रामबाणस्तवः
रामबाणस्तवः श्रीरामभद्रदीक्षितः १८९७ |
श्रीरामभद्रदीक्षितविरचितो
रामबाणस्तवः।
मारीचोपज्ञवेगं बलविजयिसुतप्रेक्षितामोघभावं
पारावारावरोधव्रजविदितमहादुःसहार्चिःप्रभावम् ।
लीलालोलूयमानत्रिदशरिपुशिरोधोरणीदृष्टतैक्ष्ण्यं
भक्तत्राणप्रवीणं शरणमशरणो रामबाणं प्रणौमि ॥ १ ॥
पौलस्त्ये निस्तुलौजस्तुलितहरगिरौ बाधमाने त्रिलोकी-
मग्नौ भग्नप्रभावे द्रवति च पवने क्वापि तान्ते कृतान्ते ।
वित्रस्ते वज्रहस्ते कृतमखिलजगद्रक्षणं येन सोऽयं
त्रण्याच्चण्डीशकाण्डासनभिदभिमतो मार्गणो दुर्गतिं नः ॥ २ ॥
निर्मग्नस्ताटकोरस्त्रुटनविगलितासृक्प्रवाहे सुबाहो-
वक्षोमध्यं प्रविष्टो दलितखरवसापङ्कदिग्धोज्ज्वलाङ्गः ।
मारीचान्त्रैकहाराभरणकृतरुचिर्वालिहृत्पद्महारी
पौलस्त्यप्राणकुक्षिंभरिरवतु जगद्रक्षको रामबाणः ॥ ३ ॥
भक्तानामिष्टदाने सुरतरुरुदधेः शोषणे वाडवाग्निः
क्रव्यादव्याजखेलत्प्रबलतमतमःखण्डने चण्डभानुः ।
पुष्णातु क्षेममेकाधिकदलितमहासालपषट्कः पृषत्कः
श्रीरामस्कन्धपीठग्रथितशरधिवल्मीकशायी फणीन्द्रः ॥ ४ ॥
प्राप्यानुज्ञामभिज्ञात्कुशिककुलभुवस्तापसात्कोपसान्द्रे
स्वामिन्युन्मोक्तुकामेऽप्यनुचितमिदमित्यन्तरुद्भिन्नचिन्तः ।
कंचित्कालं विलम्ब्य स्मृतनिखिलजगद्रक्षणस्तत्क्षणं यः
संतापं ताटकाया व्यधित युधि तमेवाश्रये रामबाणम् ॥ ५ ॥
मौर्वीटंकारघोरश्रवणकटुरटत्ताटकोद्घाटितास्य-
भ्रश्यज्ज्वालाविनश्यद्धनतमतिमिरारण्यलीलाधरण्याम् ।
भिन्दन्यो वृक्षवृन्दं विगलितगरुतं विक्षिपन्पक्षिपङ्क्तिः
कर्षन्मेघान्व्यहार्षीद्रघुपतिविशिखं तं भजे रोगहत्यै ॥ ६ ॥
संभ्राम्यत्ताटकाम्भोवहनिवहरजोवृष्टिनष्टावकाशे
दिक्चके येन चक्रे स्फुटतरुपटलोत्पाटनापाटवेन ।
रंहःसंमुग्धसिंहच्युतमदकरिणा चण्डवातस्य लीला
स स्ताद्राजेन्द्रहस्ताम्बुजवसतिरिषुः श्रीनिदानं सदा नः ।। ७ ।।
संक्रुद्ध्यत्ताटकाभ्युत्पतनजवसमुद्भूतपीत्कारघोर-
व्यात्तास्योद्वान्तवक्षःस्रवदसृगभितस्वप्रवेशप्रदेशः ।
लीलाविध्वस्तमूलावनिरुहनिवहानुद्रुतो रौद्रवेगो
हर्षाद्द्यामावृणोद्यो हरतु स दुरितं रामभद्रस्य बाणः ॥ ८ ॥
नीलाम्भोवाहलीलां विदधति दलिते ताटकाबाहुमध्ये
विद्युल्लेखामिवैकामुदसृजदसृजा वाहिनीं लोहिनीः यः ।
दीप्तानां प्राप्तिमावेदयितुमिव भुवि स्वप्रतापातपानां
बाणो राजेन्द्रतूणोदरकृतभरणो वैरिणोऽसौ कृणोतु ॥ ९ ॥
येन प्रौढेन मध्ये महितरसभरालंक्रियाकल्पकेन
श्लोकानुत्पादयित्रा रजनिचरकुलोत्पाटनानाटकस्य ।
न्यस्तं प्रस्तावनायाः सपदि किल पदे ताडनं ताटकायाः
सोऽस्माकं रामबाणः सुललितरचनां सूक्तिमाविष्करोतु ॥ १०॥
हस्तोदस्तत्रिशूलक्षपितमुनिपृथुस्कन्धनिष्यन्दमान-
स्फारासृक्पूरधाराभजनजठरभृत्ताटकापाटनेन ।
नन्दद्योगीन्द्रवृन्दस्तुतिमुखरितदिक्चक्रवालान्तरालो
रक्षेदिक्ष्वाकुचूडामणिकरकमलोत्सङ्गशायी शरो नः ॥ ११ ॥
होतर्युन्मुक्तशस्त्रे विरमति सहसोद्गातरि स्तोत्रगाना-
दध्वर्यावस्तपात्रे द्रवति किमिदमित्युन्मिषत्यन्यलोके ।
यो वेगादुज्जिजृम्भे कुशिकसुतमखे वर्षतो विस्त्रमास्त्रं
रक्षोमेघाञ्जिघांसुर्घटयतु स घनां संपदं रामबाणः ॥ १२ ॥
दुर्दान्तो रक्तबिन्दून्विकिरति परितो वेदिकां कौशिकस्ये-
त्यर्धोक्ते सिद्धसङ्घैर्झटिति पटुतरो यः शठं ताटकेयम् ।
धृत्वा धूत्वार्दयित्वा जलनिधिकुहरे मज्जयामास वेगा-
द्रोगानस्माकमुच्चाटयतु स जवनः सायकस्ताटकारेः ॥ १३ ॥
विश्वामित्रीयसत्रप्रतिहतिकलनोड्डामरव्योमरङ्ग-
त्वङ्गन्मारीचदूरीकरणरयसमुद्भूतजीमूतचक्रः ।
तत्कालोद्भूतहर्षाद्भुतभयशबलस्वान्तयोगीन्द्रदत्त-
द्राघीयःश्लाघनोक्तिर्दलयतु दुरितं सायको राघवीयः ॥ १४ ॥
मौलिभ्रश्यत्किरीटं गलपरिविगलच्चारुमुक्ताकलापं
त्रासोद्यन्मुष्टिबन्धश्लथकरयुगलस्रंसमानासिखेटम् ।
दूरक्षिप्तान्तरीयप्रकटकटितटीबद्धकौशेयकक्ष्यं
धून्वन्मारीचमुञ्चै रघुपतिविशिखः पावनो नः पुनातु ॥ १५ ॥
स्रस्तव्यालोलकेशे ततकरचरणच्छादिताशावकाशे
त्रासव्यात्तास्यगर्तप्रकटितविकटाक्रन्दितोद्धोषघोरे ।
मारीचे व्योम्नि धृते भयतरलवधूस्वैरसंश्लेषहृष्य-
