लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २३८
← अध्यायः २३७ | लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः) अध्यायः २३८ [[लेखकः :|]] |
अध्यायः २३९ → |
श्रीनारायण उवाच-
शृणु लक्ष्मि! महादेवश्चैकदा मामुपागतः ।
पृष्ठवान् स च माहात्म्यं प्रत्येकादशिकाभवम् ।। १ ।।
द्वादश्याश्चापि माहात्म्यं तस्मै संकथितं मया ।
यच्छ्रुत्वा मुनयः सर्वे फलं प्राप्य दिवं गताः । । २ ।।
तच्चाहं ते प्रवक्ष्यामि कोटिस्वर्गफलप्रदम् ।
एकादशी सदा ऋक्षयोगेन चोत्तमा मता ।। ३ ।।
जया च विजया चैव जयन्ती च मतोत्तमा ।
एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसू ।। ४ ।।
नाम्ना सा तु जया बोध्या व्रतार्थं तिथिरुत्तमा ।
यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् । । ५ ।।
विजया सा समाख्याता सहस्रगुणितं फलम् ।
यदा च शुक्लद्वादश्यां प्राजापत्यं भवेत्तदा ।। ६ ।।
जयन्तीनाम सा सर्वपापनाशकरा तिथिः ।
सप्तजन्मकृतं पापं शुष्कं चार्द्रं विनाशयेत् ।। ७ ।।
यदा वै शुक्लद्वादश्यां पुष्यं भवति कर्हिचित् ।
महापुण्या च सा बोध्या सर्वोत्तमा च सा तिथिः ।। ८ ।।
तिलप्रस्थप्रदानं यः संवत्सरं करोति हि ।
उपवासश्च तस्यां यः कुर्यादस्याऽधिकं फलम् ।। ९ ।।
अस्या व्रतस्याऽनुयोगात् स्वयं तुष्टो भवेद्धरिः ।
प्रत्यक्षदर्शनं याति मोक्षदं च फलं भवेत् ।। 1.238.१ ०।।
वाचिकान्मानसाद्देहात्पापात्सप्तजनुकृतात् ।
पुष्ययुक्तामुपोष्यैवाप्नुयान्मुक्तिं तथा पराम् ।। ११ ।।
एकादशीसहस्रस्य फलं च लभते व्रतात् ।
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।। १ २।।
अक्षय्यफलदं चास्यां कृतं मोक्षप्रदं भवेत् ।
स्वर्णांगदेन राज्ञा वै पत्नीव्रतद्विजाय वै ।। १३ ।।
पृष्ठं कृतयुगे पूर्वे मोक्षप्राप्तिप्रकाम्यया ।
उपवासस्य नक्तस्य चैकभुक्तस्य किं फलम् ।। १४।।
विषयेभ्य उपावृत्तेन्द्रियाणां वास ऐश्वरे ।
मूर्तौ वा स भवेल्लोके ह्युपवासः फलप्रदः ।। १५।।
निर्जलो वा सजलो वा ह्युपवासः समुच्यते ।
सफलो वा पयःपानयुक्तोऽपि सः प्रकथ्यते ।। १६ ।।
दशम्यां त्वेकभुक्तं च कृत्वा व्रतं समाचरेत् ।
दशम्यां वा तथा नक्तं भुक्त्वा वै व्रतमाचरेत् ।। १७।।
दिवसस्याऽष्टमे भागे मन्दीभूते दिवाकरे ।
भोजनं नक्तमित्युक्तं न नक्तं निशि भोजनम् ।। १८।।
