← शताह्वादिवर्गः राजनिघण्टुः
मूलकादिवर्गः
[[लेखकः :|]]
शाल्मल्यादिवर्गः →

राजनिघण्टु, मूलकादिवर्गः
मूलकं पञ्चधा प्रोक्तं चतुर्धा शिग्रुरुच्यते ।
वंशो द्विर्वेत्रो माकन्दी हरिद्रा वनजा तथा ॥ ७.१
शृङ्गाटो भ्रमरच्छल्ली वन्यार्द्रकमथापरम् ।
रसोनो द्विविधः प्रोक्तः पलाण्डुश्च द्विधा मतः ॥ ७.२
विंशत्येकोत्तरं मूलं शरणं द्वंद्वमुच्यते ।
आलूकसप्तकं चाथ प्रोक्ताश्चारण्यकन्दकाः ॥ ७.३
महिषीहस्तिकोलाश्च वाराही विष्णुधारिणी ।
द्विधा च नाकुली माला विदारीद्वयशाल्मली ॥ ७.४
चण्डालस्तैलकन्दश्च त्रिपर्णी पुष्करस्तथा ।
मुसली द्विविधा चाथ त्रिधा गुच्छास्तथैव च ॥ ७.५
एषु नागकराह्वा च पत्त्रशाकमथोच्यते ।
वास्तुकं चुक्रकं चिल्ली त्रिविधं शिग्रुपत्त्रकम् ॥ ७.६
पालक्यराजशाकिन्यौ चतुर्धोपोदकी क्रमात् ।
कुणञ्जरः कुसुम्भाख्यः शताह्वा पत्रतण्डुली ॥ ७.७
राजिकाद्वयचाङ्गेरी घोलिका त्रिविधा मता ।
जीवशाकस्तथा गौरसुवर्णाख्यः पुनर्नवा ॥ ७.८
वसुकः फञ्जिकादिश्च मिश्रकोऽङ्ककराह्वयः ।
अतः परं च कुष्माण्डी कुम्भतुम्बी त्वलाबुका ॥ ७.९
भूतुम्बिका कलिङ्गश्च द्विधा कोशातकी तथा ।
पटोली मधुराद्या च मृगाक्षी दधिपुष्पिका ॥ ७.१०
शिम्बी च कारवल्ली च कर्कोटी स्वादुतुम्बिका ।
निष्पावीद्वयवार्त्ताकी डङ्गरी खर्बुजा तथा ।
कर्कटी त्रपुसैर्वारुर्वालुकी चीनकर्कटी ॥ ७.११
चिर्भिटा च शशाण्डूली कुडुहुञ्ची मुनीक्षणैः ।
वेदभेदाः क्रमान्मूलकन्दपत्त्रफलात्मकाः ॥ ७.१२
शाकवर्गेऽत्र कथ्यन्ते मनोहरगुणाश्रयाः ।
एवं चतुर्विधं द्रव्यं बाणखं चन्द्रसंयुतम् ॥ ७.१३
मूलकं नीलकण्ठं च मूलाह्वं दीर्घमूलकम् ।
भूक्षारं कन्दमूलं स्याद्धस्तिदन्तं सितं तथा ॥ ७.१४
शङ्खमूलं हरित्पर्णं रुचिरं दीर्घकन्दकम् ।
कुञ्जरक्षारमूलं च मूलस्यैते त्रयोदश ॥ ७.१५
मूलकं तीक्ष्णमुष्णं च कटूष्णं ग्राहि दीपनम् ।
दुर्नामगुल्महृद्रोगवातघ्नं रुचिदं गुरु ॥ ७.१६
चाणाख्यमूलकं चान्यच्छालेयं विष्णुगुप्तकम् ।
स्थूलमूलं महाकन्दं कौटिल्यं मरुसम्भवम् ।
शालामर्कटकं मिश्रं ज्ञेयं चैव नवाभिधम् ॥ ७.१७
चाणाख्यमूलकं सोष्णं कटुकं रुच्यदीपनम् ।
कफवातक्रिमीन् गुल्मं नाशयेद्ग्राहकं गुरु ॥ ७.१८
गृञ्जनं शिखिमूलं च यवनेष्टं च वर्तुलम् ।
ग्रन्थिमूलं शिखाकन्दं कन्दं डिण्डीरमोदकम् ॥ ७.१९
गृञ्जनं कटुकोष्णं च कफवातरुजापहम् ।
रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनम् ॥ ७.२०
पिण्डमूलं गजाण्डं च पिण्डकं पिण्डमूलकम् ।
पिण्डमूलं कटूष्णं च गुल्मवातादिदोषनुत् ॥ ७.२१
सोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदोषापहारि श्वासार्शःकासगुल्मक्षयनयनरुजानाभिशूलामयघ्नम् ।
कण्ठ्यं बल्यं च रुच्यं मलविकृतिहरं मूलकं बालकं स्यातुष्णं जीर्णं च शोषप्रदमुदितमिदं दाहपित्तास्रदायि ॥ ७.२२
आमं संग्राहि रुच्यं कफपवनहरं पक्वमेतत्कटूष्णं भुक्तेः प्राग्भक्षितं चेत्सपदि वितनुते पित्तदाहास्रकोपम् ।
भुक्त्या सार्धं तु जग्धं हितकरबलकृद्वेशवारेण तच्चेत्पक्वं हृद्रोगशूलप्रशमनमुदितं शूलरुग्घारि मूलम् ॥ ७.२३
गर्जरं पिङ्गमूलं च पीतकं च सुमूलकम् ।
स्वादुमूलं सुपीतं च नारङ्गं पीतमूलकम् ॥ ७.२४
गर्जरं मधुरं रुच्यं किंचित्कटु कफापहम् ।
आध्मानक्रिमिशूलघ्नं दाहपित्ततृषापहम् ॥ ७.२५
शिग्रुर्हरितशाकश्च शाकपत्त्रः सुपत्त्रकः ।
उपदंशः क्षमादंशो ज्ञेयः कोमलपत्त्रकः ।
