← अध्यायः १२४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १२५
[[लेखकः :|]]
अध्यायः १२६ →

श्रीनारायण उवाच-
शंकरः पार्वतीं प्राह महावैकुण्ठवर्णनम् ।
त्रिपाद्विभूतेरक्षरब्रह्मस्था धामसृष्टयः ।। १ ।।
शुद्धाः शान्ताः सुसन्तश्च ब्रह्मानन्दसुखात्मिकाः ।
नित्याश्च निर्विकाराश्च हेयभागविवर्जिताः ।। २ ।।
हिरण्मया असंख्याताः कोट्यब्जसूर्यकान्तयः ।
नारायणपदांभोजभक्तिसद्रसपूरिताः ।। ३ ।।
सामादिस्तुतिकर्तारो यत्र सन्ति हि सात्त्वताः ।
तद्वदिदं महावैकुण्ठाख्यं धाम परं पदम् ।। ४ ।।
निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ।
नारायणचरणयोः रसभोगसुवर्धिताः ।। ५ ।।
महात्मानो महाभागा वैष्णवा निवसन्ति हि ।
दास्यो वैष्णवमूर्धन्या हरेः सेवारताः सदा ।। ६ ।।
तद्विष्णोः परमं धाम वैकुण्ठं तद्धरेः पदम् ।
नानाजनपदाकीर्णं सच्चिद्ब्रह्मसुखप्रदम् ।। ७ ।।
पद्मरागैदिन्द्रनीलैर्बहुरत्नैः सुशोभितम् ।
कोटिवैश्वानरप्रख्यं सर्वविद्यामयं महत् ।। ८ ।।
आमोदकरमन्दारवृक्षैर्बहुभिरावृतम् ।
नानामणिमयैर्दिव्यैविमानैः कोटिभिर्युतम् ।। ९ ।।
स लोको विपुलः पुण्यः शुद्ध आत्ममयः शुभः ।
युगपत्कोटिसाहस्रसूर्यभासाप्रभासितः ।। 1.125.१० ।।
नित्योऽयं वैष्णवो लोकः प्रधानान्ते न लीयते ।
मया ब्रह्मादिदेवैश्च न द्रष्टुमपि शक्यते ।। १ १।।
कल्पचिन्तामणिवृक्षाऽमृतवल्ल्यादिपूरितः ।
मिष्टाम्बुदिव्यसोपानदीर्घिकालसितः शुभः ।। १२।।
स्वर्णवर्णैः सदाऽम्लानैः समरूपैस्तु पंकजैः ।
रमन्ते कन्यकास्तत्र विमानैर्विहरन्ति च ।। १३।।
ज्वलदग्निसमैः कान्तैर्भूषणैः कोटिभिर्युताः ।
निरन्तरं मुक्तपक्षिसंघैः सामभिरीडितः ।। १४।।
नृत्यस्य मण्डपस्तत्र सुगन्धद्रव्यशोभितः ।
ऊनषोडशवर्षैश्च दिव्यनारीनरैर्वृतः ।। १५।।
सर्वलक्षणशोभाढ्यैर्दिव्यशोभिविभूषणैः ।
सर्वत्र लसितः सम्यक् त्वानन्देन प्रपूरितः ।। १६।।
नृत्यं भवति नित्यं वै तत्र तारस्वरादिभिः ।
आनन्द जायते तेन मुहुर्वैकुण्ठवासिनाम् ।। १७।।
एवं रम्यप्रदेशेषु मुदितैः पतिभिः सह ।
नारायणं त्वर्चयन्ति प्रमदाः सात्त्वतप्रियाः ।। १८।।
नारायणकृपालब्धं सुखमश्नन्ति सर्वदा ।
गायन्ति भगवल्लीलां चरितानि शुभानि च ।। १९।।
पद्मेक्षणाः कमलवत्कोमलांग्यश्च योषितः ।
