४२ ॥
दण्डकालसकाख्यस्य तद्रोगस्याशुकारिणः ।
पार्थिवाकस्मिकोत्थानं मिषादद्य प्रकाश्यताम् ॥ १४४३ ॥
श्वो वक्तास्स्यथ कर्तव्यं व्यापत्प्रक्षपणक्षमम् ।
उक्त्वेति स महामात्यो निर्गत्य स्वगृहानगात् ॥ १४४४ ॥
दण्डकालसकं दण्डधरो व्यञ्जन्मिषात्ततः ।
अधीर इव चक्रन्द लुठन्निः स्पन्दलोचनः ॥ १४४५ ॥
स्नेदसंवाहनस्नेहवमना द्यैरुपक्रमैः
तं
निःशैथिल्यव्यथं तेन मुमूर्षु तं जनोवदत् ॥ १४४६ ॥
ततो निश्चितमृत्युत्वं पत्युः कथयता कृतः ।
वह्निप्रवेशोमात्येन कृतज्ञत्वनिवेदकः ॥ १४४७ ॥
कर्तव्यशेषं दाक्षिण्यादनाचक्षाणमग्रतः |
युक्त्योक्तानिष्ठुराचारमन्तस्तुष्टाव तं नृपः ॥ १४४८ ॥
अप्रौढः सोढुमुद्दामां व्यथामस्मीति वादिना ।
राज्ञाप्यनलसाहेहं ततश्चक्रेभिमानिना ॥ १४४९ ॥
तेन प्राणानुपेक्ष्यैवमन्यख्यातेर्मनस्विना ।
ऊर्ध्वाधिरोहे सोपानं कृतं न निजकीर्तनात् ॥ १४५० ॥
एवं दैवोपनीतानामख्यातीनां चिकित्सितम् ।
स्वधियामात्यवुद्ध्या वा पारमेति मनस्विनाम् ॥ १४५१ ॥
इत्युक्त्ता विरतो वंशबीजरक्षार्थमात्मजः ।
भोजो विसृज्यतां कोटमेवमूचेथ मत्रिभिः ॥ १४५२ ॥
१ भूयिष्ठान्निष्ठां प्राप्तान् इति स्यात् । २ संरम्भो इति स्यात् । ३ युक्त्योक्त-
निष्ठुराचारं इत्युचितम् |
तं राजपुत्रं प्रस्थानमङ्गलान्ते विनिर्गतम् ।
पुनर्व्यावर्तयामास दण्डनायकमोहितः ॥ १४५२ ॥
सा धीः स साहसारम्भस्तदवैव्हल्यमापदि ।
नष्टमेकपदे तस्य नादाकाले ह्युपस्थिते ॥ १४५४ ॥
लक्ष्मीतडिल्लता कीर्तिबलाका शौयैगर्जितम् ।
प्रतापशक्रचोपं च भागधेयाम्बुदायुगम् ॥ १४५५ ॥
धीशौर्यादिगुणेन भाग्यसमये प्रागेष एको नृपः
शक्रस्याक्रमणं क्रियेत न कुतोनेनेति संभाव्यते ।
मौग्ध्यं पङ्गुजडान्धवच्च स ततो गच्छन्नभाग्योदये
दत्तोनेन पद्क्रमो भुवि कथं नामेति संचिन्त्यते ॥१४५६॥
विरोधिंप्रतिबोधाय तत्रिसैन्यं विसर्जितम् ।
नगरस्थमपि क्ष्मापात्पवासधनमादधे ॥ १४५७ ॥
दायादाश्रयणं राजभृत्याः सर्वेपि चक्रिरे ।
ये केचित्ववन्गेहे ते देहैरेव केवलम् ॥ १४५८ ॥
पराश्रयपरं द्वित्रा न संकल्पमपि व्यधुः ।
कि वा स्तुतैस्तैर्ये स्त्रीवदमुञ्चन्नचिरादसून् ॥ १४५९ ॥
यां काणश्रावतीनर्तक्यन्वये कापि नर्तकी ।
पु्त्रीचके कापि जातां जयमत्यभिधाथ सा॥ १४६० ॥
भूत्वा गरृहीतकोमारा तरुण्युच्चलरागिणी ।
धनदुन्धावरुद्धात्वमभजन्मण्डलेरितुः ॥ १४६१ ॥
तस्मिन्हते तदैवास्तापत्रपोच्चलमाययौ ।
तयैव दैवयोगेन पट्ट्देव्या भविष्यते ॥ १४६२ ॥ »
9 चापश्च इत्युचितम् । २ प्रतिरोधाय इति स्यात् । २३ आददे इत्युचितम् ।
६
आबद्धपड्तयश्चर्चामुच्चलाश्रयिणीं व्यधुः ।
भूपालदर्शनेप्यस्तभीतयो राजसेवकाः ॥ १४६२ ॥
वेतनस्वीकृतैः सर्वैः शिक्षाधारी पुरस्कृतः ।
लोभावमानावुद्धोष्य योधश्चद्धां दरन्युधि ॥ १४६४ ॥
मन्दप्रतापतावाप्तौ नर्मोक्तया मर्मभेदकत् ।
आहारादिक्षणे कर्ता प्रक्रियार्थनया कलेः ॥ १४७६५ ॥
अतीव प्रभुदानादिमादात्म्याख्यानकोविदः ।
एक एकोकरोद्योधः पृतनानां विसूत्रणम् ॥ १४६६ ॥
श्रीलेखाभ्रातृसूनोर्यस्तनयो व्यड्डमङ्गलः ।
महजातीयकोपेन स राज्ञास्कन्द्य घातितः ॥ १४६७ ॥
मातुटस्यात्मजा मल्लपत्ययोस्तस्य गेहिनी ।
श्वश्चा समं स्ववसतीरादीप्य दहने मृता ॥ १४६८ ॥
मौनव्रतादिनियमच्छन्नकौर्योन्तकोपमः ।
करोत्यभ्यन्तरान्भिन्नान्मल्लः परमदाम्भिकः ॥ १४६९ ॥
तदेष पुत्रराज्येच्छुर्वाध्यतां निर्भयं रिपुः ।
शादिपुत्रीभिरित्यूचे तस्मिन्नवसरे नृपः ॥ २४७० ॥
स्वयं प्रादात्समास्कन्दं द्वारि स्थितवतः पुरः ।
तस्य प्राणार्थिनो वाञ्छापूर्त्यै मल्लश्च निर्ययौ ॥ १४७१ ॥
स हि द्वैराज्यसज्जाभ्यां पुत्राभ्यां प्रार्थितोपि सन् ।
मुनिव्रतः सदाचारानुरोधान्नात्यजन्नृपम् ॥ १४७२ ॥
विश्वासाय परं राज्ञो भ्रातृन्राज्ञोर्भविष्यतोः ।
द्वैमातुरान्सहणादीन्नीवीं दत्त्वावसद्गृहे ॥ १४७३ ॥
आसेदुषे मुनिदशामाजन्मप्रीणिताग्नये ।
तदा स तस्मै चुक्रोध अत्यासन्नवधो नृपः ॥ १४७४ ॥
स सुराभ्यर्चनं कुर्वन्नाहूतः परिपन्थिभिः ।
रेजे तेनैव वेषेण समराय विनिर्गतः ॥ १४७५ ॥
उपवीव्यक्षसूत्राङ्कपाणिर्दभोज्ज्वराङ्गुलिः ।
भस्मस्मेरललाटाङ्को जामदग्न्य इवापरः ॥ १४७६ ॥
स्नानार्द्रधवलश्यामलोलधम्मिललीलया ।
देहत्यागे प्रयागाम्बु धारयन्निव मूर्धनि ॥ १४७७ ॥
उष्णीषी वीरपट्टेन खेटकेनोष्णवारणी ।
सोसिधारातीर्थपान्थो दण्डी सङ्गेन दिद्युते ॥ १४७८ ॥
भोगे पुरस्कृताः केचियत्तद्भृत्याः पूर्वनिर्गताः ।
