प्रमुखा विकल्पसूचिः उद्घाट्यताम्


रामरहस्योपनिषत्

कैवल्यश्रीस्वरूपेण राजमानं महोऽव्ययम् ।
प्रतियोगिविनिर्मुक्तं श्रीरामपदमाश्रये ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः । व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ रहस्यं रमतपतं वासुदेवं च मुद्गलम् ।
शाण्डिल्यं पैङ्गलं भिक्षुं महच्च्हारीरकं शिखा ॥ १॥

सनकाद्या योगिवर्या अन्ये च ऋषयस्तथा ।
प्रह्लादाद्या विष्णुभक्ता हनूमन्तमथाब्रुवन् ॥ २॥

वायुपुत्र महाबाहो किंतत्त्वं ब्रह्मवादिनाम् ।
पुराणेष्वष्टादशसु स्मृतिष्वष्टादशस्वपि ॥ ३॥

चतुर्वेदेषु शास्त्रेषु विद्यास्वाध्यात्मिकेऽपि च ।
सर्वेषु विद्यादानेषु विघ्नसूर्येशशक्तिषु ।
एतेषु मध्ये किं तत्त्वं कथय त्वं महाबल ॥ ४॥

हनूमान्होवाच ॥
भो योगीन्द्राश्चैव ऋषयो विष्णुभक्तास्तथैव च ।
श्रुणुध्वं मामकीं वाचं भवबन्धविनाशिनीम् ॥ ५॥

एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् ।
राम एव परं ब्रह्म तत्त्वं श्रीरामो ब्रह्म तारकम् ॥ ६॥

वायुप्त्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता
हनूमन्तं पप्रच्च्हुः रामस्याङ्गानि नो ब्रूहीति ।
हनूमान्होवाच । वायुपुत्रं विघ्नेशं वाणीं दुर्गां
क्षेत्रपालकं सूर्यं चन्द्रं नारायणं नारसिंहं
वायुदेवं वाराहं तत्सर्वान्त्समात्रान्त्सीतं लक्ष्मणं
शत्रुघ्नं भरतं विभीषणं सुग्रीवमङ्गदं
जाम्बवन्तं प्रणवमेतानि रामस्याङ्गानि जानीथाः ।
तान्यङ्गानि विना रामो विघ्नकरो भवति ।
पुनर्वायुपुत्रेणोक्तास्ते हनूमन्तं पप्रच्च्हुः ।
आञ्जनेय महाबल विप्राणां गृहस्थानां प्रणवाधिकारः
कथं स्यादिति । स होवाच श्रीराम एवोवाचेति । येषामेव
षडक्षराधिकारो वर्तते तेषां प्रणवाधिकारः स्यान्नान्येषाम् ।
केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य
यो राममन्त्रं जपति तस्य शुभकरोऽहं स्याम् । तस्य
प्रणवस्थाकारस्योकारस्य मकरास्यार्धमात्रायाश्च
ऋषिश्च्हन्दो देवता तत्तद्वर्णावर्णावस्थानं
स्वरवेदाग्निगुणानुच्चार्यान्वहं प्रणवमन्त्रद्द्विगुणं
जप्त्वा पश्चाद्राममन्त्रं यो जपेत् स रामो भवतीति
रामेणोक्तास्तस्माद्रामाङ्गं प्रणवः कथित इति ॥
विभीषण उवाच ॥
सिंहासने समासीनं रामं पौलस्त्यसूदनम् ।
प्रणम्य दण्डवद्भूमौ पौलस्त्यो वाक्यमब्रवीत् । । ७॥

रघुनाथ महाबाहो केवलं कथितं त्वया ।
अङ्गानां सुलभं चैव कथनीयं च सौलभम् ॥ ८॥

श्रीराम उवाच । अथ पञ्च दण्डकानि पितृघ्नो
मातृघ्नो ब्रह्मघ्नो गुरुहननः कोटियतिघ्नोऽनेककृतपापो
यो मम षण्णवतिकोटिनामानि जपति स तेभ्यः पापेभ्यः
प्रमुच्यते । स्वयमेव सच्चिदानन्दस्वरूपो भवेन्न किम् ।
पुनरुवाच विभीषणः । तत्राप्य शक्तोऽयं किं करोति ।
स होवाचेमम् । कैकसेय पुरश्चरणविधावशक्तो
यो मम महोपनिषदं मम गीतां मन्नामसहस्रं
मद्विश्वरूपं ममाष्टोत्तरशतं रामशताभिधानं
नारदोक्तस्तवराजं हनूमत्प्रोक्तं मन्त्रराजात्मकस्तवं
सीतास्तवं च रामषडक्षरीत्यादिभिर्मन्त्रैर्यो मां
नित्यं स्तौति तत्सदृशो भवेन्न किं भवेन्न किम् ॥
इति प्रथमोऽध्यायः ॥ १॥

