← अध्यायः ०३५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३६
[[लेखकः :|]]
अध्यायः ०३७ →

श्रीनारायाण उवाच-
शृणु त्वं कमले ! लोकव्यवहारप्रघट्टनाम् ।
यच्छ्रुत्वाऽऽश्चर्यमेव स्यात्कथयामि तु तत्त्वतः ।। १ ।।
कर्मलोके व्यवहारो ह्यादानप्रतिदानजः ।
परस्परसहायेन सर्वदा बन्धनात्मकः ।। २।।
दरिद्रेभ्यो निर्धनेभ्योऽशक्येभ्यो धनवान् सदा ।
द्रव्यं ददाति साहाय्यं देहयात्राप्रवृत्तये ।। ३ ।।
समयस्तेन कठिनो निर्याति सुखपूर्वकम् ।
यदा स्वस्य सुयोगः स्यात्समयश्चापि लाभदः ।। ४ । ।
तदा तु धनिनो द्रव्यं सम्प्रदेयमशेषतः ।
ग्रहीता यदि दद्यान्न ऋण्येव म्रियते यदि ।। ५ ।।
ऋणाऽपाकरणार्थाय पुनर्जन्मनि वै तदा ।
मनुष्यो यदि जायेत प्राक् पिता भवतीति सः ।। ६ ।।
तदानीं पूर्वदातारः पुत्रा भवन्त्यकर्मठाः ।
पत्नीगर्भे स्थिता एव कारयन्ति बहुव्ययम् ।। ७ ।।
पत्नीं तु रोगिणीं कुर्युस्तदर्थं द्रव्यनाशकाः ।
जन्मन्यपि न सारल्यं तदानीं द्रव्यनाशकाः ।। ८ ।।
जन्मोत्तरं न सुस्वास्थ्यं तदानीं द्रव्यनाशकाः ।
बाल्येऽपि सर्वथा दुष्टाः कारयन्ति व्ययं बहुम् ।। ९ ।।
भोजनाच्छादनापानविलेपनमहोत्सवैः ।
कुर्वन्ति विपुलं नाशं पितृद्रव्यस्य पुत्रकाः ।। 1.36.१० ।।
रोगे व्ययो व्रते व्ययो व्यसने व्यय एव च ।
विद्याध्याये विवाहे च व्ययाद् व्यय इतीयते ।। ११ ।।
यावन्नोपार्जनार्हास्ते तावत्तु व्यय एव वै ।
यावदुपार्जनार्थाय समयः प्रतिदृश्यते ।। १ २।।
तावद् युवा कृतः पुत्रोऽकस्माद् वा म्रियते यतः ।
पूर्वजन्मनि दत्तं यत् सर्वमादाय याति सः ।। १३ ।।
अथवा दीर्घजीवी चेद् विचित्तोन्मत्तवद्भवेत् ।
तदर्थ सर्वथा द्रव्यव्यय एव न संशयः ।। १ ४।।
इत्येवं पूर्वदातारो जायन्तेऽत्र तु पुत्रकाः ।
दत्तं द्रव्यं समाप्यैव यान्ति कर्मानुसारतः ।। १५।।
तस्मात्पृर्वप्रदातारः पुत्राः ज्ञेया स्वके गृहे ।
ये वा न प्रतिदातारः पशवोऽपि भवन्ति ते ।। १ ६।।
वृषा अश्वा रासभा वा चोष्ट्रा भूत्वा वहन्ति ते ।
तद्द्वारा स्वामिनो द्रव्यं दत्वा यान्त्यन्यविग्रहम् ।। १ ७।।
ऋणमुक्तो भवेद्यस्तु न किंचित्कस्यचिच्च वै ।
ऋणं यस्याऽवशिष्येत स नैवाऽपत्यवान् भवेत् ।। १८ ।।
तस्मात्पुत्राः सदा बोध्या द्रव्यनाशार्थमागताः;
सत्पुत्रास्त्वागते योग्ये समये लाभदायकाः ।। १ ९।।
