← अध्यायः ०९५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ९६
[[लेखकः :|]]
अध्यायः ०९७ →

श्रीश्वेतव्यास उवाच--
सुशिख ! शंकरः प्राह देवेशीं तु पुरावृतम् ।
वैवस्वतमनोः पत्नी शतरूपा ह्यपुत्रिणी ।। १ ।।
शुशोच निष्फलं जन्म धनमैश्वर्यमित्यपि ।
गृहस्थानां गृहं स्मृद्धं विना पुत्रं न शोभते ॥२॥
तपोदानोद्भवं पुण्यं जन्मान्तरकृतं भवेत् ।
तदा पुत्रीपुत्रमुखदर्शनं जायते नृणाम् ॥ ३ ॥
फलं पुन्नामनरकात्तारणं पुत्रतः स्मृतम् ।।
सुशिवे ! निष्किंचनाऽऽर्षा अपीच्छन्ति सुशिष्यकम् ।। ४ ।।
स्वयं नारायणो देवो विना शिष्यं न तिष्ठति ।।
शिष्यः पुत्रो ह्यदाराणां सदारस्य सुतो धनम् ॥ ५ ॥
नित्यवन्ध्याविधुरयोः पुत्रा मेनाशुकादयः ।
तस्मात् सुतं विना वासो वरो भवति तापसः ॥ ६ ॥
राज्यं चाभिजनो लक्ष्मीर्निरर्थं सुतमन्तरा।।
अपुत्रिणोर्मुखं प्रातर्न वै पश्यन्ति मानवाः ।। ७ ।।
मुखं दर्शयितुं लज्जां समवाप्नोत्यपुत्रकः ।।
इत्येवं शोकसन्तप्ता ब्रह्मणेऽवेदयत्तदा ।। ८ ।।
ब्रह्मोवाच शृणु वत्से माघशुक्लत्रयोदशी ।
पुण्यकव्रतयोग्या सा तदारभ्य तु वत्सरम् ॥ ९ ॥
व्रतं कुरु यथोक्तं वै लभ विष्णुसमं सुतम् ।
ब्रह्मणो वचनात्सा तु चकार विधिना व्रतम् ॥1.96.१०॥
प्रियव्रतोत्तानपादौ लेभे पुत्रौ मनोहरौ ।
देवहूतिर्व्रतं कृत्वा लब्ध्वा नारायणाद्वरम् ॥११॥
नारायणांशं कपिलं लेभे सिद्धमुनिं सुतम् ।।
अरुन्धती व्रतं कृत्वा लेभे शक्त्यभिधं सुतम् ॥१२॥
शक्तिकान्ता व्रतं कृत्वा लेभे पुत्रं पराशरम् ।
अदितिश्च व्रतं कृत्वा लेभे पुत्रं तु वामनम् ।।१३।।
शच्यपीदं व्रतं कृत्वा जयन्तमाप वै सुतम् ।
उत्तानपादपत्नीदं कृत्वा लेभे ध्रुवं सुतम् ।।१४॥
अनसूया व्रतं कृत्वा लेभे चन्द्रं सुतं शुभम् ।
अंगिरो भार्यया बृहस्पतिर्लब्धो व्रतेन वै ॥१५॥
भृगोः ख्यातिर्व्रतं कृत्वा लेभे शुक्रं सुतं शुभम् ।
तथा व्रतप्रभावेण स्वयं नारायणः सुतः ।।१६।।
कंभराया गृहे जातः स ते पुत्रो भविष्यति ।।
कथयित्वेति देवेशीं दत्वा बहुगणं धनम् ॥१७॥
साधनानि कथयित्वा शिवो ध्याने व्यवस्थितः ।
हरेराराधनपरो ज्ञानानन्दाब्धिभावनः ॥१८॥
पार्वती सर्वद्रव्याणि चानीय व्रतहेतवे ।
विप्रं सनत्कुमारं वै विधये चाऽवृणोत्तदा ॥१९॥
देवेशास्तु समाजग्मुर्ज्ञात्वा व्रतमहोत्सवम् ।