अमर्त्यनारीभोगेपि तस्यासन्नग्रभागिनः ॥ १४७९ ॥
द्वौ रय्यावट्टविजयौ द्विजौ पौरगवस्तथा ।
कोष्ठकः सज्जकाख्यश्च योधा युद्धे हता बभुः ॥ १४८० ॥
क्षतोप्युदयराजाख्यः क्षत्तायुःशेषसत्तया ।
प्राणैर्नियोगभागाजौ नाज्जकोपि व्ययुज्यत ॥ १४८१ ॥
विरोधियोधैर्नीरन्ध्रं द्वारमालोक्य सर्वतः ।
त्यक्तकार्यो ददौ झम्पां स तेषामेव मूर्धनि ॥ १४८२ ॥
शैवलेष्विव खङ्गेषु खेटकेष्वम्बुजेष्विव ।
जरसा धवलो भराम्यत्राजहंस इवाबभौ ॥ १४८३ ॥
क्षणाच्च ददृशे शातरारशङ्कुशताचितः ।
प्रवीरो वीरशयने सुप्तो भीष्म इवापरः ॥ १४८४ ॥
शोच्यं गतायुषो राज्ञः किं नाभूत्तस्य तादृशः ।
चिच्छेद यः रिरः पृष्ठे हयं च श्रमयन्स्मयात् ॥ १४८५ ॥
राज्ञी कुमुदङेखाख्या मल्लस्याला च वल्लभा । ॥
गृहेष्वजुहतां वीतिहोत्रे गात्राणि संभृते ॥ १४८६ ॥
राजावकल्पयोः पत्न्यौ बाले सह्रणरह्ल्योः ।
स्नुषे मल्लस्यासमती सहजा चाग्निसाद्गते ॥ १४८७ ॥
सर्वोपभोगभागिन्यस्तदन्तःपुरयोषिताम् ।
परिवाराङ्गना वह्नौ षट्चात्रैव विपेदिरे ॥ १४८८ ॥
महागृहाग्नितापेन शोकोष्णैश्च जनाश्रुभिः ।
तप्ताम्भसो वितस्तायास्तीरे वामे बभूव तत् ॥ १४८९ ॥
प्रवर्धितायाः स्तन्येन द्रष्टुमक्षमया पयः ।
दास्यमानं निवापेषु पुत्र्यासश्चन्द्राख्यया समम् ॥ १४९० ॥
धात्र्या परस्मिन्वै तस्मिंस्तीरे स्वान्तःपुरे स्थिता ।
माता भविष्यतो राज्ञोर्नन्दानिन्द्यकुलोद्भवा ॥ १४९१ ॥
महानसाग्निधूमेन संलक्ष्या वीक्ष्य पुत्रयोः ।
सोत्कण्ठं कटकौ सौधादुदग्दक्षिणदिक्स्थयोः ॥ १४९२ ॥
क्रियतां दिवसैरेव पुत्रौ शत्रोः पितृद्विषः ।
जामदग्न्यायितं वंशे शप्त्वेति नृपतिं सती ॥ १४९३२ ॥
अनिषण्णेव दी्प्ताग्नौ गृहे स्वं निरदाहयत् ।
प्रनृद्यन्तीभिरालीभिरिव ज्वालाभिरावृरता ॥ १४९४ ॥
वधे दर्थनपालस्तु नृपे प्राप्ते प्रतिक्षणम् ।
अत्यद्भुतैरन्तरायैरायुःशेषेण रक्षितः ॥ १४९५ ॥
वर्षमात्रावशेषायुर्यद्वा द्रोहेण रक्षितः ।
सोवमानस्य पूयस्य रोगजस्य च भुक्तये ॥ १४९६ ॥
कृष्णभाद्रनवम्यां तं वधं श्रुतवतोः पितुः ।
मल्लात्मजन्मनोः शोकः कोपेन निरपीयत ॥ १४९७ ॥
आवह्निपुरकग्रामान्प्रज्वलन्कोधवह्निना ।
अधावद्विजक्षेत्रं सोन्येद्युरथ सुस्सलः ॥ १४९८ ॥
१ अतरन्तिपुरकग्रामात् इति स्यात् ।
योद्धुमस्यापतन्तं तं चन्द्रराजोथ निर्गतः ।
पट्टदर्शनपालाद्यैः ससैन्यैः पर्यवर्ज्यत ॥ १४९९ ॥
निजैरूपेक्षितश्चक्रे स चिरं त्र दुष्करम् ।
स्वल्पसैन्योपि संग्रामं भूरिसैन्येन शत्रुणा ॥ १५०० ॥
अक्षोरमल्लः समरे तत्र मल्लश्च चाचरिः ।
अगातां राजगृह्यौ द्वौ स्वर्गस्त्रीभोगभागिताम् ॥ १५०१ ॥
रजोन्धकारे छेत्रेन्दुद्योतिन्यालिङ्गितो हतः ।
चन्द्रराजः सुरस्त्रीभिरिन्दुराजोस्य चानुगः ॥ १५०२ ॥
तस्मिन्नपि हते वीरे चक्रे हर्षमहीभुजः ।
आषारविन्दिनीमूलकन्दनिर्दलनं विधिः ॥ २५०३ ॥
पट्टादयः प्रविश्याथ विजयेशाङ्गनं भयात् ।
प्रविष्टे सुस्सले देशं द्वारं दत्तार्गलं व्यधुः ॥ १५०४ ॥
आस्थानीयः परं पद्मनामा युद्ध्वा हतो बहिः ।
लक्ष्मीधरो मर्तुमिच्छुर्बद्ध्वा नीतः स डामरैः ॥ १५०५ ॥
विजयेश्वरगञ्जाग्रसौधारूढोथ सुस्सलः ।
अधो ददर्श तान्सर्वान्पशूनिव भयाकुलान् ॥ १५०६ ॥
धूर्तः स दत्तमध्यस्थो हसन्नानीतवान्पुनः ।
पट्टदर्शनपालौ द्वौ तेषां पूर्वं निजान्तिकम् ॥ १५०७ ॥
निःश्रेण्यभावादारोढुमक्षमौ सुस्सलानुगैः ।
तौ मृताविव निर्बद्धपाणी रज्ज्वाधिरोपितौ ॥ १५०८ ॥
तयोर्विदेशगमनं व्रीडादर्थायमानयोः ।
प्रतिश्रुत्याकरोद्दीमान्सुस्सलो म्लानिमार्जनम् ॥ १५०९. ॥
स्निग्धोक्त्या भृष्टमांसादिभोगैस्तस्याग्रतस्तयोः । ॥
तस्मिन्नेवाह्नि मन्दत्वं विदेरौत्सुक्यमाययौ ॥ १५९१० ॥
केनाप्यधिष्ठितश्चक्रे परेद्युर्यत्स सुस्सलः ।
जाने विश्वसृजोप्यङ्गं रोमाञ्चयति तरत्स्मृतिः ॥ १५११ ॥
जासटो नृपतिर्हर्षभूक्षर्तुर्मातुलात्मजः ।
उमाधरसमुखाश्चान्ये राजानो यत्र च त्रयः ॥ १५१२ ॥
राजपुत्रहयारोहतन्त्रिसामन्तसंततेः ।
न यत्र गणना काचित्सैन्येष्वष्टादसशस्वभूत् ॥ १५१३ ॥
विजयेशाङ्गनस्थानां द्वारमुत्पाट्य सोविशत् ।
एकाक्येवान्तरं तेषां सासिराक्षेपरूक्षवाक् ॥ २५१४ ॥
स तत्र साक्षिणं कृत्वा क्षमावान्विजयेश्वरम् ।
प्रतिश्रुत्याक्षतयं तेम्यः प्रणतेभ्यो विनिर्ययौ ॥ १५१५ ॥
पुनः सौधाग्रमारूढस्तान्सर्वानर्पितायुधान् ।
रज्जुबद्धकरान्भृत्यैरानिनाय ततोन्तिकम् ॥ १५१६ ॥
स्वर्णरूप्यत्सरुश्रेणिपूर्णायुधपरिष्कृता ।
