प्रमुखा विकल्पसूचिः उद्घाट्यताम्

रामपूर्वतापिन्युपनिषद्सम्पाद्यताम्

रामतापिन्युपनिषत्

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


प्रथमोपनिषद्सम्पाद्यताम्

ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ ।
रघोः कुलेऽखिलं राति राजते यो महीस्थितः ॥ १॥


स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः ।
राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥ २॥


रामनाम भुवि ख्यातमभिरामेण वा पुनः ।
राक्षसान्मर्त्यरूपेण राहुर्मनसिजं यथा ॥ ३॥


प्रभाहीनांस्तथा कृत्वा राज्यार्हाणां महीभृताम् ।
धर्ममार्गं चरित्रेण ज्ञानमार्गं च नामतः ॥ ४॥


तथा ध्यानेन वैराग्यमैश्वर्यं स्वस्य पूजनात् ।
तथा रात्यस्य रामाख्या भुवि स्यादथ तत्त्वतः ॥ ५॥


रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ ६॥


चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥


रूपस्थानां देवतानां पुंस्त्र्यङ्गास्त्रादिकल्पना ।
द्विचत्तत्वारिषडष्टानां दश द्वादश षोडश ॥ ८॥


अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः ।
सहस्रान्तास्तथा तासां वर्णवाहनकल्पना ॥ ९॥


शक्तिसेनाकल्पना च ब्रह्मण्येवं हि पञ्चधा ।
कल्पितस्य शरीरस्य तस्य सेनादिकल्पना ॥ १०॥


ब्रह्मादीनां वाचकोऽयं मन्त्रोऽन्वर्थादिसंज्ञकः ।
जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति ॥ ११॥


क्रियाकर्मेज्यकर्तॄणामर्थं मन्त्रो वदत्यथ ।
मननान्त्राणनान्मन्त्रः सर्ववाच्यस्य वाचकः ॥ १२॥


सोऽभयस्यास्य देवस्य विग्रहो यन्त्रकल्पना ।
विना यन्त्रेण चेत्पूजा देवता न प्रसीदति ॥ १३॥
इति रामपूर्वतापिन्युपनिषदि प्रथमोपनिषत् ॥ १॥


॥द्वितीयोपनिषद्॥सम्पाद्यताम्

स्वर्भूर्ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते ।
जीवत्वेन समो यस्य सृष्टिस्थितिलयस्य च ॥ १॥


कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः ।
यथैव वटबीजस्थः प्राकृतश्च महान्द्रुमः ॥ २॥


तथैव रामबीजस्थं जगदेतच्चराचरम् ।
रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र एव चेति ॥ ३॥
इति रामतापिन्युओअनिषदि द्वितीयोपनिषत् ॥ २॥


॥तृतीयोपनिषद्॥सम्पाद्यताम्

सीतारामौ तन्मयावत्र पूज्यौ जातान्याभ्यां भुवनानि द्विसप्त ।
स्थितानि च प्रहितान्येव तेष ततो रामो मानवो माययाधात् ॥ १॥


जगत्प्राणायात्मनेऽस्मै नमः स्यान्नमस्त्वैक्यं प्रवदेत्प्राग्गुणेनेति ॥ २॥
इति रामपुर्वतापिन्युपनिष तृतीयोपनिषत् ॥ ३॥


॥चतुर्थोपनिष्द्॥सम्पाद्यताम्

जीववाची नमो नाम चात्मारामेति गीयते ।
तदात्मिका या चतुर्थी तथा मायेति गीयते ॥ १॥


मन्त्रोयं वाचको रामो रामो वाच्यः स्याद्योगएतयोः ।
फलतश्चैव सर्वेषां साधकानां न संशयः ॥ २॥


यथा नामी वाचकेन नाम्ना योऽभिमुखो भवेत् ।
तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् ॥ ३॥


बीजशक्तिं न्यसेद्दक्षवामयोः स्तनयोरपि ।
कीलो मध्ये विना भाव्यः स्ववाञ्च्हाविनियोगवान् ॥ ४॥


सर्वेषामेव मन्त्राणामेष साधारणः क्रमः ।
अत्र रामोऽनन्तरूपस्तेजसा वह्निना समः ॥ ५॥


सत्त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकं जगत् ।
उत्पन्नः सीतया भाति चन्द्रश्चन्द्रिकया यथा ॥ ६॥


प्रकृत्या सहितः श्यामः पीतवासा जटाधरः ।
द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७॥