बहुमूलो दंशमूलस्तीक्ष्णमूलो दशाह्वयः ॥ ७.२६
शिग्रुश्च कटुतिक्तोष्णस्तीक्ष्णो वातकफापहः ।
मुखजाड्यहरो रुच्यो दीपनो व्रणदोषनुत् ॥ ७.२७
शोभाञ्जनो नीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः ।
मुखामोदः कृष्णशिग्रुश्चक्षुष्यो रुचिरञ्जनः ॥ ७.२८
शोभाञ्जनस्तीक्ष्णकटुः स्वादूष्णः पिच्छिलस्तथा ।
जन्तुवातार्तिशूलघ्नश्चक्षुष्यो रोचनः परः ॥ ७.२९
श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुखभङ्गः सिताह्वयः ।
सुमूलः श्वेतमरिचो रोचनो मधुशिग्रुकः ॥ ७.३०
श्वेतशिग्रुः कटुस्तीक्ष्णः शोफानिलनिकृन्तनः ।
अङ्गव्यथाहरो रुच्यो दीपनो मुखजाड्यनुत् ॥ ७.३१
रक्तको रक्तशिग्रुः स्यान्मधुरो बहुलच्छदः ।
सुगन्धकेसरः सिंहो मृगारिश्च प्रकीर्तितः ॥ ७.३२
रक्तशिग्रुर्महावीर्यो मधुरश्च रसायनः ।
शोफाध्मानसमीरार्तिपित्तश्लेष्मापसारकः ॥ ७.३३
वंशो यवफलो वेणुः कर्मारस्तृणकेतुकः ।
मस्करः शतपर्वा च कण्टालुः कण्टकी तथा ॥ ७.३४
महाबलो दृढग्रन्थिर्दृढपत्त्रो धनुद्रुमः ।
धनुष्यो दृढकाण्डश्च विज्ञेयो बाणभूमितः ॥ ७.३५
वंशौ त्वम्लौ कषायौ च किंचित्तिक्तौ च शीतलौ ।
मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ ॥ ७.३६
अन्यस्तु रन्ध्रवंशः स्यात्त्वक्सारः कीचकाह्वयः ।
मस्करो वादनीयश्च सुषिराख्यः षडाह्वयः ॥ ७.३७
विशेषो रन्ध्रवंशस्तु दीपनोऽजीर्णनाशनः ।
रुचिकृत्पाचनो हृद्यः शूलघ्नो गुल्मनाशनः ॥ ७.३८
वंशाग्रं तु करीरो वंशाङ्कुरश्च यवफलाङ्कुरः ।
तस्य ग्रन्थिस्तु परुः पर्व तथा काण्डसन्धिश्च ॥ ७.३९
करीरं कटुतिक्ताम्लं कषायं लघु शीतलम् ।
पित्तास्रदाहकृच्छ्रघ्नं रुचिकृत्पर्व निर्गुणम् ॥ ७.४०
वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः ।
वेत्रः पञ्चविधः शैत्यकषायो भूतपित्तहृत् ॥ ७.४१
माकन्दी बहुमूला च मादनी गन्धमूलिका ।
एका विशदमूली च श्यामला च तथापरा ॥ ७.४२
माकन्दी कटुका तिक्ता मधुरा दीपनी परा ।
रुच्याल्पवातला पथ्या न वर्षासु हिताधिका ॥ ७.४३
शोली वनहरिद्रा स्यात्वनारिष्टा च शोलिका ।
शोलिका कटुगौल्या च रुच्या तिक्ता च दीपनी ॥ ७.४४
शृङ्गाटकः शृङ्गरुहो जलवल्ली जलाश्रया ।
शृङ्गकन्दः शृङ्गमूलो विषाणी सप्तनामकः ॥ ७.४५
शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् ।
त्रिदोषतापश्रमशोफहारो रुचिप्रदो मेहनदार्ढ्यहेतुः ॥ ७.४६
भृङ्गाह्वा भ्रमरच्छल्ली भ्रमरा भृङ्गमूलिका ।
भृङ्गच्छल्ली कटूष्णा स्यात्तिक्ता दीपनरोचनी ॥ ७.४७
पेऊर्वनार्द्रका प्रोक्ता वनजारण्यजार्द्रका ।
पेऊस्तु कटुकाम्ला च रुचिकृद्बल्यदीपनी ॥ ७.४८
रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् ।
भूतघ्नश्चोग्रगन्धश्च लशुनः शीतमर्दकः ॥ ७.४९
रसोनोऽम्लरसोनः स्यात्गुरूष्णः कफवातनुत् ।
अरुचिक्रिमिहृद्रोगशोफघ्नश्च रसायनः ॥ ७.५०
रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः ।
वृष्यश्च मेधास्वरवर्णचक्षुष्यास्थिसंधर्भानकरः सुतीक्ष्णः ॥ ७.५१
रसोनोऽन्यो महाकन्दो गृजनो दीर्घपत्त्रकः ।
पृथुपत्त्रः स्थूलकन्दो यवनेष्टो बले हितः ॥ ७.५२
गृञ्जनस्य मधुरं कटु कन्दं नालमप्युपदिशन्ति कषायम् ।
पत्त्रसंचयमुशन्ति च तिक्तं सूरयो लवणमस्थि वदन्ति ॥ ७.५३
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकृच्छ्रशोफान् ।
दुर्नामकुष्ठानिलसादजन्तुकफामयान् हन्ति महारसोनः ॥ ७.५४
