← अध्यायः १३२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १३३
[[लेखकः :|]]
अध्यायः १३४ →

श्रीलक्ष्मीरुवाच-
हिरण्याक्षो यथा जातो यथा पृथ्वीं जहार सः ।
प्रभुस्तस्य विनाशाय कदा क्रोडोऽभवत्पुनः ।। १ ।।
इति दिव्यां कथां विष्णोः सम्बन्धरसदायिनीम् ।
कथयस्व हरे कृष्ण तृप्यामि न कथाश्रवे ।। २ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! मारिचेस्तु कश्यपस्याऽधिकारिणी ।
पत्नी दितिश्चकारोग्रं तपः पुत्रसुलब्धये ।। ३ ।।
प्रथमं सा मृतं पुत्रं शुशोच बहुवासरान् ।
हयग्रीवं पुनः पुनः संस्मृत्य तनुतां गता ।। ४ ।।
न खादति सुभोज्यानि वारिपानादि नेच्छति ।
न वै श्रांगारिके भावे प्रहृष्यति कदाचन ।। ५ ।।
यदा यदा कश्यपस्य मुखं पश्यति भामिनी ।
नेत्रयोर्जलधारा वै तदा पतति शोकतः ।। ६ ।।
प्रवासितो निष्कासितो विचित्तो विधुरोऽपि वा ।
सन्न्यस्तः परलोकस्थः पुत्रो दहति मातरम् ।। ७ ।।
हयग्रीवं गृहात्स्वात् वै निष्कासितमपि मृतम् ।
श्रुत्वा शुशोच बहुधा पुत्रस्नेहो हि तादृशः ।। ८ ।।
विष्णोः पुत्रनाशयितुर्नाशार्थं सा मनो दधे ।
नष्टपुत्रप्रतीकारं बहुधाऽऽप्तुं समीहते ।। ९ ।।
बलवन्तौ मम पुत्रौ भवेतां विष्णुनाशिनौ ।
येन ज्येष्ठहयास्यस्य निष्कृतिं बहुधा लभे ।। 1.133.१ ०।।
विना वै तपसां सिद्धिं नैव स्यान्मे मनोरथः ।
एवं विचार्य सा देवी शतवर्षं तपोऽकरोत् ।। १ १।।
कन्दमूलफलाहारा पञ्चाशद्वर्षमास्थिता ।
पञ्चविंशतिवर्षाणि जलाहाराऽभवत्तथा ।। १२।।
पञ्चदशप्रवर्षाणि बाष्पाहाराऽभवत्पुनः ।
दशवर्षाणि सा देवी निराहाराऽभवत्तथा ।। १३।।
दितिस्तपसा ब्रह्माणमाराधयत्पुनः पुनः ।
नान्यत्पश्यति सुभगा नान्यं स्पृशति सर्वथा ।। १४।।
नान्यत्करोति शृंगारं सर्वदा तपसि स्थिता ।
स्वपिति भूतले नित्यं नांगमर्दनमिच्छति ।। १५ ।।
 'ओं नमो ब्रह्मणे तुभ्यं प्रजानां पतये नमः ।
प्रजां देहि प्रजां देहि विष्णुतुल्यपराक्रमाम्' ।। १६।।
एवं मन्त्रजपं नित्यं नियमेन करोति सा ।
वर्षशतं नीतवती तपो निर्विघ्नमेव हि ।। १७।।
त्वगस्थिशेषशुष्का सा महापूजनमाचरत् ।
उक्तमन्त्रेण होमं वै चकार दशलक्षकम् ।। १८।।
अन्ते ब्रह्मा समागत्य प्राह तां तापसीं वधूम् ।
किं ते लभ्यं भवेद्देवि! ब्रूहि ददामि मा तप ।। १ ९।।
वृणु शीघ्रं च ते काम्यं पूरयिष्ये तपोबलात् ।
