लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २४९

← अध्यायः २४८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २४९
[[लेखकः :|]]
अध्यायः २५० →

श्रीलक्ष्मीरुवाच-
भगवन् देवदेवेश भक्तानामभयंकर ।
आयुःप्रदं व्रतं सम्यक् श्रावितं भवता विभो ।। १ ।।
श्रुत्वा वरूथविप्रस्य महापातकनाशनम् ।
प्रसन्नं जायते चेतः कृपासागर केशव ।। २ ।।
वैशाखशुक्लपक्षे तु किं नाम्न्येकादशी मता ।
किं फलं को विधिस्तत्र को देवो वद माधव ।। ३ ।।
श्रीनारायण उवाच-
पद्मजे कथयिष्यामि लोकानां हितकाम्यया ।
पवित्राणां पवित्रं यद्व्रतानामुत्तमं व्रतम् ।। ४ ।।
वैशाखस्याऽर्जुने पक्षे नामतो मोहिनी तु सा ।
भवेदेकादशी लक्ष्मि! सर्वपातकनाशिनी ।। ५ ।।
पापजालानि नश्यन्ति मोहो नश्यति तद्व्रतात् ।
महादुःखानि नश्यन्ति सुखं भवति तद्व्रतात् ।। ६ ।।
यस्याः कर्तव्यताभावादपि पापं विनश्यति ।
दशम्यामेकभक्तेन नक्तेनापि व्रतार्थिना ।। ७ ।।
वर्तितव्यं तथा रात्रौ ब्रह्मचर्यव्रतेन च ।
प्रातरुत्थाय कृष्णश्च स्मर्तव्यो व्रतिना सदा ।। ८ ।।
स्नात्वा हरिः सुपूज्यश्च पूजनीयो व्रतार्थिना ।
नित्यविध्यनुसारेण व्रतार्थं प्रार्थनां क्रियात् ।। ९ ।।
अद्याहं देवदेवेश करिष्ये व्रतमच्युत ।
तवानुग्रहलेशेन संपूर्णं तद्भवेदिति । । 1.249.१० ।।
एवं तु पूजनं नित्यतया प्राप्तं समाप्य च ।
कारयेत् सर्वतोभद्रमण्डलं तण्डुलादिभिः ।। ११ ।।
तन्मध्ये सुघटः स्थाप्यः सुवर्णस्याऽथ वा नवः ।
ताम्रजः सजलः पञ्चरत्नयुक् पञ्चपल्लवः ।। १ २।।
वस्त्रवेष्टितकण्ठश्च चन्दनाक्षतपूजितः ।
फलं न्यस्येन्नारिकेलं पार्श्वे तस्यान्तराऽब्भृतम् ।। १३ ।।
न्यस्येन्मुखोपरि रम्यां स्थालीं तिलप्रपूरिताम् ।
तत्र न्यस्येत् स्वर्णरूप्यताम्रद्रव्यं च शर्कराम् ।। १४।।
कारयित्वा कनकस्य मूर्तिं त्वेकादशीपतेः ।
मधुसूदनदेवस्य माधव्या सह शोभिताम् ।। १५।।
मोहिन्या च युतां तत्र स्थाल्यां वै स्थापयेत्तु ताम् ।
स्वर्गनिःश्रेणिकां कूप्यमयीं न्यस्येत्प्रपूजयेत् ।। १ ६।।
स्वस्तिकं ब्रह्मसूत्रं च चन्द्रकं तिलकं तथा ।
स्वर्णरौप्यं कारयित्वा घटपार्श्वे निधापयेत् ।। १७।।
फलानि विविधान्येव पूगीफलादिकानि च ।
एलालवंगत्वक्सारजातीफलानि चूर्णकम् ।। १८ ।।
शर्करां गूडधानादीन् नववस्तूनि दापयेत् ।
पर्यंकं गेन्दुकं गुप्तदोरकं पार्श्वकं तथा ।। १ ९।।
दर्पणं व्यजनं छत्रं चामरं यष्टिकां शुभाम् ।
पादुके केशसंस्कर्त्रीं सुगन्धद्रव्यसंयुताम् ।। 1.249.२० ।।
