← अध्यायः ०२६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २७
[[लेखकः :|]]
अध्यायः ०२८ →

श्रीनारायण उवाच
अथापि श्रूयतां लक्ष्मि ! मूर्तयस्ते सनातनाः ।।
सनातनस्वरूपे मे सदाऽभिन्ना मदात्मिकाः ॥ १॥
महालक्ष्मीश्च लक्ष्मीश्च रमा राधा सती तथा ।
वृन्दा च मातरश्चैव गंगाद्याः कन्यकास्तथा ।। २ ।।
मया मदंगभूतास्ताः पृथक्कृत्वा स्वयं धृताः ।।
सर्वदैता मदभिन्ना मद्वन्मोक्षप्रदा मताः ॥ ३ ॥
मन्मूर्तौ चाक्षरे धाम्नि श्रीहरौ सन्ति ऋद्धयः ।।
महालक्ष्मीस्वरूपास्ता मयैव प्रकटीकृताः ॥ ४ ॥
तथा तत्रैव मन्मूर्तौ सन्ति याः स्मृद्धयः पराः ।।
लक्ष्मीरूपा मया ता वै सर्वशः प्रकटी कृताः ॥ ५ ॥
तथा तत्रैव मन्मूर्तावस्ति या रमणीयता ।
मयैव सा पृथक्कृत्वा रमास्ताः प्रकटीकृताः ॥ ६ ॥
तथा तत्र च मूर्तौ मे सिद्धेच्छाश्च भवन्ति याः ।
तास्तु मयैव मन्मूर्तेः राधास्ताः प्रकटीकृताः ॥ ७ ॥
तथा तत्र च मन्मूर्तौ सत्ता या सार्वभौमिका ।।
सतीरूपा मयैवेताः सर्वास्ताः प्रकटीकृताः ॥ ८ ॥
तथा मूर्तौ च मे तत्र सामर्थ्यं वरदानकम् ।।
तत्सामर्थ्यं पृथक्कृत्य वृन्दाः सर्वाः प्रकाशिताः ॥ ९ ॥
तथा तत्र च मन्मूर्तौ पोषिकाः शक्तयस्तु याः ।
ताः पृथक्कृत्य सर्वा वै मातरः प्रकटीकृताः ॥1.27.१०॥
तथा मूर्तौ च मे तत्र द्रव्यः प्रेमरसात्मिकाः ।।
ताः पृथक्कृत्य सर्वा वै गंगाद्याः प्रकटीकृताः ॥ ११ ॥
सर्वा अप्यरजस्कास्ताः सर्वाश्चाऽक्षतमध्यमाः ।।
सर्वाः शाश्वततनवः सर्वा मन्मूर्तयः स्मृताः ॥१२॥
ममाक्षरे परे धाम्नि सन्ति मुक्तान्य एव ताः ।।
ईशसृष्टौ च सर्वत्र सन्तीश्वराण्य एव ताः ॥१३॥
जीवलोके परे सत्ये सन्ति देव्यस्तु ताः स्त्रियः ।।
तथा कार्यस्वरूपास्ता निवसन्ति स्तरे स्तरे ॥१४॥
महालक्ष्मीः स्मृद्धिरूपा लक्ष्मीः स्वर्णादिरूपिणी ।
रमा सम्पत्स्वरूपा च राधा सिद्धिस्तु कार्यजा ॥१५॥
वृन्दाऽऽशीर्वादसाफल्यं तुलसीरूपिणी तथा।।
सती साध्व्याः सत्सामर्थ्यं मातरः पुष्टिशक्तयः ॥१६॥
गंगा द्रवजलख्याता मुक्तिदास्ता हरेर्मताः ।
सरांसि पुष्करादीनि तत्प्रेमरसबिन्दवः ।।१७॥
क्षेत्राणि तु हरिद्वारनैमिषारण्यकानि च ।
हरेरक्षरधामांऽशप्रभवाणि भवन्ति हि ॥१८॥
तेषु क्षेत्रेषु पुण्येषु साध्व्यो दिव्या वसन्ति हि ।।
पूर्यो ह्यक्षरधामस्थब्रह्मपूर्यंशजा मताः ॥१९॥
तत्र सर्वत्र लक्ष्म्याद्याः कुमार्यः प्रवसन्ति वै ।
दिव्यदृष्टया तु दृश्यन्ते दिव्यमुक्तिप्रदास्तु ताः ॥1.27.२०॥
