राजेन्द्रकर्णपूरः (शम्भुविरचितः)

राजेन्द्रकर्णपूरः
शम्भुः
१९२९


[१]महाकविश्रीशंभुविरचितो

[२]राजेन्द्रकर्णपूरः।

बद्धस्पर्घः क्षितिधरसुताभ्रूलतावक्रतायं
भूयाद्भूत्यै तव हरशिरःशेखरो रोहिणीशः ।
यं निष्पीड्य स्तनमुखनखोल्लेखरेखासु देव्याः
संभोगान्ते वितरति सुधास्यन्दमर्धेन्दुमौलिः ॥ १ ॥

अव्यात्स वस्ताण्डवविभ्रमेण मौलौ विलीना हरिणा लेखा।
सा यस्य वामे कुचमण्डलाग्रे कर्पूरपत्राङ्कुरट[३]ङ्कमेति ॥ २ ॥

प्रेमाणं विनिमील्य मल्लिकालिकाकर्णावतंसे रसं
मुक्त्वा मौक्तिककुण्डले कुरुत भोः शंभोगिरः कर्णयोः ।
युष्माकं रतिकान्तकार्मुकलताकारकान्ते रुते
सोत्कण्ठं [४]कलकण्ठकण्ठकुहरोद्भूतेऽपि मा भून्मनः ॥ ३ ॥

व्याप्तव्योमलते मृगाधवले निर्धौतदिङ्मण्डले
देव त्वद्यशसि प्रशान्ततमसि प्रौढे जगत्प्रेयसि ।
कैलासन्ति महीभृतः फणभृतः शेषन्ति पाथोघयः
क्षीरोदन्ति [५]सुरद्विपन्ति करिणो हंसन्ति पुंस्कोकिलाः ॥ ४॥



१. अयं शंभुमहाकविः कश्मीरदेशे श्रीहर्षदेवराज्यसमये समुत्पन्नः. अस्मिग्रेव राजे-.
न्द्रकर्णपूर एकोनविंशे श्लोके श्रीहर्षदेवस्य, द्विचत्वारिंशे श्लोके च कश्मीरदेशस्य नाम
गृहीतमस्ति. श्रीहर्षदेवस्य राज्यसमयस्तु १०८८ मितात्मिस्वसंवत्सरादारभ्य ११००
खिस्तसंवत्सरपर्यन्तमासीत्, स एव समयोऽस्य प्रन्थस्स. श्रीकण्ठचरितस्य पञ्चविंश
सर्गेऽपि शंभुमहाकवेर्नाम गृहीतमस्ति. अस्पेकमेव पुस्तकमस्माभिः कश्मीरदेशे करथं
चिदधिगतम्. सुभाषितावलावत्रत्य बहवः श्लोकाः समुद्धाताः सन्ति, २. कश्मीराधिपतेः
श्रीहर्षदेवस्य स्तुतिरूपोऽयं प्रन्थः. ३. शोमातिशयम्. ४. कोकिला, ५. ऐरावतः
शुक्लवर्णोऽस्ति.

कैलासाचलसानुसीमनि [६]मैरुत्सीमन्तिनीभितथा
गीतास्ते कलकण्ठकण्ठनिनदश्रव्यैः खरैः कीर्तयः ।
अप्युत्त्ंसविलासवानपि रते रलप्रदीपो यथा
चूडाचन्द्रकलाङ्कुरः [७]पुरजिता सद्यः प्रसादीकृतः ॥ ५ ॥

[८]चौडीचूडाभरणहरणः कीर्णकर्णावतंसः
कर्णाटीनां मुषितमु[९]रलीकेरलीहारलीलः ।
कुर्वन्नुर्वीतिलक तिल[१०]कोत्सृष्टलाटीललाटं
जीयादेकस्तव नवयशःस्वर्णशाणः कृपाणः ॥६॥

शान्त्यै दर्पवतां जयाय जगतां संपत्त्ये याचतां
संमानाय सतां हिताय महृतां तापाय पृथ्वीमृताम् ।
सोल्लासेन सकौतुकेन शमितध्यानेन दूरीकृत-
स्वाध्यायेन समाप्तसर्वतपसा त्वं वेधसा निर्मितः ॥ ७ ॥
........................
...............................

