← अध्यायः १७३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १७४
[[लेखकः :|]]
अध्यायः १७५ →

श्रीनारायाण उवाच-
शृणु लक्ष्मि सुतास्नेहात् स्वयं दक्षप्रजापतिः ।
सुतासंभावनार्थं वै समायाच्छंकरगृहम् । । १ । ।
समायान्तं महादेवो दक्षं दृष्ट्वा यथोचिताम् ।
दक्षाय प्रददौ पूजां सत्कारं च यथोचितम् ।। २ । ।
दक्षस्तु मानवान् शंभुर्मानहीनो मुनीश्वरः ।
द्वयोस्तु मीलने दक्ष इयेषाधिकसत्कृतम् । । ३ । ।
शंभुना मुनितुल्यं वै सम्मानं तस्य संकृतम् ।
किन्तु चोत्थायाऽभियानं तत्र नाचरितं तदा । । ४ । ।
तत्र हेतुर्महानासीच्छृणु लक्ष्मि! हितावहम् ।
तपसा चाथ धर्मेण योगेन श्रेष्ठतां गतः ।। ५ ।।
स्वापेक्षयाऽपकृष्टस्याऽऽगमे नोत्थानमाचरेत् ।
श्रेष्ठे समुत्थितेऽल्पस्य सर्वपुण्यक्षयो भवेत् ।। ६ । ।
विचार्येत्थं हरस्तत्र दक्षं प्रति न चोत्थितः ।
किन्तु दक्षस्तमोभावं प्राप्य चुकोप चान्तरे ।। ७ ।।
बालोऽयं शंकर इति मत्वा नोवाच किंचन ।
एवमेव प्रकुपितो गृहं जगाम मौनतः । । ८ ।।
अथ सतीं गृहं प्राप्तां दक्षः प्राह सुदुर्मनाः ।
अन्ये जामातरः श्रेष्ठा भर्तुस्तव पिनाकिनः ।। ९ ।।
सर्वे ह्युत्थाय सम्मानं कुर्वन्ति मम चादरात् ।
शंभुरुत्थाय सम्मानं न करोति सुते मम । । 1.174.१० ।।
अव्यावहारिकः शंभुर्बालिशः प्रतिभाति मे ।
अस्तु शोकं न वै कुर्वे बाले का नाम धर्षणा ।। ११ ।।
इत्युक्त्वा स्वीयपुत्र्याः सः सम्मानं विदधे बहु ।
सती सत्कारमादाय कैलासे स्वगृहं गता । । १२ । ।
प्रोक्तवती शंभवे तत्तदा वै शंभुना प्रिया ।
बोधिता स्पष्टरूपेण मा नश्येद् दक्षसुकृतम् ।। १३ ।।
सती ज्ञात्वा च तद्धार्दं किंचिन्नोवाच तत्र वै ।
पितुर्लाभाय शर्वेण कृते तत्सुखदं मतम् । । १ ४।।
अथापि शंभुना शप्तं दक्षो ह्याङ्गिरसो द्विजः ।
सम्मानं चेच्छति मत्तोऽधिकं चाऽघटितं बहु ।। १५ ।।
तस्मात्स क्षत्रियां योनिं यातु प्राचैतसां गृहे ।
प्राचेतसः क्षत्रियः स भवतु यत्र नेषणा ।। १६ । ।
सम्मानस्याऽधिका मत्सदृशाद्भवेत् कदाचन ।
इति शंभोः क्षुद्रशापोऽभवद् दक्षप्रजापतेः । । १७ ।।
नारदस्यापि शापोऽभूत् पुनर्जन्मग्रहे यतः ।
दक्षो द्वितीयं जन्मेदं प्राचेतसां गृहेऽलभत् । । १८ ।।
तथापि पूर्वसंस्कारो वर्तते दक्षमानसे ।
प्राग्भवीयजनकोऽहं सत्या अस्मीति मानयन् । । १९ । ।
वर्तते सर्वथा मानी संस्कारो नैव नश्यति ।
जन्मान्तरे च कः कस्य श्वशुरो जननी पिता । । 1.174.२ ० ।।
शंभुनैव गणयते भवेऽत्र श्वशुरं निजम् ।
लोकपालं गणयति क्षत्रियं बहुमानिनम् । । २१ ।।
अथापि सत्याः शंभोश्च जातिस्मरस्तु वर्तते ।
दक्षः पूर्वः एवाऽयं सतापिता पुनर्भवः ।। २२ । ।
तथापि चात्र किं मेऽस्ति गतं पूर्वभवेऽखिलम् ।
इति मत्वा न वै शंभुर्मनुते श्वशुरं निजम् ।। २३ । ।
अथैकदा पुनस्तादृक् प्रसंगः समभूत् प्रिये ।
शंभुः स्वयं स्वकैलासे नगरायाऽविचारयत् । । २४ । ।