नाऽदेयं ते कृते मेऽस्ति किमप्यत्र द्रुतं वृणु ।।1.133.२० ।।
दितिस्तं वेधसं नत्वा सलज्जा प्राह मानसम् ।
स्वागतं मे वृद्धमान्यश्वशुरस्य करोम्यहम् ।।२१ ।।
प्रपितुश्च पदोर्नत्वा वन्दे पूज्यं प्रपूर्वजम् ।
क्षमां याचेऽपराधस्य यदि स्यादविनीतता ।।२२।।
वृद्धा वंशाऽवितारोऽनुग्रहं कुर्युर्न चेद् यदि ।
तर्हि वंश्या दुःखिनो वै क्व चेयुः शरणं परम् ।।२३।।
यदि शक्ताः पूर्ववृद्धा वंश्यानां कामपूरणम् ।
न कुर्युश्चेत्तदा वंश्योद्धारकाः स्युश्च केऽपरे ।।२४।।
ततोऽहं निर्णयं कृत्वा पूज्याद् वृद्धपितामहात् ।
प्राप्स्ये स्वेष्टस्य संसिद्धिमेवं तपसि संस्थिता ।।२५।।
वृणोमि प्रबलौ पुत्रौ विष्णुवीर्यपराक्रमौ ।
याभ्यां ज्येष्ठस्य पुत्रस्याऽपचितिः स्यान्मदींगिता ।।२६।।
ब्रह्मा प्राह तथाऽस्त्वेव नारायणः करोतु तत् ।
भविष्यतस्ते सत्पुत्रौ विष्णुतुल्यपराक्रमौ ।।२७।।
विष्णुर्वा विष्णुभक्तौ वा विष्णुसाम्यपराक्रमौ ।
नान्यत्राऽस्ति क्वचित्क्वापि विष्णुतुल्य पराक्रमम् ।।२८।।
तस्मान्नारायणं गत्वा वैकुण्ठं प्रार्थयाम्यहम् ।
दितिमाशीः प्रदत्वैव ब्रह्मा त्वन्तरधीयत ।।२९।।
गतः स द्राङ्महावेगान्महावैकुण्ठमित्यथ ।
यत्र नारायणो देवो भगवान् भक्तरक्षकः ।।1.133.३० ।।
राजाधिराजः सर्वेषां शंकर्ता हि विराजते ।
नत्वा स्तुत्वा चोपविश्याऽऽसने कृष्णं जगाद ह ।।३ १ ।।
दीनबन्धो दयासिन्धो जगदुद्धारकृद्भवान् ।
दित्यै तपःफलं दातुं समर्थोऽस्ति सदाऽच्युत ।।।३२।।
तयाऽर्थितौ सुतौ नारायणतुल्यौ पराक्रमैः ।
त्वमेव तौ प्रदानाय विचारं कुरु माधव ।।।३३।।
यथा तस्या भवेतां वै पुत्रौ स्वेष्टौ तथा कुरु ।
नारायणस्तदा स्वस्य ज्येष्ठभ्रातुस्तु वेधसः ।।३४।।
वचनं सफलीकर्तुं विचारं कृतवान् हृदि ।
निमित्तं किंचिदुत्पाद्य पूरयेयं मनोरथम् ।।३५।।
यन्निमित्तमुपागृह्य ममापि गमनं भुवि ।
यन्मिषेण मनुष्याणां मल्लीलाचरितानि च ।।३६ ।।
गेयानि च मिलिष्यन्ति तेन यास्यन्ति मोक्षणम् ।
तस्मादेतन्निमित्तं मे भक्तार्थं सुखदं भवेत् ।। ३७।।
मद्भक्तौ मत्समौ स्यातां मदन्यूनपराक्रमौ ।
दितेस्तावेव सत्पुत्रौ कारयित्वा मम द्रुहौ ।।३८।।
तपःफलं प्रदातव्यं मम कार्यं तथा भवेत् ।
विचार्येति हरिः साक्षादविनयं स्वपार्षदौ ।।३९।।