किं[११] वान्यद्वसुधापुरंदर पुरस्त्वत्पौरुषस्य क्वचि-
न्नार्हत्यस्खलितक्रमोऽपि गगने त्रैविक्रमो विक्रमः ॥ ८॥

देवाकर्णय नाकिनां पुरि नृणां लोके पुरे भोगिनां[१२]-
मासन्केचन सन्ति केचन तथा स्थास्यन्ति ये केचन ।
तन्मध्ये न बभूव नास्ति भविता तादृङ् न नीतौ नतो
कान्तौ काव्यरतौ मतौ रिपुहतौ कीर्तौ च यस्ते समः ॥ ९ ॥

आनन्दं [१३]मुचुकुन्दक[१४]न्दलि भन स्वस्थासि वासन्तिके
कल्याणं तव मल्लिके कुशलिनी जातासि हे मालति ।
अद्यैतद्यशसि श्रुतिप्रणयितां याते न कुर्वन्ति वः
कर्णोत्तं सरसान्नवीनकलिकाभङ्गं कुरङ्गीदृशः ॥१०॥



१. देवाजनाभिः, २. शिवेन. ३. चोलदेशोद्भवा नारी. ४. मुरलकेरलौ च देशनिशेषौ.
५. तिलकरहितं लाटदेशाङ्गनाललाटम्. ६, आदर्शपुस्तकेऽस्य श्लोकस्य पूर्वार्धं श्रुटितमस्ति.
७. सर्पाणाम्. ८. पुष्पवृक्षविशेषः. ९. कन्दलं नवाकरम्. अल्पत्वविवंक्षायां स्त्रीलिङ्गम्

चैत्रं मा स्मर विसर पर रतिं किं सायकैर्मारकै-
र्गोधां[१५] मुग्ध मुघा बधान जहिहि ज्याबन्धधीरं धनुः ।
देवेऽस्मिन्हि सकृत्स्मृतेऽपि न सतिर्नैव स्मृतिर्न स्थिति-
र्नासक्तिर्न धृतिर्न निर्वृतिरपि क्काप्यस्ति वामभ्रुवाम् ॥ ११ ॥

जहाति नगरीं गलत्कनककङ्कणः कौङ्कणो
वनं विशति विह्वलः स्खलितकुन्तलः कौ[१६]न्तलः ।
किमन्यदुदितकुधि त्वयि मृगेन्द्रभीमारवं
तटं विशति मारवं [१७]च्युतरमालवो मालवः ॥ १२ ॥

तां संक्रन्दनमन्दिरे सुरवधूकर्णामृतस्यन्दिनीं
त्वत्सौन्दर्यकथां निशम्य गदितामानन्दिभिर्बन्दिभिः ।
चापं मुञ्चति बाणमुज्झति शुचं घत्ते रतिं नेक्षते
चित्रं चैत्रमुपेक्षते परिणमन्मन्दव्यथो मन्मथः ॥ १३ ॥

[१८]कीरीहारलतासु केरलवधूधम्मिल्लमालालु या
चोलीद[१९]न्तचतुष्किकासु मुरलीलीलासितेषु द्युतिः ।
अग्रे त्वद्यशसां सुधाकरकरन्यक्कारपारंगमा-
मप्येतामसितामहो सुकवयो विन्दन्ति निन्दन्ति न ॥ १४ ॥

विष[२०]मेषुविगलितरसाश्चपलतरंगालिभिर्जडैः क्षुभिताः ।
तिमिरचितवसतयस्तव रिपुसुदृशो निम्नगा जाताः ॥ १५॥

अङ्के केरलसुन्दरीकचभरश्यामं कलङ्कं बह-
न्मिथ्यारोहति पूर्वपर्वतशिखां मुग्धतस्त[२१]मीबान्धवः ।
यत्तापिच्छतरुच्छदच्छवि तमो लुम्पन्ति लिम्पन्ति च
प्रालेयैरिव पारदैरिव जगत्कोशं भवत्कीर्तयः॥ १६ ॥



१. धनुर्गुणघातवारणाय प्रकोष्ठबद्धा चर्मपट्टी. २. कुन्तलनामकदेशस्य राजा
३. लक्ष्मीळेशरहितः, ४. कीरदेशोद्भवा स्त्री. ५. मुख्यं दन्तचतुष्टयम्. ६. (रपुस्त्रीपक्षे )
विषमेषुः कामः, रसो रागः, जडैर्मूर्खैरालिभिरवाच्यैः क्षुमिताः, तिमिरेण व्याप्ता वसतिर्यांसाम्,
(नदीपक्षे) विषमेषु नतोन्नतप्रदेशेषु, रसो जलम, चपलतरङ्गपङ्क्तिमिर्जलैः क्षोभं
नीताः, तिमयो मत्स्यास्तै रचिता स्थितिर्यासु.
७. चन्द्रः