कीर्णपुष्पोपकारेव सुस्सलास्थानभूरभूरत् ॥ १५१७ ॥
विन्यस्य पशुपालानां पशूनिव स तान्करे ।
संरक्षितं डामराणां त्र्यहं तत्राकरोत्स्थितिम् ॥ १५१८ ॥
ततः सुवर्णसानूरग्रामं संप्राप्य बन्धनात् ।
पट्टदर्शनापालौ द्वावौज्झीद्देषान्तरोन्मुखौ ॥ १५१९ ॥
पट्टः शूरपुरं प्राप्तो भार्ययागतया गृहात् ।
संसृष्टमानोप्यस्मार्षीदल्पसत्त्वो दिगन्तरम् ॥ १५२० ॥
यावन्मात्राप्यौचिती सा विदेशौन्मुख्यलक्षणा ।
द्रोग्धुर्दर्शनपालस्य पट्टमैत्र्या विसूजिता ॥१५२१ ॥
अहंपूर्विकया राज्यं जिघृक्षुरथ सुस्सलः ।
नगरासादनादैच्छदभिसंधातुमग्रजम् ॥ १५२२ ॥
१ संसृज्यमानः इत्युचितम् ।
समानप्रायवयसोः सर्वदोदामयोरभूत् ।
यस्माज्ज्येष्ठकनिष्ठत्वं प्रक्रियारदितं तयोः ॥ १५२३ ॥
द्वित्रेष्वहःसु यातेषु क्रामंस्तां तां भुवं बली ।
उदतिष्ठद्राजधान्याः सविधादेव सूस्सलः ॥ १५२४ ॥
निर्दग्धुं कलशा “-"तत्प्रस्तुतं भूपतेः सुतः ।
वुप्पापराक्षिधो भोजदेवो योद्धुं विनिर्ययौ ॥ १५२५ ॥
आत्मवच्छङ्कमानेन कुमाराणां प्रदुष्टताम् ।
यो भाव्यर्थबलात्पित्रा हतौजा विदधे सदा ॥ १५२६ ॥
कृतो गत्यन्तराक्षावात्तदानीं तु निरङ्कुशः ।
केषु केषु न युद्धेषु योधानामग्रणीरभूत् ॥ २५२७ ॥
प्रपितामतुल्यः स स्याच्चेत्प्रागेव वर्धितः ।
कुर्यादुत्साहसंपन्नो निर्दायादा न किं दिशः॥ १५२८ ॥
नानीतिविन्नाम कश्चित्प्रयोगस्तु विहीयते ।
अस्त्यविल्लभ्यते सर्वो विषयज्ञस्तु दुर्लभः ॥ १५२९ ॥
स राजसूनुरुद्दामविक्रमस्य रिपोरभूत् ।
अत्युद्दामोधिकं जातस्तिमेरिव तिमिंगिलः ॥ १५३० ॥
कृतघ्नभावं पितरि प्रपन्ने
विगर्हणां नार्हति तत्प्रसूतिः ।
शल्कीभवेच्चेत्तिलमुज्झ्यते किं
तैलेन दत्तः कुसुमाधिवासः ॥ १५३६९ ॥
देवेश्वरात्मजः पित्थः पार्थिवेनाधिगौरवम् ।
वर्धितोप्यभजत्पापः प्रतिपक्षसमाश्रयम् ॥ १५३२ ॥
ततस्तदात्मजो मिल्लः प्रस्थिते सुस्सलाहवे ।
नृपेणार्थायमानोध्वखेदात्सावज्ञमीक्षितः ॥ १५२३ ॥
१ प्रस्तुते इत्युचितम् ।
ज्ञास्यस्याद्यान्तरं राजन्ममेत्युक्त्वा विनिर्गतः ।
खङ्गधाराजलैर्मानी म्लानिमक्षालयद्रणे ॥ १५३४ ॥
सर्वनाशादभूद्दुःखं तथा न ह्रदि भूपतेः ।
तदन्तरापरिज्ञानात्कृतज्ञस्य यथाधिकम् ॥ १५२५ ॥
विभवैर्नित्यसंमूढा जानते त्वन्तरं नृपा ।
तदा शक्या यदा तेषां पलापैरेव सत्क्रिया ॥ १५२६ ॥
भोजेन निर्जितानीको विद्रुतः सुस्सलो रणात् ।
लवणोत्सं पलाय्यागाद्द्विर्दर्शतगतागतः ॥ १५३७ ॥
प्रत्यावृत्तस्ततो भोजस्तीव्रातपकदर्थितः ।
उद्यानान्तस्तनुं तल्पे पित्रा सह मुहुर्जहौ ॥ १५२३८ ॥
अथोत्तरेणोदतिष्ठन्नादः पारान्नृपौकसः ।
ज्यायान्मल्लत्मजः प्राप्तः सेतुराच्छिद्यतामिति ॥ १५३९ ॥
सुस्सलेन हतं राज्यं नाद्यायासि द्रुतं यदि ।
स दण्डनायकेनाभूत्संदिष्ट इति पापिना ॥ १५४० ॥
अतो जवेन चाविक्षत्प्रथमं चावधीन्मृधे ।
नरेन्द्रेश्वरदेवाग्रवर्तिनं देवनायकम् ॥ १५४१ ॥
अथोज्जगाम स्थामस्थः सह व्यूहेन सादिनाम् ।
नगराधिकृतो नागस्तस्याग्राद्भूरिसैनिकः ॥ २५४२ ॥
यत्रास्थां पार्थिवोबन्धात्प्रधानपृतनान्विते ।
बक्षार नोच्चलाशङ्कां सुस्सलाहवनिर्गतः ॥ १५४३ ॥
अल्पसैन्यो मल्लसूनुर्यावत्तस्मादशङ्कत शङ्कत ।
अपनीतशिरस्त्राणस्तावत्स तमवन्दत ॥ १५४४ ॥
मण्डलेश्वरवत्तं स प्रियं शत्रोरविश्वसन् ।
ऊचे स्ववेश्म याहीति स च पापस्तथाकरोत् ॥ १५४५ ॥
तस्य द्रोदफलं दृष्टमेतस्मिन्नेव जन्मनि ।
मण्डले यदनन्यस्मिन्भित्वा जीवितं जहौ ॥ १५४६
ततो राजा सरित्तीरं प्राप्तः प्रैक्षत डामरान् ।
सेत्वग्रे श्यामविकृतान्दावदग्धान्द्रुमानिव ॥ १५४७ ॥
वलक्षवारवाणस्य तेषां मध्ये वपुर्बक्षौ ।
परं जनकचन्द्रस्य शुक्रस्येव तमोन्तरे ॥ १५४८ ॥
महासेतुः स घटितो राज्ञा नौक्षिः स्वसिद्धये ।
पर्यवस्यद्विधिवशाच्छत्रूणां सिद्धये पुनः ॥ १५४९ ॥
अथारुरुहुरादाय वह्निं हर्म्यचतुष्किकाम् ।
शतद्वारे मर्तुकामा देव्यः शाहिसुतादिकाः ॥ १५५० ॥
लोके विरक्तः सेत्वग्रे दायादैः सह संगरम् ।
ददर्शाश्वयुजीलागिमिव निर्विक्रियः प्रभोः ॥ १५५२ ॥
विजये सावशेषोसौ वह्निदानोद्यता प्रियाः ।
अनिशं वारयन्राजा सेत्वग्रे रणमग्रहीत् ॥ १५५२ ॥
अथ विन्यस्तवर्माणं राजसेनागजं शरैः ।
सेतोर्जनकचन्द्राद्याः परमुखस्थमताडयन् ॥ १५५३ ॥
स विद्धो मर्मसु शरैः पूत्कारोद्गारकृद्गजः ।
स्वचमूमेव चरणैरमृद्गाद्विमुखीकृता ॥ १५५४ ॥
विधिनेव विरुद्धेन सिन्धुरेण कदर्थिता ।
भ्रश्यत्पत्तिहयारोहा समपद्यत वाहिनी ॥ १५५५ ॥