द्वास्थौ जयविजयाख्यौ प्रावेशयन् स्ववाञ्च्छया ।
सनन्दनादिचतुरः प्रैरयन्निजदर्शने ।।1.133.४०।।
यावच्च वेधसा साकं विष्णोर्वार्ता भवत्यति ।
तावत्तु ब्रह्मणः पुत्राः संकल्पवेगवत्तमाः ।।४१।।
विष्णोस्तु दर्शनं कर्तुमाजग्मुः सनकादयः ।
सनातनश्च सनकः सनन्दनस्तृतीयकः ।।४२।।
सनत्कुमारस्तुर्यश्च सर्वे ते ब्रह्मवर्चसः ।
ब्रह्मणो मानसाः पुत्राः सर्वज्ञा ज्ञानमूर्तयः ।।४३।।
वैराग्यं च तृणीकृत्य वर्तमाना दिगम्बराः ।
ते पञ्चहायनाः सौम्या ब्रह्ममूर्तय एव च ।।४४।।
नरनारीशरीरस्था दोषा यत्र न सन्ति वै ।
भगवन्तं विना येषां वृत्तयो नान्यसञ्चराः ।।४।।।
ब्रह्मदृष्टिं विना येषां दृष्टिर्नोद्भवति क्वचित् ।
येषां हृत्सु हरेर्मूर्तिं विना नान्यद्विशत्यपि ।।४६।।
नामानि प्रगृणन्तस्ते चायान्ति राजमार्गतः ।
वैकुण्ठवासिनोऽनेके वैष्णवा यान्ति ताननु ।।४७।।
प्रशंसन्ति च तान्बालानहो पश्यत वैष्णवाः ।
रूपे कृष्णसमाश्चैते मन्दहास्यास्यचन्द्रकाः ।।४८।।
स्वर्णवर्णाः सूर्यतुल्यास्तेजोपरिधिशोभनाः ।
मनोहार्यंगसंपुष्टाः स्थलपद्मांगकोमलाः ।।४९।।
नातिदीर्घस्वर्णवर्णस्निग्धप्रान्ताऽलकाऽन्विताः ।
किरणोद्गमभालेन मुष्णन्तो जनमानसम् ।।1.133.५०।।
शरदब्जदलनेत्रस्थिरदृष्ट्यतिहृद्गमाः ।
रक्तपल्लवसत्ताम्ररक्तौष्ठचित्तहारकाः ।।५ १ ।।
कृतोर्ध्वपुंड्रकाः सर्वे कर्णपुष्पावतंसकाः ।
देवैर्धृतार्चनहाराः कोटिकोट्यर्कभासुराः ।।५२ ।।
वामस्कन्धब्रह्मसूत्राः कटिस्थमुञ्जमेखलाः ।
रूपानुरूपावयवाः स्वर्णाभकरपत्तलाः ।।५३ ।।
कण्ठे करे च तुलसीमालां बिभ्रन्त ऐश्वरीम् ।
स्वर्णरेखामहालक्ष्मीवासो वक्षसि दृश्यते ।।५४।।
नारायणसमा रूपे चाकृतौ कृष्णसदृशाः ।
श्वैत्ये ध्याने शंभुरूपाः शरीरे ब्रह्मणाः समा ।।५५।।
भक्तौ लक्ष्मीसमाश्चैते के भवेयुर्जना इमे ।
पश्यन्तु वैष्णावास्त्वेतान्महापुरुषलक्षणान् ।।२६।।
अस्मद्भाग्यवशादेतान्पश्यामो देवपुरूषान् ।
इतिद्वितीयवैकुण्ठवासिनो वैष्णवा ह्यमून् ।।५७।।
प्रशंसन्ति प्रपश्यन्ति तृप्तिं यान्ति न दर्शने ।
आगच्छतां च नग्नानां सर्वेषां बालरूपिणाम् ।।५८।।
गोपुर आगतो यत्र द्वाःस्थौ द्वारं हि रक्षतः ।
जयश्च विजयश्चैव प्रोत्तस्थतुः सवेत्रकौ ।।५९।।
तावनापृच्छ्य गच्छन्ति यावत्तावत्सवेत्रकौ ।
प्राहतुः का इमे नग्ना गच्छन्त्यन्तःपुरं कथम् ।।1.133.६०।।
