← अध्यायः १२९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १३०
[[लेखकः :|]]
अध्यायः १३१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! यथा पृष्टं त्वया मह्यं तथैव हि ।
पार्वत्याऽपि हरायेदं पृष्टं भस्मादि किं धृतम् ।। १ ।।
शंभुः प्राह तदा देवीं कथां रम्यां पुरातनीम् ।
सकारणा शृणु त्वं तामासुराणां तु मोहिनीम् ।। २ ।।
पार्वत्युवाच गुह्यं ते पृच्छामि देव शंकर! ।
मयि प्रीत्या समाचक्ष्व संशयो वर्तते भृशम् ।। ३ ।।
कपालभस्मचर्मास्थिधारणं बहुगर्हितम् ।
तत्त्वया धार्यते शंभो गर्हितं केन हेतुना ।। ४ ।।
स्त्रीचापल्येन देवेश पृच्छामि त्वां महामते ।
अप्रष्टव्यमपि प्रश्नं क्षन्तुमर्हसि मे प्रभो ।। ५ ।।
इति देव्या हरः पृष्टो रहस्ये जनवर्जिते ।
उवाच परमं गुह्यं यद्यदाचरितं स्वकम् ।। ६ ।।
शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं परम् ।
अपृथक्त्वाच्छरीरस्य वक्ष्यामि तव सुव्रते ।। ७ ।।
न वक्तव्यं त्वयाऽन्यत्र वा जनेषु कथञ्चन ।
नमुच्याद्या महादैत्याः खलाः स्वायंभुवेऽन्तरे ।। ८ ।।
महाबलपरीवारा महावीर्या महौजसः ।
यदासंस्तैरर्दिताश्च भग्ना इन्द्रपुरोगमाः ।। ९ ।।
विष्णोः समीपमागत्य रक्षणं वव्रिरे सुराः ।
अजेयान्सुमहावीरान्तपोनिर्धूतकल्मषान् ।। 1.130.१ ०।।
त्वमेवैतान्महादैत्यान् जेतुमर्हसि केशव! ।
इत्याकर्ण्य हरिस्तेषां देवानां भयमागतम् ।। १ १।।
तानवध्यान्विदित्वाथ शंकरं प्राह मां हरिः ।
त्वं हि रुद्र महाबाहो मोहनार्थे सुरद्विषाम् ।। १२।।
पाखण्डाचरणं किंचिद्धर्मं कुरुष्व मोहकम् ।
येन पथा गता दैत्या निर्बलाः स्युरधोगताः ।। १ ३।।
बलहीना भवेयुश्च निस्तेजस्काश्च सर्वथा ।
यथा स्वकर्मभ्रष्टाँस्तान्पतितान्मृतसदृशान् ।। १४।।
देवा विजित्य सुखिनो भवेयुः शून्यकण्टकाः ।
धर्मं पाखण्डमूर्धन्यं ग्रन्थान्पाखण्डकल्पितान् ।। १५।।
दैत्यमोहकरान्विष्णुविरोधिप्रवरान्कुरु ।
मलिनान्यपि चिह्नानि कल्पितानि तथा कुरु ।। १६।।
यथा वै तामसानां तत्सर्वं सुरुचिकं भवेत् ।
तवोपदेशात्ते शास्त्रात्तव कल्पितवर्तनात् ।। १७।।
तामसास्ते विनष्टा वै भविष्यन्ति स्वभावतः ।
अहं विष्णुस्तथा देवा दैत्यविश्वासहेतवे ।। १८।।
त्वया कृतं च तत्सर्वं किंचित्कालं च बाह्यतः ।
समनुमोदयिष्यामस्तेन विश्वासमागताः ।। १९।।
दैत्यास्तं कल्पितं सर्वं पाखण्डं पातकारणम् ।
सत्यधिया ग्रहीष्यन्ति ततोऽस्मद्विजयो भवेत् ।।1.130.२०।।