पलाण्डुस्तीक्ष्णकन्दश्च उल्ली च मुखदूषणः ।
शूद्रप्रियः क्रिमिघ्नश्च दीपनो मुखगन्धकः ॥ ७.५५
बहुपत्त्रो विश्वगन्धो रोचनो रुद्रसंज्ञकः ।
श्वेतकन्दश्च तत्रैको हारिद्रोऽन्य इति द्विधा ॥ ७.५६
पलाण्डुः कटुको बल्यः कफपित्तहरो गुरुः ।
वृष्यश्च रोचनः स्निग्धो वान्तिदोषविनाशनः ॥ ७.५७
अन्यो राजपलाण्डुः स्यात्यवनेष्टो नृपाह्वयः ।
राजप्रियो महाकन्दो दीर्घपत्त्रश्च रोचकः ॥ ७.५८
नृपेष्टो नृपकन्दश्च महाकन्दो नृपप्रियः ।
रक्तकन्दश्च राजेष्टो नामान्यत्र त्रयोदश ॥ ७.५९
पलाण्डुर्नृपपूर्वः स्यात्शिशिरः पित्तनाशनः ।
कफहृद्दीपनश्चैव बहुनिद्राकरस्तथा ॥ ७.६०
वक्ष्यते नृपपलाण्डुलक्षणं क्षारतीक्ष्णमधुरो रुचिप्रदः ।
कण्ठशोषशमनोऽतिदीपनः श्लेष्मपित्तशमनोऽतिबृंहणः ॥ ७.६१
कण्डूलः शूरणः कन्दी सुकन्दी स्थूलकन्दकः ।
दुर्नामारिः सुवृत्तश्च वातारिः कन्दशूरणः ॥ ७.६२
अर्शोघ्नस्तीव्रकन्दश्च कन्दार्हः कन्दवर्धनः ।
बहुकन्दो रुच्यकन्दः शूरकन्दस्तु षोडशः ॥ ७.६३
शूरणः कटुकरुच्यदीपनः पाचनः क्रिमिकफानिलापहः ।
श्वासकासवमनार्शसां हरः शूलगुल्मशमनोऽस्रदोषकृत् ॥ ७.६४
सितशूरणस्तु वन्यो वनकन्दोऽरण्यशूरणो वनजः ।
स श्वेतशूरणाख्यो वनकन्दः कण्डूलश्च सप्ताख्यः ॥ ७.६५
श्वेतशूरणको रुच्यः कटूष्णः क्रिमिनाशनः ।
गुल्मशूलादिदोषघ्नः स चारोचकहारकः ॥ ७.६६
मुखालुर्मण्डपारोहो दीर्घकन्दः सुकन्दकः ।
स्थूलकन्दो महाकन्दः स्वादुकन्दश्च सप्तधा ॥ ७.६७
मुखालुकः स्यान्मधुरः शिशिरः पित्तनाशनः ।
रुचिकृद्वातकृच्चैव दाहशोषतृषापहः ॥ ७.६८
पिण्डालुः स्यात्ग्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो रोमकन्दः ।
रोमाह्वः स्यात्सोऽपि ताम्बूलपत्त्रो लालाकन्दः पिण्डकोऽयं दशाह्वः ॥ ७.६९
पिण्डालुर्मधुरः शीतो मूत्रकृच्छ्रामयापहः ।
दाहशोषप्रमेहघ्नो वृष्यः संतर्पणो गुरुः ॥ ७.७०
अन्यस्तु रक्तपिण्डालू रक्तालू रक्तपिण्डकः ।
लोहितो रक्तकन्दश्च लोहितालुः षडाह्वयः ॥ ७.७१
रक्तपिण्डालुकः शीतो मधुराम्लः श्रमापहः ।
पित्तदाहापहो वृष्यो बलपुष्टिकरो गुरुः ॥ ७.७२
कासालुः कासकन्दश्च कन्दालुश्चालुकश्च सः ।
आलुर्विशालपत्त्रश्च पत्त्रालुश्चेति सप्तधा ॥ ७.७३
कासालुरुग्रकण्डूतिवातश्लेष्मामयापहः ।
अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥ ७.७४
फोण्डालुर्लोहितालुश्च रक्तपत्त्रो मृदुच्छदः ।
फोण्डालुः श्लेष्मवातघ्नः कटूष्णो दीपनश्च सः ॥ ७.७५
पाणियालुर्जलालुः स्यातनुपालुरवालुकः ।
पाणियालुस्त्रिदोषघ्नः संतर्पणकरः परः ॥ ७.७६
नीलालुरसितालुः स्यात्कृष्णालुः श्यामलालुकः ।
नीलालुर्मधुरः शीतः पित्तदाहश्रमापहः ॥ ७.७७
शुभ्रालुर्महिषीकन्दो लुलायकन्दश्च शुक्लकन्दश्च ।
सर्पाख्यो वनवासी विषकन्दो नीलकन्दोऽन्यः ॥ ७.७८
कटूष्णो महिषीकन्दः कफवातामयापहः ।
मुखजाड्यहरो रुच्यो महासिद्धिकरः सितः ॥ ७.७९
हस्तिकन्दो हस्तिपत्त्रः स्थूलकन्दोऽतिकन्दकः ।
बृहत्पत्त्रोऽतिपत्त्रश्च हस्तिकर्णः सुकर्णकः ॥ ७.८०
त्वग्दोषारिः कुष्ठहन्ता गिरिवासी नगाश्रयः ।
गजकन्दो नागकन्दो ज्ञेयो द्विसप्तनामकः ॥ ७.८१
हस्तिकन्दः कटूष्णः स्यात्कफवातामयापहः ।
त्वग्दोषश्रमहा कुष्ठविषवीसर्पनाशकः ॥ ७.८२
कोलकन्दः क्रिमिघ्नश्च पञ्जलो वस्त्रपञ्जलः ।
पुटालुः सुपुटश्चैव पुटकन्दश्च सप्तधा ॥ ७.८३
कोलकन्दः कटुश्चोष्णः क्रिमिदोषविनाशनः ।
वान्तिविच्छर्दिशमनो विषदोषनिवारणः ॥ ७.८४
