← अध्यायः ०६९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ७०
[[लेखकः :|]]
अध्यायः ०७१ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! विना मुक्तिं परलोकगतिः सदा ।
कष्टा कष्टप्रदा स्याद्वै ह्यात्म स्वार्जितजीवनः ॥ १ ॥
मृतस्य यदि कार्येऽपि योग्यपिण्डादि नार्पयेत् ।
अग्रे गतेर्विलोपः स्याद् दुःखबाहुल्यमापतेत् ॥ २ ॥
तस्मात्कर्मगतिं यास्यन् मरिष्यँश्च स्वयं तदा ।
जीवन्नेव स्वसौख्यार्थं कुर्यात्पुण्यमतन्द्रितः ॥ ३ ॥
नरो वा यदि वा नारी शरीरेन्द्रिययोगतः ।
सुखं धर्मं दुःखमधर्मं कुर्वन्ति स्वभावतः ।। ४ ।।
सुखार्थं धर्ममाकुर्यादधर्मं तु दुःखाय वै ।
स्वेन नैव कृतं किञ्चित् पाश्चात्यः किं करिष्यति ।। ५ ।।
तथापि स्नेहिलो लोको जनश्चापि तथा विधः ।
स्नेहाधीनः करोत्येव पाश्चात्येऽपि जनः क्वचित् ।। ६ ।।
यदा जन्तुः शरीराद्वै परलोकाय याति वै ।
तदा प्राणैर्विहीनं तच्छरीरं शवसंज्ञितम् ॥ ७ ॥
अस्पृश्यं जायते तूर्णं कृमिविट्भस्मसंज्ञितम् ।
मृतस्योत्क्रान्तिसमयात् षट्पिण्डान् क्रमतोऽर्पयेत् ॥ ८ ॥
मृतस्थाने शवो नाम पिण्डस्तत्र प्रदीयते ।
तेन भूमिर्भवेत् तुष्टा तदधिष्ठातृदेवता ॥ ९ ॥
द्वारदेशे भवेत्पान्थस्तेन नाम्ना प्रदीयते ।
तेन दत्तेन तुष्यन्ति गृहवास्त्वधिदेवताः ॥1.70.१०॥
चत्वरे खेचरो नाम तन्नाम्ना तु प्रदीयते ।
तेन तत्रोपघाताय भूतकोटिः पलायते ॥११॥
विश्रामे भूतसंज्ञोऽयं तमुद्दिश्य प्रदीयते ।
पिशाचा राक्षसा यक्षा ये चान्ये तत्र वासिनः ॥१२॥
तस्य होतव्यदेहस्य नैवाऽयोग्यत्वकारकाः ।
चितायां साधको नाम प्रेतस्तस्मै प्रदीयते ॥१३॥
इत्येवं पञ्चपिण्डैर्हि शवस्याऽऽहुतियोग्यता ।
देहदोषविनाशश्च ततोग्निर्ज्वालयेच्चिताम् ॥१४॥
संमृज्य चोपलिप्याऽथ उलिख्योद्धृत्य वेदिकाम् ।
अभ्युक्षीय समाधाय वह्निं तत्र विधानतः ॥१५॥
पुष्पाक्षतैः सुसम्पूज्य देवं क्रव्यादसंज्ञकम् ।
स्वर्गं मृतं नयेत्युक्त्वा शरीराहुतिमाचरेत् ॥१६॥
अर्धदेहे तथा दग्धे दद्यादाज्याहुतिं ततः ।
यमाय चान्तकायेति मृत्यवे ब्रह्मणे तथा ।।१७।।
जातवेदोमुखे देया ह्येका प्रेतमुखे तथा ।
ऊर्ध्वं तु ज्वालयेद् वह्निं पूर्वभागे चितां पुनः ।।१८।।
असौ स्वर्गाय लोकाय स्वाहा ज्वलति पावकः ।
एवमाज्याहुतिं दत्वा तिलमिश्रां समन्त्रकाम् ॥१९॥
ततो दाहः प्रकर्तव्यः पुत्रेण किल निश्चितम् ।
रोदितव्यं ततो गाढं एवं तस्य सुखं भवेत् ॥1.70.२०॥
दाहस्यानन्तरं तत्र कृत्वा संचयनक्रियाम् ।
प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं किल ॥२१॥
ततः सचैलकं स्नानं पुत्रैः कृत्वा तिलोदकम् ।
शिलायां नामगोत्रेण दद्याच्च करताडनीम् ॥२२॥
विष्णुर्विष्णुरिति ब्रूयात् ततस्तस्य गृहं जनाः ।
द्वारस्य दक्षिणे गत्वा गोमयं गौरसर्षपान् ॥२३॥
निधाय वरुणं देवमन्तर्धाय स्ववेश्मनि ।
भक्षयेन्निम्बपत्राणि घृतं प्राश्यं गृहं व्रजेत् ॥२४॥
अश्रुपातं न कुर्वीत दत्वा चाथ जलांजलिम् ।
श्लेष्माश्रु बान्धवैर्भुक्तं प्रेतो भुंक्ते यतोऽवशः ॥२५॥
दुग्धं च मृन्मये पात्रे तोयं दद्याद् दिनत्रयम् ।
श्मशानं चत्वरं गेहं पश्यन् याम्यैः सनीयते ॥२६॥
गर्तपिण्डान् दशाहानि प्रदद्याच्च दिने दिने ।
जलांजलयो दातव्याः प्रेतमुद्दिश्य नित्यदा ॥२७॥
पुत्रो भार्या च वा शिष्यो भ्राता क्रियां करोतु वै ।
प्रत्यहं तु प्रदत्तस्य पिण्डस्याऽर्धे तु देहदम् ॥२८॥
