← अध्यायः ११० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १११
[[लेखकः :|]]
अध्यायः ११२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो धर्मदेवः सेवाविनिश्चयौ ।
पुत्रौ प्राह परं धर्मॆ परो यस्मान्न विद्यते ।। १ ।।
सर्वधर्मसमावेशो यत्र धर्मे प्रतिष्ठितः ।
तं धर्मॆ प्रथमं धाम्नि हरिणा संप्रदर्शितम् ।। २ ।।
सर्वश्रेयस्करं धर्ममृणाऽबाध्यं प्रमोक्षदम् ।
श्रुतं नारायणमुखान्मुक्तिदं साधनोत्तरम् ।। ३ ।।
धर्मः प्राह शृणुतं वै पुत्रौ परमशोभनौ ।
धर्मवन्तौ पितृभक्तौ यदुक्तं तत्सुशोभते ।। ४ ।।
लक्षणं तत्सुपुत्रस्य मातापित्रोः सुसेवनम् ।
तत्ततोऽप्यधिकं धर्मं शृणुतं हरिणोदितम् ।। ५ ।।
ब्रह्मचर्यसमो धर्मो नास्ति नास्त्येव नैव हि ।
अन्ये सर्वे तु धर्माणः कलां नार्हन्ति षोडशीम् ।। ६ ।।
ब्रह्मचर्यं ब्रह्मधर्मो ब्रह्म वै स स्वयं मतम् ।
ब्रह्मरूपं ब्रह्ममूर्तिर्ब्रह्मात्मा ब्रह्मरूपदः ।। ७ ।।
तुष्टे ब्रह्मणि सर्वेशे सर्वं तुष्टं सदा भवेत् ।
सेवा ऋणानि दानानि तदग्रे स्वल्पमात्रकम् ।। ८ ।।
यज्ञप्राप्यं तु यत्प्रोक्तं ब्रह्मचर्येण लभ्यते ।
तस्माद् यज्ञो ब्रह्मचर्ये संप्रतिष्ठति सर्वथा ।। ९ ।।
इष्टापूर्तेन यत्प्राप्यं ब्रह्मचर्येण लभ्यते ।
तस्मादिष्टं ब्रह्मचर्ये सम्प्रतिष्ठति सर्वदा ।। 1.111.१० ।।
यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम् ।
परं तत्सर्वधर्मेभ्यस्तेन मोक्षः प्रलभ्यते ।। ११ ।।
ब्रह्मचर्ये स्थितो धर्मो ब्रह्मचर्ये स्थितं तपः ।
ब्रह्मचर्ये स्थिता ये ते ब्रह्मधाम्नि स्थिता मताः ।। १ २।।
योगेन जायते सिद्धिः सिद्ध्या कीर्तिः प्रवर्तते ।
कीर्तिः सिद्धिश्च तपसा तपो ब्रह्मणि चर्यया ।। १३।।
इन्द्रियनिग्रहोऽसाध्यो ब्रह्मचर्येण साध्यते ।
ब्रह्मचर्येण तपसा ब्रह्मलोको ह्यवाप्यते ।। १४।।
ब्रह्मचर्यप्रवृत्तस्य ब्रह्मलोकोऽपि कामदः ।
किं पुनर्देवलोकाद्या ब्रह्माधानं हि तत्ततः ।। १५।।
सत्त्रायणेन यत्प्राप्यं ब्रह्मचर्येण लभ्यते ।
सत्त्रायणं ब्रह्मचर्ये संप्रतिष्ठति सर्वथा ।। १६।।
मौनव्रतेन लभ्यं यद्ब्रह्मचर्येण लभ्यते ।
मौनं ततो ब्रह्मचर्ये संप्रतिष्ठति सर्वथा ।। १७।।
अनाशकायनेनाऽऽप्यं ब्रह्मचर्येण लभ्यते ।
अनाशकायनं ब्रह्मचर्ये तिष्ठति सर्वथा ।। १८।।
अरण्ययनसंप्राप्यं ब्रह्मचर्येण लभ्यते।
अरण्यायनमप्यत्र ब्रह्मचर्ये प्रतिष्ठति ।। १९ ।।
त्यागायनेन संप्राप्यं ब्रह्मचर्येण लभ्यते ।
दृष्टानुश्रविके त्यागो ब्रह्मचर्ये प्रतिष्ठति ।। 1.111.२०। ।
