रामचापस्तवः
श्रीरामभद्रदीक्षितः
१८९७

काव्यमाला ।


श्रीरामभद्रदीक्षितविरचितो
रामचापस्तवः ।



यन्मूले रघुनन्दनस्य जगतां त्रातेति कीर्त्यङ्कुरो
देवी चार्चति जानकी सविनयं यद्गन्धपुष्पाक्षतैः ।
यत्कोट्या कृतलाञ्छनश्च जलधौ सेतुर्जगत्पावनो
भद्रायास्तु जगत्त्रयस्तुतिपदं तद्राघवीयं धनुः ॥ १ ॥
यः शत्रुंजयकुञ्जरेश्वरशिरःसंघट्टनाकर्कशे
वैदेहीकुचकुम्भपत्रमकरीविन्यासवैज्ञानिके ।
चञ्चत्पञ्चवटीकुटीरजटिलव्यूहाय दत्ताभये
पाणौ कौणपवैरिणो विजयते चापाय तस्मै नमः ॥ २ ॥
दारुण्यप्यवलम्बिते कृतवतः साकेतराज्यश्रियं
केलिन्यासविधूतगौतमवधूदुःशीलमूलैनसः ।
पादस्याक्रमणेन पूतमसकृत्कोटौ गुणारोपणे
चापं चन्द्रवतंसचापमथितुर्देवस्य सेवामहे ॥ ३ ॥
मद्रक्षाकथनेच्छयेव गतया देवस्य कर्णान्तिकं
मौर्व्या मार्गणपक्षपातघटनापारीणया संगतम् ।
कोटौ चामरहेमभूषणमिषात्कीर्तिप्रतापाङ्कुरौ
बिभ्राणं करवाणि रावणरिपोश्चापं शरण्यं प्रभोः ॥ ४ ॥
लब्धोन्मेषविशेषभीषणशिखिज्वालाजटालेक्षण-
श्लिष्टाभ्यन्तररुष्टरुद्रनिटिलस्निग्धं विशुध्द्यै गिराम् ।
अन्तः संततकाञ्चनाञ्चितशरश्रीमञ्जरीपिञ्जरी-
भूतं भातु पुरः कबन्धमथितुर्ज्याबन्धवामं धनुः ॥ ५ ॥

कल्याणं वितनोतु नः करुणया काकुत्स्थचूडामणे-
श्वापः कोपदुरापरुद्रविकटभ्रूवल्लरीविभ्रमः ।
यत्रोद्घाटितनैटिलेक्षणपुटप्रोद्दामधूमध्वज-
ज्वालावल्लिविडम्बडम्बरमयत्यापिञ्जरा शिञ्जिनी ॥ ६ ॥
कर्षद्दक्षिणपाणिलग्नसशरज्यावल्लिचक्रीकृतं
गृह्णद्वामकराङ्गुलीयकमणिच्छायोल्लसल्लस्तकम् ।
संरब्धस्य निषेदुषो रघुपतेरालीढभङ्ग्या रणे
धावद्राक्षससैनिकाक्षिविषयं क्षेमाय चापं भजे ॥ ७ ॥
भास्वच्चन्द्रकलाग्रमाशरकुलासृग्लोहिताङ्गं बुध-
ध्येयं चित्रशिखण्डजातघटितं वाल्मीकिकाव्यस्तुतम् ।
मन्दस्यापि मतिप्रदं प्रणमतो बाणं रणे बिभ्रते
श्रीरामस्य शरासनाय शिरसि न्यस्ये नमस्याञ्जलिम् ॥ ८॥
भद्रं यच्छति पापमत्ति भणितिं दत्ते यशः पुष्यति
प्रागल्भ्यं विवृणोति तस्य नुवति स्वं यो नरः सूक्तिभिः ।
यो देवान्विरुणद्धि विप्रकुरुते विप्रान्निगृह्णाति तं
चापं दाशरथेरिति श्रुतवता संसेव्यते तन्मया ॥९॥
आस्तामिन्द्रयमादिदिक्पतिकुलं तिष्ठन्तु देवास्त्रयो
देवो वा रघुनन्दनो विहरतु स्वैरं समं सीतया ।
अस्माकं तु शरण्यमस्ति परमं तत्किंचन प्राणिनां
कोटिस्पृष्टपयोधिसेतुसलिलैरेनः पुनानं धनुः ॥ १० ॥
अन्ये केलिगृहीतकालियफणारङ्गस्थलीनर्तन-
क्रीडामर्दलवाद्यहृद्ययमुनाकल्लोलकोलाहले ।
देवे प्रेम वहन्त्वहं तु कुतुकी काकुत्स्थहस्तद्वयी-
रङ्गोत्सङ्गनटे धनुष्यरिभटाक्रन्दोरुभेरीरवे ॥ ११ ॥
कालव्यालकपालजालघटितस्रग्भारघोरं परे
रुद्रं भद्रतृषाविषादकृतधीलोपा वृथोपासताम् ।