 
तस्थौ कम्पतरङ्गितस्तनतटं बाष्पाम्बुधौताधरं
शोकाक्रान्तकपोलकोलितकरं द्यां [२२]मुञ्जराजे गते ।
संजाते त्वयि हारिहारवलयकाणं कणत्कङ्कणं
चञ्चत्काञ्चनकाञ्चि सा भगवती नर्नर्ति वाग्देवता ॥ १७ ॥

आलेख्यं चिरमुल्लिलेख विजने सोल्लेखया रेखया
संकल्पानकरोद्विकल्पबहुलाकल्पाननल्पानपि ।
अद्राक्षीदपरप्रजापतिमतं चक्रे च तीववतं
त्वन्निर्माणविधौ कियन्न विदधे बद्धावधानो विधिः ॥ १८॥

शेष क्लेशमशेषमुत्सृज भज त्वं कूर्म कर्म स्वकं
स्वैरं खेलत सिन्धुसैकतलताकुञ्जेषु दिक्कुञ्जराः ।
अप्येतां सकुलाचलां सनगरां साम्भोनिधिं सापगां
सद्वीपां च भुवं बिभर्ति हि भुजः श्रीहर्षपृथ्वीभुजः ॥ १९ ॥

हेरम्ब त्यज कर्णतालनिनदं चूडापगे गर्ज मा
मा मा काञ्चनकिङ्किणीकलकलं कण्ठे ककद्मन्कृथाः।
प्रक्रान्तासु सुरैः पुरः पुररिपोर्युष्मद्यशोगीतिषु
व्यप्रस्येति परिस्फुरन्ति वचनान्यानन्दिनो नन्दिनः ॥ २० ॥

अकङ्कणममेखलागुणमहारमस्ताङ्गदं
व्रजन्ति चतुरैः पदैर्मरुमरातिवामभ्रुवः ।
[२३]करोत्यसिलतां करे यदसिगर्वमुर्वीभुजो
भुजस्य परिपन्थिनामयमदक्षिणे दक्षिणे ॥२१॥

राकाकान्तकलाङ्कुरं कुरु चिरं चण्डीश चूडान्तरे
कच्छं गच्छ पुराणकच्छप परं गम्भीरमम्मोनिधेः ।
ध्यानं मुञ्च विरश्च किं च पयसा सिञ्चासनाम्भोरुहं
येनायं परितः प्रभो प्रसरति प्रौढः प्रतापानलः ॥ २२ ॥



शीर्षकपाठ्यांशः सम्पाद्यताम्

१. अतीव गुणिवत्सलो बाक्पतिराजदेवापरनामा श्रीमुजराजः श्रीहर्षदेवास्किंचिदेव
पूर्वमासीत्. शिस्त संवत्सरस्य ९९४ मिते काले श्रीमुजमहीपालो राज्यं कुर्वनासीदित्य-
मितगतिप्रणीतसुभाषितरत्नसंदोहनामकग्रन्थसमाप्तिश्लोज्रज्ञायते.
२. इदमुत्तरार्धमस्फुटमस्ति.

कंदर्पे नलकूबरे कुमुदिनीकान्तेऽप्यवज्ञावतां
त्वत्सौन्दर्यकथासु तासु मरुतां वृत्तासु कौतूहलात् ।
प्राप्ता तानवमुर्वशी रतिरतिक्लान्ता हता रोहिणी
जाता किं च खरस्सरज्वरभरारम्भापि रम्भातनुः ॥ २३ ॥

सोल्लासा अपि सोद्यमा अपि धनोत्कण्ठा अपि कापि नो
यान्ति श्यामनिशान्तरेऽपि स्मणोपान्तं कुरङ्गीदृशः ।
सद्यस्त्वद्यशसा हि कुञ्जररदच्छेदच्छविच्छादिना
नीतं कान्तपुरंध्रिकुन्तलभरश्यामं विरामं तमः ॥ २४ ॥

न क्काप्यौर्वज्वलनमहसा यस्य चक्काथ पाथः
शोषं तस्मिन्भजति जलधौ त्वत्प्रतापानलेन ।
शङ्के पङ्के पतति यतते बालशेवालमूले
कूले लोलः किमपि कुरुते कर्म वैकुण्ठकूर्मः ।। २५ ॥

उल्लेखं निजमीक्षते मणितिपु प्रौढिं परां शिक्षते
संधत्ते पदसंपदः परिचयं धत्ते ध्वनेरध्वनि ।
वैचित्र्यं वितनोति वाचकविधौ वाचस्पतेरन्तिके
देव त्वद्गुणवर्णनाय कुरुते किं किं न वाग्देवता ॥ २६ ॥

