← अध्यायः ००८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ९
[[लेखकः :|]]
अध्यायः ०१० →

श्रीनारायण उवाच-
विष्णुः सर्वगुणोपेतः सर्वपोषणशक्तिमान् ।
सर्वाश्चर्यनिधिः श्रीमान् कुन्दनाभिमहोज्ज्वलः ।। १ ।।
प्रान्तभुग्नपिशंगाभस्निग्धकेशाक्तमस्तकः ।
नैकरत्नमणिप्रोतसौवर्णमुकुटावहः ।। २ ।।
शष्कुल्याकृतिसत्कर्णधृतसौवर्णकुण्डलः ।
विशालोज्ज्वलरेखात्रययुग्भालस्थचन्द्रकः ।। ३ ।।
कैसरं तिलकं बिभ्रत् ललाटेऽगुरुचन्दनः ।
कामबाणप्ररोहाऽर्हवक्रभ्रूकुटिभंगुरः ।। ४ ।।
अरविन्ददलाऽऽशुभ्रप्रान्तरक्ताऽऽभनेत्रकः ।
कज्जलाऽञ्जनसंसिक्ताऽऽकर्णान्ताऽक्षिप्रकोणकः ।। ५ ।।
तिलपुष्पप्रफुल्लाभनासिको दीर्घगण्डकः ।
सुवर्तुलसमाकाररक्तद्वयकपोलकः ।। ६ ।।
सुगन्धपद्मकेयूरो दिव्यपुष्पावतंसकः ।
शुद्धचामीकरकर्णपूरकर्णटिभूषणः ।। ७ ।।
सूक्ष्मनीलहिरण्याग्रोद्भवच्छ्मश्रुप्रसुन्दरः ।
रक्तबिम्बाऽऽभसद्धास्यसमाश्रितसमौष्ठकः ।। ८ ।।
कम्बुकण्ठः सुचिबुकस्तेजोमण्डलकंधरः ।
देदीप्यमानवपुषा हृत्तिमिरप्रणाशकः ।। ९ ।।
पौष्पान् हाराँश्च सौवर्णान् गले बिभ्रत्सुकौस्तुभम् ।
सुपुष्टांसः सुप्रलम्बभोगपूवार्धबाहुकः ।। 1.9.१० ।।
आजानुलम्बहस्तश्च सुप्रकोष्ठश्चतुर्भुजः ।
विद्योतच्चन्द्रसदृशनखरक्तकरद्वयः ।। ११ ।।
स्वर्णांगुलीयसत्तेजोरत्ननद्धसुपद्मकः ।
धनुश्चक्रध्वजस्वस्तिकेनमीनांकहस्तकः ।। १२।।
शंखचक्रगदापद्महेतिर्हारधरः प्रभुः ।
श्रीवत्सांकः सुरशनः कुन्ददन्तः सुपृष्ठकः ।। १३।
विशालोन्नतसद्वक्षाः पुष्टकटिसुलिङ्गकः ।
करिहस्तोरुयुगलः समवर्तुलजानुकः ।। १४।।
क्रमवृत्ताऽऽपुष्टजघः समनिम्नसुपत्तलः ।
मध्यनिम्नोन्नतरक्तचारुदृश्यपदाम्बुजः ।। १५।।
सर्वतीर्थाश्रयपुण्यप्रपदः पाण्डुरच्छविः ।
अङ्गुल्युपरिसत्सूक्ष्मरोमराजिविराजितः ।। १६ ।।
सूक्ष्मरोमावलिराजत्तत्तद्वीर्यसुकुक्षिकः ।
त्रिगुल्फचरणः श्रीमान् सर्वाभरणभूषणः ।। १७ ।।
अम्लानमधुसत्सौरभाऽऽर्द्रविविधपुष्पया ।
विराजितो वैजयन्त्या दिव्यया वनमालया ।। १८ ।।
पद्मकेत्वंकुशवज्रस्वस्तिकजवजम्बवः ।
अष्टकोणोर्ध्वरेखेऽङ्कानि पदे दक्षिणे नव ।। १ ९।।
मीनाऽर्धचन्द्रकलशत्रिकोणव्योमगोष्पदम् ।
धनुश्चेति पदे वामे सप्त चिह्नानि संदधत् ।। 1.9.२० ।।
आप्रान्तद्वयसंलग्नविस्तीर्णभालरेखया ।
षड्विधं भगमैश्वर्यं व्यञ्जयन् सात्त्विकीं जनिम् ।। २१ । ।
वामे सक्थिनि सत्तेजःपाण्डुरांऽकं तु सुन्दरम् ।