तिष्ठन्तु नैव गच्छन्तु प्रत्यावर्तन्तु के गताः ।
अविनयेन चाविष्टाः प्रतिषेधन्ति तान्मुहुः ।।६ १।।
तथापि तावनादृत्य गच्छन्ति ब्रह्ममानसाः ।
किं द्वारं के द्वारपाला नैव पश्यन्ति योगिनः ।।६२।।
आत्मतत्त्वं विना चान्यद् येषां दृष्टौ न किल्बिषम् ।
तेषां को वा विधिश्चाथ निषेधो रोध एव कः ।।६३।।
मा गच्छन्तु च मा यान्तु क एते बधिराः किमु! ।
रे स्तब्धाः कन्यकादृश्याः के यूयं पायुगूभराः ।।६४।।
अज्ञाताः क्व न्विमे यान्ति जय गच्छ निवर्तय ।
के वै गर्दभिकापुत्राः कस्माच्छूनीसुता इमे ।।६५।।
अत्र चैवागताः सन्ति सबध्नन्तु जना इमान् ।
ताडयन्तु च पाषाणैर्बन्धयन्तु द्रुमैः सह ।।६६।।
निर्लज्जा यान्त्यगणय्य दृश्यन्ते वै निरञ्जनाः ।
अरे वः पितरौ स्तो वा मृतिं यान्तौ कथं मृगाः ।।६७।।
विवस्त्रा निष्परिग्रहाः कस्य भ्रमथ मार्गणे ।
न सन्ति मातरो वोऽत्र द्रुतं धावन्त्वितः स्थलात् ।।६८।।
निवर्तन्ते न चेदेते यष्टिं कुरु गुदस्थले ।
इत्येवं विजयो यावज्जयं वक्ति तदा पुनः ।। ६९ ।।
परावृत्य च संस्थित्वा श्रुतं सर्वममंगलम् ।
न गच्छन्त्यग्रतस्तावन्न वदन्ति किमुत्तरम् ।।1.133.७० ।।
जयो गत्वा स्ववेत्रेण तान्पृष्ठे मृद्वताडयत् ।
मध्ये नितम्बयोस्तेषां लकुट्या समपीडयत् ।।७ १ ।।
दत्वा चपेटिकां गण्डे मस्तके समताडयत् ।
लिंगां गृहीत्वा चैतेषां छेदयन्त्वित्यभीषयत् ।।७२।।
इति भर्त्स्य तिरस्कृत्य प्रकोष्ठे परिगृह्य च ।
बद्ध्वैकवल्लिकारज्ज्वा चतुरोऽप्यनिष्कासयत् ।।७३ ।।
धूलीः प्रक्षिप्य पृष्ठे तान् मुखे कार्ष्णमकारयत् ।
इत्येवं जयविजयावविनयेन मोहितौ ।।७४।।
बालान्मत्वा तिरस्काराद्यपराधान्प्रचक्रतुः ।
तावद्रमा जया चान्याः सख्यो विहर्तुमुत्सुकाः ।।७५ ।।
तद्गोपुरेण निर्गत्य यान्त्यस्तान्ददृशुस्तदा ।
परिचितान्विष्णुरूर्पौंश्चतुर्नारायणानिमान् ।।७६।।
पतित्वा पादयोस्तेषामर्हणं चक्रिरेऽवनम् ।
धूलीनिर्धूननं रज्जुबन्धप्रमोक्षणं तथा ।।७७ ।।
पादयोश्चुम्बनं चैव मार्जनं चक्रिरे मुहुः ।
अहो केनेव दुष्टेन नाथानामर्दनं कृतम् ।।७८ ।।
कस्य हस्तौ च पादौ च भग्नौ भाग्यं च विस्फुटम् ।
वा कस्याऽन्नमितः स्थानात् समाप्तिमगमत् खलु ।।७९ ।।
कस्य जलं तूद्विनष्टमुदियाय रविर्घृणी ।
कस्य वा पुण्यरेखाऽद्य त्रूटिता धरणीं गता ।।1.133.८ ०। ।