ब्रह्माऽऽजगाम सभार्यः सलक्ष्मीकश्चतुर्भुजः ॥1.96.२०॥
ध्यानं त्यक्त्वा तदा शंभुराजगाम व्रतस्थले ।।
सनकश्च सनन्दश्च कपिलश्च सनातनः ॥२१॥
आसुरिश्च क्रतुर्हंसो वोढुः पञ्चशिखोऽरुणिः ।।
यतिर्वशिष्ठः सुमतिः पुलस्त्यः पुलहो भृगुः ॥२२॥
अगस्त्योऽत्रिरंगिराश्च दुर्वासाश्च्यवनस्तथा ।
पत्नीव्रतः प्रचेताश्च कण्वो मरीचिकश्यपौ ॥२३॥
गौतमश्च जरत्कारुर्बृहस्पतिश्च सौभरिः ।।
उतथ्यो जमदग्निश्च जैगिषव्यश्च देवलः ॥२४॥
संवर्तो वामदेवश्च विश्वामित्रो विभाण्डकः ।
ऋष्यशृंगः पारिभद्रो मार्कण्डेयश्च लोमशः ॥२५॥
गोकर्णश्च मृकण्डुश्च पुष्करः पिप्पलायनः ।।
कौत्सो द्वीतश्चैकतश्च त्रीतो वत्सश्च लेखनः ॥२६॥
शंखः शंकुरापिशलिः स्वयंप्रकाश आरुणिः ।।
दक्षः कणादो बालाग्निरघमर्षणपाणिनी॥२७॥
कात्यायनो नारदश्च नरो नारायणस्तथा ।
ब्रह्मव्रतो महाश्वेतव्यासश्चान्ये महर्षयः ॥२८॥
गीता जयन्त्यो गायत्री लक्ष्मीर्विद्या सरस्वती ।
स्तुतिश्चाराधना पूजा भक्तिर्नीराजना रमा ॥२९॥
एकादश्यश्च योगिन्यः सांख्ययोगिन्य इत्यपि ।
साध्व्यश्च वीतरागिण्यो न्यासिन्यः सिद्धयस्तथा ॥1.96.३०॥
मातरः सरितः पुर्यस्तथाऽन्या विविधाः स्त्रियः ।।
आजग्मुस्तत्र पार्वत्या व्रतोत्सवसमुत्सुकाः ॥३१॥
प्रदिक्पालास्तथा देवा यक्षा गन्धर्वकिन्नराः ।।
किंपुरुषाश्चारणाश्च पर्वता दिव्यविग्रहाः ।।३२।।
हिमालयो हर्षभरः सापत्यश्च सभार्यकः ।।
समाजगाम सगणो द्रव्यरत्नमणीन्नयन् ॥३३॥
व्रते यावन्ति दानानि तानि संगृह्य चाऽऽययौ ।।
पार्वत्यै तानि दत्तानि व्रतसिद्धिप्रपूर्तये ॥३४॥
अनन्तरत्नप्रभवः शैलः पुत्र्यै ददौ बहु ।
ब्राह्मणा मनवः सिद्धा नागा विद्याधरास्तथा ॥३५॥
साधवो भिक्षुको बन्दिजना सूताश्च मागधाः ।।
विद्याधर्यश्च नर्तक्यो नर्तकाऽप्सरसस्तथा ॥३६॥
आजग्मुर्व्रतकर्त्र्यास्तु पार्वत्यास्तोषहेतवे ।।
आशीर्वादाः प्रदत्तास्तैस्ताभिः पुत्रवती भव ॥३७॥
सर्वेषां स्वागतं सेवा भोजनातिथ्यमाननम् ।।
शंभुना सत्कृतं सर्वे तुष्टा ददुः शुभाशिषः ॥३८॥
नताः कृताऽऽधिचर्याश्च पूजिता भोजिताश्च ते ।
कैलासे तु महत्यां वै सभायां संहिताः सुराः ॥३९॥
रत्नसिंहासनस्थं श्रीहरिं कृष्णं नरायणम् ।
महादेव उवाचेदं श्रीनिवास शृणु प्रभो ! ।।1.96.४०।।
व्रतानां फलदो देवो मन्त्राणां फलदो भवान् ।।
