लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २०२

← अध्यायः २०१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २०२
[[लेखकः :|]]
अध्यायः २०३ →

श्रीनारायण उवाच-
मालावत्या वचः श्रुत्वा भगवान् भूतभावनः ।
प्राह मालावतीं माले शृणु वच्मि यथातथम् । । १ । ।
सर्वव्याधिप्रशमनः श्रीकृष्णः पुरुषोत्तमः ।
स ईशश्चतुरो वेदान् ससृजे मंगलायनान् ।। २ ।।
ऋग्यजुःसामाथर्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः ।
विचिन्त्य तेषामर्थं चैवाऽऽयुर्वेदं चकार सः ।। ३ ।।
कृत्वा तं पंचमं वेदं भास्कराय ददौ प्रभुः ।
चकार भास्करस्तर्हि स्वयं भास्करसंहिताम् । । ४ ।।
भास्करस्तु स्वशिष्येभ्यः प्रददौ तां ततश्च ते ।
चक्रुश्च संहिताश्चान्या व्याधिचिकित्सकक्रियाः । । ।९ । ।
चिकित्सातत्त्वविज्ञानं धन्वन्तरिश्चकार ह ।
घन्वन्तरिर्दिवोदासः काशीराजोऽश्विनीसुतौ । । ६ । ।
नकुलः सहदेवोऽर्किश्च्यवनो जनको बुधः ।
जाबालो जाजलिः पैलः करथोऽगस्त्य इत्यपि । ।। ७ । ।
एते चिकित्सकाः सर्वे षोडश व्याधिनाशकाः ।
स्वस्वदेहचिकित्सायां स्व एव तु गुरुर्भवेत् । । ८ ।।
तदा रोगा न चाऽऽयान्ति नश्यन्ति च समागताः ।
शृणु स्वास्थ्य यथारक्ष्यं सावधानतया सति ।। ९ ।।
चक्षुर्जलं च व्यायामः पादाधस्तैलमर्दनम् ।
कर्णयोर्मूर्ध्नि तैलं च जराव्याधिविनाशनम् । । 1.202.१० ।।
वसन्ते भ्रमणं वह्निसेवां स्वल्पां करोति यः ।
बालां च सेवते काले जरा तं नोपगच्छति । । ११ ।।
प्रातः शीतोदकस्नानं सेवते चन्दनद्रवम् ।
निदाघे पवनं यश्च नोपयाति जरा तु तम् । । १२ । ।
प्रावृष्युष्णोदकस्नानं घनतोयं न सेवते ।
आहारं समये पथ्यं जरा तं नोपगच्छति ।। १३ ।।
अतिशैत्यं न सहते हेमन्ते खातजाऽऽप्लवः ।
भुंक्ते नवाऽन्नमुष्णं च जरा तं नोपगच्छति । । १४।।
सद्योमांसं नवान्नं च बालास्त्रीं क्षीरभोजनम् ।
घृतं च सेवते यो हि जरा तं नोपगच्छति ।। १५ ।।
भुंक्ते सदन्नं क्षुत्काले तृषायां पीयते जलम् ।
नित्यं भुंक्ते च ताम्बूलं नवनीतं तथा गुडम् ।। १६ ।।
दधिं हैयंगवीनं च तं जरा नोपगच्छति ।
नित्यं व्यायामकर्तृणां जरा दूरं पलायते ।। १७ ।।
वृद्धस्त्रियं शुष्कमांसं बालार्कं तरुणं दधि ।
संसेवन्तं जरा याति प्रहृष्टा भ्रातृभिः सह ।। १८ ।।
मृत्युकन्यासुताश्चतुःषष्टिः रुजः सुता जरा ।