त्सिद्धश्रेणीनिबद्धस्तुतिरवतु सदा राघवीयः शरो नः ॥ १६ ॥
भग्नर्षिस्कन्धरन्ध्रस्रुतममितमसृक्पूरमुत्कण्ठितेन
प्रागाकण्ठं निपीतं वमयितुमिव यस्ताटकेयेन गाढम् ।
भ्रामंभ्रामं तमभ्रे भ्रमिरभसदलत्संधिवन्धं विजह्रे
दारिद्र्यं दारयेद्द्राक्स्वयमयमिह मे रामभद्रीयबाणः ॥ १७ ॥
रंहोनिर्धूतमूर्धच्युतमुकुटतटभ्राजिमाणिक्कराजि-
श्रीपुञ्जाव्याजनव्यारुणितपतदसृक्पाटलं यज्ञवाटम् ।
क्रूरोऽयं ताटकेयो व्यतनुत इति तं क्रोधतोऽम्भोधितोये
सद्यः प्रापातयद्यस्तमिषुमिह विभोश्चिन्तयाम्यन्तरङ्गे ॥ १८ ॥
क्षिप्तश्चण्डानिलेनाम्बुद इव गगने येन वेगोत्तरेण
न्यञ्चन्कुत्राप्युदञ्चन्क्वचिदपि विततः क्वापि भग्नः कुहापि ।
मारीचः प्राप वाचप्रचमकरघटानिर्भरं गर्भमब्धेः
कौसल्यासूनुबाणः कलयतु स रुचा पेशलः कौशलं नः ॥१९॥
भ्रश्यन्मारीचपातप्रचलितसलिलोत्पीडनिर्वेलमूर्छ-
त्कल्लोलोत्खातमूलोद्गलिततटमहीरूढतालद्रुजालः ।
वेगोद्भिन्नाम्बुपूरोदरविवृतलुठन्नक्रपाठीनचक्र-
श्चक्रे येनार्णवस्तं मनसि मनुमहे रामकाण्डप्रकाण्डम् ॥ २० ॥
ऊर्ध्वक्षिप्तार्धतारप्रतिभयनयनं वक्रदंष्ट्राग्रदष्ट-
स्थूलास्यप्रान्तलोलद्रसनमुरुनसाप्रस्रुतोद्बुद्बुदास्रम् ।
हृन्मर्मस्फोटकर्मण्यरमुपजनिते येन मारीचसैन्यं
खादभ्रंशीददभ्रं दिशतु स कुशलं दाशरथ्याशुगेशः ॥ २१ ॥
विध्वंसन्ते शकुन्ता युगविगमघनस्फारनिर्घातघोरं
मौर्वीनिर्घोषमुर्वीरुहशिखरगतास्तूर्णमाकर्ण्य यावत् ।
यस्तावत्त्रस्तधावत्सुरजनमभिनद्बाहुमध्यं सुबाहो-
र्ज्वालानिष्पीतकालानलबहलमदं रामबाणं तमीडे ॥ २२ ।।
यश्चापज्यापविद्धः सपदि घनपदव्यन्तमुत्पत्य कृन्त-
न्बाहामध्यं सुबाहोरतिरभसवशादप्यनासक्तरक्तः ।
सेवासंनद्धदेवावनमितमुकुटोद्दीप्तमाणिक्यसूप्त-
श्रीपुञ्जेनाररञ्जे स भवतु भगवत्सायकः श्रेयसे सः ॥ २३ ॥
भित्त्वा सत्त्वानुरूपं झटिति घनमुरः क्रामति व्योमरङ्गं
यत्र भ्रश्यत्तनुत्रः पतदसिलतिकारिक्तबाहुः सुबाहुः ।
प्रागभ्यासादिवागस्कृदजनि पुनरप्यास्रविस्रावणेन
स्थानारण्ये मुनीनामवतु स जवनो रामनाराचराजः ॥ २४ ॥
यश्चञ्चत्कङ्कचञ्चूपुटहठविकटाकृष्टभीमान्त्रजाला-
न्विद्राणक्रोष्टुघोणाधृतपिशितगलद्रक्तसंसिक्तमार्गान् ।
खण्डंखण्डं सुबाहोर्भटकुलमकरोत्कौशिकस्याश्रमान्ता-
न्कौसल्यासंभवस्याशुगमखिलरुजाशान्तये चिन्तये तम् ॥२५॥
कर्मप्रत्यूहभङ्गान्नियमिपरिषदो भव्यहव्योपलम्भा-
द्दिव्यानां क्रव्यदानादपि वनपततामुत्तमां प्रीतिमत्ताम् ।
प्रायच्छत्ताटकेयप्रमुखमखरिपुक्षोदरूक्षोदयो यो
वन्दे तं देववृन्दस्तुतमुषितमिषुं रामहस्तारविन्दे ॥ २६ ॥
कोदण्डे भार्गवेण त्रिपुररिपुधनुर्भङ्गरुष्टेन दत्ते
भक्तिप्रह्वाब्धिकन्याकरकमलपरिक्षिप्तगन्धाक्षताङ्के ।
संनद्धः सिद्धविद्याधरसुरपरिषत्पक्ष्मलाश्चर्यवीक्षा-
पात्रीभूतः स पत्री भवतु शुभवहोऽस्माकमैक्ष्वाकधार्यः ॥२७॥
ज्वालानिर्दग्धमूलावदलनविगलत्काञ्चनस्तम्भमौलि-
व्यत्यस्तभ्रश्यदत्यद्भुतमणिशिखराक्षिप्तनश्यद्विमानान् ।
सौवर्गान्भार्गवीयप्रचुरतरतपःसाधितान्बाधितारं
लोकानापन्नशोकानपनुदधनुदं नौमि रामस्य बाणम् ॥ २८ ॥
पक्षव्याक्षेपरूक्षस्यदचकितमिषत्सिद्धगन्धर्वयक्षं
धावन्तं देववृन्दं प्रति मम शरणं त्वं भव त्वं भवेति ।
एषा रोषाज्जयन्तं करटतनुमनुक्रामते भीमतेजो-
नुद्ध्याय स्यान्नमस्या मम रघुवृषभप्रेयसे सायकाय ॥ २९ ॥
त्राणानीशे हुताशे वितरितुमभयं पाशभृत्युज्झिताशे
रक्षावैमुख्यदीक्षां विदधति धनदे वज्रहस्ते विहस्ते ।
काकेनालम्भि लोके क्वचिदपि न किल त्रस्यता यस्य पाता-
द्रामादन्यः शरण्यः प्रथयतु स शुभं मैथिलीनाथबाणः ॥३०॥
मारीचानुप्रचारावहितनवमृगाकाररक्षोयुगोरः-
प्रध्वंसस्रंसिमांसग्रसनरसनटत्संकुलश्येनकङ्कम् ।
कुर्वन्प्रह्वाधि सर्वकषगुणघटितो दण्डकामण्डलं यः
संचिक्रीडे तमीडे त पनकुलमणेः सायकं भावुकाय ॥ ३१ ॥
घोरासृग्वर्षिधाराधरमवनिपतत्तुङ्गरथ्याश्वसङ्घं
दुष्टश्येनोपविष्टध्वजशिखरमुरुक्रन्दगोमायुचक्रम् ।
नासीरं पूर्वमासीदति सपदि खरे योद्धुमुन्नद्धधूमो