पार्वती तु व्रते नैव पुत्रं वाञ्छति सौख्यदम् ॥४१॥
विष्णुः प्राह महादेव नारायणो जगद्गुरुः ।।
भक्तप्राणश्च भक्तेशो भक्तानुग्रहकारकः ।।४२।।
भक्त्यधीनो हि भगवान् सर्वसिद्धिं प्रदास्यति ।
कृष्णव्रतं कृष्णमन्त्रं सर्वकामफलप्रदम् ।।४३।।
व्रते पूर्णे तु सम्पन्ने पार्वत्या सह संगमे ।।
तव धातोर्बहिःस्कन्नात्त्वयोनिजः सुपुत्रकः ॥४४।।
विजेता सर्व सैन्यानां कार्याणां मंगलप्रदः ।।
भविष्यति न सन्देहो देवाः कांक्षन्ति तं सुतम् ।।४५।।
इत्येवमुच्यमाने च तदा देवादिसन्निधौ ।
पार्वती कृष्णचरणे नमनाय समागता ।।४६।।
नत्वा पादाववनेज्य प्राह विष्णुं जनार्दनम् ।।
भक्तकल्पतरो श्रीमन्नारायण ! नमोऽस्तु ते ।।४७
कृतेन तव पुण्यकव्रतेन सुतवत्यहम् ।।
यथा स्यां तत्तथा देव ! संकल्पं च कृपां कुरु ॥४८॥
कृष्णः प्राह तदा देवीं सावधानतया त्वया ।
कर्तव्यं व्रतमेव त्वां द्रक्ष्ये पूर्णे व्रते पुनः ॥४९॥
देवकार्यसहायाऽनुष्ठातृपुत्रवती भव ।।
गच्छामि स्वस्य गोलोकं व्रते तन्द्रां तु मा कुरु ॥1.96.५०॥
सत्कृतः पूजितो देवस्तथाऽन्येऽपि दिवौकसः ।।
आशिषश्च तदा देव्यः प्रयुञ्ज्य स्वगृहान् ययुः ॥५१॥
पार्वती माघशुक्लस्य द्वादश्यां देहशुद्धये ।।
उपवासेन साकं वै सर्वं कृतवती सती ॥५२॥
त्रयोदश्यामाह्निकं यत्प्रातःकृत्यं विधाय तत् ।।
सर्वरत्नमणिधान्यद्रव्यवस्त्रादिभिः सह ॥५३॥
मण्डपे तु समागत्य संस्थिताऽपूजयद् गुरून् ।
नत्वा सर्वांस्तत्रसंस्थान् हरिं नत्वाऽन्तरात्मना ॥५४॥
संस्थाप्य रत्नकलशं शुक्लधान्योपरि स्थिरम् ।
पञ्चपल्लवसंयुक्तं फलाक्षतादिशोभितम् ॥५५॥
चन्दनाऽगुरुकस्तूरीकुंकुमादिविराजितम् ।।
तथा पुरोहितं नत्वा पूजयित्वा त्रिदेवताः ॥५६॥
समारेभे पूजनं तु स्वस्तिवाचनपूर्वकम् ।
आवाह्याभीष्टदेवं तं श्रीकृष्णं मंगले घटे ॥५७॥
भक्त्या ददौ क्रमेणैव चोपचाराँस्तु षोडश ।।
यानि व्रते विधेयानि देयद्रव्याणि यानि च ॥५८॥
वेदमन्त्रेण सर्वाणि दत्त्वा होमान् व्यधापयत् ।।
त्रिलक्षाणि तदा होमान् तिलैश्च सर्पिषा तथा ॥५९॥
मन्त्रजापं तथा कृष्णं स्मरन्ती ब्राह्मणान् बहून् ।
भोजयामास विधिना प्रत्यहं पूर्णवत्सरम् ॥1.96.६०॥
समाप्तिदिवसे कृष्णः सर्वात्मा स्मारितो मुहुः ।।
आगच्छतु स्वयं कृष्णः प्रसन्नः पूजनस्थले ॥६१॥