कर्मानुबन्धिसंसारे यस्य यत्र ऋणं भवेत् ।
स तत् तस्य समादाय दूरं चिराय गच्छति ।। 1.36.२० ।।
न कश्चित्कस्यचित् पुत्रो न कश्चित्कस्यचित्पिता ।
ऋणादानप्रदानाभ्यां पितृपुत्राऽऽप्तयोजनाः ।। २१ । ।
स्वपितृसेवनं पुत्रास्त्यक्त्वोत्पथगता यदि ।
पितृनिःश्वाससंदग्धा यान्त्यधोऽप्यधमां गतिम् ।। २२।।
मातरं पितरं वापि वृद्धं पाल्यं गृहाद् यदि ।
निष्कासयति कुपुत्रो नष्टपुण्यो भवत्यरम् ।। २ १ ।।
गुरुं हूंकृत्य तूंकृत्य पितरं मातरं वदेत् ।
श्मशाने जायते वृक्षः कंकग्रध्रोपसेवितः ।।२४।।
मात्रे पित्रे वृद्धतायां योऽन्नं नैव ददाति च ।
देवाः स्युस्तस्य वै रुष्टा अन्ननाशकरास्तथा ।।२५ ।।
ताभ्यो वासं तु वृद्धत्वे जीविकां न ददाति यः ।
तस्य वासं जीविकां च हरन्ति देवयोनयः ।। २६। ।
पित्रोस्तु भर्त्सनं यद्वा ताडनं चाऽवमाननम् ।
करोति यः कुपुत्रः स परे तत्तत्प्रपद्यते ।। २७।।
कुपुत्रैर्भवितव्यं न भवितव्यं सुपुत्रकैः ।
सुपुत्रस्य कृते स्वर्गं सम्पन्मोक्षोऽपि हस्तगः ।। २८ । ।
सुदेवाऽऽराधनं यद्वा याभ्यां पुण्यं पुरा कृतम् ।
ताभ्यां तु लभ्यते पुत्रः सुपुत्रो धार्मिकः शुचिः ।। २९।।
सेवको मानदाताऽऽज्ञापालकोऽनुसृतः सदा ।
गुर्वर्थं सुखदुःखादिसहनः परिपोषकः ।। 1.36.३० ।।
सत्पुत्रजनने योगा अपेक्ष्यन्ते शुभाः सदा ।
गर्भस्य धारणे योगाः सुयोगा वै सुपुत्रदाः ।। ३१ ।।
ऋतुदाने पितुर्यादृग विचारो वर्तते हृदि ।
कामः क्रोधोऽथवा लाभो भर्त्सनं चौर्यमेव वा ।। ३२।।
मोहो दंभो मलिनत्वं शाठ्यं कौटिल्यमेव वा ।
शौर्यं विद्या सात्त्विकत्वं राजसं तामसं च वा ।। ३३ ।।
द्यूतं पानं व्यसनं च यद्यदनिष्टमेव वा ।
वर्तते तन्मयो बिन्दुः पुत्रोऽपि तन्मयो भवेत् ।। ३४।।
दानधर्मदयाप्रेमकोमलान्तरतास्तथा ।
वर्तेरन् तन्मयो बिन्दुस्तत्पुत्रस्तद्गुणो भवेत् ।। ३ ५।।
ऋतुदाने शुनः शब्दा गर्दभादेस्तथाऽशुभाः ।
क्लेशकलहशब्दा वा श्रूयन्ते चेत्तथा तदा ।। ३६ ।।
बिन्दवस्तन्मया भूत्वा गर्भे ते वै पतन्ति यत् ।
पुत्रा अपि श्वखरवत् जायन्ते तद्गुणास्तथा ।। ३७।।
नीचजातेः सहवासात् तद्भावानां च वर्तनात् ।
तादृशा बिन्दुदाने वै जायन्ते बालकास्तथा ।। ३८ ।।
गृहे सर्वत्र भित्त्यादौ यादृश्यः सन्ति मूर्तयः ।
तादृशाऽऽकृतयस्तेषां पुत्राणान्तु भवन्ति हि ।। ३९ ।।
कृष्णवर्णास्तामसाश्च युद्धारंभाः प्रतारकाः ।
