← अध्यायः ११४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ११५
[[लेखकः :|]]
अध्यायः ११६ →

श्रीनारायण उवाच-
शंभुः प्राह ततो देवीं पार्वतीं स्वप्रियां प्रिये! ।
श्रुणु शैत्याद्रिसत्पुत्रि! महिमानं तथाऽपरम् ।। १ ।।
ऊर्ध्वपुंड्रस्य संवक्ष्ये धारणान्मुक्तिरिष्यते ।
ऊर्ध्वं ब्रह्मपरं लोकं पुंसे दद्याद् विमुक्तये ।। २ ।।
रक्षयेच्च जगद्बन्धात्तदूर्ध्वं पुंड्रमीरितम् ।
मध्ये तु चन्द्रकं लक्ष्मी पुंड्रे देवो जनार्दनः ।। ३ ।।
द्वयोर्वासो ललाटाग्रे यस्य सोऽक्षयमोक्षभाक् ।
तस्यैव दर्शनात्प्रातर्ज्वलन्ति त्वघपर्वताः ।। ४ ।।
यस्य देहे चोर्ध्वपुंड्रं स नारायणमन्दिरम् ।
ऊर्ध्वपुंड्रललाटस्य सर्वतीर्थफलं भवेत् ।। '९ ।।
सर्वयज्ञफलं चापि चेष्टापूर्तफलं भवेत् ।
सर्वदानफलं चाथ सर्वयोगफलं भवेत् ।। ६ ।।
ऊर्ध्वपुंड्रललाटं वै दृष्ट्वा पापैः प्रमुच्यते ।
नमस्कृत्य विमानस्थो याति ब्रह्मपदं परम् ।। ७ ।।
श्राद्धे चोर्ध्वपुंड्रधरं भोजयिष्यति यो जनः ।
आकल्पकोटि पितरस्तृप्ता हृष्टा भवन्ति वै ।। ८ ।।
सोर्ध्वपुंड्रधरादेवकृतश्राद्धे गयाफलम् ।
यज्ञदानजपातिथ्यसत्क्रियाहोमतापनम् ।। ९ ।।
सोर्ध्वपुंड्रभक्तकृतं तस्य पुण्यमनन्तकम् ।
ऊर्ध्वपुंड्रविहीनेन कृतं यज्ञादिकं वृथा ।। 1.115.१ ०।।
अनूर्ध्वपुंड्रको देहः श्मशानसदृशो भवेत् ।
अनूर्ध्वपुंड्रकस्यात्र पुण्यं सन्ध्याहिजापनम् ।। ११ ।।
हरन्ति राक्षसास्तद्वै स्वयं दोषेण लिप्यते ।
अनूर्ध्वपुंड्रको यायान्नैजपापाद्यमक्षयम् ।। १२।।
सकेसरसुगन्धाढ्यचन्दनेनाऽथवा मृदा ।
पाण्डुरया पिशंग्या वा कुंकुमेनाऽथवा क्रियात् ।। १३।।
ललाटभूषणं तद्वै चतुर्धा बोध्यमेव ह ।
ऊर्ध्वपुंड्रं च पुंड्रं च पट्टपुण्ड्रं त्रिपुण्ड्रकम् ।। १४।।
ऊर्ध्वपुंड्रं द्विरेखं स्यादेकरेखं तु पुण्ड्रकम् ।
पट्टस्थूलं पट्टपुंड्रं सुप्तत्र्यंकं त्रिपुण्ड्रकम् ।। १९।।
देवादिपूजने दैवकार्ये द्विरेखमादृतम् ।
राज्याभिषेकप्रभृतौ तिलकं दीपवत्स्मृतम् ।। १६ ।।
अशून्यकललाटार्थं पट्टाकारमहर्निशम् ।
शृंगारहासलिंगादिपूजने तु त्रिपुंड्रकम् ।। १७।।
चान्दनं चोर्ध्वपुंड्रं वै कौंकुमं तिलकं मतम् ।
श्वेतमृदा तु पट्टाख्यं भस्मना तु त्रिपुंड्रकम् ।। १८ ।।
