← अध्यायः १०५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १०६
[[लेखकः :|]]
अध्यायः १०७ →

श्रीलक्ष्मीरुवाच
गणेशस्य शिरोनाशः कथं वै केन कर्मणा ।
गजमस्तकसन्धानं कथं वै केन कर्मणा १ ॥ १॥
परिपूर्णतमः श्रीमान्परमात्मा परात्परः ।।
गोलोकनाथः स्वांशेन पार्वतीपुत्रतामगात् ॥ २ ॥
आश्चर्यं श्रीहरेस्तस्य मस्तकच्छेदनादिकम् ।
विघ्नेशस्य कथं विघ्नं संभवेत्परमात्मनः ॥ ३ ॥
श्रीनारायण उवाच--
सावधाना शृणु लक्ष्मि ! समैतिह्यं पुरातनम् ।
एकदा शंकरः सूर्यं जघान परमष्टधा ।। ४ ।।
सुमालिमालिहन्तारं शूलेन च तदा रविः ।।
जहौ स्वचेतनां सद्यो रथाच्च निपपात ह ॥५॥

ददर्श कश्यपः पुत्रं मृतवत्तूर्ध्वलोचनम् ।
कृत्वा वक्षसि तं शोकाद्विललाप भशं मुहुः ।। ६ ।।
अन्धीभूतं जगत्सर्वं बभूव भयकातरम् ।
निष्प्रभं तनयं दृष्ट्वा चाऽशपत् कश्यपः शिवम् ।। ७ ।।
मत्पुत्रस्य यथा तेजश्छिन्नं शूलेन वक्षसि ।
त्वत्पुत्रस्य शिरश्छिन्नं भविष्यति सतैजसम् ।। ८ ।।
शिवश्च गलितक्रोधो जीवयामास तं रविम् ।
वक्षः सन्धानयामास पूरयामास तेजसा ।। ९ ।।
सूर्यस्तु चेतनां प्राप्य समुत्तस्थौ पितुः पुरः ।
सूर्यो ययौ निजाऽऽवासे ब्रह्मणा कृतमंगलः ।।१ ०।।
माली सुमाली दैत्यौ तु व्याधिग्रस्तो बभूवतुः ।
श्वित्रौ गलितसर्वांगौ शक्तिशून्यौ हतप्रभौ ।।१ १।।
सूर्यकोपेन मलिनौ ब्रह्मोवाच तदा तु तौ ।
'ॐ ह्रीं नमो भगवते सूर्याय परमात्मने स्वाहा' ।। १२।।
इत्यनेन तु मन्त्रेण सावधानं दिवाकरम् ।
भक्त्या संपूज्य संदत्त्वा तूपचाराँश्च षोडश ।। १३।।।
एवं संवत्सरं यावद् ध्रुवं मुक्तौ भविष्यथः ।
अथ सूर्यस्य कवचं बिभ्रतो व्याधयो नहि ।। १४।।
प्रजापतिः ऋषिश्छन्दो गायत्री देवता रविः ।
व्याधिप्रणाशे सौन्दर्ये विनियोगः प्रकीर्तितः ।। १५।।
ॐ क्लीं ह्रीं श्रीं श्रीसूर्याय स्वाहा मे पातु मस्तकम् ।
अष्टादशाक्षरो मन्त्रः कपालं मे सदाऽवतु ।। १६।।
वक्षः पातु रविः शश्वन्नाभिं सूर्यः सदाऽवतु ।
कंकालं मे सदा पातु सर्वदेवनमस्कृतः ।। १७।।
करौ पातु सदा ब्रध्नः पातु पादौ प्रभाकरः ।
विभाकरो मे सर्वांगं पातु सन्ततमीश्वरः ।। १८।।
इत्येतत्कवचं धृत्वा नीरुजौ तु भविष्यथः ।
स्तवनं सामवेदोक्तं सौर्यं व्याधिविनाशकम् ।। १९।।
सर्वपापहरं सारं धनारोग्यकरं परम् ।
ततस्तौ राक्षसौ गत्वा पुष्करं तीर्थमुत्तमम् ।।।२० ।।
धृत्वा वर्म रविं स्तोत्रमन्त्रेणाराध्य भावतः ।
ततः सूर्याद् वरं प्राप्य निजरूपौ बभूवतुः ।।२१।।
गणेशमस्तकच्छेदविघ्नं शापोंऽशुमालिनः ।