नारीजन्म गृहीत्वा तु महालक्ष्म्यादयः क्वचित् ।
श्रेयःकर्त्र्यः कुमार्यस्ता जायन्ते गृहमेधिषु ॥२१॥
साध्व्यो भवन्ति चाऽऽबाल्यात्कुमार्योऽक्षतयोनयः ।
दीक्षितास्तु भवन्त्येता योगिन्यो योगसाधिकाः ॥२२॥
काश्चित्सन्यासमालम्ब्य सन्यासिन्यो भवन्ति हि ।
काश्चिद्रागविनाशेन वीतरागिण्य इत्यपि ॥२३॥
काश्चित् सांख्यविचारेण ब्रह्मयोगेन चैव हि ।
भवन्ति सांख्ययोगिन्यो ब्रह्मचर्यपराः सदा ॥२४॥
नैष्ठिकब्रह्मचारिण्यः सृष्टौ भवन्ति मोक्षदाः ।
शुद्धाश्चाग्निस्वरूपास्ता ब्रह्माण्यस्तारयन्ति नॄन् ॥२५॥
शीलव्रतधराः साध्व्यः सूर्यवर्चस्वकान्तयः ।।
चन्द्रशान्तिमयाऽऽस्यास्तास्तापत्रैविध्यनाशिकाः ॥२६॥
दर्शनाद् दुःखनाशिन्यः सेवनात्सुखकारिकाः ।
वन्दनाद्विषहारिण्यः श्रवणाच्छुद्धताप्रदाः ॥२७॥
कीर्तनात्काम्यफलदाः स्मरणात् स्मरहारिकाः ।।
अर्चनादर्चिमार्गं तु नयन्त्यो मुक्तिदाश्च ताः ॥२८॥
दास्याद् दासत्वदात्र्यस्ताः सख्यात्सखित्वलंभिकाः ।। |
आत्मनिवेदनाद् भक्तं हर्यात्मनि निवेशिकाः ॥२९॥
भोजनाच्छादनवस्त्रवस्तुसामग्रिकार्चिताः ।
श्रीहरेरक्षरं धाम प्रापयन्ति हरेर्बलात् ॥1.27.३०॥
पादगात्रादिसंवाहाद्वाहयन्ति हरेः पदम् ।।
तत्तदिष्टविधानाद्वै भक्तः स्वेष्टं लभेत वै ॥३१॥
काषायाम्बरधारिण्यो हर्यर्थं प्रीतिबन्धनाः ।।
ब्रह्मार्थं ब्रह्मचारिण्यो नैष्ठिक्यो हरिनिष्ठया ॥३२॥
मुक्तान्यो मुक्तिनिधनाद् ब्रह्माण्यो ब्रह्मसंभवात् ।
मोक्षाण्यो मोक्षमूर्तित्वाद् ब्राह्मो ब्रह्मसमर्पणात् ॥३३॥
सत्यः सतीत्वसंतत्या साध्व्यः साधुगुणाश्रयात् ।
देव्यो दिव्यदशाप्राप्तेर्गुर्व्यो ज्ञानोपदेशनात् ॥३४॥
दास्यो दासीसदाचारात् ब्रह्मदास्यस्तु ता मताः ।
ईश्वराण्यस्तु ता बोध्या परमेश्वरसंश्रयात् ॥३५॥
पत्न्यस्तास्तु हरेः पातुर्लाभाद् बोध्याः पतिव्रताः ।
पतितस्य परं धाम नायनात् पत्न्य इत्यपि ॥३६॥
स्त्रियः संत्राणनाद् बोध्या नार्यो नृहरिप्रापणात् ।
सम्राज्ञ्यो राजराजाधिराजहर्यंकवेशनात् ॥३७॥
त्यागिन्यस्त्यजनात्प्रोक्ताः स्वामिन्यः स्वीयताऽर्पणात् ।।
मुण्डिन्यो ब्रह्मकेशानां हर्यर्थे मुण्डनादिति ॥३८॥
आचार्याण्यश्च ताः प्रोक्ता आचाराणां प्रवर्तनात् ।।
आरवाल्यश्च ताः प्रोक्ता हरेः शब्दस्य लापनात् ।।३९।।
लिङ्गिन्यश्चापि ताः प्रोक्ता लीनार्थहरिगामनात् ।
अवधूत्यश्च ताः प्रोक्ता मायाया अवधूननात् ॥1.27.४०॥