नक्षत्रदर्शने नक्तं व्यापृतस्य भवेत् खलु ।
व्यवसायिजनस्यैकादश्यां नक्तं च भोजनम् ।। १९।।
नास्य निषेधनं यस्मात् कर्मचारी जनोऽस्ति सः ।
मध्याह्ने चैकभुक्तं वा कृत्वापि व्रतमाचरेत् ।।1.238.२०।।
अबलस्य दुर्बलस्य कृतेऽयं भोजनादरः ।
ततः प्रभातसमये चैकादश्यां व्रती जनः ।।२ १।।
प्रगृह्णीयाच्च नियमं विषयेभ्यो निवर्तने ।
पूजयेच्च हरिं प्रातः षोडशोपसुवस्तुभिः ।।२२।।
प्रार्थयेच्च हरिं सम्पूर्णं व्रतं मे भवेदिति ।
मा विघ्नो मे भवेत्तत्र मा श्रद्धानाश इत्यपि ।।२३।।
व्यवहारमयं तत्र व्रते नैव समाचरेत् ।
आवश्यकं प्रकुर्याच्च यन्न व्रतविधायकम् ।।२४।।
पयो जलं फलं मूलं पत्रं शाकं रसस्तथा ।
ओषधं च गुरोर्वाक्यं ब्रह्मवाक्यं विवश्यता ।।२५।।
एकादशानि चैतानि ह्यव्रतघ्नानि सन्ति वै ।
भोजनं चाऽप्यशक्तस्याऽव्रतघ्नं बोध्यमेव च ।।२६।।
मध्याह्नेऽपि जलस्नानं कुर्याच्च पूजयेद्धरिम् ।
अधमं कूपके स्नानं वाप्यां तु मध्यमं हि तत् ।।२७।।।
तडागे वाथ नद्यां वा स्नानं वै चोत्तमं मतम् ।
तीर्थे वापि महानद्यां समुद्रे चोत्तमोत्तमम् ।।२८।।
गृहे स्नानं ह्यशक्तस्य स्मृद्धस्यापि भवेत् खलु ।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।।२९।।
मृत्तिके त्वां शरीरे मे लेपयामि क्षमां कुरु ।
हर पापानि सर्वाणि पुण्यानि कुरु साम्प्रतम् ।।1.238.३ ० ।।
इत्युक्त्वा लेपयेद् देहे शुद्ध्यर्थं मृत्तिकां जनः ।
मौनमादाय कृष्णस्य स्मरन्नाम जले शुभे ।।३ १ ।।
स्नायात्तथा च हरये नैवेद्यं तत्र कारयेत् ।
जलं तथाऽर्पयेत् कालं कथया क्षपयेद् व्रती ।।३२।।
भक्त्या भगवतः पूर्णं दिनं तु गमयेद् व्रती ।
रात्रौ तथा महद्भावभृतैर्वस्तुभिरादरात् ।।३३।।
पूजनं देवदेवस्य कुर्याज्जागरणं निशि ।
यथा शुक्ला तथा कृष्णा विधिनैवं प्रकारयेत् ।।३४।।
एकादशीदिनं वन्ध्यं व्रतहीनं न यापयेत् ।
एवं व्रतविधातुर्वै भगवान् श्रीहरिः स्वयम् ।।३५ ।।
प्रसन्नो भवति स्वस्य धाम नयति तं जनम् ।
फलं च शाश्वतं पूर्णानन्दरूपं ददात्यसौ ।। ३६ ।।
संक्रान्तीनां चतुर्लक्षं यो दानं प्रददाति वै ।
एकादश्युपवासस्य तद्धि नैककलासमम् ।। ३७।।
प्रभासे कुरुभूभागे चन्द्रसूर्यग्रहाप्लवे ।
यत्फलं च ततः श्रेष्ठमेकादश्युपवासिनः ।। ३८।।
केदारे च जलं पीत्वा पुनर्जन्म न विद्यते ।