प्रसन्नवदनो जेता घृष्ट्यष्टकविभूषितः ।
प्रकृत्या परमेश्वर्या जगद्योन्याङ्किताङ्कभृत् ॥ ८॥


हेमाभया द्विभुजया सर्वालङ्कृतया चिता ।
श्लिष्टः कमलधारिण्या पुष्टः कोसलजात्मजः ॥ ९॥


दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः ।
हेमाभेनानुजेनैव तथा कोणत्रयं भवेत् ॥ १०॥


तथैव तस्य मन्त्रस्य यस्याणुश्च स्वङेन्तया ।
एवं त्रिकोणरूपं स्यात्तं देवा ये समाययुः ॥ ११॥


स्तुतिं चक्रुश्च जगतः पतिं कल्पतरौ स्थितम् ।
कामरूपाय रामाय नमो मायामयाय च ॥ १२॥


नमो वेदादिरूपाय ओङ्काराय नमो नमः ।
रमाधराय रामाय श्रीरामायात्ममूर्तये ॥ १३॥


जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्गिने ।
भद्राय रघुवीराय दशास्यान्तकरूपिणे ॥ १४॥


रामभद्र महेश्वास रघुवीर नृपोत्तम ।
भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते ॥ १५॥


त्वमैश्वर्यं दापयाथ संप्रत्याश्वरिमारणम् ।
कुर्विति स्तुत्य देवाद्यास्तेन सार्धं सुखं स्थिताः ॥ १६॥


स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः ।
रामपत्नीं वनस्थां यः स्वनिवृत्त्यर्थमाददे ॥ १७॥


स रावण इति ख्यातो यद्वा रावाच्च रावणः ।
तद्व्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च ॥ १८॥


विचेरतुस्तदा भूमौ देवीं संदृश्य चासुरम् ।
हत्वा कबन्धं शबरीं गत्वा तस्याज्ञया तया ॥ १९॥


पूजितो वायुपुत्रेण भक्तेन च कपीश्वरम् ।
आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ ॥ २०॥


स तु रामे शङ्कितः सन्प्रत्ययार्थं च दुन्दुभेः ।
विग्रहं दर्शयामास यो रामस्तमचिक्षिपत् ॥ २१॥


सप्त सालान्विभिद्याशु मोदते राघवस्तदा ।
तेन हृष्टः कपीन्द्रोऽसौ सरामस्तस्य पत्तनम् ॥ २२॥


जगामागर्जदनुजो वालिनो वेगतो गृहात् ।
तदा वाली निर्जगाम तं वालिनमथाहवे ॥ २३॥


निहत्य राघवो राज्ये सुग्रीवं स्थापयत्ततः ।
हरीनाहूय सुग्रीवस्त्वाह चाशाविदोऽधुना ॥ २४॥


आदाय मैथिलीमद्य ददताश्वाशु गच्च्हत ।
ततस्ततार हनुमानब्धिं लङ्कां समाययौ ॥ २५॥


सीतां दृष्ट्वाऽसुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् ।
आगत्य रामेण सह न्यवेदयत तत्त्वतः ॥ २६॥


तदा रामः क्रोधरूपी तानाहूयाथ वानरान् ।
तैः सार्धमादायास्त्राणि पुरीं लङ्कां समाययौ ॥ २७॥


तां दृष्ट्वा उदधीशेन सार्धं युद्धमकारयत् ।
घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे॥ २८॥


हत्वा बिभीषणं तत्र स्थाप्याथ जनकात्मजाम् ।
आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥ २९॥


ततः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः ।
धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः ॥ ३०॥


मुद्रां ज्ञानमयीं याम्ये वामे तेजप्रकाशिनीम् ।
धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥ ३१॥


उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ ततः ।
हनूमन्तं च श्रोतारमग्रतः स्यात्त्रिकोणगम् ॥ ३२॥


भरताधस्तु सुग्रीवं शत्रुघ्नाधो बिभीषणम् ।
पश्चिमे लक्ष्मणं तस्य धृतच्च्ह्रत्रं सचामरम् ॥ ३३॥


तदधस्तौ तालवृन्तकरौ त्र्यस्रं पुनर्भवेत् ।
एवं षट्कोणमादौ स्वदीर्घाङ्गैरेष संयुतः ॥ ३४॥


