← अध्यायः ०३३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३४
[[लेखकः :|]]
अध्यायः ०३५ →

श्रीलक्ष्मीरुवाच
नारायणस्य पिण्डाद्वै ब्राह्मणो यो ह्यजायत ।।
स क्व गतश्चकाराऽथ किं किं तद् ब्रूहि मे हरे ! ॥ १ ॥
श्रीनारायण उवाच --
ब्राह्मणः पुरुषश्चाद्यो दिव्यः षोडशहायनः ।।
पित्रा समुपदिष्टो वै सर्वविद्याविशारदः ॥२॥
नारायणसमस्तन्वा गुणैश्चापि स तत्समः ।
रूपेण वयसाऽऽकृत्या नारायण इवाऽपरः ॥३॥
अस्तौन्नारायणं देवं पितरं स्वोपदेशिकम् ।।
नारायण ! गवां नाथ ! पिता त्वं जगतां गुरुः ॥४॥
किं कार्यं मे भवेच्छाधि पालयामि न संशयः ।।
पाति यः स पिता प्रोक्तः पुत्रस्त्वज्ञाप्रपालकः ॥५॥
पिता विष्णुः पिता दैवं पितांऽशो वासुदेवजः ।
पिता कृष्णः परब्रह्म पिता तस्मात् प्रपूज्यते ।। ६ ।।
पितृतीर्थं परं तीर्थं तारकं पुण्यदं वरम् ।।
पिता देवो वरो देवः पिता ब्रह्मसनातनम् ॥ ७ ॥
पिता बीजप्रदाता यः पोषकः पालकस्तथा ।
सर्वं चार्पयिता स्वस्य कोऽन्यस्तस्मात्परो मतः ॥ ८ ॥
पिता सन्तोषितो येन तेन सन्तोषितो हरिः ।
पिता च सेवितो येन तेन संसेवितो हरिः ॥ ९ ॥
दान पुण्यव्रताऽऽतिथ्ययज्ञहोमदमादयः ।
अकृता अपि सुकृताः स्युः पिता येन सेव्यते ॥1.34.१०॥
महापापोऽतिपापश्च पशुघ्नश्चाऽऽत्मघातकः ।
पितृपादोदकं पीत्वा ब्रह्मलोके महीयते ॥११॥
पितृब्रह्म परंब्रह्म शरण्यः शरणार्थिनः ।।
देहज्ञानधनादीनां प्रदाता पोषकः प्रभुः ॥१२॥
पितुराज्ञा कृता येन तेन सर्वं कृतं भवेत् ।
अन्यन्नैवाऽवशिष्येन पित्राशीर्भ्यो विधेयकम् ॥१३॥
संस्कृतः संस्कृतो वा न पुत्रः पित्रा निभालितः ।।
निर्भयो भवते मान्यो महद्भिश्चापि सर्वथा ॥१४॥
न विष्णुर्न महादेवो न वैराजो न चेश्वराः ।।
पितृतुल्या भवन्त्येते पिता ह्येव पिता मतः ॥१५॥
जलाऽन्नवस्त्रवाहाद्यैः पादसंवाहनादिभिः ।
वार्धक्ये पार्श्ववासेन पितुः सेवां करोति यः ।।१६।।
आह्वाने वर्तने चापि नेति न प्रतिवक्ति यः ।।
ओमित्येव करोतीष्टं स मोक्षभाङ् न संशयः ॥१७॥
पितुर्मतं विना नैव किञ्चित्कार्यं करोति यः ।।
आज्ञयैव प्रकर्ता यः सर्वथा फलभाग् हि सः ॥१८॥
आपद्भिर्नीयमानो यो दुःखैरामर्दितश्च यः ।
विघ्नैश्चापि पराभूतः पितृभक्त्या हि रक्ष्यते ॥१९॥
तादृशेन सुपुत्रेण पिता वै पुत्रवान् मतः ।।