विश्वकर्माणमाहूय पुरो रम्यं सुस्मृद्धिमत् ।
स्वीयसुरभिशालायां कारयामास सुन्दरम् । । २५ । ।
भवनं विस्तृतं सम्यक् तत्र सिंहासनं वरम् ।
तत्र छत्रं महादिव्यं सर्वथाऽद्भुतमुत्तमम् । । २६ ।।
तद्वास्तुकरणार्थं वै चकार सुमहोत्सवम् ।
शक्रादीनाजुहावाऽशु समस्तान् देवतागणान् । । २७ ।।
सिद्धगन्धर्वनागादीनुपदेष्टृँश्च कृत्स्नशः ।
देवान्मुनीनागमाँश्च विधिं शिष्यैः ऋषीनपि । । २८ । ।
देवीः सर्वा अप्सरोभिर्नानावस्तुभिरन्विताः ।
देवानां च तथर्षीणां सिद्धानां फणिनामपि ।। २९ ।।
आनयन्मंगलहस्ताः कन्याः षोडश षोडश ।
वीणामृदंगप्रमुखवाद्यान्नानाविधाँस्तथा । । 1.174.३० । ।
उत्सवं कारयामास वादयित्वा सुगायनैः ।
राज्याभिषेकयोग्यानि द्रव्याणि सकलौषधैः । । ३१ ।।
प्रत्यक्षतीर्थपाथोभिः पंचकुभाँश्च पूरितान् ।
तथाऽन्याः संविधा दिव्या आनयत् स्वगणैस्तदा ।। ३२ ।।
ब्रह्मघोषं महारावं चक्रुस्तत्र तु भूसुराः ।
हरो हरिं सन्मुहूर्ते नूत्ने सिहासने वरे ।। ३३ ।।
उपावेश्य बहुप्रीत्या भूषयामास सर्वशः ।
आबद्ध्य रम्यमुकुटं कृतकौतुकमंगलम् । । ३४ ।।
विष्णुं तुष्टाव तं शंभुः स्वतन्त्रं भक्तवत्सलम् ।
अन्यं सर्वं समाजं च नमस्कृत्य हरः स्थितः । । ३५ ।।
दक्षोऽत्र मानवानायात् प्रजापतिभिरन्वितः ।
शंभुना सत्कृताः सर्वे दक्षोऽपि सह सत्कृतः ।। ३६ ।।
भोजनाच्छादनपानमानयानविहारकैः ।
सत्कृताः सर्वथा सर्वे दक्षश्चैच्छद्विशेषतः ।। ३ ७।।
सम्मानं तु निजं तत्र श्वाशुर्यस्याऽभियोगतः ।
दक्षः शंभोर्गृहमध्ये जगाम स्वसुताननम् ।। ३८ ।।
द्रष्टुं प्रष्टुं सुखं शान्तिं तदा शंभुस्तु नोत्थितः ।
दक्षस्तदाऽऽन्तरेऽतीव मानी चुकोप वै पुनः ।। ३ ९।।
सतीमापृच्छ्य कुशलं सुखं चाऽनामयं तथा ।
दक्षो जगाम हर्म्यं स्वं चान्येऽपि स्वगृहान् गताः ।।1.174.४० ।।
प्रत्यक्षं तदिदं चाऽभूदवमानं प्रजापतेः ।
अनाहूतेऽपरिचिते ह्यनागमनमुत्तमम् ।।४ १ ।।
एवं मनसि सन्धार्य तदापि दक्ष आत्मनि ।
अवमानं ररक्षैव बहिर्नैवाऽप्रकाशयत् ।।४२ ।।
अथ कालान्तरे नैमिषारण्ये च तपोधनाः ।
दीर्घसत्रं प्रकुर्वन्तो भृग्वाद्यास्तु महर्षयः ।।४३।।
आसन्नेकत्रितास्तत्र समाजग्मुर्हरादयः ।
आगताँस्ते च ददृशुर्मुनयो दीर्घसत्रिणः ।।४४।।
उत्तस्थुर्युगपत्सर्वे सहर्षाश्च समुत्सुकाः ।
दत्वाऽर्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः ।।४५ ।।
पश्यन्ति स्म हरं विष्णुं ब्रह्माणं पुलहादिकान् ।
मनवश्चागतास्तत्र तथा दक्षोऽपि चागतः ।।४६।।
यदृच्छया समापन्नः पूजितश्च महर्षिभिः ।
स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुराऽसुरैः ।।४७।।
अभिपूजित एवासौ निषसाद सभान्तरे ।
रुद्रेण न कृता तस्याऽभ्युत्थाननतिसत्क्रियाः ।।४८।।
विशेषतः स्वस्य मानं न जातं रुद्रसत्कृतम् ।
चुकोप रुद्रं त्वरितं तदा दक्षः प्रजापतिः ।।४९।।
उवाच परुषं वाक्यं रुद्रमुद्दिश्य तत्र वै ।