युद्धाशंसामशंसत्किल रघुपतये यः स बाणः पुनातु ॥ ३२ ॥
एकोऽनेकोपरोधश्चरतु कथमिति व्याकुले दिव्यलोके
युद्धालोकाय बद्धादरमनुपतति व्योमसीमां विमानैः ।
तच्चिन्तां भङ्क्तुमेको दशशतमिति यो जातु मुक्तोऽपि यातु
क्षिप्रं चिच्छेद दीप्रं तमिनकुलमणेः सायकं भावयामः ॥३३॥
रुन्धन्रक्षोदृगन्धंकरणरुचिभरैरन्तरिक्षं तरखी
वृन्दं वृन्दं विभिन्दन्समिति खरचमूचारिणां वैरिणां यः ।
नन्दन्नाकेशमन्दप्रचलितनयनाम्भोजसंभावितोऽभू-
दन्तर्ध्यायामि संतर्पितमुनिसदसं तं शरं वंशनेतुः ॥ ३४ ॥
गोमायुत्यक्तभीमायुधसचिवभुजच्छेदसंबाधमुर्व्या-
मुच्चण्डश्मश्रुमुण्डग्रहविमुखवलद्गृध्रनीरन्ध्रमूर्ध्वम् ।
धर्मारण्यं वितन्वन्नपि खरसमरे तापसारब्धसार-
स्तुत्यानत्यास्पदं यः समजनि तमहं रामबाणं नमामि ॥ ३५॥
सद्यःसंघट्टरंहस्त्रुटितखरचमूचक्रचञ्चत्करीन्द्र-
स्कन्धस्रुद्विस्रगन्धक्षतजतटवतीनद्धडिण्डीरबुद्धिम् ।
कुर्वन्पश्यज्जनस्य व्यपदलितसितच्छत्रमूर्च्छद्रुचीभिः
पृथ्वीपुत्रीशपत्री विपदमनुपदं हन्तु निर्विण्णबन्धुः ॥ ३६ ॥
कृत्तच्छत्रप्रभग्नध्वजमुपदलितस्यन्दनं मारिताश्चं
निर्भिण्णस्कन्धगन्धद्विरदमवयवच्छेदनिष्पन्दयोधम् ।
चिक्रीड क्रूरमेव प्रखरखरचमूचक्रमाक्रम्य यः प्रा-
ङ्मद्रोगानेष विद्रावयतु भगवतो रामभद्रस्य वाणः ॥ ३७ ॥
भग्नासिच्छिन्नशक्तित्रुटितपरिघनिर्भिण्णकोदण्डलून-
प्रासोत्कृत्तत्रिशूलप्रभृतिभिरवनीमायुधैराशराणाम् ।
द्यामप्युद्यत्कबन्धनजगलविवरोद्गच्छदास्रच्छटाभिः
संरुन्धन्नः सिमिन्धां खरसमरविधौ संपदे रामबाणः ॥ ३८ ॥
क्वपि च्छिन्नैः शिरोभिः क्वचिदपि दलितैर्दोर्भिरेकत्र कृत्तैः
पादैरन्यत्र लूनैरवयवशकलैः क्रव्यमात्रानुभाव्यैः ।
आस्तीर्यास्तीर्य भूमिं व्यहृत खरचमूरक्षिणां रक्षसां यो
गुर्वीमुर्वीकुमारीसहचरविशिखः स श्रियं नस्तनोतु ॥ ३९ ॥
भिन्दन्स्वच्छन्दमुद्यन्नखरुचिकुसुमं दूषणाख्यद्रुमस्य
स्त्यायद्रत्नाङ्गुलीयद्युतिकिसलयितं बाहुशाखायुगं यः ।
आरण्यायां धरण्याममृडयत दृढं मण्डलीमण्डजानां
जानाम्येकं शरण्यं विपदि सपदि तं जानकीजानिबाणम्।।४०]
आतङ्कोड्डीनकङ्कस्थगितघनपथं भीतगोमायुधूत-
क्रव्यादानं भयव्याकुलहरिणकुलाक्रान्तपर्यन्तकुञ्जम् ।
गात्रं यो दूषणस्य त्रुटितभुजमवापातयद्वीतयत्नं
त्राता मे सोऽस्तु सीतारमणकरमहामण्डनं काण्डवर्यः ॥ ४१॥
१. शृङ्गपादविहीनोऽयं श्लोकः. शृङ्ग-ए ऐ ओ औ=एङ्; पाद=आकारः. २. अरण्ये भवायामारण्यायाम्. ३. अण्डजानां गृध्राणां मण्डलीममृडयत मृडां मुखितामकरोत्.
'मृड सुखने.' इगुपधात्कः. ततः 'तत्करोति-' इति णिच्. 'णिचश्च' इति लिङस्तङ्.स्थूले माहाकपाले शिरसि निपतिते प्रो ज्झिते च प्रमाथि-
न्याशु स्थूलाक्षनाशे सति दृगपनयादर्दिते चान्यसैन्ये ।
पश्यद्भिः श्येनगामिप्रभृतिषु निधनं व्योम्नि विद्याधराद्यैः
संतुष्टैस्तुष्टुवे यः स रघुपतिशरस्त्रायतामायतौ नः ॥ ४२ ॥
सर्पास्यं द्रागपास्यन्परुषमपि रुषा तर्जयन्दुर्जयस्य
छिन्दन्देहं च वैहंगममसुविगमाभिज्ञयन्यज्ञशत्रुम् ।
जन्यावन्यामथान्यानपि खरपृतनामद्ध्यगानाशु विद्ध्य-
न्कुर्याद्भूमीकुमार्याः कमितुरिषुवर: संपदं सांप्रतं नः ॥ ४३ ॥
संरुष्टक्रोष्टुकृष्टक्षितिपतिततनूभङ्गनिःशङ्ककङ्क-
क्रोधोपावर्तिताधोरणमुखविकलस्कन्धरन्ध्रान्त्रजालम् ।
दृष्ट्वा नासीरमासीद्रणरणरणकस्रस्तशस्त्रत्रिशीर्षे
यत्र क्रीडत्यमित्रच्छिदि स दिशतु शं भूमिपुत्रीशपत्री॥ ४४॥
आतन्वन्नेकतोऽपि प्रवणवनतसंपातमात्रापसर्प-
त्कृत्तत्रैमूर्धमूर्धत्रयपिशिततृषानुद्रवद्रवद्गृध्ररौद्राम् ।
अन्यत्रामर्त्यहस्तोज्झितकुसुमवलद्गन्धलोभान्धभृङ्ग-
श्यामामृष्याश्रमक्ष्मां रघुवृषभशरः शर्म मे निर्मिमीते ॥ ४५ ॥
एकस्तूणीरगर्भे दश धरणिसुतानाथहस्ताभिमर्शे
चापारोपे सहस्रं प्रयुतमुडुपथे न्यर्बुदं कर्बुरेषु ।
दृष्टो यो वेगकृष्टोपहतखररथः सिद्धगन्धर्वयक्षै-
रक्षीणं दीनरक्षी दिशतु स कवितादाक्ष्यमैक्ष्वाकबाणः ॥ ४६॥
हेमाकल्पाभिरामां कुपितखरकरप्रेरितां प्रावृताशां
वीरुन्नद्धावनीरुत्समुदयमुदयद्विस्मयं भस्मयन्तीम् ।