तृतीयं यमदूतानां चतुर्थेनोपजीवति ।
अहोरात्रैस्तु नवभिः प्रेतो निष्पत्तिमाप्नुयात् ।।२९॥
जन्तोर्निष्पन्नदेहस्य दशमे तु क्षुधा भवेत् ।
देहभूतः क्षुधाविष्टो गृहोपरि स तिष्ठति ॥1.70.३०॥
तत्र स्थित्वा यममार्गे गच्छन्त्यथ यमालये ।
दुःखान्यनुभवन् पश्चाज्जन्म प्राप्स्यन् प्रशोचति ॥३१॥
अहो किंचिन्मया नैव स्वास्थ्ये मोक्षप्रदं कृतम् ।
न हरेर्नामजपनं न कथाश्रवणं कृतम् ॥३२॥
न मया कीर्तनं गीतं स्मरणं न हरेः कृतम् ।
ने कृतं त्वर्चनं तस्य सतां पादाभिमर्दनम् ॥३३॥
न स्तोत्रं न नमस्कारः शरीरेण कृतं नहि ।
शरीर तन्मदीयं न यन्मया पोषितं बहु ॥३४॥
रक्षितं लालितं सम्यक् सेवितं च मुहुर्मुहुः ।
वृथैव तत्परित्यक्तं तेन कार्यं न साधितम् ॥३५॥
इन्द्रियैः सह सम्मील्य देहो व्यर्थं प्रयापितः ।
समयो मोक्षलाभार्थं न मया सार्थकीकृतः ॥३६॥
अनुकूलाऽभवन्नारी पतिश्चाप्यभवत् प्रियः ।
पुत्र दासाश्चानुकुलास्तथाऽप्यात्मा प्रवञ्चितः ॥३७॥
धनं चासीद्विपुलं मे दानार्थं वस्तुजातयः ।
केवलेन प्रलोभेन मया मोक्षो न चार्जितः ।।३८॥
साधुसाध्वीजनानां तु सेवा नैव कृता मया ।
दुष्कृतस्य फलं भुंजे किमिदानीं भवेन्ननु ।।३९॥
महता पुण्ययोगेन मानुषं जन्म लभ्यते ।
तन्मया सार्थकं नैव कृतमन्यत्कृतं बहु ॥1.70.४०॥
क्रीडया यापितं बाल्यं यौवनं क्षपितं रतौ ।
वार्धक्यं चिन्तया क्षिप्तं मृतौ किं स्यादशक्तिना ॥४१॥
शरीरं तत्कल्पवृक्षकामधेनुमणिप्रभम् ।
क्षपितं चान्यकार्येषु नाऽऽत्मकार्यं कृतं मया ।।४२।।
किंकरैः पीड्यतेऽत्यर्थं पराधीनः करोमि किम् ।
दानं नैव प्रदत्तं वै तपस्तप्तं न वै मया ।।४३।।
व्रतं वा पालितं नैव हुतं साधुमुखे नहि ।
तीर्थं नैव कृतं किञ्चिद् वाप्यादि नैव कारितम् ।।४४।।
गोचरं न कृतं क्वापि साहाय्यं कः करिष्यति ।
कृतः परोपकारो न न कृतं पारलौकिकम् ।।४५।।
नियमा नादृताः सम्यक् इदानीं किं भवेन्ननु ।
गुरोः पित्रोस्तथा सेवा नैव क्वापि मया कृता ।।४६।।
नारीदेहो महाकष्टः पराधीनः सदाऽशुचिः ।
भक्त्या वा सेवया नैव मया वै सार्थकीकृतः ॥४७॥
नरदेहो महाभारो नैकतृष्णावहोऽशुभः ।
भजनेन च पुण्येन न मया सार्थकीकृतः ।।४८॥
एवं स यातनाप्रेतो ब्रूते शोचति रोदिति ।
पीड्यते ताड्यते दूतैः क्रन्दन्त्यपि मुहुर्मुहुः ॥४९॥
जायाधनधराधामसुखं स्मरति दुःखितः ।
भृत्यमित्रसुतापुत्रकुटुम्बं संप्रशोचति ॥1.70.५०॥
मार्गे गन्तुं समर्थो न दूतैराकृष्यते ह्यधः ।
करुणं विलपत्येव रे प्रिये हे सुतादयः ॥५१॥
मोचयन्तु समागत्य मामेतद्दुःसहाऽर्दनात् ।
पुत्रः पौत्रो बान्धवो वा पुण्यं करोतु मत्कृते ॥५२।।
धेनुदानं मदर्थं वै करोतु मम पुत्रक !।
वैतरणीं तरिष्याम्यन्यथा मे तत्र मज्जनम् ॥५३॥
मया पाथेयमल्पं तु न नीतं पुण्यनामकम् ।
न तप्तं न हुतं जप्तं न दत्तं कुत आव्रजेत् ॥५४॥
उष्णेनार्द्रेण शीतेन मार्गेण गम्यते यदा ।
मूर्छितस्त्रासितस्तत्र हृदि शोचति केवलम् ॥५५॥
यदि मे बान्धवः कोऽपि वस्त्रादेर्दानमर्पयेत् ।
तदैतदुःखनाशः स्यान्नान्यथा भोग एव ह ॥५६॥
किंकरास्तु वदन्त्येनं क्व ते पुण्यं हि तादृशम् ।
तदा हा दैव सम्प्रोच्य धैर्यमालभते क्षणम् ॥५७।।
यदि वै मानुषं देहं प्राप्नुयां पुनरेव चेत् ।
अवश्यं मुक्तिदं मार्गमाश्रयिष्ये शपाम्यहम् ।।५८॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मृतशवस्य क्रियापिण्डदानशोकप्रेतशोकादिप्रदर्शननामा सप्ततितमोऽध्यायः ॥ ७० ॥