दिव्यस्रग्वसनोपेताः पद्मया सदृशाः शुभाः ।।।1.125.२०।।
शंखचक्रगदापद्मधरैर्भूषणभूषितैः ।
स्रग्विभिः पीतवसनैः पतिभिः सह संस्थिताः ।।२१ ।।
सेवन्ते श्रीहरिं नारायणं दिव्यं भजन्ति तम् ।
अन्योन्यरममाणानां हरेर्भक्तेः सुखो रसः ।।२२।।
सर्वदा वर्धत एव द्रवनिष्ठो भवत्यपि ।
इत्येवं वसतिव्याप्तं व्यूहाभ्यन्तरमण्डलम् ।।२३।।
मण्डलाभ्यन्तरे तत्र प्राकारो विद्यते महान् ।
चतुर्द्वारसमायुक्तस्तुङ्गगोपुरसंयुतः ।।२४।।
विमानानि च सौधानि सन्ति दुर्गेऽपि तत्र च ।
चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रसुभद्रकौ ।।२५।।
वारुण्यां जय विजयौ सौम्ये धाता विधातृकः ।
कुमुद्ः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ।।२६ ।।
शंकुकर्णः सर्वनिद्रः सुमुखः सुप्रतिष्ठितः ।
अष्टौ प्राकारपतयो गौणद्वारेषु सन्ति हि ।।२७।।
प्राकाराभ्यन्तरे तत्र प्राकारभवनानि वै ।
कोटिवैश्वानरतुल्योज्ज्वलानि रत्नवन्ति च ।।२८।।
आरूढयौवनदिव्यनारीनरयुतानि वै ।
वर्तुलप्राकारलग्नस्थितिमन्ति भवन्ति हि ।।२९।।
प्राकारो वर्तुलाकारो दशलक्षसुयोजनः ।
साप्तभौमो महाव्योम्नि वर्तुलो वर्ततेऽभितः ।।1.125.३० ।।
गोपुरेषु द्वादशसु राजमार्गाः सुलम्बनाः ।
प्राकाराभ्यन्तरे तत्र राजसौधं प्रयान्ति वै ।। ३ १।।
दुर्गे त्वनु राजसौधमभितो नगरी शुभा ।
दिव्या ह्ययोध्या सुभगा नारायणविनिर्मिता ।। ३२।।।
अनन्तमणिभास्करगृहपंक्तिभिरावृता ।
प्रोद्भिन्नयौवनैः रम्यैर्दिव्यनारीनरैर्युता ।।३३।।
दिव्यनदनदीयुक्ता प्रेमजलसुनिर्झरा ।
दिव्यभोज्यपानवस्त्रा संकल्पोद्भवसाधना ।।।३४।।
असंख्यदिव्यसौधादिवैष्णवगृहशोभिता ।
महाभागवतसात्त्वतात्मनिवेदिसंश्रिता ।।।३५।।।
नरा नारायणाकाराश्चतुर्हस्ताः सुवैष्णवाः ।
नार्यो लक्ष्मीसमाकारा मालाकौस्तुभभासुराः ।।३६।।
चन्दनागुरुकर्पूरकुंकुमाऽऽमोदसंयुताः ।
नानापुष्पोद्यानयानवाहनगृहसंश्रिताः ।।।३७।।
मध्ये मध्ये कल्पवृक्षोद्यानानि सन्ति भूरिशः ।
चत्वराश्चन्द्रशालाश्च विश्रान्तिशालिमण्डपाः ।।३८।।
दिव्याः सहस्रभौमाश्च सन्ति नारायणेच्छया ।
कल्पद्रुमतले स्थित्वा छायायां कमलाननाः ।।३९।।।
दिव्यसुगन्धशोभाग्र्यनानापुष्पपरिच्छदाः ।
शुभास्तरणसंवृत्तश्लक्ष्णपर्यंकसंस्थिताः ।।1.125.४०।।
सुधांशुकोटिसंकाशा दिव्याभरणभूषिताः ।