सनकाद्या मुनयो हनूमन्तं पप्रच्च्हुः ।
आञ्जनेय महाबल तारकब्रह्मणो रामचन्द्रस्य
मन्त्रग्रामं नो ब्रूहीति ।
हनूमान्होवाच ।
वह्निस्थं शयनं विष्णोरर्धचन्द्रविभूषितम् ।
एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥ १॥

ब्रह्मा मुनिः स्याद्गायत्रं च्हन्दो रामस्य देवता ।
दीर्घार्धेन्दुयुजाङ्गानि कुर्याद्वह्न्यात्मनो मनोः ॥ २॥

बीजशक्त्यादि बीजेन इष्टार्थे विनियोजयेत् ।
सरयूतीरमन्दारवेदिकापञ्कजासने ॥ ३॥

श्यामं विरासनासीनं ज्ञानमुद्रोपशोभितम् ।
वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ॥ ४॥

अवेक्षमाणमात्मानमात्मन्यमिततेजसम् ।
शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया ॥ ५॥

चिन्तयन्परमात्मानं भानुलक्षं जपेन्मनुम् ।
वह्निर्नारायणो नाड्यो जाठरः केवलोऽपि च ॥ ६॥

द्व्यक्षरो मन्त्रराजोऽयं सर्वाभीष्टप्रदस्ततः ।
एकाक्षरोक्तमृष्यादि स्यादाद्येन षडङ्गकम् ॥ ७॥

तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः ,
त्र्यक्षरो मन्त्रराजः स्यात्सर्वाभीष्टफलप्रदः ॥ ८॥

द्व्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः ।
ऋष्यादि पूर्ववज्ज्ञेयमेतयोश्च विचक्षणैः ॥ ९॥

सप्रतिष्ठौ रमौ वायौ हृत्पञ्चार्णो मनुर्मतः ।
विश्वामित्रऋषिः प्रोक्तः पङ्क्तिश्च्हन्दोऽस्य देवता ॥१०॥

रामभद्रो बीजशक्तिः प्रथमार्णमिति क्रमात् ।
भ्रूमध्ये हृदि नाभ्यूर्वोः पादयोर्विन्यसेन्मनुम् ॥ ११॥

षडङ्गं पूर्ववद्विद्यान्मन्त्रार्णैर्मनुनास्त्रकम् ।
मध्ये वनं कल्पतरोर्मूले पुष्पलतासने ॥ १२॥

लक्ष्मणेन प्रगुणितमक्ष्णः कोणेन सायकम् ।
अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥ १३॥

जटाभारलसच्च्हीर्षं श्यामं मुनिगणावृतम् ।
लक्ष्मणेन धृतच्च्हत्रमथवा पुष्पकोपरि ॥ १४॥

दशाअस्यमथनं शान्तं ससुग्रीवविभीषणम् ।
एवं लब्ध्वा जयार्थी तु वर्णलक्षं जपेन्मनुम् ॥ १५॥

स्वकामशक्तिवाग्लक्ष्मीस्तवाद्याः पञ्चवर्णकाः ।
षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः ॥ १६॥

पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकपूर्वकम् ।
लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा ॥ १७॥

श्रीमायामन्मथैकैक बीजाद्यन्तर्गतो मनुः ।
चतुर्वर्णः स एव स्यात्षड्वर्णो वाञ्च्हितप्रदः ॥ १८॥

स्वाहान्तो हुंफडन्तो वा नत्यन्तो वा भवेदयम् ।
अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः ॥ १९॥

ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिरेव च ।
अगस्त्यश्च शिवः प्रोक्ता मुनयोऽक्रमादिमे ॥ २०॥

च्हन्दो गायत्रसंज्ञं च श्रीरामश्चैव देवता ।
अथवा कामबीजादेर्विश्वामित्रो मुनिर्मनोः ॥ २१॥

च्हन्दो देव्यादिगायत्री रामभद्रोऽस्य देवता ।
बीजशक्ती यथापूर्वं षड्वर्णान्विन्यसेत्क्रमात् ॥ २२॥

ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्यूरुषु पादयोः ।
बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णैवा षडङ्गकम् ॥ २३॥

कालाभोधरकान्तिकान्तमनिशं वीरासनाध्यासितं
    मुद्रां ज्ञानमयीं दधानमपरं हस्तांबुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
    पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ २४॥

श्रीरामश्चन्द्रभद्रान्तो ङेन्तो नतियुतो द्विधा ।
सप्ताक्षरो मन्त्रराजः सर्वकामफलप्रदः ॥ २५॥