अहिंसया च यत्प्राप्यं ब्रह्मचर्येण लभ्यते ।
अहिंसा सार्वभौमा सा ब्रह्मचर्ये प्रतिष्ठति ।। २१ ।।
सत्यव्रतेन यत्प्राप्यं ब्रह्मचर्येण लभ्यते ।
सत्यं तस्माद् ब्रह्मचर्ये त्रिविधं प्रतितिष्ठति ।। २२।।
अस्तेयेन च यत्प्राप्यं ब्रह्मचर्येण लभ्यते ।
अस्तेयं सर्वथा द्वेधा ब्रह्मचर्ये प्रतिष्ठति ।। २३ ।।
अपरिग्रहलभ्यं यद्ब्रह्मचर्येण लभ्यते ।
अपरिग्रह एवापि ब्रह्मचर्ये प्रतिष्ठति ।। २४।।
शौचेन प्राप्यते यद्वै ब्रह्मचर्येण लभ्यते ।
शौचं द्वेधा ब्रह्मयोगाद् ब्रह्मचर्ये प्रतिष्ठति ।। २५।।
सन्तोषाल्लभ्यते यत्तद्ब्रह्मचर्येण लभ्यते ।
सन्तोषः सर्वथाऽऽत्मीयो ब्रह्मचर्ये प्रतिष्ठति ।। २६।।
तपश्चर्या विविधा या ब्रह्मचर्येण पूर्यते ।
ततस्तपोमहाकाण्डो ब्रह्मचर्ये समाप्यते ।। २७।।
स्वाध्यायेन च यल्लभ्यं ब्रह्मचर्येण लभ्यते ।
स्वाध्यायः सर्वतोव्याप्तो ब्रह्मचर्ये प्रतिष्ठति ।। २८ ।।
ईश्वरस्य प्रणिधानं ब्रह्मचर्ये प्रवर्तते ।
तत ईशप्रणिधानं ब्रह्मचर्ये प्रतिष्ठति ।। २९।।
गोरक्षादीन्यासनानि ब्रह्मचर्ये फलन्ति वै ।
तस्मादासनकूटस्तु ब्रह्मचर्ये प्रतिष्ठति ।। 1.111.३० ।।
प्राणायामेन यल्लभ्यं ब्रह्मचर्येण लभ्यते ।
प्राणायामश्चतुर्धाऽतो ब्रह्मचर्ये व्यवस्थितः ।। ३१ ।।
प्रत्याहारस्त्विन्द्रियाणां सति ब्रह्मव्रते फलेत् ।
तस्मादिन्द्रियरोधो वै ब्रह्मचर्ये प्रतिष्ठति ।। ३२।।
ध्यानेन यद्भवेल्लभ्यं ब्रह्मचर्येण लभ्यते ।
ध्यानं प्रत्ययैकतानं ब्रह्मचर्ये प्रतिष्ठति ।। ३३ ।।
धारणा यत्र कर्तव्या ब्रह्मचर्येण लभ्यते ।
तस्मात्तु धारणा सर्वा ब्रह्मचर्ये प्रतिष्ठति ।। ३४।।
समाधिर्यत्र कर्तव्यो ब्रह्मचर्येण सिद्ध्यति ।
तस्माद्द्वेधा चतुर्धा स ब्रह्मचर्ये प्रतिष्ठितः ।। ३५।।
दमशान्तितितिक्षेहोपरमादिभिराप्यते ।
यच्च तद्वै ब्रह्मचर्याल्लभ्यते नाऽत्र संशयः ।। ३ ६।।
विवेकाच्च विभो काच्चाऽभ्यासात्सत्क्रियया तथा ।
कल्याणाच्चाऽनवसादादनुद्धर्षाच्च यद्भवेत् ।। ३७।।
तत्सर्वं तु ब्रह्मचर्याल्लभ्यते नात्र संशयः ।
ज्ञानाद्धर्माच्च विज्ञानाद्भक्त्या विविधया तथा ।।३८।।
तत्त्वज्ञानान्मृषाप्रज्ञालोपाच्चापि तु यद्भवेत् ।
तत्सर्वं ब्रह्मचर्येण लभ्यते नात्र संशयः ।।३९।।
शब्दब्रह्मणि निष्णातः परंब्रह्माधिगच्छति ।
शब्दब्रह्मात्र विस्ताराद् ब्रह्मचर्ये प्रतिष्ठति ।।1.111.४० ।।
ब्रह्मविमर्शसद्बिन्दुनादध्वानगिरोऽपि च ।
प्रवर्तन्ते ब्रह्मणस्तद्ब्रह्मचर्यफलं मतम् ।।४१।।
