लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०८८

← अध्यायः ०८७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ८८
[[लेखकः :|]]
अध्यायः ०८९ →

श्रीलक्ष्मीरुवाच—
मन्दराद्रिप्रार्थनेन शंभुस्तु गतवान्पुरा ।
कथं देवापराधो वै दिवोदासस्य सोऽभवत् ! ।। १ ।।
श्रीनारायण उवाच--
शृणु लक्ष्मि ! कथां दिव्यां कथं द्रोहस्त्वजायत ।
पुरैकदा महावृष्टिर्जाता काशीविनाशिनी ॥ २ ॥
वृष्ट्या काश्या विनाशेन देशविप्लवजेन च ।
ध्यानस्थितस्य शंभोर्वै दुःखेनाऽन्तरदूयत ।। ३ ।।
तदा देवो महादेवो मेघानाहूय सर्वतः ।।
सर्वान् निबध्य जटया समाध्यन्तर्हितोऽभवत् ॥ ४ ॥
गत्वा कैलासशिखरे गणान् संस्थाप्य रक्षकान् ।।
दशवर्षं समाधौ तु सोऽभूत् जागरितो नहि ।। ५ ।।
अनावृष्ट्या तदा देशा विनाशं परमं ययुः ।।
दिवोदासस्तदा भक्तो घोरे तपसि संस्थितः ॥ ६ ॥
पृथ्वी राज्यविहीनाऽऽसीत् देवाः स्वर्गं गतास्तदा ।।
मनुष्या नैव दृश्यन्ते लोकविप्लव आपतत् ॥ ७ ॥
अव्यवस्था चतुर्योनौ यज्ञादयो भवन्ति न ।
न भक्ष्यं न च हव्यं वा पत्रं पुष्पं न लभ्यते ॥ ८ ॥
देवानां पूजनं चापि यज्ञीयं भोजनं च यत् ।
सावग्रहं तु तत्सर्वं जातं तदा दिवौकसाम् ॥ ९ ॥
इतस्ततः प्रधावन्ति मनुजा राक्षसास्तथा ।
देवाश्च प्राणिनो भूताः पिशाचा वनिनस्तथा ॥1.88.१०॥
अव्यवस्थं ह्यभूत्सर्वं महाभयं तु भूतलम् ।।
बाला नार्यो ह्रियन्तेऽन्यैर्द्रव्यं भोज्यं न लभ्यते ।।११।।
अराजके तदा देशे दुःखिनो देवमानवाः ।
ब्रह्माणं तु समाराध्य नृपतिं सुप्रतापिनम् ॥१२॥
वव्रिरे देवसाहाय्यं यथा वै वर्षणं भवेत् ।
मार्गयन्नृपतिं विष्णुसमं ब्रह्मा ह्युवाच तान् ।।१३।।
यान्तूपायं करिष्येऽहं दुःखनाशाय सर्वथा ।
स्वयं विमानमारुह्य जगाम हिमपर्वतम् ॥१४॥
तपस्यन्तं महाघोरं विद्युत्प्रभं प्रतापिनम् ।।
दिवोदासं विलोक्यैव ब्रह्मोवाच हितावहम् ॥१५॥
पश्य राजन् स्वयं ब्रह्मा लोकरक्षणहेतवे ।।
आगतोऽस्मि भवानत्र तापसः सन्करोति किम् ।।१६।।
परोपकारसदृशं तपो न न च पौरुषम् ।।
न ध्यान न च होमो वा न क्रियान्तरमित्यपि ॥१७॥
आराधितो यदि हरिस्तपसा ततः किं
नाराधितो यदि हरिस्तपसा ततः किम् ।
निष्कामतां यदि गतस्तपसा ततः किं
सत्कामतां यदि गतः फलमाप्नुहि त्वम् ॥१८॥
फलं स्वयं समागत्य हस्ते पतति यत्स्वतः ।
न गृह्णाति नोपयुंक्ते कोऽन्यस्तस्माद् विचेतनः ॥१९॥
देवाः प्रयोजनवशात् तुष्यन्ति यस्य योगतः ।
तान्नाद्रियत इत्यस्मात्कोऽन्यस्तु विफलायतिः ॥1.88.२०॥