जातस्तु शंकरायेति कारणं कथितं तव ।।२२।
अथ हस्तिकथां वच्मि शिरःसम्बन्धबोधिनीम् ।
स्थितेष्वन्येषु बहुषु जन्तुष्वपि गजस्य यत् ।।२३।।
मस्तकं योजितं तस्य कारणं शृणु पद्मजे ।
एकदा देवराजो वै पुष्पभद्रानदीं ययौ ।।२४।।
तत्तीरेऽतिरहःस्थाने पुष्पोद्याने सुगन्धिनि ।
ददर्श कामुकीं रंभां चन्द्रलोकात्समागताम् ॥२५॥
हावभावाऽनंगचेष्टास्वेदकटाक्षचंचलाम् । ।
आह्वयन्तीमिव रन्तुं प्रोवाचेन्द्रो गजे स्थितः ॥२६॥
रंभोरु ! वामनाश्लिष्य न गन्तुमिष्यते मया ।।
रंभोवाच न चाहं ते सन्तोषजननी मता ॥२७॥
कृतकार्यजनानां तु धूर्तानां का नु मित्रता ।।
नारी स्वादुत्तमं याति मधु त्यक्त्वेव मक्षिका ॥२८॥
कामुकी काकवल्लोला फलं भुक्त्वा प्रयाति वै ।।
युवानं रसिकं शान्तं सुवेषं सुन्दरं प्रियम् ॥२९॥
गुणिनं धनिनं स्वच्छं कान्तमिच्छति कामिनी ।
दुःशीलं रोगिणं वृद्धं रतिशक्तिविहीनकम् ।।1.106.३०।।
अदातारमविज्ञं च नैव वाञ्च्छन्ति योषितः ।।
तवाऽऽज्ञाकारिणीं दासीं गृहाणाऽत्र यथासुखम् ॥३१॥
इत्युक्त्वाऽऽगत्य देवेन्द्रं कण्ठे लग्ना बभूव सा ।।
पुष्पभद्रातटे तत्र तयोः रतिसमागमे ॥३२॥
एतस्मिन्नन्तरे तेन वर्त्मना शंकरालयम् ।
वैकुण्ठाद् याति दुर्वासा दृष्टश्चेन्द्रेण मानितः ॥३३॥
पारिजातप्रसूनं तु दुर्वासा हरये ददौ ।
पुष्पं यस्य गृहे चैतल्लक्ष्मीस्तं न जहाति वै ॥३४॥
तस्माद्रक्ष सदैवैतदम्लानं स्मृद्धिवर्धनम् ।
सर्वविघ्नहरं नारायणप्रसादलब्धिकम् ।।३५।।
मालया सहितं मूर्ध्नि यस्य तस्य जयः सदा ।
पुरः पूजा च सर्वेषां देवानामग्रणीर्भवेत् ॥३६॥
तच्छायेव महालक्ष्मीर्न जहाति कदापि तम् ।
ज्ञानेन तेजसा बुद्ध्या विक्रमेण बलेन च ॥३७॥
सर्वदेवाधिकः श्रीमान् विष्णुतुल्यपराक्रमः ।।
भक्त्या मूर्ध्नि न गृह्णाति योऽहंकारेण मानवः ॥३८॥
नैवेद्यं च हरेरत्र स नष्टश्रीः स्वजातिभिः ।
दुर्वासास्तु ततः स्थानादगच्छच्छांकरं गिरिम् ॥३९॥
इन्द्रो रंभान्तिके वेगी तत् तां चिक्षेप हस्तिनि ।।
कुंभयोः पतितां पुष्पमालां हस्ती निजे पदे ॥1.106.४०॥
शुण्ढेनाऽऽप्त्वा ममर्दाऽपि तद्दृष्ट्वा श्रीर्विनिर्गता ।
तथा रंभा दिवं याता गजोऽरण्यं विवेश च ॥४१॥
पावनं मस्तकं तस्य मालापुष्पप्रसंगतः ।
छित्वा नीत्वा हरिस्तद्वै योजयामास बालके ।।४२।।
एवं श्वेतगजस्यास्य गणेशस्थं शिरः सदा ।।
लक्ष्मि ! प्रपूज्यतां यातं त्वैरावतस्य कं हि तत् ॥४३॥
अथ कश्यपशापेन प्रेरितस्तु शनिश्चरः ।।
संज्ञासूर्यात्मजो वक्रदृष्टिमान् दुःखदायकः ॥४४॥