एते नमन्ति सर्वे मां विप्राः सुराऽसुरादिकाः ।।1.174.५० ।।
अभ्युत्थानादिना सर्वे मानयन्ति भृशं च माम् ।
कथं दुर्जनवच्चायं नैवोत्तिष्ठति भूतपः ।।५ १ ।।
श्मशानवासी निस्त्रपः प्रेतपिशाचसंयुतः ।
अनुत्तमो मत्तसखा करोति न नतिं च मे ।।५२।।
जात्या च कर्मभिर्हीनः पाखण्डी दुर्जनप्रियः ।
पापशीलश्चोद्धतश्च निन्दकोऽशुचिरेव च ।।५ ३ ।।
त्याज्योऽयं सर्वदा सद्भिर्बहिष्कार्यश्च सर्वथा ।
यदा यदा गृहं तस्य गतोऽहं मूर्खराडयम् ।।५४।।
नैवोत्तिष्ठति सामीप्ये मेऽवमानं करोति वै ।
तस्मादयं यज्ञबाह्यो भवत्वद्यदिनात्सदा ।।५५।।
रुद्रस्याऽनुचरां ये च तेऽपि वेद्बहिष्कृताः ।
पाखण्डवादसंयुक्ताः शिष्टाचारविवर्जिताः । ५६।।
कपालिनः पानरताः कालानना भवन्त्विति ।
नन्दी निशम्य तद्वाक्यं दक्षं प्रति रुषान्वितः ।।५७।।
शशाप दक्षं तत्पक्षान् ब्राह्मणाँश्चान्यवर्णिनः ।
वेदवादरता यूयं नान्यदस्तीतिवादिनः ।।५८।।
कामात्मानः स्वर्गपराः क्रोधलोभसमन्विताः ।
वैदिकविधिना विप्रा भवन्तु शूद्रयाजकाः ।।५९।।
दरिद्रिणो भवन्त्वत्र प्रतिग्रहरतास्तथा ।
असत्पथगताः सर्वे भवन्तु ब्रह्मराक्षसाः ।।1.174.६० ।।
शंभुः शान्तस्तदा प्राह नन्दिनं स्वस्य सेवकम् ।
कोपं नाऽर्हसि वै कर्तुं ब्राह्मणान्प्रति सर्वदा ।।६१ ।।
कोऽयं कस्त्वं क्व चाऽहं वै कस्माच्छप्तास्त्वया द्विजाः ।
प्रपंचरचनां त्यक्त्वा प्रबुद्धो भव सेवक ।।६२।।
शातिं च प्रापिताः सर्वे ब्रह्मविष्णुसुरादिभिः ।
दक्षो गतो गृहं स्वस्य स्वाऽवमानं स्मरन् मुहुः ।।६३ ।।
ततः काले महान् यज्ञः समारब्धश्च तेन वै ।
दक्षेण दीक्षितेनातिविस्तारस्तत्र चर्षयः ।।६४।।
आहूताश्च वशिष्ठाद्यास्तपस्विनः समाययुः ।
कश्यपोऽत्रिर्वामदेवो ह्यगस्त्यश्च भृगुस्तथा ।।६५।।
पराशरो दधीचश्च व्यासश्च गौतमः सितः ।
गर्गः पैलो भरद्वाजो भार्गवः ककुपः कृतिः ।।६६।।
तथाऽन्ये ऋषयो देवा लोकपाला दिशाधिपाः ।
गन्धर्वाः किन्नरा विद्याधराश्चाप्सरसां गणाः ।।६७।।
सत्यलोकान्समानीतः सावित्रीसंयुतस्त्वजः ।
वैकुण्ठाच्च ततो विष्णुर्लक्ष्मीरमादिसंयुतः ।।६८।।
इन्द्रस्तत्र समानीतश्चेन्द्राण्या सह स्वर्गतः ।
तथा चन्द्रोऽपि रोहिण्या वारुण्या वरुणस्तथा ।।६९।।
कुबेरः पुष्पकारूढो मारुतो मृगवाहनः ।
पावको बस्तयानश्च नैर्ऋतः प्रेतवाहनः ।।1.174.७०।।
दाराः पुत्राश्च शिष्याश्च पार्षदा मन्त्रिणस्तथा ।
परिवारास्तथा वेदास्तेषां तेषां समागताः ।।७१ ।।
एवमन्ये समायाता दक्षयज्ञे कृतादराः ।
सत्कृतास्तेन दक्षेण सर्वे ते बहुवस्तुभिः ।।।७२।।
भवनानि महार्हाणि सुप्रभाणि महान्ति च ।
त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ।।७३।।
तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च ते स्थिताः ।
सम्मानिता अराजँस्ते सकला विष्णुना मया ।।७४।।
अथाऽसिक्नी सतीमाता पूर्वदक्षविवाहिता ।
दक्षं जातं पुनर्ज्ञात्वा तत्राऽऽगत्याऽवसत् सदा ।।७५।।
