← अध्यायः ०४५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४६
[[लेखकः :|]]
अध्यायः ०४७ →

श्रीनारायण उवाच
अथ लक्ष्मि ! प्रवक्ष्यामि देवसृष्टं तु मानसीम् ।
तत्राऽभिमानिनो देवान्मानसानसृजत् त्वजः ॥ १ ॥
आभूतसंप्लवावस्थान् नामतस्तान्निबोध मे।
आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥ २ ॥
स्वर्गॆ दिवः समुद्राश्च नदाः शैला द्रुमा लताः ।।
ओषधीनां तथाऽऽत्मानो ह्यात्मानो वृक्षवीरुधाम् ।। ३ ।।
लवः काष्ठा कला सन्धिर्मुहूर्तॆ च दिवानिशम् ।।
मासार्धमयनं मासश्चाब्दं युगश्च साधिका ॥ ४ ॥
स्थानाभिमानिनो देवा इत्येतानसृजत् त्वजः ।।
नक्षत्रग्रहताराणामभिमन्त्रीश्च देवताः ।।५।।
अष्टाविंशतिकोटींश्च ससर्ज सुकृतात्मनाम् ।
वैमानिकास्तु ताः प्रोक्ता देवलोके दिवौकसः ॥ ६ ॥
देवाश्च पितरश्चैव मुनयो मनवस्तथा ।।
तेषामनुचरा ये च मनुपुत्रास्तथैव च ।। ७ ।।
प्रसंख्यया त्रीण्यब्जानि कोट्यो द्विनवतिस्तथा ।
सप्तलक्षाणि च तथा सहस्राण्यष्ट सन्ति हि ॥ ८ ॥
देवा ह्येतेऽभिमन्तारस्तत्तद्गोलकदेवताः ।
आधिपत्यं विना ते वै ऐश्वर्येणाऽजसन्निभाः ॥ ९ ॥
जंगमाः स्थावराश्चैते ब्रह्मणो मानसीप्रजाः ।
तुषितान्मरुतः साध्यान् विश्वेदेवाँश्च विद्युतः ॥1.46.१०॥
स्तनयित्नूँश्च भानूँश्च वसूनष्टौ तथैव च । १
द्रोणप्राणध्रुवाऽऽग्निदोषवसुविभावसून् ॥११॥
सिद्धान् यक्षाँश्च गन्धर्वानसुरान् राक्षसाँस्तथा ।।
अप्सरसश्चारणाँश्च पिशाचप्रेतभूतकान् ॥१२॥
विद्याधरान् किंपुरुषानश्वमुखाँश्च किन्नरान् ।
वेतालान् डाकिनीं चैव शाकिनीं योगिनीस्तथा ॥१३॥
विनायकॉश्च कूष्माण्डान् वेतालाँश्च ग्रहानपि ।
यातुधानाँस्तथोन्मादान्मातॄर्गुह्यकचारणान् ॥१४॥
प्रजापतीनृषींश्चैव नागान्सर्पांस्तथोरगान् ।
खगान्मृगान्पशून्वृक्षान् गिरीन्मर्त्यान्सरीसृपान् ।।१५।।
सूतमागधबन्दींश्च भाट्टमिन्द्रं यमं तथा ।
वरुणं च कुबेरं च हीशानं निऋतिं तथा ।।१६।।
अष्टसिद्धीर्नवनिधीन् रुद्रानेकादशाऽपि च ।
दैत्याश्च दानवॉश्चैव मानसानसृजत् त्वजः ।।१७।।
यज्ञान्पुण्यजनान् देववाहनानि पशूनपि ।
गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ॥१८॥
अविरुष्ट्रादयश्चैते द्विशफाः पशवस्तथा ।