श्रीमच्चामरबद्धमृद्धसुषुमज्यावल्लिकावेल्लितं
दध्यां बुद्धिमहं तु राक्षसचमूहन्तुः प्रणन्तुं धनुः ॥ १२ ॥
धावंधावमबन्धगन्धगजवद्विन्ध्याद्रिवन्ध्याटवी-
कल्पेऽप्यत्र जगत्त्रये सर इव स्नातुं ममेदं मनः ।
नन्वन्विष्यति धन्व मन्वभिजनोत्तंसस्य हंसच्छद-
स्वच्छोद्गच्छदभीशुपेशलशिरोबद्धोच्चलच्चामरम् ॥ १३ ॥
धर्मे निर्मलमाप्नुयामिति तथा विन्देय मन्देतरा-
नर्थानित्यहमत्यये दिवि वधूर्भुञ्जीय मञ्जूरिति ।
ब्रह्मानन्दविधायिनीर्मम पुनः प्रामाण्यवाचामपि
ध्यातव्ये रघुनन्दनस्य धनुषि त्रेधा मनो धावति ॥ १४ ॥
नाहं यष्टुमलं भवामि न घटे दातुं धनान्यर्थिनां
का शक्तिर्मम दृश्यते तपसितुं दुर्निग्रहे मानसे ।
आत्मज्ञानमवाप्नुयामिति तथाप्याराधयेयं गिरा
वाराशिस्मयघस्मरास्त्रमहसो वीरस्य सारं धनुः ॥ १५ ॥
मातुर्गर्भकुटीरमर्भकतनुः संप्राप्य कं प्रायशो
नो जन्मानि कियन्त्यगाहिषि कियदुःखं च नाज्ञासिषम् ।
दिष्टया संप्रति जायते मम नृणां जन्मात्ययध्वंसने
चापे चन्द्रवतंसचापमथितुर्देवस्य भावः स्थिरः ॥ १६ ॥
वल्गन्मन्दरशैलमूलमुखरक्षीरोदपूरोदर-
क्षिप्तानर्गलनिर्गलन्नवसुधामाधुर्यधुर्या गिरः ।
निर्गच्छन्तु निसर्गवेगविधुतस्वर्लोककल्लोलिनी-
गर्वाः शर्वधनुर्विमर्दनधनुःस्तोत्राय वक्रान्मम ॥ १७ ॥
कालोन्मीलदमन्दकुन्दमुकुलस्पर्धानिबद्धादर-
प्रौढोदारपरप्रबन्धरचनापाण्डित्यनाडिंधमम् ।
अस्तु प्रस्तुतदुर्घटस्वमहिमस्तोत्रस्य मे त्रस्यतः
खेदच्छेदकृतादरं भगवतश्चापं रुचा बन्धुरम् ॥ १८ ॥

गौरीतातगिरीशमञ्जुलदरीकेलीधुरीणामरी-
वीणोरीकृतवैखरीमधुझरीपारीणरीतिक्रमम् ।
मारीचारिधनुः सरीसृपपुरीनारीजनैरीडितं
सारीकृत्य सरीसरीतु हृदि मे भूरीर्वचोमञ्जरीः ।। १९ ।।
चित्रस्वीयचरित्रचिन्तनसुधाकृष्टाय तुष्टूषवे
मह्यं स्निह्यतु दातुमुक्तिमवनीपुत्रीशमित्रं धनुः ।
श्लाघान्दोलितचन्द्रचूडमकुटीविभ्राम्यदभ्रापगा-
पाथःपातगृहीतगर्वगिरिजानेत्रान्तपात्रीकृताम् ॥ २० ॥
पापार्थस्मरणेन जातु जनितं पापं कृपापक्ष्मलो
गौरीकान्तशरासनान्तकधनुर्दूरीकरोतु [द्रुतम्] ।
नैवं चेत्कथमेष भीषणदवज्वालाकरालाटवी-
विक्राम्यद्भवचक्रनिग्रहविधौ प्रागल्भ्यमभ्येतु मे ॥ २१ ॥
शस्त्राचार्यभुजंगभूषणधनुर्भङ्गप्रसङ्गश्रव-
प्रादुर्भूतरुषः कराद्भृगुपतेर्यद्गृह्णति प्रेयसि ।
ईर्ष्यारोषकषायिता दरदलत्कह्लारगर्भश्रियो
जानक्या निहिता दृशो हृदि वयं तत्कार्मुकं कुर्महे ॥ २२ ॥
सङ्घीभूय कुतूहलेन गगने स्थित्वा मुहुः पश्यतां
संतानद्रुमपुष्पवृष्टय इव स्वर्गौकसां दृष्टयः ।
यत्र क्षत्रियकण्ठलाविपरशोर्वीरादुपात्तेऽपत-
न्कुर्यामुत्तरकोसलेन्द्रधनुषे तस्मै प्रणामाञ्जलिम् ॥ २३ ॥
हेलाकालमुहुर्गृहीतकमलाचेलान्तदृश्यस्तन-
श्रीखण्डद्रवमुद्रिताच्युतकरस्पर्शस्फुरत्सौरभम् ।
शश्वद्दुप्प्रतिलम्भसंभवमनःशर्मण्यधर्मे मम
प्रावण्यं प्रणुदेद्विदेहतनयाप्राणेशबाणासनम् ॥ २४ ।।
त्रासोद्भ्रान्तशकुन्तसंततिजवव्याधूतचूताटवी-
शाखाशेखरमञ्जरीपरिगलन्माध्वीनिषिक्ताध्वनि ।