सेतुं तीर्णस्ततो वैरिसैनिकैर्विमुखीकृतः।
शातद्वाराङ्गनं त्रस्तः साश्वारोहोविशन्न्ऱपः ॥ १५५६ ॥
उदात्तवेषरहितो रहोपि ददृशे न यः।
भुञ्जानस्यापि यस्यास्यमुद्रा नैव व्यभाव्यत ॥ १५५७ ॥
१ लोको इत्युचितम् । २ सावरेषे इत्युचितम् ।
9
।,
स भयद्विगुणार्कांशुस्वेदप्रस्विन्नचिग्रहः।
पुनः पुनः क्षिप्यमाणस्त्रस्तवर्मांसयोर्निजैः ॥ १५५८ ॥
अनवस्थितपार्ष्ण्यन्ताघातप्रचलितं हयम् |
निरोद्धुं बहुशः कर्षन्नष्टवल्गाग्रहं करम् ॥ १५५९ ॥
खल्वाटसशीर्षपर्यन्तलम्बिनीः कुन्तलच्छटाः ।
प्रापयञ्श्रवणोपान्तं करेण गलितासिना ॥ १५६० ॥
लडत्प्रलम्बनिर्भूषश्रोत्रपालिलताच्छलात् ।
कालाहिनेव मूर्तेन वेष्टितोच्छुष्ककंदरः ॥ १५६१ ॥
निस्ताम्बूलतयोच्छुष्कौ जतुपीताविवासकृत् ।
ओष्ठावुक्षिप्य कृच्छ्रेण विह्वलो जिह्वया लिहन् ॥ १५६२ ॥
कनीनिकासक्तरेणुक्षामधूसरमाननम् ।
उन्तानीकृत्य पृष्ठस्थाः पश्यन्दीनमनाः प्रियाः ॥ १५६३ ॥
परिभ्रमन्नङ्गनान्तः स्रस्तः स सदृशे जनैः ।
घह्निदानोद्यतास्ताश्च वारयन्करसंज्ञया ॥ १५६४ ॥
मल्लराजस्य वेश्माभूद्राजधान्यन्तिकेपि यत् ।
तीत्वौ जनकचन्द्रेण तत्न बह्निरदीयत ॥ १५६५ ॥
राजधान्युन्मुखं दृष्ट्वा ज्वलन्तं वन्हिमागतम् ।
भेजे पलायनं भोजो राज्यं निश्चित्य हारितम् ॥ १५६६ ॥
स शूलैर्विद्विषां भीमैर्नडैरिव तिरोहितम् ।
द्वारं भित्वा तुरङ्गस्थः प्राङ्गणान्निर्ययौ बहिः ॥ १५६७ ॥
पञ्चषैः सादिभिः सार्धं लोहरौन्मुख्यमाश्रितः।
प्रतस्थे सेतुमुत्तीर्य सिंहराजमठाग्रगम् ॥ १५६८ ॥
यातस्य दृक्पथात्सूनोः सास्रुरालोकयन्दिशम् ।
राजाश्ववारैः सहितो वेश्मनां बहिरभ्रमीत् ॥ १५६९. ॥
१ कंधरः इत्युचितम् ।
अत्रान्तरे मर्तुकामास्रतुं काश्चिन्रुपाण्गनाः । अश्मभिस्तत्परिजनैरभज्यत चतुभ्किका ॥ १५७० ॥
शाहिपुत्र्य्स्तदा ज्नात्व शत्रवः पतिता इति ।
मत्वा चतुष्किकाशृङ्गे ततोग्निमुददीपयन् ॥ १५७१ ॥
वास्तव्या डामराश्चाथ ध्नन्तोन्योन्यमुदायुधाः ।
ज्वखतः क्ष्मापतिग्रहाभ्दाण्डागारादय्दुण्टयन् ॥ १५७२ ॥
केचित्तत्र वधं प्रापुर्विपदं केचनात्यजन् ।
अदृष्टवस्तुसंप्रासिः केषांचिद्धास्यदामवत् ॥ १५७३ ॥
सितेयं शार्करेत्येकः कपूरं वदनेक्षिपत्।
ततः सरिति तद्धाण्डं निदैग्धवदनो व्यधात् ॥ १५७४ ॥
पामरैः स्वणचित्राणि केथित्स्वणेग्रदेच्छया ।
विनिर्दग्धानि वासांसि विचितं भस्म चादरात् ॥ १५७५ ॥
अचिद्धमौक्तिकस्तोमः सिततण्डुलविभ्रमात् ।
कचित्पामरनारीभिर्घर ट्टेषु विचूर्णितः ॥ १५७द ॥
वसत्यद्रुश्ये देशेस्मिन्खलीकारेण ताद्रुशा ।
एवं विडम्बिता लक्ष्मीर्न पुनः काप्यद्रुश्यत ॥ १५७७ ॥
विद्याधरीरिवोदात्तवेषाः क्ष्मापतिसुन्दरीः।
हरन्तो डामराः कूरा द्रुश्यन्ते स्म पदे पदे ॥ १५७८ ॥
वसन्तखेखाप्रमुखाः सस्रुषास्तत्र चक्रिरे ।
निर्यातदोषाः स्वान्देहात्राह्यः सप्तदशाग्निसात् ॥ १५७९ ॥
गृहाणां दह्यमानानामश्रूयत चटत्क्रुतिः।
गाढोष्मक्थमानाभ्रसिन्धुघोषप्रतीतिकृत् ॥ १५८० ॥
श्रीपद्मश्रीप्रपापार्श्वस्थितस्तद्वीक्ष्य पार्थिवः। ५
आर्षं ऋोकमिमं शोकात्स्मृत्वापाटीत्पुनःपुनः ॥ १५८१ ॥
प्रजापीडनसंतापात्समुद्धूतो हुताशनः।
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ १५८२ ॥
दग्ध्वाथ राजधानीं तामुच्चलो डामरान्वितः।
अल्यक्तसैन्यं वीक्ष्यारिं पारमेवातरत्पुनः ॥ १५८३ ॥
ततो युद्धा मर्तुमिच्छन्निन्ये राजाकुलात्मताम् ।
उच्चावचैर्मतिदैधै पदातीनां क्षणे क्षणे ॥ १५८४ ॥
गच्छन्नन्तपालादि राजपुत्रधिया मृधम् ।
दण्डनायकवाक्येन न्यषिध्यत पदे पदे ॥ १५८५ ॥
युध्यस्व लोहरं वापि याहीत्युचे च चण्पकः ।
प्रयगस्योत्तरः पक्षः प्रत्यभान्नग्रिमं पुनः ॥ १५८६ ॥
वार्तामबुद्वा पुत्रस्य नृपतिर्व्याकुलीभवन् ।
पदवीं भोजदेवस्य यादीत्याह स्म चण्पकम् ॥ १५८७ ॥
्रप्रयागमात्रनुचरो राजन्संपत्स्यसे क्षणात् ।
तस्मान्मामपि मा त्यक्षीरित्यूचे तं स निःश्वसन् ॥ १५८८ ॥
सोन्तर्वाष्पस्तं बभाषे निद्रोदोसीति कथ्यते ।
त्वयाप्यस्मिन्क्षणे कस्मात्तस्मादुल्ल्ङ्यते वचः ॥ १५८९. ॥
विना पुत्रं न पस्यामि सार्कैपि दिवसे दिशः।
त्वं तस्मिन्नङ्कसंवृद्धे न मन्युं कर्तुमर्हसि ॥ १५९.० ॥
अश्वानिमित्तं करहस्तेष्वेव दिवसेष्वभूत् ।
मन्रिणो राजपुत्रेण तेन तस्याभिमानिना ॥ १५९१ ॥
गिरा प्रभोरुपालब्धस्तदागुरणगर्भया ।
स लजज्जानम्रवदनो राजपु्त्रानुसार्यगात् ॥ १५९२ ॥
- पञ्चाताश्चवारेः स भ्रादृभ्रत्यादिभिः समम् ।
