लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २७१

← अध्यायः २७० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २७१
[[लेखकः :|]]
अध्यायः २७२ →

श्रीनारायण उवाच-
अथ वार्षिकषष्ठीनां व्रतानि विविधानि ते ।
शृणु लक्ष्मि! कथयामि भुक्तिमुक्तिप्रदानि वै ।। १ ।।
चैत्रमासे शुक्लषष्ठ्यां स्कन्दजन्माऽभवत्पुरा ।
कुमारव्रतमेवैतत्कर्तव्यं पूजनादिभिः ।। २ ।।
षण्मुखं समयूरं च सेनानीं तु समर्चयेत् ।
भोजनानि च दानानि व्रती दद्यात् सुभक्तितः ।। ३ ।।
व्रतेनानेन बलवान् शूरः सर्वगुणान्वितः ।
चिरंजीवी प्राप्यते वै पुत्रस्तु व्रतिना ध्रुवम् ।। ४ ।।
शंकरं पार्वतीं स्कन्दं सौवर्णं सर्ववस्तुभिः ।
शृंगारितं दापयेच्च गुरवे व्रतपूर्तये ।। ५ ।।
वैशाखेऽपि तिथौ षष्ठ्यां कार्तिकं पूजयेद् व्रती ।
लभते मातृजं सौख्यं लालनं पालनादिकम् ।। ६ ।।
ज्येष्ठे शुक्ले तिथौ षष्ठ्यां पूजयेत्तु दिवाकरम् ।
लभते वाञ्छितान् कामान् दिवाकरप्रसादतः ।। ७ ।।
अषाढशुक्लषष्ठ्यां च कुर्यात् स्कन्दव्रतं पुनः ।
लभतेऽभीप्सितान् कामान्पुत्रपौत्रादिसन्ततिम् ।। ८ ।।
श्रावणे शुक्लषष्ठ्यां च शरजन्मानमर्चयेत् ।
लभतेऽभीप्सितानर्थान् षण्मुखस्य प्रसादतः ।। ९ ।।
अत्रैव दिवसे कुर्यात् सूपौदनाशनं व्रतम् ।
हरये त्वर्पयेद् भक्तो भुञ्जीत तत्प्रसादकम् ।। 1.271.१० ।।
सूपौदनं विना नान्यद् भोक्तव्यमेकभुक्तकम् ।
व्रतेनानेन दद्याच्छ्रीहरिः सूपौदनं तदा ।। ११ ।।
अत्रैव दिवसे चाहं कल्किरूपो भवामि वै ।
मम जन्मव्रतं कुर्यात् श्वेताश्वस्थितमेव च ।। १२ ।।
सच्छत्रं सायुधं स्वर्णहाराढ्यं पूजयेत्तु माम् ।
रक्षां करोमि पाखण्डदुष्टदुःखाद् व्रतार्थिनः ।। १३ ।।
भाद्रमासे कृष्णषष्ठ्यां ललितां पूजयेद् व्रती ।
नारी व्रतार्थिनी स्नात्वा शुक्लाम्बरधरा सती ।। १४।।
नद्योः संगमवालुका गृहीत्वा पिण्डमाचरेत् ।
विनिर्माय च ललितां पंकजैः करवीरकैः ।। १५ ।।
नीलोत्पलैर्मालतीभिः केतकैश्च प्रपूजयेत्। ।
अष्टोत्तरशतं तस्यै पुष्पाणां चार्पयेत् ततः ।। १६ ।।
प्रार्थयेदग्रतः स्थित्वा ललितां श्रीहरिप्रियाम् ।
गंगाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।। १७ ।।
तथा कनखले स्नात्वा हरिं लब्धवती पतिम् ।
ममापि श्रीहरेर्योगं देहि सौभाग्यवर्धिनि ।। १८ ।।
सम्प्रार्थ्यैवं प्रपूज्यैव नैवेद्यं पुरतो न्यसेत् ।
नारीकेलसुकूष्माण्डदाडीमबीजपूरकैः ।। १९ ।।
चिर्भट्टकर्कटिकाभिः फलैः संशोभयेत् पुरः ।
नवीनांकुरपत्रैश्च दीपावल्या च तोरणैः ।। ।। 1.271.२० ।।
धूपैः सुगन्धिनैवेद्यैर्मिष्टान्नैर्विविधैरपि ।
शष्कुलीभिर्मोदकैश्च भोजयेद्भावतो व्रती ।। २१ ।।
आरार्त्रिकं च कुर्वीत रात्रौ जागरणं चरेत् ।
गीतैवाद्यैर्नर्तनैश्च भजनैर्नामकीर्तनैः ।। २२ ।।
सखीभिः सहिता साध्वी न नेत्रे संप्रमीलयेत् ।
सप्तम्यां सरितं गत्वा स्नात्वा समर्च्य तां ततः ।। २३ ।।
दत्वा द्विजाय दानानि हुत्वा वैश्वानरं तथा ।
देवान् पितॄन् मनुष्याँश्च पूजयित्वा सुवासिनीः ।। २४।।
ब्राह्मणान्कन्यकाः साधून्साध्वीः संभोजयेद् व्रती ।
