← अध्यायः ०७३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ७४
[[लेखकः :|]]
अध्यायः ०७५ →

श्रीनारायण उवाच-
अन्तकाले गवां दानं स्वर्गवासफलं खलु ।
अश्वारूढाश्च ते यान्ति ददते ये ह्युपानहौ ।। १ ।।
प्रेतस्तु छत्रदानेन छायया विचरेत्सुखम् ।
एवं तथाऽन्नदानेन क्षुधाहीनश्चरेत्सुखम् ।। २ ।।
तद्वद्वै दीपदानेन प्रकाशे याति सौख्यतः ।
प्राङ्मुखोदङ्मुखो दीपो देवागारे कृतो भवेत् ।। ३ ।।
आसनं भाजनं दद्यात् परलोकहितावहम् ।
कमण्डलुजलं दद्यात् तृषितः पिबतीति वाः ।। ४ ।।
एकादशाहे दातव्यं कुसुमं चांगुलीयकम् ।
भाजनं चान्नदानं च प्रेतो यात्युत्तमां गतिम् ।। ५ ।।
कुंभदानं वस्त्रदानं गजाश्वरथदानकम् ।
महिषीदानमित्येवं दातव्यं मृतनामतः ।। ६ ।।
शय्यादानं सवस्त्रं चान्यानि वै शक्तितस्तथा ।
कार्याणि प्रेतसंतृप्तिसुखशान्त्युपलब्धये ।। ७ ।।
शरीराद् वायुमिश्रः स आत्मा यदा प्रयाति हि ।
कट्यूर्ध्वरोमच्छिद्रेभ्य इन्द्रियगोलकात्तथा ।। ८ ।।
प्राणः पुण्यकृतो यात्यन्यस्याऽधोभागतः सरेत् ।
दशेन्द्रियचतुरन्तःकरणपंचमात्रकम् ।। ९ ।।
सूक्ष्मं देहं पुण्यपापे गृहीत्वा याति यत्र च ।
तत्र कर्मानुसारेण नवं देहं गृहं मतम् ।। 1.74.१ ०।।
एकविंशतिलक्षाणि जरायुजानि तावता ।
स्वेदजा उद्भिज्जाश्चैव अण्डजाश्चापि तावता ।। ११ ।।
इत्येवं चतुरशीतिलक्षाणि योनयो मताः ।
तत्र तत्र गतः प्रेतो पुनर्दुःखी पुनस्तथा ।। १२।।
पुनर्गर्भे निवसति जनिर्मृतिः पुनः पुनः ।
हरिं चाऽभजमानस्य गर्भे वासः पुनः पुनः ।। १ ३।।
स्त्रीषु पुरुषबीजेन गर्भा जायन्त इत्यतः ।
ऋतुकाले तु नारीणां त्यजेद् रात्रिचतुष्टयम् ।। १४।।
सप्तरात्रिमध्यगतो गर्भस्तु मलिनो भवेत् ।
पूर्वसप्तकमुत्सृज्य ततो युग्मेषु संविशेत् ।। १५।।
षोडशर्तुनिशाः स्त्रीणां गर्भधारणकारिकाः ।
चतुर्दश्यास्तु या रात्रिर्गर्भस्तिष्ठति तत्र चेत् ।। १६।।
गुणभाग्यनिधिस्तत्र पुत्रो जायेत धार्मिकः ।
युग्मासु पुत्रा जायन्ते स्त्रियास्त्वेकासु रात्रिषु ।। १७।।
पञ्चमेऽहनि नारीणां गौल्ममाधुर्यभोजनम् ।
कटुकारं च तीक्ष्णं च साज्यं युवतीभोजनम् ।। १८।।
नार्या त्वेवाऽऽतपो वर्ज्यः शीतलं केवलं चरेत् ।
ताम्बूलगन्धश्रीखण्डैः समं संगः शुभेऽहनि ।। १९।।
निषेकसमये शुक्रशोणितमिश्रणे यथा ।
नरनारीप्रचित्ते तु भावना तद्युतः सुतः ।।1.74.२० ।।
चैतन्यं बीजरूपे तु शुक्रे नित्यं व्यवस्थितम् ।
काम चित्तं च शुक्रं च यदा ह्येकत्वमाप्नुयुः ।।२१।।
तदा द्रवमवाप्नोति योषागर्भाशये नरः ।
रक्ताऽऽधिक्ये भवेन्नारी शुक्राधिक्ये भवेन्नरः ।।२२।।
शुक्रशोणितयोः साम्ये गर्भः षण्ढत्वमाप्नुयात् ।
अहोरात्रेण कललं बुद्बुद्ं पञ्चभिर्दिनैः ।।२३।।
दशमेऽहनि कर्कन्धुर्विंशाहे घनमांसता ।
तथा मासे तु सम्पूर्णे पञ्चतत्त्वानि धारयेत् ।।२४।।
मासद्वये त्वचामेदौ मज्जास्थीनि त्रिभिस्तथा ।
चतुर्थे तु गुल्फकेशाः पञ्चमे कर्णनासिके ।।।२५।।
सप्तमे कण्ठगुह्यादि ह्यष्टमेऽङ्गप्रपूर्णता ।
नवमे बहिर्जिगमिषा दशमे तु प्रसूयते ।।२६।।
पृथिव्यास्त्वगस्थिनाडीरोममांसेतिपञ्चकम् ।
अपां लाळामूत्रशुक्रमजारक्तेतिपंचकम् ।।।२७।।
वह्नेः कान्तिक्षुधानिद्रातृष्णाऽऽलस्येतिपञ्चकम् ।