एतादृशानां साधूनामवमानं तु कैः कृतम् ।
तेषां नैवात्र वासोऽस्ति भवेन्नैव विदन्तु ते ।।८ १ ।।
यावन्नारायणोनैव जानाति तावदेव हि ।
अवमानयितुस्त्वत्र स्थितिः पश्चात्तु नास्ति हि ।।८ २ ।।
इत्येवं लपमानास्ता दृष्ट्वा दृष्ट्वा रुदन्ति च ।
तावल्ललितया गत्वा नारायणाय वेदितम् ।।।८३ ।।
यावच्छृणोति देवेशो द्राक् पद्भ्यां धावितः स्वकात् ।
सिंहासनात् समुत्थायाऽप्रावृताभ्यां चिरवेद च ।।८४।।
यावदायाति वै तत्र गोपुरे श्रीहरिः स्वयम् ।
तावत्तु लक्षशः पत्न्यः कोटिशो वैष्णवा अपि ।।८५ ।।
समाजग्मुः स्थले तत्र प्रणेमुः सनकादिकान् ।
श्रीहरिस्तान् चतुःसाधून् प्रणनाम सदण्डवत् ।।८६ ।।
किं कृतं केन चेत्येवमपृच्छदवमानकम् ।
भवादृशानां साधूनां कृतं येनाऽवमाननम् ।।८७।।
न स मे गोपुरे चैव वैकुण्ठे वासमर्हति ।
मम पादौ च हस्तौ साध्वपराधकरौ यदि ।।८८।।
छिन्द्यां तौ यदि नेत्रं वा जिह्वां वा कर्तयामि ताम् ।
लक्ष्मीं स्वकां जहाम्येव साध्वपराधकारिणीम् ।।८९।।
लोकवायुस्पर्शहीनाः किल्बिषाऽस्पृष्टमानसाः ।
बाला अपि विहरन्ति कल्याणाय गृहार्थिनाम् ।।1.133.९० ।।
बाला अपि न वै बाला मोक्षादेः पितरो मताः ।
पावनाः पापिनां लोकपावका विचरन्ति हि ।।९ १।।
क्षमापयन्त्वपराधान् कृपां कृत्वा ममोपरि ।
अन्तःसौधं समायान्तु गृह्णन्तु दाससेवनम् ।।९२।।
इत्यभ्यर्थ्य च तेषां वै पादपांसून् शिरस्यधात् ।
नीत्वा नारायणस्ताँश्च यावदायाच्च गोपुरे ।।।९३।।
पार्षदौ जयविजयौ तावत्तेजोविहीनकौ ।
म्लानमुखौ सकम्पौ च दृष्टौ नारायणेन वै ।।९४।।
तावत्तैः शिशुभिः प्रोक्तं हरेर्धाम्न्यत्र निर्गुणे ।
पवित्रे सर्वथा शान्ते सुखदे मोक्षभूमिके ।।९५।।
निर्विकारे महासौम्ये दिव्ये हरिनिकेतने ।
नेदृशौ द्वारपौ योग्यौ दुःखदौ मौक्षनाशकौ ।।९६।।
सविकारौ तथा क्रुद्धावश्लीलवाचौ स्तब्धकौ ।
शिष्टाचाररहितौ चाऽसुरवत्कृत्यकारिणौ ।।९७।।
यतो योग्यावासुरिं वै योनिमेव प्रसेवितुम् ।
न तु योग्यौ शुद्धसत्त्ववैकुण्ठं धाम सेवितुम् ।।९८।।
श्रीहरेः पादयोरेतौ क्रूरौ योग्यौ न वै मतौ ।
यत्पापामासुरीं योनिं युवां यातं पदच्युतौ ।।९९।।
यावद्वै पततः स्थानात् शापयोगात्तदा पुनः ।
प्रार्थयामासतुर्विप्रान्क्षमार्थं चाश्रुनेत्रकौ ।। 1.133.१०० ।।
नारायणेच्छया प्रह्वीभावं याता दयालवः ।