द्वितीयं वासुदेवाद्यैराग्नेयादिषु संयुतः ।
तृतीयं वायुसूनुं च सुग्रीवं भरतं तथा ॥ ३५॥


बिभीषणं लक्ष्मणं च अङ्गदं चारिमर्दनम् ।
जाम्बवन्तं च तैर्युक्तस्ततो धृष्टिर्जयन्तकः ॥ ३६॥


विजयश्च सुराष्ट्रश्च राष्ट्रवर्धन एव च ।
अशोको धर्मपालश्च सुमन्त्रश्चैभिरावृतः ॥ ३७॥


ततः सहस्रदृग्वह्निर्धर्मज्ञो वरुणोऽनिलः ।
इन्द्वीशधात्रनन्ताश्च दशभिश्चैभिरावृतः ॥ ३८॥


बहिस्तदायुधैः पूज्यो नीलादिभिरलङ्कृतः ।
वसिष्ठवामदेवादिमुनिभिः समुपासितः ॥ ३९॥


एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना ।
त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् ॥ ४०॥


तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ।
द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा ॥ ४१॥


कुरु द्वयं च तत्पार्श्वे लिखेद्बीजान्तरे रमाम् ।
तत्सर्वं प्रणवाभ्यां च वेष्टयेच्छुद्धबुद्धिमान् ॥ ४२॥


दीर्घभाजि षडस्रे तु लिखेद्बीजं हृदादिभिः ।
कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् ॥ ४३॥


क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्र्यभितो गिरम् ।
वृत्तत्रयं साष्टपत्रं सरोजे विलिखेत्स्वरान् ॥ ४४॥


केसरे चाष्टपत्रे च वर्गाष्टकमथालिखेत् ।
तेषु मालामनोर्वर्णान्विलिखेदूर्मिसंख्यया ॥ ४५॥


अन्ते पञ्चाक्षराण्येवं पुनरष्टदलं लिखेत् ।
तेषु नारायणाष्टार्णांलिख्य तत्केसरे रमाम् ॥ ४६॥


तद्बहिर्द्वादशदलं विलिखेद्द्वादशाक्षरम् ।
अथों नमो भगवते वासुदेवाय इत्ययम् ॥ ४७॥


आदिक्षान्तान्केसरेषु वृत्ताकारेण संलिखेत् ।
तद्बहिः षोडशदलं लिख्य तत्केसरे हृयम् ॥ ४८॥


वर्मास्त्रनतिसंयुक्तं दलेषु द्वादशाक्षरम् ।
तत्सन्धिष्विरजादीनां मन्त्रान्मन्त्री समालिखेत् ॥ ४९॥


ह्रं स्रं भ्रं व्रं लू अं श्रं ज्रं च लिखेत्सम्यक्ततो बहिः ।
द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥ ५०॥


विलिखेन्मन्त्रराजार्णांस्तेषु पत्रेषु यत्नतः ।
ध्यायेदष्टवसूनेकादशरुद्रांश्च तत्र वै ॥ ५१॥


द्वादशेनांश्च धातारं वषट्कारं च तद्बहिः ।
भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् ॥ ५२॥


द्वारोपतं च राश्यादिभूषितं फणिसंयुतम् ।
अनन्तो वासुकिश्चैव तक्षः कर्कोटपद्मकः ॥ ५३॥


महापद्मश्च शङ्खश्च गुलिकोऽष्टौ प्रकीर्तिताः ।
एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥ ५४॥


नारसिंहं च वाराहं लिखेन्मन्त्रद्वयं तथा ।
कूटो रेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥ ५५॥


यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि ।
अन्त्याङ्घ्रीशवियद्बिन्दुनादैर्बीजं च सौकरम् ॥ ५६॥


हुंकारं चात्र रामस्य मालमन्त्रोऽधुनेरितः ।
तारो नतिश्च निद्रायाः स्मृतिर्भेदश्च कामिका ॥ ५७॥


रुद्रेण संयुता वह्निमेधामरविभूषिता ।
दीर्घा क्रूरयुता ह्लादिन्यथो दीर्घसमायुता ॥ ५८॥


क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया ।
युक्ता दीर्घज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी ॥ ५९॥


सप्रतिष्ठा ह्लादिनी त्वक्क्ष्वेलप्रीतिश्च सामरा ।
ज्योतिस्तीक्ष्णाग्निसंयुक्ता श्वेतानुस्वारसंयुता ॥ ६०॥


कामिकापञ्चमूलान्तस्तान्तान्तो थान्त इत्यथ ।
स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ॥ ६१॥