शान्तध्वान्तकलङ्क शंकरशिखालंकार तारापते
राकाकान्त सविभ्रमं भ्रम सदा निःशङ्कमङ्के दिवः ।
अद्यैतद्यशसैव सप्तसु [२४]कृतालोकेषु लोकेषु हि
स्वर्भानोविता[२५]सि नासि नभसि च्छिन्नाकृतेर्गोचरः ।। २७ ।।

त्वय्युत्पन्ने गुणवति सतां नाभिरामः स राम-
स्त्यागव्यग्रे भवति भवति म्लानवर्णः स कर्णः ।
ब्रूम :किं वा बहु ननु धनुर्वेदविद्याविदस्ते
[२६]सङ्ग्रामोर्वीपुरहर पुरः स्या[२७]देपार्थः स पा[२८]र्थः ॥ २८ ॥



१. कृतप्रकाशेषु. २. 'अति' इति विभक्तिप्रतिरूपकमव्ययम् त्वमित्यर्थः
. ३. युद्धभूमौ रुद्रतुल्य. ४. निष्फलः, ५. अर्जुनः

कान्तिं कल्पय तान्तिमल्पय सखि खल्पापि नैवास्ति ते
मुक्ताशुक्तिषु वारिराशिरमणि श्रीताम्रपर्णि क्षतिः ।
अस्यालोक्य कुरङ्गकेतनकलालावण्यचौरं यशो
वर्तन्ते हि विमुक्तमौक्तिकलतोत्कण्ठाः कुरङ्गीदृशः ॥ २९ ॥

निद्रा न द्रविणाधिपस्य भजते शकां स लकापति-
र्व्योम्नि व्याकुलतामलं क[२९]मलिनीकान्तस्य धत्ते वपुः ।
किं वान्यत्तय देव बेल्ल[३०]ति यदि भ्रूवल्लरी पल्लवः
सोऽपि क्षामकपोलकीलितकरः संक्रन्दनः क्रन्दति ॥ ३० ॥

अस्तं याति ययातिधाम विगतं दुष्यन्तवार्ताशतैः
शान्तं शंतनुकीर्तिभिर्लघु रथोर्लोकेषु जातं यशः ।
किं चान्यत्वयि मेदिनीकुमुदिनीराकाशशाङ्कोदये
जाते हन्त तथा कथा अपि विभो रामे विरामं गताः ॥३१॥

लोलन्मौक्तिकवल्लि वेल्लदलकं वाचालकाञ्चीगुणं
चञ्चत्काञ्चनकरणं च गिरिजा जातोत्सवा नृत्यतु ।
त्वत्कीर्तिश्रवणोन्मुखेन विलसत्कल्लोलकोलाहला
यन्मुक्ता मुकुटान्मृगाशकलोत्तंसेन मन्दाकिनी ॥ ३२ ॥

कपूरैरिव पारदैरिव सुधास्यन्दैरिवाप्लाविते
जाते हन्त दिवापि देव ककुभां गर्भे भवत्कीर्तिभिः ।
धृत्वाङ्गे कवचं निवध्य[३१]शरधिं कृत्वा पुरा[३२]माधवं
कामः कैरवबान्धवोदयधिया धुन्वन्धनुर्धावति ॥ ३३ ॥

[३३]अधिकंसमाप्तसमरः प्रथितो भुवनेषु गोपनरसोत्कः ।
भाति सदानवविजयं कुर्वन्कृष्णस्तवायमसिः ॥ ३४ ॥



१. सूर्यस्य. २. चलति. ३. तूणीरम्, ४. बसन्तम्, ५. (राजपक्षे) तवायमसिः
or: Re कृष्णवों भाति. साविशेषणानि-~-अत्यन्त समाप्तयुद्धः शत्रूणामभावात,
गोपने राणे यो रसमास्मिनुत्कण्ठितः, सर्वदा नवीन विजयं कुर्यन (कृष्णपक्षे)
अधिकस कसमिपये प्राप्तयुद्धः, गोपालरूपनरेणु पुरुषेणूत्कण्ठितः, स प्रसिद्धः, दानवानां
विजयं कुर्वन्,

राकाकान्तकलाङ्कुराङ्कितजरत्कीशो निशीथक्षणे
गायन्तीषु सुराङ्गनासु भवतः कैलासकुञ्जे यशः ।
निष्पीड्य प्रियमौलिचन्द्रकलिकां कंदर्र्प केलिक्लम-
स्वापं दूरयितुं दृशोर्गिरिजया दत्ताः सुधाविन्दवः ॥ ३५ ॥