चौराश्च कामनावन्तो हास्यसदनकारकाः ।।1.36.४० ।।
दरिद्राश्च धनाढ्यश्च विजयिनः पलायिताः ।
राक्षसाश्च तथा प्रेता भूता भाण्डाश्च नर्तकाः ।।४ १ ।।
नटा नट्यो यथा या या आकृतयो भवन्ति वै ।
गृहे वा दर्शने वाऽथ स्मरणे बिन्दुपातने ।।।४२।।
तथा तथा गुणास्तेषां भवन्त्येव प्रजासु वै ।
तस्मान्निषेककार्येऽपि सुकृतं चिन्तयेद् बुधः ।।।४३ ।।
सन्तं धर्मयुतं भक्तं यशोभाजं च सुकृतम् ।
श्वेतं पुण्ययुतं शान्तं सद्गुणं मानवं तथा ।।४४।।
गुरुं पतिं च पितरं मातरं देवमेव वा ।
विद्वांसं सत्क्रियं शूरं सुरेखं भाग्यशालिनम् ।। ४५।।
गौरं प्रख्यातकार्यं च शीलवन्तं तपस्विनम् ।
लोकहितकरं देवपूजनाऽऽस्तिकमेव वा ।।४६ ।।
उद्यमिनं च नीतिज्ञं सौम्यं देवगुणाकरम् ।
परोपकारशीलं च सुभगं दानशालिनम् ।।७।।
सर्वसद्गुणसद्वासं पवित्रं चिन्तयेत् तदा ।
नरं वाऽप्यथवा नारीं देवं देवीं तथापि वा ।।४८ ।।
सन्तं साध्वीं भगवन्तं तथा भगवतीं च वा ।
यादृशं यादृशीं चैव निषेकसमये तु यः । ।४९ ।।
या च संस्मरति तादृगपत्यं लभते तथा ।
ऋतुदाने यथा यादृग्भावो भवति देहिनोः ।।1.36.५० ।।
तथाऽपत्यानि जायन्ते दम्पत्योर्भाववन्ति हि ।
अत्र सृष्टौ तु बहुधा स्वभावाः संकरीकृताः ।।५ १ ।।
परस्परानुमिश्रेण शुद्धा नैव भवन्ति हि ।
तथापि सुखदं चिन्त्यं यावद्बुद्धिबलोदयम् ।।५२।।
तेनाऽपत्यं भवेत्तस्य सुखदं मानदं सदा ।
आर्तवस्तु गुणः सर्वाऽपत्येष्वाविशति ध्रुवम् ।।५३ ।।
ऋत्वारंभाद् भवेद्गर्भकमलं व्यात्तसम्मुखम् ।
आषोडशदिनं पश्चाद् गर्भं गृह्णाति नैव तत् ।।५४।।
मध्यरात्र्युत्तरं मत्वा चाऽऽगामिमध्यरात्रिकम् ।
यदा रजः सुदृश्येत तद्दिनाद्गणना भवेत् ।।५५।।
रजोदिनानि चत्वारि विहायाऽऽषोडशाऽवधिम् ।
गर्भाऽऽधानस्य योग्यत्वं भवतीत्यवधार्य च ।।५ ६ ।।
यद्वा तद्वा रजोयुक्ता रात्र्यश्चतस्र एव तु ।
हातव्यास्तपरे काले पञ्चमी कन्यकाप्रदा ।।५७।।
षष्ठी रात्रिः पुत्रदा वै भवतीत्येवमंकतः ।
गणयित्वा यथेष्टं तु योगः कार्यः फलप्रदः ।।५८।।
पुत्रदास्तस्य युग्माः स्युरयुग्माः कन्यकाप्रदाः ।
ऋतुरजोऽन्विता रात्र्यश्चतस्रस्तत्र गर्हिताः ।।५९।।
तासु योगो न कर्तव्यो गर्भनाशक एव सः ।
तस्माद्धैर्यपदो भूत्वा शुद्धिं कृत्वा तु संविशेत् ।। 1.36.६० ।।
त्यक्त्वा चन्द्रमसं दुष्टं मघां मूलं विहाय च ।