कामिका कामका रुद्रयुक्ताथोऽथ स्थिरातपा ।
तापिनी दीर्घयुक्ता भूरनलोऽनन्तगोऽनिलः ॥ ६२॥


नारायणात्मकः कालः प्राणाम्भो विद्यया युतः ।
पीतारातिस्तथा लान्तो योन्या युक्तस्ततो नतिः ॥ ६३॥


सप्तचत्वारिंशद्वर्णगुणान्तः सगुण: स्वयम् ।
राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् ॥ ६४॥


इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् ।
सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥ ६५॥


अपुत्राणां पुत्रदं च बहुना किमनेन वै ।
प्राप्नुवन्ति क्षणात्सम्यगत्र धर्मादिकानपि ॥ ६६॥


इदं रहस्यं परममीश्वरेणापि दुर्गमम् ।
इदं यन्त्रं समाख्यातं न देयं प्राकृते जने ॥ ६७॥
इति रामपूवतापीन्युपनिषद् चतुर्थोपनिष ॥


॥पञ्चमोपनिष्द्॥सम्पाद्यताम्

ॐ भूतादिकं शोधये:द्द्वारपूजां कृत्वा पद्माद्यासनस्थः प्रसन्नः ।
अर्चाविधावस्य पीठाधरोर्ध्वपार्श्वार्चनं मध्यपद्मार्चनं च ॥ १॥


कृत्वा मृदुश्लक्ष्णसुतूलिकायां रत्नासने देशिकमर्चयित्वा ।
शक्तिं चाधाराख्यकां कूर्मनागौ पृथिव्यब्जे स्वासनाधः प्रकल्प्य ॥ २॥


विघ्नेशं दुर्गां क्षेत्रपालं च वाणीं बीजादिकांश्चाग्निदेशादिकांश्च ।
पीठस्याङ्घ्रिष्वेव धर्मादिकांश्च नत्वा पूर्वाद्यासु दीक्ष्वर्चयेच्च ॥ ३॥


मध्ये क्रमादर्कविध्वग्नितेजांस्युपर्युपर्यादिमैरर्चितानि ।
रजः सत्वं तम एतानि वृत्तत्रयं बीजाढ्यं क्रमाद्भावयेच्च ॥ ४॥


आशाव्याशास्वप्यथात्मानमन्तरात्मानं वा परमात्मानमन्तः ।
ज्ञानात्मानं चार्चयेत्तस्य दिक्षु मायाविद्ये ये कलापारतत्त्वे ॥ ५॥


संपूजयेद्विमलादीश्च शक्तीरभ्यर्चयेद्देवमवाहयेच्च ।
अङ्गव्यूहानिलजाद्यैश्च पूज्यघृष्ट्यादिकैर्लोकपालैस्तदस्त्रैः ॥ ६॥


वसिष्ठाद्यैर्मुनिभिर्नीलमुख्यैराराधयेद्राघवं चन्दनाद्यैः ।
मुख्योपहारैर्विविधैश्च पूज्यैस्तस्मै जपादींश्च सम्यक्प्रकल्प्य ॥ ७॥


एवंभूतं जगदाधारभूतं रामं वन्दे सच्चिदानन्दरूपम् ।
गदारिशङ्खाब्जधरं भवारिं स यो ध्यायेन्मोक्षमाप्नोति सर्वः ॥ ८॥


विश्वव्यापी राघवो यस्तदानीमन्तर्दधे श्ङ्खचक्रे गदाब्जे ।
धृत्वा रमासहितः सानुजश्च सपत्तनः सानुगः सर्वलोकी ॥ ९॥


तद्भक्ता ये लब्धकामांश्च भुक्त्वा तथा पदं परमं यान्ति ते च ।
इमा ऋचः सर्वकामार्थदाश्च ये ते पठन्त्यमला यान्ति मोक्षम् ॥ १०॥
इति रामपूवतापीन्युपनिषद् पञ्चमोऽपनिषत् ॥

॥ रामोत्तरतापिनि उपनिषत् ॥सम्पाद्यताम्

॥ प्रथमः खण्डः ॥सम्पाद्यताम्

  अविमुक्तोपासनम् -

ॐ बृहस्पतिरुवाच याज्ञवल्क्यम् ।
 यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥ १ ॥
 अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
 तस्माद्यत्र क्वचन गच्छति तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
 अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति ।
 तस्मादविमुक्तमेव निषेवेत । अविमुक्तं न विमुञ्चेत् ॥ २ ॥
 एवमेवैतद्याज्ञवल्क्य ॥ ३ ॥
 इति प्रथमः खण्डः ॥