जरा च भ्रातृभिः सार्धं शश्वद् भ्रमति भूतले ।। १९ ।।
रात्रौ ये दधि सेवन्ते वृद्धां नारीं रजस्वलाम् ।
बहुव्यवायकर्तारस्तान् जरा ग्रसते द्रुतम् । । 1.202.२० ।।
क्षुधि जाज्वल्यमानायामाहारो लभ्यते नहि ।
प्राणिनां जायते पित्तं चक्रे च मणिपूरके । । २१ ।।
तालबिल्वफलं भुक्त्वा जलपानं च तत्क्षणम् ।
तदेव तु भवेत् पित्तं सद्यः प्राणहरं परम् ।। २२।।
तप्तोदकं च शिरसि भाद्रे तिक्तं भुनक्ति यः ।
अपथ्ये च पुनर्भुंक्ते पित्तं तस्य प्रजायते ।।२३ ।।
सशर्करं तु धान्याकं पिष्टं शीतोदकान्वितम् ।
चणकं सर्वगव्यं च दधितक्रविवर्जितम् ।। २४।।
बिल्वतालफलं पक्वं सर्वभैक्षवमित्यपि ।
आर्द्रकं मुद्गयूषं च तिलपिष्टं सशर्करम् ।। २५।।
पित्तक्षयकरं सद्यो बलपुष्टिप्रदं परम् ।
भोजनानन्तरं स्नानं जलपानं विनातृषाम् ।। २६।।
पर्युषितान्नं तक्रं च पक्वं रंभाफलं दधि ।
मेघाम्बुशर्करातोयं आविलवारिसेचनम् ।। २७।।
नारिकेलोदकं मूलकं तथा कर्कटीफलम् ।
खातस्नानं च वर्षासु सर्वं तच्छ्लेऽषकारकम् ।। २८ ।।
ब्रह्मरन्ध्रे च तज्जन्म महद्वीर्यविनाशनम् ।
मरीचं पिप्पली शुष्कमार्द्रकं जीवकं मधु ।। २९।।
वह्निसेवेति वस्तूनि सद्यः श्लेष्महराणि हि ।
बलपुष्टिकराण्येव रोगनाशकराणि च ।। 1.202.३० ।।
त्वत्कान्तः केन दोषेण मृतः कथय शोभने ।
श्रुत्वा मालावती प्राह मृतो योगेन मे पतिः ।। ३१ ।।
अधुना प्राणकान्तं मे देहि देहि जनार्दन ।
नत्वा वः स्वामिना सार्धं यास्यामः स्वगृहं स्त्रियः ।। ३२ ।।
श्रुत्वा जनार्दनः शीघ्रं ययौ वै देवसंसदम् ।
प्राहोपबर्हणभार्या कन्या चित्ररथस्य च ।। ३ा ।।
ययाचे जीवदानं स्वस्वामिनः स्वसृभिः सह ।
शप्तुकामा सुरान्सर्वान् शान्त्यर्थं बोधिता मया ।। ३ ४।।
अनुष्ठानमधुना कि त्वस्य कार्यस्य निश्चितम् ।
ब्रह्मा प्राह तदा विष्णुं नारदश्चोपबर्हणः ।। ३५।।
प्राणान् योगेन तत्याज पुनः शापान्ममैव तु ।
कालं लक्षयुगं व्याप्य स्थितिस्त्वस्य महीतले ।। ३६।।
शूद्रयोनिं ततः प्राप्य भविता मत्सुतः पुनः ।
अस्य कालाऽवशेषस्य किंचिदस्ति परेश्वर ।। ३७।।
तत्तु वर्षसहस्रं चैवाऽऽयुरस्याऽस्ति साम्प्रतम् ।
दास्यामि जीवदानं च स्वयं विष्णोः प्रसादतः । ।३८ ।।
यथैतान्न भवेच्छापस्तत्करिष्यामि निश्चितम् ।