अनाज्ञाकरपुत्रेण पिता नैव हि पुत्रवान् ॥1.34.२०॥
तस्मात्तातः करोम्याज्ञां येन जन्मफलं भवेत् ।।
कृतं सर्व सुकुतं स्यात् तदाज्ञां देहि सत्वरम् ॥२१॥
पितृभक्तिं प्रदर्श्यैवं यावद् बद्धांजलिः स्थितः ।
तावन्नारायणः साक्षात् पिता प्राह सुपुत्रकम् ।। २२।।
अहो पुत्र चिरं जीव, वर्धितोऽसि शुभाशिषा ।
पितृभक्तिपरः पुत्रे धर्मेण वर्धतेऽन्वहम् ।। २३ ।।
ईदृशस्ते विचारोऽस्ति वर्तनं पितृभक्तिकृत् ।
पितृ भक्ति विबेकेऽहं वर्ते वै पुत्र सिद्धिदः ।।।२४।।
सुपुत्रः स हि विज्ञेयः पिता येन सुपालितः ।
वन्दितः सेवितो नित्यं पूजितश्च नमस्कृतः ।। २५।
प्रातरुत्थाय ये पुत्रः पितॄन्देवान्गुरूँस्तथा ।
वन्दन्ते च नमन्त्यार्यास्तेऽक्षयाऽर्थप्रभागिणः ।। २५ ।।
तेषां वै चाऽक्षया लोकास्तेषां चाऽक्षयममृतम् ।
तेषां वै चाऽक्षयं श्रेयस्तेषामभ्युदयः परः ।।।२७।।
तेषां दाराः सदा साध्व्यः पातिव्रत्यपरायणाः ।
मिष्टवाण्यो मिष्टदात्र्यो मिष्टभोग प्रदास्तथा ।। २८ ।।
तेषां गृहाणि दिव्यानि स्मृद्धिकोटिभृतानि च ।
रसद्रव्यधरासम्पल्ललितानि भवन्ति च ।। २९ ।।
सेवन्ते ये जनाः पितॄन् वस्त्रभोजनवारिभिः ।
सेवाऽनुवृत्तिशुश्रूषापरिचर्यादिभिस्तथा ।। 1.34.३० ।।
तेषां स्युरक्षया लोका अक्षयाश्च विभूतयः ।
अक्षयं च सुखं दिव्यं निर्विघ्नं चिरजीवनम् ।।३१ ।।
सिद्धयस्तत्र तिष्ठन्ति पितरो यत्र सत्कृताः ।
समृद्धयस्तत्र चाऽऽयान्ति पित्राशीर्वादयोजिताः ।। ३२ ।।
स्वर्णं रौप्यं धनं धान्यं रत्नानि विविधानि च ।
शय्या मृद्व्यो दुग्धफेना गौर्यो नार्यस्तथा रसाः ।। ३३ ।।
यानवाहनसौधानि दीव्यन्ति पितृसेविनाम् ।
उद्यानोपवनाऽऽवाससरोविहारभूमयः ।। ३४।।
विमानानि च दिव्यानि गावो दास्यः सुमध्यमाः ।
दासाश्चाज्ञाकराः सौम्या भवन्ति पितृसेविनाम् ।। ३५।।
पितृसेवाऽक्षयो लाभो नाऽन्यो लाभस्तथाऽपरः ।
येन लाभेन मोदन्ते पुत्राश्चात्र परत्र च ।।३६ ।।
पूर्वं यैस्तु पिता भक्त्या सेवितः परितोषितः ।
तैः पदं पारमेष्ठ्यादि लब्धं चाऽथाऽपुनर्भवम् ।। ३७।।
पितृप्रसन्नतापात्रं यमो नैवाऽभिसर्पति ।
पितृप्रसन्नतापात्रात् कालश्चापि पलायते ।। ३८ ।।
पितृप्रसादपात्रस्य हरेः प्रसादपात्रता ।
पितृप्रसादहीनानां दुरन्ता कष्टदा गतिः ।। ३ ९।।