तारादिसहितः सोऽपि द्विविधोऽष्टाक्षरो मतः ।
तारं रामश्चतुर्थ्यतः क्रोडास्त्रं वह्नितल्पगा ॥ २६॥

अष्टार्णोऽयं परो मन्त्रो ऋष्यादिः स्यात्षडर्णवत् ।
पुनरष्टाक्षरस्याथ राम एव ऋषिः स्मृतः ॥ २७॥

गायत्रं च्हन्द इत्यस्य देवता राम एव च ।
तारं श्रीबीजयुग्मं च बीजशक्त्यादयो मताः ॥ २८॥

षडङ्गं च ततः कुर्यान्मन्त्रार्णैरेव बुद्धिमान् ।
तारं श्रीबीजयुग्मं च रामाय नम उच्चरेत् ॥ २९॥

ग्लौंमों बीजं वदेन्मायां हृद्रामाय पुनश्च ताम् ।
शिवोमाराममन्त्रोऽयं वस्वर्णस्तु वसुप्रदः ॥ ३०॥

ऋषिः सदाशिवः प्रोक्तो गायत्रं च्हन्द उच्यते ।
शिवोमारामचन्द्रोऽत्र देवता परिकीर्तितः ॥ ३१॥

दीर्घया माययाङ्गानि तारपञ्चार्णयुक्तया ।
रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं परम् ।
भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे ॥ ३२॥

रामाभिरामां सौन्दर्यसीमां सोमावतंसिकाम् ।
पाशाङ्कुशधनुर्बाणधरां ध्यायेत्त्रिलोचनाम् ॥ ३३॥

ध्यायन्नेवं वर्णलक्षं जपतर्पणतत्परः ।
बिल्वपत्रैः फलैः पुष्पैस्तिलाज्यैः पङ्कजैर्हुनेत् ॥ ३४॥

स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः ।
पुनरष्टाक्षरस्याथ ब्रह्मगायत्र राघवाः ॥ ३५॥

ऋष्यादयस्तु विज्ञेयाः श्रीबीजं मम शक्तिकम् ।
तत्प्रीत्यै विनियोगश्च मन्त्रार्णैरङ्गकल्पना ॥ ३६॥

केयूराङ्गदकङ्कणैर्मणिगतैर्विद्योतमानं सदा
     रामं पार्वणचन्द्रकोटिसदृशच्च्हत्रेण वै राजितम् ।
हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे
     देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ३७॥

किं मन्त्रैर्बहुभिर्विनश्वरफलैरायाससाध्यैर्वृता
     किंचिल्लोभवितानमात्रविफलैः संसारदुःखावहैः ।
एकः सन्नपि सर्वमन्त्रफलदो लोभादिदोषोज्झितः
     श्रीरामः शरणं ममेति सततं मन्त्रोऽयमष्टाक्षरः ॥ ३८॥

एवमष्टाक्षरः सम्यक् सप्तधा परिकीर्तितः ।
रामसप्ताक्षरो मन्त्र आद्यन्ते तारसंयुतः ॥ ३९॥

नवार्णो मन्त्रराजः स्याच्च्हेषं षड्वर्णवन्न्यसेत् ।
जानकीवल्लभं ङेन्तं वह्नेर्जायाहुमादिकम् ॥ ४०॥

दशाक्षरोऽयं मन्त्रः स्यात्सर्वाभीष्टफलप्रदः ।
दशाक्षरस्य मन्त्रस्य वसिष्ठोऽस्य ऋषिर्विराट् ॥ ४१॥

च्हन्दोऽस्य देवता रामः सीतापाणिपरिग्रहः ।
आद्यो बीजं द्विठः शक्तिः कामेनाङ्गक्रिया मता ॥ ४२॥

शिरोललाटभ्रूमध्ये तालुकर्णेषु हृद्यपि ।
नाभूरुजानुपादेषु दशार्णान्विन्यसेन्मनोः ॥ ४३॥

अयोध्यानगरे रत्नचित्रे सौवर्णमण्डपे ।
मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥ ४४॥

सिंहासने समासीनं पुष्पकोपरि राघवम् ।
रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ॥ ४५॥

संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् ।
सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपसेवितम् ॥४६॥

श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ।
ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ॥ ४७॥

रामं ङेन्तं धनुष्पाणयेऽन्तः स्याद्वह्निसुन्दरी ।
दशाक्षरोऽयं मन्त्रः स्यान्मुनिर्ब्रह्मा विराट् स्मृतः ॥ ४८॥

च्हन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः ।
शेषं तु पूर्ववत्कुर्याच्चापबाणधरं स्मरेत् ॥ ४९॥

तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः ।
दशार्णो मन्त्रराजः स्याद्रुद्रवर्णात्मको मनुः ॥ ५०॥