उत्तीणैः सरितः पारमात्मनापञ्चमोभवत् ॥ १५९३ ॥
भ्रातृद्वारेश्ववारे च शेषा राजात्मजे पथि ।
हताश्वे पतिते सोभूद्द्केनान्वितो भ्रमन्
अनान्पुवन्राजसूनोर्वार्तां वावर्त्मनाप्यटन्॥ १५९४ ॥
गलितेहनि संप्राप वितस्तासिन्धुसंगमम् ॥ १५९५ ॥
एवमाप्तान्परान्पुत्रमन्वेष्टुं प्राहिणोन्नृपः।
अन्येपि तन्मिष लब्ध्वा तस्य पार्श्वादवाचलन् ॥ १५९.६ ॥
उत्कोचदायिना क्रुद्धं राजपुर्यादि विग्रहे ।
योग्यानसहता भृत्यान्निःसारः कटकः कृतः ॥ १५९.७ ॥
लोहरप्रष्थितौ विघ्रं राजपुजस्य कारितः।
प्रवेशितः पुरं वैरी राजन्यन्याहवाकुले ॥ १५९८ ॥
सर्वस्वध्वंसिना येन स एव नृपतेरभूत् ।
तदाप्युचितकर्तव्य निषेद्धा दण्डनायकः ॥ १५९९ ॥
राज्ञः कृत्स्न्नावसन्नस्य शृण्वतो वहु मन्त्रितम् ।
नैकत्र रूढिः कतेव्ये काप्यधीरधियोभवत् ॥ १६०० ॥
सर्वैर्यथा निखिलरन्ध्रमुखेन वम्शः
संपूरितो न खलु राब्दमपि प्रसूते ।
तैस्तैस्तथा बहुपथपरचयेन मन्त्रः
संकल्पितः किल न निश्चयमभ्युपैति ॥ १६०१ ॥
भाग्यक्षयस्यैतदेव लक्षणं प्राकृतोपि यत् ।
अपृष्टः कथयेद्धा्र्ष्यान्मन्त्रं स्वहृदयोचितम् ॥ १६०२ ॥
त्रैलोक्यनान्मा सूतेन शंसता दण्डनायकम् ।
निरोध्य वल्गामित्यूचे भूयः क्ष्माभृद्रणोन्मुखः ॥ १६०३ ॥
एकानग्ङैः साश्ववारैः प्राग्जिंगायन्तत्सितामहः ।
तद्रच्छामोक्षपरटलोपान्तं तत्सग्रहेच्छया ॥ १६०४ ॥
3 वावत्मेना इति स्यात् । २ उत्कोचादायिना इत्युचितम् ।३ जिगाय त्वियततौमहः
इति खात् ।
पदातिप्रायसैन्यांस्तान्निहन्मः संहताव्रिपून् ।
पश्न्निपत्य तेः साकं श्येना इव विहंगमान् ॥ १६०५ ॥
ततश्चिचलिषावेव राज्ञि तत्कटको दिशः।
स वृष्यम्बुहतो रग्ङ्प्रेक्षिलोक इवागमत् ॥ १६०६ ॥
पारेवितस्तां प्रासेभ्यः पाथेयायात्मजन्मनः।
स शेयाराजजन्मभ्यो रत्नर्गैवेयकाद्यदात् ॥ १६०७ ॥
आरामिकैस्तैः सम्प्रप्ते राजचिन्हे क्षणादिव ।
तेजःस्फारोजितो राजा गतश्रीर्दद्रुजनैः ॥ १६०८ ॥
पदे पदे भश्यमानसैन्योक्षपतलादिषु
स्थानेषु चाभ्रमीत्कश्चिन्न च तस्यापद्न्तिकम् ॥ १६०९ ॥
संश्रयातर्थ्थथ वभ्राम सायं वेस्मानि मत्रिणाम्
प्रवेशं प्रददौ चास्य न कोपि द्वारि तस्थुषः ॥ १६१० ॥
प्रायोपवेशकुशलाः शक्तास्त्वन्ते न कुत्रचित् ।
मिथ्यासंभावनाभूमिभूपानां ब्रह्यवन्धवः ॥ १६११ ॥
ये केपि देशे सन्तयस्मिस्तद्गेहेष्वास्धाया भ्रमन् ।
प्रविविक्षुर्ग्रृहान्प्राप कपिलाख्यस्य मन्रिणः ॥ १६१२ ॥
तस्सिल्लोहरकोट्टस्थे तत्पत्न्या स्थातुमार्थेत: ।
नौभिश्च कोट्टं गन्तुं न प्राविक्षद्दैवमोहित: ॥ १६१३ ॥
आर्तस्य तस्य तत्पुत्रैः पितृवद्रोहकारिभिः। |
ऋणिकै रुत्तमर्णस्य स्वं निःस्वैरेव् गोपितः ॥ १६१४ ॥
सदोषोस्मीति सोज्ञासीत्स्वयं श्रूण्वन्विगर्हणाम् ।
तदैव गोपिताशेषकृत्यो दुर्मन्रिभिः पुरा ॥ ९६१५ ॥
गृहीतसर्वनैराश्य पार्श्र्वस्थेष्वप्यविश्र्वसन् ।
अभूत्प्रडद्युस्रमुत्तीर्णो नितरां विरलानुग: ॥ १६१६ ॥
१ पारेवितस्तं इत्युचितम् । २ गोपितम् इ्युचितम् ।
प्रस्यापयन्तः संभूति षटूत्रिंशतिकुलेषु ये । तेजस्विनो भास्वतोपि सहन्ते नोच्चकैः स्थितिम् ॥ १६१७ ॥ तेप्यन्तेनन्तपालाद्या राजपुत्रास्तमत्यजन् । सान्द्रतां दधति ध्वान्ते स्थगिताश्वाः पदे पदे ॥ १६१८ ॥ वाहनाजोहिलमठपान्तं प्राप्यावतीर्णवान् । स दण्डनायकेनापि तत्यज्ञे सोनुजन्मना ॥ १६१९. ॥ इहास्मच्छ्वशुरावासस्तत्र वस्तुमिमां निजम् । वीक्ष्य ते स्थानमेष्यामीत्युक्त्वा व्याजेन सोचखत् ॥ १६२०॥ यियासोरयुजं तस्य पाथेयार्थं परयागकः । ययाचेङ्गदमस्मै स प्रादात्सत्कून्न् तं पुनः ॥ १६२१ ॥ एकांवेशेषश्रीस्ततोवाशेषजीवितः । प्रयागन्नेषानुचरो नरपतिः समपद्यत ॥ १६२२ ॥ सूदश्चण्पकभ्चृत्यस्य जेखकाख्यस्य तत्क्षणम् 1 मुक्तो नामान्तिकं प्राप्तो शरपतेरा्ततामगात् ॥ १६२३ ॥ उदीपविहितैः खातेरभे दुःसंचरा क्षितिः । भ्राम्यतस्ताजुवाचेति नारी काचिदुहान्तरात् ॥ १६२४ ॥ ततस्तीरे वितस्ताया निषप्णेस्मिन्प्रयागकः । गन्तुं जयपुरं कोमाज्हाव स नाविकान् ॥ १६२५ ॥
स हि प्राक्संविदं चक्र तञव्येः सह शखिभिः।
चषं प्रेयाश्रयं नेत॑ भूमादेवस्य मन्दिरम् ॥ १६२६ ॥ उच्चलाश्रयिणाप्यूचे भीमादेवेन येन सः ।
राज्ञोुगो गमिष्यामि प्रविष्टस्योपवेदानम् ॥ १६२७ ॥ नोचरेयहतां नावमारुरोह न भरूपतिः।
नादोन्मुखः समासन्नवृषिपातभयाङुलः ॥ १६२८ ॥
१ सानुजन्मना इद्युचितम् । २ निशाम् इत्युचितम् । ३ भीमादेव्य इति खाद् । ३७६ राजतरङ्गिणी