सा चाऽसिक्नी तत्र शंभुं यदर्थमतपत्सती ।
न ददर्श समायातं तदा प्राह प्रजापतिम् ।।७६।।
दक्षं नत्वाऽवदत्प्रह्वीकृताऽन्तःकरणा नता ।
कथं सती तथा शंभुर्दृश्येते नात्र तूत्सवे ।।७७।।
दक्षः प्राह तदाऽसिक्नीं तयोर्नास्ति प्रयोजनम् ।
सती तु सर्वदा स्निग्धा पित्रोर्मानाभिलाषिणी ।।७८ ।।
शठः शर्वो न वै स्निग्धो मेऽवमानप्रकारकः ।
अतीव गर्वितो जातः सतीं मे प्राप्य कन्यकाम् ।।७९ ।।
कस्यचिन्नाऽप्यसौ प्रायो न कश्चिदस्य वा प्रियः ।
किंवंश्यस्त्वेष किंगोत्रः किंदेशीयः किमात्मकः ।।1.174.८ ० ।।
किंवृत्तिः किंसमाचारो विषादी वृषवाहनः ।
न प्रायशस्तपस्व्येष क्व तपः क्वाऽस्त्रधारणम् ।।८ १ ।।
न गृहस्थेषु गण्योऽसौ श्मशाने तिष्ठते सदा ।
नाऽयं तु ब्रह्मचारी स्याद् यतः सत्या विवाहितः ।।८ २।।
वानप्रास्थ्यं न चैवास्मिन्नैश्वर्यमदमोहिते ।
न जाने ब्राह्मणो नास्ति वेदश्चैनं न वेत्ति यत् ।।८ ३ ।।
न जाने क्षत्रियो नास्ति प्रायः शस्त्रास्त्रसंग्रहात् ।
क्षतात्त्राणं नास्ति चास्मिन्सर्वेषां प्रलयप्रिये ।।८४।।
निर्धनोऽरण्यरतिमान वैश्योऽपि नैव भाति मे ।
कथं शूद्रे समावेशो नागयज्ञोपवीतिनः ।।८५ ।।
एवं वर्णाश्रमातीतः को भवेनैव बुध्यते ।
सर्वः प्रकृत्या ज्ञायेत स्थाणुः प्रकृतिवर्जितः ।।८६।।
प्रायशः पुरुषो नाऽसौ यतोऽर्धप्रमदामयः ।
नापि वै केवलानारी यतोऽसौ श्मश्रुलाननः ।।८७।।
नापि नपुंसको वास्ति लिंगं त्वस्य प्रपूज्यते ।
न चापि बालरूपोयं बहुवर्षोद्भवो यतः ।।८८। ।
मन्वते तं मरीच्याद्या वृद्धं नाऽयं युवा यतः ।
वृद्धोऽपि कथमास्थेयो जरामृत्युविवर्जितः ।।८ ९ ।।
संहारयति सर्वान्वै तथाप्येष न पातकी ।
पुण्यलेशः कथं चात्र ब्रह्ममस्तकनाशके ।। 1.174.९० ।।
मुण्डहारधरे क्वाऽस्य शुचित्वं वै दिगम्बरे ।
नाऽयं च धनवान्नैवाऽपत्यवान्न कुटुम्बवान् ।। ९१ ।।
नाऽस्य माता नाऽस्य गोत्रं न वंशो नापि देहवान् ।
श्मशाने वर्तते नित्यं श्वादो नैवोपलक्ष्यते ।।९२ ।।
किं बहूक्तेन मे देवि ज्ञायते नाऽस्य चेष्टितम् ।
अहो धार्ष्ट्यं मां प्रत्येव जटिलस्याऽवमानकृत् ।। ९३ ।।
यदासनान्नोत्थितोऽयं दृष्ट्वा मां श्वशुरं गुरुम् ।
एतादृशा भवन्त्येव मातापितृविवर्जिताः ।। ९४।।।
निर्गुणा अकुलीनाश्च कर्मभ्रष्टा निरंकुशाः ।
यथेष्टाचरणाः स्वाभिमानिनो यन्तृवर्जिताः ।। ९५।।
अकिंचना अपि स्तब्धा भवन्तीश्वरमानिनः ।
जामाता जम्बुकतुल्यः श्वशुरे मृगपायते ।। ९६।।
असिक्नि तव जामाता मम मस्तकनाशकः ।
यतोऽवमन्ता मे जातस्तस्मान्नाऽऽकारितो मया ।। ९७।।
तस्याहं गर्वसर्वस्वं हरिष्यामि न संशयः ।
यथाऽवमानितश्चाऽहमवमंस्ये तथैव तम् ।। ९८ ।।
तस्मात्त्वया न स्मर्तव्यो मा यज्ञे फलभाग्भवेत् ।
इति दक्षेणाऽग्र्यपत्नी बोधिता मौनमास्थिता ।। ९९ ।।
विनिःश्वासं तदा मुक्त्वा दीर्घं सुतां विनाऽशपत् ।
नोत्सवे स्वसुतापुत्रजामात्राद्यास्यदर्शनम् ।। 1.174.१०० ।।