दूरादभ्राम्बुधारां मरुदिव बिभिदे यो गदां रोगदायी
यातूनामेष दूनावनपटुरवताद्रामभद्रस्य बाणः ॥ ४७ ॥
केतुर्भग्नो निपेतुर्भुवि शबलरुचो दारिताङ्गास्तुरङ्गा
नीतः सूतस्य मूर्धा गलगलितदशां जातभङ्गः शताङ्गः ।
इत्यायान्तं निहत्याहवशिरसि खरं रुष्टमुन्मृष्टशोक-
स्वर्गस्त्रीवृष्टकल्पद्रुमकुसुमजुषं राघवेषुं निषेवे ॥ ४८ ॥
जीवन्नवैष धावन्मम कनकमृगः शक्यते न ग्रहीतुं
हन्यां तेनेति वन्यामभिमृशति विभौ यं करालं करेण ।
भीतः प्राग्वत्पपात व्यसनभरमये वीतमुद्रे समुद्रे
मारीचः क्ष्माकुमारीरमणशरमणिं तं शरण्यं भजामः ॥ ४९ ॥
मेघश्यामे घनानां विपिनविटपिनां कञ्जकिञ्जल्कपुञ्ज-
च्छायादायादमायामृगवपुरचिरज्योतिषा भाति पण्डे ।
यस्यारोपेण चापे द्रुतमुपजनितो गर्जितं निर्जिगाय
ज्यानिर्घोषोऽघशोषोपजनमिषुमिमं भावये राघवीयम् ॥ ५० ॥
चाये यस्याधिरोपे सति भयतरलव्याजसारङ्गराज-
व्योमप्रस्तीमभीमत्वरखुरशिखरस्तोकलीढावनीकम् ।
जानस्थानान्तरालं घनगुणरणिताध्मातदर्यन्तभीत-
व्याघ्रानाघ्रातरोहित्पिशितमजनि तं रामबाणं भजामः ॥ ५१ ॥
सांकुर्वत्पुङ्खङ्कच्छदजवचकितोद्भ्रान्तशाकुन्तपङ्क्ति-
व्यातन्वत्पक्षवातश्लथवनकुसुमैः किंचिदन्वञ्चिताय ।
मायासारङ्गकायाभिमुखनिजमुखप्रस्फुरद्भिः स्फुलिङ्गै-
रुन्नद्धायास्मि बद्धाञ्जलिरवनिसुतानायकस्याशुगाय ॥ ५२ ॥
येनाविद्धः समिद्धज्वलनकणकिरा मर्मणि क्रूरकर्मा
क्षिप्रं तालप्रमाणं खमुपनिपतितः स्रस्तपर्यस्तकङ्कम् ।
१. 'खमुपनिपतितः स्रस्तपर्यस्तकेशम्' इति स्थिते पाट: समीचीन: स्यादिति
प्रतिभाति.प्राणस्यानुप्रयाणं विदधदिव दिवं प्रस्थितस्याबभासे
दासे मय्याधिमासेदुषि स तु भवतु त्राणदो रामबाणः ।। ५३ ॥
दीर्घाक्षं चारुशृङ्गं मुखमजनि करालेक्षणं वक्रदंष्ट्र
किंचाङ्घ्रीणां चतुर्णां त्वरितमभवतां द्वौ भुजौ द्वौ च पादौ ।
नष्टा लाङ्गूलयष्टिर्नवसिचयमयी कापि कक्ष्या तु दृष्टा
यत्कोटिस्पृष्टमात्रे हृदि कपटमृगे तं भजे रामबाणम् ॥ ५४ ॥
मायां व्यङ्क्तुं स्वकीयामिव दलनमिषान्मायिके ताटकेये
कायं तस्याक्षिपेयं त्रिजगति कपटप्रायमैणं विधूय ।
मग्नाक्षं दीर्घकूर्चस्तबकमुरुनसं तुन्दिलं तालजङ्घ
घोरं रक्षःशरीरं व्यतनुत भगवत्सायकं तं भजामः ॥ ५५ ॥
सारङ्गीयं शरीरं प्रथममथ तनुं राक्षसीं रूक्षशीलां
दूरीकृत्यान्यदूरीकृतवति च वपुर्दिव्यमव्याजभव्यम् ।
मारीचे सिद्धनारीकरतलगलितानल्पकल्पद्रुपुष्प-
श्च्योतन्माध्वीविधृतक्षतजमलिनिमा पातु मां रामबाणः ॥५६॥
उन्मीलत्सालजालत्रुटनविगलिताशङ्कतुङ्गप्रमोद-
त्वङ्गच्चेतःप्लवङ्गप्रकरकरयुगच्छिन्नमाल्यप्रसूनम् ।
तत्कालप्रोतशैलक्षितितलयुगपद्दर्शनाश्चर्यधुर्य-
श्लाघाकृत्किन्नरौघावृतगगनतलं रामबाणं भजामः ॥ १७ ॥
सारण्यग्रामपृथ्वीभरदुरवनमोत्तुङ्गसर्वोत्तमाङ्ग-
प्रोद्यद्वैफल्यशल्यज्वरितफणधरग्रामणीभक्तिदृष्टः ।
भूरिश्रद्धानिबद्धस्तवनतभुजगीदृक्प्रसूनार्च्यमानो
भित्त्वा सालान्प्रविष्टः फणिपतिभुवनं पातु रामस्य बाणः ।।५८।।
खेलद्धेमाब्जमालं शकलितरणकृद्दुन्दुभिक्रूरशृङ्गं
कक्षप्रक्षिप्तरक्षःपतिविधुतशिरःप्रान्तघातक्षमान्तम् ।
तारावक्षोजभाराहृतधुसृणरसं वालिनो बाहुमध्यं
विध्यन्वाणो विदध्यान्मम शुभमनिशं रामतूणीरधामा ॥५९॥
तारातारप्रलापद्विगुणितकरुणाक्रन्दकिष्किन्धमुद्य-
त्त्रासापक्रान्तकीशप्लवननिपतितानोकहानेकशाखम् ।
सुग्रीवान्तःसमग्रीभवदरिपतनानन्दमिन्धानरूपं
चित्ते कृत्तेन्द्रसूनुं रघुपतिविशिखं शीलयामः शुभाय ।। ६० ॥
ईडे वीरस्य गाढश्रयितघनजटामण्डलस्य श्रमाम्भः-
सिक्तालीकस्य वीचीनिचयवलयिने कुप्यतः सागराय ।
आरक्तापाङ्गलीढश्रुतिनिकटचरन्मुष्टिसंदष्टमूलं
चापातिक्रान्तशल्यज्वलदनलमिषुं शान्तये साध्वसानाम् ॥६१॥
संसृप्तज्वालतप्तप्रबलगिरिदरीगर्भनिर्भेदखेद-
क्षुभ्यद्धर्यर्क्षरूक्षध्वनिचकितगजोन्मुक्तफीट्कारघोरम् ।
अम्भःशोषोपलम्भक्षणचुरुचुरुतोद्बुद्बुदस्त्यानफेनं
पारावाराम्बुपूरं चिकलयिषुरिषुः पातु पौलस्त्यजेतुः ॥ ६२ ॥
भ्रश्यन्निर्घातनश्यद्धृति तिमिरभराक्रान्तमुद्भ्रान्तलोकं
वातूलध्वस्तमूलक्षितिरुहमवनीकम्पसंपन्नशोकम् ।