विष्णुभक्तैर्मानवैर्वै कार्यमूर्ध्वं तु पुण्ड्रकम् ।
एकान्तिनो महाभागवतास्तु सात्त्वताः सदाः ।। १९ ।।
कुर्वन्ति सान्तरालं तदूर्ध्वं हरिपदाकृति ।
मध्ये सचन्द्रकं तद्वै श्रीहरेर्मन्दिरं स्मृतम् ।। 1.115.२० ।।
ऋजु सौम्यं सुशलाकं मनोहारि सुशोभनम् ।
तनुरेखं केसरं तदूर्ध्वपुंड्रं सचन्द्रकम् ।। ११ ।।
नरनारीभिराधार्यं दर्शने मंगलावहम् ।
सान्तराले चोर्ध्वपुंड्रे मध्यकुंकुमचन्द्रके ।। २२।।
मध्ये लक्ष्म्या संयुक्तः श्रीहरिस्तत्र विराजते ।
निरन्तरालात्त ततः सश्रीहरिर्निवर्तते ।। २३ ।।
निरन्तरालं निःश्रीकं सान्तरालं श्रियाऽन्वितम् ।
मृदं र्पिगतडागस्य वैकुण्ठाख्यह्रदस्य च ।। २४।।
श्वेतां पिशङ्गीं वाऽऽदाय कुर्यादूर्ध्वं तु पुण्ड्रकम् ।
तीर्थप्रासादिकीं भूमिं मृदामादाय शोधयेत् ।। २५।।
तुलसीमूलभूमेर्मृदूर्ध्वपुंड्रे प्रशस्यते ।
श्रीकृष्णेलाभुवश्चापि गंगायमीप्रतीरयोः ।। २६।।
गोमतीतीरभूमेस्तूर्ध्वपुंड्रं तीर्थपुण्यदम् ।
यज्ञाग्निहोत्रयोर्भस्म हरिक्षेत्रादिमृत्तिका ।। २७।।
कुंकुमंवापिकामृद्वै पावनी हरिणीसमा ।
बिल्वपिप्पलतुलसीवटामलक्युदम्बराः ।। २८।।
देववृक्षास्तदधोभूः पवित्रा तिलकार्हणा ।
नगाग्रस्था सरित्संस्था जलान्तःस्था च सिन्धुजा ।। २९।।
वल्मीकस्था मन्दिरस्था क्षेत्रस्था भूमिगर्भगा ।
देवस्नानजलैः सिक्ताऽरण्यस्था वृष्टिवाहिता ।। 1.115.३ ० ।।
मृत्तिका सर्वतीर्थानां धाम्नां पुरीवनादिजा ।
हर्यवतारोद्भवभूर्भगवद्वासयोगिनी ।। ३१ ।।
पावनी च तया कार्यमूर्ध्वपुंड्रं सुमोक्षदम् ।
कृष्णं नु शान्तिदं रक्तं वश्यकृन्मोक्षदं सितम् ।। ३२ ।।
पीतं लक्ष्मीप्रदं प्रोक्तं धूसरं श्रीविनाशकम् ।
विच्छिन्नं वा बहुस्थूलं वक्रं तिर्यगदर्शनम् ।।।३३ ।।
तथाऽसमान्तरालं च सूक्ष्मं वा विषमान्तरम् ।
ह्रस्वदीर्घादिरेखं च स्थूलसूक्ष्मादिरेखकम् ।।३४।।।
प्रान्तलग्नान्तरव्यासं विच्छिन्नमूलकं तथा ।
अर्धं त्र्यर्धं लम्बमानं शुष्कं निस्तेज आततम् ।।३५।।
कुदृश्यं वर्तुलं चोर्ध्वपुंड्रं हानिकरं स्मृतम्।
नासामूलं समारभ्य भ्रुवोः संलग्नके तु वै ।।३६।।
द्वे रेखेऽङ्गुलविस्तारे आकेशप्रान्तके गते ।