प्रज्वलतूत्सवस्तादृक् कुसवः स तु कथ्यते ।
यत्राऽसुसमपुत्र्यादिदर्शनं नोपलभ्यते ।। १०१ ।।
इत्यसिक्न्या मनोदग्धो यज्ञारंभस्तु भस्मितः ।
राज्यमातुः शापदग्धोऽवश्यं दग्धो भविष्यति ।। १०२ ।।
दक्षश्चागत्य मां विष्णुं यज्ञपूरुषमित्यपि ।
महाक्रतूपद्रष्टारं चक्रेऽर्पितस्वमस्तकः ।। १०३ ।।
प्राह देवानृषीन् विप्रान्प्रजापाँश्च मनूँस्तथा ।
अहं यियक्षुर्यूयं मे यज्ञसाहाय्यकारिणः ।। १ ०४।।
भवत यज्ञसंभारानानयत त्वरान्विताः ।
शृणु लक्ष्मि! वर्तमाने तीर्थे कनखले मखे ।। १० ५।।
तस्यर्त्विजोऽभवन्सर्वे ऋषयो ब्रह्मवादिनः ।
भृग्वाद्याश्च त्रिकालज्ञा वेदमूर्तय एव ते ।। १०६ ।।
अधिष्ठातात्वहं विष्णुः सह सर्वमरुद्गणैः ।
ब्रह्मा तत्राऽभवद्ब्रह्मा त्रयीविधिनिदर्शकः ।। १ ०७।।
तथैव सर्वे दिक्पाला द्वारपालाश्च रक्षकाः ।
सायुधाः सपरीवाराः कुतूहलकराः सदा ।। १०८ ।।
उपतस्थे स्वयं यज्ञो मूर्तिमाँस्तस्य चाऽध्वरे ।
वेदधराः स्वयं महामुनयश्चाऽभवन्मखे ।। १०९ ।।
अग्निः स्वयं निजं रूपं चक्रे सहस्रधा तदा ।
हविषां ग्रहणायाऽऽशु तत्र यज्ञमहोत्सवे ।। 1.174.११० ।।
अष्टाशीतिसहस्राणि जुह्वति स्म च ऋत्विजः ।
उद्गातारश्चतुःषष्टिसहस्राणि सुरर्षयः ।। १११ ।।
अध्वर्यवोऽथ होतारस्तावन्तो नारदादयः ।
सप्तर्षयः सामगार्थाः कुर्वन्ति स्म पृथक्पृथक् ।। ११२ ।।
सिद्धगन्धर्वविद्याध्राऽऽदित्ययज्ञगणान्बहून् ।
समस्तान्नागसर्पांश्च वव्रे दक्षो महाध्वरे ।। ११३ ।।
द्विजर्षिसुरराजर्षिवसुनिधिगणा नृपाः ।
मित्रसचिवसैन्याढ्या वृता मखोपवेत्त्रकाः । । ११४ ।।
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः ।
भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् । । ११५ । ।
तत्र यज्ञे वृतं सर्वं न वृतो हर एकलः ।
कपालीति विनिश्चित्य तस्य यज्ञार्हता नहि । । ११६ ।।
अवमन्तेति कृत्वैव यज्ञे भागोऽपि मास्त्विति ।
कपालिभार्येति सती पूर्वजा स्वसुताऽपि च । । ११ ७।।
नाऽऽहूता यज्ञविषये दक्षेणाऽगुणदर्शिना ।
एवं प्रवर्तमाने वै दक्षयज्ञे महोत्सवे । । ११८ । ।
स्वकार्यलग्नास्तत्राऽऽसन् सर्वे तेऽध्वरसम्मताः ।
एतस्मिन्नुत्सवे तत्र न दृष्ट्वा शंकरं सतीम् ।। ११९ ।।
प्रोद्विग्नमानसः शैवो दधीचो वाक्यमब्रवीत् ।
दक्षप्रजापते दक्ष साक्षाद् धातृस्वरूपधृक् ।। 1.174.१२० ।।
न त्वयि दृश्यते तेजः सामर्थ्यं वा क्रतुकृते ।
यादृशः क्रतुरारब्धो न वै पारयितुं क्षमः ।। १२१ ।।
क्रतुस्तु नैव कर्तव्यो नास्ति क्रतुसमो रिपुः ।
कर्तव्यश्च तदा यज्ञो यदि सम्पत्तिरीदृशी ।। १२२ । ।
साक्षादग्निः स्वयं मूर्तिमान् कुण्डेऽत्र विराजते ।
इन्द्रादयस्तथा देवाः साक्षात्सन्ति समागताः । । १२३ । ।
मन्त्राः सर्वेऽपि साक्षाच्च वर्तन्ते यज्ञकर्मसु ।
यज्ञश्च भगवान् साक्षान्मूर्तश्चात्र विराजते । । १ २४। ।
बृहस्पतिः स्वयं चाऽत्राऽऽचार्यस्थाने सुशोभते ।