तिर्यच्चन्द्रार्कचर्याचकितमुनि जगत्कुर्वता येन पूर्वे
लक्षीचक्रे समुद्रः स हरतु दुरितं रामभद्रीयबाणः ॥ ६३ ॥
शुष्यत्पाथोधिकुक्षिभ्रमदमितमहाग्राहवालाग्रघात-
क्षुभ्यत्कल्लोलगर्भप्रभवकलकलव्याप्तविध्यण्डमध्यम् ।
दिक्कोणव्यापिनव्यद्युमणिशतसमुद्भाव्यसाचिव्यभाव्य-
ज्वालामालाकरालं विपदपहतये रामबाणं स्मरामः ॥ ६४ ॥
पाथःक्काथासहाधःपतदुरुमकरत्रस्तपर्यस्तयादो-
निर्वृत्तावर्तचक्रभ्रमणविवलदुत्ताननिष्प्राणमीनम् ।
निष्टापत्रुट्यदब्जप्रकरपटपटध्वानसंरुद्धमब्धिं
यश्चक्रे प्रागिषुं तं खरमथनकराम्भोजभाजं भजामः ॥ ६५ ॥
उत्क्रामत्प्राणनक्राननविलविगलत्प्राङ्विगीर्णाम्बुमर्त्ये
धूम्यासंसर्गताम्यद्रजनिचरकुलत्रासमुक्ताधिवासम् ।
अन्योन्यश्लिष्टनष्टद्विरसनमनलज्वाललीनाभ्रजालं
कुर्वन्नम्भोधिमुर्वीदुहितृपतिशरः पातु नः क्षेमहेतुः ॥ ६६ ॥
संमुह्यत्सह्यकन्यं तरलितमुरलं जृम्भितातङ्कगङ्गं
सद्यःक्रन्दत्कलिन्दात्मजमवशलुठन्नर्मदातुङ्गभद्रम् ।
खेलज्ज्वालावलीढक्षुभितसरभसोद्वेलकल्लोलचक्रे
विक्रोशत्यम्बुराशौ रघुपतिविशिखः पातु मां यातुमाथी ॥६७॥
अन्योन्यश्लिष्टवीचीभुजलतमभितःकीर्णशैवालकेशं
लोलत्पद्मेक्षणान्तस्रवदमितमधुस्यन्दबाष्पानुबन्धम् ।
चक्रन्दुः सिन्धवो यन्मुखवलदनलज्वालतान्ते स्वकान्ते
सः श्रेयस्ताटकेयप्रमथनविशिखो यच्छतादिच्छतां नः ॥६८ ॥
वैडूर्यस्निग्धमुग्धद्युतिरमरधुनीमुख्यनारीपरीतो
रत्नस्रङ्मौलिरात्मप्रभवमणिगणालंकृतो रक्तचेलः ।
यस्मिन्प्राणान्तदण्डप्रणयिनि समुपागम्य रम्यैर्वचोभि-
र्भक्त्या तुष्टाव बद्धाञ्जलिपुटमुदधिस्तत्प्रभोरस्त्रमीडे ॥ ६९ ॥
अन्वञ्चज्जह्नुकन्याशिशिरकरतलामृष्टनिष्टप्तभाग-
स्तातप्रेमाप्तधन्वन्तरिकरकलितच्छिन्नगात्रार्द्रपट्टः ।
काङ्क्षन्नम्भोधिरन्तर्घनममृतरुचेरात्मजस्याङ्कपालिं
निन्ये यद्ग्रस्तमुक्तः कथमपि दिवसं तं भजे रामबाणम् ॥७०॥
अङ्कालंकारलङ्कापुरशिखरशिलाचक्रविक्रान्तवीर-
क्रूरक्रोधाट्टहासश्रवकुपितकपिक्ष्वेडिताम्रेडितानि ।
ज्यानिर्घोषेऽतिशय्य प्रवहति विहगात्रंहसा संहसन्तं
तं रक्षश्चक्षुरुष्णंकरणमधिरणं रामबाणं नमामि ॥ ७१ ॥
कृत्तं येनापतत्तद्रणशिरसि शिरः श्मश्रुलं रश्मिकेतोः
सुप्तघ्नश्च न्यपप्तद्भुवि दलितशिरा यज्ञकोपेन साकम् ।
भग्नं द्रागग्निकेतोरपि धरणिगतं शीर्षमाकार्षि कङ्कै-
र्लङ्कातङ्कैकहेतुः स शरपरिवृढः पातु सीताधिनेतुः ॥ ७२ ॥
सातङ्कामर्त्यसङ्घानभिलषितनिजालोकनं शोकनम्र-
स्वर्बन्दीनिर्भराश्रुस्नपितमषिरजोद्गीर्णपाथःकणार्द्रम् ।
उन्मीलत्केलिकोपाकुलमयतनयामात्रदृष्टप्रणामं
दाशग्रीवं किरीटं रणभुवि विकिरत्रामबाणः पुनातु ॥ ७३ ॥
वेगादाकाशवीथ्यामुपरि परिहरन्नभ्रवृन्दं विभिन्द-
न्नाकर्षन्काककङ्कप्रकरमधिनभश्चक्रमुच्चैर्भ्रमन्तम् ।
दोर्दण्डः कौम्भकर्णः कपिवरदलनप्राप्तदम्भोलिकेलि-
र्येन व्यालूनमूलः क्षितिमभजदयं त्रायतां रामबाणः ॥ ७४ ॥
निर्घातक्रूरपातध्वनिचकितजगद्भुग्रभूगर्भमग्न-
क्रोडावध्यङ्गपीडाकुलममरकुलोन्मुक्तहर्षाट्टहासम् ।
यत्कृत्ताभ्यां पदाभ्यां द्रुतमपतदधः कौम्भकर्णे शरीरं
तस्मादन्यं न मन्ये रघुवृषभशराद्रक्षणे दक्षिणं नः ॥ ७५ ॥
त्रस्तापावृत्तमत्तद्विपचकितललद्दुष्टतुङ्गोष्ट्रपृष्ठ-
भ्रश्यन्नैःसाणिकाशुत्रुटितपदपुनःसंध्यपारीणवैद्याम् ।
लङ्कां सुग्रीवविग्रीकृतविवृतनसारन्ध्रभीमो न्यरुन्ध-
द्राङ्मूर्धा कौम्भकर्णो यदपहृतगलः पातु बाणः स नेतुः ॥७६।।
निष्पिष्टानल्परक्षःकपिकुलमसकृद्भूतले पातुकस्य
क्षिप्तोदञ्चद्विमानस्खलितसुरमुपर्यम्बरे चोत्पतिष्णोः ।
वृत्तं यत्कृत्तमूर्ध्नः क्षणमधिसमरं कुम्भकर्णस्य नृत्तं
भूता मामेति भीताः कथमपि ददृशुस्तं भजे रामबाणम् ।। ७७ ।।
बाणा लूनाः सुराणामपि पिशितभुजो येन कङ्कच्छदाङ्क-
प्रेङ्खत्पुङ्खाभिरामा रणभुवि तरसामाकरा माकराक्षाः ।
नीतस्तातस्य पार्श्वे तदनु खरसुतोऽप्यस्त्रशस्त्रप्रवीण-
स्तेन मस्ताटकारेरिह वयमिषुणा केवलं सावलम्बाः ॥ ७८ ।।
१. 'परिसरन्नभ्रवृन्दं' इति स्थिते भव्यः पाठो भवेदिति भाति.