विषिश्च व्याप्तिवचनो नुश्च सर्वत्रवाचकः ।। ३ ९।।
सर्वव्यापी स वै विष्णुर्जीवदानं करोतु वै ।
इत्युक्त्वा च प्रययुस्ते यत्र मालावती वधूः ।।1.202.४ ० ।।
ब्रह्मा कमण्डलुवारि ददौ गात्रे शवस्य च ।
सञ्चारं मनसस्तस्य चकार सुन्दरं वपुः ।।४१ ।।
शिवो ज्ञानं ददौ तस्मै धर्मो धर्मं ददौ ततः ।
जाठरं च ददौ वह्निः प्राणं ददौ तदाऽनिलः ।।।४२।।
सूर्यो दृष्टिं ददौ तस्मै वाणी वाक्यं ददौ तदा ।
लक्ष्मीर्ददौ च सौन्दर्यं क्रियां ददौ शचीपतिः ।।४३।।
शवस्तथापि नोत्तस्थौ जीवं विष्णुर्ददौ तदा ।
विशिष्टबोधनं प्राप नोत्तस्थौ साक्षिणं विना ।।४४।।
तदा मालाबती शोकं प्राप्ता ननाम माधवम् ।
त्वां विना मे पतिर्नास्ति पतिरूपस्त्वमेव मे ।।४५।।
प्राणरूपः प्राणिनां त्वं समुज्जीवय मे पतिम् ।
हरिः स्वशक्तिभिस्तत्र त्वधिष्ठानं चकार वै ।।४६।।
तावदुत्थाय गन्धर्वो वीणां धृत्वा च वाससी ।
देवसंघं प्रणनाम विष्णुं च पुरतः स्थितम् ।। ४७।।
नेदुर्दुन्दुभयस्तत्र पुष्पवृष्टिरभूत्तदा ।
सर्वे देवाश्च दम्पत्योः प्रददुः परमाशिषः ।।४८।।
उपबर्हणनामाऽसौ ननर्त च जगौ तदा ।
जीवितं पुरतः प्राप देवानां वै प्रसादतः ।।४९।।
जगाम सार्धं पलीभिर्गन्धर्वनगरं पुनः ।
रत्नकोटिं तदा राज्ञ्यो धनानि नियुतं गवाम् ।।1.202.५०।।
प्रददुर्ब्राह्मणेभ्यो भोजयामासुश्च तान्बहून् ।
महोत्सवं च विविधं कारयामासुरादरात् ।।५१।।
चक्रुश्च विविधान्वेषान् स्वासां च स्वामिनः कृते ।
भर्तुश्चक्रुश्च शुश्रूषां पूजां च समयोचिताम् । ।५२। ।
तेन सार्धं सुरुचिरा रेमिरे सुचिरं च ताः ।
येन मन्त्रेण ताः सर्वा गन्धर्वं लेभिरे पतिम् ।।५३।।
वशिष्ठेन प्रदत्तेन मन्त्रं तं षोडशाऽक्षरम् ।
स्तोत्रं च कवचं तद्वै शृणु त्वं कमलेश्वरि ।।५४।।
ओं नमो भगवते रासमण्डलेशाय स्वाहा ।
इमं मन्त्रं कल्पवृक्षं जानाहि षोडशाऽक्षरम् ।। ५५।।
गोलोके कृष्ण ईशाय दत्तवान् च ततः परम् ।
ब्रह्मणे तु पुरा कृष्णः पुष्करे दत्तवाँस्तथा ।।५६ ।।
कुमाराय दत्तवाँश्च ब्रह्मा लोकपितामहः ।
ब्रह्माण्डपावनस्याऽस्य कवचस्य हरिः स्वयम् ।।५७।।
ऋषिश्छन्दश्च गायत्री देवोऽहं भगवान्हरिः ।
धमार्थकाममोक्षेषु विनियोगः सदा मतः ।।५८।।
त्रिलक्षवारजपनात् सर्वसिद्धिप्रदो भवेत् ।
प्रणवो मे शिरः पातु नमो रामेश्वराय च ।।५९।।
भालं पायान्नेत्रयुग्मं नमो राधेश्वराय च ।