किं तान्तिः किमनिर्वृतिः किमधृतिर्वाग्देवि मुञ्जे गते
किं शून्यासि किमाकुलासि किमिति क्लान्तासि कोऽयं क्रमः ।
एतं विद्धि तमेव सास्य हि मतिः सा विश्रुतिः सा द्युतिः
स त्यागः स नयः स सूक्तियु रसस्ताः संमताः संपदः ॥३६॥

कसादम्ब विलम्बसे कुरु कृपां केनापि रूपेण में
जिह्वाग्रे वस संनिधेहि हृदये वाग्देवि तुभ्यं नमः ।
यन्मे साहसिकस्य भूपचरितव्यावर्णने सादरं
सप्रेमप्रसरं सकौतुकरसं सोल्लासमास्ते मनः ॥ ३७ ॥

नाके मुग्धमधुवतप्रणयिनीहंकारहारिस्वनै-
श्वश्रु त्वचरितं यदैव चतुरैरुच्चारितं चारणैः ।
कान्तं मौक्ति[३४]कदामनद्धचिकुरवःसुन्दरीणां पुरः
प्राप्तो देव तदैव सूत्रितशरासारः ससारः स्मरः ॥ ३८ ॥

श्रीखण्डद्रवनिर्झरन्ति हृदये पीयूषकल्लोलिनी-
निःष्यन्दन्ति तनौ रसायनरसस्यन्दन्ति कर्णान्तिके ।
[३५]नासीरप्रसरन्ति दिक्परिसरे भूमण्डले मौक्तिक-
प्रस्तारन्ति सुधाकरन्ति गगनोत्सङ्गे भवत्कीर्तयः ॥ ३९ ॥

किं बालेन मृणालतन्तुमलिनच्छायेन खण्डेन्दुना
निःशङ्कोऽद्य वृषाङ्क शेखरपदे राकाशशाङ्कं कुरु ।
देवस्यास्य हि केतकोदरदलच्छायैर्यशोभिर्निशि
व्योम्नः सीम्नि व मण्डले च ककुभां व्यत्तं समस्तं तमः ॥४०॥

नो चैत्रः सहकारकुड्भलकुलैः क्लृप्तं न तत्कार्मुकं
नामी क्रूरशिलीमुखाः शितमुखा नो कोकिलाप[३६]ञ्चमः ।



१. 'मौक्तिकदाम-' इत्यादिविशेषणमनुपयुक्तमिव भाति.
२. सेनामुखं नासौरमित्युच्यते.
३. स्वरविशेषः.

 
नैवोदामकरः शशी न मकरः केतुस्थितो नो रति
स्तत्रापि त्वमहो समस्तरमणीमानव्यघो मन्मथः ॥ ४१ ॥

तन्मूर्तं भुवने मुहूर्तममृतं मन्ये भृशं वासरं
सारं वेद्मि तदेव सैव च गुणैरायामिनी यामिनी ।
श्रीवासो यशसां पदं सुमनसामप्यास्पदं संपदां
यत्रागच्छति गोचरं नयनयोः काश्मीरमीनध्वजः ॥ ४२ ॥

संजाते जलदात्ययेऽपि फणमृत्पर्यङ्कशय्यातलं
मा मा मुश्च मुकुन्द कान्तकमलादोः कन्दलालिङ्गितः ।
जागर्ति स्थितये सतां विरतये येनासतामप्ययं
संनद्धो गुणिमौलिमण्डनमणिर्भूमण्डलाखण्डलः ॥४३ ॥

श्लाधा राघव लाघवं तव गता दुष्यन्त वि[३७]श्वं तव
म्लानिं याति यशो गता तव तथा पार्थ प्रथापार्थताम् ।
जातेऽसिन्गुणिवान्धवे न[३८]रपतिश्यामाधवे क्ष्माधवे
कस्याप्यत्र न कर्ण कर्णपदवीं याता मवत्कीर्तयः ॥ ४४ ॥

ज्ञाता भूरियमम्बुराशिरसना किं नाम नालोचितं
तत्राखण्डलमण्डले मणिपुरे वार्तापि वृत्तैव नः ।
कान्तौ कीर्तिरतौ नये परिचये काव्यक्रमप्रक्रमे
यावत्क्वापि कदापि कोऽपि भवतः स्पर्धापरो नापरः ॥ ४५ ॥

एवं त्वामहमर्थये विरमितखाध्यायकौतूहलो
ब्रह्माण्डोदरभ[३९]म्बुजासन पुनर्यत्नेन विस्तारय ।
देवस्यास्य यतो न माति विततं राकेन्दुरोचिर्लता-
लीलोन्मीलितकैरवोदरदलद्धौतावदातं यशः ॥ ४६ ॥

उर्वी मौर्वीकिणभृति भवद्दोष्णि बिभ्रत्यशेषां
शान्तक्लान्तिः किमपि कुरुते नर्मणा कर्म कूर्मः ।
कृत्वा वेलापुलिनलवलीपल्लवप्रासगोष्ठीं
दिङ्भाताङ्गाः सममथ सरिनाथपाथः पिबन्ति ॥ ४७ ॥



१. संपूर्णम्. २. महीपतिचन्द्रे. ३. हे ब्रह्मदेव.