खरोऽश्वः शरभो गौरश्चमर्येकशफा इमे ॥१९॥
श्वा शृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ ।।
सिंह कपिर्गजः कूर्मो गोधा च मकरादयः ॥1.46.२०॥
कंकग्रध्रवटश्येनभासभल्लुकबर्हिणः ।
हंससारसचक्राह्वकाकोलूकसकुक्कुटाः ॥२१॥
एवमादीन् नामतस्तान्मानसानसृजत् त्वजः ।
आद्यं सर्गं महत्तत्त्वं गुणवैषम्यमसृजत् ॥२२॥
द्रव्यज्ञानक्रियाकृदहमं द्वितीयमसृजत् ।
तन्मात्राणि तृतीयं तु द्रव्यशक्तं समसृजत् ॥२३॥
इन्द्रियाणि चतुर्थं तु ज्ञानकर्मात्म चाऽसृजत् ।।
पञ्चमं तु मनोदेवान् षष्ठमाविद्यमसृजत् ॥२४॥
सप्तमं स्थावरं सर्गं वानस्पत्यमवासृजत् ।
अष्टमं तु गवादीन्वै तिर्यञ्चः समवासृजत् ॥२५॥
मर्त्यं तु नवमं देवसर्गं दशममसृजत् ।
तत्र तत्राऽपेक्षितं च गौणसर्गमथाऽसृजत् ॥२६॥
द्रव्यं कर्म स्वभावं च सह ओजो बलं तथा ।
प्राणं दशविधं चक्रे मानसान् स पितामहः ॥२७॥
अशनापिपासे तालूं जिह्वां वाचं हुताशनम् ।
घ्राणं च नासिकां नेत्रे श्रोत्रे चैव दिशो दश ॥२८॥
रोमाणीन्द्रं करं पादौ गतिमानन्दशिश्नकम् ।। ।
रजो योनिं च वायुं च मित्रं यज्ञं सहव्यकम् ॥२९॥
पायूं च मित्रकं चैव बीजं वीर्यं च रक्तकम् ।।
नाभिमपानं मृत्युं च कुक्षिमन्त्राणि नाडिकाः ।।1.46.३०।।
तुष्टिं नदीः समुद्राँश्च पुष्टिं हृदयमित्यपि ।।
मनश्चन्द्रं च संकल्पं कामं त्वचं च चर्म च ।।३१।।
मांसं रक्तं च मेदं च मजामस्थि तु भूतजान् ।
इत्येतान्मानसाँश्चक्रे प्राक् सृष्टौ तत्र विश्वसृक् ।।३२।।
तत्र तत्र तदावासे देवाँस्ताँस्तानतिष्ठिपत् ।।
आस्ये त्वग्निं लोकपालं वाण्यादेवमतिष्ठिपतु ।।३३।।
तालौ तत्र वरुणं तु जिह्वादेवमतिष्ठिपत् ।।
नस्यश्विनीकुमारौ तु घ्राणदेवावतिष्ठिपत् ।।३४।।
महत्तत्त्वे तु वागीशं बुद्धिदेवमतिष्ठिपत् ।।
चरणयोस्तथा विष्णु पाददेवमतिष्ठिपत् ॥३५।।
अक्ष्णि त्वष्टारमादित्यं चक्षुर्देवमतिष्ठिपत् ।।
करयोरिन्द्रं वार्तार्थं हस्तदेवमतिष्ठिपत् ।।३६।।
चर्मण्यनिलं प्राणाय त्वचो देवमतिष्ठिपत् ।।
कर्णयोर्दिक् यथायोग्यं श्रोत्रदेवमतिष्ठिपत् ।।३७॥
गुदे मित्रं विसर्गाणं पायुदेवमतिष्ठिपत् ।।
त्वचि कण्डूकृते यावदोषधीन् समतिष्ठिपत् ।।३८॥
गुह्ये मेढ्रं महानन्दं ब्रह्मदेवमतिष्ठिपत् ।।
हृदि मनो विकाराय चन्द्रमसमतिष्ठिपत् ॥३९॥