कृष्णः पायाच्छ्रोत्रयुग्ममं श्रीहरिर्घ्राणमित्यपि ।।1.202.६० ।।
जिह्विकां वह्निजाया तु कृष्णाय सर्वतो नमः ।
श्रीकृष्णाय स्वाहेति च काष्ठं पातु षडक्षरः ।।६ १ ।।
ह्रीं कृष्णाय नमो वक्त्रं क्लीं पूर्वश्च भुजद्वयम् ।
नमो गोपांगनेशाय स्कन्धावष्टाक्षरोऽवतु ।।६ २।।
दन्तपंक्तिमोष्ठयुग्मं नमो गोपीश्वराय च ।
ओं नमो भगवते रासमण्डलेशाय स्वाहा ।। ६३ ।।
हरिर्वक्षःस्थलं पातु मन्त्रात्मा षोडशाऽक्षरः ।
श्रीकृष्णाय स्वाहेति ओं कर्णयुग्मं सदाऽवतु ।। ६४।।।
ओं विष्णवे स्वाहेति च कपोलं सर्वतोऽवतु ।
ओं हरये नम इति पृष्ठं पादौ सदाऽवतु ।।६५।।
ओं गोवर्धनधारिणे स्वाहा सर्वशरीरकम् ।
प्राच्यां मां पातु श्रीकृष्ण आग्नेय्यां पातु माधवः ।।६६ ।।
दक्षिणे पातु गोपीशो नैर्ऋत्यां नन्दनन्दनः ।
वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः ।।६७।।
उत्तरे पातु रासेश ऐशान्यामच्युतः स्वयम् ।
सततं सर्वतः पातु हरिर्नारायणः स्वयम् ।।६८।।
गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दनैः ।
स्नात्वा तं च नमस्कृत्य कवचं धारयेत् सुधीः ।।६९।।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
यदि स्यात् सिद्धकवचो विष्णुरेव भवेत् प्रिये ।।1.202.७ ० ।।
अस्य पाठात् महत्पुण्यं सर्वतीर्थफलं भवेत् ।
अपुत्रो लभते पुत्रम् अभार्यो लभते सतीम् ।।७ १ ।।
विद्यार्थी लभते विद्यां धनार्थी धनमाप्नुयात् ।
भ्रष्टराज्यो लभेद्राज्यमैश्वर्यं सिद्धिकामनः ।।।७२।।
रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ।
भक्तिं प्राप्य हरेश्चान्ते लभते धाम चाक्षरम् ।।७३।।
इह लोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् ।
पार्षदप्रवरो भूत्वा गोलोकं धाम याति च ।।७४।।
एवं गन्धर्वप्रवरः उपबर्हणसंज्ञकः ।
रेमे कालावशेषं च ताभिः पत्नीभिरादरात् ।।७५।।
नानाविधान् क्रतुवरान् चकार च सुतैः सह ।
अथ काले ब्रह्मशापात् प्राणान् त्यक्त्वोपबर्हणः ।।७६।।
स जज्ञे वृषलीगर्भे ब्रह्मबीजेन शापतः ।
मालावती वह्निकुण्डे प्राणाँस्तत्याज वै सती ।।७७।।
अन्याश्चापि च वैधव्यं धर्ममाप्ताः स्थिताः सदा ।
मनुवंशप्रजातस्य नृपस्य संजयस्य सा ।।७८।।
पत्न्यां जातिस्मरा जज्ञे पतिर्मे भवितेति सः ।
उपबर्हणगन्धर्वप्रमदाऽहं सदाऽभवम् ।।७९।।