स्याद्वाराही शूकरी क्रोडकन्या गृष्टिर्विष्वक्सेनकान्ता वराही ।
कौमारी स्याद्ब्रह्मपुत्री त्रिनेत्रा क्रौडी कन्या गृष्टिका माधवेष्टा ॥ ७.८५
शूकरकन्दः क्रोडो वनवासी कुष्ठनाशनो वन्यः ।
अमृतश्च महावीर्यो महौषधिः शबरकन्दश्च ॥ ७.८६
वराहकन्दो वीरश्च ब्राह्मकन्दः सुकन्दकः ।
वृद्धिदो व्याधिहन्ता च वसुनेत्रमिताह्वयाः ॥ ७.८७
वाराही तिक्तकटुका विषपित्तकफापहा ।
कुष्ठमेहक्रिमिहरा वृष्या बल्या रसायनी ॥ ७.८८
विष्णुकन्दो विष्णुगुप्तः सुपुष्टो बहुसम्पुटः ।
जलवासो बृहत्कन्दो दीर्घवृन्तो हरिप्रियः ॥ ७.८९
विष्णुकन्दस्तु मधुरः शिशिरः पित्तनाशनः ।
दाहशोफहरो रुच्यः संतर्पणकरः परः ॥ ७.९०
धारिणी धारणीया च वीरपत्त्री सुकन्दकः ।
कन्दालुर्वनकन्दश्च कन्दाद्यो दण्डकन्दकः ॥ ७.९१
मधुरो धारिणीकन्दः कफपित्तामयापहः ।
वक्त्रदोषप्रशमनः कुष्ठकण्डूतिनाशनः ॥ ७.९२
नाकुली सर्पगन्धा च सुगन्धा रक्तपत्त्रिका ।
ईश्वरी नागगन्धा चाप्यहिभुक्स्वरसा तथा ।
सर्पादनी व्यालगन्धा ज्ञेया चेति दशाह्वया ॥ ७.९३
अन्या महासुगन्धा च सुवहा गन्धनाकुली ।
सर्पाक्षी फणिहन्त्री च नकुलाढ्याहिभुक्च सा ॥ ७.९४
विषमर्दनिका चाहिमर्दिनी विषमर्दिनी ।
महाहिगन्धाहिलता ज्ञेया सा द्वादशाह्वया ॥ ७.९५
नाकुलीयुगलं तिक्तं कटूष्णं च त्रिदोषजित् ।
अनेकविषविध्वंसि किंचिच्छ्रेष्ठं द्वितीयकम् ॥ ७.९६
अथ मालाकन्दः स्यादालिकन्दश्च पङ्क्तिकन्दश्च ।
त्रिशिखदला ग्रन्थिदला कन्दलता कीर्तिता षोढा ॥ ७.९७
मालाकन्दः सुतीक्ष्णः स्यात्गण्डमालाविनाशकः ।
दीपनो गुल्महारश्च वातश्लेष्मापकर्षकृत् ॥ ७.९८
विदारिका स्वादुकन्दा सिता शुक्ला शृगालिका ।
विदारी वृष्यकन्दा च विडाली वृष्यवल्लिका ॥ ७.९९
भूकुष्माण्डी स्वादुलता गजेष्टा वारिवल्लभा ।
ज्ञेया कन्दफला चेति मनुसंख्याह्वया मता ॥ ७.१००
विदारी मधुरा शीता गुरुः स्निग्धास्रपित्तजित् ।
ज्ञेया च कफकृत्पुष्टिबल्या वीर्यविवर्धनी ॥ ७.१०१
अन्या क्षीरविदारी स्यादिक्षुगन्धेक्षुवल्लरी ।
इक्षुवल्ली क्षीरकन्दः क्षीरवल्ली पयस्विनी ॥ ७.१०२
क्षीरशुक्ला क्षीरलता पयःकन्दा पयोलता ।
पयोविदारिका चेति विज्ञेया द्वादशाह्वया ॥ ७.१०३
ज्ञेया क्षीरविदारी च मधुराम्ला कषायका ।
तिक्ता च पित्तशूलघ्नी मूत्रमेहामयापहा ॥ ७.१०४
क्षीरकन्दो द्विधा प्रोक्तो विनालस्तु सनालकः ।
विनालो रोगहर्ता स्याद्वयःस्तम्भी सनालकः ॥ ७.१०५
शाल्मलीकन्दकश्चाथ विजुलो वनवासकः ।
वनवासी मलघ्नश्च मलहन्ता षडाह्वयः ॥ ७.१०६
मधुरः शाल्मलीकन्दो मलसंग्रहरोधजित् ।
शिशिरः पित्तदाहार्तिशोषसंतापनाशनः ॥ ७.१०७
प्रोक्तश्चण्डालकन्दः स्यादेकपत्त्रो द्विपत्त्रकः ।
त्रिपत्त्रोऽथ चतुष्पत्त्रः पञ्चपत्त्रश्च भेदतः ॥ ७.१०८
चण्डालकन्दो मधुरः कफपित्तास्रदोषजित् ।
विषभूतादिदोषघ्नो विज्ञेयश्च रसायनः ॥ ७.१०९
अथ तैलकन्द उक्तो द्रावककन्दस्तिलाङ्कितदलश्च ।
करवीरकन्दसंज्ञो ज्ञेयस्तिलचित्रपत्त्रको बाणैः ॥ ७.११०
लोहद्रावी तैलकन्दः कटूष्णो वातापस्मारापहारी विषारिः ।
शोफघ्नः स्याद्बन्धकारी रसस्य द्रागेवासौ देहसिद्धिं विधत्ते ॥ ७.१११
अश्वारिपत्त्रसंकाशः तिलबिन्दुसमन्वितः ।
संस्निग्धाधस्थभूमिस्थः तिलकन्दोऽतिविस्तृतः ॥ ७.११२
त्रिपर्णिका बृहत्पत्त्री छिन्नग्रन्थिनिका च सा ।
कन्दालः कन्दबहलाप्यम्लवल्ली विषापहा ॥ ७.११३
त्रिपर्णी मधुरा शीता श्वासकासविनाशनी ।
पित्तप्रकोपशमनी विषव्रणहरा परा ॥ ७.११४