इत्याज्ञाग्रहणार्थं वै शंभुं प्राह तदाऽच्युतम् ।
त्वयोदितमिदं देव! करोमि यदि भूतले ।।।२१ ।।
तेन नाशोऽपि मे नाथ भवेदेव भयावहः ।
न शक्यं हि मया कर्तुमेतत्कृत्यं त्वदाश्रिणा ।।२२।।
त्वदाज्ञापि च नोल्लंघ्या ह्येतद्दुःखतरं महत् ।
एवमुक्तस्तदा देवः समाश्वास्य च मां पुनः ।।।२३।।
प्राह शंभो न ते नाशो भवेद्यत्तेऽस्मि रक्षकः ।
देवतानां हितार्थाय कुरुष्व वचनं मम ।।।२४।।
ममाज्ञया कुरु शंभो न ते बाधो भविष्यति ।
कर्ता सन्नपि निर्बाधो ह्यकर्ता मम शासनात् ।।२५।।
जपन्नामानि नित्यं मे मदाज्ञयाऽनुसंचरन् ।
करोति लौकिकं वापि नैव बध्नाति मानवः ।।२६।।।
हृदये मां स्मरन् शाश्वज्जप मन्त्रं मदर्थकम् ।
'ओं हरये नम' इतिमन्त्रं ब्रह्म समाचर ।।।२७।।
भ ज मां भक्तिलभ्यं त्वं कुरु कार्यं मदर्थितम् ।
ममाज्ञैव महान् धर्मा मद्भक्तस्य मया कृतः ।।२८।।
कामः क्रोधस्तथा लोभो वंचना कपटं घृणा ।
अशुभं वा च हिंसा वा मयोक्तं धर्म एव सः ।।२९।।
मया यदुक्तं साक्षाद्वै स एव वेद उच्यते ।
प्रत्यक्षं वा परोक्षं वा मदुक्तं वेद एव सः ।।1.130.३ ०।।
यदा नियुञ्जे कुर्विति तदा धर्मस्तु तन्मयः ।
यदा रुणध्मि मा कुरु तदा धर्मो निवर्तना ।।३ १ ।।
तस्मान्ममाज्ञा धर्मः स्यादनाज्ञा तद्विपर्ययः ।
कुरु शंभो तव कृतं पूजयिष्ये युगे युगे ।।।३२।।
तेन दैत्यास्तामसाश्च पूजयिष्यन्ति तै कृतम् ।
यथाऽहं च तथा त्वं वै निर्लोपोऽसि सदा प्रभुः ।।।३ ३ ।।
शीघ्रं कुरु हितं विघ्नान् नाशयिष्याम्यहं तव ।
मदन्यदेवताभक्तिर्न ते शंभो भविष्यति ।।३४।।
मनसैवाऽर्चय मां वै यावत्कालं प्रयोजनम् ।
मदाज्ञां कुरु मत्प्रीत्या सर्वमेतच्छुभं तव ।।३५।।
इति सन्दिश्य मां देवि! विससर्ज मरुद्गणान् ।
मयापि चिन्तितं तत्र कियत्याखण्डकल्पनम् ।।३६।।
येन दैत्या मोहिताः स्युर्निर्बलाश्चरणात्तथा ।
ततो देवहितार्थाय दैत्यसंहारहेतवे ।।३७।।
कपालचर्म भस्माऽस्थिधारणं वै कृतं मया ।
त्रिपुंड्ररेखारुद्राक्षधारणं वै कृतं मया ।।३८।।
बाह्यतस्तानि सर्वाणि वारयामि न चान्तरम् ।
अन्तःप्रविश्य देवेशि! तुलसीकण्ठमालिकाम् ।।३९।।
ऊर्ध्वपुंड्रं तथा मुद्रा वैष्णवांकानि सर्वथा ।
धारयामि प्रगुप्तानि यया दैत्या विदुर्नहि ।।1.130.४०।।
नारायणहरेराज्ञा मम धर्मः सनातनः ।
दैत्यानां च प्रतीत्यर्थं पाखण्डमिश्रितानि वै ।।४१ ।।
तामसानि शैवपाशुपततन्त्राणि निर्ममे ।
तानिमान्मत्कृतग्रन्थानालम्ब्य च विलोक्य माम् ।।।४२।।