॥ द्वितीयः खण्डः ॥सम्पाद्यताम्


 रामषडक्षरस्य तारकत्वम् -

अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं
 किं तारकं किं तारयतीति ॥ १ ॥
 स होवाच याज्ञवल्क्यः तारकं
 दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्मायां
 नमश्चन्द्राय नमो भद्राय नम इत्येतद्ब्रह्मात्मिकाः
 सच्चिदानन्दाख्या इत्युपासितव्यम् ॥ २ ॥
 अकारः प्रथमाक्षरो भवति ।
 उकारो द्वितीयाक्षरो भवति ।
 मकारस्तृतीयाक्षरो भवति ।
 अर्धमात्रश्चतुर्थाक्षरो भवति ।
 बिन्दुः पञ्चमाक्षरो भवति ।
 नादः षष्ठाक्षरो भवति ।
 तारकत्वात्तारको भवति ।
 तदेव तारकं ब्रह्म त्वं विद्धि ।
 तदेवोपासितव्यमिति ज्ञेयम् ।
 गर्भजन्मजरामरणसंसारमहद्भयात् संतारयतीति ।
 तस्मादुच्यते षडक्षरं तारकमिति ॥ ३ ॥

 तारकजपफलम् -

य एतत्तारकं ब्रह्म ब्राह्मणो नित्यमधीते ।
 स पाप्मानं तरति । स मृत्युं तरति ।
 स ब्रह्महत्यां तरति । स भ्रूणहत्यां तरति ।
 स वीरहत्यां तरति स सर्वहत्यां तरति ।
 स संसारं तरति । स सर्वं तरति ।
 अविमुक्तमाश्रितो भवति ।
 स महान्भवति । सोऽमृतत्वं च गच्छति ॥ ४ ॥

 रामस्य प्रणवार्थत्वम् -

अत्रैते श्लोका भवन्ति ।
 अकारक्षरसंभूतः सौमित्रिर्विश्वभावनः ।
 उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः ॥ ५ ॥
 प्राज्ञात्मकस्तु भरतो मकाराक्षरसंभवः ।
 अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥ ६ ॥
 श्रीरामसांनिध्यवशात् जगदाधारकारिणी ।
 उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥ ७ ॥
 सा सीता भवति ज्ञेया मूलप्रकृतिसंज्ञिता ।
 प्रणवत्वात्प्रकृतिरिति वदन्ति ब्रह्मवादिनः ॥ ८ ॥ इति ॥

 प्रणवतदर्थयाथात्म्यम् -

ओमित्येतदक्षरमिदं सर्वं तस्य उपव्याख्यानं
 भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव ।
 यच्चान्यत् त्रिकालातीतं तदपि ओङ्कार एव ।
 सर्वं ह्येतद्ब्रह्म । अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ ९ ॥
 जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
 स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ १० ॥
 स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
 प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ११ ॥
 यत्र सुप्तो न कंचन कामं कामयते
 न कंचन स्वप्नं पश्यति तत्सुषुप्तम् ।
 सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो
 ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ १२ ॥
 एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामि
 एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ १३ ॥
 नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं
 नाप्रज्ञं न प्रज्ञानघनमदृश्यं अव्यवहार्यं
 अग्राह्यं अलक्षणं अचिन्त्यं अव्यपदेश्यं
 एमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं
 शिवं अद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ॥ १४ ॥

 प्रत्यग्ब्रह्मणोरेकीकरणम् -

सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहित आनन्दरूपः
 सर्वाधिष्ठानसन्मात्रो निरस्त अविद्यातमोमोहोऽहमेवेति संभाव्याहम् ॥ १५ ॥
 ओं तत् सद्यत् परं ब्रह्म रामचन्द्रश्चिदात्मकः ।
 सोऽहमोन्तद्राम भद्रपरंज्योती रसोऽहमोम् ॥ १६ ॥
 इत्यात्मानमादाय मनसा ब्रह्मणैकीकुर्यात् ॥ १७ ॥

 रामज्ञानान्मुक्तिः -

सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये ।
 न ते संसारिणो नूनं राम एव न संशयः ॥ इत्युपनिषत् ॥
 य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥ १९ ॥
 इति द्वितीयः खण्डः ॥