पर्यापतत्कालकरस्थभोगि-
संदर्शनेनेव मतिप्रदीपः ।
क्षिप्रं प्रशान्त्युन्मुखतामुपैति
विनाशकालेषु शरीरभाजाम् ॥ १६२९ ॥
तस्मिन्द्रोहसुभिक्षेपि यस्य मानवतः परम् ।
अनन्यालोकिनी दृष्टिर्भेजे कुलवधूव्रतम् ॥ १६३० ॥
नीलाथ्वीयः स बिम्बाख्यो डामरामिलितोहितैः ।
तदापि प्रययौ राज्ञो विस्मृतिं संश्रयार्थिनः ॥ १६३१ ॥
युगलकम् ॥
ततः प्रावर्तत त्यक्तुं वारि वारिमुचां गणः ।
क्षमामिव क्षालयितुं द्रोहस्पर्शेन दूषिताम् ॥ १६३२ ॥
भूर्निर्जना वृष्टिपातस्तमिस्रा दुःसहायिता ।
वैरिभीतिरिति प्राभूर्तिकं किं तस्य न दुःखदम् ॥ १६३३ ॥
न
इतिवृत्तानुरोधेन धिग्दुष्कर्मविधायिनाम् ।
अस्मर्तव्यमपि व्यक्तं नाम ग्राहिष्यतेधुना ॥ १६३४ ॥
सोमानन्दाभिधानस्य पूज्याः सिद्धस्य देवताः ।
सोमेश्वराभिधाः सन्ति काश्चित्पितृवनान्तरे ।। १६३५ ।।
तल्लाञ्छिताङ्गना तुङ्गतरुप्रच्छन्नवाटिका ।
अभूद्गुणाभिधानस्य कुटी क्षुद्रतपस्विनः ॥ १६३६ ॥
वारस्त्रिया स विरहभुजंगीतिप्रसिद्धया ।
भिश्चाख्यया समं भेजे चेष्टितं कुट्टनोचितम् ॥ १६३७ ॥
तस्य प्रतापगौरीशदेवागारान्तिकस्थितेः ।
कुटीं मुक्तेन तां निन्ये क्ष्माभृद्वस्तुं स तां क्षमाम् ॥ १६३८ ॥
१ डामरोमिलितोहितैः इति स्यात् । २ क्षपाम् इत्युचितम् । सप्तमस्तरङ्गः ।
मुक्तमालम्ब्य नृपतिस्तमालम्ब्य प्रयागकः
यान्ति स्म विद्युद्द्योतेन क्ष्मां पश्यन्तोन्तरान्तरा ॥ १६३९ ॥
निरुष्णीषोङ्गसंस्यूतकृतवासाः स्खलन्नृपः ।
स तां प्रयागमुक्ताभ्यां कथंचित्प्रापितः कुटीम् ॥ १६४० ॥
तदा कुमत्रिनिष्कृष्टं स व्यापद्वारणक्षमम् ।
शोचन्सस्मार कंदर्प रुद्रं दैत्यमिवोत्पलः ॥ १६४१ ॥
प्राकारमूर्ध्ना मुक्तेन प्रविष्टेन हृतार्गलाम् ।
नृपः कुटीप्राङ्गणोर्वी विवेशास्थिततापसाम् ॥ १६४२ ॥
विशतोइमक्षतः पादस्तस्यासृग्दक्षिणोत्यजत् ।
मेने तेनानिमित्तेन स मृत्युं समुपस्थितम् ॥ १६४३ ॥
कुट्यामर्गलरुद्धायां निषण्णस्याङ्गने ययौ ।
रात्रिर्भीतिमतो भीमा तस्य घोराभ्रमालिनी ॥ १६४४ ॥
पङ्कोपलिप्तः पङ्काङ्कस्थण्डिलस्यो निनाय ताम् ।
दासकम्बलिकाच्छन्नगात्रो वृष्टयुत्तरां निशाम् ॥ १६४५ ॥
विसस्मारान्तरा दुःखमासीनप्रचलायितैः ।
३७७
निर्निद्रस्त्वभवच्छ्भ्राछ्रश्यन्निव समाकुलः ॥ १६४६ ॥
कोहं केनाभिभूतोद्य क्व वर्ते कोनुगोधुना ।
किं कृत्यमिति निर्ध्याय मुहुर्मुहुरकम्पत ॥ १६४७ ॥
हृतं राज्यं प्रिया दग्धा भ्रष्टः सूनुरबान्धवः ।
जातोस्म्येकाक्यपाथेयो लुठन्भिक्षाभुजोङ्गने ॥ १६४८ ॥
इत्येकैकं च निर्ध्याय दुःखं नैक्षिष्ट सोपरम् ।
प्राप्तावसानं शोचन्तमात्मतुल्यं कथास्वपि ॥ १६४९ ॥
युग्मम् ॥
भोजस्तु वाजिभिद्वित्रैरवशिष्टैः समं व्रजन् ।
हस्तिकर्णान्तरं प्राप निर्गत्य नगरान्तरात् ॥ १६५० ॥
४८ ३७८ राजतरङ्गिणी
व्रजतस्तस्य धीरासीन्नियतं पञ्चषैदिनैः ।
पुनः संप्रानुयां राज्यं यदीन्द्रोपि भवेद्रिपुः ॥ १६५१ ॥
गर्भवास इव पौरुषे स्फुर-
न्कि न कर्म पुरुषश्चिकीर्षति ।
कर्मवायुरिव संस्पृशन्हठा-
न्मूढमेव कुरुते तु तं विधिः ॥ १६५२ ॥
तु
मातृभिर्दत्तपाथेयं भृत्यं नागेश्वराभिधम् ।
प्रतीक्षमाणश्चक्रे स रङ्गवाटान्तरस्थितिम् ॥ १६५३ ॥
शून्ये देवगृहे तत्र तिष्ठञ् श्रुत्वा तमागतम् |
स निर्ययौ तेन तस्मिन्निःशङ्कं प्रहृतं पुनः ॥ १६५४ ॥
तत्र प्रादुष्कृतद्रोहे क्षत्रधर्मादविच्युतः ।
राजपुत्रः स यच्चक्रे न तत्कस्याद्भुतावहम् ॥ १६५५ ॥
स सिंह इव संहारं कृत्वा युधि विरोधिनाम् ।
अस्त्राङ्गरागलिप्ताङ्गो वीरशय्यामभूषयत् ॥ १६५६ ॥
भ्रातास्य मातुलापत्यं विपेदे पद्मकाभिधः ।
खेलो लालितवञ्चैव संख्येसंख्यपराक्रमः ॥ १६५७ ।।
मठं सूर्यमतीदेव्याः शर्वर्यामुञ्चलोविशत् ।
भ्राताप्यस्य रणश्रान्तो लवणोत्सात्समाययौ । १६५८ ।।
हतं भोजं श्रुतवतोर्हर्षमात्रे स्थिते तयोः ।
मनस्युत्खातशूलेथिरेवैका पर्यशिष्यत ॥ १६५९ ।।
प्राप्तमप्राप्तवद्राज्यं तथापि प्रत्यभात्तयोः ।
प्रवासे विस्मृते राज्यसुखे लब्धे च कुत्रचित् ॥ १६६० ॥
प्राहे कुतश्चिदानीतो मुक्तेनान्विष्य तापसः |
प्रणम्य नृपतिं चक्रे स्वकुटीं तां निरर्गलाम् ॥ १६६१ ।।
३७९
तां दंशमशकाकीर्णामास्तीर्णतृणविष्टराम् ।
कृताम्बुसेकां मुक्तेन नृपतिः प्राविशत्कुटीम् ।। १६६२ ॥
यद्विरा बहुमानोभूच्छ्रतया भूभुजामपि ।
स भूभृच्चाटुकारित्वं भीतो भिक्षाभुजोप्यगात् ।। १६६३ ॥
भिक्षांकस्योचितो ग्राम्यमनुदात्तं त्रपावहम् ।
आलापव्यवहाराभ्यां तस्य शृण्वन्स विव्यथे ॥ १६६४ ॥