कान्यकुब्जे च देशे वै द्रुमिलो नाम राजकः ।
तस्य कलावती पत्नी वन्ध्या चापि पतिव्रता ।।1.202.८०।।
स्वामिदोषेण सा वन्ध्या ऋतौ भर्तुः समाज्ञया ।
उपतस्थे वने घोरे नारदं काश्यपं मुनिम् ।।८ १।।
यो वै दक्षस्य शापेन कश्यपस्य सुतोऽभवत् ।
तं च कश्यपपुत्रं वै द्वितीयं नारदं ययौ ।।८२।।
श्रीकृष्णं ध्यायमानं च ज्वलन्तं ब्रह्मतेजसा ।
तस्थौ सुवेषं कृत्वा सा ध्यानान्ते च मुनेः पुरः ।।८३।।
ददर्श नारदश्चाग्रे सुन्दरीं स्थिरयौवनाम् ।
स्वर्णवर्णां स्वर्णभूषां चन्द्रास्यां कंजलोचनाम् ।।८४।।
पुत्रेच्छया च सम्प्राप्तां कामशृंगारशोभिताम् ।
मुनिः पप्रच्छ तां राज्ञीं का त्वं कस्याऽसि मे वद ।।८५।।
कलावती हरिं स्मृत्वा तदा प्रोवाच नारदम् ।
द्रुमिलस्याऽस्मि भार्याऽहं गोपिका भर्तुराज्ञया ।।८६।।
पुत्रार्थिनी सन्निधौ ते चागतास्मि कृपां कुरु ।
वीर्याधानं कुरु योनौ स्त्री नोपेक्ष्या ह्युपस्थिता ।।८७।।
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ।
नारदः प्राह धर्मात्मा ब्राह्मणो धर्ममाचरन् ।।८८।।
यः शूद्रपत्नीं गृह्णाति ब्राह्मणो ज्ञानदुर्बलः ।
स जात्या हीनता गच्छेन्न कर्मार्हो द्विजातिषु ।।८९।।
पितृश्राद्धे च यज्ञे च शिलास्पर्शे सुरार्चने ।
अधिकारविहीनः स्यात् शूद्र्यां गच्छति वै द्विजः ।। 1.202.९०।।
तदिष्टदेवो गृह्णाति नैवेद्यं न तज्जलम् ।
स विप्रो शूद्रयोनौ च गृह्णाति जन्म तत्फलम् ।।९ १ ।।
त्वयोक्तं न च दोषाय तेजीयसामृतं च तत् ।
दूराद् ददामि ते बीजं गृहाण शक्तिरस्ति चेत् ।।।९२।।
गर्भे धारय सामर्थ्यात् तदा दोषो न विद्यते ।
नाऽहं समागमं कुर्वे भवेत् दोषः समागमे ।।९३।।
इत्युक्ता सा शूद्रपत्नी पातिव्रत्यपरायणा ।
स्मृत्वा स्वकीयभर्तारं ध्यानमग्नाऽभवत्तदा ।।९४।।
स्थूलं देहं विलीयैव सूक्ष्मदेहेन नारदे ।
प्राविशत् सर्वथा योगान्नारदोऽपि क्षणं तदा ।।९५।।
न बुबुधे स्वकं देहं सकामं धातुसंभृतम् ।
तस्याः प्रवेशयोगेन स्थूलदेहाच्च स्वप्नवत् ।।९६।।
सर्जपत्रस्तरे तत्र मुनेर्वीर्यं पपात ह ।
द्रागेव शूद्री जग्राह पीत्वा गर्भे ररक्ष सा ।।९७।।
मुनिं प्रणम्य प्रहृष्टा संगं विनाऽर्थसाधिका ।
मुनिश्चापि संहृष्टोऽभूत् संगदोषं विनाऽर्थकृत् ।।९८।।
गत्वा भर्तुः सन्निधौ सा वृत्तान्तं प्राह सर्वथा ।