कि मौनं ननु मेनके किमु शुचं धत्से शचि क्षामता
केयं वाचि घृताचि [४०]साचि किमिदं रम्भे मुखाम्भोरुहम् ।
याते त्वच्चरणामृते श्रुतिपथं गीर्वाणवामभ्रुवा-
मेवं देव खरस्मरज्वरजुषामुक्ताः सखीभिर्गिरः ॥ ४८॥

कि राकेन्दुकरच्छटाभिरुदितं किं मौक्तिकैरुद्गतं
किं मल्लीमुकुलैः स्मितं विकसितं किं मालतीकुङ्भलैः ।
किं रूढं रमणीविलासहसितैः किं तत्र कीर्ण सुधा-
स्यन्दैर्यत्र जगत्रयैकतिलक भ्रान्तं भवत्कीर्तिभिः ॥ ४९ ॥

नोद्दामानि दिशां मुखानि न धनागोगा नभोगण्डली
नैवोत्तालतलं रसातलभियं पृथ्वी न पृथ्वी पुनः ।
एवं देव कथं नु कुञ्जररदच्छेदावदातास्तव
खैरं यान्ति च मान्ति च श्रुतिसुधाधारामुचः कीर्तयः ।। ५०॥

यो वैरिष्वनलो नलो वसुमतीदीपो दिलीपोऽथ यो
यो मानेन पृथुः पृथुर्जगति यो निर्लाघवो राघवः ।
यः कीर्तौ भरतो रतो नृपगुणैर्यः [४१]शंतनुः शंतनुः
संजाते त्वयि कस्य न क्षितिपते सर्वेऽपि ते विस्मृताः ॥५१॥

अपारपुलिनस्थलीमुवि हिमालये [४२]मलये
निकामविकटोन्नते दुरधिरोहणे रोहणे ।
महत्यमरभूधरे गहनकंदरे मन्दरे
भ्रमन्ति न पतन्त्यहो [४३]परिणता भवत्कीर्तयः ॥ ५२ ॥

तात्पर्य [४४]कमलासने विरचितं [४५]गौरीहितैः पालिता
त्रैलोक्याद्भुतकृ[४६]त्प्त दानवजये दोर्विक्रमो दर्शितः ।



१. तिर्यक्. २. कल्याणशरीर. ३. लक्ष्मीनिवासभूते.
४ अन्य परिणतो वृद्धश्चेत्पर्वतारोहणावसरे पतल्येव.
५. कमलाया लक्ष्म्या असने क्षेपणे, याचकेभ्यो दान
इति यावत् अथ च कमलरूपे विष्टऎ ब्रह्मण्ःपद्मासनत्वात्
६. गौः पृथ्वी, देहितैरभिष्टैः (पक्षे)-गौरी पार्वती, हितैः प्रेमामिः,
७, सर्वदा नवीने गये; (पक्षे) स प्रसिद्धः, दानवानां जये.

   
एकेनैव कृतं तु देव भवता तत्रापि ते न [४७]स्मयो
यद्वेधाश्च [४८]पुरान्तकश्च कमलाकान्तश्च देवोऽकरोत् ॥ ५३ ॥

औदार्य सधने नयो गुणिजने लज्जा कुलस्त्रीजने
सत्काव्यं वदने मदो द्विरदने पुस्कोकिलः कानने ।
रोलम्बः कमले नखाङ्करचना कान्ताकपोलस्थले
तन्वी तल्पतले भवानपि विभो भूमण्डले मण्डनम् ।। ५४ ॥

जाता [४९]तामरसोदरे भगवतो धातुः कृतार्था स्थिति-
र्युक्तं यद्यचिरात्करोति जलधौ संस्थां रमावल्लभः ।
सर्वत्रैव विभो तव प्रसरति प्रौढे प्रतापानले
धत्ते सोऽपि पिनाकिनः सफलतां मौलीन्दुरेखाङ्कुरः ॥ ५५ ॥

