← अध्यायः १८१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १८२
[[लेखकः :|]]
अध्यायः १८३ →

श्रीनारायण उवाच-
अथाल्पसमये कान्ते मेना मोहवशा प्रिये ।
उवाच हैमं शैलेन्द्रं प्रह्वीभूतमनोमयी ।। १ ।।
दरिद्राय न दातव्या दातव्या धनिने सुता ।
विवाहं कुरु कन्यायाः सुन्दरेण वरेण हि ।। २ ।।
प्राणप्रिया मम पुत्री कोमला भाग्यशालिनी ।
वर्धिता विविधैर्भोग्यैः सुखसम्पत्समृद्धिभिः ।। ३ ।।
अतोऽस्याश्च विवाहोऽपि सर्वसम्पन्मये गृहे ।
वरेण सुलक्षणसत्कुलोद्भूतेन युज्यते ।। ४ ।।
सद्वरं प्राप्य सुखिनी यथा स्यात्तत्तथा कुरु ।
श्रुत्वा मेनां तु शैलेन्द्रः प्राह शंकानिवृत्तये ।। ५ ।।
भ्रमं त्यज प्रिये पत्नि दातव्या शंकराय वै ।
यद्यस्ति ते प्रतीतिर्वै तदा दास्येऽन्यथा नहि ।। ६ ।।
यदि स्नेहः सुतायास्ते सुतां शिक्षय सादरम् ।
शिवोपरि तपः कुर्यात् तपसा साध्यते शिवः ।। ७ ।।
प्रसन्नश्च हरो भूत्वा काल्याः पाणिं ग्रहीष्यति ।
सर्वं वै शंकरे चास्ति सुखं द्रव्यं स्मृद्ध्यादिकम् ।। ८ ।।
अमंगलानि सर्वाणि मंगलानि शिवे सदा ।
सर्वविधानि सौख्यानि वर्तन्ते च शिवे सदा ।। ९ ।।
अखण्डवीर्यता शंभौ स्वामिता सुरनाकिनाम् ।
पूज्यता लोकिनां शंभौ हेतुता भूतदेहिनाम् ।। 1.182.१० ।।
पृथ्वी जलं तथा तेजः पवनो गगनं तथा ।
सूर्यचन्द्रादयो यस्य तनवः सन्ति सर्वदा ।। १ १।।
शंभोस्तस्य तनुष्वेव निहिताः सर्वस्मृद्धयः ।
शिवार्थं तपसे पुत्र्यै विनिर्दिश शुभं भवेत् ।। १ २।।
मेना श्रुत्वा तपः द्राक्च सुतां संलोक्य कोमलाम् ।
क्षणं तु विव्यथे सुतामुपदेष्टुं शशाक न ।। १ ३।।।
अथ सा पार्वती ज्ञात्वा प्रोवाच जननीं तदा ।
मातः शृणु मया दृष्टः स्वप्नो ब्राह्ममुहूर्तके ।। १४।।
विप्रस्तपस्वी सुप्रीतः प्रोवाच विहितुं तपः ।
शंकरस्येत्युपादिश्य कृत्वा भाले सुचन्द्रकम् ।। १५ ।।
करौ मन्मस्तके दत्वा धृत्वा मां वक्षसि स्वके ।
आशीः प्रयुज्य गतवान् सुरूपः शंकरो यथा ।। १६ ।।
तस्मात्तपः करिष्येऽहं स्मृत्वा तं पुरुषं हृदि ।
श्रुत्वैतत्स्वप्नमेवार्थं कथयितुं जगाम सा ।। १७।।
गिरिं तावत् गिरीन्द्रोऽपि स्वकं स्वप्नमुवाच ह ।
शृणु मेनेऽद्य मे स्वप्ने तपस्वी जन आगतः ।। १ ८।।
नारदोक्तस्वरूपः सः पुरोपकण्ठमादरात् ।
तपः कर्तुं प्रवृत्तश्च तत्राऽहं नीतवान् सुताम् ।। १९ ।।
मया तु लक्षणैर्ज्ञातः शंकरोऽयमिति ध्रुवम् ।
सेवायां पार्वतीं तस्योपादिश्याऽहं तपस्विनः ।। 1.182.२०।।
प्रार्थितवाँश्च तं बालं नांगीचकार वै यदा ।
मया वेदान्तविज्ञानैर्बहुधा वाद आदृतः ।। २१ ।।
यथाकथंचित् स ततो बालां जग्राह सेवने ।
सापि प्रेम्णा पार्वती तं सेवते लोकितं मया ।। २२।।
ततोऽस्ति समयः प्राप्तः समीपे फलदायकः ।
पार्वतीं तपसे मेने शिक्षयाऽचिरसिद्धये ।।२ ३ ।।
श्रुत्वा मेनाऽभवद् हृष्टा शिक्षयामास पार्वतीम् ।
सापि शंभुं सदा ध्यात्वा तपसे संस्थिता सती ।।२४।।
फलानि भोजने देवी गृह्णात्येकसुभक्तके ।
योगिनीव त्रिषवणं स्नानं शंकरपूजनम् ।।२५।।
मालिकायाः सहस्रं तु शंभुनाम्नाऽनुवर्तनम् ।
नेत्रे सम्मील्य स्वस्तिकासने निषद्य चिन्तनम् ।।२६।।
प्रातः सायं शंकरस्याऽऽरार्त्रिकरणमर्थना ।
स्तोत्रस्य रटणं पश्चात् किंचिज्जागरणं तथा ।। २७।।
स्वापः पृथ्व्यां तृणाढ्यायां तथा वल्कलधारणम् ।
मौनं चाऽदर्शनं पार्श्वे तपश्चैवं चकार सा ।।।२८।।
शंकरोऽपि स्वयं वेत्ति तपः करोति यत्सती ।
विचरन् विधुरश्चमत्काराँश्चक्रे ह्यलौकिकान् ।।२९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सतीतपः, सतीहिमालययोः स्वप्ने शंभुना तापसवेषेण दत्तदर्शनमित्यादिनिरूपणनामा
द्व्यशीत्यधिकशततमोऽध्यायः ।। १८२।।।