तत्र व्योमपथाऽऽयातो ददर्श गणनायकम् ।।
गोपुरे स यदा देव्या रक्षार्थं स्थापितस्तदा ।।४५॥
शंकरेण सह तस्य गणेशस्याऽभवद्रणः ।।
सव्यलोचनकोणेन सन्ददर्श शिशोर्मुखम् ।।४६॥
शनेस्तु दृष्टिमात्रेण चिच्छिदे मस्तकं हरः ।
इत्येवं कारणं तत्र शनेर्दृष्टिः रवेः शपिः ॥४७॥
गजकुंभः पारिजातमाला लक्ष्मीरनन्तका ।
त्रयं त्वेकस्य भाग्ये न देवानामपि दुर्लभम् ॥४८॥
सर्वे स्वकर्मणा साध्वि ! भुंजते विविधं फलम् ।।
कोटिकल्पैरप्यलुप्तं कर्म कर्तारमीयते ।।४९॥
कर्मणा ब्रह्मरुद्राद्या मानवाः पशुपक्षिणः ।।
राजा भृत्याश्च वैकुण्ठवासिनोऽपि स्वकर्मभिः ।।1.106.५०॥
व्याधिविषयसौन्दर्यधनदारिद्र्यशालिनः।
सुदारापुत्रसुखवान् बन्धुकुटुम्बकण्टकः ॥५१॥
अदारापुत्रदुःखाढ्या जायन्ते कर्मभिर्जनाः।
विभिन्नकर्मणां तेषां मूर्तिः शनिश्चरः स्वयम् ॥५२॥
तत्तत्कर्मानुसारेण वक्रदृष्ट्या स पश्यति ।
शनिश्चरोऽपि दुःखेन जीवतीत्यपि कर्मणा ॥५३॥
शनिश्चराय कन्यां स्वां ददौ चित्ररथस्ततः ।।
ऋतुस्नाता सुवेषं स्वं विधाय मन्मथाऽर्दिता ॥५४॥
शनिं स्मरति दानार्थं शनिर्नैव स्मरत्यपि ।
ऋतुनाशाद् रत्यलाभात् कोपतः सा शशाप तम् ॥५५॥
न दृष्टाऽहं त्वया येन न कृतं ऋतुरक्षणम् ।।
तस्मात् सदैव ते दृष्टिः सुखदा नैव जायताम् ॥५६॥
त्वया दृष्टं भवेद्वस्तु तत्सर्वं वै विनश्यतु ।।
इतिशापाच्छनिर्वक्रदृष्ट्या पश्यति यद् यदा ॥५७॥
तद्वै नश्यति सर्वं द्राक् तत्तत्कर्मानुयोगतः ।
शनिः प्रकृतिनम्रास्यो विना कर्म न पश्यति ॥५८॥
कर्मणा प्रेरितो वै सः कर्तारमभिपश्यति ।
इति ते कथितं सर्वं किमन्यच्छ्रोतुमिच्छसि ।।५९॥
गजास्ययोजनायाश्च कारणं गहनं महत् ।
यज्ज्ञात्वा सुखदुःखादौ शुभाऽशुभे न मुह्यति ॥1.106.६०।।
अंशेनात्मान्तरस्थस्य कृष्णस्यात्मान्तरकृतात् ।।
कर्मणो नैव लेप्यत्वं भुंक्ते त्वात्मान्तरः कृतम् ॥६१॥
अवताराः सदा सर्वे निर्लेपाः सन्ति पद्मजे ।।
यत्रात्मन्यवतीर्णास्ते स आत्मा कर्मभोगभाक् ॥६२॥
सखायौ सयुजौ द्वौ च सुपर्णौ कर्मद्रुस्थितौ ।।
तयोः कर्मकृदश्नात्यकर्मकृतो न तत्स्पृशिः ।।६३॥
तस्मात् कृष्णस्य नैवास्ति कण्ठच्छेदकृतिव्यथा ।
सा तु तत्रान्यभोक्तुः स्यादात्मान्तरं हि तन्मतम् ॥६४॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गणेशोपरि शनिदृष्टिः शिवस्य सूर्यशापः इन्द्रस्य श्वेतकरिकृतं दुर्वासःप्रदत्तप्रसादिपुष्पमालामर्दनं तन्मालापुष्पस्पर्शजन्यकुंभमस्तकपावनताप्रयोज्य गणेशमस्तकयोजनापूज्यता चेत्यादिनिरूपणनामा षडधिकशततमोऽध्यायः ॥१०६॥