अणिमा महिमा प्राप्तिर्गरिमा लघिमा तथा ।
प्राकाम्यमीशिता सर्ववशिताऽपि च सिद्धयः ।।४२।।
तारसुतारताराताररम्यकसलिलकाः ।
प्रमोदमुदितमोदमानाश्चापि च सिद्धयः ।।४३ ।।
ऊहः शब्दोऽध्ययनं च दुःखघातास्त्रयस्तथा ।
सुहृत्प्राप्तिर्ज्ञानसिद्धिश्चाप्यष्टौ सिद्धयश्च याः ।।४४।।
दूरश्रवणदर्शनादानगमनाऽदृश्यताः ।
सिद्धयश्च तथा सर्वा लभ्यन्ते ब्रह्मचर्यतः ।।४५।।
नेत्या धोत्या च बस्त्या च कुंजरक्रियया तथा ।
यदाप्यते त्वाप्यते तद्ब्रह्मचर्येण सर्वथा ।।४६ ।।
पितॄणां तर्पणात् श्राद्धाद् यदाप्यते तदाप्यते ।
ब्रह्मचर्येण श्राद्धादि ब्रह्मचर्ये प्रतिष्ठति ।।४७।।
पुत्रोत्पत्त्या विद्ययाऽग्निहोत्रेणाऽऽराध्यते तु यत्। ।
तत्समाराध्यते ब्रह्मचर्येणैवेति निर्ऋणम् ।।४८।।
श्रुत्या स्मृत्या च यल्लाभस्तलाभो ब्रह्मचर्यतः ।
प्रतीकोपासनालभ्य यन्मतं धाम तत्खलु ।।४९ ।।
ब्रह्मचर्येण सम्प्राप्यं भवत्येव न संशयः ।
मातृपितृकुटुम्बानां लोकानां सेवया च यत् ।।1.111.५० ।।
लभ्यते तद्ब्रह्मचर्याल्लभ्यते नात्र संशयः ।
गोविप्राणां सुराणां च साध्वीनां महतां तथा ।।५ १ ।।
साधूनां सेवया लभ्यं ब्रह्मचर्येण लभ्यते ।
पतिव्रताया लोकास्ते लभ्यन्ते ब्रह्मचर्यतः ।।।५२।।।
कर्मठानां शर्मवतां धर्मिष्ठानां च या गतिः ।
ततोऽप्युच्चतरा सा वै ब्रह्मचर्येण लभ्यते ।।।५३।।
पुण्यात्मनां दानिनां च या गतिर्जायते शुभा ।
ततोऽप्युच्चतरा प्राप्तिर्ब्रह्मचर्यवतो भवेत् ।।५४।।
यक्षरक्षोभूतवैनायककूष्माण्डमातरः ।
पिशाचप्रेतवेतालास्त्रस्यन्ति ब्रह्मचर्यतः ।।५५।।
डाकिनीशाकिनीशूलायोगिनीतालिकास्तथा ।
विद्रवन्ति ब्रह्मचारिबलान्नास्त्यत्र संशयः ।।५६।।
मानुषा भूतयः सर्वा देवानां स्मृद्धयस्तथा ।
लभ्यन्ते ब्रह्मचर्यद्वै ब्रह्मचर्ये प्रतिष्ठिताः ।।५७।।
ऐन्द्रं च वारुणं स्थानं कौबेरं सौममेव वा ।
सौर्यं च गाणपत्यं च भौमं स्वर्ग्यं च पैतृकम् ।।५८।।
वैराजमैश्वरं वार्षं पारमेष्ठ्यं पदं च वा ।
लभ्यते ब्रह्मचर्येण ब्रह्मचर्ये प्रतिष्ठति ।।५९।।
आग्नेयं वैष्णवं ब्राह्मं शांभवं च हिरण्मयम् ।
प्राकृतं पौरुषं मौक्तं लभ्यन्ते ब्रह्मचर्यतः ।।1.111.६०।।
अव्याकृतं च गोलोकं वैकुण्ठं चामृतं तथा ।
क्षैरं श्वैतं बाद्रिकं च लभ्यन्ते ब्रह्मचर्यतः ।।६ १ ।।
ब्रह्मचर्यप्रभावेण जीवोऽपि याति शंभुताम् ।
योऽयमात्मा हतपाप्मा विशोको मृत्युवर्जितः ।।६२।।
अक्षुधश्चातृषश्चाप्यजरः सत्यमनोरथः ।
सत्यफलो भवत्येव ब्रह्मचर्यप्रतापतः ।।६३।।