महत्तत्त्वे महत्सत्त्वमहंकारेऽभिमानकम् ।।
चित्ते विज्ञानमाधत्त मानसान् तानकल्पयत् ।।1.46.४०।।
मुखात्तु ब्राह्मणं ब्रह्म बाह्वोस्त्राणं तु राजकम् ।।
उर्वोर्वृत्तिं विशं पद्धयां सेवां शूद्रानकल्पयत् ।।४१।।
ब्रह्मा स्वस्य शरीरे वै सृष्टिं सस्मार मानसीम् ।।
इन्द्रादयो बाहवो मे दिशः कर्णौ ध्वनिः श्रुतिः ॥४२॥
नासत्यदस्रौ नासे चाऽक्षिणी द्यौश्चक्षुरर्यमा ।।
पक्ष्माण्यहनी चोभे भूविजृम्भो ह्यजधिष्ण्यकम् ।।४३।।
अपस्तालू रसो जिह्वा छन्दः शिर्ष्णस्तथैव च ।।
यमो दंष्ट्रा द्विजाः स्नेहकलोन्मादस्तु हास्यकम् ।।४४।।
अपांगमोक्षः सर्गोऽयं व्रीडा चोत्तर ओष्ठकः ।।
लोभस्त्वधर ओष्ठः स्यात् स्तनौ धर्मो मतस्तथा ।।४५।।
पृष्ठमधर्मः को मेढ्रं वृषणौ मित्रकाविति ।।
कुक्षिः समुद्रा गिरयोऽस्थिसंघाः श्वसितं जगत् ॥४६।।
नद्यो नाड्यस्तनुरुहाणि भूरुहा गतिर्वयः ।।
गुणप्रवाहः कर्म स्यात् केशा मेघा मनः शशी ॥४७॥
अव्यक्तं हृदयं वासः सन्ध्या ज्ञानं महत्त्वकम् !
गिरित्रमन्तःकरणं नखान्यश्वोष्ट्रहस्तिनः ॥४८॥
श्रोणिर्मृगा वयांसि तु शष्फाणि मनीषा मनुः ।
मर्त्यो निवासो गन्धर्वविद्याध्राऽप्सरसः स्वरः ।।४९॥
स्मृतिवीर्यं ब्राह्मणास्तु मुखं क्षत्रा भुजास्तथा ।।
विडूरुरंघ्रिः शूद्रो वै नानाद्रव्याणि कर्म च ॥1.46.५०॥
हव्यकव्याऽमृतान्नादिरसो जिह्वा मनस्तु हृत् ।।
विक्रमो भूर्भुवः स्वश्च छन्दांसि सप्तधातवः ॥५१॥
तीर्थानि नाड्यः कामाप्तिश्चरणं ह्युदरं मृतिः ।।
कोशश्मश्रुनख्यानेव शिलालोहाऽभ्रविद्युतः ॥५२॥
शिश्न आनन्दपर्जन्यजलवीर्यस्रवा इति ।
पायुर्यमपरिमोक्षमित्र इत्यपि मानसीम् ॥५३॥
हिंसा निऋतिर्निरयो मृत्युर्गुदमिति प्रधीः ।
तमोऽधर्मपराभूतिः पृष्ठोऽस्थीनि तु पर्वताः ॥५४॥
रक्तेऽव्यक्तरसाः सर्वे प्राक् ध्याता मानसा इमे ।
स्वात्मन्येवं परं ध्यात्वा मानसीं सृष्टिमित्यतः ॥५५॥
योग्यस्थानानि तेषां वै कृत्वा दत्वा च तान्यपि ।
तेभ्यो ह्यवासयत्सर्गे देवान् ताराग्रहादिकान् ॥५६॥
भूवरी यक्षरक्षःप्रभूतप्रेतपिशाचकान् ।
रुद्रान् रुद्रगणाँश्चापि गणिकाः समवासयत् ।
भुवि मर्त्यान्पशून्पक्षिगणान् जन्तूननेकशः ।।५७॥
पर्वतादौ महारण्ये गन्धर्वाश्चारणाँस्तथा ।
