← अध्यायः १६१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १६२
[[लेखकः :|]]
अध्यायः १६३ →

श्रीलक्ष्मीरुवाच-
सती च पार्वती देवी गणेशजननी प्रभो ।
भवता कथिता पूर्वं कथं सती कदा ह्यभूत् ।। १ ।।
या तु नारायणमूर्तौ सत्ता च सार्वभौमिकी ।
सतीरूपा समुद्भूता सेयं वाऽन्येति का सती ।। ग्र ।।
सैव सती पार्वती वा पार्वत्यन्या शिवप्रिया ।
इति मे संशयं कृष्ण छिन्धि नारायणाऽच्युत ।। ३ ।।
श्रीनारायण उवाच-
समीचीनं त्वया पृष्टं गुह्यं चानादिकालिकम् ।
जानन्तोऽपि न जानन्ति चान्ये वृत्तान्तमीदृशम् ।। ४ ।।
शृणु लक्ष्मि! कथयामि याथातथ्येन तत्कथाम् ।
यच्छ्रुत्वा तेऽपि भानं स्यात् सती किमात्मिकाऽस्ति यत्। ।। ५ ।।
सर्वैश्वर्यसर्वशक्तियुतः श्रीपुरुषोत्तमः ।
महत्येव प्रतिसर्गेऽक्षरे धाम्न्येक एव सः ।। ६ ।।
विराजते तदन्यद्वै सर्वं संहृत्य चात्मनि ।
राजाधिराजो भगवानेकाकी रमते नहि ।। ७ ।।
चिरं द्वितीयमैच्छत्स मूर्तेर्वामांगतस्तदा ।
मुक्तान्धामान्यनेकानि गुणानैश्वर्यपार्षदान् ।। ८ ।।
अवतारानीश्वराँश्चेश्वराणीर्दिव्यमूर्तिकान् ।
दासीटदासाननेकाँश्च त्रीन्गुणान्शाश्वताँस्तथा ।। ९ ।।
प्रादुश्चकार भगवान् सर्वसत्ताधिपो हरिः ।
सर्वनियामिका सार्वभौमा सत्ता च या हरौ ।। 1.162.१० ।।
अनादिनी स्थिता चासीत्प्रादुर्भावमवाप सा ।
त्रिगुणात्मा च सा सत्ता सर्वसृष्टिजनन्यथ ।। ११ ।।
महामाया सत्त्वरजस्तमआत्मा ह्यभूद्धि सा ।
साम्यावस्था च सा माया ब्रह्मरूपा हरिप्रिया ।। १२।।
राधारूपा महालक्ष्मीरूपा रमास्वरूपिणी ।
लक्ष्मीरूपा च सावित्रीरूपा भवति वै मुहुः ।। १३।।
वैराजस्य ललाटाद्वै यदा रुद्रो भवाम्यहम् ।
रुद्राणी च तदा माया पत्नी मे जायते हि सा ।। १४।।
सोऽहं शिवस्वरूपेण तत्र प्राविर्भवामि तु ।
तत्र तत्र मया साकं जायते मे सहायिनी ।। १५।।
सैव मदंगना माता शिवा सा सतीरूपिणी ।
यथा जन्मवती जाता तत्सर्वं शृणु मे प्रिये ।। १६।।
वैराजस्य यथा पत्नी ब्रह्मादीन्सुषुवे तु सा ।
तदा माना तु सा देवी ब्रह्मादीनां ह्यभूत् खलु ।। १७।।
ब्रह्मणश्च ललाटाद्वै रुद्रः शंभुरजायत ।
यदा तदा शंभुपत्नी स्नुषा सा ब्रह्मणो ह्यभूत् ।। १८।।
दक्षपुत्री यदा जाता तदा सा ब्रह्मणः खलु ।
पुत्रस्य पुत्री समभूत् सत्तारूपा तु सा सती ।। १९।।
भ्राता तु ब्रह्मणः शभुर्विराट्पुत्रोऽभवद्यदा ।
तदा सा भ्रातृजाया वै ब्रह्मणः परिकीर्तिता ।। 1.162.२०।।
इत्येवं तु महामाया महालक्ष्मीस्वरूपिणी ।
यथाकार्यं स्वयं भूत्वा वर्तते सृष्टिधारिणी ।।।२ १।।
वैराजनाभेः कमलाद् ब्रह्मा यदा त्वजायत ।
तदा तस्य तपो दृष्ट्वा विष्णुर्भ्राता ह्यजायत ।।२२।।