भगवद्विमुखाः सर्वे भवन्ति दैत्यतामसाः ।
भस्मादिधारणं कृत्वा मांसाऽस्रक्चन्दनादिभिः ।।४३।।
मामेव पूजयन्ति स्म महोग्रतमसाऽऽवृताः ।
सर्वधर्मपरिभ्रष्टाः कामक्रोधसमन्विताः ।।४४।।
मत्तो वरप्रदानानि लब्ध्वा विषयवर्तिनः ।
सत्त्वहीनाश्च निर्वीर्याः शनैर्यान्त्यधमां गतिम् ।।४५।।
भस्मादिधारणं ये मे मतं गृह्णन्ति तामसाः ।
सर्वधमैस्तु रहिताः पश्यन्ति निरयं हि ते ।।४६।।
दैत्यास्तु तामसाः सर्वे तथा चान्येऽपि तन्मताः ।
सर्वदा देवैर्जिता दैत्या नश्यन्ति सर्वथा ।।४७।।
एवं देवहितार्थाय वृत्तिर्मे देवि! गर्हिता ।
विष्णोराज्ञां पुरस्कृत्य कृतं भस्मास्थिधारणम् ।।४८।।
बाह्यचिह्नमिदं देवि! मोहनार्थाय विद्विषाम् ।
अप्यन्तर्हृदये नित्यं ध्याये नारायणं हरिम् ।।४९।।
जपन्नेव च तन्नाम सदानन्दगुणाकरम् ।
सुखमात्यन्तिकं ब्रह्म ह्यश्नामि च त्वया सह ।।1.130.५०।।
ततो भक्ता ह्यसत्त्वस्था भस्माद्यं चापयन्ति मे ।
जानन्ति तामसा ये ते शंभोर्भस्मादिकं प्रियम् ।।५ १।।
मामपि तामसं देवं मन्यन्ते तै तथाविधाः ।
तामसान्यर्पयन्ति मे भंगागंजादि तामसम् ।।५२।।
अहं तु वैष्णवो देवि! न गृह्णाम्यनिवेदितम् ।
विष्णुप्रासादिकं पुण्यं गृह्णाणि नान्यदित्यतः ।।५३।।
मा त्वं मोहे पत देवि! तामसं मा गृहाण च ।
सात्त्विकं सेवय देवि! वैष्णवी ह्यसि सर्वथा ।।।५४।।
मया नारायणायैवाऽनिवेद्य गृह्यते नहि ।
किन्तु मया हरेरग्रे प्रतिज्ञातं तु भक्तितः ।।।५५।।
स्वामिभोग्यं च यद्वस्तु दासभोग्यं न तद्भवेत् ।
एवं धर्म समाश्रित्याऽनिवेद्य नहि भुज्यते ।।५६।।
भुज्यते स्वाम्यभोग्यं यद्धत्तूरकुंकुमादिकम् ।
तदाज्ञयेति नैव स्यादात्मनिवेदने क्षतिः ।।५७।।
भस्मास्थिधारणाद्या वै दैहिक्यशुद्ध्यमंगला ।
सापि शुद्धिर्मंगला तन्नामजापात् तदाज्ञया ।।५८।।
इत्येतत्ते समाख्यातं तामसांकादिधारणम् ।
सहेतुकं महादेवि! ज्ञात्वा नाऽत्र विमुह्यसि ।।५९।।।
अशुद्धिर्हिंसनं यत्र मारणोच्चाटनादिकाः ।
मन्त्राश्च तामसी पूजा यत्र स्यात्तद्धि तामसम् ।।1.130.६०।।
तन्न ग्राह्यं महादेवि! मोक्षार्थिभिः कदाचन ।
विनाशान्तं दुःखदं वै सर्वथा तामसं यतः ।।६१।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
वैष्णवशंभोर्वैष्णवीपार्वत्या भस्मास्थिकपालादिधारणस्य
कारणप्रश्नेऽसुरविमोहनाय विष्णोराज्ञया तदितिवृत्तान्त-
कथननामा त्रिंशदधिकशततमोऽध्यायः ।। १३ ०।।