शेषं षडर्णवज्ज्ञेयं न्यासध्यानादिकं बुधैः ।
द्वादशाक्षरमन्त्रस्य श्रीराम ऋषिरुच्यते ॥ ५१॥

जगती च्हन्द इत्युक्तं श्रीरामो देवता मतः ।
प्रणवो बीजमित्युक्तः क्लीं शक्तिर्ह्रीं च कीलकम् ॥ ५२॥

मन्त्रेणाङ्गानि विन्यस्य शिष्टं पूर्ववदाचरेत् ।
तारं मायां समुच्चार्य भरताग्रज इत्यपि ॥ ५३॥

रामं क्लीं वह्निजायान्तं मन्त्रोयं द्वादशाक्षरः ।
ॐ हृद्भगवते रामचन्द्रभद्रौ च ङेयुतौ ॥ ५४॥

अर्कार्णो द्विविधोऽप्यस्य ऋषिध्यानादिपूर्ववत् ।
च्हन्दस्तु जगती चैव मन्त्रार्णैरङ्गकल्पना ॥ ५५॥

श्रीरामेति पदं चोक्त्वा जयराम ततः परम् ।
जयद्वयं वदेत्प्राज्ञो रामेति मनुराजकः ॥ ५६॥

त्रयोदशार्ण ऋष्यादि पूर्ववत्सर्वकामदः ।
पदद्वयद्विरावृत्तेरङ्गं ध्यानं दशार्णवत् ॥ ५७॥

तारादिसहितः सोऽपि स चतुर्दशवर्णकः ।
त्रयोदशार्णमुच्चार्य पश्चाद्रामेति योजयेत् ॥ ५८॥

स वै पञ्चदशार्णस्तु जपतां कल्पभूरुहः ।
नमश्च सीतापतये रामायेति हनद्वयम् ॥ ५९॥

ततस्तु कवचास्त्रान्तः षोडशाक्षर ईरितः ।
तस्यागस्त्यऋषिश्च्हन्दो बृहती देवता च सः ॥ ६०॥

रां बीजं शक्तिरस्त्रं च कीलकं हुमितीरितम् ।
द्विपञ्चत्रिचतुर्वर्णैः सर्वैरङ्गं न्यसेत्क्रमात् ॥ ६१॥

तारादिसहितः सोऽपि मन्त्रः सप्तदशाक्षरः ।
तारं नमो भगवते रां ङेन्तं महा ततः ॥ ६२॥

पुरुषाय पदं पश्चाद्धृदन्तोऽष्टदशाक्षरः ।
विश्वामित्रो मुनिश्च्हन्दो गायत्रं देवता च सः ॥ ६३॥

कामादिसहितः सोऽपि मन्त्र एकोनविंशकः ।
तारं नामो भगवते रामायेति पदं वदेत् ॥ ६४॥

सर्वशब्दं समुच्चार्य सौभाग्यं देहि मे वदेत् ।
वह्निजायां तथोच्चार्य मन्त्रो विंशार्णको मतः ॥ ६५॥

तारं नमो भगवते रामाय सकलं वदेत् ।
आपन्निवारणायेति वह्निजायां ततो वदेत् ॥ ६६॥

एकविंशार्णको मन्त्रः सर्वाभीष्टफलप्रदः ।
तारं रमा स्वबीजं च ततो दाशरथाय च ॥ ६७॥

ततः सीतावल्लभाय सर्वाभीष्टपदं वदेत् ।
ततो दाय हृदन्तोऽयं मन्त्रो द्वाविंशदक्षरः ॥ ६८॥

तारं नमो भगवते वीररामाय संवदेत् ।
कल शत्रून् हन द्वन्द्वं वह्निजायां ततो वदेत् ॥ ६९॥

त्रयोविंशाक्षरोमन्त्रः सर्वशत्रुनिबर्हणः ।
विश्वामित्रो मुनिः प्रोक्तो गायत्रीच्हन्द उच्यते ॥ ७०॥

देवता वीररामोऽसौ बीजाद्याः पूर्ववन्मताः ।
मूलमन्त्रविभागेन न्यासान्कृत्वा विचक्षणः ॥ ७१॥

शरं धनुषि सन्धाय तिष्ठन्तं रावणोन्मुखम् ।
वज्रपाणिं रथारूढं रामं ध्यात्वा जपेन्मनुम् ॥ ७२॥

तारं नमो भगवते श्रीरामाय पदं वदेत् ।
तारकब्रह्मणे चोक्त्वा मां तारय पदं वदेत् ॥ ७३॥

नमस्तारात्मको मन्त्रश्चतुर्विंशतिमन्त्रकः ।
बीजादिकं यथा पूर्वं सर्वं कुर्यात्षडर्णवत् ॥ ७४॥