सजलं मृद्घटं नव्यं पक्वान्याम्रफलानि च ।
विन्यस्येत् पूजनं कुर्याद् विधिना व्रतकारकः ।। २१ ।।
पुष्पेषु मल्लिकां दद्यान्नैवेद्यं पायसं शुभम् ।
अर्घ्यं फलं तु पनसं शय्यादानं समुत्तमम् ।। २२।।
प्रथमं तिलपात्रे तं मधुसूदनमच्युतम् ।
आवाहयेत् ततो दद्यादासनं चोत्तमोत्तमम् ।। २३ ।।
पादप्रक्षालनवारि तथाऽर्चनजलं शुभम् ।
आचमनार्थे सलिलं दद्याद् देवाय भावतः ।। २४।।
दन्तधावनमार्द्रं च दद्याच्चूर्णं सुगन्धवत् ।
मुखप्रक्षालनं तस्य कारयेत् तीर्थवारिणा ।। २५ ।।
शौचादिकल्पयेद्धस्तपादशुद्धिं प्रकल्पयेत् ।
पंचामृतैः स्नापयेच्च शुद्धोदकेन तत्परम् ।। २६ ।।
वस्त्रैरामार्जनं कुर्यात् सुवस्त्राणि समर्पयेत् ।
धौत्रं सूक्ष्म शुभं प्रावरणं श्वेतं नवं तथा ।। २७।।
अर्पयेच्चन्दनं तैलं सुगन्धं द्रव्यमत्तरम् ।
गन्धसारं मणिं ब्रह्मसूत्रं च कज्जलादिकम् ।। २८ ।।
कुंकुमं त्वर्पयेच्चाबीरं गुलालं शुभाक्षतान् ।
पुष्पाणि कुन्दकलिकारूपाणि पुष्पमालिकाः ।। २९।।
विभूषणानि सर्वाणि शृंगारद्रव्यमुत्तमम् ।
अलंकाराणि रम्याणि त्वर्पयेद्धरये तदा ।। 1.249.३० ।।
तिलकं चन्द्रकं भाले कारयेच्चन्दनेन वै ।
लेपयेच्चाभितो वर्ष्मणि व्रती हृदयादिके ।। ३१ ।।
धूपं दीपं च नैवेद्यं दद्यान्मिष्टान्नमुत्तमम् ।
शार्करं दधिसारं श्रीखण्डं दद्यात्तु पूरिकाः ।। ३२।।
शार्करं शीतसलिलं फलं चाम्रं च बीटिकाम् ।
नागवल्लीपर्णकृतां दद्यात्त्वन्यत्तु यत् कृतम् ।। ३३ ।।
आरार्त्रिकं नमस्कारं स्तुतिं प्रदक्षिणं तथा ।
दण्डवच्च क्षमायाञ्चां फलपूर्णत्वयाचनाम् ।। ३४ ।।
पुष्पाञ्जलिं दक्षिणां च दद्यात् पश्चाद् विसर्जयेत् ।
कुर्याच्चावश्यकं कार्यं व्रती भक्त्यात्मकं तदा ।। ३५ ।।
मध्याह्ने पूजयेत् कृष्णं भोजनं कारयेद् बहु ।
षट्पंचाशत्प्रभोगाँश्च दद्यादर्थान्वितस्तदा ।। ३६ ।।
जलपानं प्रदद्याच्च ताम्बूलं मुखशोधकम् ।
दद्याच्च तं नमस्कृत्य व्रती भक्त्यादिकं चरेत् ।। ३७।।
सायं चारार्त्रिकं कुर्यान्नैवेद्यं च जलार्पणम् ।
मण्डपं कदलीस्तंभैः कारयेद् बन्धयेच्च सः ।। ३८ ।।
प्रेंखां सुशोभितां रम्यां नवपल्लवतोरणाम् ।
आन्दोलयेद्धरिं तत्र स्थापयित्वा स्वयं व्रती । । ३९ ।।
पूजनं षोडशवस्तूत्तमैर्निर्वर्तयेद्व्रती ।
रात्रौ भक्तियुतं कालं भक्तैः सह तु यापयेत् ।।1.249.४० ।।
एवं जागरणं कुर्यान्महोत्सवपुरःसरम् ।
नर्तनं गायनं गीतिं तालमानादिसंयुताम् ।।४ १ ।।
स्मरणं कीर्तनं चापि कथाख्यानानि कारयेत् ।
