← अध्यायः ०२८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९
[[लेखकः :|]]
अध्यायः ०३० →

श्रीनारायण उवाच---
शृणु लक्ष्मि ! प्रवक्ष्यामि चिह्नानि तव पादयोः ।
यदा जन्म भवेल्लोके तदा बोध्या जनैस्तु तैः ।। १ ।।
दक्षिणे तु पदेऽङ्गुष्ठमूलाऽधः फणके वरम् ।।
शंखचिह्नं तु सम्बोध्यं, तथाऽङ्गुल्योस्तु मूलके ।। २ ।।
विमानचिह्नं फणके, कनिष्ठामूलसन्निधौ ।
नौकाचिह्नं तथा शंखाऽधोगदाचिह्नमित्यपि ।। ३ ।।
मकराकारचिह्नं च ततोऽधः शिखरं भवेत् ।
ततः पार्ष्णौ मत्स्यरेखा मध्ये ताम्बूलवल्लिका ।। ४ ।।
तत्र वामेऽङ्गुष्ठमूले यवचिह्नं प्रकीर्तितम् ।।
तदधस्तु महाँस्तत्र प्रासादः परिकीर्तितः ।। ५ ॥
तदधस्तु भवेच्छत्रम् ऊर्ध्वरेखा तु शाश्वती ।
अंगुल्योर्मूलके तत्र कमलं फणके मतम् ॥ ६ ॥
तदधस्तु ध्वजरेखा तत्पार्श्वेंऽकुशमुच्यते ।।
ततोऽधः कुमुदं, पार्श्वे श्रीफलं, कलशस्तथा ॥ ७ ॥
ततोऽधः स्थलकमलं, पार्ष्णौ द्वितीयचन्द्रमाः ।।
दशचक्राणि पूर्णानि स्वर्णरेखा फणोपरि ॥ ८ ॥
अंकान्येतानि मे लक्ष्मि ! दृश्यन्ते तु यदा तदा ।
श्रीलक्ष्म्याख्यं परं ब्रह्म तद्विज्ञेयं न संशयः ।। ९ ।।
द्वयं वाथ त्रयं वापि चत्वारि पञ्च वा यदा ।
दृश्यन्ते चरणे देवि ! तवांशा मानुषी मता ॥1.29.१०॥
ललाटे पौरटो हारः, स्वर्णरेखा च बिन्दुकः ।
दक्षे कपोलके रक्तबिन्दुश्चिबुकबिन्दुकः ॥११॥
दक्षस्तने हस्तरेखा, वामे स्तने तु चक्रकम् ।।
कंठे तु पौरटो हारश्चोरस्यहं चतुर्भुजः ॥१२॥
योनेरुपरि सधनुःकामदेवस्य चिह्नकम् ।।
सक्थ्नोः कुमुदयो रेखे, स्वस्तिको दक्षिणे करे ॥१३॥
ध्वजो मत्स्यश्च वंशी च धनुश्चाऽप्यथ मत्स्यकः ।
कलशश्चेति बोध्यास्ता नारायणांशकन्यकाः ॥१४॥
एकं वाऽथ द्वयं वापि तदधिकं तु वा पुनः।।
चिह्नं च दृश्यते बोध्या ब्रह्मावतारकन्यकाः ॥१५॥
नारायणो यदा श्रीमान्नररूपेण मानवः ।
तदा तद्दक्षिणे हस्ते ध्वजवज्राब्जवेणवः ।।१६।।
स्वस्तिकश्च धनुर्बाणौ त्रिशूलं मत्स्यकस्तथा ।
पद्म शंखस्तथा चक्रं सूर्यो हस्तिर्मयूरकः ॥१७॥
एकं द्वयं त्रयं वा मेऽवतारे तु ध्रुवं भवेत् ।।
हृदये स्वर्णरेखात्मलक्ष्मीचिह्न शुभं भवेत् ॥१८॥
उरसि चर्मणि स्वर्णहाररेखा शुभा भवेत् ।।
उदरे त्रिवलीरेखा लम्बमाना भवेन्ननु ।।१९।।
लिंगे कृष्णो भवेद्बिन्दुर्ललाटे तिलकं भवेत् ।।
रेखाऽप्येका ललाटस्य प्रान्तद्वय प्रसारिणी ॥1.29.२०॥
वामे सक्थ्नि भल्लवेक्ष्म पाण्डुलं पटरं महत् ।।
दक्षजंघोपरि कृष्णबिन्दुस्तु संभवेत् तथा ॥२१॥
गुरुफत्रिकं भवेत्तस्य पादयोस्तु द्वयोः शुभम् ।।
शरीरं स्वर्णवर्णं तद्रम्यं सौन्दर्यशोभितम् ।।२२।।
राजीवप्रेमभृन्नेत्रे रक्तप्रान्ते दयायुते ।।
भ्रूकुट्याः सकटाक्षे सुवक्रभंगतरंगके ॥२३॥
स्वस्तिकध्वजयवांकुशदण्डा अष्टकोणपविजंबुकजानि ।।