शुचिं सन्निविशेत्पत्नीं पुन्नामर्क्षे विशेषतः ।।६ १ ।।
पतिः पत्न्याः सह शुद्धिं कृत्वा शय्यां समाविशेत् ।
शुचिं पुत्रं प्रपद्येत पुमर्थस्य प्रसाधकम् ।।६२।।
मालिन्ये तु तयोः पुत्रा मलिनाः स्युश्च पापिनः ।
नार्या शृंगारहास्यादि कार्यं मैथुनकर्मणि ।।।६३ ।।
तेनाऽपत्यं प्रकृष्टं स्यात् सुखभाक् सौम्यदर्शनम् ।
हास्ययुग् दिव्यरूपं च भवेन्मानसरंजनम् ।।६४।।
दुग्धपाकं तथा मिष्टं शुक्लं भुक्त्वा तु संविशेत् ।
तेनोज्ज्वलमपत्यं स्याद् रूपाढ्यं सुदृढं सदा ।।६५।।
शाकं भुंक्त्वा यदा गच्छेत् स्त्रियं तस्य तु बालकम् ।
कृष्णवर्णं भवेत्तस्माच्छाकं भोज्यं न तद्दिने ।। ६६।।
उज्ज्वलेन प्रभोज्येन वीर्यं भवति चोज्ज्वलम् ।
तस्माद् द्वाभ्यां तदा भक्ष्यमुज्ज्वलं पय आदिकम् ।।६७।।
ततः ऋतुप्रसंगस्तु कार्यः सर्वशुभावहः ।
शुभे काले शुभे योगे मूहूर्तादौ शुभे तथा ।।६८ ।।
संगः कार्यो नाऽन्यथा तु सदपत्यसुलब्धये ।
सत्समयं त्वनादृत्य कामवेगेन ये जनाः ।। ६९ ।।
अकाले गर्भदातारस्तेषां बालास्तु दुर्भगाः ।
अल्पवीर्या अल्पसत्त्वा अल्पसुकृतकारिणः ।।1.36.७ ० ।।
बुद्धिहीना दुःखदाश्च जायन्ते दुःखवर्तनाः ।
तस्माच्छ्रुभप्रजायास्तु लाभाय सर्वदा युवाम् ।।७ १ ।।
वर्तेथां धर्मसद्भावे नाऽन्यभावे कदाचन ।
तेन सौख्यं परं भूयाद् भवतोरेकभावयोः । ।७२।।
लोकद्वयविजेतारौ भवतां, शं भवत्वपि ।
भूयास्तं च सदा सार्थौ वियोगरहितौ तथा ।।७३ ।।
दाम्पत्यसुखमश्नन्तौ नित्यमानन्दशालिनौ ।
देहसम्पत्कृतौ पृष्टौ भूयास्तं भाग्यशालिनौ ।।७४।।
रजस्वलारजो दोषो ह्यशुद्धिभ्राजको हि सः ।
तावद्दूरेऽन्वहं स्थेयं यावद्दिनचतुष्टयम् ।।७५ ।।
नार्या रजस्वलाधर्मस्थया स्पृश्यं न सर्वथा ।
गृहवस्त्वादिकं यत्तत्स्पर्शादशुचितां व्रजेत् ।।७६।।
अज्ञानाद्वा प्रसंगाद्वा स्पार्शनो दोष उद्भवेत् ।
तन्निवृत्तिर्भवेद्वर्षे तद् ऋषिपंचमीव्रतात् ।।७७।।
उपवास्तत्र कार्यो नार्या देवप्रपूजनम् ।
भाद्रशुक्लसुपक्षस्य पञ्चमी ऋषिपञ्चमी ।।७८।।
तद्व्रते तु फलाहारो ह्यशक्तानां मतः शुभः ।
तथाकृते व्रतस्यापि भंगो नैव भवेदिति ।।७९।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ऋणानुबन्धसन्ततिदाम्पत्यनिषेकानुरूपसन्तान-राजस्वल्यदोषपरिहारकव्रतादिनिरूपणनामा
षटूत्रिंशोऽध्यायः ।। ३६ ।।