ब्रह्मा साक्षाद्ब्रह्मस्थाने कर्मकाण्डी भृगुः स्वयम् ।। १२५ । ।
अयं पूषा भगश्चायं साक्षाद्देवीसरस्वती ।
शारदा च तथा साक्षात् लक्ष्मीर्नारायणः स्वयम् ।। १२६ । ।
दिक्पाला लोकपालाश्च साक्षाद्रक्षाकृतः स्वयम् ।
जामाता त्वेष ते धर्मः पत्नीभिः समुपस्थितः ।। १२७ । ।
त्वं च पत्न्या समं दीक्षां प्राप्तोऽसि यजने स्वयम् ।
सप्तविंशतिपत्निभिः सह तै कार्यकृच्छशी ।। १२८ । ।
मारीचः कश्यपश्चायं राजसूयस्य कारकः ।
तव यज्ञे समायातो दत्तत्रैलोक्यदक्षिणः ।। १२९ । ।
तस्य पत्न्यस्तव सुतास्त्रयोदश समागताः ।
अन्या अपि सुपुत्र्यस्ते जामातारश्च सगताः ।। 1.174.१३० । ।
कामधेनव आज्यादिहवींषि तेऽर्पयन्ति वै ।
कल्पवृक्षाः स्वयं चात्र समित्कुशान्वहन्ति च । । १३१ । ।
काष्ठपात्राणि यानानि मण्डपादीनि यानि च ।
अपेक्ष्यन्ते तानि वृक्षैरर्प्यन्ते स्वयमागतैः ।। १३२ ।।
अभ्यागतर्त्विजां भूषा विश्वकर्मा करोति च ।
वासांसि वसवश्चाष्टौ ददत्यत्र मखे तव ।। १३३।।
स्वयं लक्ष्मीः सुवासिनीरलंकरोति ते मखे ।
सर्वं सुखकरं दक्ष तव यज्ञेऽत्र दृश्यते ।। १ ३४।।।
जीवहीनो यथा देहः क्वापि नैव तु शोभते ।
भूषितोऽपि तथा यज्ञः शंभुं विना न शोभते ।। १ ३५।।
एतद् दुःखकरं चात्र श्मशानमिव भूमिका ।
शंभुं बिना तव यज्ञश्चिताभूरिव लक्ष्यते ।। १ ३६।।
सर्वे देवर्षिप्रमुखा मद्वाक्यं शृणुतात्र वै ।
कस्मान्न विद्यते शंभुरस्मिन् यज्ञमहोत्सवे ।। १ ३७।।
यदधीनानि सर्वाणि मंगलानि भवन्ति च ।
सोऽसौ प्राणः क्रतोश्चात्र दृश्यते न कथं हरः ।। १३८।।
अमंगलान्यपि येन मंगलान्यधिवर्तिना ।
भवन्ति स कथं नात्र चायातः शंकरः शिवः ।। १ ३९।।
तस्माद्दक्षेण कर्तव्यमाह्वानं परमेशितुः ।
अथवा ब्रह्मणा वा च विष्णुना ऋषिभिः सह ।। 1.174.१४० ।।
द्विजैः सिंहैर्लोकपालैरिन्द्रादिभिः सहाऽधुना ।
सर्वैर्भवद्भिर्गन्तव्यं गिरौ यत्रास्ति शंकरः ।। १४१ ।।
दाक्षायण्यासमं शंभुमानयध्वं शुभं भवेत् ।
शंकराऽऽनयने यज्ञोऽवभृथपूर्तिको भवेत् ।। १४२।।
भविष्यत्यन्यथा विघ्नं सत्यं भावि ब्रवीम्यहम् ।
मया निवेदितव्यं यत् तदत्रैव निवेदितम् ।। १४३ ।।
श्रुत्वैतद्वै दधीच्युक्तं भृशं जज्वाल यज्ञकृत् ।
दक्षः रोषपरीतात्मा प्रोवाच कलहान्वितम् ।। १४४।।
ब्राह्मणोऽसि दधीचे त्वं यच्छ मौनं बहिर्व्रज ।
यज्ञदीक्षास्थितस्तेऽहं वैशसं कर्तुमक्षमः ।। १४५।।
पृष्टः केन समाहूतो यदत्राऽऽगत्य कत्थसे ।
मूलं विष्णुर्देवतानां यत्र धर्माः सनातनाः ।। १४६ ।।
सर्वमंगलमांगल्यः समानीतो मयाऽत्र सः ।
यत्र वेदास्तथा यज्ञाः कर्माणि विविधानि च ।। १४७।।
स्वयं वै यज्ञपुरुषः किमूनं यज्ञकर्मणि ।
सर्वकर्मप्रतिष्ठोऽयं विष्णुर्मे वर्तते मखे ।। १४८।।
यत्र त्रिलोकनाथोऽयं शतक्रतुः समागतः ।
त्रयस्त्रिंशत्प्रकोटीनाममराणां पतिर्मखे ।। १४९ ।।
सत्यलोकात्समायातो ब्रह्मा सावित्रिकायुतः ।