कथमपि कपिभिर्विद्रुते दूरमद्रौ' इति पाठभेदो दृश्यते.कोदण्डादुज्जिहानो नमदमरवधूसंघसंगीतकीर्तिः
प्रीणन्गीर्वाणलोकं यमिकुलसहितं तेजसा जृम्भितेन ।
रामस्यामित्रवर्गे मथितुमखिलमाबालमुत्साहपर्या-
णद्धोऽस्माकं शुभानि स्तबकयतु शरो वेगनिर्धूतमेघः ॥ ७९ ॥
निर्गच्छद्वैरिवर्गच्छलजलदकुलोन्मुक्तनाराचधारा-
विच्छेदाभिज्ञकङ्कच्छदजवपवनप्रेङ्खितक्रूरपुङ्खः ।
बाणो रामस्य शाणोपलनिशितशिखाधालधल्यावदात-
ह्रादिन्याख्यातशातक्रतवदुरितदुर्भिक्षयोगः पुनातु ॥ ८० ॥
मौर्वीटंकारखर्वीकृतयुगविगमोद्भूतजीमूतशब्दै-
श्चापैरुद्भ्रान्तचामीकरमयशिखरैर्मुञ्चतोऽस्त्रप्रपञ्चम् ।
तूणैरक्षीणबाणैरविरहितवहान्सङ्घशो वीररामा-
न्संग्रामे दर्शयन्तं तमरिपरिषदे नौमि रामस्य बाणम् ॥ ८१ ॥
व्याकीर्णस्वर्णपट्टद्युतिविशददिशं वैरिधैर्यप्रणाडी-
लुण्टाकध्वानघण्टाघटितसदटनिं मण्डलीकृत्य चापम् ।
सङ्ग्रामे रामचन्द्रे सरति भुवि दिवि च्छिन्नभिन्नापविद्ध-
क्रव्यादव्याहताम्भोवहनिवहमहं भावये बाणराजम् ।। ८२ ॥
आराद्धुं युद्धभूमिं निशितनिजशिखाकृत्तमत्तेभकुम्भ-
प्रश्च्योतद्रक्तनिश्चप्रचघुसृणरसालेपदत्तावलेपाम् ।
सोत्कण्ठः पुण्डरीकस्रजमसृजदरं खण्डितारिप्रकाण्ड-
श्वेतच्छत्रच्छलाद्यो हृदि सपदि स मे रामबाणोऽस्तु भूत्यै॥८३॥
साटोपाघातगाढत्रुटितपटुरटत्कङ्कटोद्घाटिताङ्ग-
क्रव्यादोरःकवाटभ्रमणलगदसृक्पङ्कभृत्कङ्कपत्रः ।
आकर्षन्नेकमाकस्मिकमिव तटितः खण्डमुच्चण्डवेगः
क्रीडन्नीडानपीडाव्यपनुदपनुदेदापदं रामबाणः ॥ ८४ ॥
कृत्तक्षिप्ताश्वकुक्षिस्रुतरुधिरमिलद्वध्रिकागृध्नुगृध्नी-
सङ्घानाघ्रातजङ्घाकरिककरिकरच्छेदविस्रंसिमांसा ।
चक्रे येनारिसेना विदलितनिपतद्दुष्टवीरास्यदष्ट-
स्कन्धक्रन्दच्छृगालभ्रमणकलुषिता रामबाणं तमीडे ॥ ८५ ॥
कृन्तद्गोमायुदन्तकृकचकटकटात्कारघोरास्थिकूटं
कङ्कोरुत्रोटिटङ्कत्रुटितपटपटाकुर्वदुच्चण्डमुण्डम् ।
चक्रं यत्क्रूरशल्यक्रमणविगलितप्राणमासीदरीणां
तन्यान्मे भूमिकन्यासहचरविशिखस्तापनिर्वापणं सः ।। ८६ ॥
कस्मैचित्कापि मैत्री निरुपधि दिदिशे दाशमुख्याय येन
क्षेमं यत्संनिधाने समिति पृतनया दाशमुख्या यये न ।
तस्य श्रीराघवेन्दोररिचकितशचीदेवनानाशुगन्तं
भक्तान्कुर्वन्तमीडे सुलभसुखनदीदेवनानाशुगं तम् ॥ ८७ ॥
क्षीणौजःकौणपासृक्कणविकिरणतो द्राग्रणक्षोणिकोणं
शोणीकुर्वाणमुद्यद्रणरणकरणद्रावणद्रावणज्ञम् ।
प्राणत्राणप्रवीणं प्रणतिचणनृणां प्रक्वणद्वेणुवीणा-
पाणिवस्त्रैणवाणीगुणितगुणगणं रामबाणं प्रणौमि ॥ ८८ ॥
कालीहर्यक्षकण्ठध्वनिभरपरुषं कुर्वतामट्टहासं
साटोपन्यस्तपादक्रमनमितभुवां भग्नशूलद्रुमाणाम् ।
१. दाशमुख्याय धीवरश्रेष्ठाय येन राघवेन्दुना इति प्रथमपादे. दाशमुख्या दशमु- खसंबन्धिन्या यये प्राप्तम्. 'या प्रापणे'. कर्मणि लिट्. आत्मनेपदम्. नेति नञ्प्रतिषेधे इति द्वितीयपादे. अरिचकितस्य रावणाद्भीतस्य शचीदेवस्य महेन्द्रस्य नानाविधाः याः शुचः शोकाः तासामन्तं नाशप्रदमिति तृतीयपादे. मुखमेव नदी सुलभं सुखनद्यां देवनं विहारो येषां तान् सुलभसुखनदीदेवनान् ; आशुगं बाणं तमिति यच्छब्दप्रतिनिर्देशः. २. रावणद्रावणझं रावणं विद्रावयन्तमित्यर्थः, ३. अदसीयशृङ्गारतिलकमाणे- 'कालीहर्यर्क्षकण्टध्वनिभरपरुषं कुर्वतोरट्टहासं साटोपन्यस्तपादक्रमनमदवनि भ्राम्यतोर्मण्डलेन । निर्घातक्रूरमुष्टिप्रहृतबृहदुरस्तारठात्कारघोरा
युद्धारम्भा हिडिम्बानिलसुतबलयोर्मल्लयोरुल्लसन्ति ॥ १४८ ॥ इति.निर्धातक्रूरमुष्टिप्रहृतबृहदुरस्तारठात्कारघोरे
युद्धे निर्दग्धलङ्कं रघुपतिविशिखं नौमि रक्षःकपीनाम् ॥ ८९ ।।
तं वन्दे रामबाणं रजनिचरचमूः खां पुरीं यत्प्रभाभिः
सालंकारामवाटीकत मदविधुरा बन्धुरागा विनेत्रा ।
वर्षित्रा येन चाथ ज्वलनमजनि न प्रापिता दौरवस्थ्यं
सा लङ्कारामवाटी कतमदविधुराबन्धुरागा विनेत्रा ॥ ९० ॥
संस्पर्धारब्धयुद्धाभिमुखदशमुखक्रूरपादप्रचार-
न्यञ्चद्भूकुञ्चिताङ्गद्विरसनवरसंप्रार्थितस्वप्रवृत्तिः ।
चापारोपाय कुप्यन्निव दिशि ददृशे यो विलम्बासहत्वा-
ज्ज्वालाजिह्वालवक्त्रः स दहतु महतीमापदं रामबाणः ॥ ९१॥
कल्पान्तोद्भूतवातभ्रमितजलधरोद्धोषगम्भीरगर्ज-