॥तृतीयः खण्डः ॥सम्पाद्यताम्

 बाह्यान्तराविमुक्तयाथात्म्यम् -

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं -
य एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा तं कथमहं विजानीयामिति ॥ १ ॥
 स होवाच याज्ञवल्क्यः । सोऽविमुक्त उपास्योऽयम् ।
 एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ॥ २ ॥
 सोऽविमुक्तः कस्मि प्रतिष्ठित इति ॥ ३ ॥
 वरणायां नास्यां च मध्ये प्रतिष्ठित इति ॥ ४ ॥
 का वै वरणा का च नासीति ॥ ५ ॥
 जन्मान्तरकृतान् सर्वान् दोषान् वारयतीति तेन वरणा भवतीति ।
 सर्वानिन्द्रियकृतान् पापान् नाशयतीति तेन नासी भवतीति ॥ ६ ॥
 कतमं चास्य स्थानं भवतीति ॥ ७ ॥
 भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति ।
 एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ॥
 सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो वा एतदेवं वेद ॥ ८ ॥

 मुमूर्षूणां शिवकृतरामतारकोपदेशः -

अथ तं प्रत्युवाच -
श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः ।
 मन्वन्तरसहस्रैस्तु जपहोमार्चनादिभिः ॥ ९ ॥
 ततः प्रसन्नो भगवान् श्रीरामः प्राह शंकरम् ।
 वृणीश्व यदभीष्टं तद्दास्यामि परमेश्वर ॥ १० ॥ इति ॥
 अथ सच्चिदानन्दात्मानं श्रीराममीश्वरः पप्रच्छ -
मणिकर्ण्यां मम क्षेत्रे गङ्गायां वा तटे पुनः ।
 म्रियेत देही तज्जन्तोः मुक्तिं नातो वरान्तरम् ॥ ११ ॥ इति ॥
 अथ स होवाच श्रीरामः -
क्षेत्रेऽस्मिंस्तव देवेश यत्र कुत्रापि वा मृताः ।
 कृमिकीटादयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥ १२ ॥
 अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये ।
 अहं संनिहितस्तत्र पाषाणप्रतिमाऽऽदिषु ॥ १३ ॥
 क्षेत्रेऽस्मिन् योऽर्चयेत् भक्त्या मन्त्रेणानेन मां शिव ।
 ब्रह्महत्याऽऽदिपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १४ ॥
 त्वत्तो वा ब्रह्मणो वाऽपि ये लभन्ते षडक्षरम् ।
 जीवन्तो मन्त्रसिद्धाः स्युः मुक्ता मां प्राप्नुवन्ति ते ॥ १५ ॥
 मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् ।
 उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव ॥ १६ ॥
 इति श्रीरामचन्द्रेणोक्तम् ॥