स भिक्षाकः प्रयागेण विक्रयायाधरांशुकम् ।
निजं दत्त्वा विससृजे विपणि भोज्यसिद्धये ।। १६६५ ।।
कढुक्तिः कटुवागग्रे परोक्षं भेदभीतिकृत् ।
कुतापसो दौःस्थ्य हेतुर्नृपस्यारिर्यथाप्यभूत् ॥ १६६६ ।।
मध्याह्ने स्कन्धविन्यस्तभोज्यभाण्डकरण्डिका ।
तपस्विन्याप्यथानिन्ये तेन क्षुद्रतपस्विना ॥ १६६७ ।।
भृत्यभिक्षाकयोः पूर्व स्त्रिया अप्यथ पार्थिवः ।
स्वं वीक्ष्य गोचरीभूतं निराशो जीवितेभवत् ॥ १६६८ ॥
तेन प्रयागोपहृतं भोज्यं तदनुरोधतः ।
स्पृष्टमेव न भुक्तं तु तीव्रदुःखोल्बणात्मना ॥ १६६९ ॥
का वार्तेति प्रयागेण प्राङ्गणस्थेन पृष्टया |
तापस्याग्रस्थया व्यक्तमुक्तो भोजवधस्ततः ॥ १६७० ॥
मिथ्यैतदिति तेनाथ कथ्यमानोपि पार्थिवः ।
श्रुतिं तामङ्गशकुनं परीक्ष्याबुद्ध नान्यथा ॥ १६७१ ॥
नारोहति गिरं शत्रोरप्रियाख्यायिनोपि यत् ।
तस्य संववृते दुःखं निमग्नस्य तदापदि ॥ १६७२ ॥
१ भिक्षाकस्य वचो इति स्यात् । २ तपस्विन्यप्यथानिन्ये इत्युचितम् । राजतरङ्गिणी
स शोचन्नात्मजं बाल्ये नीत्यै यां यन्त्रणां व्यधात् ।
आजन्मदुःखदायित्वं मेने तस्यात्मनस्तया ॥ १६७३ ॥
हतः स समरे वृत्त्या प्रवीरस्पृहणीयया ।
जज्ञे तेनातिवात्सल्यादङ्कशायीव घातितः ॥ १६७४ ॥
गात्रेषु हारान्पुत्रस्य यौवनव्यूढवक्ष॑सि ।
पश्यन्नात्मनि संकल्पैर्विह्वलः सोकृताशिषः ॥ १६७५ ॥
रक्षणीयो हतो बालो वृद्धस्त्वेवं स्वजीवितम् ।
रक्षाम्यनुचिताचारैजिंहायेति स चिन्तयन् ॥ १६७६ ॥
एवं स पुत्रशोकेन धृतावाच्यव्यथो व्यथन् ।
निनाय तापसावासे द्वितीयामपि यामिनीम् ॥ १६७७ ॥
कृतार्थनः प्रयागेण प्रयातुं भगवन्मठम् ।
शोकहारितधी रात्रौ न संकल्पमपि व्यधात् ॥ १६७८ ।।
लम्बेन्दुवदना सान्द्रावश्यायाम्भोस्रुवर्षिणी ।
रथाङ्गाकन्दिनी रात्रिः सशोकेवाथ सागमत् ॥ १६७९ ॥
क्षुत्पिपासापरिक्षामं प्रभुं वीक्ष्य स तापसः ।
प्रार्थ्यते स्म प्रयागेण प्रातर्भोक्तव्यसिद्धये ॥ १६८० ।।
उपनिन्ये विनिर्गत्य प्रविष्टस्तापसस्तयोः ।
सव्यञ्जनान्नपूर्णे द्वे पात्रे क्षणात्पुरः ॥ १६८१ ॥
कस्यापि गृहिणो यागोत्सवादेते मयाहृते ।
तस्मिन्नित्युक्तवत्यूचे विनिःश्वस्य प्रयागकः ॥ १६८२ ॥
राजन्स्वामिवियोगेस्मिन्पश्य लोकस्य सुस्थताम् ।
स तं जगाद विहसन्कि मूढ इव भाषसे ॥ १६८३ ॥
यो गतो गत एवासौ तत्क्षत्या नापरः क्षतः ।
• सर्वो निजसुखापेक्षी न किंचित्कोपि शोचति ॥ १६८४ ॥
१ वक्षसः इति स्यात् । सप्तमस्तरङ्गः
लोकैकचक्षुषि गते परलोकमर्के
लोकः स्वपित्यखिल एव सुखं गृहेषु ।
कोन्यो विचिन्तयितुमर्हतु विश्वमेत-
त्तिष्ठेन्मया विरहमेत्य कथं किलेति ॥ १६८५ ॥
पुत्रस्य स्नेहविश्वासः पूर्वमाप्तक्षये श्रुते ।
यथैकः प्रभवेन्नान्यस्तथा स्नेहोपि देहिनः ॥ १६८६ ॥
३८१
अहमेव हतं पुत्रं श्रुत्वा जीवितजीवितम् ।
तिष्ठामि स्वस्थवद्यत्र तत्रान्यो निन्द्यतां कथम् ॥ १६८७ ॥
इत्युक्त्वा विरते राशि पुनर्गुढं प्रयागकः |
प्रेरयत्तापसं भोज्यं कर्तुं ते भाजने त्यजन् ॥ १६८८ ।।
ह्यस्तन व्ययशिष्टं मे पर्याप्तं नास्ति वेतनम् ।
यते तथापीत्युक्त्वा स सखेद इव निर्ययौ ॥ १६८९ ॥
गोप्यं रहस्यभणितमत्यल्पहृदयातिथि ।
अमृतं पारंतमिव नाल्पसत्त्वैः सुदुर्जरम् ॥ १६९० ॥
कुल्यो मनोरथो नाम विप्रस्य वनवासिनः ।
सुहृत्तपस्विनस्तस्य तां कथामुपलब्धवान् ॥ १६९१ ॥
राशः संदर्य दायादं भवावो भूतिभाजनम् ।
इत्युक्त्वा तेन निन्ये स द्रोग्धृतां क्षुद्रतापसः ॥ १६९२ ॥
जज्ञे भृत्येन गर्हाण जातः सोन्त्येन केनचित् ।
सदृशं यत्सदसतोशपकं जन्म कर्मणोः ॥ १६९३ ॥
इल्लाराजस्तां प्रवृत्तिं बुद्धा ताभ्यां न्यवेदयत् ।
उच्चलाय समादिक्षत्कार्ये तत्र तमेव सः ॥ १६९४ ॥
केचित्तु भूतिभिश्चाख्यमिल्लाराजोपसर्पणे ।
कायस्थं कारणं प्राहुस्तयोस्तापसविप्रयोः ॥ १६९५ ॥
पारदमिव इत्युचितम् । ३८२ राजतरङ्गिणी
वार्ता चेदवगीतेयं सुबहुश्रोत्रसंकुले ।
काले तद्भृत्यपाशस्य तस्यैव द्रोहमुख्यता ॥ १६९६ ॥
श्वपाकस्कन्धमारूढो लब्ध्वा तास्ता विमाननाः ।
विपेदे यत्स कारायां युक्तं तत्तस्य कर्मणः ॥ १६९७ ॥
अत्तप्तो हर्षदेवस्तु प्रयागेणार्थितोसकृत् ।
प्रत्यग्रे पुत्रशोकेपि भोजनायाकरोन्मनः ॥ १६९९ ॥
गृहीतभोजनं जानन्प्राप्तं प्राप्तं स तापसम् ।
तमोरेर्बहिरैक्षिष्ट नीडाच्छिशुरिवाण्डजः ॥ १६९९ ॥
अपश्यञ्च कुटीं कृत्स्नां वेष्टितामेत्य शस्त्रिभिः ।
शुश्राव चाङ्गनद्वाराद्वार्यमाणार्गलाडूनिम् ॥ १७०० ॥