द्रक्षोनाथाट्टहासश्रवणसरभसोत्पुष्यदान्ध्ये फणीन्द्रे ।
येनार्चिर्वृन्दसंदर्शितविविधजगच्चक्षुषा दिक्षु साक्षा-
दक्षान्त्येवोदलासि क्षिपतु स विपदं क्षिप्रमैक्ष्वाकबाणः ॥ ९२ ॥
शार्दूलक्रोष्टुकोलश्वखरमकरहर्यर्क्षकाकोलकङ्क-
श्येनास्यानाशरेशभ्रमदलघुधनुश्चक्रमुक्तान्पृषत्कान् ।
१. सालंकाराम् , अवाटीकत, मदविधुरा, बन्धुरागा, विनेत्रा, . इति प्रथमार्धे; सा, लङ्कारामवाटी, कतमत् , अविधुराबन्धुरागा, विनेत्रा, इति द्वितीयार्धे प- दच्छेदः. यत्प्रभाभिः यस्य बाणस्य तेजसा हेतुना विनेत्रा विगतनयना अत एव मदविधुरा युद्धगर्वरहिता बन्धुषु रागो यस्याः सा बन्धुरागा। बन्धूनेवाभिलषन्ती न तु युद्धे शरीरत्यागमिति भावः । रजनिचरचमूः सालंकारां अलंकारैः रम्भास्तम्भतोरण- मालिकादिभिः सहिताम् । रामबाणपतनात्पूर्वमिति भावः । पुरीं अवाटीकत । युद्धभूमिं परित्यज्य प्राप्तवतीत्यर्थः । 'टीकृ गतौ' । अवपूर्वात्ततो लङ् । आत्मनेपदम् । अथ तदन- न्तरम् । ज्वलनं वर्षित्रा । वृषेस्त्रन्नन्तादतस्तृतीया । विनेत्रा शिक्षकेण । दुर्जनानामिति शेषः । येन बाणेन सा प्रसिद्धा लङ्काया आरामवाटी उपवनवाटी । वीनां पक्षिणां धूः विधुरा । 'ऋक्पू:-' इति समासान्तः । विधुरया पक्षिभरेण बन्धुरा मनोज्ञा अगाः वृक्षा: सा न भवतीति अविधुराबन्धुरागा सती । दग्धत्वादिति भावः। कतमत् कीदृशम् । डतम- च्प्रत्ययान्तः किंशब्दः । दुःखरूपा अवस्था यस्याः सा दुरवस्था, तस्या भावः दारैवस्थ्यम् ।
तच्च बहुविधं पक्षिदाहवृक्षदाहलतादाहादिदुःखानां बहुत्वात् तं रामबाणं वन्दे.तारोल्काधूमकेतुग्रहदहनतडिच्चन्द्रचण्डांशुवृत्त्या
छिन्दानं दाशरथ्याशुगमधिसमरं चिन्तये शोकशान्त्यै ॥९३ ॥
लीलाविक्षिप्तशूलाशनिमुसलगदामुद्गरप्रग्रहोग्रं
यस्मिन्नाश्चर्यचर्ये कवलयति बलादात्मनोदस्तमस्त्रम् ।
पौलस्त्यः श्वासवेगग्लपितरदपटश्रीर्निशश्वास शश्व-
त्तस्मै विस्मेरविद्याधरनयनकृषे नौमि रामाशुगाय ॥ ९४ ॥
क्रुद्ध्यत्पौलस्त्यहस्तभ्रमितधनुरपश्लिष्टघोरास्त्रसृष्टा-
न्क्ष्वेलज्वालाजटालान्पिहितदशफणामण्डलान्कुण्डलीशान् ।
हत्त्वा संवर्तमेघस्फुरदुरुगरुदास्फालनिर्धूतमूर्ध्नो
विक्रामन्व्योम्नि चक्रायुधरथवपुषा पातु रामस्य बाणः ॥ ९५ ॥
हुंकारत्रस्तविश्वत्रयममरपतिप्रार्थितभ्रूनिदेशं
प्रेम्णा संचारिताक्षं मुहुरपि च परस्त्रैणतुङ्गस्तनेषु ।
मध्वासाराद्रकूर्चे मदनकलमयापत्यपीताधरोष्ठं
मूर्धानं निर्धुनानो युधि दशशिरसः पातु मां रामबाणः ॥९६ ॥
सद्यःकृत्तापविद्धत्रिदशपथसमाकीर्णपौलस्त्यमूर्ध-
द्राघीयःश्मश्रुपाशग्रथितपदवलद्गृध्रसंपातरौद्रे ।
युद्धारम्भे सुशिक्षावशदुरवगमादानसंधानमोक्ष-
स्तादृक्षो रामबाणो वितरतु नितरां भव्यमव्याहतं नः ॥९७ ॥
कृत्तप्रभ्रष्टदृप्यद्दशवदनशिरःपिण्डतालीफलाली-
मुह्यत्काकोलकोलाहलमुहुरनुहुंकारिगोमायुभीमाम् ।
कुर्वन्सङ्ग्रामभूमिं कुतुकघनमनश्चारणस्त्रैणमुक्त-
प्रभ्रश्यत्पारिजातप्रसवसुरभिलः पातु रामस्य बाणः ॥९८ ॥
सङ्ग्रामे रूपमानादमरभयवहाद्विन्ध्यमेरूपमाना
निर्यन्नीराक्षसीसाकृतिरदनमुखी वाहिनी राक्षसी सा ।
१. रूपमानात् रूपप्रमाणात् । विन्ध्यमेरूपमाना विन्ध्यमेरुतुल्या । उत्तुङ्गशरीरेत्य- र्थः । रक्षोनिष्टमुत्तुङ्गशरीरत्वं तद्वाहिन्यामारोपितम् । निर्यन्नीरे शोकेन विगलद्वाष्पे अ-
क्षिणी येषां तानि निर्यन्नीराक्षाणि । सीसाकृतयः श्वेततया सीसतुल्यरूपा रदना येषांदृष्ट्वा तत्रास कृत्तं दशवदनशिरो येन तत्रासकृत्तं
बाणं वन्देऽवमान्यं भगवत उदयद्वैभवं देवमान्यम् ॥ ९९ ॥
हाहाकुर्वाणसर्वाशरनिकरमविस्रम्भिणो जम्भजेतु-
र्भृत्यैरभ्येत्य दृष्टं मुदितकपिकुलास्फालितोद्भूतवालम् ।
आहृत्य श्येनकङ्कावलिदलितभुजाभ्यन्तरं स्यन्दनान्ता-
ल्लङ्केशं भ्रंशयन्तं रघुपतिविशिखं नौमि रोगोपशान्त्यै ॥ १०० ।।
यत्पत्रं तत्सवित्रीभवति हनुमतो नीलसुग्रीवसर्गा-
वायत्तौ यत्फले चानिशमिनशशिनौ गच्छतो यच्छरीरे ।
अन्यत्किं यद्गरिम्णि त्रिपुरहरधनुर्दुग्धसिन्धोश्च मन्थः
पौलस्त्यप्राणहारी युधि भवतु स मे रामबाणः शरण्यः॥१०१।।
आदौ मारीचमात्रप्रचलितचरणन्यासनिवृत्तरेखं