तथा चैकादशीपुण्यवतो जन्म न विद्यते ।।३९ ।।
अश्वमेधादियज्ञेभ्योऽधिकं पुण्यं व्रते भवेत् ।
तपस्विनां सहस्रं च प्रत्यहं यद्गृहेऽब्दकम् ।।1.238.४० ।।
भुंक्ते च तत्फलाच्छ्रेष्ठं चैकादश्युपवासिनः ।
गोसहस्राधिकं पुण्यं शतोर्ध्वं संप्रजायते ।।४१।।
ब्रह्मविष्णुमहेशाः संवसन्त्येकादशीकृतः ।
देहे देवस्वरूपोऽयं व्रती भवति केशवः ।।४२।।
रुक्मिणीस्वामिनः सेवापुण्यस्याऽन्तो न विद्यते ।
एकादशीव्रतस्यापि पुण्यसंख्या न विद्यते ।।४३।।
उपवासेन पूर्णं वै तदर्धं नक्तभोजनात् ।
एकभुक्तात्तदर्धार्धं पुण्यं संजायते व्रते ।।४४।।
तावद्गर्जन्ति तीर्थानि दानानि नियमानि च ।
यावन्नोपोषयेज्जन्तुर्वासरं हरिवल्लभम् ।।४५।।
एकादशीसमं नास्ति महायज्ञसहस्रकम् ।
महादानसहस्रं च महास्वर्गशतं तथा ।।४६।।
भवत्येकादशीपुण्यात् मोक्षार्थं हि मता तु सा ।
मार्गशीर्षे कृष्णपक्षे चोत्पन्नाऽतो मम प्रिया ।।४७।।
उत्पन्नत्वाच्च सा नाम्नोत्पत्तिरेकादशी मता ।
उत्पत्तिं च विधानं च पूजनं चाचरेद् व्रती ।।४८।।
अभया सापि संप्रोक्ता पूज्यः सुलक्षणायुतः ।
कृष्णस्तु तिलपुष्पैश्च नैवेद्ये च गुडौदनः ।।४९।।
देयं स्कन्धफलं त्वर्घ्ये वृषदानं च सम्मतम् ।
तथैव दक्षिणा देया कृष्णाय स्वर्णमुद्रिकाः ।।1.238.५०।।
उत्पत्तिस्तत्र कर्तव्या विधिना वै व्रतोत्सवे ।
प्रातर्नारायणो निद्रावशोऽस्ति गह्वरे यथा ।।५१ ।।
सिंहवतीप्रनाप्तयेव पर्वते हिमवर्तिनि ।
हिमाचलगुहा कार्या तदन्तः श्रीहरिः स्वयम् ।।५२।।
सुप्तोऽस्तीति प्रक्त्वप्तव्यं कर्तव्यो मुरदानवः ।
एकादशी तथा कन्यारूपा दिव्या सुवर्णजा ।।५ ३ ।।
कर्तव्या शस्त्रसम्पन्ना तथा युद्धं प्रदर्शयेत् ।
मुरनाशस्तथा नारायणजाग्रत्स्वभावता ।।५४।।
प्रकर्तव्या गह्वरे च तयोस्तत्र प्रपूजनम् ।
एकादश्या हरेश्चैव तदा षोडशवस्तुभिः ।।५५।।
सर्वतोभद्रनामाऽत्र सप्तधान्यैश्च मण्डलम् ।
कारणीयं च तन्मध्ये सौवर्णस्ताम्रजोऽथवा ।।५ ६ ।।
घटः पञ्चसुरत्नादिवस्त्रपल्लवशोभितः ।
फलयुक्तः स्थापनीयस्तत्र स्थाली तिलान्विता ।।५७।।
स्थापनीया तत्र मूर्तिद्वयं स्थाप्यं हि मन्त्रतः ।
पूजनं विधिवत् कार्य पूर्वोक्तविधिना शुभम् ।।५८।।
सुशय्या स्थापनीया सपर्यंका सुखसंप्रदा ।
व्रतं कार्यं दिवारात्रौ जागरं कार्यमित्यपि ।।५९।।