वेदोपनिषदैः सर्वैरागमैर्ब्राह्मणैः सह ।। 1.174.१५ ०।।
धर्मराट् सह पत्नीभिः पुत्रपौत्रैः समागतः ।
तथा यूयं च ऋषयो धर्माऽधर्मविदोऽपरे ।। १५१ ।।
कुबेरो धनदाता च पत्नीभिः सह पावकः ।
बृहस्पतिः स्वयं यज्ञाचार्यत्वेन व्यवस्थितः । । १५२ । ।
एते यज्ञोचिताः शान्ताः पावना प्रमहर्षयः ।
मम यज्ञे कर्मकरास्तं श्मशानं ब्रवीष्यहो । । १५३ । ।
श्मशानं तु सदा यत्र -भूतप्रेतपिशाचकाः ।
गणा वसन्ति तत्रैव शंकरस्य गृहे भवेत् । । १५४ । ।
यत्र कर्मकराः सर्वे मूर्धन्याश्च समागताः ।
किमत्राऽस्माकमूनं यद्रुद्रेणापि प्रयोजनम् । । १५५ ।।
यत्रार्त्विज्यं भजन्तेऽमी वशिष्ठाद्या महर्षय ।
तं त्वं चोपमिमीषेऽत्र चिताभूम्या शुभाश्रयम् । । १५६ । ।
कन्या दत्ता मया तस्मै ब्रह्मणा नोदितेन वै ।
हरोऽकुलीनो विप्रो न मातापितृविवर्जितः । । १५७ । ।
भूतप्रेतपिशाचेशो मानी स्तब्धोऽशुचिः सदा ।
कर्मण्यस्मिन्न योग्योऽसौ यस्मान्नानीतवानहम् । । १५८ ।।
तस्मान्नेदृक्पुनर्वाच्यं यज्ञविघ्नकरं त्वया ।
यज्ञा विना हरिं कार्या मास्तु स यज्ञभागभुक् । । १५९ ।।
निशम्येति दधीचिर्वै पुनः प्राह नयान्वितम् ।
सर्वमंगलमांगल्यो हरिर्भवति सर्वथा ।। 1.174.१६० । ।
तथापि शंकरो वेदे विष्णुर्नारायणो मतः ।
दुर्वासाः शंकरस्यांशस्तद्धस्ते वै शतक्रतुः । । १६१ ।।
पतितः प्राप निःश्रीकभावं क्षणेन यत्पुनः ।
भर्गं चाराध्य जलधौ प्रापत्स्वाममरावतीम् । । १६२ । ।
धर्मोऽत्र क्रतुरक्षार्थं स्थितोऽस्ति वर्ततां सदा ।
किन्तु श्वेतेन मुनिना शिवभक्तेन धर्मराट् । । १६३ ।।
जितो मृत्युसमेतः सः किं बलं वेद्मि सर्वथा ।
धनदस्त्र्यम्बकसखः स्थास्यति न विना शिवम् । । १ ६४। ।
अग्निस्तस्य ललाटस्थं नेत्रं भवति सर्वदा ।
यदा तु चन्द्रमास्तारामधर्षीत् त्र्यम्बकस्तदा । । १६५ । ।
गुर्वाराधित एवाऽभूत् देवाचार्यस्य रक्षकः ।
एते सर्वेऽपि जानन्ति शिवं यदा शिवं सुखम् ।। १६६ । ।
यदागाम्यशिवं भावि तदा रुद्रोऽस्त्ययं शिवः ।
यदि मे ब्राह्मणस्यैकं धार्यते वचनं हृदि ।। १ ६७। ।
शंभुमाहूय यज्ञोऽयं प्रवर्ततां महामखः ।
विना तेन क्रतुश्चायं कृतोऽपि न कृतो भवेत् । । १६८ । ।
सति शंभौ फलिष्यन्ति युष्माकं वै मनोरथाः ।
अर्थहीना यथा वाणी धर्महीना यथा तनुः । । १६९ ।।
पतिहीना यथा नारी पुत्रहीना यथा गृहाः ।
गंगाहीना यथा देशाः श्रुतिहीना यथा द्विजाः ।। 1.174.१७० । ।
दानहीना यथा सम्पत् तिलहीनं च तर्पणम् ।
मन्त्रहीनं यथा राज्यं सुखं पत्नीं विना यथा ।। १७१ ।।
दर्भहीना यथा सन्ध्या होमो हविर्विना यथा ।
निष्फलानि समुक्तानि यज्ञो हरं विना तथा ।। १७२।।
एवं दधीचिनाऽऽख्यातं दक्षो जग्राह नैव तत् ।
प्रोवाच च भृशं क्रुद्धः का चिन्ता तव मे क्रतोः ।। १७३ ।।
क्रतुकर्माणि सिद्ध्यन्ति यथार्थकरणादिह ।
अयथार्थकृते नैव सिद्ध्येत् कर्मापि चेशितुः ।। १७४।।
दधीचिश्च तदा प्राह यथार्थकरणादपि ।