पश्चात्क्रामत्खराश्वद्विरदरथभटाक्रान्तिवैपुल्यभाजम् ।
निस्तीर्णे कुम्भकर्णप्रभृतिभिरगमद्बन्धुभिः स्पन्दितैः प्रा-
ग्यत्कृत्तः पङ्क्तिवक्रो यमनगरपथं रामबाणं तमीडे ॥ १०२॥
कल्याणं रामबाणः कलयतु भुवनातङ्कनिस्तन्द्रलङ्का-
नाथस्वच्छन्दबन्दीकृतरुददमरस्त्रैणनिर्मोक्षदक्षः ।
निर्विघ्नारम्भरम्भाकुचकलशपरीरम्भसौख्योपुलम्भ-
स्निह्यज्जम्भारिसंभावितविनतजनत्राणचातुर्यधुर्यः ॥ १०३ ॥
यश्चण्डीजानिशैलग्रहणकृतधियः खण्डितेन्द्रानिलाग्ने-
र्लङ्कानाथस्य कण्ठानहह कदलिकाकाण्डकर्ते चकर्त।
तानि सीसाकृतिरदनानि । एवंविधानि मुखानि यस्याः सा तथोक्ता वाहिनी । राक्षसी रक्षःसंबन्धिनी । सेति प्रसिद्धौ । तत्रास त्रस्ता बभूव । कृत्तं छिन्नम् । तत्र तस्मिन्स- ङ्ग्रामे । असकृत् बहुकृत्वः तं बाणं वन्दे नौमि । अवमादधमादन्यं उत्तममित्यर्थः । उ- दयद्वैभवं उद्यत्प्रभावम् । देवानां मान्यं पूज्यं देवमान्यम् । इति क्रमेण पदच्छेदः पदा- र्थश्चावगन्तव्यः. १. 'यस्य पत्रेषु पवन: फले पावकभास्करौ। शरीरमाकाशमयं गौरवे मेरुमन्दरौ॥'
इति रामायणे. २. निरोष्ट्यवर्ण श्लोकः.हर्षेणाशेषगीतं त्रिजगति नितरां दृश्यते यस्य तेजः
सः श्रेयस्ताटकारेः करतलकलितः सायकः साधयेन्नः ॥१०४॥
भास्वद्भानुप्रभावाभिभवपटुरुरुस्वप्रभाभिर्विधून्व-
न्सौवर्गोपप्लवौघोद्भवमृजु सुमनोभावसुप्रापरूपः ।
पापव्यालोपमायुर्विभवमपि मधुस्वादुवाग्गुम्फमावि-
ष्कुर्वन्प्रह्वेषु बाणो भवतु शुभवहोऽसौ सुबाहुद्विषो वः ॥१०५॥
स्वच्छन्दं यश्चकार प्रबलनिशिचरव्यूहमारी चलाव-
स्थानां लङ्कासमृद्धिं प्रतिभटपरिभाव्यूहमारीचलावः ।
बाणं तं प्राप्तसीतारमणकरसरोजं भजे त्रासितेन
ख्यातस्तोत्रे दशास्येऽपि च कृतकदनं जम्भजेत्रा सितेन ॥१०६॥
साभावज्ञानसत्रापहतिनिरतभिल्लोकरक्षाविलासा
सालाविक्षारकल्लोलजलधितनुमग्रामसक्ता सदासा ।
१. सर्वौष्ट्यवर्णश्लोकः. २. निशिचराणां व्यूहं समूहं मारयितुं शीलमस्या- स्तीति निशिचरव्यूहमारी । चलं अवस्थानं यस्यास्तां लङ्कासमृद्धिम् । प्रतिभटान् शत्रून् परिभवितुं शीलमस्यास्तीति प्रतिभटपरिभावी । तादृश ऊहो बुद्धि विशेषो यस्य सः । तथोक्तं मारीच लुनातीति प्रतिभटपरिभाव्यूहमारीचलावः । प्राप्तं सी- तारमणकरसरोजं येन सः तथोक्तम् । भजे नमर कुर्वे । त्रासितेन तर्जितेन । जम्भजेत्रा इन्द्रेण । सितेन बद्धेन । ‘षिञ् बन्धने' क्तः । इति पदच्छेदः पदार्थश्चावगन्तव्यः. ३. सभासंबन्धिनः साभाः सभायोग्याः । महान्त इत्यर्थः । तेपामवज्ञानं अवमानम् । सत्रस्य यज्ञस्य अपहतिः विधातिः। साभावज्ञाने सत्रापहतौ च निरतास्तत्परा मारीचादयः तान्भिनत्तीति साभावज्ञानसत्रापहतिनिरतभित् । लोकरक्षैव विलासो यस्याः सा त- थोक्ता । 'इषुर्द्वयोः' इत्यमरोक्तेरिपुविशेषणस्यापि स्त्रीलिङ्गता । साला: सप्तसालाः, अविः शैलः, क्षारकल्लोलजलधिः लवणोर्मिसमुद्रः, तेषां तनुषु मज्जतीति सालाविक्षारकल्लोलज- लधितनुमक् । रामसक्ता रामसंबन्धिनीत्यर्थः । सदा आसो गतिर्यस्याः सा सदासा। अस- तेर्गत्यर्थादास इति भावे घञ् । पत्रांशे वायुरूपेत्यर्थः । सादो विशरणम् । नाश इत्यर्थः । तेनासक्ता असंबद्धानित्या। आकाशरूपेत्यर्थः । समुज्वलमग्रं यस्याः सा समग्रा । अग्नि- सूर्यात्मकाग्रत्वादिति भावः । 'यस्य पत्रेषु पवनः फले पावकभास्करौ । शरीरमाकाश- मयं गौरवे मेरुमन्दरौ ॥' इति रामायणे । तामसन्नानिरासा । तामसः तमःप्रधानत्वा- द्रावण उच्यते। तं हन्तीति तामसन्नी । 'अमनुष्यकर्तृके च' इति हन्तेष्टः । न विद्यते रामस्य EOME'S FREE READINS RO शृङ्गारशतकम् । With u inch is inory ormat DLA GO BHER! TUND-BRANCU सादासक्ता समग्रा दिशतु शुभमिषुस्तामसघ्नानिरासा सारानिघ्ना समस्ताशरभटनिकरत्रासनज्ञावभासा ॥ १०७ ।। पायात्स्वीयाभिघातक्षतदशमुखदोर्मध्यमन्दोष्णनिर्य- द्रक्तात्यन्तोपयोगश्रमभरित इव स्वामिहस्ते निषण्णः । प्रक्रान्तस्तोत्रशकाम्बुजभवगिरिशप्रष्ठसौवर्गवर्ग- स्वैरस्वाराज्यभोगप्रणयनसुभगं भावुको रामबाणः ॥ १०८ ॥ इति श्रीरामभद्रदीक्षितविरचितो रामबाणस्तवः संपूर्णः ।