द्वयोर्महत्त्वे कलहोऽभवत् तस्य निवृत्तये ।
मध्ये तु श्रीहरेस्तेजःकिरणं ह्यभूत् ।। २२।।
तदा तत्र तु किरणे शिवोऽदृश्यत स प्रभुः ।
तेनापि सह माया सा शिवाऽदृश्यत वै तदा ।।।२४।।।
ब्रह्मणा तु तदा तौ द्वौ प्रार्थितौ स्वसहायकौ ।
स एव प्रार्थितः सदाशिवो वैराजभालतः ।।२५।।।
समुत्पन्नः शंभुरूपस्तदा शिवापि चांगना ।
समं शिवेन सञ्जाता शिववामे व्यवस्थिता ।।२६।।
अर्धनारीनररूपः शिवो वै वर्तते तदा ।
अथ कार्यवशान्नारीरूपा पृथक् शिवा त्वभूत् ।।।२७।।
शृणु लक्ष्मि! कथयामि यथाऽभूद् दैत्यनाशिनी ।
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ।।५८।।
उत्पन्नेति तदा लोके सा नित्याऽप्यभिधीयते ।
एकदा तु स्वयं ब्रह्मा प्रथमे वै कृते युगे ।।।२९।।
तपसि स्थित एवाऽभूत् कमलेऽथ तदा शिवः ।
समाधौ ध्यानमग्नोऽभूत् सृष्टिचिन्तनवर्जितः ।।1.162.३० ।।
विष्णुस्तु शेषशयने विरामेऽभूच्च योगिवत् ।
प्रातः सृष्टेः समारंभे प्रायः काले ह्युपस्थिते ।।।३ १ ।।
जाग्रद्भावे तदा विष्णोः कर्णयोर्मलयोगतः ।
कण्डूः पुनःपुनस्तत्र समजायत पद्मजे! ।।३२।।
विष्णुना च तदा स्वर्णशलाकाप्रान्तयोजनात् ।
कण्डूर्निरसिता कर्णमलात्तु गुटिकाद्वयम् ।।।३३।।
बहिर्निष्कास्य च द्वे ते प्रक्षिप्ते गुटिके जले ।
ततो द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ।।३४।।
कर्णमलात्समुत्पन्नौ महाबलपराक्रमौ ।
विष्णुमानम्य सहसा जलोपरि समागतौ ।।३५।।
ताभ्यां तत्राऽऽलोकितं वै कमलं ब्रह्मणा युतम् ।
विचित्रं तद्विलोक्यैतौ हन्तु ब्रह्माणमुद्यतौ ।।३६।।
ब्रह्मा तदा भयं प्राप्य तुष्टाव तु जनार्दनम् ।
एकाग्रमानसो भूत्वा सन्तुष्टाव मुहुर्मुहुः ।।३७।।
मुहुरप्रार्थयत् स्वस्य रक्षणाय तदा पुनः ।
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ।।।३८।।
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।
तदा तावसुरौ मोहयितुं च भगवान् हरिः ।। ३९।।
सस्मार तु महामायां तां शिवाऽऽर्धांगसंस्थिताम् ।
द्रागेव शिवमूर्तेः सा पृथङ्नारीस्वरूपिणी ।।1.162.४० ।।
भूत्वा दासीव देवेशी समागत्य पुरःस्थिता ।
भगवाँस्तां तदा स्वस्य नेत्रयोः स्वीचकार हि ।।४१ ।।
उवाचैनां महामाये! मयि व्याप्नोतु सर्वथा ।
नेत्राऽऽस्यनासिकाबाहुहृदयोर्वंघ्रिषु द्रुतम् ।।।४२।।
मां यथा तौ प्रपश्येतां नारीं मोहकरीं शुभाम् ।
स्वीकृत्याऽऽज्ञां यथा माया शिवा मोहमयी स्वयम् ।।।४३ ।।
विष्णुमूर्तौ तदा जाता मया जवनिका यथा ।
अन्तर्विष्णुर्बहिर्माया विष्णुगर्भा च मातृवत् ।।४४।।
दृश्यते च तदा तावत् ददृशाते च तां च तौ ।
दैत्यौ मुमुहतुर्तां तु दृष्ट्वा तेजःस्वरूपिणीम् ।।४५।।
तौ तदाऽतिबलोन्मत्तौ महामायाविमोहितौ ।