परब्रह्मसमो भूत्वा सर्वतद्भावभावितः ।
समश्नुते सर्वकामान् ब्रह्मचर्यप्रतापतः ।।६४।।
आप्रकृंतिपूरुषं यद् दासऽऽयोगस्थमण्डलम् ।
किंकरं चरणे भूत्वा पतति ब्रह्मचारिणः ।।६५।।
अप्रस्खलितधातोस्तु ब्रह्यचर्यवतः सदा ।
तदूर्ध्वरेतसो देवा दासा भवन्ति किंकराः ।।६६।।
ब्रह्मचारिकृते लोका वर्तन्ते शाश्वताः सदा ।
प्रगच्छेद्येन मार्गेण ब्रह्मचारी जनस्तदा ।।६७।।
विघ्नाः कृत्या ग्रहा दैत्याः शूलाश्चाऽमंगलानि च ।
प्रयान्त्यपशकुनानि दूराद्ब्रह्मप्रतापतः ।।६८।।
यत्र मार्गे ब्रह्मचारी प्रगच्छति प्रतापवान् ।
समीपे स्वागतार्थं तं समायान्ति सुरादयः ।।६९।।
लोकपाला दिशाम्पालाः प्रजेशा मनवश्च तम् ।
अभियान्ति ब्रह्मचर्यप्रतापं ब्रह्मचारिणम् ।।1.111.७० ।।
सम्वत्सराश्च ऋतवो मासाश्च दिवसा निशाः ।
अभियान्ति स्वागतार्थं ब्रह्मचर्यप्रतापिनम् ।।९१।।।
विश्वेदेवा मरुतश्च विद्याध्राः किन्नरादयः ।
देव्यश्चाभिप्रयान्त्येनं ब्रह्मचर्यप्रतापिनम् ।।७२।।
अग्नयो दक्षिणाहोमावसथगृहिणो जनाः ।
अभियान्ति ब्रह्मचर्यबलिनं ब्रह्मचारिणम् ।।७३।।
साध्याः किंपुरुषाश्चैव गन्धर्वाश्चारणादयः ।
ब्राह्मणाश्चाऽप्यभियान्ति ब्रह्मचारिजनं मुदा ।।७४।।
नरनारीमिथुनानि ब्रह्माण्डे सन्ति कोटिशः ।
तानि पवित्रतां यान्ति ब्रह्मचारिपदाश्रयात् ।।७५।।
ब्रह्मचारी स्वयं ब्रह्म ब्रह्मचर्यबलेन वै ।
पृथ्वीजलादितत्त्वानि परावर्तयितुं क्षमः ।।७६।।
ब्रह्मचारी स्वयॆ स्वस्य प्राणस्य रक्षणे तथा ।
विसर्जने समर्थो वै न कालस्तत्र वै प्रभुः ।।७७।।
महाकालो याति दूरॆ यमो यमानुगास्तु के ।
वालखिल्याः सनकाद्या सिद्धा योगेश्वरास्तथा ।।७८।।
हर्यश्वाः शबलाश्वाश्च साधवः साध्विकास्तथा ।
ब्रह्मचर्यप्रतापेन ब्रह्मभावमितो गताः ।।७९।।
हनुमान्कार्तिकेयश्च वर्तेते ब्रह्मचारिणौ ।
भगवत्यो महाभागाः सरस्वत्यादिकास्तथा ।।।1.111.८०।।।
ब्रह्मचारिण्य एवैता ब्रह्मभावमितो गताः ।
तस्मात्पुत्रौ ब्रह्मचर्ये तिष्ठन्तौ कुरुतं तपः ।।८ १।।
ब्रह्मचर्यप्रतापेन ऋणं सर्वं निवर्तते ।
ब्रह्मचर्यसमं नान्यत्तपो भवति दुष्करम् ।।८२।।
ब्रह्मचारिशरीरे वै ब्रह्म साक्षाद्धि वर्तते ।
ब्रह्मचारिपूजनेन परब्रह्म प्रपूजितम् ।।।८३।।
ब्रह्मचारिभोजनेन परब्रह्म सुभोजितम् ।
ब्रह्मचारिदर्शनेन परब्रह्मप्रदर्शनम् ।।८४।।
ब्रह्मचारिस्पर्शनेन परब्रह्मस्पृशिर्मता ।
ब्रह्मचारिनमस्कारे परब्रह्मनमस्कृतिः ।।।८५।।।
ब्रह्मचारिपरिचर्या ब्रह्मशुश्रूषणं मतम् ।