द्रुमिलोऽपि प्रसन्नोऽभूत् प्राह कान्तां सुखावहम् ।।९९।।
नारदस्य वैष्णवस्य त्वद्गर्भे वीर्यमेव यत् ।
वैष्णवो भविता बालो नारदांशः स एव सः ।। 1.202.१० ०।।
यद्गर्भे वैष्णवो जातो यस्य वीर्येण वा सति ।
तयोर्याति च वैकुण्ठं पुरुषाणां शतं शतम् ।। १० १।।
तौ च विष्णुविमानेन दिव्येन रत्नशोभिना ।
यातारौ वैकुण्ठपुरं जन्ममृत्युजराहरम् ।। १ ०२।।
इत्युक्त्वा गोपराजः सः स्नात्वा कृत्वा च तर्पणम् ।
सम्पूज्याऽभीष्टदेवं च ब्राह्मणेभ्यो धनं ददौ ।। १ ०३।।
गजाश्वरथगोहंसदासदासीसहस्रकम् ।
पात्रभूषाम्बररत्नं ब्राह्मणेभ्यो ददौ मुदा ।। १०४।।
पत्नीं पुत्रान्वितगर्भां दृष्ट्वा हरिं हृदि स्मरन् ।
वंशतन्तुं शुभं ज्ञात्वा वैराग्यमगमत् ततः ।। १ ०५।।
जगाम बदरीक्षेत्रं प्राणान् तत्याज योगतः ।
विमानेन हरेर्दूतैर्वैकुण्ठं स जगाम ह ।। १ ०६।।
तत्र प्राप हरेर्दास्यं हरिदासो बभूव सः ।
ब्राह्मणैः रक्षिता देवी कलावती समान्तरे ।। १०७।।
तप्तकांचनवर्णाभं सुषुवे तनयं शुभम् ।
कामदेवाऽधिकं रूपे ज्वलन्तं ब्रह्मतेजसा ।। १ ०८।।
पद्मचक्रांकितपादं धनुर्ध्वजकराब्जकम् ।
स्वर्णौर्ध्वतिलकं वक्षःस्थलं मालांकशोभितम् ।। १० ९।।
विष्णुरूपं च तज्ज्ञात्वा सर्वे मुमुदिरे जनाः ।
पुपुषुर्ब्राह्मणास्तां सपुत्रां राज्ञीं यथा सुताम् ।। 1.202.११ ०।।
सपुत्रा सा ब्राह्मणानां दासीव सेवते द्विजान् ।
स बालो ववृधे तत्र शुक्लपक्षे यथा शशी ।। १११ ।।
जातिस्मरो ज्ञानयुक्तः पूर्वमन्त्रस्मरः सदा ।
तस्य जन्मक्षणे नारं जलं भूमौ ववर्ष ह ।। १ १२।।
जन्मकाले ददौ नारं तेनायं नारदः स्मृतः ।
ददाति नारं ज्ञानं च बालेभ्यश्चेति नारदः ।। १ १३।।
वीर्येण नारदस्यैव बभूव नारदस्ततः ।
गायने च नरान् कण्ठं ददौ तेनापि नारदः ।। १ १४।।
नोऽर्थो नारायणः प्रोक्तो ह्यरं शीघ्रं ददाति यः ।
शीघ्रं नारायणदानान्नारदश्च प्रकीर्तितः ।। १ १५।।
रदा दन्ताश्च येषां न तेऽरदा वृद्धतान्विताः ।
अरदा वृद्धता यस्य नास्ति स नारदश्चिरः ।। ११ ६।।
बभूव काले बालः सः क्रमेण पञ्चहायनः ।
गायति सततं कृष्णयशोगानगुणादिकम् ।। १ १७।।
कृष्णगाथां प्रकुर्वंश्च धूलिनैवेद्यमीरयन् ।
धूलिषुप्रतिमां कृत्वा धूलिनाऽर्चयति प्रभुम् ।। ११८ ।।
पुत्रमाह्वयते माता प्रातराशाय तं शिशुम् ।