तपः समाप्य नृपते ! निबोध मद्वचो हितम् ।।
त्वां विनाऽवग्रहं घोरं नान्यो वारयितुं क्षमः ॥२१॥
त्वां विष्णुं त्वां महारुद्रं ब्रह्माणं त्वां प्रजापतिम् ।।
मन्ये तत्कार्यकर्तृत्वात् तत्प्रतीकं तदात्मकम् ॥२२॥
त्वदृशानां तपो धर्मो नोचितो देशविप्लवे ।
सेवाधर्मं गृहाण त्वं राज्यं कुरु मयाऽर्पितम् ॥२३॥
आगच्छ तव मूर्ध्न्यत्र मुकुटं स्थापयामि वै ।
अभिषेकं कारयामि मत्कमण्डलुवारिणा ॥२४॥
इदानीं शंकरो देवो ह्यविमुक्तं महावनम् ।
परित्यज्य महामेघान् बध्वा नीत्वा गतो दरीम् ॥२५॥
त्वं गृहाण महाराज्यं राजधानीं तु काशिकाम् ।
अभिषेके त्वयि जाते द्राग्वृष्टिः संभविष्यति ॥२६॥
प्राणिनः सुखिनः स्युश्च हरिस्तुष्टो भविष्यति ।
तपसाऽप्यधिकं जन्मसाफल्यं संभविष्यति ॥२७॥
इत्युक्ते ब्रह्मणा राज्ञि नेत्रे प्रान्मिल्य वेधसम् ।
प्रणम्य दण्डवद्भूमौ ववन्दे हृदयेन वै ॥२८॥
पितामह नमस्तुभ्यं पित्राज्ञां पालयाम्यहम् ।।
प्राप्ते प्रसन्नवदने पितरि को न तुष्यति ॥२९॥
प्राप्ते क्षणे तु देवानां पितॄणां वा सतां जनः ।
नाज्ञावहो भवेद् भाग्यविक्रेता स न संशयः ॥1.88.३०॥
पिता पितामहश्चापि प्रपितामह इत्यपि ।।
आज्ञापयेत्तु यत्तद्वै कार्यं पुत्रेण धीमता ॥३१॥
त एव तु त्रयो देवा वेदाश्चापि त एव ह ।
त एव मुक्तिदातार आशीर्वादपरायणाः ॥३२॥
किन्तु निर्वाहके पुत्रे यदि विघ्नं तु किंचन ।
दृश्यते तन्नाशनीयं तस्मात् किंचिन्निवेदये ॥३३॥
देवानां देवलोकेषु दैत्यदानवभोगिषु ।
नास्ति धर्मव्यवस्था या मानुषेष्विह निर्मिता ॥३४॥
यदि मानुषभिन्नो वा कश्चिद्वसति भूतले ।।
तदा मानुषधर्माणां बाधा स्यात्प्रमदादिषु ॥३५॥
देवाः पत्नीव्रतं धर्मं मन्वते नैव चेत्यतः ।।
यदि मद्विषये न स्यू राज्यं करोमि धार्मिकम् ॥३६॥
ब्रह्मा प्राह वरं राजन् वर्धसे विमलाशयः ।।
गृहाण मुकुटं गांगं जलं खड्गं च मालिकाम् ॥३७॥
देवाः संकल्पितास्तत्र क्षणादाययुरग्रिमाः ।।
अभिषेकः क्षणाज्जात उद्घोषः सदसि कृतः ॥३८॥
शृण्वन्तु देवताश्चान्येऽत्रत्याऽन्यलोकवासिनः ।
दिवोदासस्य राज्ये तु नागतव्यममानवैः ॥३९॥
वसन्ति ये च तैः सर्वैर्देवैर्गन्तव्यमन्यतः।।
यो न मन्वीत मे न्यायं स देवेभ्यो बहिष्कृतः ॥1.88.४०॥
मत्सृष्टेश्च बहिष्कार्य इत्याज्ञा वैधसी ध्रुवा ।
सर्वे त्वमानवा देवा अतलादिगृहास्तथा ॥४१॥
काश्या निर्गत्य नाकेऽन्यपर्वतादौ गतास्तदा ।
न यत्र मानवो वासो न देवानां च संकरः ।।४।।
शंकरस्तु ययौ पूर्वं मन्दरेणार्थितो यदा।।