कामस्तारो नतिश्चैव ततो भगवतेपदम् ।
रामचन्द्राय चोच्चार्य सकलेति पदं वदेत् ॥ ७५॥

जनवश्यकरायेति स्वाहा कामात्मको मनुः ।
सर्ववश्यकरो मन्त्रः पञ्चविंशतिवर्णकः ॥ ७६॥

आदौ तारेण संयुक्तो मन्त्रः षड्विंशदक्षरः ।
अन्तेऽपि तारसंयुक्तः सप्तविंशतिवर्णकः ॥ ७७॥

तारं नमो भगवते रक्षोघ्नविशदाय च ।
सर्वविघ्नान्त्समुच्चार्य निवारय पदद्वयम् ॥ ७८॥

स्वाहान्तो मन्त्रराजोऽयमष्टाविंशतिवर्णकः ।
अन्ते तारेण संयुक्त एकोनत्रिंशदक्षरः ॥ ७९॥

आदौ स्वबीजसंयुक्तस्त्रिंशद्वर्णात्मको मनुः ।
अन्तेऽपि तेन संयुक्त एकत्रिंशात्मकः स्मृतः ॥ ८०॥

रामभद्र महेश्वास रघुवीर नृपोत्तम ।
भो दशास्यान्तकास्माकं श्रियं दापय देहि मे ॥ ८१॥

आनुष्टुभ ऋषी रामश्च्हन्दोऽनुष्टुप्स देवता ।
रां बीजमस्य यं शक्तिरिष्टार्थे विनियोजयेत् ॥ ८२॥

पादं हृदि च विन्यस्य पादं शिरसि विन्यसेत् ।
शिखायां पञ्चभिर्न्यस्य त्रिवर्णैः कवचं न्यसेत् ॥ ८३॥

नेत्रयोः पञ्चवर्णैश्च दापयेत्यस्त्रमुच्यते ।
चापबाणधरं श्यामं ससुग्रीवबिभीषणम् ॥ ८४॥

हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् ।
रामचन्द्रं हृदि ध्यात्वा दशलक्षं जपेन्मनुम् ॥ ८५॥

वदेद्दाशरथायेति विद्महेति पदं ततः ।
सीतापदं समुद्धृत्य वल्लभाय ततो वदेत् ॥ ८६॥

धीमहीति वदेत्तन्नो रामश्चापि प्रचोदयात्
तारादिरेषा गायत्री मुक्तिमेव प्रयच्च्हति ॥ ८७॥

मायादिरपि वैदुष्ट्यं रामादिश्च श्रियःपदम् ।
मदनेनापि संयुक्तः स मोहयति मेदिनीम् ॥ ८८॥

पञ्च त्रीणि षडर्णैश्च त्रीणि चत्वारि वर्णकैः ।
चत्वारि च चतुर्वर्णैरङ्गन्यासं प्रकल्पयेत् ॥ ८९॥

बीजध्यानादिकं सर्वं कुर्यात्षड्वर्णवत्क्रमात् ।
तारं नमो भगवते चतुर्थ्या रघुनन्दनम् ॥ ९०॥

रक्षोघ्नविशदं तद्वन्मधुरेति वदेत्ततः ।
प्रसन्नवदनं ङेन्तं वदेदमिततेजसे ॥ ९१॥

बलरामौ चतुर्थ्यन्तौ विष्णुं ङेन्तं नतिस्ततः ।
प्रोक्तो मालामनुः सप्तचत्वारिंशद्भिरक्षरैः ॥ ९२॥

ऋषिश्च्हन्दो देवतादि ब्रह्मानुष्टुभराघवाः ।
सप्तर्तुसप्तदश षड्रुद्रसंख्यैः षडङ्गकम् ॥ ९३॥

ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् ।
श्रियं सीतां चतुर्थ्यन्तां स्वाहान्तोऽयं षडक्षरः ॥ ९४॥

जनकोऽस्य ऋषिश्च्हन्दो गायत्री देवता मनोः ।
सीता भगवती प्रोक्ता श्रीं बीजं नतिशक्तिकम् ॥ ९५॥

कीलं सीता चतुर्थ्यन्तमिष्टार्थे विनियोजयेत् ।
दीर्घस्वरयुताद्येन षडङ्गानि प्रकल्पयेत् ॥ ९६॥

स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् ।
ध्यायेत्षट्कोणमध्यस्थरामाङ्कोपरि शोभिताम् ॥ ९७॥

लकारं तु समुद्धृत्य लक्ष्मणाय नमोन्तकः ।
अगस्त्यऋषिरस्याथ गायत्रं च्हन्द उच्यते ॥ ९८॥