तुष्टुवुस्तं तदा सर्वे सायुधं च चतुर्भुजम् ।।
कोटिकन्दर्पलावण्यं कोटिमन्मथमोहनम् ।।६२॥
प्रसन्नवदनं कृष्णं कोटिचन्द्रसमप्रभम् ।
वासयामास तं देवं रत्नसिंहासने वरे ।।६३॥
तं प्रणेमुश्च शिरसा ब्रह्मशक्तिशिवादयः ।।
स्वागतोत्तरमाराध्यो व्रतेनाप्लावितो हरिः ॥६४॥
प्राह देवि ! व्रतं पूर्णं तव जातं सुपुत्रदम् ।।
पार्वती च तदा प्राह देवदेव महाप्रभो ! ॥६५॥
पुत्रं देहि विजेतारं सर्वाऽग्रार्च्यं सुतं तथा ।
कृष्णः प्राह तदा देवीं तथास्त्विति ब्रुवन्प्रभुः ॥६६॥
देवा दैत्यविनाशाय तारकासुरहानये ।
प्रार्थयन्ति मुहुस्तस्माद् विजेतॄणां शिरोमणिः ॥६७॥
पुत्रश्चैको भविता ते द्वितीयोऽपि सुतः शुभः ।।
सर्वदेवाग्रपूज्यश्च सर्वमंगलदस्तव ॥६८॥
भविता चेत्युभौ पुत्रावयोनिजौ तु वीर्यतः ।।
शंकरस्य भवेतां वै पतिं रंजय भामिनि ! ॥६९॥
शिवा प्राह तदा विष्णुं कर्मणां फलदायकम् ।।
ध्यायन्ति योगिनः केचिच्छान्तं साकारमद्भुतम् ।।1.96.७०।।
पीताम्बरं चतुर्हेतिं लक्ष्मीकान्तं चतुर्भुजम् ।।
केचित्किशोरं द्विभुजं सुन्दरं रत्नभूषितम् ।।७१॥
श्यामं गोपांगनाकान्तं मायानाथं मनोहरम् । -
अहं पुत्रप्रदं देवं ध्यायामि कृष्णमच्युतम् ॥७२॥
तव प्रेरणया नाथ ! तव तेजोंशसंभवा ।।
मायया तव मायाऽहं मोहयित्वाऽसुरान्पुरा ॥७३॥
निहत्य सर्वान् शैलेन्द्रमगमं तं हिमालयम् ।।
ततोऽहं संस्तुता देवैस्तारकाक्षेण पीडितैः ॥७४॥
अभवं दक्षजायायां शिवस्त्री भवजन्मनि ।
त्यक्त्वा देहं दक्षयज्ञे शिवाऽहं शिवनिन्दया ।।७५॥
अभवं शैलजायायां मेनकायां तु कालिका ।।
अनेकतपसा प्राप्तः शिवश्चात्रापि जन्मनि ॥७६।।
पाणिं जग्राह मे योगी प्रार्थितो वेधसा मुहुः ।।
श्रृंगारजं च तत्तेजो नाऽलभं देवमायया ।।७७॥
स्तौमि त्वामेव देवेश विना पुत्रं तु दुःखिता ।
व्रते भवद्विधं पुत्रं लब्धुमिच्छामि साम्प्रतम् ।।७८॥
सर्वसेनाविजेतारं सर्वपूज्यं च वाऽपरम् ।।
श्रुत्वा सर्वं कृपासिन्धो ! कृपां मे कर्तुमर्हसि ॥७९॥
इत्यभ्यर्थ्य तदा देवी तूष्णीमास च पार्वती ।
स्वस्मिन् कृष्णेन दिव्यौ द्वौ पुत्रौ देव्यै प्रदर्शितौ ॥1.96.८०॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुत्रार्थं व्रतकर्त्रीणां दृष्टान्तानि देवर्षिणां समागमनमाशीर्वादाश्च श्रीकृष्णदर्शनं चेत्यादिवर्णननामा षण्णवतितमोऽध्यायः ॥९६॥