गापयेत् कृष्णपद्यानि नरा नार्यश्च सर्वथा ।।४२।।
हरिकीर्तनयुक्ताश्च कुर्युर्जागरणं तथा ।
प्रातः स्मरेद्धरिं स्नात्वा पुनः पूजनमाचरेत् ।।४३ ।।
व्रती दानानि दद्याच्च गुरवेऽतिसुभावतः ।
भोजयेद् ब्राह्मणान् साधून् साध्वीर्बालाँच पूजयेत् ।।४४।।
दीनान् कृपणान् बालिकाश्च पराधीनाँश्च भोजयेत् ।
आश्रितान् कर्मचाराँश्च प्रमदाश्च कुटुम्बिनः ।।४५।।
पूज्याँश्च भोजयेन्मिष्टं मातृँश्च जनकाँस्तथा ।
वृद्धाँश्च भोजयेन्नम्रभावनां च प्रदर्शयेत् ।।४६।।
ततो व्रती स्वयं कुर्यात्पारणां तु हरिं स्मरन् ।
शय्यादानं गजवाजिगोदानं भूगृहार्पणम् ।।४७। ।
सुसत्पात्रे प्रकुर्यात्तु यानवाहधनार्पणम् ।
एवं व्रती व्रतं कुर्वन्नाप्नोति परमं पदम् ।।४८ ।।
शाश्वतं च सुखं स्वर्गे यथेष्टं कृपया हरेः ।
शृणु लक्ष्मि! कथां पूर्वभवां वैश्यस्य पावनीम् ।।४९।।
सौराष्ट्रे तु सरस्वत्याः प्राच्या नातिविदूरके ।
उत्तरे तु प्रदेशे वै भद्रावत्यास्तु दक्षिणे ।।1.249.५ ० ।।
भाण्डीराख्यनगर्यां वै धृतिसिंहोऽभवन्नृपः ।
तस्य श्रेष्ठी धनपालो ह्यभवद्धनशेवधिः ।।५ १ ।।
धनपालः सदा ख्यातः पुण्यकार्यप्रवर्तने ।
प्रपाकूपमठारामतडागगृहकारकः ।।५२।।
विष्णुभक्तः साधुसेवी परोपकृतिसद्व्रतः ।
कथाश्रवणसुश्रद्धः सर्वदा भक्तितत्परः ।।५३।।
पुत्रास्तस्याऽभवन् पञ्च श्रेष्ठिनो धनशालिनः ।
सुमना द्युतिमाँश्चैव मेधावी सुकृतिस्तथा ।।५४।।
चत्वारः पुण्यपात्राणि पञ्चमश्चातिपापकृत् ।
धृष्टबुद्धिरिति ख्यातः परस्त्रीसंगसंरतः ।।।५५।।।
द्यूतादिव्यसनासक्तो वारस्त्रीरतिकारकः ।
देवपूजाविहीनश्च पितृतर्पणनास्तिकः ।।५६।।
द्विजानां निन्दको वेदनिन्दको न्यायवर्जितः ।
दुष्टात्मा स्वपितुर्द्रव्यनाशको मदिरापिबः ।।५७।।
अभक्ष्यभक्षक पापी सर्वसम्पत्क्षयंकरः ।
चौर्यादिकर्मनिरतो दुष्टसंगो ह्यकर्मकृत् ।।५८।।
पित्रा चतुष्पथे दृष्टो वेश्यास्कन्धस्थहस्तकः ।
पापाचाररतश्चैवं विज्ञातो बन्धुभिस्ततः ।।५९।।
पित्रा निष्कासितो गेहाद् बान्धवैश्च विवासितः ।
दायभागेन यत्किंचिल्लब्धं निर्वाहकं धनम् ।।1.249.६० ।।
सर्वं नीतं क्षयं तेन वेश्यासंगेन नित्यदा ।
आभूषणानि पात्राणि वस्त्राण्युपस्कराणि च ।।६१ ।।
क्षयं नीतानि तेनैव गणिकासंगकारिणा ।
धनहीनः परित्यक्तो गणिकाभिस्ततः स तु ।।६२।।
चिन्तातुरोभवद् वस्त्रधनहीनः क्षुधार्दितः ।
किं करोमि क्व गच्छामि जीवनोपायवर्जितः ।।६३।।
तस्मात् कार्यं तस्करत्वं चौर्यं कार्यं प्रसह्य च ।
लुण्ठनापहरणे च कृत्वा जीवामि नान्यथा ।।६४।।