लक्ष्मणो देवता प्रोक्तो लं बीजं शक्तिरस्य हि ।
नमस्तु विनियोगो हि पुरुषार्थ चतुष्टये ॥ ९९॥

दीर्घभाजा स्वबीजेन षडङ्गानि प्रकल्पयेत् ।
द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम् ॥ १००॥

धनुर्बाणधरं देवं रामाराधनतत्परम् ।
भकारं तु समुद्धृत्य भरताय नमोन्तकः ॥ १०१॥

अगस्त्यऋषिरस्याथ शेषं पूर्ववदाचरेत् ।
भरतं श्यामलं शान्तं रामसेवापरायणम् ॥ १०२॥

धनुर्बाणधरं वीरं कैकेयीतनयं भजे ।
शं बीजं तु समुद्धृत्य शत्रुघ्नाय नमोन्तकः ।

ऋष्यादयो यथापूर्वं विनियोगोऽरिनिग्रहे ॥ १०३॥
द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् ।

लवणासुरहन्तारं सुमित्रातनयं भजे ॥ १०४॥
हृं हनुमांश्चतुर्थ्यन्तं हृदन्तो मन्त्रराजकः ।

रामचन्द्र ऋषिः प्रोक्तो योजयेत्पूर्ववत्क्रमात् ॥ १०५॥
द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् ।

मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम् ॥ इति॥ १०६॥
इति रमरहस्योपनिषदि द्वितीयोऽध्यायः ॥ २॥

सनकाद्या मुनयो हनूमन्तं पप्रच्च्हुः ।
आञ्जनेय महाबल पूर्वोक्तमन्त्राणां
पूजापीठमनुब्रूहीति । हनुमान् होवाच ।
आदौ षट्कोणम् । तन्मध्ये रामबीजं सश्रीकम् ।
तदधोभागे द्वितीयान्तं साध्यम् । बीजोर्ध्वभागे
षष्ठ्यन्तं साधकम् । पार्श्वे दृष्टिबीजे तत्परितो
जीवप्राणशक्तिवश्यबीजानि । तत्सर्वं सन्मुखोन्मुखाभ्यां
प्रणवाभ्यां वेष्टनम् । अग्नीशासुरवायव्यपुरःपृष्ठेषु
षट्कोणेषु दीर्घभाञ्जि । हृदयादिमन्त्राः क्रमेण ।
रां रीं रूं रैं रौं रः इति दीर्घभाजि तद्युक्तहृदयाद्यस्त्रान्तम् ।
षट्कोणपार्श्वे रमामायाबीजे । कोणाग्रे वाराहं हुमिति ।
तद्बीजान्तराले कामबीजम् । परितो वाग्भवम् । ततो वृत्तत्रयं
साष्टपत्रम् । तेषु दलेषु स्वरानष्टवर्गान्प्रतिदलं
मालामनुवर्णषट्कम् । अन्ते पञ्चाक्षरम् ।
तद्दलकपोलेष्वष्टवर्णान् । पुनरष्टदलपद्मम् ।
तेषु दलेषु नारायणाष्टाक्षरो मन्त्रः । तद्दलकपोलेषु
श्रीबीजम् । ततो वृत्तम् । ततो द्वादशदलम् । तेषु दलेषु
वासुदेवद्वादशाक्षरो मन्त्रः । तद्दलकपोलेष्वादिक्षान्तान् ।
ततो वृत्तम् । ततः षोडशदलम् । तेषु दलेषु हुं फट्
नतिसहितरामद्वादशाक्षरम् । तद्दलकपोलेषु मायाबीजम् ।
सर्वत्र प्रतिकपोलं द्विरावृत्त्या ह्रं स्रं भ्रं ब्रं भ्रमं श्रुं
ज्रम् । ततो वृत्तम् । ततो द्वात्रिंशद्दलपद्मम् । तेषु दलेषु
नृसिंहमन्त्रराजानुष्टुभमन्रः । तद्दलकपोलेश्वष्टव
स्वेकादशरुद्रद्वादशादित्यमन्त्राः प्रणवादिनमोन्ता
श्चतुर्थ्यन्ताः क्रमेण । तद्बहिर्वषट्कारं परितः । ततो
रेखात्रययुक्तं भूपुरम् । द्वादशदिक्षु राश्यादिभूषितम् ।
अष्टनागैरधिष्ठितम् । चतुर्दिक्षु नारसिंहबीजम् ।
विदिक्षु वाराहबीजम् । एतत्सर्वात्मकं यन्त्रं सर्वकामप्रदं
मोक्षप्रदं च । एकाक्षरादिनवाक्षरान्तानामेतद्यन्त्रं
भवति । तद्दशावरणात्मकं भवति । षट्कोणमध्ये
साङ्गं राघवं यजेत् । षट्कोणेष्वङ्गैः
प्रथमा वृतिः । अष्टदलमूले आत्माद्यावरणम् ।
तदग्रे वासुदेवाद्यावरणम् । द्वितीयाष्टदलमूले
घृष्टाद्यावरणम् । तदग्रे हनूमदाद्यावरणम् ।
द्वादशदलेषु वसिष्ठाद्यावरणम् । षोडशदलेशु
नीलाद्यावरणम् । द्वात्रिंशद्दलेषु ध्रुवाद्यावरणम् ।
भूपुरान्तरिन्द्राद्यावरणम् । तद्बहिर्वज्राद्यावरणम् ।
एवमभ्यर्च्य मनुं जपेत् ॥
अथ दशाक्षरादिद्वात्रिंशदक्षरान्तानां मन्त्राणां
पूजापीठमुच्यते । आदौ षट्कोणम् । तन्मध्ये स्वबीजम् ।
तन्मध्ये साध्यनामानि । एवं कामबीजवेष्टनम् । तं
शिष्टेन नवार्णेन वेष्टनम् । षट्कोणेषु
षडङ्गान्यग्नीशासुरवायव्यपूर्वपृष्ठेषु ।
तत्कपोलेषु श्रीमाये । कोणाग्रे क्रोधम् । ततो वृत्तम् ।
ततोऽष्टदलम् । तेषु दलेषु षट्संख्यया
मालामनुवर्णान् । तद्दलकपोलेषु षोडश स्वराः ।
ततो वृत्तम् । तत्परित आदिक्षान्तम् । तद्बहिर्भूपुरम्
साष्टशूलाग्रम् । दिक्षु विदिक्षु नारसिंहवाराहे ।
एतन्महायन्त्रम् । आधारशक्त्यादिवैष्णवपीठम् ।
अङ्गैः प्रथमा वृतिः । मध्ये रामम् । वामभागे
सीताम् । तत्पुरतः शार्ङ्गं शरं च । अष्टदलमूले
हनुमदादिद्वितीयावरणम् । घृष्ट्यादितृतीयावरणम् ।
इन्द्रादिभिश्चतुर्थी । वज्रादिभिः पञ्चमी । एतद्यन्त्राराधन
पूर्वकं दशाक्षरादिमन्त्रं जपेत् । ॥
इति रामरहस्योपनिषदि तृतीयोऽध्यायः ॥ ३॥