रात्रौ च पूजनं तत्र हरेः कर्तव्यमंजसा ।
प्रातः स्नानं पूजनं च गोदानं भूमिदानकम् ।।1.238.६० ।।
स्वर्णदानं यथाशक्ति गुरवे ब्राह्मणाय वा ।
कार्यं विसर्जनं पश्चात् पारणां परिवर्तयेत् ।।६१।।
साधून् साध्वीरर्भकांश्च विप्रान् दीनान् सुभोजयेत् ।
मूर्तिदानं च गुरवे कुर्याद् भक्तिप्रपूर्वकम् ।।६२।।
यथाद्रव्यं यथाशक्ति विस्तारः कार्य एव च ।
राज्यदानं ग्रामदानं क्षेत्रदानं गृहार्पणम् ।।६३।।
कन्यादानं पशोर्दानं रत्नमणिप्रदानकम् ।
हस्तिदानं चाश्वदानं यानवाहनदानकम् ।।६४।।
अन्नदानं वस्त्रदानं ज्ञानविद्याप्रदानकम् ।
यत्सामर्थ्यो भवेद् दाता तथा दानं मतं सदा ।।६५।।
वित्तशाठ्यं न प्रकर्तव्यं धनिना च नृपेण च ।
फलदानं काष्ठदानं तिलदानादि वापि च । ।६६।।
निर्धनेनापि कर्तव्यं सेवा वा देहसंभवा ।
वाचा वा मनसा वाथ कराभ्यां सेवनं तथा ।६७।।
मार्जनं लेपनं वार्याहरणं पादमर्दनम् ।
मन्दिरे दास्यवत् वर्त्यं फलानन्त्याद्यवाप्तये ।।६८।।
भावयुक्तेन भगवान् सेवनेन प्रतुष्यति ।
शृणु तत्र शुभाख्यानं श्रवणादपि तारयेत् । ।६९।।
पुरा तु वेधसस्तृतीये कल्पे मरुदेशजः ।
राजाऽऽसीत्तु मरुद्धन्वा स्वार्थमात्रपरायणः ।।1.238.७ ० ।।
कल्पस्याऽन्ते कलौ राजा प्रवृत्तो विषयेष्वति ।
कामलोभोत्थदोषैश्च प्रजा जातापि तादृशी ।।७१ ।।
प्रजायां दोषबाहुल्ये राजा दोषेण लिप्यते ।
राज्ञः पापाच्च वै वृष्टिर्जायते नहि तदृतौ ।।७२।।
एवं वृष्टिप्रतिबन्धे प्रजाः सर्वाः प्रपीडिताः ।
अन्योन्यं स्वं चाहरन्ति वस्त्र चान्नादि सर्वथा ।।७३।।
नीयते च बलात्सर्वं न्यायस्तत्र न विद्यते ।
यथा यथा विना वृष्टिं समयो व्येति तत्तथा ।।७४।।
प्रजाः निष्पीड्य राजा सः धनान्नानि विकर्षति ।
नारीश्च गाश्च तत्सर्वं प्रसह्य नयति नृपः ।।७५।।
हिंसाऽनृतस्तेयबलात्कारादिपापदूषिते ।
देशे प्रजाक्षयो जातो राजापि ध्वंससन्मुखः ।।७६।।
अतिपापं महापापं चकार बहुधा मुहुः ।
एवं सप्ताऽब्दपर्यन्तं वृष्टिर्नैवाऽभवत्ततः ।।७७।।
राज्ञो भार्याऽन्नराहित्याद् रोगपीडाऽतिसंभवात् ।
मृत्यून्मूखी तथा पुत्रो मृत्यून्मुखोऽभवत् यदा ।। ७८।।
आक्रोशति स्म राजाऽसौ परमात्मा समुद्धर ।
पापान्यतिकृतान्येव न पुण्यं चार्जितं मया ।।७९।।
फलं प्राप्तं महद्दुःखं नाशोऽपि मस्तके धृतः ।