मुसली तालमूली च सुवहा तालमूलिका ।
गोधापदी हेमपुष्पी भूताली दीर्घकन्दिका ॥ ७.११५
मुसली मधुरा शीता वृष्या पुष्टिबलप्रदा ।
पिच्छिला कफदा पित्तदाहश्रमहरा परा ॥ ७.११६
मुसली स्याद्द्विधा प्रोक्ता श्वेता चापरसंज्ञका ।
श्वेता स्वल्पगुणोपेता अपरा च रसायनी ॥ ७.११७
गुच्छाह्वकन्दस्तवकाह्वकन्दको गुलुच्छकन्दश्च विघण्टिकाभिधः ।
गुलुच्छकन्दो मधुरः सुशीतलो वृष्यप्रदस्तर्पणदाहनाशनः ॥ ७.११८
लक्ष्मणा पुत्रकन्दा च पुत्रदा नागिनी तथा ।
नागाह्वा नागपत्त्री च तुलिनी मज्जिका च सा ।
अस्रबिन्दुच्छदा चैव सुकन्दा दशधाह्वया ॥ ७.११९
लक्ष्मणा मधुरा शीता स्त्रीवन्ध्यत्वविनाशनी ।
रसायनकरी बल्या त्रिदोषशमनी परा ॥ ७.१२०
हस्तपर्यायपूर्वस्तु जोडिर्वैद्यवरैः स्मृतः ।
करजोडिरिति ख्यातो रसबन्धादिवश्यकृत् ॥ ७.१२१
वास्तुकं वास्तु वास्तूकं वस्तुकं हिलमोचिका ।
शाकराजो राजशाकश्चक्रवर्तिश्च कीर्तितः ॥ ७.१२२
वास्तुकं तु मधुरं सुशीतलं क्षारमीषदम्लं त्रिदोषजित् ।
रोचनं ज्वरहरं महार्शसां नाशनं च मलमूत्रशुद्धिकृत् ॥ ७.१२३
चुक्रं तु चुक्रवास्तूकं लिकुचं चाम्लवास्तुकम् ।
दलाम्लमम्लशाकाख्यमम्लादि हिलमोचिका ॥ ७.१२४
चुक्रं स्यादम्लपत्त्रं तु लघूष्णं वातगुल्मनुत् ।
रुचिकृद्दीपनं पथ्यमीषत्पित्तकरं परम् ॥ ७.१२५
पलाशलोहिता चिल्ली वास्तुका चिल्लिका च सा ।
मृदुपत्त्री क्षारदला क्षारपत्त्री तु वास्तुकी ॥ ७.१२६
चिल्ली वास्तुकतुल्या च सक्षारा श्लेष्मपित्तनुत् ।
प्रमेहमूत्रकृच्छ्रघ्नी पथ्या च रुचिकारिणी ॥ ७.१२७
श्वेतचिल्ली तु वास्तूकी सुपथ्या श्वेतचिल्लिका ।
सितचिल्ल्युपचिल्ली च ज्वरघ्नी क्षुद्रवास्तुकी ॥ ७.१२८
श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च सा ।
त्रिदोषशमनी पथ्या ज्वरदोषविनाशनी ॥ ७.१२९
अन्या शुनकचिल्ली स्यात्सुचिल्ली श्वानचिल्लिका ।
श्वचिल्ली कटुतीक्ष्णा च कण्डूतिव्रणहारिणी ॥ ७.१३०
शिग्रुपत्त्रभवं शाकं रुच्यं वातकफापहम् ।
कटूष्णं दीपनं पथ्यं क्रिमिघ्नं पाचनं परम् ॥ ७.१३१
पालक्यं तु पलक्यायां मधुरा क्षुरपत्त्रिका ।
सुपत्त्रा स्निग्धपत्त्रा च ग्रामीणा ग्राम्यवल्लभा ॥ ७.१३२
पालक्यमीषत्कटुकं मधुरं पथ्यशीतलम् ।
रक्तपित्तहरं ग्राहि ज्ञेयं संतर्पणं परम् ॥ ७.१३३
राजाभिधानपूर्वा तु नगाह्वा चापरेण वा ।
राजाद्रिः स्याद्राजगिरिर्ज्ञातव्या राजशाकिनी ॥ ७.१३४
राजशाकिनिका रुच्या पित्तघ्नी शीतला च सा ।
सैवातिशीतला रुच्या विज्ञेया स्थूलशाकिनी ॥ ७.१३५
उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा ।
मोहिनी मदशाकश्च विशालाद्या ह्युपोदकी ॥ ७.१३६
उपोदकी कषायोष्णा कटुका मधुरा च सा ।
निद्रालस्यकरी रुच्या विष्टम्भश्लेष्मकारिणी ॥ ७.१३७
उपोदक्यपरा क्षुद्रा सूक्ष्मपत्त्रा तु मण्डपी ।
रसवीर्यविपाकेषु सदृशी पूर्वया स्वयम् ॥ ७.१३८
उपोदकी तृतीया च वन्यजा वनजाह्वया ।
वनजोपोदकी तिक्ता कटूष्णा रोचनी च सा ॥ ७.१३९
मूलपोती क्षुद्रवल्ली पोतिका क्षुद्रपोतिका ।
क्षुपोपोदकनाम्नी च वल्लिः शाकटपोतिका ॥ ७.१४०
मूलपोती त्रिदोषघ्नी वृष्या बल्या लघुश्च सा ।
बलपुष्टिकरी रुच्या जठरानलदीपनी ॥ ७.१४१
कुणञ्जरस्त्रिदोषघ्नो मधुरो रुच्यदीपकः ।
ईषत्कषायः संग्राही पित्तश्लेष्मकरो लघुः ॥ ७.१४२
कौसुम्भशाकं मधुरं कटूष्णं विण्मूत्रदोषापहरं मदघ्नम् ।
दृष्टिप्रसादं कुरुते विशेषाद्रुचिप्रदं दीप्तिकरं च वह्नेः ॥ ७.१४३