वायोःश्वासगतिरोधाऽऽकुंचप्रसारपञ्चकम् ।।।२८।।।
रागद्वेषभयलज्जामोहा वा पञ्च वायुजाः ।
व्योम्नो घोषाश्रयच्छिद्रगाम्भीर्यश्रवणा गुणाः ।।२९।।
इडा पिंगला सुषुम्णा गान्धारी गजजिह्विका ।
पूषा यशा ह्यलम्बुषा कुहूः शंखिनी नाडिकाः ।।1.74.३०।।
प्राणोऽपानः समानश्चोदानो व्यानश्च वायवः ।
नागः कूर्मः कृकलश्च देवदत्तो धनंजयः ।।३ १।।
हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले ।
उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः ।।३२।।
नागस्य जृंभणं कूर्मवायो संकोचनं मतम् ।
शूलं कृकलजं देवदत्तस्योद्गारप्रभृति ।।३३।।
धनंजयो विकासाय मृतेऽपि त्रिदिवास्थितिः ।
कर्णाक्षिनासिकाननगुदगुह्यानि वै नव ।।३४।।
नाभिर्दशमी ब्रह्मरन्ध्रमेकादशकं स्मृतम् ।
स्त्रीगुह्ये गर्भगर्तो द्वादशं स्तनौ चतुर्दश ।।३५।।
रोमकोटिस्तथा तिस्रो ह्यर्धकोटिसमन्विता ।
द्वात्रिंशद्दशनाः प्रोक्ता नखा विंशतिरेव च ।।।३६।।
त्रिलक्षकेशा मूर्धन्या मुखस्थाश्चेति वै स्थितिः ।
त्रयस्तु मातृतो रोमलोहितमांससंज्ञकाः ।।३७।।
पितृतश्च स्नाय्वस्थिमज्जानश्च कोषषड्विधम् ।
मांसं पलसहस्रैकं रक्तं पलशतं तथा ।।३८।।
पलानि दश मेदश्च मज्जा पलं दश द्वयम् ।
रक्तं पलत्रयं प्रोक्तं शुक्रं द्विकुडवं तथा ।।३९।।
शोणितं कुडवं श्लेष्मा षट् विण्मूत्रं तथाऽर्धकम् ।
मनो बुद्धिरहं चित्तमेतत्करणमान्तरम् ।।1.74.४०।।
तत्सर्वं देहसंभूतो गर्भः प्रसूतिवायुना ।
निष्कासितो बहिर्याति मूर्छितो जन्म चैति हि ।।४१।।
ब्रह्माण्डस्याऽऽकृतिः सर्वा शरीरे समवस्थिता ।
सत्यलोकं शिरोरन्ध्रं तपोलोकं ललाटकम् ।।४२।।
जनलोकं मुखं प्रोक्तं महः कण्ठमुदाहृतम् ।
हृद्यं तु स्वरं विद्याद्भुवर्लोकमुदर्यकम् ।।।४२।।
भूलोकं नाभ्यधोभागो ह्यतलं कटिसंस्थितिः ।
वितलं गुह्यमाख्यातं सुतलं सक्थिमूलयोः ।।४४।।
ऊरू तलातलं महातलं जानुद्वयं तथा ।
रसातलं मते जंघे पादौ पातालमुच्यते ।।४५।।
क्षारोदस्त्वत्र तु मूत्रे दुग्धे क्षीरोदसागरः ।
सुरोदधिः श्लेष्मसंस्थो मज्जायां घृतसागरः ।।४६।।
रसोदधिर्मिष्टरसे शोणिते दधिसागरः ।
स्वादूदकः कुक्षिभागे गर्भोदः शुक्रसंस्थितः ।।४७।।
नेत्रयोः सूर्यचन्द्रौ च ओष्ठे तु मंगलः स्मृतः ।
बुधस्तु हृद्ये बोध्यो गुरुर्ज्ञाने व्यवस्थितः ।।४८।।
शुक्रे शुक्रः शनिर्नाभौ मुखे राहुर्व्यवस्थितः ।
केतुर्गुह्ये स्थितश्चेति पिण्डं ब्रह्माण्डमीरितम् ।।४९।।
आयुर्विद्या च वित्तं च यशो निधनमेव च ।
पञ्चैवैतानि सृज्यन्ते गर्भस्थस्यैव देहिनः ।।1.74.५०।।
अधोमुखं चोर्ध्वपादं गर्भादायाति वै बहिः ।
रक्ष्यमाणो जन्मकर्त्र्या रक्षँश्चान्यान्निजाश्रितान् ।।५१ ।।
पुत्रैः संरक्षितः पश्चान्मृतः पुनः स एव हि ।
भक्त्या हरिं भजेन्नित्यमतन्द्रितमनुक्षणम् ।।५२।।
तदा मुक्तिर्भवेदेव स्वर्गं सर्वसुखास्पदम् ।
यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।।५३ ।।
अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ।
सोऽश्नुते सर्वकामांश्च सह ब्रह्मणा विपश्चिता ।।५४।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दानफलनिषेकसमयगर्भनिर्माणशारीरकोषब्रह्माण्डैक्यतादिकथननामा चतुःसप्ततितमोऽध्यायः ।।७४।।