गोदावर्युपकण्ठसीम्नि कुहनागोकर्णहत्त्यै गुणं
यस्यारीरणदीश्वरो रघुभुवां तद्धन्व मन्ये गतिम् ॥ २५ ॥
पश्चात्पश्यति बाणपातचकिते शश्वन्निवृत्त्याननं
विद्राणे कुहनामृगे विकिरितुं बाणो यदारोपितः ।
देवेन श्रवणान्तकृष्टकपिलज्यावल्लि तत्कार्मुकं
केकागर्भितकण्ठकाननशिखिप्रेक्षापदं पातु नः ॥ २६ ।।
वेगभ्रंशितवृक्षनीडविहगव्यागीर्णविद्रावित-
क्रीडद्रोहितपङ्क्ति दर्भकवलव्यावृत्तमत्तद्विपम् ।
द्रागुत्थापितसुप्तकेसरि जनस्थाने खरायोधने
ज्याघोषं जहति प्रभोर्धनुषि मे चेतो मुहुर्धावति ॥ २७ ॥
वीर्योत्सिक्तखरप्रयुक्तसमरप्रक्रान्तचक्रभ्रमी-
चञ्चत्काञ्चनपञ्जरोदरचरश्रीरामकीरार्भके ।
धावत्येव मनो विनोदरसिकं दिक्षु प्रविक्षिप्तया
विष्वग्घट्टितहेमपट्टकपिशे चापे रुचा पेशले ॥ २८ ।।
त्रासोल्लासविलोललोचननदीपर्यन्तनिर्यन्मृगी-
घासग्रासनिरासशासनगिरा ज्यागर्जितेनोर्जिते ।
कीशाधीशविनाशसाशयशरव्यामोक्षभीमोद्यमे
श्रीमद्रामशरासने सरति मे भद्राय भद्रा मतिः ।। २९ ॥
तद्दिग्भागनिविष्टदृष्टिमचिरव्यापन्नदोर्विक्रमं
चेतःस्फीतभयप्ररोहमुदितप्रत्यङ्गरोमोद्गमम् ।
उद्यद्गद्गदकण्ठनादमुरसि द्राङ्न्यस्ततीक्ष्णाशुगं
कुर्वद्वालिनमाहवे भगवता कृष्टज्यमीडे धनुः ॥ ३० ॥
चञ्चच्चामरदामरश्मिहसितैर्व्याप्तोदरौदन्वत-
त्वङ्गत्तुङ्गतरङ्गगर्वगरिमप्रध्वंससंसूचनम् ।
कोदण्डं कलिखण्डनाय कलये रामस्य भीमस्य त-
त्क्षिप्तोद्दीप्तशराग्रजाग्रदनलज्वालाकरालाम्बरम् ॥ ३१ ॥

यन्मौर्व्यामिपुमोचनाय जलधावास्फालितायां प्रभो-
रङ्गुल्या चिरकालविस्मृतमहीकन्याकुचस्पर्शया ।
टङ्कारो निरुणद्धि कर्णविवराण्यन्यानि दिग्दन्तिनां
शुण्डादण्डमुखेन गाढपिहितात्तन्मे शरण्यं धनुः ।। ३२ ॥
वेलाशैलगुहाविहारिवनकर्यादानमोदाकुल-
क्रामद्भीमविलासकेसरिमुखव्याकर्षणैकक्षमम् ।
तारज्यारवमुद्वमद्रचयितुं भव्यं शरव्यं पयो-
राशिं मे शिवलम्भकं भवतु तद्देवस्य तावद्धनुः ॥ ३३ ॥
कालीयानकरालकण्ठनिनदन्यक्कारलीलासख-
ज्याकर्षस्तनितात्तगन्धचकितक्रन्दद्दिशादन्तिनि ।
गर्जन्निर्झरिणीशतर्जनदशानिर्यच्छरे धीरियं
सीताकान्तकरान्तकेलिसदने काण्डासने खेलति ॥ ३४ ॥
पारावारतटीकुटीरविटपिस्त्यायत्कुलायस्थित-
श्येनोड्डीनविधानकेलिरसिकज्याघोषणाघोरया ।
वारिप्रेरितसायकायतशिखाचक्रत्रुटन्नक्रया
भास्वद्वंशवतंसचापलतया नूनं मनो नन्दति ॥ ३५ ॥
वन्दे कार्मुकमीशकार्मुकभिदो वीरस्य यस्मिन्रुषा
कल्पान्तानलकल्पमब्धिहतये बाणाग्निमुन्मुञ्चति ।
कन्थादाहधिया करेण ममृशे चूडानदी शंभुना
पीठप्लोषविशङ्किना च विधिना स्पृष्टा पयः कुण्डिका ॥ ३६ ॥
ज्यामौखर्यविदार्यमाणनदराट्पर्यन्तगिर्यन्तरं
स्थैर्यौदार्यनिवार्यमेरुमदमत्यैश्चर्यकार्यर्थिनाम् ।
पर्यन्तार्णववार्यजीर्यदिषुचर्याश्चर्यधुर्ये नम-
स्कुर्यामर्यमवंशजार्यकरयोः पर्यायधार्ये धनुः ॥ ३७ ॥
ज्याविद्धेषुसमिद्धपावकशिखासंनद्धगाढोद्धत-
क्रीडद्वाडवपीडनाचटचटाकुर्वाणसर्वाण्डजात् ।

अब्धेर्लब्धतरङ्गमङ्गलमृदङ्गारावधारावता-
त्सीतावल्लभचापवल्लिरुदयल्लीलामतल्लीसखी ॥ ३८ ॥
मौर्वीविद्धशराग्निदग्धकमठीपाठीनगाढोल्लुठ-
त्कल्लोलोद्भटपूरपूरणरणत्पर्यन्तगिर्यन्तरे ।
अप्राप्तप्रतिबिम्बडम्बरवपुःसिन्धौ कबन्धद्विषः
कोदण्डं गुणमण्डितं मम शुचः स्यात्खण्डने पण्डितम् ॥३९॥
ज्याविक्षिप्तपृषत्कवल्गदनलक्काथोद्भवद्बुद्बुद-
क्षारक्षीरधिपाचिताचिततिमिक्रव्यग्रहव्यग्रया ।
त्रासत्यक्तनिवासमब्धिजठराद्दूरे वधूरेखया
साकं कैकसलोकमाकलितवद्देवस्य सेवे धनुः ॥ ४० ॥
लङ्कातङ्कविशङ्किशंकरगिरिप्रक्षोभिरक्षोऽभितो-
निक्षिप्ताप्तनिशाटपाटनपटुस्फोटप्लवङ्गच्छटे ।
विष्वग्विष्वणदिष्वरिष्ववतरज्जन्ये रजन्येधिते
मन्ये धन्व शमन्ययाय(?) हृदये मान्यस्य धन्विप्रभोः॥ ४१ ॥
नन्दन्निर्जरवृन्दमुक्तकुसुमैः सुग्रीवविग्रीकृत-
प्रक्रान्ताहवकुम्भकर्णदुरवापामन्दगन्धग्रहैः ।
सामोदं मनसा मनूद्वहधनुर्ज्याटंक्रियान्धोरग-
द्वन्द्वान्योन्यदुरीक्षकेलिविरसाधोलोकमालोकये ॥ ४२ ॥
सक्रोधप्लवगाग्रणीनखरदश्रेणीनिकृत्तश्रवो-
नासत्रासदकुम्भकर्णवदनव्यालोककालोचितम् ।
कर्तुं योऽक्षिसहस्रमीलनमलं नासीत्तदा सीदत-
स्तस्येन्द्रस्य मनोरथप्रदशरं चापं प्रभोश्चिन्तये ॥ ४३ ।।
हेषामश्वगणस्य बृंहितमिभव्यूहस्य चक्रक्रम-
क्रेकारं रथमण्डलस्य समरे क्ष्वेलां भटानामपि ।
भेरीभांकृतिमायुधव्यतिकरध्वानं पृथङ्मागध-
स्तोत्रोद्धोषमपि ज्यया परिभवद्देवस्य वन्दे धनुः ॥ ४४ ॥