सनकाद्या मुनयो हनूमन्तं पप्रच्च्हुः ।
श्रीराममन्त्राणां पुरश्चरणविधिमनुब्रूहीति ।
हनूमान्होवाच ।

नित्यं त्रिषवणस्नायी पयोमूलफलादिभुक् ।
अथवा पायसाहारो हविष्यान्नाद एव वा ॥ १॥

षड्सैश्च परित्यक्तः स्वाश्रमोक्तविधिं चरन् ।
वनितादिषु वाक्कर्ममनोभिर्निःस्पृहः शुचिः ॥ २॥

भूमिशायी ब्रह्मचारी निष्कामो गुरुभक्तिमान् ।
स्नानपूजाजपध्यानहोमतर्पणतत्परः ॥ ३॥

गुरूपदिष्टमार्गेण ध्यायन्राममनन्यधीः ।
सूर्येन्दुगुरुदीपादिगोब्राह्मणसमीपतः ॥ ४॥

श्रीरामसन्निधौ मौनी मन्त्रार्थमनुचिन्तयन् ।
व्याघ्रचर्मासने स्थित्वा स्वस्तिकाद्यासनक्रमात् ॥ ५॥

तुलसीपारिजातश्रीवृक्षमूलादिकस्थले ।
पद्माक्षतुलसीकाष्ठरुद्राक्षकृतमालया ॥ ६॥

मातृकामालया मन्त्री मनसैव मनुं जपेत् ।
अभ्यर्च्य वैष्णवे पीठे जपेदक्षरलक्षकम् ॥ ७॥

तर्पयेत्तद्दशांशेन पायसात्तद्दशांशतः ।
जुहुयाद्गोघृतेनैव भोजयेत्तद्दशांशतः ॥ ८॥

ततः पुष्पाञ्जलिं मूलमन्त्रेण विधिवच्चरेत् ।
ततः सिद्धमनुर्भूत्वा जीवन्मुक्तो भवेन्मुनिः ॥ ९॥

अणिमादिर्भजत्येनं यूनं वरवधूरिव ।
ऐहिकेषु च कार्येषु महापत्सु च सर्वदा ॥ १०॥

नैव योज्यो राममन्त्रः केवलं मोक्षसाधकः ।
ऐहिके समनुप्राप्ते मां स्मरेद्रामसेवकम् ॥ ११॥