एवं बलाऽपहरणं करोति वनगे पथि ।
पितुस्तु नगरे रात्रौ तस्करत्वं करोति च ।।६५।।
सुरां पिबति नित्यं स मांसं खादति नित्यदा ।
चौर्यं नित्यं करोत्येव पुंश्चलीसंगतिं गतः ।।६६।।
रात्रौ चौर्यं सुवर्णस्य कृतं तेन तु तत्क्षणे ।
राजदूतैर्धृतो रात्रौ किन्तु स्वर्णं धनं तदा । ।६७।।
लुंचारूपं राजदूतेभ्योऽर्पयित्वा विबन्धनः ।
मुक्तिं प्राप्य गतोऽरण्ये पुनश्चौर्यं चकार सः ।।६८।।
पुनर्धृतो राजदूतो पुनर्लुंचाप्रदानतः ।
बन्धनान्मुक्तिमासाद्य गतोऽरण्यं पुनस्तथा ।।६९।।
पुनश्चौर्यं समारेभे धनापहरणं तथा ।
जनानामर्दनं चक्रे संघानां लुण्टनं तथा ।।1.249.७०।।
पुनश्च नगरे चौर्ये कर्तुं रात्रौ ययौ तदा ।
मनुष्यैः स दुराचारो निबद्धो रश्मिभिर्दृढैः ।।७ १ ।।
निगडैर्दण्डितो राज्ञा कशाघातैश्च ताडितः ।
कारागारं यथादण्डं क्षपयित्वा पुनर्हि सः ।।७२ ।।
निर्बन्धो वनमासाद्य भोजनार्थं प्रधावति ।
सिंहवद्घातयत्युग्रो मृगशूकरवानरान् ।।७३ ।।
आमिषाहारनिरतो वने भ्रमति सर्वथा ।
करे धनुः समागृह्य धृत्वा पृष्ठे निषंगकम् ।।७४।।
आरण्यकान् पशून् पतत्रिणो हन्ति पदा चरन् ।
चक्रवाकान्कपोताँश्च पारावताँश्च तित्तिरान् ।।७५।।
कुक्कुटान् सारसान् हन्ति मयूरान्मूषकानपि ।
वराहान् गवयाँश्चैव गरुडान् हन्ति हंसकान् ।।७६।।
एतानन्यान् हिनस्त्युग्रो धृष्टबुद्धिर्हि निर्दयः ।
पूर्वपापैः पापमार्गे प्रवृत्तः पापकर्मसु ।।७७ ।।
दुःखाविष्टः सुखलेशरहितोऽभूदहर्निशम् ।
एवं वृक्षेषु शैलेषु दुर्गे चारण्यभूमिषु ।।७८।।
अनासनोऽटति दैवात् प्राप्तः कुण्डिननामकम् ।
पुरं ह्युद्यानशोभाढ्यं निकटे वनभूमिकम् ।।७९।।
नातिदूरे वने तत्र कौण्डिन्याख्यो महानृषिः ।
स्वाश्रमे वर्तते नित्यं पान्थानां शान्तिसम्प्रदः ।।1.249.८ ० ।।
अतिथीन् सत्करोत्येषो भक्ष्यपानासनादिभिः ।
गतोऽयं त्वाश्रमद्वारे मुनिं श्रुत्वा तपोधनम् ।।८ १ ।।
वैशाखे मासि सरसि कृतस्नानं तपोधनम् ।
आससाद धृष्टबुद्धिः स्वोद्धारोदयसन्मुखः ।।८ २।।
पादयोः पतितः प्रह्वीभावेनैवाऽऽर्द्रमानसः ।
तावदृषेरार्द्रवस्त्रबिन्दवः पतितास्तदा ।।८ ३ ।।
मस्तके धृष्टबुद्धेस्तु स्कन्धयोः करयोस्तथा ।
नारायणाय विद्महे वासुदेवाय धीमहि ।।८४।।
वदतो मुनिराजस्य शब्दोऽपि श्रवणे गतः ।
एवं मन्त्रेण ऋषिणा सलिलेन तु पावितः ।।८५ ।।
चरणस्पर्शमात्रेण नष्टपापो बभूव सः ।
मुमुक्षुतांकुरोद्भेदो जातस्तत्र क्षणेऽस्य च ।।८६ ।।
कौण्डिन्यस्याऽग्रतः स्थित्वा समुवाच कृतांजलिः ।