गताः स्वस्वामिवासेषु त्रिदेवास्त्रिदशालयाः ॥४३॥
निष्कासनेन देवानां दिवोदासो महान् रिपुः ।।
देवानामपराद्धा स विवासदण्डकृच्च वै ॥४४॥
नागन्तव्यं मम राज्ये देवैः क्वापि कदाचन ।।
स्वार्थाः परार्थलुब्धाश्च परदारसुसंगिनः ।।४५॥
ते राज्ये मे न चाऽऽयान्तु त्वागता नाशमाप्नुयुः ।
इत्युद्घोषस्ततो जातस्तेन देवा रुषं गताः ॥४६॥
सूर्यो नैव प्रतपति चन्द्रो न शैत्यदोऽभवत् ।
पचत्यग्निर्न वै भोज्यमिन्द्रो नैव हि वर्षति ।।४७॥
न वाति पवनस्तत्र ऋतवो विमुखास्तदा ।
एवं सर्वेऽपि रुष्टास्ते दिवोदासस्तदा स्वयम् ॥४८॥
नारायणहरेर्योगात्. तपते सूर्यरूपधृक् ।
पोषयत्यौषधींश्चन्द्रो भूत्वा ददाति चामृतम् ॥४९॥
अग्निर्भूत्वा पाचयति मेघो भूत्वा प्रवर्षति ।
वायुर्भूत्वा प्रवात्येव विकासयति सन् ऋतुः ॥1.88.५०॥
यत्र यत्र च यत्कार्यं देवाधीनं बभूव ह ।।
तत्तद्देवात्मको भूत्वा स्वयं साधयति द्रुतम् ॥५१॥
स्वयं यज्ञः प्रभूत्वा च भूत्वा तद्देवमण्डलम् ।।
स्वयं नारायणे प्रार्प्य स्वयमश्नाति शेषजम् ॥५२॥
नाऽन्यमाह्वयते कंचिद्देवं नारायणोऽपरः ।।
अतोऽतिरुष्टा देवास्ते नाऽऽयान्ति तत्र केऽपि वै ॥५३॥
अवग्रहकृतो दोषो दिवोदासेन नाशितः ।
रिपून्नारायणबलाज्जयतीति रिपूञ्जयः ॥५४॥
इतिख्यातिं समापन्नो दिवो नारायणस्य च ।।
दासश्चेति दिवोदास इत्येवं नाम सार्थकम् ॥५५॥
सत्यं शीलं ब्रह्मचर्यमहिंसा त्याग आर्जवम् ।
सर्वब्रह्मात्मदृष्टिश्च तथा सर्वात्मवेदिता ॥५६॥
सेवा सतां सतीनां च नारायणेन चैकता ।
इत्येवं सद्गुणास्तत्र सन्ति शीलपुरोगमाः ॥५७॥
कामदुघाः कल्पवृक्षाश्चिन्तामणय इत्यमी ।।
नित्यं तद्राज्यवास्तव्यप्रजानां तु गृहे गृहे ॥५८॥
राजा तु नवधा भक्त्योपास्ते नारायणं हरिम् ।।
कामवर्ष्यभवत्तस्य स्वयं नारायणः प्रभुः ।।५९॥
गृहकार्यकरी चासील्लक्ष्मीर्नारायणी च मा ।।
वैकुण्ठ इव तद्राज्यं विकासमगमच्छ्रिया ।।1.88.६०॥
किं न्यूनं वै भवेद् यस्य भाले वसति श्रीहरिः ।
डिण्डिमोद्घोषिता राज्ये ह्याबालयुववार्धकाः ॥६१॥
सर्वे भजन्तां गोविन्दं नान्यं कुर्वन्तु तद्विना ।।
पूजयन्तु च गोविन्दं शृण्वन्तु श्रीहरेः कथाम् ।।६२।।
ध्यायन्तु श्रीहरेर्मूर्तिं पश्यन्तु प्रतिमां हरेः ।।
स्पृशन्तु तत्सतां पादान् भक्षयन्तु निवेदितम् ॥६३॥
जिघ्रन्तु हरिपुष्पाणि सेवयन्तु च तत्सतः ।
रटन्तु हरिनामानि विहरन्तु तदालये ।।६४॥
आनन्दयन्तु हर्यर्थमुत्सृजन्तु विशुद्धये ।
स्वपन्तु हरिशय्यायां जाग्रतु हरिसेवने ॥६५॥
आन्तरं चापि यत्किंचित् कुर्वन्तु हरिगोचरम् ।।