जानञ्जातं ततो द्रोहमङ्गनात्तापसाधमम् ।
स शस्त्रिणं मुक्तमेहीत्याह्वयन्तं व्यलोकयत् ॥ १७०१ ॥
मुक्तं विसृज्य कृत्वा च द्वारमुद्घाटिताररि ।
व्यक्तभीरादे लघ्वीं क्षुरिकामन्तिकस्थिताम् ॥ १७०२ ॥
एकस्तत्सविधं क्रूरः साहसाहंक्रियोन्मदः ।
आरुरोहाथ कृष्टासिधेनुः कवचितो भटः ॥ १७०३ ।।
तं राजा संकटकुटीरुद्धायामोप्यपातयत् ।
क्षितौ व्यायामकुशलो नावधीत्कृपया पुनः ॥ १७०४ ॥
पतितेन हतेनार्थी वराकेणामुना न मे ।
इत्यूचे दुरहंकारग्रस्तस्तस्मिन्नपि क्षणे ॥ १७०५ ॥
नीघ्रमुत्पाट्य निपतन्नेकोन्योप्युत्पतन्भटः ।
भयाद्भूमौ न्यपततां तं विलोक्योद्यतायुधम् ॥ १७०६ ॥
पृष्ठे पूर्व प्रविष्ट तिष्ठन्स्थानकनिष्ठुरः ।
‘स रुरोविव चामुण्डा रेजे दण्डाकृतिः क्षणम् ॥ १७०७ ॥
१ प्रविष्टस्य इति स्यात् । सप्तमस्तरङ्गः ।
न सिंहनादैनों भेरीतूर्यघोषैर्न वोन्मदैः ।
शस्त्रशब्दैः स शुशुभे भूपस्यान्तक्षणे रणः ॥ १७०८ ॥
आखोर्भाण्डप्रवेशस्य विडाला इव डामराः ।
परं प्रवेशितास्तस्य निःशब्दं शस्त्रिणः कुटीम् ॥ १७०९ ॥
अथान्यो नीध्रमार्गेण संप्रविष्टः प्रयागकम् ।
हत्वा दोष्णि च शीर्षे च राजानं समुपाद्रवत् ॥ १७१० ॥
राज्ञः प्रहरतः शस्त्रं वञ्चयित्वा स शस्त्रभृत् ।
वक्षसि क्षुरिकाघातद्वयं प्रादात्कृतत्वरः ॥ १७११ ॥
वर्णान्महेश्वरेत्येतान्द्विरुक्ता गतजीवितः ।
पपात निहतो भूमौ छिन्नमूल इव द्रुमः ॥ १७१२ ॥
पलाय्य संप्रविशतो योग्यचौरस्य यादृशः ।
चक्रवर्लपि स प्राप वधं वेश्मनि तादृशम् ॥ १७१३ ॥
नान्यः स इव कालेस्मिन्ददृशे भूतिमान्नृपः ।
गर्ह्यनिर्हरणत्वं च तस्येवान्यस्य नेक्षितम् ॥ १७१४ ॥
यद्वैकेनैव संग्रामवैमुख्येनोन्नतात्मनः ।
सर्वप्रकारसुभगं माहात्म्यं तस्य खण्डितम् ॥ १७१५ ॥
नेयबुद्धित्वमेवासीद्धवा तस्य दूषणम् ।
सर्वक्लेशावहा दोषाः कृत्स्नास्तन्मन्त्रिणां पुनः ॥ १७१६ ॥
द्वाचत्वारिंशतः साष्ट्रमासा यस्य वयः समाः ।
स शुक्लभाद्रपञ्चम्यां हतोब्दे सप्तसप्तते ॥ १७१७ ॥
राजा दुर्योधन इव स्ववंशच्छेदमिच्छता ।
सोभूज्जातकयोगेन कारितः स्वकुलक्षयम् ॥ १७१८ ॥
तस्यास्तां क्ष्मार्कजौ जीवबुधौ शुक्रोष्णगू शशी ।
तनयामित्रजामित्रखेषु कर्कटजन्मनः ।। १७१९ ।।
३८३ ३८४ राजतरङ्गिणी
चन्द्रदैत्येज्यपापेषु खमदात्मजगेषु यत् ।
आहुः सुसंहिताकाराः कौरवादीन्कुलान्तकान् ॥ १७२० ॥
निर्ब्रह्मण्यो जनः कृत्स्नो देशेस्मिन्वैरिणोन्तिकम् ।
दस्योरिव शिरश्छित्वा स्वामिनोपि निनाय तत् ॥ १७२१ ॥
तस्योत्तमाङ्गे भूभर्त्तुश्छिद्यमाने ससागरा |
चकम्पे भूनिरभ्रापि द्यौर्वृष्टिं महतीं जहौ ॥ १७२२ ॥
तन्मुण्डे लगुडारूढे यदयुक्तं जनो व्यधात् ।
अभूत्तेनाभिशापेन सोने दीर्घोपसर्गभाक् ॥ १७२३ ॥
मण्डले देवबिम्बानां यथामुष्मिन्विपाटनम् ।.
तथा नवं प्रववृते भूपतेर्मुण्डखण्डनम् ॥ १७२४ ॥
नैक्षिष्ट तच्छिरः प्राप्तमौचित्यादुञ्चलो नृपः ।
भूत्वा चिरमुदस्रुस्तु कारयामास वह्निसात् ॥ १७२५ ॥
धिक्कष्टं तस्करस्येव तादृशश्चक्रवर्तिनः ।
नोबलानां विना प्राप्ता शरीरेणान्तसत्क्रिया ॥ १७२६ ॥
भृत्यत्यक्तो नष्टवंशो गौरकाख्येण केनचित् ।
स काष्ठागारिणा चक्रे नग्नोनाथ इवाग्निसात् ॥ १७२७ ॥
दीर्घौ हर्षनृपोदन्तः सोयं कोप्यद्भुतावहः ।
रामायणस्य नियतं प्रकारो भारतस्य वा ॥ १७२८ ॥
भाग्याम्बुवाहतडितस्तरलाः श्रियस्ता-
स्तच्चावसानविरसं प्रसभोन्नतत्वम् ।
तत्रापि नैष बत मोहहताशयानां
शान्ति प्रयाति विभवानुभवाभिमानः ॥ १७२९ ॥
तावत्यप्यवरोधिकापरिकरे नैकापि चक्रन्द तं
तावत्स्वप्यनुगेषु नानुसृतवान्कोप्यास्त तीर्थे न वा ।
लोकस्य स्वसुखोपलिप्तमनसो वीक्ष्येति निःस्नेहतां
निर्वेदं समुपेत्य नाश्रयति धिक्स्वान्तं वनान्ते रतिम् ॥१७३०॥
नादौ किंचिद्भवति नियतं यच्च पश्चान्न किंचि
न्मध्येकस्मात्सपदि घटयन्सौस्थ्यदौःस्थ्यानुरोधम् ।
निःशीर्षार्निट इव मुहुः कोपि जन्तुर्नटित्वा
नो जानीमो भवजवनिकान्तर्हितः व प्रयाति ॥ १७३१ ॥
श्री सातवाहनकुलेकृत कांन्तराज-
वंशे त्यजन्त्युदयराजकुले प्रतिष्ठाम् ।
शृङ्गं सुरैविरहितं जहती हिमाद्रे-
दिव्ये तटे सुरगिरेरिव वासरश्रीः ॥ १७३२ ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसुनोः करुणस्य कृतौ रा
जतरङ्गिण्यां सप्तमस्तरङ्गः ॥
समाष्टनवतावस्यां त्र्यहोनायां महीभुजः । षडत्रोदयराजस्य वंशे जाताः प्रकीर्तिताः ॥ १ श्रीः इत्युचितम् । २ कान्तिराज इति स्यात् । ४९ ३८५