शतपुष्पादलं सोष्णं मधुरं गुल्मशूलजित् ।
वातघ्नं दीपनं पथ्यं पित्तहृद्रुचिदायकम् ॥ ७.१४४
तण्डुलीयकदलं हिममर्शःपित्तरक्तविषकासविनाशि ।
ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ॥ ७.१४५
कटूष्णं राजिकापत्त्रं क्रिमिवातकफापहम् ।
कण्ठामयहरं स्वादु वह्निदीपनकारकम् ॥ ७.१४६
सार्षपं पत्त्रमत्युष्णं रक्तपित्तप्रकोपनुत् ।
विदाहि कटुकं स्वादु शुक्रहृद्रुचिदायकम् ॥ ७.१४७
चाङ्गेरीशाकमत्युष्णं कटु रोचनपाचनम् ।
दीपनं कफवातार्शःसंग्रहण्यतिसारजित् ॥ ७.१४८
घोला च घोलिका घोली कलन्दुः कवलालुकम् ॥ ७.१४९
क्षेत्रजं लवणं रुच्यमम्लं वातकफापहम् ॥ ७.१५०
आरामघोलिका चाम्ला रूक्षा रुच्यानिलापहा ।
पित्तश्लेष्मकरी चान्या सूक्ष्मा जीर्णज्वरापहा ॥ ७.१५१
जीवन्तो रक्तनालश्च ताम्रपत्त्रः सनालकः ।
शाकवीरस्तु मधुरो जीवशाकश्च मेषकः ॥ ७.१५२
जीवशाकः सुमधुरो बृंहणो वस्तिशोधनः ।
दीपनः पाचनो बल्यो वृष्यः पित्तापहारकः ॥ ७.१५३
गौरसुवर्णं स्वर्णं सुगन्धिकं भूमिजं च वारिजं च ।
ह्रस्वं च गन्धशाकं कटुशृङ्गाटं च वर्णशाकाङ्कः ॥ ७.१५४
गौरसुवर्णं शिशिरं कफपित्तज्वरापहम् ।
पथ्यं दाहरुचिभ्रान्तिरक्तश्रमहरं परम् ॥ ७.१५५
वर्षाभूवसुकौ श्लेष्मवह्निमान्द्यानिलापहौ ।
पाके रूक्षतरौ गुल्मप्लीहशूलापहारकौ ॥ ७.१५६
फञ्जिका जीवनी पद्मा तर्कारी चुचुकः पृथक् ।
वातामयहरं ग्राहि दीपनं रुचिदायकम् ॥ ७.१५७
फञ्ज्यादिपञ्चकं भेण्डा कुणञ्जस्त्रिपुटस्तथा ।
इत्यादि वनपत्त्राणां शाकमेकत्र योजितम् ॥ ७.१५८
दीपनं पाचनं रुच्यं बलवर्णविधायकम् ।
त्रिदोषशमनं पथ्यं ग्राहि वृष्यं सुखावहम् ॥ ७.१५९
कर्कोटिका च कुष्माण्डी कुम्भाण्डी तु बृहत्फला ।
सुफला स्यात्कुम्भफला नागपुष्पफला मुनिः ॥ ७.१६०
मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीच्छेदनं विण्मूत्रग्लपनं तृषार्तिशमनं जीर्णाङ्गपुष्टिप्रदम् ।
वृष्यं स्वादुतरं त्वरोचकहरं बल्यं च पित्तापहं कुष्माण्डं प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ॥ ७.१६१
गोरक्षतुम्बी गोरक्षी नवालाम्बुर्घटाभिधा ।
कुम्भालाम्बुर्घटालाम्बुः कुम्भतुम्बी च सप्तधा ॥ ७.१६२
कुम्भतुम्बी सुमधुरा शिशिरा पित्तहारिणी ।
गुरुः संतर्पणी रुच्या वीर्यपुष्टिबलप्रदा ॥ ७.१६३
क्षीरतुम्बी दुग्धतुम्बी दीर्घवृत्तफलाभिधा ।
इक्ष्वाकुः क्षत्रियवरा दीर्घबीजा महाफला ॥ ७.१६४
क्षीरिणी दुग्धबीजा च दन्तबीजा पयस्विनी ।
महावल्ली ह्यलाम्बुश्च श्रमघ्नी शरभूमिता ॥ ७.१६५
तुम्बी सुमधुरा स्निग्धा पित्तघ्नी गर्भपोषकृत् ।
वृष्या वातप्रदा चैव बलपुष्टिविवर्धनी ॥ ७.१६६
भूतुम्बी नागतुम्बी च शक्रचापसमुद्भवा ।
वल्मीकसम्भवा देवी दिव्यतुम्बी षडाह्वया ॥ ७.१६७
भूतुम्बी कटुकोष्णा च संनिपातापहारिणी ।
दन्तार्गलं दन्तरोधं धनुर्वातादिदोषनुत् ॥ ७.१६८
मांसलफलः कलिङ्गश्चित्रफलश्चित्रवल्लिकश्चित्रः ।
मधुरफलो वृत्तफलो घृणाफलो मांसलो नवधा ॥ ७.१६९
कलिङ्गो मधुरः शीतः पित्तदाहश्रमापहः ।
वृष्यः संतर्पणो बल्यो वीर्यपुष्टिविवर्धनः ॥ ७.१७०
कोशातकी स्वादुफला सुपुष्पा कर्कोटकी स्यादपि पीतपुष्पा ।
धाराफला दीर्घफला सुकोशा धामार्गवः स्यान्नवसंज्ञकोऽयम् ॥ ७.१७१
धाराकोशातकी स्निग्धा मधुरा कफपित्तनुत् ।
ईषद्वातकरी पथ्या रुचिकृद्बलवीर्यदा ॥ ७.१७२
हस्तिकोशातकी त्वन्या बृहत्कोशातकी तथा ।
