लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ००७
← अध्यायः ००६ | लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः) अध्यायः ७ [[लेखकः :|]] |
अध्यायः ००८ → |
श्रीनारायण उवाच-
ततस्तेषां त्रयाणान्तु स्याग्रपूज्यत्वलब्धये ।
दुराग्रहेण महता जातः कोलाहलः परः ।। १ ।।
अहं पूर्वं तु पूज्यः स्यां न त्वं नान्य इतीश्वराः ।
स्वस्य पूज्यत्वसंप्राप्त्यै कलहं समचक्रिरे ।। २ ।।
तिरस्कुर्वन्ति चान्योन्यमधिक्षेपं दधत्यपि ।
दुरुक्तैर्वाक्प्रबाणैश्च विध्यन्त इव मर्मसु ।। ३ । ।
कलहं चक्रिरे यावत्तावत्तेषां मतानुगाः ।
कोटिशो विष्णवो रुद्रा ब्रह्माणः समुदायुधाः ।। ४ ।।
युयुधुर्भृशमत्युग्रमर्दनं तदभून्महत् ।
यदैकस्य प्रपूज्यत्वे निर्णयो न कृतश्च तैः ।। ५ ।।
तदा वैराजपुरुषैर्महाविष्णुसमन्वितैः ।
ईशो देवो हरिः साक्षान्निर्णयाय समर्थितः । । ६ ।।
परंब्रह्म स्वयं तेषामर्थनामवगत्य वै ।
न्यायालयं परं स्थानमव्याकृतसुधाम यत् ।। ७ । ।
विरचय्याऽक्षरे धाम्नि न्यायकर्ताऽपि च स्वयम् ।
भूमपूरुषरूपेण न्यायाधीशो विराजितः ।। ८ ।।
न्यायसम्पादकाश्चान्ये ईश्वरास्तेन योजिताः ।
भूम्ना स्वस्य वामभागाद् भूम्नी लक्ष्मीः प्रसंकृता ।। ९ ।।
सापि न्यायपराधीशा न्यायकर्त्री परेश्वरी ।
अव्याकृतं च तद्धाम भूमभूम्न्योः परं कृतम् । । 1.7.१० ।।
न्यायकर्त्र्यस्तथा न्यायाधीशास्तत्राऽप्यनेकशः ।
उपनिर्णयदाः सन्ति परावरनियामकाः ।। ११ ।।
सन्ति प्रकृतिपुरुषप्रधानपुरुषात्मकः ।
महाविष्णुविराजादीश्वराणां निर्णयप्रदाः ।। १२।।
तत्र तत्र तेषु तेषु स्थानेष्वीश्वरकोटयः ।
न्यूनातिरिक्तसुखदैश्वर्यवत्यो भवन्ति हि ।। १३ ।।
परार्धभुजवान् विष्णुः पूज्यो राजसुसम्मतः ।
भूम्ना न्यायः कृतस्तद्वद् राजसूयोऽपि निर्वृतः ।। १४।।
न्यायाज्ञया कृतन्यायप्रोतसर्वेशसृष्टिभिः ।
फलन्तु न्यायकार्यस्य तत्र तत्र ह्यवाप्यते ।। १५।।
एकराजक्षयेऽन्यस्य पट्टाभिषेकसूत्सवः ।
कार्ये विनिमये प्राप्ते नेतॄणां परिवर्तनम् ।। १६।।
युद्धकाले विनाशे वा चाकस्मिक उपद्रवे ।
व्यूहांशविभवाऽऽवेशविभूतीनां प्रकाशने ।। १७।।
ब्रह्माण्डेष्ववताराणां प्रेषणे च विकर्षणे ।
सर्वथाऽप्यधिकारोऽस्ति भूम्नो भगवतः सदा ।। १८ ।।
श्रीहरिस्तु स्वयं साक्षाद्भूमूपूरुषरूपतः ।
अव्याकृते स्वके धाम्नि न्यायकार्यार्थमास्थितः ।। १ ९।।
ब्रह्माण्डे च यदा यर्हि यस्मिन् यस्मिन् स्थले स्थले ।
हानिर्धर्मस्य बुध्येत तदांऽशं प्रेरयत्ययम् ।।1.7.२०।।
रामकृष्णादयः सर्वे विभिन्ना वै युगे युगे ।
अवतारा अनन्ता वै भवन्त्यण्डे पृथक्पृथक् ।।२१।।।
ईश्वराणां च लोकेषु ह्यवतारा अनन्तकाः ।
भवन्ति समशीलास्तत्समरूपाः समक्रियाः ।।२२।।
श्रीहरेरवताराणां नाऽन्तः संख्या न विद्यते ।
कालाऽऽनन्त्यात्सृष्ट्यपारात्कार्याऽऽनन्त्याच्च कृत्स्नशः ।। २३ ।।
अथेश्वराणां सर्वेषां सर्वदा सुखलब्धये ।
श्रीहरिणा हृदि ध्यातं तपश्चाथ बृहद्व्रतम् ।। २४।।
सर्वेश्वराः सदा सन्तु सुखिनः सत्त्वसंभृताः ।
प्रकृतिपूरुषश्चाथ प्रधानपुरुषस्तथा ।।२५।।।
भूमपूरुषलोकस्था महाविष्णुमहेश्वराः ।