भगवत्यश्च ताः प्रोक्ताः षड्भगैश्वर्यलंभनात् ।।
मातरश्चापि ताः प्रोक्ता मुक्तेर्मानप्रदापनात् ॥४१॥
दीक्षिताण्यश्च ताः प्रोक्ता ज्ञानदानाऽघसंक्षयात् ।।
अबला अपि ता बोध्या अस्य विष्णोर्बलाश्रयात् ॥४२॥
आर्ष्यस्तास्तु सदा बोध्याः ऋषिवेदादिसंश्रयात् ।।
आर्यास्तास्तु परा बोध्या हरेरारात्तु यापनात् ।।४३।।
नारायण्यश्च ता बोध्या नॄन् नारायणयापनात् ।
हरिण्यश्चापि ता बोध्या हरिं नयति चाश्रितान् ॥४४॥
श्रियश्चापि तथैव स्युः श्रीहरेः श्रयणादिति ।।
साव्यस्तास्तु सदा दिव्याः प्रसंगाद् दिव्यताप्रदाः ॥४५॥
मूर्तिस्तासां परा दिव्या नारायणनिवासनात् ।।
हरेर्दीक्षां समापन्ना हर्यङ्ककृन्निषादनाः ॥४६॥
हरेः प्रतीक्षां कुर्वन्त्यो हरेर्धाम प्रयान्ति ताः।
नयन्ति सहमान् जीवनाश्रितान् भक्तिमार्गगान् ॥४७॥
तास्तु साध्व्यः सदा सेव्या नरदेवेश्वरादिभिः ।
नारीभिस्तु सदा सेव्याः पूज्या वन्द्याश्च भक्तितः ॥४८॥
भगवान् श्रीहरिर्देवो राजते तन्मयः सदा ।।
साध्वीषु तत्र संराजे सदाऽहं दिव्यमूर्तिकः ॥४९॥
साध्व्याः रूपं च भावं च धर्मं चाऽऽकृतिमेव च ।।
गृहीत्वाऽहं सदा राजे साध्वीषु मूर्तिमान् स्वयम् ॥1.27.५०॥
साध्व्यो मत्तो न वै भिन्ना न मे न्यूना न भूतजाः ।
माणिक्यो न च विज्ञेया मम रूपास्तु ता यतः ॥५१॥
अणुमात्रमपि तासां गात्रं न मायिकं स्मृतम् ।।
तासां गात्रं तु मद्गात्रं मम मूर्तय एव ताः ॥५२॥
रूपलावण्यसौन्दर्याकर्षणामृतमिष्टताः ।
माधुर्यदृश्यतासौम्यसान्त्वनाशीततादयः । ॥५३॥
नम्रताऽधीनतासेवाप्रश्रयाश्रयतृप्तताः।
दैन्यसारल्यसौजन्यवात्सल्यमृदुतादयः ॥५४॥
आरामस्नेहकौशल्यसहिष्णुत्वाऽनुगामिताः ।
श्रद्धाविश्वाससत्यार्थममतारक्षणादयः॥५५॥
दानपोषणसर्वस्वार्पणालम्बनमित्रताः ।
धृत्याधानसुहृद्वृत्तिसुखदुःखसमानताः॥५६॥
सहनद्रवताभक्तिसेवानुवृत्तिकीर्तयः ।
प्रशंसागुप्तिगांभीर्यौदार्यलज्जादयो गुणाः ॥५७॥
सर्वे मदीया मन्मूर्तौ मया ताभ्यः समर्पिताः ।
अहं सर्वान् गुणान् दत्वा साध्वीष्वेव वसामि यत् ॥५८॥
तासां प्रसन्नता याभिर्लब्धा सा मामकी मता।
सांख्ययोगिन्य एवैताः साध्व्यः साधुगुणालयाः ॥५९॥
अज्ञानपापनाशिन्यः प्रदायिन्योऽमृतस्य च ।।
श्रीहरेरधिकारिण्यो मान्या मद्वत् त्वया प्रिये ॥1.27.६०॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नारायणमूर्त्यात्मकमहालक्ष्म्यादिसाध्वीनां बहुविधनामनिरुक्त्यादिनिरूपणनामा सप्तविंशोऽध्यायः ॥२७॥