सहजायास्तु लक्ष्म्यास्तच्चन्द्राभं चिह्नमुद्वहन् ।। २२।।
एतादृशोऽभवद्विष्णुर्बहुरूपगुणाश्रयः ।
दृष्ट्वा ब्रह्मा स्वयंभूस्तं सृष्टिनेत्रभिमानवान् ।। २३ ।।
कोऽयमन्योऽभवद्रूपगुणवीर्यबलाधिकः ।
इतिकृत्वाऽपृच्छदेनं विष्णुं लोकप्रपोषकम् ।। २४।।
कस्त्वमेतादृशो विद्वन् मत्प्रतिद्वन्द्वरूपकः ।
सृष्टेः कर्ताऽहमेकोऽस्मि सर्वैश्वर्यविभूतिमान् ।। २५।।
सर्वधाता सर्वपोष्टा सर्वनेतृत्वमावहन् ।
मत्तो नाऽन्योऽस्ति कश्चिद्वै सृष्टेः संहारपोषकः ।। २६।।
को वै हेतुस्तवोत्पत्तौ किंकर्ता किंविधायकः ।
मद्विरोधं प्रकुर्वन् वै न कश्चित्सुखभाग्भवेत् ।। २७।।
भूत्वा प्रहस्य विष्णुस्तं ब्रह्माणं प्रत्युवाच ह ।
सृष्टिर्मयि त्वह सृष्टौ चाहं सृष्टिमयो विभुः ।। २८ ।।
त्वादृशाः पद्मजा नैके मयि लीनाः समासते ।
अहमनादिनिधनो धाताऽहं विश्वतोमुखः । । २९।।
व्याप्यव्यापकभावेन विश्वमावृत्य यः स्थितः ।
सर्वसृष्टिमयो देवोऽनन्तब्रह्मादिसंस्तुतः । । 1.9.३० ।।
सोऽहं नारायणो विष्णुर्नाऽन्यः कश्चित्परः समः ।
गच्छ दूरमितो नो चेद्विनाशं यास्यसि ध्रुवम् ।। ३१ ।।
इति विष्णुवचः श्रुत्वा ब्रह्मा लोकपितामहः ।
प्राह विष्णुं च मा गर्व कुरु दर्शनबालिशः ।। ३२।।
माऽवमंस्थाश्च मां देव एष त्वां नाशयाम्यहम् ।
इत्युच्चार्य तु संरब्धौ परस्परजिघांसया ।। ३३ ।।
अहमेव वरो नत्वमहमेकः परः प्रभुः ।
इतिब्रुवौ हन्तुकामौ चक्रतुर्युद्धरंभणम् ।। ३४।।
युयुधाते परौ वीरौ मानव्याजौ महायुधौ ।
अहंकारनिवेशाद्वै युद्धं तयोर्बभूव ह ।।२५ ।।
ईश्वरास्तत्समकक्षाः समाजग्मुर्दिदृक्षवः ।
क्षिपन्तः पुष्पवर्षाणि पश्यन्तो युद्धवर्तिनौ ।।।३६।।
तावत् क्रुद्धो हरिस्तत्र बाणान्मुमोच दुःसहान् ।
अस्त्राणि विविधान् क्षेपान् ब्रह्मवक्षसि पारगान् ।।३७।।
अथ ब्रह्मा परं क्रुद्धौ विष्णोर्वक्षसि दुःसहान् ।
बाणान् विद्युत्सतेजस्कानस्त्राणि विविधानि च ।।३८।।
मुमोचेति तयोर्युद्धं द्रागाश्चर्यकरं ह्यभूत् ।
प्रसमीक्ष्येश्वराः सर्वे प्रशशंसुः समाकुलाः ।।।३ ९ ।।
विष्णुर्वेगवशो भूत्वाऽग्न्यस्त्रं मुमोच वेधसे ।
पर्जन्यास्त्रेण विधिना तदस्त्रं सन्निवारितम् ।। 1.9.४०।।
विष्णुना प्रेरितं तत्र विद्युदस्त्रं समेघकम् ।
ब्रह्मणा नाशितं तद्वै वाय्वस्त्रेण महाम्बरे ।। ४१ ।।
विष्णुर्युयोज गिर्यस्त्रं को वज्रास्त्रं मुमोच ह ।