एकं देहभृतामुभे हुतनुजस्त्रीण्यामयानां प्रभो-
श्चत्वारि द्रुहिणस्य पञ्च विषमापाङ्गस्य षट् शाङ्करेः ।
सप्त त्रीणि च रावणस्य फणिनां पत्युः सहस्रं तुद-
ज्ज्यानादेन शिरांसि संयति धनुर्यातुद्रुहः पातु नः ॥ ४५ ॥
शाक्रं स्मारय चाण्डिकं विकलय ब्राह्मं समुत्सारय
स्कान्दं तर्जय यानमित्यधिरणं यत्क्रीडति ज्यास्वनैः ।
तूर्णे विस्मितसिद्धचारणगणप्रस्तूयमानस्तव-
व्याप्ताशेषदिशे नमोऽस्तु धनुषे सप्ताश्ववंशप्रभोः ।। ४६ ।।
नश्यन्निद्रमहापुमांसि नटनक्रीडाचलक्रौञ्चभि-
द्वाहाञ्चत्तनुरूंहि सुम्भदमनायानाहितक्रुन्धि च ।
सीदत्कुम्भिककुम्भि सिद्धपरिरम्भारम्भियोषिन्ति खे
कुर्वाणं गुणटंकृतानि समरे कोदण्डमीडे विभोः ॥ ४७ ॥
यन्मौर्वीनिनदे निरुन्धति युधि द्यावापृथिव्यन्तरं
दृग्भिर्द्वादशभिर्विलोक्य शिखिनो यानस्य नृत्तं पुनः ।
पड्भिः स्तौति गुहो मुखैः प्रियतमापर्यायपीताधरैः
सीतान्तःपुरधन्व तन्मृडजटाशीतांशुवक्रं भजे ॥ १८ ॥
स्वं पाशाङ्कुशदन्तमोदकधृतौ दोष्णां चतुष्कं दिश-
न्हेरम्बो निजवल्लभामभिमृशन्काञ्चीपदे शुण्डया ।
कर्णौ च्छादयितुं विषीदति चिराद्दोरन्तरासंभवा-
द्यज्ज्याघोषविजृम्भणे युधि धनुस्तद्राघवीयं भजे ।। ४९ ।।
यद्धोषप्रथमप्रबोधितरमाप्राणेशवामेक्षण-
च्छायामीलितनाभिपङ्कजकुटीगर्भस्थितोऽप्यब्जभूः ।
कर्णैरष्टभिरात्मनोऽप्यकलितामेवाध्यगीष्ट त्रयीं
नद्धं तेन गुणेन राघवधनुर्विद्येत हृद्येव नः ॥ ५० ।।
कल्पापायवितर्ककर्कशहरव्यामुक्तभीमध्वनिं
व्यामृष्टान्तरविन्ध्यकन्दरशिलाविष्टब्धदुष्टद्विपम् ।

ज्याघोषक्षणमक्षिपत्किल विधिर्यस्य त्रसद्भारती-
जिह्वात्यागगृहीतकण्ठवसतिस्तद्रामचापं भजे ॥ ११ ॥
कल्पान्तक्षणबद्धकौतुककरप्रस्फालितोरूत्पत-
द्भर्गोन्मुक्तमहाट्टहासपरुषज्याघोषविप्रो' 1
शार्ङ्गभृतः सुखेन वहता लघ्वीभवन्तीं तनुं
चक्रीन्द्रेण कृतस्तवं युधि विभोश्चापं शरण्यं मम ॥ ५२ ॥
संवर्तव्यतिषङ्गभङ्गुरकृपभ्रूभङ्गगङ्गाधर-
क्ष्वेडाचण्डिमगर्वखण्डननिजज्यानाददीनात्मनि ।
व्यालेन्द्रस्य दृशां सहस्रयुगले पातालवास्तव्यया
प्रस्ताव्यस्तवविस्तरं जनतया नाथस्य चापं भजे ।। ५३ ।।
काकुत्स्थस्य धनुस्तदेव कलये गर्जासृजा यज्ज्यया
बाधिर्ये भुवनत्रयस्य जनिते का मेऽस्तु का मेऽस्त्विति ।
बाणोत्खण्डितयातुवीरसुरवाग्गुम्भेन मामेहि मा-
मेहीत्यप्सरसां वचांसि च समं कुण्ठीभवन्ति द्यवि ।। ५४ ॥
अव्यादव्ययदीव्यदाशुगजवव्याधूतदिव्यापगा-
नव्याब्जव्यवसृप्तभव्यमधुपव्याजाभ्रसेव्याम्बरम् ।
क्रव्यादव्यथनोत्थनाव्यरुधिरव्याप्ताजि केव्युक्तिभि-
र्व्यङ्क्तव्यश्र्यपसव्यसव्यभगवत्पाणिव्यवस्थं धनुः ।। ५५ ।।
दुर्लङ्घाशरसङ्घसङ्गरपरिक्रामद्धनूमल्लल-
ल्लाङ्गूलाग्रनियन्त्रितप्रतिभटक्रव्यादरोदध्वनिः ।
यज्ज्यागर्जितपूर्णकर्णविवरैर्नामानि वैमानिकैः
शर्मार्थे नमिकर्म धार्मिकविभोस्तत्कुर्महे कार्मुकम् ॥ ५६ ।।
खड्गान्पातयतः शरान्विकिरतः शक्तीस्तनौ मुञ्चतः
पद्भ्यां मृद्गति मुष्टिना घ्नति तलेनाविध्यति द्वेषिणः ।
उत्साहं जनयत्प्रभञ्जनसुते तत्साधु भूयो रणे
ज्यानादै रघुनाथकार्मुकवरं शर्माणि निर्मातु नः ॥ १७ ॥