किन्नरान् किंपुरुषाँश्च विद्याधरविहंगमान् ॥५८॥
अतलादिपञ्चलोकेऽसुरदानवदैत्यकान् ।
महातले काद्रवेयान् सर्पांश्च पन्नगाँस्तथा ॥५९॥
पाताले तु महानागान् ब्रह्मा वासमदापयत् ।
एषा सर्वा महासृष्टिर्मानसी प्रथमे युगे ॥1.46.६०॥
यद्यथाऽपेक्ष्यते कार्यं तथा सृष्टिस्तु कल्प्यते ।।
ब्रह्मा विकल्प्य सर्वं तन्मानसाद् व्याकरोत्तदा ॥६१॥
ऐश्वर्यस्रोतसश्चाऽत्र ईश्वराः सत्यलोकजाः ।।
संप्रज्ञास्रोतसश्चात्र ऋषयो ज्ञानिनोऽमलाः ।। ६२ ।।
संतृप्तिस्रोतसश्चात्र पितरः श्राद्धतृप्तिजाः ।।
संपुण्यस्रोतसश्चात्र देवाः पुण्यादिसम्पदः ।। ६३ ।।
सध्यानस्स्रोतसश्चात्र प्रेता वासनध्यानजाः ।।
समूर्ध्वस्रोतसश्चापि राक्षसा दैत्यदानवाः ॥६४।।
अर्वाक्प्रस्रोतसः पृथ्व्यां मनुष्या राजसाः सदा ।
तिर्यस्रोतस एवाऽत्र पशुकीटप्रपक्षिणः ॥६५॥
तमःस्रोतस एवाऽत्र नागसर्पादयो मताः ।
अविद्यस्रोतसश्चाऽत्र पर्वतास्तरुगुल्मकाः ॥६६॥
इत्येवं दशस्रोतस्कान्सर्गान् ध्यानकृतान्पुनः ।।
तत्र तत्र स्थले लोके ब्रह्मा सम्यगतिष्ठिपत् ॥६७।।
तेषां तु भोजनं स्वस्माच्छरीरात्समकल्पयत् ।
ऋषीणां तु पयः छन्दोमयं भोज्यमकल्पयत् ।।६८॥
पितॄणां भोजनं कव्यं सिद्धानां सिद्धयोऽदनम् ।।
दैतेयानां सुरा प्रोक्ता दानवानामथाऽऽसवम् ।।६९॥
गन्धर्वाणां तु संगीतमप्सरसां तु सौभगम् ।।
विद्याध्राणां नभोविद्यां मायिनामप्यदर्शनम् ॥1.46.७०॥
यक्षराक्षसभूतादिप्रेतानां मांसरक्तकम् ।
सर्पोदीनां तु गरलं पशूनां यवसं तथा ॥७१॥
दंष्ट्रिणां पललं वृक्षवल्लीनां विविधं रसम् ।।
गिरीणां भिन्नधातूँश्च देवानाममृतं तथा ॥७२॥
मनुष्याणां गोधूमादि पक्षिणां च वनस्पतीन् ।
जलजानां जलजन्तून् सर्वेषां पाञ्चभौतिकम् ।।७३।।
ब्रह्मैव कल्पयामास यस्य यादृगपेक्षितम् ।
तेनेयं लोकयात्रा चाऽ निर्वहत्भूतसंप्लवम् ।।७४॥
एवं युगे तु प्रथमे सांगोपांगं तु सर्जनम् ।
सर्व तु मानसं कृत्वा विरराम पितामहः ।।७५॥
सृष्टिर्विवर्धते नैव नवीना जायते नहि ।
यथा यादृक् तथा तावत् तावदेव हि वर्तते ।।७६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने देवयक्षमानुषपशुपक्षिदैत्यदानवनागसर्पस्थावरादिसृष्टितदभिमानिदेवादिप्रदर्शननामा
षट्चत्वारिंशोऽध्यायः ॥४६॥