← अध्यायः ०८५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ८६
[[लेखकः :|]]
अध्यायः ०८७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! तदा स्त्रीणां विश्वासाय समाधिना ।
प्रागुदन्तं परिज्ञाय गणेशोऽन्तःपुरं ह्यगात् ।। १ ।।
दृष्टार्थमेव कथयन् स्त्रीणां विश्वासभूरभूत् ।
यद्यत्पूर्वं तु सज्जातं तत् सर्वं कथयत्ययम् ।। २ ।।
एकामासाद्य संप्राह पुत्राणां नवतिस्त्रयम् ।
तव जज्ञे तेषु चैकोऽश्वात्पतितो ममार च ।। ३ ।।
सगर्भेयं शुभां कन्यां जनयिष्यति भाग्यतः ।
अद्यापि यावद्दुर्भाग्या साम्प्रतं सुभगा त्वियम् ।। ४ ।।
राज्ञा यस्यै प्रदत्तोऽयं मुक्ताहारः सुशोभनः ।
सेयं राज्ञिषु मान्या वै भवतीवाति जीववत्। ।। ५ ।।
इमां राजाऽतिमनुते बहुस्नेहास्पदां मुहुः ।
द्वौ ग्रामौ तु प्रसादेन चास्यै दातुमुदीरितौ ।। ६ ।।
अन्यां राज्ञीं ततः प्राह कुमारो यदि जायते ।
तदा तुभ्यं प्रदास्ये वै दशग्रामाँस्तु वृत्तये ।। ७ ।।
इति राज्ञा प्रतिज्ञातं शय्यायां तव सन्निधौ ।
अपरां तु तदा प्राह यदि त्वं स्याः सुपुत्रका ।। ८ ।।
अर्धं राज्यं प्रदास्ये त्वां, सुपुत्रायै ततोऽवदत् ।
अन्यस्यै प्रेमसमये राजा प्राह मदर्थकम् ।। ९ ।।
ताम्बूलं यद् रक्षितं तद् देहि दास्ये पुरत्रयम् ।
इत्येवं प्रत्यक्षजातं समुवाच गणाधिपः ।। १ ०।।
स्वप्नानप्याह तासां वै तेन विश्वासभूरभूत् ।
वर्णयन्ति च राज्ञ्योऽस्य परोक्षे च गुणान् बहून् ।। १ १।।
अहो कश्चित् स्थवीरो वै विप्रः सत्यविवेचनः ।
प्रागुदन्तं यथार्थं वै वक्ति सर्व प्रमाणतः ।। १२।।
अलोलुपः सदाचारः सन्तुष्टो भूतभाविदृक् ।
प्रसन्नास्यः शुचिः शास्त्रश्रुतिस्मृतिविशारदः ।। १३।।
यद्यद् वक्ति ज्योतिषा सः सर्वं सत्यं प्रवर्तते ।
नान्यादृशः स्वप्नवक्ता साक्षाद्वक्ता च दृग्गतः ।। १४।।
दिवोदासस्य पट्टांगी राज्ञी लीलावती स्वयम् ।
प्राह राज्ञे महाराज विप्रो ब्रह्मसमो निधिः ।। १५।।
काश्यां कश्चित् समायातो द्रष्टव्यो ग्रहबोधने ।
का दशा कीदृशं स्वप्नं कः कालः शकुनं किमु ।। १६।।
वेत्ति सर्वं तदस्माद्वै प्रष्टव्यं किं च भावि वै ।
इत्याकर्ण्य तदा राज्ञा ह्याकारितो गणाधिपः ।। १७।।
समाजगाम राजर्षिं लब्धवान् सत्कृतिं ततः ।