एकद्वान्वपुषा दृशा त्रिचतुरान्पादाहतैः पञ्चषा-
न्सप्ताष्टान्करताडनैर्नवदशाञ्जानुप्रहारैररीन् ।
युद्धे द्रावयता कृतं हनुमता चण्डाट्टहासध्वनिं
ज्यानादेन विवर्धयद्रघुपतेश्चापं भजे संपदे ॥ ५८ ॥
आढ्यंभावुकमर्चिषा सरभसान्धंभावुकारातिना
स्थूलंभावुकहर्षवानरचमूदृष्टिप्रियंभावुकम् ।
तत्पायाद्धनुरुत्पतिष्णुविशिखं वर्धिष्णुघण्टारवं
रोचिष्णुज्यमलंकरिष्णु समरं वर्तिष्णु हस्ते विभोः ॥ ५९॥
कालीकेलिकरालमांसलरणक्ष्माधूलिपालीजल-
क्ष्वेलापेतवलीमुखालिकवलीकालिव्यलीकच्छिदम् ।
खेलन्तं गलदर्यरालकुरलाधारालदृक्कज्जलं
कालव्यालकुलीनकालियनिभं चापं विभोः शीलये ॥ ६ ॥
द्रानिश्चूषितरक्तबीजरुधिरप्राग्भारधारामिल-
च्चामुण्डामुखमण्डलोदरचलज्जिह्वालताह्वायिना ।
विद्धारिव्रजबिस्रविस्रवदसुग्व्याप्तेन दीप्तौजसा
चापः साभरणः शरेण स रणे पायादपायात्प्रभोः ॥ ६१ ॥
यत्क्षिप्तैरिषुभिर्गृहीतशिरसामायोधने रक्षसां
सद्यः स्वर्गमुपेयुषां सुरवधूतुङ्गस्तनालिङ्गिनाम् ।
वाग्भिर्मन्मथकेलिगद्गदगिरां प्राचीनवैरत्यजां
प्रक्रान्तस्तुति मे चकास्तु हृदये तद्राघवीयं धनुः ।। ६२ ।।
स्वर्गस्त्रीग्रहणाद्भयं विदधिरे ये यातुधानाः पुरा
तैरेव स्वविमुक्तबाणदलितग्रीवैर्दिवं प्रापितैः ।
स्वैरं हारयदप्यमर्त्ययुवतीरेषा ममैषा ममे-
त्यारब्धस्तुति हृष्यता वलजिता तद्रामचापं भजे ॥ ६ ॥
रोषश्लेषखराक्षराक्षसचमूपादातदातद्रुत-
क्रोशत्कीशभयापयानपरमज्याघोषघोषद्दिशम् ।

चापं तापनिविष्टविष्टपमनःशोकान्तकान्तक्रियं
रक्षत्वक्षकुमारमारणमहादूतस्य धन्विप्रभोः ॥ ६४ ॥
नाराचक्षतयातुवीरवरणव्यापारिपौरंदर-
स्थानस्त्रीजननिस्तलस्तनतटीपाटीररेणूत्करैः ।
भ्रश्यद्भिः शिशिरांशुरश्मिभिरिव स्फारभ्रमीवारितै-
रप्राप्ताटनि ताटकारिपुधनुः पापानि मे पाटयेत् ।। ६५ ॥
भक्षालम्पटकङ्कसङ्घचटुलत्रोटीविघट्टत्रुट-
द्रक्षःकोटिकरोटिकोटिरटितप्रोद्धाटितक्रूरते ।
युद्धे विद्धपतद्धयद्विपतनूविस्रंसिविस्रामिषा-
कृष्टक्रोष्टुनि विष्टपत्रयपतेः क्रीडत्तदीडे धनुः ।। ६६ ॥
घण्टाचण्डनिनादमण्डितनिजज्यानादनानादल-
व्योम्नः स्थेमविधायकायतकुशीनीकाशनैकाशुगम् ।
चापं तापविलोपदायि भजतां ध्यायामि मायामृग-
प्राणप्रीणितबाणरिङ्खणगुणालंकारि लङ्कारिपोः ॥ ६७ ।।
हस्ते दाशरथेर्दिशो गुणरवैर्भक्ताय भद्रं द्विषा-
माटोपं मरुतां भयं हरिचमूं जेतुं रणे वैरिणः ।
भाति प्राति ददाति दाति हरति प्रीणाति जानाति य-
त्तद्वाञ्छामि च पूजयामि च धनुर्ध्यायामि च स्तौमि च॥६८॥
चक्षुर्लक्षितलोकरक्षि तरुणक्षीबामरैणेक्षणा-
द्राक्षेक्षुद्रवमाक्षिकाक्षिपवचः संधुक्ष्यमाणस्तवम् ।
अक्षीणाक्षमराक्षसक्षयविधारूक्षेषुविक्षेपणं
स्यादैक्ष्वाकऋभुक्षपक्ष्यमशुभक्षोदैकदक्षं धनुः ॥ ६९ ॥
अक्षुभ्यन्मरुदक्षिवीक्षितरणक्षीवर्क्षकीशाक्षय-
क्ष्वेडाधुक्षणदक्षिणक्रियमृभुक्ष्यस्त्रेण भिक्ष्योपमम् ।
रक्षस्तत्क्षणशिक्षणक्षमशरक्षेपक्षरज्ज्यास्वन-
क्षुण्णक्षेमफणीन्द्रचक्षुरवतादैक्ष्वाकपक्ष्यं धनुः ॥ ७० ॥