हिरण्यगर्भा वैराजा अष्टावरणकेश्वराः ।।२६।।।
गोलोकस्था विकुण्ठस्थाः श्वेतद्वीपस्थितास्तथा ।
अव्याकृतस्थिता विष्णुरुद्रमायाक्षरस्थिताः ।।२७।।
सर्वे भवन्तु सुखिनः सदा मत्तपसा त्विति ।
दयया हरिणा चैवं कृतं धाम तपःकृते ।।२८।।
अक्षराख्यप्रदेशे तद्दिव्यं बदरिकाश्रमम् ।
तपस्त्यागमयं रम्यं शान्त्यानन्दमयं सदा ।।२९।।
बृहद्व्रतधरं रूपं दिव्यं श्रीहरिणा धृतम् ।
स वै नारायणः स्वामी दिव्यषोडशवार्षिकः ।।1.7.३ ०।।
अक्षरेण तदा तस्य सेवार्थं रूपमर्थितम् ।
नराकारं च तद्रूप धृतं षोडशवार्षिकम् ।। ३ १।।
सेवकः स नरः, स्वामी नारायण इति हरिः ।
नरनारायणः सोऽयमक्षरादिपरः प्रभुः ।।३२।।
राजते तत्र तेजस्वी ब्रह्मवर्चस्ववारिधिः ।
ऊर्ध्वस्रोता ब्रह्मचारी नरनारायणः प्रभुः ।।३३।।
ईश्वरास्तत्र गच्छन्ति दर्शनार्थं हरेर्मुहुः ।
मुक्तास्तत्र ह्यसंख्याता काश्यो नैष्ठिकाः स्थिताः ।।३४।।
ते वै दयालवः शान्ताः साधवो मुनयो मताः ।
ईशानान्तु गृहस्थानामुद्धारकरणाय वै ।।३५।।
भ्रमन्तीश्वरलोकेषु शरणागतरक्षकाः ।
मन्त्रं नारायणस्यैव दत्वा मोक्षं नयन्त्यपि ।।३६ ।।
उपासनां हरेः साक्षात्परब्रह्मण इत्यपि ।
प्रवर्तयन्ति चेशेषु मोक्षयन्ति च ताँस्ततः ।।३७।।
गोलोकोऽप्यथ वैकुण्ठः श्वेतद्वीपोऽथ दिव्यकः ।
अव्याकृतश्च बदरिकाश्रमश्चेति नामभिः ।। ३८।।
कीर्त्यमानानि धामानि दीव्यान्यक्षरधामनि ।
अक्षरस्य प्रदेशेषु हरिणा रचितानि हि ।। ३९।।
श्रीकृष्णः श्रीरामचन्द्रः श्रीनारायणं इत्ययम् ।
श्रीभूमा श्रीनरनारायणः श्रीहरिरेव च ।।1.7.४० ।।
स्वयं ब्रह्मेश्वरः साक्षादक्षराधिपतिः प्रभुः ।
ब्रह्मलोकेश्वरस्तानि रूपाणि धारयत्यतः ।।४१।।
पुरुषोत्तमसंज्ञो यो भगवान्परमेश्वरः ।
सर्वत्र संस्थितः सोऽयं भिन्नरूपेण राजते ।।४२।।
धाम्नस्त्वक्षरसंज्ञस्य प्रदेशेषु कृतानि वै ।
धामान्यन्यानि तत्तेषु सर्वत्राऽक्षरमस्ति हि ।।४३।।
तस्माद् गोलोकादिमध्ये धाम व्यापकमक्षरम् ।
परंधाम ब्रह्मलोकः सर्वत्रास्तीति वर्ण्यते ।।४४।।
ईश्वराणां च लोकानां सीमा प्रकृतिरुच्यते ।
सीम्नि धामानि चैतानि ब्रह्मलग्नानि सन्ति हि ।।४५।।
तस्मादक्षरसंज्ञास्तेऽक्षरव्याप्या भवन्ति च ।
प्रकृतेः स्पर्शरहिताः प्रकृतेरुपरि स्थिताः ।।४६।।
लोका मोक्षभूमयस्ते गद्यन्ते मर्मवेदिभिः ।
इतीशसृष्टिसंस्थानं लक्ष्मि! संज्ञेयमञ्जसा ।।४७।।
तवैव सर्वसामर्थ्यं तवैवैतत्प्रभावजम् ।
सर्वमीश्वरसंस्थानं त्वां विना नैव शोभते ।।४८।।
त्वं चाऽहं च सदा तत्र सर्वात्मरूपधारकौ ।
त्वां विना न ममेशत्वं मां विना न रतिस्त्वयि ।।।४९।।
सच्चितोः सर्वथा तत्र प्रानन्दः सुखमुच्यते ।
सर्वे लोका ईश्वराश्चाऽश्नुवते सुखमावयोः ।।1.7.५० ।।
तस्मान्नारायणलक्ष्म्यात्मकमीश्वरमण्डलम् ।
प्रादुर्भूतं तदावाभ्यां तिरोभवति चावयोः ।।५१ ।।
आत्यन्तिके लये लीनं प्रारंभे पुनरुत्थितम् ।
भवतीति विचार्यैव भजन्तीशाः सदा नु माम् ।।५२।।
मदैश्वर्यं समापन्ना ईश्वरा मदधिष्ठिताः ।
मद्योगादीश्वरा जाता मद्विना नेश्वरा इति ।।६३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽव्याकृतधामबदरिकाश्रमधामप्रदर्शननामा सप्तमोऽध्यायः ।।७।।