समुपविष्टोविष्टरे ह्याशीर्भिरभ्यनन्दयत् ।। १८।।
क्षेमं ते कुशलं चास्तु श्रेयोऽभ्युदय इत्यपि ।
शिवो धर्मोऽस्तु ते सौधे तव वासो हरेर्गृहे ।। १९।।
समाकर्ण्य च राजा तं ब्राह्मणं प्राह भो द्विज! ।
प्राप्तं संरक्षितं क्षेमं कौ पृथ्व्यां शं सुखावहम् ।।२० ।।
तत्सर्वं लं लयं यायादिति तेऽस्ति मनोरथः ।
मम श्रेयोऽभ्युदयश्च शिवो शिवार्थमस्त्विति ।।२१।।
अभ्युदयः शिवो यो वै सोऽप्यधर्मो भवत्विति ।
मम सौधे शिवराज्यं मम मुक्तिर्हराविति ।।२२।।
अस्मात्स्थानाद्विनाशो मे किमिच्छसि द्विजोत्तम ।
दिवोदासस्य सार्वज्ञ्यं ज्ञात्वाऽऽश्चर्यमवाप सः ।।२३।।
संगृह्याऽर्हां गणेशस्तु स्वस्थानं संजगाम ह ।
राजा राज्ञीं तदा प्राह विप्रोऽस्त्ययं त्रिकालदृक् ।।२४।।
प्रजा यान्त्यन्यविषयं स्वप्नं भाति भयावहम् ।
उद्घोषः श्रूयते भाविविनाशोन्मुखता स्थिता ।।२५।।
प्रातराहूय प्रष्टव्यः किं भविष्यदिति स्फुटम् ।
मन्ये देवो विरुद्धो मे शंकरोऽप्यस्त्यशंकरः ।।२६।।
यद्भावि तद्भवेदेव नारायणसमिच्छया ।
प्रातराहूय सत्कृत्य राजा पप्रच्छ हृद्गतम् ।।२७।।
शासितेयं महीं सर्वां भुक्ता भोगा विभूतयः ।
राज्यप्रजा ह्यतन्द्रिणा प्रपालिताः स्वजीववत् ।।२८।।
द्विजसेवा कृता पूर्णा नाऽपूर्णं मेऽवशिष्यते ।
प्रजापलायनं स्वाप्नदुष्टतां तु विलोक्य वै ।।२९।।
किंभावीति प्रमुग्धोऽहं दृष्ट्वा तथ्यं निवेदय ।
गणेशः प्राह राजानः प्रायः कर्णप्रसादनाः ।।३०।।
मिष्टं मिष्टं तु शृण्वन्ति दण्डयन्ति कटुब्रुवम् ।
अहं मिष्टं कटुं चापि तथ्यं वच्मि प्रसह्यताम् ।।३ १।।
विक्रान्तो भाग्यवान् शूरो यशः पुण्यसुबुद्धिमान् ।
यादृशोऽसि तथा नास्ति त्रिदशेशोऽपि वै दिवि ।।।३२।।।
धिया गुरुसमश्चासि प्रसादेन सुधाकरः ।
तेजसाऽसि भानुसमः प्रतापेनाम्निना समः ।।।३२।।
बलेऽसि वायुना तुल्यः श्रिया कुबेरसदृशः ।
शास्ता रुद्रसमो देवो निर्ऋतिसदृशो रणे ।।३४।।
दुष्टपाशे वरुणोऽसि दण्डे तु यमराडसि ।
क्षमया भूमिसदृशो मर्यादया सरित्पतिः ।।३५।।
महत्त्वे हिमवाँश्चासि शुक्रो नीत्यां नृपस्य वै ।
राजासि मनुसदृशस्तापहा मेघवन्मतः ।।३६।।
पवित्रो गंगया तुल्यः काशीव सुगतिप्रदः ।
सृजिपुष्टिर्हृतिकार्ये ब्रह्मविष्णुहरार्थवान् ।।३७।।
सरस्वती मुखे तेऽस्ति कमला ते कराम्बुजे ।
