← अध्यायः ०७९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ८०
[[लेखकः :|]]
अध्यायः ०८१ →

श्रीनारायण उवाच-
यः पुरूरवसः पुत्र आयुस्तस्याऽभवन् सुताः ।
पञ्चाऽऽद्यस्तत्र नहुषः, क्षत्रवृद्धो द्वितीयकः ।। १ ।।
रजस्तत्र तृतीयस्तु चतुर्थो रंभनामकः ।
पञ्चमस्तु-अनेना वै, पितृतुल्यपराक्रमाः ।। २ ।।
क्षत्रवृद्धस्य चैको वै सुतहोत्रोऽभवत् सुतः ।
सुतहोत्रस्य दायादास्त्रयः परमधार्मिकाः ।। ३ ।।
काश्यः कुशो गृत्समदो गृत्समदस्य वै सुतः ।
शुनकस्तस्य सुतः शौनकाख्यस्तस्य वै सुताः ।। ४ ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवाऽभवन् शुभाः ।
कुशात्मजो ह्यार्ष्टिषेणश्चरन्तस्तस्य चात्मजः ।। ५ ।।
शौनकाश्चार्ष्टिषेणाश्च क्षत्रोपेता द्विजातयः ।
काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतपास्ततः ।। ६ ।।
दीर्घतपसो भगवान् धन्वन्तरिः सुतः प्रभुः ।
सोऽयं काशीपुरीराजो ह्यायुर्वेदप्रवर्तकः ।। ७ ।।
यस्य नाम स्मरेज्जन्तुस्तस्य रोगो विनश्यति ।
द्वितीयोऽयं धन्वन्तरिः परमेश्वर एव ह ।। ८ ।।
प्राक् तु जातः समुद्रे तु मथ्यमानेऽमृतार्थधृक् ।
स प्रोवाच तदा नारायणं पुत्रोऽस्मि ते प्रभो! ।। ९ ।।
विधत्स्व भागं स्थानं च मम लोकेऽत्र मे पितः ।
श्रीहरिः प्राह तं पुत्रं धन्वन्तरिं समुद्रजम् ।। 1.80.१० ।।
कृतो यज्ञविभागस्तु यज्ञियैर्हि सुरैस्तथा ।
वेदेषु विधियुक्तं च विधिहोत्रं महर्षिभिः ।। ११ ।।
न शक्यस्तु त्वया होमः कर्तुं तत्तुल्य एव ह ।
अर्वाक् सुतोऽसि हे देव! नाममन्त्रोऽसि वै प्रभो ।। १ २।।
तस्मादिदानीं ते भागो नैव यज्ञे भविष्यति ।
किन्तु द्वितीये त्वं तत्र जन्मनि ख्यातिमेष्यसि ।। १ ३।।।
अणिमादियुता सिद्धिर्गर्भस्थस्य भविष्यति ।
तेनैव च शरीरेण देवत्वं प्राप्स्यसि ध्रुवम् ।। १४।।
चरुमन्त्रैर्घृतैर्गन्धैर्यक्ष्यन्ति त्वां द्विजातयः ।
अथ च त्वं पुनश्चैव आयुर्वेदं विधास्यसि ।। ११।।
अवश्यंभावि ह्यर्थोऽयं प्रथमस्त्वं तु मानसः ।
समुद्रजो द्वितीयो वै काशीराजस्तृतीयकः ।। १६।।
इत्येवं त्रिविधं धन्वन्तरेः प्राकट्यमस्ति वै ।
द्वापरे तत्र सम्प्राप्ते पुत्रार्थं तप आचरन् ।। १७।।
दीर्घतपा व्यपश्यद्वै भगवन्तं हरिं पुरः ।
प्रसन्नास्यं प्रशान्तं च किंचिद्दातुं समागतम् ।। १८।।
जगाद् भगवान् दीर्घतपसं वृणु चेप्सितम् ।
दार्घतपास्तदोवाच प्रांजलिर्विनयान्वितः ।। १९।।
भगवान् यदि तुष्टस्त्वं पुत्रो मे धृतिमान् भव ।
तथेति समनुज्ञाय प्रभुरन्तरधीयत ।।।1.80.२ ० ।।
तस्य देहात् समुत्पन्नो लक्ष्मि! धन्वन्तरिर्हरिः ।
काशीराजो महाराजः सर्वरोगप्रणाशकः ।।२१ ।।
धनुश्चिह्नकरो देवो भगवान् लोकरक्षकः ।
पोषकः सर्ववस्तूनां ज्ञानदो मोक्षदस्तथा ।। २२।।
आयुर्वेदं स वै देवश्चकार सभिषक्क्रियम् ।
तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ।।२३।।
धन्वन्तरिसुतश्चासीत् केतुमान् सुमहायशाः ।
केतुमतो भीमरथो दिवोदासाऽपराऽभिधः ।।२४।।
दिवोदासो महानासीद् भक्तो विष्णुसमो बली ।
प्रजायां वर्धिता तेन हरेर्भक्तिस्तु सर्वथा ।। २५।।
स्थितोऽपि भगवान् शंभुर्मन्दरं चारुकन्दरम् ।
काशीं विना सुखं नाऽऽप दिवोदासनृपोषिताम् ।।।२६।।
भगवान् शंकरो देवो वैष्णवोऽस्त्येव सर्वथा ।
नारायणं परंब्रह्म भजत्येव समाधिना ।। २७।।
दिवोदासोऽपि तु तद्वत्परमो वैष्णवो मतः ।
निष्कासयित्वा तं भक्तं वासमैच्छत्तु शंकरः ।। २८।।
श्रीश्वेतव्यास उवाच-
सुशिखैवं शंकरस्य कथायोगं प्रशान्तिदम् ।
दिवोदासस्य भक्तस्य चापि श्रुत्वा द्रुतं तदा ।।२९।।।
लक्ष्मीः पप्रच्छ चाकर्ण्य दिवोदासं त्रिलोचनः ।
काशीं संत्याजयामास कथं तत्राऽगमत् नगात् ।। 1.80.३ ०।।
किं कृतं तेन देवेन दिवोदासो यदत्यगात् ।
काशीं तु राजधानीं स्वां श्रोतुमिच्छामि माधव! ।। ३१ ।।
हाटकांगद्! इत्येवं लक्ष्मीः पृष्ट्वा पतिं प्रभुम् ।
एकाग्रमानसाऽभूत् तां नारायण उवाच ह ।।३२ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग-
सन्ताने धन्वन्तर्यवतारत्रयकथननामाऽशीतितमोऽध्यायः ।। ८० ।।