कण्ठान्तःकणितं दिवाकरकरक्लान्त्या रजोविप्लवै-
स्तन्नेत्राञ्चलकुञ्चनं शितकुशप्रान्तक्षतैः सीत्कृतिः ।
श्वासोर्मिप्रभवो वनेचरभिया त्वद्वैरिवामभ्रुवा-
मेवं देव मरोस्तटेऽपि [५०]सुरतक्रीडानुरूपः क्रमः ।। ५६ ॥
संदिष्टं वसुधासुधाकर शचीकान्तेन मुञ्चोद्यमं
देव त्वं प्रबलप्रतापदहनोदेकाय [५१]बद्धाञ्जलिः ।
एते भानुभवन्तु नाकतरुणीकर्णावतंसोचिताः
क्लान्तिं नन्दनकन्दलीपु कलितव्यापल्लवाः पल्लवाः ॥५७ ॥

शक्तिं मानसतीव्रतापदहने वते गलत्संयमा
कामाशां प्रकटीकरोति न सतां [५२]सर्वत्रपापासनात् ।
प्रेम प्रौढमनारतं वितनुते वृद्धेति शुद्धेति च
प्रख्यातापि महीमनोभव भवत्कीर्तिर्विचित्राः स्त्रियः ॥ ५८ ॥

रूपं यन्मदने युतिः शशिनि या गम्भीरता याम्बुधौ
यो मेरो गरिमास्ति या कमलिनीकान्ते प्रतापोन्नतिः ।



१, गर्वः, २. शिवः. ३. कमलमध्ये. ४. सुरतेऽपि कण्टकूजितं नेत्रकुधनं-
स्रीस्कारः श्वासाधिक्यं च भवत्येव. ५. क्रियाविशेषणम्
६. सर्वस्यानपाया अपासनाद्दूरीकरणात् : (पक्षे) सर्वत्र पापस्यातनात्.

यो लक्ष्मीरमणेऽपि विक्रमगुणस्तत्सर्वमेकत्र चे-
द्रष्टुं वाञ्छसि दृश्यतामयमये देवत्रिलोकीगणिः ॥ ५९ ॥

स ख्यातो जगति त्रिविक्रम इति त्वद्विक्रमा भूरय-
स्तेनैको निहतो बलिर्बलिशतध्वंसी भुजस्तावकः ।
तं वै[५३]कुण्ठमवेति को न जगतीं जेतुं त्वकुण्ठो भवा-
नस्त्येवं महदन्तरं तव तथा देवस्य दैत्यद्रुहः ।। ६० ॥
चक्रे यत्र मदोर्जितार्जुनभुजस्तम्भाहतिं [५४]भार्गवो
यत्रासीद्दशकण्ठकण्ठविपिनच्छेदी रघूणां पतिः ।
पार्थेनापि जितः स यत्र गिरिजाकान्तः किराताकृति-
र्गीतः पल्लविताद्भुतैरतव न कैस्तत्रापि दोर्विक्रमः ॥ ६१ ॥

राकेन्दोरुदयभ्रमेण मुखतो मुक्त्वा मृणालाङ्कुरं
तान्ति तत्र वहन्ति हन्त विलसद्भृङ्गा स्थाङ्गाङ्गाना:।
किं चोदञ्चितचञ्चुरञ्चति शरच्चन्द्रप्रभा [भ्रान्तितो
हर्षं हन्त] चकोरपङ्किरमलं यत्रोदितं ते यशः ॥ ६२ ॥

पालेयैः स्नपयन्ति कल्पलतिकाः सेकाननेकानथ
श्रीखण्डाम्बुगलज्जलैरविरलैस्तन्वन्ति संतानके ।
सान्द्रेश्चन्द्रमणिद्वैरपि विभो मन्दारवाहीमलं
सिञ्चन्त्यद्य भवप्रतापदहनत्रासेन नाकाङ्मनाः ॥ ६३ ॥

यातं रामविरामविक्लवतया [५५]दुष्यन्तविश्रान्तिजः
संतापो विगतो [विलीनमखिलं दुःखं नलाभावजम्] ।
किं चान्यत्वयि देव विभ्रति महासाम्राज्यलक्ष्मीमिमां
शान्तः शांतनवोऽपि कोऽपि विपुलाभोगो वियोगो भुवः ॥६४॥

किंचित्कुङ्भलितैकलोचनपुटं कण्डूं मुहुर्गण्डयो-
र्झम्पाकम्पितकुङ्भले कुरबके निर्वाप्य वन्यद्विपैः ।



१. वै निश्चयेन कुण्ठं जडम्; (पक्षे) वैकण्ठनायकम्, २. विष्णोः. ३, परशुरामा:
४. दुष्यन्तमहीपालवियोगजनितः,