॥ चतुर्थः खण्डः ॥सम्पाद्यताम्

 रामसाक्षात्कारप्रदाः मंत्राः -

अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाच -
अथ कैर्मन्त्रैः स्तुतः श्रीरामचन्द्रः प्रीतो भवति ।
 स्वात्मानं दर्शयति तान्नो ब्रूहि भगवन्निति ।
 स होवाच याज्ञवल्क्यः -
पूर्वं सत्यलोके श्रीरामचन्द्रेणैवं शिक्षितो ब्रह्मा पुनरेतया गाथया नमस्करोति -
विश्वरूपधरं विष्णुं नारायणमनामयम् ।
 पूर्णानन्दैकविज्ञानं परं ब्रह्मस्वरूपिणम् ॥
 मनसा संस्मरन्ब्रह्म तुष्टाव परमेश्वरम् ।
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् अद्वैतपरमानन्द आत्मा यत्परं ब्रह्म
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्चाखण्डैकरसात्मा
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यच्च ब्रह्मानन्दामृतं
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् तत् तारकं ब्रह्म
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो ब्रह्मा विष्णुर्महेश्वरो
 यः सर्वदेवात्मा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ५ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये सर्वे वेदाः साङ्गाः सशाखाः
 सेतिहासपुराणाः भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ६ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो जीवात्मा
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ७ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो सर्वभूतान्तरात्मा
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ८ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये देवासुरमनुष्यादिभावाः
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ९ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये मत्स्यकूर्माद्यवताराः
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १० ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च प्राणः
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ११ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् योऽन्तःकरणचतुष्टयात्मा
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १२ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च यमो
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १३ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्चान्तको
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १४ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च मृत्युः
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १५ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यच्चामृतं
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १६ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यानि च पञ्चमहाभूतानि
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १७ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः स्थावरजङ्गमात्मा
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १८ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये पञ्चाग्नयो
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १९ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् याः सप्त महाव्याहृतयो
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २० ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या विद्या
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २१ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या सरस्वती
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २२ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या लक्ष्मी
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २३ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या गौरी
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २४ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या जानकी
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २५ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यच्च त्रैलोक्यं
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २६ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः सूर्यो
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २७ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः सोमो
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २८ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यानि च नक्षत्राणि
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २९ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये च नवग्रहा
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३० ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये चाष्टौ लोकपालाः
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३१ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये चाष्टौ वसवो
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३२ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये चैकादश रुद्राः
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३३ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये च द्वदिशादित्याः
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३४ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यच्च भूतं भव्यं भविष्यत्
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३५ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यद्ब्रह्माण्डस्य बहिर्व्याप्तम्
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३६ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो हिरण्यगर्भो
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३७ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या प्रकृति
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३८ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् याश्चोंकारो
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३९ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् याश्चतस्रोऽर्धमात्राः
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४० ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः परमपुरुषो
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४१ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च महेश्वरो
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४२ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च महादेवो
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४३ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः ॐ नमो भगवते वासुदेवाय
 यो महाविष्णुः भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४४ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः परमात्मा
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४५ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो विज्ञानात्मा
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४६ ॥
 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः सच्चिदानन्दैकरसात्मा
 भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४७ ॥

 ॐ यो ह वै श्रीरामचन्द्रः स भगवान् अद्वैतपरमानन्द आत्मा ।
 यः सच्चिदानन्द अद्वैतैकचिदात्मा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ इति ॥
 तान् ब्रह्माब्रवीत् । सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवं स्तुवध्वम् ।
 ततो देवः प्रीतो भवति । स्वात्मानं दर्शयति ।
 तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति ।
 सोऽमृतत्वं गच्छतीति महोपनिषत् ॥
 इति चतुर्थोखण्डः ॥

॥ पञ्चमोखण्डः ॥सम्पाद्यताम्

 रामषडक्षरमाहात्म्यम् -

अथ हैनं भारद्वाजो याज्ञवल्क्यं उपसमेत्योवाच
 श्रीराममन्त्रराजस्य माहात्म्यं अनुब्रूहीति । ॥ १ ॥
 स होवाच याज्ञवल्क्यः ।
 स्वप्रकाशः परंज्योतिः स्वानुभूत्यैकचिन्मयः ।
 तदेव रामचन्द्रस्य मनोराद्यक्षरः स्मृतः ॥ २ ॥
 अखण्डैकरसानन्दः तारकब्रह्मवाचकः ।
 रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः ॥ ३ ॥
 नमःपदं सुविज्ञेयं पूर्णानन्दैकविग्रहम् ।
 सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः ॥ ४ ॥ इति ॥
 य एवं मन्त्रराजं श्रीरामचन्द्रषडक्षरं नित्यमधीते ।
 सोऽग्निपूतो भवति । स वायुपूतो भवति ।
 स आदित्यपूतो भवति । स सोमपूतो भवति ।
 स ब्रह्मपूतो भवति । स विष्णुपूतो भवति ।
 स रुद्रपूतो भवति । सर्वैर्देवैर्ज्ञातो भवति ।
 स सर्वक्रतुभिरिष्टवान् भवति । तेन इतिहासपुराणानां रुद्राणां
 शतसहस्राणि जप्तानि फलानि भवन्ति ।
 प्रणवानां अयुतकोटिजपा भवन्ति ।
 दश पूर्वान् दशोत्तरान् पुनाति ।
 स पङ्क्तिपावनो भवति । स महान् भवति ।
 सोऽमृतत्वं च गच्छति ॥ ॥ ५ ॥