महाकोशातकी वृत्ता ग्राम्यकोशातकी शराः ॥ ७.१७३
हस्तिकोशातकी स्निग्धा मधुराध्मानवातकृत् ।
वृष्या क्रिमिकरी चैव व्रणसंरोपणी च सा ॥ ७.१७४
ज्ञेया स्वादुपटोली च पटोली मण्डली च सा ।
पटोली मधुरादिः स्यात्प्रोक्ता दीर्घपटोलिका ।
स्निग्धपर्णी स्वादुपूर्वैः पर्यायैश्च पटोलिका ॥ ७.१७५
पटोली स्वादुः पित्तघ्नी रुचिकृत्ज्वरनाशनी ।
बलपुष्टिकरी पथ्या ज्ञेया दीपनपाचनी ॥ ७.१७६
पटोलपत्त्रं पित्तघ्नं नालं तस्य कफापहम् ।
फलं त्रिदोषशमनं मूलं चास्य विरेचनम् ॥ ७.१७७
मृगाक्षी शतपुष्पा च मृगेर्वारुर्मृगादनी ।
चित्रवल्ली बहुफला कपिलाक्षी मृगेक्षणा ॥ ७.१७८
चित्रा चित्रफला पथ्या विचित्रा मृगचिर्भिटा ।
मरुजा कुम्भसी देवी कट्फला लघुचिर्भिटा ।
सेन्दिनी च महादेवी बुधैः सा विंशतिर्मताः ॥ ७.१७९
मृगाक्षी कटुका तिक्ता पाकेऽम्ला वातनाशनी ।
पित्तकृत्पीनसहरा दीपनी रुचिकृत्परा ॥ ७.१८०
दधिपुष्पी खट्वाङ्गी खट्वा पर्यङ्कपादिका कूपा ।
खट्वापादी वंश्या काकोली कोलपालिका नवधा ॥ ७.१८१
दधिपुष्पी कटुमधुरा शिशिरा संतापपित्तदोषघ्नी ।
वातामयदोषकरी गुरुस्तथारोचकघ्नी च ॥ ७.१८२
असिशिम्बी खड्गशिम्बी शिम्बी निस्त्रिंशशिम्बिका ।
स्थूलशिम्बी महाशिम्बी बृहच्छिम्बी सुशिम्बिका ॥ ७.१८३
असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् ।
व्रणदोषापहन्त्री च शीतला रुचिदीपनी ॥ ७.१८४
करका कारवल्ली च चीरिपत्त्रः करिल्लका ।
सूक्ष्मवल्ली कण्टफला पीतपुष्पाम्बुवल्लिका ॥ ७.१८५
कारवल्ली सुतिक्तोष्णा दीपनी कफवातजित् ।
अरोचकहरा चैव रक्तदोषहरी च सा ॥ ७.१८६
कर्कोटकी स्वादुफला मनोज्ञा च मनस्विनी ।
बोधना वन्ध्यकर्कोटी देवी कण्टफलापि च ॥ ७.१८७
कर्कोटकी कटूष्णा च तिक्ता विषविनाशनी ।
वातघ्नी पित्तहृत्चैव दीपनी रुचिकारिणी ॥ ७.१८८
अथ भवति मधुरबिम्बी मधुबिम्बी स्वादुतुम्बिका तुण्डी ।
रक्तफला रुचिरफला सोष्णफला पीलुपर्णी च ॥ ७.१८९
बिम्बी तु मधुरा शीता पित्तश्वासकफापहा ।
असृग्ज्वरहरा रम्या कासजिद्गृहबिम्बिका ॥ ७.१९०
निष्पावी ग्रामजादिः स्यात्फलीनी नखपूर्विका ।
मण्डपी फलिका शिम्बी ज्ञेया गुच्छफला च सा ।
विशालफलिका चैव निष्पाविश्चिपिटा तथा ॥ ७.१९१
अन्याङ्गुलीफला चैव नखनिष्पाविका स्मृता ।
वृत्तनिष्पाविका ग्राम्या नखपुच्छफला शराः ॥ ७.१९२
निष्पावौ द्वौ हरिच्छुभ्रौ कषायौ मधुरौ रसौ ।
कण्ठशुद्धिकरौ मेध्यौ दीपनौ रुचिकारकौ ।
संग्राहि समवीर्यं स्यादीषच्छ्रेष्ठं द्वितीयकम् ॥ ७.१९३
वार्त्ताकी कण्टवृन्ताकी कण्टालुः कण्टपत्त्रिका ।
निद्रालुर्मांसलफला वृन्ताकी च महोटिका ॥ ७.१९४
चित्रफला कण्टकिनी महती कट्फला च सा ।
मिश्रवर्णफला नीलफला रक्तफला तथा ।
शाकश्रेष्ठा वृत्तफला नृपप्रियफलस्मृतिः ॥ ७.१९५
वार्त्ताकी कटुका रुच्या मधुरा पित्तनाशिनी ।
बलपुष्टिकरी हृद्या गुरुर्वातेषु निन्दिता ॥ ७.१९६
डङ्गरी डाङ्गरी चैव दीर्घेर्वारुश्च डङ्गरिः ।
डङ्गारी नागशुण्डी च गजदन्तफला मुनिः ॥ ७.१९७
डङ्गरी शीतला रुच्या वातपित्तास्रदोषजित् ।
शोषहृत्तर्पणी गौल्या जाड्यहा मूत्ररोधनुत् ॥ ७.१९८
बालं डाङ्गरिकं फलं सुमधुरं शीतं च पित्तापहं तृष्णादाहनिबर्हणं च रुचिकृत्संतर्पणं पुष्टिदम् ।
वीर्योन्मेषकरं बलप्रदमिदं भ्रान्तिश्रमध्वंसनं पक्वं चेत्कुरुते तदेव मधुरं तृड्दाहरक्तं गुरु ॥ ७.१९९
अथ खर्बुजा मधुफला षड्रेखा वृत्तकर्कटी तिक्ता ।