देव स्मेरसरोजसङ्गसुरभि स्वैरंभवद्वैरिणां
पीतं प्राङ्गणवापिकामकरिणीपीतावशेषं पयः ॥ ६५ ॥

कूर्मे धैर्य शिथिलय धृतिं मुञ्च शेषस्य शेषा-
माशामा[५६]शाकरिषु वसुधे देवि मा मा दधीथाः ।
शक्तः सप्ताम्बुनिधिपरिरवामेखलामध्ययं त्वां
वोढुं मौर्वीकिणपरिचितो भूपतेरस्य बाहुः ॥ ६६ ॥

कान्तारेषु च काननेषु च सरितीरेषु च क्ष्मामृता-
मुत्सङ्गेषु च पत्तनेषु च सरिद्भर्तुस्तटान्तेषु च ।
प्रान्ताः केतकगर्भपल्लवरुचः श्रान्ता इव क्षमापते
कान्ते नन्दनकन्दलीपरिसरे रोहन्ति ते कीर्तयः ॥ ६७ ॥

राकेन्दोरुदयः किमेष किमयं [५७]गौरीगुरुर्वा गिरिः
क्षीरोदः किमयं किमेष [५८]पुरजिल्लीलाविलासोरगः ।
किं [५९]मन्याद्रिरयं सुधाजलनिधेधौतस्तरङ्गैरिति
त्वकीरौतौ वसुधापुरंदर सदा संदेहिनो देहिनः ॥ ६८ ॥

विलोकनकथापि मे न नलकूबरे न स्मरे
किमन्यदमृतद्युतेरपि न दर्शन प्रार्थये ।
अयं नयनगोचरं व्रजति चेदृशामुत्सवः
समग्ररमणीमनोमधुपमाधवः माधवः ॥ ६९ ॥

[६०]कुंन्दः कन्दलितव्यथं विचकिल: कम्पाकुलं केतक:
सातङ्कं मदनः सदैन्यमलसं मुक्तोऽतिमुक्तद्रुमः ।
मोक्तुं किं तु न पारितस्तव रिपुस्त्रीभिः पुरीनिर्गमे
तत्कालं कृतामा[६१]धवीपरिणयः सत्केसरः केसरः ।। ७० ॥

तयुक्तं ननु [६२]कुम्भसंभव भवत्प्रज्ञारहस्येन य-
श्यां च क्षमां च तिरोधवन्निरवधिर्विन्ध्योऽपि वन्ध्यः कृतः ।



१. दिग्गजेषु. २. हिमालयः ३. शेषः. ४. मन्दराचलः, ५. कुन्दविचकिलादयवृक्षविशेष: ६. लताविशेषः, ७. हे अगस्त्य.

      
देवस्यास्य शरन्निशाकरकरन्यक्कारपारंगमं
मात्येतत्कथमन्यथा परिणतं द्यावापृथिव्योर्यशः ॥ ७१ ॥

धिक्तं मल्लीकुसुमकलितं केलिकर्णावतंसं
ध्वंसं सोऽपि बजतु विफलो रत्नताट ङ्कटङ्कः ।
हे राजानः प्रकृतिसरलैः [६३]शांभवैरेव सूक्तै-
र्युक्तः कर्तुं भवति भवतां केवलं कर्णपूरः ॥ ७२ ॥

उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णाभृतस्यन्दिनी
युक्ता यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः ।
अन्यस्तन्वि तथापि ते पशुपतिप्लुष्टस्य जीवार्पणे
पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः ॥ ७३ ॥

किं हारैः किमु कङ्कणैः किमु [६४]सुमैः किं कर्णपूरैरलं
केयूरैमणिकुण्डलैरलमलं साडम्बरैरम्बरैः।
पुंसामेकमखण्डनं पुनरिदं शंभोर्मते मण्डनं
यन्निष्पीडितपार्वेणेन्दुशकलस्यन्दोपमाः सूक्तयः ॥ ७४ ॥

पीयूषद्रवहारिणी सुमनसां भ्रूलास्यविस्तारिणी
त्वत्सेवाभिरवापि काप्यभिनवा वाग्देवते भारती।
अस्त्येका तु कृताञ्जलेर्जननि मे शंभोरियं प्रार्थना
मद्वाचां क्वचिदस्तु वस्तुनिपुणः श्रोता सचेता जनः ॥ ७५ ॥

इति काश्मीरदेशोद्भवमहाकविश्रीशंभुविरचितो राजेन्द्रकर्णपूरः समाप्तः ।