कान्त्या क्षेपयतीन्द्रकार्मुकमदं मन्दांश्च सेनाहरी-
उज्याघोषेण दुरासदं प्रथयति स्वं रक्षसां च व्यथाम् ।
बाणं प्रापयति द्विषो यदपि तान्स्वर्वारवामभ्रुवां
संग्रामे तदुमेशचापमथितुश्चापं शुभायास्तु नः ॥ ७१ ।।
वन्दे मन्दरशैलकन्दरकुटीवास्तव्यजायापति-
श्रद्धाभक्तिकृताभिधाजपविधेरीशस्य शस्यं धनुः ।
यज्ज्यारावभरावकर्णनदशासातङ्कलङ्कावधू-
गर्भस्रावहृतास्रवासववधूवन्दीपुरन्ध्रीनुतम् ॥ ७२ ।।
तन्वानन्तरशिञ्जिनीरवकिरा शक्रायुधस्य भ्रमं
तन्वानं दिवि देवदानवततेरालोकयन्त्या रणम् ।
मन्वानं शरणार्थिनामभिमतं यच्छेयमित्यन्वहं
मन्वानन्त्यवदन्वयोदधिमणेरन्वेमि धन्वेशितुः ॥ ७३ ।।
पाणिच्छादितकर्णपत्ति भयभृत्सूतावसीदद्रथं
दूरभ्रान्ततुरङ्गमङ्कुशशिखादुर्वारवेगद्विपम् ।
लङ्कानाथवरूथिनीं विकलयत्तारेण घोरेण च
ज्यानादेन रणे धनुर्भगवतो जागर्तु भद्राय नः ॥ ७४ ॥
सक्रोधं दशकन्धरेण सभयं रक्षोभटानां गणैः
साश्चर्ये कपिसैनिकैः सकुतुकं गन्धर्वविद्याधरैः ।
सश्लाघं च विभीषणेन सजयाशंसं च सौमित्रिणा
दृष्टं शक्रसुतद्विषा युधि धनुर्विष्फार्यमाणं भजे ।। ७५ ।।
कालीयप्रतिवंशविंशतिभुजालंकारलङ्कापुरी-
नाथकोधनिरोधसाधनकलाधौरेयधीरध्वनिः ।
जीवा यस्य वयस्यतामुपगतैवायस्यतो रक्षसां
शिक्षायै कलुषक्षयाय भवतात्तद्रामचापं मम ।। ७६ ।।

युद्धे यद्गुणघोषणानिशमनप्रोन्मीलदीर्ष्यामिथः-
श्लिष्यद्दन्तपरम्पराकटकटाकारातिघोरैर्मुखैः ।
पौलस्त्ये दशभिः प्रदर्शितवति क्रोधं वरो धन्विनां
श्लाव्यस्यामुमुदे रिपोरुपगमात्तच्चापमर्च्ये मम ॥ ७७ ॥
प्रत्यग्रप्रणयापराधसमयानानन्दमन्दोदरी-
पादाम्भोरुहताडनैरपि सुखाकुर्वद्भिरप्रस्तुतान् ।
कुर्वद्गर्वितराक्षसेश्वरशिरःस्तोमान्निरस्तोपमा-
ञ्ज्यावल्लिस्तनितेन राघवधनुर्धूनोतु दैन्यं मम ।। ७८ ।।
मा युद्धे प्रवृतो मदुज्झितशरैर्मा तेऽसवो विस्रस-
न्मा रुद्रं हृदि विस्रभः शरणितं मा ते रुचज्जाल्मता ।
इत्याहेव दशास्यमाहवमहीवास्तव्यमस्तव्यय-
ज्यानादेन यदानयेदभिमतं तद्रामभद्रायुधम् ॥ ७९ ॥
स्यादैक्स्वाकसमीकविभ्रमसखं चापं मम श्रेयसे
यस्य ज्यानिनदस्तनूकृतदशग्रीवाट्टहासो रणे ।
लङ्कोद्याननिरुद्धमुग्धवसुधाकन्याकपोलस्थली-
रोमाञ्चव्यतिषङ्गमङ्गलसमारम्भैकभेरीरवः ॥ ८० ॥
कुप्यन्मातलिनुन्नवाहनवहत्संक्रन्दनस्यन्दना-
क्रामच्चक्रसमुत्थभूमिरजसामोघेन मोघा दृशः ।
विभ्राणस्य दशाननस्य वधिरीभावं श्रवोविंशतौ
कुर्वज्ज्यारसितेन कोसलपतेः कोदण्डमीडे रणे ॥ ८१ ॥
कल्पान्तोद्भटचण्डमारुतजवप्राग्भारसंघट्टन-
क्षुभ्यन्नीरदगर्भनिर्भरमिलन्निर्घोषघोरश्रुतिम् ।
ज्यानादं निशमय्य यस्य विवशश्चक्राम मन्दोदरी-
कान्तः शान्तमदो मृधे स जगतां नेतुर्धनुः पातु नः ॥ २ ॥
वैरिक्षारितशक्रविक्रमकथानीशानदाशानन-
श्लाघालाघवखिन्नकिन्नरवधूहर्षप्रकर्षप्रदम् ।