हरिं संपूजयामीति प्रत्युत्तरं प्रवक्ति सः ।। ११९ ।।
शिशवः पञ्चवर्षीया ब्राह्मणाः सुहृदश्च ते ।
प्रच्छन्नं हृतवन्तश्च चत्वारः सनकादयः ।। 1.202.१२० ।।
नाममन्त्रं हरेर्दीक्षां ददुस्तस्मै विधानतः ।
मूलफलादिकं बालदत्तं ते मुनिपुंगवाः ।। १२१ ।।
चत्वारः संबुभुजिरे तच्छेषं बुभुजे शिशुः ।
चतुर्थको मुनिस्तस्मै कृष्णमन्त्रं ददौ तदा ।। १२२ ।।
एवं शूद्रीसुतः सोऽयं ब्राह्मणानां प्रसंगतः ।
ऋषीणामन्नपात्राणां बुभुजे दासवच्छुभम् ।। १२३ ।।
संशुद्धो गोपिकाबालो विप्रगेहे दिने दिने ।
कषाया जज्वलुः सर्वे आर्षप्रसादभोजनात् ।। १ २४।।
साधूनां भोजनोच्छिष्टं प्रसादयति चान्तरम् ।
विधुनोति महत्पापं पवित्रयति मानसम् ।। १ २५।।।
आपादयति विज्ञानं वर्धयत्यात्मसत्त्वताम् ।
विनिर्मलयति श्रद्धां सम्पादयति राधनाम् ।। १ २६।।
उत्तेजयति सत्प्रेम भक्तिं वर्धयति ध्रुवाम् ।
प्रयोजयति तन्मूर्तौ प्रेषयत्यक्षरं पदम् ।। १२७।।
नारदो मुनिविप्राणां पत्रावल्योदनादिकम् ।
प्रासादिकं प्रभुक्त्वैव दिव्यतामगमत् खलु ।। १२८ ।।
एकदा शिशुमाता सा गच्छन्ती निशि वर्त्मनि ।
ममार सर्पदष्टा द्राक् हरिस्मरणमानसा ।। १२९।।
सद्यो जगाम वैकुण्ठं विष्णुपार्षदसंयुता ।
विष्णुयानेन सद्रत्ननिर्मितेन हि सा सती ।। 1.202.१३० ।।
तदूर्ध्वदैहिकं कृत्वा तस्थौ गंगातटे शिशुः ।
तत्र स्नात्वा विप्रदत्तं हरेर्मन्त्रं जजाप सः ।। १३१ ।।
तीरे वृक्षेषु मध्ये स ह्यश्वत्थमूलसन्निधौ ।
कृत्वा योगासनं तस्थौ दध्यौ मूर्तिं हरेस्तथा ।। १३ २.।।
मन्त्रं जजाप द्वाविंशत्यक्षरं श्रीहरिं स्मरन् ।
ओं श्रीं नमो भगवते रासमण्डलेश्वराय ।। १३३ ।।
श्रीकृष्णाय स्वाहेति च मन्त्रं जजाप कल्पद्रुम् ।
ध्यानं चकार देवस्य कृष्णस्याऽतिमनोहरम् ।। १ ३४।।
चिन्तयति स्म गोविन्दं नव्यजीमूतसुन्दरम् ।
शरत्पंकजनेत्रं च शरच्चन्द्रशुभाननम् ।। १ ३५।।
पक्वबिम्बौष्ठसच्छोभं कुन्दाभदन्तराजितम् ।
सस्मितं मुरलीहस्तं कोटिकन्दर्पसुन्दरम् ।। १३६ ।।
कोटिचन्द्रप्रभाभान्तं पुष्टश्रीव्याप्तयौवनम् ।
त्रिभंगं द्विभुजं पीतवाससं कौस्तुभान्वितम् ।। १३७।।
रत्नकेयूरवलयस्वर्णनूपुरभूषितम् ।
रत्नकुण्डलकर्णं चोज्ज्वलगण्डप्रशोभितम् ।। १ ३८।।
मयूरपुच्छचूडं च रत्नमालाढ्यवक्षसम् ।
आजानुलम्बहस्तं च वनमालासुधारिणम् ।। १ ३९।।