सुवर्णसुभ्रूयुगलश्लक्ष्णनासाञ्चिताननाः ।।४१ ।।
रमन्ते वैष्णवास्तत्र सच्चिदानन्दविग्रहाः।
वैष्णव्यः सर्वदा नारायणं सेवन्त आदरात् ।।४२।।
अयोध्यायां तु दिव्यायां मन्दिराणि त्वनेकशः ।
नारायणीनां देवीनां वैष्णवीनां भवन्ति वै ।।४३।।
अथाऽप्यन्तःपुराण्येव सप्राकाराणि सन्ति हि ।
सोद्यानानि समस्तेष्टसाधनान्वितकानि वै ।।४४।।
अष्टदिक्ष्वष्टसौधाः सप्राकाराः सन्ति चोन्नताः ।
अत्राष्टशक्तयो लक्ष्म्यास्तनवः परितः स्थिताः ।।४५।।
रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा ।
सुदक्षिणा सुशीला च रत्यनङ्गप्रदास्तु ताः ।।४६।।
शंखचक्रगदापद्मखड्गशार्ङ्गादिहेतयः ।
सर्वा नूत्ननवरूपा प्राप्तयौवनपूरिताः ।।४७।।
वर्तुले स्वस्वसौधेषु नारायणेन संगताः ।
तप्तकांचनसंकाशाः सर्वाभरणभूषिताः ।।४८।।
सुस्निग्धनीलकुटिलाऽलकराजिविराजिताः ।
मन्दारपारिजातादिदिव्यपुष्पविराजिताः ।।४९।।
रत्नाऽवतंसशोभाढ्याश्चिकुरान्तालिसन्निभाः ।
केयूरांऽगदहाराद्यैर्भूषणैरुपशोभिताः ।।1.125.५० ।।
पीनस्तन्यो वैष्णव्यस्ता नारायण्यो निरन्तरम् ।
क्रीडन्ति स्माऽमोघवीर्यवारिधिहरिणा सह ।।५ १।।
स वै नारायणः स्वामी सर्वदासीमनोहरः ।
क्रीडत्यन्तःपुरेष्वत्र तासां यावदनंगदः ।।५२।।
ईश्वरीभिः स देवेशो रतिं विन्दति नैकधाम् ।
सुधांक्षुकोटिसंकाशो दिव्याभरणभूषितः ।।५३।।
सुवर्णसुभ्रूयुगलश्लक्ष्णनासाञ्चिताननः ।
स्निग्धायतसुलावण्यकपोलाभ्यां विराजितः ।।५४।।
नीलकुञ्जितकेशाढ्यो रक्ताब्जदललोचनः ।
मन्दारकेतकीजातीकबरीकृतकेशवान् ।।५५।।
स्निग्धबिम्बफलाभौष्ठः सुस्मिताननपंकजः ।
अनर्घ्यमौक्तिकाभासदन्तावलिविराजितः ।।५६।।
हरिचन्दनलिप्तांगः कस्तूरीतिलकांकितः ।
उन्नतांसभुजैर्दिव्यैश्चतुर्भिरुपशोभितः ।।५७।।
जपाकुसुमसंकाशकरपल्लवशोभितः ।
स्फुरत्केयूरकटकैरङ्गुलीयैश्च शोभितः ।।५८।।
श्रीवत्सकौस्तुभाभ्यां च शोभितः पृथुवक्षसा ।
मुक्तामयसुशोभाढ्यदिव्यस्तग्भिरलंकृतः ।।५९।।
बालार्कसदृशज्योत्स्नापीतवस्त्रेण वेष्टितः ।
माणिक्यनूपुरोपेतपदपद्मविराजितः ।।1.125.६ ० ।।
अकलंकितचन्द्राभनखपंक्तिविराजितः ।
रक्तोत्पलनिभश्लक्ष्णशुभामऽघ्रियुगपंकजः ।।६१ ।।
पांचजन्यरथांगाभ्यां बाहुयुग्मे विराजितः ।
तप्तजांबूनदश्लक्ष्णशुभांघ्रिद्वयपंकजः ।।६२।।