विषं चास्ति तव क्रोधेऽमृतं वाचि तव स्थितम् ।।३८।।
हृदि नारायणस्तेऽस्ति मच्छिष्याः सन्ति न त्वयि ।
तेषां वृत्तिप्रदानाय ह्यागतोऽस्मि तवांगणे ।।३९।।
तथ्यं वच्मि न चाऽतथ्यं गुप्तं वच्मि न चाऽनृतम् ।
स्वार्थं वच्मि परार्थाढ्यं मिष्टं वच्मि फलं कटु ।।४०।।
आरभ्याऽद्य दिनाद्भूप ब्राह्मणोऽष्टादशेऽहनि ।
उदीच्यः कश्चिदागत्याऽवश्यं त्वामुपदेक्ष्यति ।।४१।।
तत्तथैव प्रकर्तव्यं त्वं हृत्स्थं प्राप्यसे ततः ।
अद्याहं स्वगृहं यामि प्रतीक्षस्व तदागमम् ।।४२।।
इत्युक्त्वा श्रीगणेशस्तु काश्यामेव हि तस्थिवान् ।
कीर्तये श्रीगणेशस्य नामानि मूर्तयो यथा ।।४३।।
ढुण्ढिविनायकश्चार्कविनायको गणाधिपः ।
दूर्गोऽथ भीमचण्डश्च देहलिनायकस्तथा ।।४४।।
उद्दण्डः पाशपाणिश्च खर्वः सिद्धिविनायकः ।
बाह्यावरणगाश्चैते काश्यामष्टौ विनायकाः ।।४५।।
लंबोदरः कूटदन्तः तथा शालकटंकटः ।
कूष्मांडो मुण्डो विकटदन्तोऽथ राजपुत्रकः ।।४६।।
प्रणवश्चाष्टौ द्वितीयावरणे तु विनायकाः ।
वक्रतुण्डो ह्येकदन्तः कपिसिंहद्विपाननः ।।४७।।
पञ्चास्यो हेरम्बनामा विघ्नराजो वरप्रदः ।
मोदकप्रिय एतेऽष्टौ तृतीयावरणस्थिताः ।।।४८।।।
अभयदः सिंहतुण्डः कूणिताक्षो गजाननः ।
क्षिप्रप्रसादनश्चाथ चिन्तामणिविनायकः ।।४९।।
दन्तहस्तः पिचिण्डिल उद्दण्डमुण्डसंज्ञकः ।
एतेऽष्टौ तु गणाधीशाश्चतुर्थावरणस्थिताः ।।५० ।।
स्थूलदन्तः कलिप्रियश्चतुर्दन्तो द्वितुण्डवान् ।
ज्येष्ठो गजस्तथा कालो नागेशः पञ्चमावृतौ ।।५ १।।
मणिकर्ण आशाविनायकः सृष्टिगणाधिपः ।
यक्षाख्यगजकर्णश्चित्रघण्टः स्थूलजंघकः ।।५५२।।।
मंगलो मित्रनायकोऽष्टौ ते षष्ठ्यावृतौ मताः ।
मोदः प्रमोदः संमोदो महामोदोऽथ अर्थदः ।।५३।।
ज्ञानो द्वारो विमुक्ताख्योऽष्टौ सप्तमावृतौ स्थिताः ।
षट्पंचाशद्गणेशास्ते काश्यां परित आस्थिताः ।।५४।।
नामान्येतानि श्रुत्वाऽपि दुःखेभ्यो विप्रहीयते ।
जातु विघ्नैर्न बाध्येत पापेभ्योऽपि प्रहीयते ।।५५।।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने राज्ञोऽन्तःपुरस्त्रीणां विश्वासाय गणेशेन प्रागुदन्त-स्वप्नादि कथितं दिवोदासाय भाविविपदादि
कथितं षट्पंचाशद्गणेशस्थित्यादि कथितं चेति निरूपणनामा षडशीतितमोऽध्यायः ।। ८६ ।।