हरिर्नागास्त्रमसृजद् ब्रह्मा चिक्षेप गारुडम् ।।४२।।
हरिणा प्रहितं भारं लघिम्ना ब्राह्मणा हृतम् ।
वियोगशक्तिमुद्यम्य विष्णुर्जघान कोरसि ।।।४३ ।।
ब्रह्मा शूलेन तां छित्वा जृम्भणास्त्रं मुमोच ह ।
विष्णुर्निद्राप्रमन्त्रेण जृम्भणं प्रविलय्य च ।। ४४।।
जग्राह यावद्ब्रह्मास्त्रं ब्रह्मा चापि च तद् दधे ।
द्वयोर्ब्रह्मास्त्रयोर्युद्धं प्रघोरं चाऽम्बरेऽभवन् ।।४५।।
महानलास्ततो जाता ईशसृष्टिप्रदाहकाः ।
विष्णुस्त्वावत् स्वकं चक्रं संजग्राह सुदर्शनम् ।। ४६।।
कोटिसूर्यसमानोग्रं तीक्ष्णधारं विनाशकम् ।
ईशास्तावत्तु सन्त्रस्ता हाहाकारं प्रचक्रिरे ।। ४७।।
ब्रह्मणस्तु विनाशाय यावत्प्रेरयति प्रभुः ।
तावद् ब्रह्मा विष्णुनामभक्त्याख्यं कवचं दधौ ।। ४८।।
विष्णुर्नारायणो देवो मय्यावसतु दुःखहाः ।
परंब्रह्म शिरः पातु ब्रह्म पातु गलं मम ।। ४९।।
वासुदेव उरः पातु कटिं पात्वनिरुद्धकः ।
प्रद्युम्न उदरं पातु संकर्षणस्तु पृष्ठकम् ।।।1.9.५०।।
भूमा शिश्नं तु मे पातु महाविष्णुस्तु सक्थिनी ।
हिरण्यगर्भो मे जानू जंघे वैराजपूरुषः ।।५ १ ।।
गुल्फौ प्रधानपुरुषः पादौ प्रकृतिपूरुषः ।
कृष्णः पूर्वं हरिः पश्चाद् वैकुण्ठश्चोत्तरेऽवतु ।।५२।।
नारायणस्तु पश्चान्मेऽन्तर्यामी सर्वतोऽवतु ।
विष्णुस्त्वं मयि सर्वांगे प्रविश्याऽवतु मां विभो ।।५३।।
सत्त्वाश्रयस्तु मे सत्त्वं पातु नारायणः स्वयम् ।
रक्ताश्रयस्तु मे रक्तं पातु श्रीभगवान् स्वयम् ।।।५४।।
भयाश्रयं तु मां पातु चक्री चाऽभयदानदः ।
नालस्थितं तु मां पातु नालोद्भवकरः प्रभुः ।।५५।।
आकस्मिकमहादुःखात्पाहि मां शरणागतम् ।
ब्रह्मास्त्रे शान्तय चक्रं संहराऽद्य द्यां कुरु ।।५६ ।।
स्तुत्वेत्थं परमं देवं ब्रह्मा तूष्णीं बभूव ह ।
ब्रह्मभक्तिं समज्ञाय विष्णुश्चक्रं मुमोच न ।।५७।।
परं ब्रह्मास्त्रयोस्तेजः संहारार्थं मनो दधे ।
संकर्षणस्वरूपो यः परंब्रह्म जनार्दनः ।।५८ ।।
महाज्योतिर्मयस्तम्भो द्वयोर्मध्ये बभूव सः ।
ब्रह्मास्त्रे चापि ते तावत्सर्वसंहारसक्षमे ।।९९ ।।
निलिल्याते क्षणेनैव महाज्योतिर्मयेऽनले ।
अस्त्रशान्तिकरं तेजः परं दृष्ट्वा तदद्भुतम् ।।1.9.६ ० ।।
ब्रह्मा विष्णुस्तथेशा ये तत्र सन्ति समागताः ।
लेभिरे विस्मयं मुग्धाः किमेतज्ज्योतिरित्यहो ।।६ १ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मविष्ण्वोर्विवादभक्तिकवचादिनिरूपणनामा नवमोऽध्यायः ।। ९।।