ईश्वरप्रातिकूल्याच्च सिद्धिमपि विनश्यति ।। १७५।।
अमंगलो मंगलो वा क्रतुं यदाऽऽगमिष्यति ।
तदा क्रतुः कृतकृत्यो भविष्यत्यन्यथा क्षयः ।। १७६।।
एवं ब्रूवति चुक्रुधे दधीचौ दक्ष ऐरयत् ।
ब्राह्मणापसदं निष्कासयितुं किंकरान् स्वकान् ।। १७७।।
 ' दधीचिर्वीक्ष्य वै प्राह दक्षं गर्वाऽतिमोहितम् ।
किं मां दूरयसे मूढ दूरं भवतु वै भवान् ।। १७८।।
एभिः समं मंगलेभ्यो हीनो भवतु सर्वदा ।
अस्थले क्रोधजो वह्निस्तव मूर्ध्नि पतिष्यति ।। १७९।।
इत्युक्त्वा निर्ययौ यज्ञस्थलाद्दधीचिरर्थवित् ।
निर्ययुश्च्यवनोऽगस्त्यो दुर्वासा ऋचीकस्तथा ।। 1.174.१८०।।
उद्दालक उपमन्युरुत्तंको गर्गगौतमौ ।
माण्डव्यो वामदेवश्च गालवश्चेतरे तथा ।। १८ १।।
अन्येऽपि च त्रिकालज्ञाः शैवा यज्ञाद्विनिर्ययुः ।
तदा दक्षः शिवद्रोही हसन् सर्वान् समब्रवीत् ।। १८२।।
गता वै कण्टकाः सर्वे जातं मे सम्मतं बहू ।
एते खला वेदबाह्यास्त्याज्या वै यज्ञकर्मणि ।। १८३।।
वैदिकाश्च सुरा विप्रा ब्रह्मविष्णुपुरोगमाः ।
यज्ञं मे सफलं पूर्णं सर्वे कुर्वन्तु मा चिरम् ।। १८४।।
गतेषु शिवपक्षेषु प्रावर्तत महामखः ।
ये स्थिता ब्राह्मणास्तत्र तेभ्यो द्विगुणदक्षिणाम् ।। १८५।।
भूयसीर्दक्षिणाः प्रादादन्येभ्यश्चाधिकं धनम् ।
सर्वे जामातरस्तेन तोषिता भूरिशो धनैः ।। १८६।।
कन्याश्चालंकृताः सर्वा महाविभवदापनैः ।
ऋषिपत्न्योऽपि बहुशो देवपत्न्योऽप्यनेकशः ।। १८७।।
तथा पुरांऽगना देशांऽगनाश्चापि प्रपूजिताः ।
एवमेव प्रवर्तिते यज्ञे दक्षस्तु नित्यशः ।। १८८।।
भोजयति तर्पयति चार्पयति धनादिकम् ।
अग्निर्मन्दाग्नितां तेन प्राप्तवान् प्रत्यहं शनैः ।। १८९।।
स्वाहाकारैः स्वधाकारैर्वषट्कारैः सुरादयः ।
तृप्ता नित्यं प्रजायन्ते सदन्नभोजनादिभिः ।। 1.174.१९०।।
रचिता गिरयस्तत्र पक्वान्नानां स्थले स्थले ।
घृतकुल्या मधुकुल्या दुग्धकुल्याः सहस्रशः ।। १९ १।।
गुडानां शर्कराणां च फलानां राशयः कृताः ।
दुकूलानां च रत्नानां भोग्यानां शिखराणि च ।। १९२।।
कृतानि यज्ञवाटश्च स्वर्णरूप्यमयः कृतः ।
ध्वनिर्मंगलगीतानां व्यानशे सर्वतोमुखम् ।। १९३।।
जहृषे चाप्सरोवृन्दैर्गन्धर्वैर्मुमुदेतराम् ।
विद्याधरैर्ननन्दे च वसुधा ववृधे भृशम् ।। १९४।।
प्रत्यहं प्राणिनस्तत्र तृप्यन्ति स्वेष्टवस्तुभिः ।
एवं प्रवर्तते यज्ञो नारदस्तु क्रतुस्थलात् ।। १९५।।
उत्तिष्ठन्सर्वतः पश्यन सिञ्चन्सुकलहांकुरम् ।
सर्वमनःसु संकुर्वन् संशयं रुद्रमीलने ।। १९६।।
उदडीयत गगने ययौ कैलासपर्वतम् ।
तदा संकल्पा भीरूणां पलायनकृतौऽभवन् ।। १९७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दक्षस्य शंभुगृहे त्रिवारगमनं, पुनःपुनरवमानम्, नैमिषारण्ये भृग्वादीनां परस्परशापदानं, दक्षकृतशंभुनिन्दा, कनखले दक्षयज्ञे देवादीनामागमनं, शंभोरनागमने दधीचस्य दक्षाय शापादिकमित्यादिनिरूपणनामा चतुःसप्तत्यधिकशततमोऽध्यायः ।। १७४।।