भो भो ब्रह्मन्मोक्षदातर्दयां कृत्वा ममोपरि ।।८७।।
येन पुण्यप्रभावेण मुक्तिर्भवति पापिनः ।
तादृशं पुण्यकार्यं मे व्रतं वा वद मोक्षदम् । ।८८ ।।
महात्मनां प्रसंगेन महापातकिनोऽपि च ।
तरन्ति पावना भूत्वा पावयन्त्यपरानपि । ।८ ९।।
तस्माच्चौर्यसुरापानाऽऽमिषभक्षणमैथुनम् ।
कृत्वा पापदुराचारान् पतितोऽस्मि च सर्वतः । । 1.249.९० । ।
पावयित्वेदृशं मां च मोक्षभाजं कुरु प्रभो ।
श्रुत्वा प्राह तदा कौण्डिन्यर्षिस्तं शरणागतम् । ।९ १ । ।
वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता ।
एकादशी भवत्येषा व्रतं तस्याः समाचार ।।९२।।।
मेरुतुल्यानि पापानि क्षयं यास्यन्ति तद्व्रतात् ।
बहुजन्मार्जितान्याशु नश्यन्ति व्रतिनो ध्रुवम् ।।९३ ।।
इति कौण्डिन्यसद्वाचं श्रुत्वा धृष्टसुधीस्तदा ।
व्रतं चकार विधिवत् कौण्डिन्याश्रमसन्निधौ ।। ९४।।
धौतपापोऽभवच्छुद्धो वासनाऽस्य लयं गता ।
आयुश्चापि गतं त्वन्तं कर्मलेशो न विद्यते ।। ९५।।
द्वादश्यां सः फलपत्राहारः सन् सरसस्तटे ।
सुप्तो मुनिं स्मरन् कृष्णं नारायणं भजन् रटन् ।।९६ ।।
शरीरं भौतिकं त्यक्त्वा दिव्यदेहो बभूव सः ।
जगाम वैष्णवं लोकं गरुडोपरि संस्थितः ।। ९७।।
एवं लक्ष्मि! मोहिनीसद्व्रतं मोक्षप्रदं शुभम् ।
नातः परतरं किञ्चित् त्रैलोक्ये सचराचरे ।।९८।।
यज्ञादितीर्थदानानि कलां नार्हन्ति षोडशीम् ।
व्रतस्याऽस्याऽघहर्तुर्वैं मोक्षदातुर्हरेर्बलात् ।।९९ ।।
मायामोहप्रसक्तानां मोहिनी मोहनाशिनी ।
ब्रह्मपूजातिरिक्तानां मोहिनी मोहनप्रदा ।। 1.249.१०० ।।
मोहं नास्ति यतो यस्यां मोहिनी प्रोच्यते ततः ।
मोही पापी यया धाम्नि स्वर्गे वा नीयते तु सा ।। १०१ ।।
मोहिनी कृष्णसम्बन्धात्प्रोच्यते नित्यसौख्यदा ।
कोटियज्ञफलाधिक्यफलदात्री व्रतेन सा ।। १०२ ।।
पालनीया प्रयत्नेन स्वर्गमोक्षफलप्रदा ।
पूर्वजन्मकृताऽनेककर्मपापापनुत्तये ।। १०३ ।।
वैष्णवेन विशेषेण कर्तव्या मोहशान्तये ।
कृष्णनारायणपादाम्बुजमोहाभिलब्धये ।। १ ०४।।
पुत्रपौत्रधनदारास्मृद्धियानगृहादिकम् ।
सकामो लभते सर्वं व्रतेनाऽस्याः कृतेन यत् ।। १०५ ।।
लभेद्धनं धनहीनो ह्यबुद्धो बुद्धिमाप्नुयात् ।
यद्यत्संकल्पयेच्चापि संप्राप्नुयात्तु तद्व्रती ।। १०६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वैशाखशुक्लमोहिन्येकादशीव्रतमाहात्म्यं धृष्टबुद्धिनाम्नः पापिवैश्यस्य कौण्डिन्योपदेशाद् व्रतकरणेन मुक्तिरित्यादिनिरूपणनामैकोनपञ्चाशदधिकद्विशततमोऽध्याय ।। २४९ ।।