मा कुर्वन्त्वन्यमुद्योगं दिवोदासे प्रशासति ॥६६॥
यद्यद् यस्य भवेदिष्टं तस्य तस्य तु लब्धये ।।
श्रीनारायणमूर्त्यग्रे स्थित्वोच्चार्य च नाम वै ॥६७।।
प्रार्थनीयममुकं मे भूयाद्विश्वंभर प्रभो ।।
दिवोदासस्य भक्त्या श्रीनारायणो ददातु मे ।।६८॥
इत्येवं प्रार्थ्यते येन प्राप्स्यते तेन सर्वथा ।।
अन्यथा मे भवेद् घात्यो ध्रुवं चेत्यनुशासनम् ॥६९॥
कण्ठे स्रजस्तुलस्याश्च भाले तिलकं चान्दनम् ।।
चन्द्रकं कुंकुमाढ्यं च जपार्थं करमालिका ।।1.88.७०।।
श्रीनारायणमूर्तिश्च सौवर्णी कण्ठगा सदा ।।
इत्येवं पञ्चचिह्नानि रक्षेन्नारायणस्य वै ॥७१।।
यस्यैवं नैव मान्यं मे घात्यः खड्गेन वै स मे ।।
पशुवृक्षलतापक्षिप्राणिनो यस्य सन्ति वै ।।७२।।
तान्सर्वान् वैष्णवान् कुर्युरित्यस्ति मम शासनम् ।
नाऽवैष्णवी प्रजा मे स्यान्न देशो मे त्ववैष्णवः ।।७३॥
नाऽवैष्णवं च वस्तु स्यादिति मे शासनं महत् ।
अनिवेद्य न भोक्तव्यं न पातव्यमनर्पितम् ।।७४।।
नोद्वर्त्यं नैव चाभूष्यं नाऽऽधार्यं चाऽनिवेद्य वै ।
नन्दयन्तु विहरन्तु रामयन्तु सदा प्रजाः ॥७५॥
मिलिताभ्यां जयहरिरितिवाच्यं न चान्यथा ।
वक्तव्यं यत्किमप्येतत् हरेश्चरित्रमेव ह ॥७६॥
आज्ञोल्लंघयितुः कण्ठे मे खड्गो विचरिष्यति ।
इत्येवं तु दिवोदासो राज्यं चकार वैष्णवम् ।।७७॥
सर्वं वैकुण्ठभं त्वासीन्न न्यूनं तु किमप्यभूत् ।।
प्रजाः कामविमानैश्च विहरन्ति सदाऽम्बरे ॥७८॥
गृहे गृहे विमानानि कामदुघा गृहे गृहे ।
कल्पवृक्षाः प्रतिगृहं कल्पशिलाः प्रतिस्थलम् ।।७९।।
स्वर्णहरिः प्रतिव्यक्ति साक्षाद्वैकुण्ठ इत्यभूत् ।।
एवं प्रभावो राजाऽसौ प्रजा नीत्वा हरिश्रिताः ॥1.88.८०।।
आगात्सदेहो वैकुण्ठं कोऽन्यस्तद्वत् प्रयास्यति ।
ये ये तत्रागता देवाः कापट्येन च शांकराः ।।८१॥
विष्णुना रक्षितास्ते च खड्गाघातं न लेभिरे।
इत्येषा भगवन्माया कर्ता कारयिता हि सः ॥८२॥
यस्य ललाटे वसति तस्य सर्वं समावसेत् ।
प्रयाति यस्य भालात्स ह्यपयात्यखिलं ततः ॥८३॥
प्रसह्य वेधसो द्वारा देवानां यद्विवासनम् ।
तदेव त्वपराधः स यत्फलं स्वस्य मोक्षणम् ॥८४॥
अपराधोऽपि मोक्षाख्यं फलं दद्याच्छुभो हि सः ।।
इत्येवं कथितो भक्तप्रतापोऽन्यत् किमिच्छसि ॥८५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दिवोदासस्य राज्यपदोत्तरं देवानां काशीतो निष्कासनमपराधः, स्वस्य सर्वदेववत्कार्यसामर्थ्यं वैष्णवधर्मभक्तिप्रवर्तनमित्यादिनिरूपणनामाऽष्टाशीतितमोऽध्यायः ॥ ८८ ॥