अर्धचन्द्रघटगोष्पदखानि सन्त्रिकोणशफरेन्दुधनूँषि ॥२४॥
दक्षिणे पत्तले तानि स्वस्तिकादीन्यथो नव ।।
वाने तलेऽर्धचन्द्राद्या रेखाः सप्त भवन्ति वै ॥२५॥
एकं द्वयं त्रयं वापि दृश्यते यस्य सोऽच्युतः ।
अवतारो हरेरेव भगवान् हरिरंशजः ॥२६॥
निर्लेपः स तु विज्ञेयः पापतापप्रणाशकः ।
स्त्रीधनादिमहाभोगेऽप्यनिर्बाध्यः स वै प्रभुः ।।२७।।
मायायां वर्तमानोऽपि मायां दिव्यां करोति सः ।।
स्वयोगं तु समायातान् पावयत्यतिपापिनः ।।२८।।
कामात् क्रोधाद्भयाल्लोभान्मत्सरात्तं भजन्ति ये ।
तत्प्रतापात्तु ते सर्व मुक्तिं यान्त्यपुनर्भवाम् ॥२९॥
स्वस्थद्रव्याणि संदग्ध्वा वह्निस्तिष्ठत्यलेपकः ।।
सर्वकर्माणि संदग्ध्वा कृष्णस्तिष्ठत्यलेपकः ॥1.29.३०॥
वह्नौ मलिनधात्वादि निपत्याऽच्छं भवेद् यथा ।
हरौ मलिनकामादि समर्प्याऽच्छं भवेत्तथा ॥३१॥
अप्रमेयसमर्थस्य स्वभावाऽच्छस्य वै हरेः ।। |
सम्बन्धात्तु नरा नार्यः शुद्ध्यन्त्यंशात्मकप्रभोः ॥३२॥
करयोर्मध्यांगुल्योस्तु शंखौ यस्य स्त उत्तमौ ।
अन्यासु षटसुचक्राणि तथैवांगुष्ठयोरपि ॥३३॥
चक्रे द्वे प्रान्तभागेषु स स्याद्वै भगवान् स्वयम् ।
हस्तौ तौ पद्मसंज्ञौ वै वामे करतले तथा ॥३४॥
मध्ये लम्बा चोर्ध्वरेखा यस्य स्यात् भगवान् हि सः ।
यत्र हस्तं दधात्येषस्त्वक्षयं जायते हि तत् ॥३५॥
उक्त चिह्नान्यतमादिचिह्नयुक्तस्तु देह्ययम् ।
नारीरूपो नररूपो गृही त्यागी च वा भवेत् ॥३६॥
सोऽहं नारायणः साक्षान्नृनाट्यं विदधन् सदा ।
अज्ञवद्वर्तमानोऽपि सर्वानुद्धारयाम्यहम् ॥३७॥
दर्शयामि क्वचित् किञ्चित्स्वल्पमैश्वर्यमेव तत् ।
भक्त कार्यार्थमित्येव न ममोत्कर्षसिद्धये ।।३८।।
लौकिकास्तु जनाः पापाः स्वार्थस्यैव तु साधकाः ।।
स्वार्थं संसाध्य गच्छन्ति दूरे मत्तोऽघकारकाः ॥३९।।
दर्शयामि न वै तस्माच्चमत्कारं तु कंचन ।
सत्या भक्तास्तु वै चमत्कृतिं विनापि यान्ति माम् ॥1.29.४०॥
शास्त्रप्रोक्तेन चिह्नेन निश्चितो भगवाँस्तु यैः ।
चमत्कारो न तैः कांक्ष्यो दोषा ग्राह्या न वैकृताः ॥४१॥
अंशावतारः कृतसर्वकार्यः संपश्यति घ्राति विहन्ति भुंक्ते ।
निद्राति चाऽऽश्लिष्यति चुम्बतीति सम्मेहतीशं पिबतीति दिव्यम् ।।४।।
अष्टचक्रकरः स्वामी कोटिस्त्रीणां पतिर्भवेत् ।।
राजाधिराजलक्ष्म्या संसेव्यते राजवद्धि सः ।।४३।।
सर्वज्ञव्यासरूपोऽयं सर्वविद्यादिवारिधिः ।
बृहस्पत्यधिकः साक्षाद् भगवान् मानवोऽपि सः ॥४४॥
मया लक्ष्मि ! कथितानि चिह्नान्यालोक्य निश्चयात् ।
नारायणीं हरिं वापि ज्ञात्वा प्रपत्तिमाचरेत् ॥४५॥
सेवेत सर्वभावेन सर्वस्वार्पणमाचरेत् ।।
भक्त्या प्रीत्या च रत्या च मोक्षभाक् स द्रुतं भवेत् ॥४६॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नारायणावतारनरनारीणां
दिव्यचिह्नादिनिरूपणनामा एकोनत्रिंशोऽध्यायः ॥२९॥