मुनयः शिशवश्चाहुस्तानात्रिजन्म तत्तथा ।। १० १।।
ततश्चासुरभावं तु विहायैतत्समाप्स्यथः ।
पुनर्दौवारिकत्वं वै गमिष्यामो न संशयः ।। १ ०२।।
एवं शप्तौ स्वभवनात्पतितौ विष्णुलोकतः ।
दितेः पुत्रौ तु तौ जातौ महादैत्यौ महाबलौ ।। १ ०३।।
वैकुंठे च तयोः स्थाने अजं अजयमेव च ।
नियुयोज हरिर्द्वारपालौ यावत्तदागमः ।। १ ०४।।
लक्षकोटिदासदासीरमारामाजयादिभिः ।
आतिथ्यं पूजनं चापि भोजनं पादवाहनम् ।। १ ०५।।
विविधं सेवनं पानं मर्दनं शयनादिकम् ।
सम्पादितं चतुर्णां तु सनकादिकशंजुषाम् ।। १०६।।
कृत्वैव दर्शनं सम्यक् दत्वा च दर्शनं स्वकम् ।
पुण्यं नीत्वा च दत्वा चागता लोकं तु सत्यकम् ।। १०७।।
वेधसा सह चायातास्ते वै स्वपितृमन्दिरम् ।
ततो गताः कश्यपं वै द्रष्टुं मेरौ ततश्च ते ।। १०८।।
पुत्रयोर्हरिसमयोराशीर्वादान्विधाय च ।
जग्मुर्धाम हरेर्दिव्यं श्वेतद्वीपं सदासनम् ।। १ ०९।।
अथ जयश्च विजयो ह्यासुरं भावमास्थितौ ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजोऽभवत् ।। 1.133.११० ।।
वर्षशतं गर्भसंस्थौ न च जन्म ह्यवापतुः ।
यदि जन्म भवेत्तर्हि दुःखं प्राप्स्यावहे यतः ।। ११ १।।
जन्म नैव परिग्राह्यमिति मत्वा न निर्गतौ ।
नारदेन तदागत्य तत्र तौ तु प्रबोधितौ ।। १ १२।।
जन्मनां ग्रहणेनैव त्रिजन्मान्ते पुनः स्वकम् ।
प्राप्स्यथो वैष्णवं धाम पार्षदौ च भविष्यथः ।। १ १३।।
इत्यादिश्य ततो मन्त्रमादिदेश पुनस्तथा ।
लक्ष्मीनारायणेत्येवमाश्राव्याऽऽज्ञापयत्तदा ।। १ १४।।
द्वेषभावेन वै लक्ष्मीनारायणं भजिष्यथः ।
द्वितीये जन्मनि सीतारामं चैव भजिष्यथः ।। १ १५।।
तृतीये जन्मनि कृष्णं नरं चापि भजिष्यथः ।
ततो मुक्तिं प्रगन्तारौ भविष्यथो न संशयः ।। १ १६।।
इति चोक्त्वा गतो देवो नारदः स्वं त्रिलोकनम् ।
अटनार्थं पार्षदौ त्वासुरौ जन्म ह्यवापतुः ।। १ १७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमं कृतयुगसन्ताने दितेः पुत्रार्थं तपो वेधस आशीर्वादो वैकुण्ठगमनं तत्र विष्णुं सम्प्रार्थ्य वेधसा नारायणसमपुत्रप्राप्तिवरदानकथनं ततो हरिप्रेरणया सनकादीनां वैकुण्ठगमने जयविजयाभ्यां तिरस्कृते जन्मत्रयाऽसुरभावप्रातिशापेन हिरण्य-
कशिपुहिरण्याक्षजन्मादिवृत्तान्तकथननामा त्रयस्त्रिंशदधिकशततमोऽध्यायः ।। १३३।।