नासामूले निम्नभागे द्वितीयाचन्द्रवद्युजे ।।३७।।
सम्पद्येतोर्ध्वपुंड्रं तद् ब्रह्मधामप्रदायकम् ।
ललाटे तु परब्रह्म लक्ष्मीनारायणं हृदि ।।३८।।
दक्षे बाहौ वासुदेवं वामे नरनरायणौ ।
स्मृत्वा विष्णुजलद्रावैर्द्रव्यैः कार्याणि सर्वदा ।।३९।।
नारायणं समुदरे गोविन्दं कण्ठकर्कटे ।
विष्णुं वै दक्षिणे पार्श्वे वामनं वामपार्श्वके ।।1.115.४० ।।
त्रिविक्रमं कंधरे तु स्मृत्वा दामोदरं त्रिके ।
पृष्ठे स्मृत्वा पद्मनाभं वासुदेवं तु मूर्धनि ।।४१ ।।
एवं द्वादशपुंड्राणि महाभागवतश्चरेत् ।
ललाटे भुजयुग्मे च त्रिके कण्ठे च पृष्ठके ।।४२।।
चतुरंगुलकं मानं पार्श्वयोस्तु दशांगुलम् ।
कंधरे मूर्ध्न्युदरे वक्षस्यष्टांगुलं क्रियात् ।।४३।।
सबीजं सान्तरालं तु श्रियाः कुंकुमचन्द्रयुक् ।
क्षत्रियाणां तु चत्वारि ललाटे भुजयोर्हृदि ।।४४।।
विशां भाले हृद्ये द्वे भालैकं शूद्रयोषितोः ।
गिरिजे! तव भक्तानामश्वत्थदलसदृशम् ।।४५।।
मम शंभोस्तु भक्तानां पद्मकुड्मलसदृशम् ।
गणेशादिप्रभक्तानां वेणुपत्रादिसदृशम् ।।४६।।
हरेर्भागवतानां तद् ऊर्ध्वं हरिपदाकृति ।
किरणाकारमूर्ध्वं तु पुण्ड्रं मोक्षकरं सदा ।।४७।।
मध्ये हरिद्राकुंकुमबिन्दुर्लक्ष्मीनिवासभूः ।
भालमध्ये रेखयोरस्पृष्टो घट्टसमस्तरः ।।४८।।
हारिद्रः कौंकुमो बिन्दुश्चन्द्रवच्छ्रीप्रदः सदा ।
बिन्दूर्ध्वपुण्ड्रकौ बोध्यौ लक्ष्मीनारायणौ सदा ।।४९।।
भाले हृदि तथा बाह्वोर्यस्य तस्य जयः सदा ।
तच्छून्यस्य परे चात्राऽनुपदं तु पराजयः ।।1.115.५० ।।
इति ते कथितो गौरि । ह्यूर्ध्वपुंड्रादिनिर्णयः ।
नारायणेन मह्यं यः कथितः सर्वथा शुभः ।।५१।।
ब्रह्मविष्णुमहेशानां देवीदेवतपस्विनाम् ।
भक्ता ये स्वैरिणो भाव्या मनिष्यन्ते तु नर्मवत् ।।५२।।
ते तु नारीसमानास्याः कबरीकेशवेषिणः ।
भविष्यन्ति पुमांसोऽपि नारीश्रांगारिकक्रियाः ।।।५३।।
नारीवद्वस्त्रधर्तारो नारीभावस्वदर्शकाः ।
नार्यो नरादिवेषस्था नररूपस्वदर्शिकाः ।।५४।।
स्वस्वधर्मादिहीनाः स्युः स्वस्वमोक्षस्य घातकाः ।
अचिह्नास्ते विचिह्ना वै यास्यन्ति नरकान्मुहुः ।।५५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ऊर्ध्वपुंड्रादिमाहात्म्यनिरूपणनामा पञ्चदशाधिकशततमोऽध्यायः ।। ११५।।