 मंत्रराजमाहात्म्यप्रतिपादकश्लोकाः -

अत्रैते श्लोका भवन्ति ।
 गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः ।
 वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः ॥ ६ ॥
 गाणपत्यादि मन्त्रेषु कोटिकोटिगुणाधिकः ।
 मन्त्रस्तेष्वप्यनायास फलदोऽयं षडक्षरः ॥ ७ ॥
 षडक्षरोऽयं मन्त्रः स्यात् सर्वाघौघनिवारणः ।
 मन्त्रराज इति प्रोक्तः सर्वेषां उत्तमोत्तमः ॥ ८ ॥
 कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम् ।
 सर्वं दहति निःशेषं तूलाचलमिवानलः ॥ ९ ॥
 ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च ।
 स्वर्णस्तेय सुरापान गुरुतल्पायुतानि च ॥ १० ॥
 कोटिकोटिसहस्राणि उपपातकजान्यपि ।
 सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ ११ ॥
 भूतप्रेतपिशाचाद्याः कूष्माण्डब्रह्मराक्षसाः ।
 दूरादेव प्रधावन्ति राममन्त्रप्रभावतः ॥ १२ ॥
 ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् ।
 कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति ॥ १३ ॥
 ग्राम्यारण्यपशुघ्नत्वं संचितं दुरुतं च यत् ।
 मद्यपानेन यत्पापं तदप्याशु विनाशयेत् ॥ १४ ॥
 अभक्ष्यभखक्षणोत्पन्नं मिथ्याज्ञानसमुद्‌भवम् ।
 सर्वं विलीयते राम मन्त्रस्यास्यैव कीर्तनात् ॥ १५ ॥
 श्रोत्रियस्वर्णहरणात् यच्च पापमुपस्थितम् ।
 रत्ना्देश्चापहारेण तदप्याशु विनाशयेत् ॥ १६ ॥
 ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्बिषम् ।
 संचिनोति नरो मोहात् यद्यत् तदपि नाशयेत् ॥ १७ ॥
 गत्वापि मातरं मोहात् अगम्याश्चैव योषितः ।
 उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् ॥ १८ ॥
 महापातकपापिष्ठ सङ्गत्या संचितं च यत् ।
 नाशयेत् तत्कथालाप शयनासनभोजनैः ॥ १९ ॥
 पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत् ।
 तदनुष्ठानमात्रेण सर्वं एतद्विलीयते ॥ २० ॥
 यत्प्रयागादितीर्थोक्त प्रायश्चित्तशतैरपि ।
 नैवापनोद्यते पापं तदप्याशु विनाशयेत् ॥ २१ ॥
 पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् ।
 बुद्धिपूर्वमघं कृत्वा तदप्याशु विनाशयेत् ॥ २२ ॥
 कृच्छ्रैस्तप्तपराकाद्यैः नानाचान्द्रायणैरपि ।
 पापं च नापनोद्यं यत् तदप्याशु विनाशयेत् ॥ २३ ॥
 आत्मतुल्यसुवर्णादि दानैर्बहुविधैरपि ।
 किंचिदप्यपरिक्षीणं तदप्याशु विनाशयेत् ॥ २४ ॥
 अवस्थात्रितयेष्वेवं बुद्धिपूर्वमघं च यत् ।
 तन्मन्त्रस्मरणेनैव निःशेषं प्रविलीयते ॥ २५ ॥
 अवस्थात्रितयेष्वेवं मूलबन्धमघं च यत् ।
 तत्तन्मन्त्रोपदेशेन सर्वमेतत्प्रणश्यति ॥ २६ ॥
 आब्रह्मबीजदोषाश्च नियमातिक्रमोद्‌भवाः ।
 स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशिताः ॥ २७ ॥
 येषु येष्वपि देशेषु रामभद्र उपास्यते ।
 दुर्भिक्षादिभयं तेषु न भवेत्तु कदाचन ॥ २८ ॥
 शान्तः प्रसन्नवदनो नक्रोधो भक्तवत्सलः ।
 अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते ॥ २९ ॥
 सम्यगाराधितो रामः प्रसीदत्येव सत्वरम् ।
 ददात्यायुष्यमैश्वर्यं अन्ते विष्णुपदं च यत् ॥ ३० ॥
 तदेतदृचाभ्युक्तम् -
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।
 यस्तन्न वेद किमृचा करिष्यति य इत्तद् विदुस्त इमे समासते ॥ ३१ ॥
 तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ ३२ ॥
 तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ ३३ ॥
 ॐ सत्यमित्युपनिषत् ॥ ३४ ॥
 ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
 स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
 स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
 स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
 ॐ शान्तिः शान्तिः शान्तिः ॥
 इति रामोत्तरतापिन्युपनिषत्समाप्ता ॥
 इति रामतापिन्युपनिषत्समाप्ता॥

अधिकाध्ययनायसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=रामतापिन्युपनिषत्&oldid=100466" इत्यस्माद् पुनः प्राप्तिः