घोरज्यारसितेन मानवपतेः कुर्वे धनुर्वेधसा
गेयं सायकभूषमेष मनसि क्षेमाय भीमायतम् ॥ ८३ ॥
लङ्कानाथनिमाथनाथनविधापर्यायपर्यापत-
द्गीर्वाणीमुखवाद्यवाद्यपटुतादुर्वारमौर्वीरवम् ।
वक्रप्रक्रमदुष्टदिष्टदमनं शक्रायुधप्रक्रिया-
निष्णातं रघुमल्लवल्लभधनुर्मुष्णातु तृष्णां मम ॥ ८४ ॥
मौर्वीकर्पणमण्डलीकृतिवशादुर्वीकुमारीपतेः
प्राप्तायाम्बररत्नबिम्बतुलनां सङ्ग्रमरङ्गाङ्गणे ।
दुर्दान्ताशरनाथदुर्दमभुजावीर्याम्बुसंशोषणीं
नाराचद्युतिमञ्जरीं विकिरते चापाय तस्मै नमः ॥ ८५ ॥
चेतश्चातकपोतकल्पचलितानल्पामरालोकित-
श्रीमद्रामशरीरनीरदशचीनाथायुधे धन्वनि ।
पङ्तिस्कन्धशरप्रबन्धदलनाधौरंधरीबन्धुर
ज्याविद्धेषुविमर्ददुर्दिनहरिच्चक्रे मम क्रीडति ॥ ८६ ॥
दृप्यद्राक्षसराजविंशतिभुजीराजीवनालावली-
लावार्धेन्दुमुखेपुमोचनविधिव्याकृष्टमौर्वीरवे ।
रन्ध्रं रुन्धति खस्य भिन्दति भृशं कुम्भांश्च दिक्कुम्भिनां
तुष्टास्तुष्टुविरे पुरायममरास्तं नौमि चापं विभोः ॥ ८७ ॥
चण्डीनाथवलीकृतानि चटुलभ्रूवल्लरीकिंकरी-
भूतामर्त्यकुलानि मृत्युविमुखीकाराट्टहासानि च ।
नाराचेन निराचिकीर्षु समरे शीर्षाणि लङ्कापते-
र्मारीचारिकराब्जचारि महता भावेन सेवे धनुः ॥ ८८ ॥
कल्पान्तोद्भटकालरुद्रवदनव्यादानकेलिस्फुर-
द्दंष्ट्राविक्रमगौरवक्रमगलग्राही जिताहीनिषून् ।
मुञ्चन्पञ्चशरार्तिकीर्तितपरस्त्रीनामनानामुखे
पौलस्त्ये रघुवीरहस्ततुलितश्चापोऽस्तु नस्त्राणदः ॥ ८९ ॥

यज्ज्यावल्लिविमुक्तशंकरजटाचन्द्राभवक्त्राशुग-
च्छिन्नभ्रंशितपङ्क्तिकन्धरशिरोमुण्डावलीताण्डवे ।
वेतालाः करतालयन्ति विविधं गायन्ति गोमायवः
पश्यन्ति त्रिदशाश्च कश्चन विभोश्चाप: स मे पालकः ।।९० ॥
पौनःपुन्यविलूनपातितनटत्पौलस्त्यदोर्मस्तक-
श्रेणीदर्शनभीतसिद्धवनिताप्रोन्मुक्तसंदर्शनम् ।
दूरद्रावितरौद्रराक्षसचमूनाथश्रवोदुःश्रव-
ज्यानादं जगदीशचापमगदीकर्तुं प्रवर्तेत नः ॥ ९१ ।।
दंष्ट्राभ्रूकुटिभीमवक्त्रदशकक्रोधाट्टहासप्रभा-
निष्पिष्टस्मयहारयष्टिनि दशग्रीवस्य बाह्वन्तरे ।
विस्रम्भानुपलम्भकं स्वनुदधज्जम्भारिकौतूहलं
नाराचान्निखनद्रणे रघुपतेराराधयामो धनुः ।। ९२ ।।
मुष्टीमुष्टि तलातलि प्रचलितं कव्यावशाखामृग-
व्यूहस्याहवमैहलौकिककथाप्रस्तारविस्तारकम् ।
दृष्ट्वा कष्टमिति त्रिविष्टपजने शंसत्यरं साधयं-
स्तत्कामं शरकृत्तरावणवपुश्चापो विभोर्मे गतिः ।। ९३ ॥
शश्वन्नश्वरजीवितेश्वरमुखश्रीदृश्वविश्वामरी-,
निश्वासश्वसनश्वयद्भुजमहो वैश्वानराश्वेडितम् ।
पूर्वं दुर्वहशर्वपर्वतभृतो निर्वाप्य गर्वं द्विषः
कुर्वत्सर्वसुपर्वनिर्वृतिमवेदौर्वीसुतेशं धनुः ।। ९४ ॥
पौलस्त्योपरमे परस्परबलग्राहावहेलाग्रह-
व्यग्रोद्ग्रवलीमुखावलिमुखव्यालोलकोलाहले ।
भूकन्याकमनैकपाणिनलिनन्यासेन धन्याटनि-
श्वापस्तम्भितशंभुकङ्कणनिभः शर्माणि निर्मातु नः ॥ ९५ ॥
सिद्धस्त्रीमुखबद्धहासचपलत्वङ्गत्प्लवङ्गच्छटा-
वक्त्रानुक्रियमाणकौणपतरुण्याक्रन्दितप्रक्रमे ।