अतः परं न किञ्चिद्वै कर्तुं शक्नोमि माधव ।।1.238.८०।।
समुद्धर महादुःखात् क्षुधया प्राणनाशया ।
इत्याक्रोशन् हरिं ध्यायन् रौति विलापपूर्वकम् ।।८ १।।
तावदाकाशवाण्यासीन्मा राजन् रोदनं कुरु ।
पश्चात्तापेन पापानि दग्धानि मत्स्मृतेस्तथा ।।।८२।।
गृहाणेदं जलं वर्षाभवं पत्रादिकं तथा ।
खादय प्राणरक्षा वो भविष्यति सुखी भव ।।८३।।
अतश्चाग्रे तृतीये च दिने त्वेकादशी मम ।
प्रिया तिथिः समुपावर्तते तस्या व्रतं कुरु ।।८४।।
वृष्टिः सर्वत्र राज्ये ते भविष्यति सुखावहा ।
प्रजाः पुनश्च ते राज्ये प्रवर्त्स्यन्ति सुखार्थिकाः ।।।८५।।।
धनधान्यमयो देशो भविष्यति च तत्फलम् ।
प्राप्स्यन्ते च प्रजास्तेऽपि कुर्वन्त्वेकादशीव्रतम् ।।८६।।
इत्युक्त्वोपररामेयं राजा राज्ञी सुतस्तथा ।
व्रतं च निर्जलं चक्रुर्महत्पुण्यमभूत्ततः ।।८७।।
व्रते कृते महावृष्टिर्जाता देशश्च सस्यवान् ।
प्रजावासस्ततो जातो राज्ञी नीरुजतां गता ।।८८।।
सुतोऽपि सुखवान् जातस्तस्मै ददौ धुरं निजाम् ।
तत्र वर्षे कृताः सर्वैरेकादश्यो हि वत्सरम् ।।८९।।
तावदाकाशमार्गेण विमानद्वयमागतम् ।
राज्ञ्यर्थं च नृपत्यर्थं वैमानिकैरधिश्रितम् ।।1.238.९० ।।
प्राहुः स्वर्गीयदूतास्तौ समागच्छतमत्र यत् ।
युवयोर्व्रततजन्यं वै पुण्यं सहस्रनाकदम् ।।९ १।।
वर्तते तत्सहस्रयुगव्याप्तं भोग्यमेव हि ।
तत्पुण्येन मरुन्नामा देवः कल्पे चतुर्थके ।।९२।।
भविष्यसि क्ष्मापते सभार्यस्त्वं स्वर्गृहाण वै ।
इत्युक्तः स तु भूमीशो देहं त्यक्त्वा सभार्यकः ।।९३।।
ययौ स्वर्गप्रदं सोऽयं कल्पान्तरे पुनः पुनः ।
देवो भूत्वा च भोगांश्च भुक्त्वा भुक्त्वाऽतिभावतः ।।९४।।
स्वर्णांगदो महाभागवतो भूत्वाऽतिदासवत् ।
प्रसेव्य च हरिं प्राप्तो धामाऽऽवृतिविवर्जितम् ।।९५।।
ततो मार्गाऽसितपक्षोत्पत्त्यैकादशिकाव्रतम् ।
प्रयत्नेन प्रकर्तव्यं स्वर्गात्स्वर्गं च मोक्षणम् ।।९६।।
इत्युत्पत्त्यभिधैकादशिकाव्रतेन सर्वथा ।
राज्यपुत्रधनलाभश्चाऽऽरोग्यं सर्वदा भवेत् ।।९७।।
सर्वं चेष्टं मिलेत् स्वर्गं मोक्षश्चापि भवेत् ततः ।
सकामैश्चापि निष्कामैः कर्तव्यं तद्व्रतं महत् ।।९८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मार्गशीर्षकृष्णपक्षोत्पत्त्येकादशीव्रतविध्यादितत्फलप्राप्त्यादिनिरूपणनामाऽष्टात्रिंशदधिकद्विशत-
तमोऽध्यायः ।।२३८।।