ब्रह्मचारिजलपाने ब्रह्मणा पीयते जलम् ।।८६।।
ब्रह्मचारिपार्श्ववासे ब्रह्मण्यावास उच्यते ।
ब्रह्मचारिप्रनेत्राभ्यां ब्रह्मैव संप्रपश्यति ।।८७।।
ब्रह्मचारिनासिकया ब्रह्मजिघ्राति वै मुदा ।
ब्रह्मचारिजिह्वया वै ब्रह्म वक्त्येव सर्वथा ।।८८।।
ब्रह्मचारिरसनया ब्रह्मैवास्वादयत्यपि ।
ब्रह्मचार्याननद्वारा भुंक्ते ब्रह्मपरं सदा ।।।८५।।
ब्रह्मचारिकरपादा ब्रह्मणः करपत्कजाः ।
ब्रह्मचारिमनोवृत्त्या मनुते ब्रह्म सर्वथा ।।1.111.९०।।
ब्रह्मचारिकृतभोगं ब्रह्मभोग्यं तु तन्मतम् ।
ब्रह्मचारिकृतावासो ब्रह्मवासो मतः सदा ।।९१।।
ऊर्ध्वरेता नैष्ठिकश्चोपकुर्वाणो हरिः स्वयम् ।
माताऽपि पूजिता तेन पिता संसेवितस्तथा ।।९२।।
ब्रह्मचर्यव्रतं येन रक्षितं ब्रह्मरूपिणा ।
ब्रह्मचारिकृतं सर्वं ब्रह्मणा कृतमेव तत् ।।९३।।
तस्माद् ब्रह्मपरो धर्मो ब्रह्मचर्यान्न शिष्यते ।
अवतारा हरेर्ये वै ब्रह्मचारिण एव ते ।।९४।।
 ब्रह्मचारिण आमुक्तिः सदा करतले स्थिता ।
अतिष्ठतं ब्रह्मचर्यं पुत्रो नरनरायणौ ।। ९५।।
इत्याज्ञा पितृभ्यां दत्ता गृहीत्वा तौ नरो हरिः ।
नत्वाभिवन्द्यशैत्याद्रिं तप्तुं तु दुष्करं तपः ।। ९६ ।।
जग्मतुस्तत्र बद्र्यादिशोभिते शिखरे सदा ।
बद्र्यधस्तात्तपो लोकसुखार्थं कुरुतो हि तौ ।। ९७। ।
तथाऽयं कार्तिकेयोऽपि तपत्येव दृढं तपः ।
ब्रह्मचारिव्रतो भूत्वा विष्णुं भजति नित्यशः ।। ९८ ।।
नास्त्यतो योग्यता तत्राऽपराधस्यापि लेशतः ।
ब्रह्मचर्यतुलायां त्वसेवाऽकिंचित्करी मता । । ९९ ।।
असेवा वै न सा बोध्या सेवा तपःस्वरूपिणी ।
ब्रह्मचर्यतपोयोगादुद्धारयति यत्स्वकौ ।। 1.111.१०० ।।
मातापितरौ सा सेवा नाऽन्यतुल्याऽल्पिका मता ।
यत्कृतेन सदा मातुः पितुः प्रसन्नता भवेत् ।। १०१ ।।
तत्कृतं सर्वदा सेवा नाऽन्या सेवा विशिष्यते ।
कार्तिकेन कृता सेवा ब्रह्मव्रततपोमयी ।। १०२।।
इष्टं तपस्तु पार्वत्यास्तथा शंभोरपि ध्रुवम् ।
लोके योग्यं च शास्त्रेऽपि तपः कार्यमिति प्रथा ।। १०३ ।।
ब्रह्मव्रतं तपो लक्ष्मि! मोक्षदं दुरितं न तत् ।
माता शिवा प्रसन्नाऽऽसीत् पिता शंभुः प्रसादवान् ।। १ ०४।।
सेनापतित्वमाप्यैव तारकासुरनाशनम् ।
कृतं पित्रोर्वचन तत् त्वाज्ञासेवात्मकं परम् ।। १०५ ।।
मयैव विहिता चेयं स्कन्दस्थितिरनुत्तमा ।
इति ते कथितं लक्ष्मि! किमन्यच्छ्रोतुमिच्छसि ।। १०६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मचर्यमाहात्म्यवर्णनपूर्वककार्तिकेयाऽदुरिततादिप्रदर्शननामा एकादशाधिकशततमोऽध्यायः ।। १११ ।।