यो रामं संस्मरेन्नित्यं भक्त्या मनुपरायणः ।
तस्याहमिष्टसंसिद्ध्यै दीक्षितोऽस्मि मुनीश्वराः ॥ १२॥

वाञ्च्हितार्थं प्रदास्यामि भक्तानां राघवस्य तु ।
सर्वथा जागरूकोऽस्मि रामकार्यधुरन्धरः ॥ १३॥

इति रामरहस्योपनिषदि चतुर्थोऽध्यायः ॥ ४॥

सनकाद्या मुनयो हनूमन्तं पप्रच्च्हुः ।
श्रीराममन्त्रार्थमनुब्रूहीति । हनूमान्होवाच ।
सर्वेषु राममन्त्रेषु मन्त्रराजः षडक्षरः ।
एकधाय द्विधा त्रेधा चतुर्धा पञ्चधा तथा ॥ १॥

षट्सप्तधाष्टधा चैव बहुधायं व्यवस्थितः ।
षडक्षरस्य माहात्म्यं शिवो जानाति तत्त्वतः ॥ २॥

श्रीराममन्त्रराजस्य सम्यगर्थोऽयमुच्यते ।
नारायणाष्टाक्षरे च शिवपञ्चाक्षरे तथा ।
सार्थकार्णद्वयं रामो रमन्ते यत्र योगिनः ।
रकारो वह्निवचनः प्रकाशः पर्यवस्यति ॥ ३॥

सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते ।
व्यञ्जनं निष्कलं ब्रह्म प्राणो मायेति च स्वरः ॥ ४॥

व्यञ्जनैः स्वरसंयोगं विद्धि तत्प्राणयोजनम् ।
रेफो ज्योतिर्मये तस्मात्कृतमाकरयोजनम् ॥ ५॥

मकारोऽभ्युदयार्थत्वात्स मायेति च कीर्त्यते ।
सोऽयं बीजं स्वकं यस्मात्समायं ब्रह्म चोच्यते ॥ ६॥

सबिन्दुः सोऽपि पुरुषः शिवसूर्येन्दुरूपवान् ।
ज्योतिस्तस्य शिखा रूपं नादः सप्रकृतिर्मतः ॥ ७॥

प्रकृतिः पुरुषश्चोभौ समायाद्ब्रह्मणः स्मृतौ ।
बिन्दुनादात्मकं बीजं वह्निसोमकलात्मकम् ॥ ८॥

अग्नीषोमात्मकं रूपं रामबीजे प्रतिष्ठितम् ।
यथैव वटबीजस्थः प्राकृतश्च महाद्रुमः ॥ ९॥

तथैव रामबीजस्थं जगदेतच्चराचरम् ।
बीजोक्तमुभयार्थत्वं रामनामनि दृश्यते ॥ १०॥

बीजं मायाविनिर्मुक्तं परं ब्रह्मेति कीर्त्यते ।
मुक्तिदं साधकानां च मकारो मुक्तिदो मतः ॥ ११॥

मारूपत्वादतो रामो भुक्तिमुक्तिफलप्रदः ।
आद्यो र तत्पदार्थः स्यान्मकरस्त्वंपदार्थवान् ॥ १२॥

तयोः संयोजनमसीत्यर्थे तत्त्वविदो विदुः ।
नमस्त्वमर्थो विज्ञेयो रामस्तत्पदमुच्यते ॥ १३॥

असीत्यर्थे चतुर्थी स्यादेवं मन्त्रेषु योजयेत् ।
तत्त्वमस्यादिवाक्यं तु केवलं मुक्तिदं यतः ॥ १४॥

भुक्तिमुक्तिप्रदं चैतत्तस्मादप्यतिरिच्यते ।
मनुष्वेतेषु सर्वेषामधिकारोऽस्ति देहिनाम् ॥ १५॥

मुमुक्षूणां विरक्तानां तथा चाश्रमवासिनाम् ।
प्रणवत्वात्सदा ध्येयो यतीनां च विशेषतः ।
राममन्त्रार्थविज्ञानी जीवन्मुक्तो न संशयः ॥ १६॥

य इमामुपनिषदमधीते सोऽग्निपूतो भवति ।
स वायुपूतो भवति । सुरापानात्पूतो भवति ।
स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यापूतो भवति ।
स राममन्त्राणां कृतपुरश्चरणो रामचन्द्रो भवति ।
तदेतदृचाभ्युक्तम् ।
सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये ।
न ते संसारिणो नूनं राम एव न संशयः ॥ ॐ सत्यमित्युपनिषत् ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति श्रीरमरहस्योपनिषत्समाप्ता ॥

अधिकाध्ययनायसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=रामरहस्योपनिषत्&oldid=100465" इत्यस्माद् पुनः प्राप्तिः