लब्धपितृप्रसादानां वंशो न शीर्यते क्वचित् ।
पितृप्रसादमाप्तानां स्वास्थ्यं न जीर्यति क्वचित् ।।1.34.४० ।।
पितृप्रसादमाप्तानामीतयो यान्ति दूरतः ।
आध्यात्मिकानि दुःखानि दृश्यन्ते नैव नैव हि ।।४१।।
इन्द्रियाणि सदा तेषां निरोगाणि भवन्ति हि ।
पिता बीजप्रदः पूज्यो माता गर्भे विवर्धिनी ।।४२।।
बाल्ये तु सेविका माता सेव्या माता यथा पिता ।
पिता नारायणो बोध्यो माता लक्ष्मीस्वरूपिणी ।।।४२।।
मातृसेवा कृता येन सेविता देवकोटयः ।
माता दधाति वै गर्भे गर्भार्थं नियमे स्थिता ।।४४।।
इष्टान्भोग्यान्भोज्यपानादिकान् त्यक्त्वाऽपि रक्षति ।
जन्मदाने परं दुःखं सहते मृतिमूर्छनम् ।।४५।।
बालं मूत्रमलोपेतं निर्मलं प्रकरोति सा ।
निद्रां त्यक्त्वाऽपि बालार्थं चिन्ता ग्रस्ता भवत्यसौ ।।४६।।
ध्यायतीश्वरवद् बालं सेवते पोषयत्यपि ।
रक्षति स्वार्जितं सर्वं ददाति तत्कृते सदा ।।४७।।
किं! ऋणं तूलनां याति पुत्रे मातुः ऋणस्य वै ।
पुत्रस्तत्प्रतिकर्तुं न क्षमो वर्षशतैरपि ।।४८।।
यादृशौ तादृशौ वापि पितरौ ब्रह्मवन्मतौ ।
पूज्यौ सेव्यौ सदा वन्द्यौ पुत्रैः पुण्याभिलाषिभिः ।।४९।।
अन्धौ रुग्णौ दरिद्रौ वा कृपणौ व्यभिचारिणौ ।
स्तेनौ हिंसापरौ वापि पितरौ पूजनार्हणौ ।।1.34.५०।।
धन्योऽसि त्वं सदा पुत्र यन्मदाज्ञां करोषि हि ।
मदाज्ञैव च धर्मस्ते धर्मात्मा भव सर्वदा ।।५१ ।।
पत्नीव्रतमितिप्रख्यां करोमि तव पुत्रक! ।
पत्नीव्रतस्त्वमेवाऽसि ब्राह्मणो दिव्यसिद्धिमान् ।।५२।।
मम कृष्णस्य रूपस्त्वं ममाऽतिवल्लभो यतः ।
कृष्णवल्लभ इत्याख्य आचार्यो भव पुत्रक! ।।।५३।।
ममाऽवतार एव त्वं भगवान् सर्वमोक्षकृत् ।
मत्सृष्ट्यसंख्यसाध्वीनामेकलः सत्पतिर्भव ।।।५४।।
सर्वसृष्टौ दिव्यरूपो भूत्वा व्यापक एव च ।
नरे नरे निवासं च कुरु कोटिगुणो भव ।।५५।।
शृणु पत्नीव्रतं तेऽहमुपदिशामि तत्त्वतः ।
तथा नरेषु वृत्त्यं वै तथासन्मोक्षदो भव ।।५६।।
पत्युर्भागं स्वके गर्भे नयते रक्षणाय या ।
पत्नी प्रोक्ता च साऽप्यग्निसाक्षिणी सहचारिणी ।।५७।।
तदर्थं तत्सुखार्थं च तस्यामेव पुमर्थकम् ।
वर्तनं व्रतमित्येवं पत्नीव्रतमितीरितम् ।।५८।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पितृसेवापत्नीव्रतपुरुषात्मकब्राह्मणमहिमकथननामा चतुस्त्रिंशोऽध्यायः ।। ३४ ।।