उक्तवन्तौ वरोऽस्मद्भ्यां वृणु त्वं शुभदर्शने! ।।४६।।
प्रच्छन्नो भगवाँस्तत्र मायाजवनिकागतः ।
उवाच तौ महाप्रेम्णा तयोराकर्षयन्मनः ।।४७।।
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ।
किमन्येन वरेणात्र मम त्वेतावता कृतम् ।।४८।।
मोहितौ कामसंकल्पात् वंचितौ ज्ञानमार्गतः ।
भानहीनौ तदा जातौ कार्याऽकार्याविवेकिनौ ।।४९।।
ब्रह्मकमलवासात्मजलं दृष्ट्वा समन्ततः ।
ऊचतुर्जहि यत्रास्ति जलहीना क्षितिस्तु नौ ।।1.162.५० ।।
तावदाद्ये कृतयुगे जलं वै लीनतां गतम् ।
पृथिवी जलशून्या चादृश्यत गोलकात्मिकी ।।५१ ।।
तदा भगवता तत्र शंखचक्रगदाभृता ।
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ।।५२।।
सेयं मोहकरी माया मोहनी नामतोऽभवत् ।
तस्यै प्रसन्नो भगवान् ब्रह्मा तुष्टाव सांजलिः ।।५३।।
नमो मात्रे नमः स्वस्रे दुहित्रेऽस्तु नमोनमः ।
नमोऽस्तु भ्रातृजायायै शिवायै ते नमोनमः ।।५४।।
नमः पत्न्यै नमः कार्यसाधिकाशक्तये नमः ।
नमोऽस्तु वैष्णवीदेव्यै वामांगायै नमोनमः ।।५५।।
लक्ष्मीस्त्वं सा च सावित्री त्वं देवी जननी परा ।
त्वयैव धार्यते सर्वं त्वयैतत्सृज्यते जगत् ।।५६।।
त्वयैतत्पाल्यते देवि! त्वमत्स्यन्ते च सर्वदा ।
महाविद्या महामाया महामेधा महास्मृतिः ।।५७।।
महामोहा च भवती महादेवी महासुरी ।
त्वं श्रीस्त्वमीश्वरी त्वं ब्रह्माणी देवसहायिनी ।।५८।।।
खड्गशूलगदाचक्रशंखचापकृताऽऽयुधा ।
भुशुण्डीपरिघप्राशबाणसत्तोमरायुधा ।।५९।।
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाऽखिलात्मकम् ।
तस्य सर्वस्य या शक्तिस्त्वमेतत्कार्यसाधिका ।।1.162.६० ।।
शंभोरर्धांगना तन्वी विष्णोरर्धांगना रमा ।
वेधसोऽर्धांगना ब्राह्मी सृज्यदेवेषु संवस ।।६१।।
इत्यर्थ्यमाना सा देवी ब्रह्मविष्णुपिनाकिषु ।
मोहिनी मोहिका स्वस्य निवासमकरोत्तथा ।।६२।।
अदृश्यभावमापन्ना ययौ विष्णुः पयोनिधिम् ।
ब्रह्मा विष्णोस्तनौ सृष्टिं दृष्ट्वा प्राग्वत्। ससर्ज ताम् ।।६३।।
ऋषीन् मुनींस्तथा पितॄन् देवान् सुराँश्च मानवान् ।
दैत्यान् सर्पान् स्थावराँश्च तेषु मोहिन्युवास सा ।।६४।।
तेजोबलप्रसौन्दर्यरूपिणी साऽवसत् खलु ।
इन्द्रियेषु महामाया सर्वकार्यप्रसाधिका ।।६५।।
तत्तज्जातीयरूपाणि व्यतनोद् देहसुन्दरी ।
सौन्दर्यं नरनारीषु व्यजायत तयैव तत् ।।६६।।
अथ कालान्तरे सा च महिषासुरनाशिनी ।
प्रादुरभूत्सुरकार्यकारिणी जगदीश्वरी ।।६७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने परब्रह्मणोऽर्धांगनात्मकमहामायया धृतराधालक्ष्मीसावित्रीशिवादिरूपाणां वर्णनं मधुकैटभ-
नाशार्थं धृतमोहिनीस्वरूपवर्णनं चेत्यादि निरूपणनामा द्विषष्ठ्यधिकशततमोऽध्यायः ।। १६२।।