युद्धान्ते धनुरिद्धमुद्धतदशग्रीवोन्तवान्ताशर-
स्थैर्ये हृन्मम रामभद्रकरभृत्कोटीकमाटीकते ॥ ९६ ॥
गृह्णद्रामकरारविन्दनखरश्रीपुञ्जमिश्रान्तरा-
मश्रान्तं परिचिन्तये हृदि धनुर्वल्लीं रुजाशान्तये ।
लङ्कानाथनिपातजातकुतुकव्योमाङ्कसङ्घीभव-
द्गीर्वाणीरमणीयगीतिसरणीनिष्पन्नपुष्पामिव ॥ ९७ ॥
माद्यद्यातु विभिद्य यधुधि शरैरामोद्य विद्याधरी-
स्तद्वक्रोद्यतगद्यपद्यनुतिभिः सद्योऽभवद्योजितम् ।
धन्व द्योमणिवंशनद्यधिपतिप्रद्योतिशीतद्युते-
र्देवाद्यस्य तदद्य हृद्यनुपमां विद्यां प्रदद्यान्मम ॥९८ ॥
बाणाशीविषशीर्णशीकरदशीभूताम्बुराशीडितं
जन्यं शीतलशीलशालिरधुभूशीतांशुशीघ्रोद्यतम् ।
वाताशीशवशीकृतश्रि दशशीर्षाशीःऋशीयस्त्वकृ-
त्क्रव्याशीकुलशीधुशीलनहरं चिन्वीत चापं वचः ॥ ९९ ॥
चञ्चत्कुण्डलगण्डकाण्डरुहभूवाङ्मण्डलीवर्णितं
तद्ब्रह्माण्डकरण्डखण्डनगुणोच्चण्डस्वनालंकृतम् ।
चण्डीशानशिखण्डखण्डशशभृत्पाण्डित्यवैतण्डिकं
मार्ताण्डान्वयमण्डनस्य हृदि मे कोदण्डमाहिण्ड्यते ॥१०॥
बाणः श्रीरमणो गुणः फणिपतिर्लक्ष्यं पुराणां त्रयं
वोढा धूर्जटिरेव यस्य बिसवत्तद्येन लूनं धनुः ।
तेन श्रीरघुवीरबाहुयुगलेनारोपणीयं रणे
यत्कृच्छ्राद्भवति श्रियं दिशतु मे तच्चापमुच्चावचाम् ।। १०१ ।।
ये स्निह्यन्ति तपस्विनः कथमपि प्रत्याहृतैर्मानसै-
र्ये वैते विषयानुरक्तमनसो द्रुह्यन्ति नक्तंचराः ।
यल्लीलाव्यपनीयमानतमसः स्वर्यान्ति तेऽपि द्वये
तत्पुण्यं शरणीकरोमि धेरणीकन्यापरिण्यो धनुः ।। १०२ ॥

पुष्यत्तक्षकभोगविभ्रमजुषां येषामभूत्कन्दुक-
क्रीडाकौतुकहेतुरद्रिरभवच्च(तुलश्च)न्द्रार्धचूडामणेः ।
मौर्व्यै दुर्विनमं दशाननभुजैस्तैरेव शैवं धनु-
र्भङ्क्तुर्धन्व विभोः शरण्यमुररीकुर्यामुपर्यायुषे ॥ १०३ ॥
कण्ठं रुन्धति भैषजेन महतामच्छिद्यमाने कफे
मार्गालाभपरिप्लवेन मरुतां संधौ तनोस्त्रुट्यति ।
तामुल्लिख्य दशां विषादविवशं चेतः सुखावाप्तये
' चापे दाशरथेर्विषण्णजगतां बन्धाविदं धावति ॥ १०४ ॥
यावत्पावकपुञ्जपिञ्जरदृशो हस्तव्युदस्तायुधा
रुन्धि च्छिन्धि जहीति भीतिदगिरो नृत्यन्ति मृत्योर्भटाः ।
तावद्धावतु चित्तमुत्तमगुणाकल्पे ममाल्पेतर-
क्षेमस्थेमकरे शरासनवरे रामस्य नाम स्वयम् ॥ १०५ ॥
यावद्भीषणवेषकालमहिषग्रीवासमालम्बिनी
घण्टा चण्डमुदञ्चयत्यनुपदं नादं जवादम्बरे ।
तावद्धावितदूतपातचकितव्यावृत्तकीनाशया
मौर्वीटंक्रियया भयं शमयतामौर्वीसुतेशं धनुः ॥ १०६ ॥
एषा दक्षिणतो दिगस्तु महतो यस्यां पथो नावधिः
पान्थास्तत्र चरन्तु येषु भयदा भ्राम्यन्ति याम्या भटाः ।
तेभ्यः पातकिनां व्यथा भवतु या शक्या न सोढुं नृणां
का भीतिर्मम यस्य शर्मणि धनुर्जागर्ति सीतापतेः ॥ १०७ ॥
यत्तेजस्यति कीर्तिकाम्यति युधि प्रह्वान्कुमारीयति
प्रासादीयति देवहस्तकमले भासेन्द्रचापायते ।
रत्नैः पर्वसु लोहितायति भृतैः शब्दायते च ज्यया
तन्नः पातु नमस्यतो रघुपतेश्चित्रीयमाणं धनुः ॥ १०८ ॥
कल्पत्यर्थिनि कालिकाति रसिते कालाग्नियत्योजसि
स्थैर्ये मेरवति श्रिते पितरति श्रीराघवे यायति ।

यच्चाप्यर्यमणत्यबोधतमसि द्वीपीनति द्विण्मृगे
चापेऽस्मिंस्तपनीयपट्टघटिते कुर्मो नमः कर्मताम् ॥ १०९ ॥
योऽपास्यन्नपि मार्गण [निभिमतं] दत्ते जनायार्थिने
स्वीकुर्वन्नपि वक्रिमाणमधिकं यः सद्गुणालंकृतः ।
यः श्रीमानपि शश्वदीश्वरकरालम्बेन मध्येकृश-
स्तं चापं चलचामराञ्चितशिखं स्तुध्वं खरध्वंसिनः ॥ ११० ॥
पुत्रेणेव शिलीमुखेन ऋजुना सज्जाययेव ज्यया
रज्ज्यन्त्या सुभटैरुपात्तरुचिभिः सौवर्णपट्टैरपि ।
आराध्यस्य रघुप्रवीरधनुषस्त्रैलोक्यरक्षामणेः
प्राचीनेन फलोन्मुखेन तपसा दासा वसामो वयम् ॥ १११ ॥

इति श्रीरामभद्रदीक्षितविरचितो रामचापस्तवः संपूर्णः ।


"https://sa.wikisource.org/w/index.php?title=रामचापस्तवः&oldid=285420" इत्यस्माद् प्रतिप्राप्तम्