ताभिः क्रीडति देवेशो नारायणः सनातनः ।
बहुरूपधरः श्रीमान्नैकश्रीभिः सुसेवितः ।।६३।।
प्रतिश्रि राजते राजाधिराजोऽन्तःपुरेषु सः ।
आसां नारायणमहालक्ष्मीतुल्याः समृद्धयः ।।६४।।
न न्यूना अण्वपि सन्ति नारायण्यो यतश्च ताः ।
नारायणैकपतिका नारायणैकसंश्रयाः ।।६५।।
नारायणैकसत्प्राणा नारायणात्मिका हि ताः ।
नारायणसमैश्वर्या नारायणपरायणाः ।।६६ ।।
नारायणे सदा मग्ना नारायणार्थकृत्स्वकाः ।
भजन्ति स्नेहसन्नर्महास्यविलासखेलनैः ।।६७।।
प्रेमानन्दपरिकेलिस्वांगमर्दनभावनैः ।
एतासां तु रमादीनामष्टानां वर्तुलान्तरे ।।६८।।
उद्यानस्तु महान् दिव्यश्चन्द्रशीतलभूरुहाम् ।
सुखवृक्षा मिष्टवृक्षास्तथैवाऽऽनन्दवल्लयः ।।६९।।
मणिहीरकसोपानाऽवतारकुण्डसुस्थलाः ।
अमृतनिर्झरणाढ्याश्चित्रपुष्पाः प्रदेशकाः ।।1.125.७० ।।
मौक्तिकवालुकाः स्वर्णभूमयो दुग्धवार्धयः ।
मृद्वास्तरणसुस्थानाः सुदिव्यवनराजयः ।।७१ ।।
स्वल्पानि तु विमानानि सन्ति सृतिवरास्तथा ।
जलफुत्कारयन्त्राणि दोलावृक्षाश्च शोभनाः ।।७२ ।।
कुंजा वल्लीप्रकृतिकाऽऽवरणाः सन्ति भूरिशः ।
शय्यास्थानानि रम्याणि विश्रान्तिप्रस्थलानि च ।।७३ ।।
रतिस्थानान्यनेकानि प्रच्छन्नस्थानभूमिकाः ।
नारायणेच्छया तद्वै जायतेऽपेक्ष्यते यथा ।।७४।।
अदृश्यत्वं च दृश्यत्वं प्रकाशत्वं ततोऽन्यथा ।
यथापेक्षं तदा तत्तदिच्छया परिवर्तते ।।७५।।
तादृशवर्तुलोद्यानमध्ये नारायणस्य वै ।
प्रासादः शतशिखरो वर्तते सुमहोज्ज्वलः ।।७६ ।।
शतसद्भूमिकश्चैव दिव्यरत्नमयो महान् ।
शतयोजनविस्तारो वरतोरणशोभितः ।।७७।।
विमानैर्गृहसंकाशैर्गृहैश्च बहुभिर्युतः ।
मणिमाणिक्यसद्रत्नस्फटिकोप्तसुभित्तिकः ।।७८।।
दिव्यसोपानसंराजद्गवाक्षाक्षिसुशोभितः ।
घुम्मटैर्विविधैर्युक्तः पताकाध्वजदर्शनः ।।७९।।
बहुभिः स्वर्णकलशैर्नैकचन्द्रप्रभोज्ज्वलः ।
दिव्यदासीगणैः स्त्रीभिः सर्वतः समलंकृतः ।।1.125.८ ० । ।
अन्तःपुरं महालक्ष्म्या नारायणस्य सर्वथा ।
प्रासादोऽयं भवत्येव मुख्याऽन्तःपुरमेव वै । ।८ १ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने महावैकुण्ठे व्यूहाभ्यन्तरप्राकारतद्वसतितदभ्यन्तराऽ-
योध्यावसतिरमाद्यष्टदासीप्रासादतदभ्यन्तरोद्यानतन्मध्यमहालक्ष्मीप्रासादतदुपकरणादिवर्णननामा पंचविंशत्यधिकशततमोऽध्यायः । ।। १२५ ।।