तिक्तफला मधुपाका वृत्तेर्वारुश्च षण्मुखा नवधा ॥ ७.२००
तिक्तं बाल्ये तदनु मधुरं किंचिदम्लं च पाके निष्पक्वं चेत्तदमृतसमं तर्पणं पुष्टिदायि ।
वृष्यं दाहश्रमविशमनं मूत्रशुद्धिं विधत्ते पित्तोन्मादापहरकफदं खर्बुजं वीर्यकारि ॥ ७.२०१
अथ कर्कटी कटुदला छर्द्यायनिका च पीनसा मूत्रफला ।
त्रपुसी च हस्तिपर्णी लोमशकण्टा च मूत्रला नवाभिधा ॥ ७.२०२
कर्कटी मधुरा शीता त्वक्तिक्ता कफपित्तजित् ।
रक्तदोषकरा पक्वा मूत्ररोधार्तिनाशनी ॥ ७.२०३
मूत्रावरोधशमनं बहुमूत्रकारि कृच्छ्राश्मरीप्रशमनं विनिहन्ति पित्तम् ।
वान्तिश्रमघ्नबहुदाहनिवारि रुच्यं श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥ ७.२०४
त्रपुसी पीतपुष्पी कण्टालुस्त्रपुसकर्कटी ।
बहुफला कोशफला सा तुन्दिलफला मुनिः ॥ ७.२०५
स्यात्त्रपुसीफलं रुच्यं मधुरं शिशिरं गुरु ।
भ्रमपित्तविदाहार्तिवान्तिहृद्बहुमूत्रदम् ॥ ७.२०६
एर्वारुः कर्कटी प्रोक्ता व्यालपत्त्रा च लोमशा ।
स्थूला तोयफला चैव हस्तिदन्तफला मुनिः ॥ ७.२०७
एर्वारुकं पित्तहरं सुशीतलं मूत्रामयघ्नं मधुरं रुचिप्रदम् ।
संतापमूर्छापहरं सुतृप्तिदं वातप्रकोपाय घनं तु सेवितम् ॥ ७.२०८
अथ वालुकी बहुफला स्निग्धफला क्षेत्रकर्कटी क्षेत्ररुहा ।
मधुरफला शारदिका क्षुद्रेर्वारुश्च पीतपुष्पिका ॥ ७.२०९
वालुकी मधुरा शीताध्मानहृच्च श्रमापहा ।
पित्तास्रशमनी रुच्या कुरुते कासपीनसौ ॥ ७.२१०
वालुकानि च सर्वाणि दुर्जराणि गुरूणि च ।
मन्दानलं प्रकुर्वन्ति वातरक्तहराणि च ॥ ७.२११
स्याद्वालुकी शरदि वर्षजदोषकर्त्री हेमन्तजा तु खलु पित्तहरा च रुच्या ।
क्षिप्रं करोति खलु पीनसमर्धपक्वा पक्वा त्वतीव मधुरा कफकारिणी च ॥ ७.२१२
चीनकर्कटिका ज्ञेया बीजकर्कटिका तथा ।
सुदीर्घा राजिलफला बाणैः कुलककर्कटी ॥ ७.२१३
चीनकर्कटिका रुच्या शिशिरा पित्तनाशनी ।
मधुरा तृप्तिदा हृद्या दाहशोषापहारिणी ॥ ७.२१४
स्यात्चिर्भिटा सुचित्रा चित्रफला क्षेत्रचिर्भिटा पाण्डुफला ।
पथ्या च रोचनफला चिर्भिटिका कर्कटिका ग्रहसंख्या ॥ ७.२१५
बाल्ये तिक्ता चिर्भिटा किंचिदम्ला गौल्योपेता दीपनी सा च पाके ।
शुष्का रूक्षा श्लेष्मवातारुचिघ्नी जाड्यघ्नी सा रोचनी दीपनी च ॥ ७.२१६
शशाण्डुली बहुफला तण्डुली क्षेत्रसम्भवा ।
क्षुद्राम्ला लोमशफला धूम्रवृत्तफला च सा ॥ ७.२१७
शशाण्डुली तिक्तकटुश्च कोमला कट्वम्लयुक्ता जरठा कफापहा ।
पाके तु साम्ला मधुरा विदाहकृत्कफश्च शुष्का रुचिकृच्च दीपनी ॥ ७.२१८
कुडुहुञ्ची श्रीफलिका प्रतिपत्त्रफला च सा ।
शुभ्रवी कारवी चैव प्रोक्ता बहुफला तथा ॥ ७.२१९
क्षुद्रकारलिका प्रोक्ता ज्ञेया कन्दलता तथा ।
क्षुद्रादिकारवल्ली च प्रोक्ता सा च नवाह्वया ॥ ७.२२०
कुडुहुञ्ची कटुरुष्णा तिक्ता रुचिकारिणी च दीपनदा ।
रक्तानिलदोषकरी पथ्यापि च सा फले प्रोक्ता ॥ ७.२२१
कारलीकन्दमर्शोघ्नं मलरोधविशोधनम् ।
योनिनिर्गतदोषघ्नं गर्भस्रावविषापहम् ॥ ७.२२२
इति मूलकन्दफलपत्त्रसुन्दरक्रमनामतद्गुणनिरूपणोल्वणम् ।
अवलोक्य वर्गमिममामयोचितामगदप्रयुक्तिमवबुध्यतां बुधः ॥ ७.२२३
मन्दाग्निमरोचकिनं येऽपि शिलामाशयन्ति निजशक्त्या ।
तेषां शाकानामयमाश्रयभूः शाकवर्ग इति कथितः ॥ ७.२२४
लब्धान्योऽन्यसहायवैद्यककुलाच्छङ्काकलङ्कापनुत्दस्रैक्यावतरोऽयमित्यविरतं सन्तः प्रशंसन्ति यम् ।
तस्य श्रीनृहरेः कृताववसितो यो मलकादिर्महान् वर्गोऽसावभिधानकोशपरिषच्चूडामणौ सप्तमः ॥ ७.२२५