चन्दनादिद्रवदेहं भक्तानुग्रहतत्परम् ।
वक्रलोचनगोपीभिर्वीक्षितं क्रीडया मुदा ।। 1.202.१४०।।
ऊनपञ्चदशवर्षस्वरूपगोपिकायुतम् ।
राधारमामहालक्ष्मीसेवितं भूषितं वरम् ।। १४१।।
किशोरं गोपिकाकान्तं निर्लिप्तं निर्गुणं हरिम् ।
दध्यौ स नारदो देवः परमात्मानमच्युतम् ।। १४२।।
दिव्यं वर्षसहस्रं स निराहारः कृशोदरः ।
योगसिद्धः कृष्णयोगात् प्राणधारणशक्तिमान् ।। १४३।।
मन्त्रयोगाद्ददर्शाऽयं दिव्यलोकस्थबालकम् ।
रत्नसिंहासनस्थं च रत्नभूषणशोभितम् । । १४४। ।
किशोरवयसं कृष्णं गोपवेषं सुसुन्दरम् ।
पीताम्बरयुतं गोपगोपीगणसुसेवितम् ।। १४५।।
द्विभुजं मुरलीहस्तं कस्तूरीचन्दनार्चितम् ।
दृष्ट्वा च शान्तवदनं शान्तश्च गोपिकासुतः ।। १४६।।
तिरोभूतं च तद्रूपं पुनर्नैव ददर्श सः ।
रुरोदाश्वत्थमूले स न दृष्ट्वा श्यामसुन्दरम् ।। १४७।।
बभूवाऽऽकाशवाणी च हितसत्यमिताक्षरा ।
सकृद्यद्दर्शितं रूपं पुनर्द्रक्ष्यसि नाऽधुना ।। १४८।।
अपि पक्वकषायाणां दुर्दर्शं च कुयोगिनाम् ।
अस्मिन्देहे लयं याते प्राप्ते दिव्ये च वर्ष्मणि ।। १४९।।
पुनर्द्रक्ष्यसि गोविन्दं गोलोकस्थं हरिं प्रभुम् ।
श्रुत्वेति विररामाऽसौ काले तत्याज तां तनुम् ।। 1.202.१५० ।।
कृष्णं स्मरन् ययौ शापमुक्तो नारद ऐश्वरम् ।
पदं गोलोकधामाख्यं नेदुर्दुन्दुभयस्तदा ।। १५१ ।।
पुष्पवृष्टिर्बभूवाऽथ विलीनो ब्रह्मविग्रहे ।
पुनश्च ब्रह्मणः पुत्रो जातो ब्राह्मणनारदः ।। १५२।।।
आविर्भावतिरोभावौ स्वेच्छया मुक्तदेहिनाम् ।
जन्ममृत्युर्जराव्याधिर्भक्तानां नास्ति पद्मजे ।। १५३।।
पुनर्युगान्तरेऽतीते स्रष्टुः सृष्टौ च नारदः ।
विधेर्नारदनाम्नश्च कण्ठदेशाद् बभूव सः ।। १५४।।
नारदश्चेति विख्यातो मुनीन्द्रो मानसः सुतः ।
कृष्णरूपो नारदोऽयं हरेर्मानसमुच्यते ।। १५५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आयुर्वेदादिरीत्या व्याधिनाशनोपायाः, मालावती प्रार्थनया उपबर्हणस्य पुनर्जीवनदानं तत्प्रदं षोडशाऽक्षरमन्त्रकवचं, पुनः द्रुमिलशूद्रस्य गोपस्य कलावत्या काश्यपनारदवीर्यद्वारा नारदजन्म, सनत्कुमारद्वारा वैष्णवी दीक्षा, मातृमरणोत्तरं वर्षसहस्रं तपस्तप्त्वा देहं त्यक्त्वा गोलोकं प्राप, पुनर्ब्रह्मणः कण्ठादुत्पत्तिरित्यादिनिरूपणनामा द्व्यधिकद्विशततमोऽध्यायः ।। २०२ ।।