ललिता मेऽस्तु सुप्रीता संप्रार्थ्यैतान् विसर्जयेत्। ।। २५ ।।
नरो नारी चरेदेवं व्रतं सौभाग्यदं परम् ।
अन्यव्रतैस्तपोभिश्च दानैर्नियमसंयमैः ।। २६ ।।
यत्फलं तत्सुलभ्येत प्रैत्य लोकं सनातनम् ।
मोदते ललितादेव्या साकं विमानगो व्रती ।। २७।।
भाद्रमासे शुक्लपक्षे व्रतं चन्दनषष्ठिकम् ।
तस्यां लक्ष्मीस्तु संपूज्या चन्दनैर्भूषणादिभिः ।। २८ ।।
रोहिणीपातभौमैश्च युक्ता षष्ठी हि कापिला ।
तस्यां रविं समभ्यर्च्य षोडशोपसुवस्तुभिः ।। २९।।।
लभेत वाञ्छितान्कामान् व्रतकृन्नात्र संशयः ।
सूर्यषष्ठीयमेवापि भास्करस्य प्रसादतः ।। 1.271.३ ० ।।
जपो होमस्तथा दानं पितृदेवर्षितर्पणम् ।
सर्वमेवाऽक्षयं ज्ञेयं कृतं यद् व्रतिना शुभम् ।। ३१ ।।
पूजयित्वा कपिलां गां माल्यकुंकुमभोजनैः ।
सोपस्करां प्रदद्याद्वै गुरवे रवितुष्टये ।। २२।।।
एवं कृत्वा व्रतं नारी लभेत सुखमुत्तमम् ।
रसान्नफलभूषादिस्मृद्धं गृहं पतिं लभेत् ।।३३।।
अथेषशुक्लषष्ठ्यां वै पूज्या कात्यायनी प्रिये ।
सुगन्धमंगलद्रव्यैर्भोजनैर्मिष्टसद्रसैः ।। २४।।
पार्वती वै स्वयं प्रोक्ता काला कात्यायनी प्रसूः ।
पूज्याऽत्र सैकतीर्मूर्तिर्यद्वा द्विजसती प्रिये ।।२५।।
वस्त्रालंकारवान् दत्वा नत्वा क्षान्त्वा विसर्जयेत् ।
कन्या व्रतार्थिनी दैवं वरं विन्देत् सुसुन्दरम् ।।२६।।
पुत्रार्थिनी लभेत्पुत्रं कात्यायन्याः प्रसादतः ।
कार्तिके शुक्लषष्ठ्यां तु षण्मुखेन महात्मना ।। २७।।
देवसेनाभिधापत्नी लब्धा सर्वसुरार्चिता ।
देवसेनायुतं स्कन्दं पूजयेदुपचारकैः ।।३८।।
वह्निपूजा तथा होमश्चापि कर्तव्य आदरात् ।
एवं व्रती लसेत् सिद्धिं मनोभीष्टां तु शाश्वतीम् ।। ३५।।
मार्गशीर्षे शुक्लषष्ठ्यां कार्तिकेयेन धीमता ।
निहतस्तारको दैत्यो ब्रह्माद्याः स्कन्दपूजनम् ।।1.271.४०।।
अकुर्वन् गन्धपुष्पाद्यैर्व्रतिनाऽपि फलादिभिः ।
पूजनं परमं कार्यं वस्त्रभूषाप्रहेतिभिः ।।४१।।
नैवेद्यं मिष्टमत्रोक्तं दानं गोभूमयं स्मृतम् ।
रविवारयुता सेयं चेत्तु शतभिषान्विता ।।४।।
चम्पाषष्ठी तदा प्रोक्ता हरः पूज्यस्तदत्र वै ।
स्नानदानादिकं सर्वं कृतमक्षय्यमुच्यते ।।४३ ।।
महापूजा प्रकर्तव्या हरस्य च हरेस्तथा ।
दानानि विविधान्येव व्रती दद्यात्तु भावतः ।।४४।।
नरो नारी व्रतेनात्र सौख्यं लब्ध्वाक्षरं व्रजेत् ।
पौषमासे शुक्लषष्ठ्यां सूर्य पूज्यः प्रभेश्वरः ।।४५।।
विष्णुरूपो जगत्त्राता जातो वै वेधसः पुनः ।
नारायणोऽयं साक्षात् सर्वप्रकाशकृत्प्रभुः ।।४६।।
षोडषोत्तमवस्त्वाद्यै पूजनीयः सुखेप्सुभिः ।
नेत्रतेजो विवर्धेत धनसम्पद्गृहो भवेत् ।।४७।।
ब्रह्मणा सहितं पुत्रं सूर्यं सुमुकुटं व्रती ।
सौवर्णं कारयित्वैव दद्यात् दानं द्विजातये ।।४८।।
माघमासे सिता षष्ठी वरुणोत्पत्तिका मता ।
तस्यां पूज्यो जलेशो वै विष्णुरूपी सुरेश्वरः ।।४९।।
रक्तगन्धांशुकपुष्पधूपनैवेद्यदीपकैः ।
व्रतिना पूजितो दद्याद् यथेष्टान् सद्रसान् शुभान् ।।1.271.५० ।।
फाल्गुने शुक्लषष्ठ्यां च हरं पशुपतिं प्रभुम् ।
मृन्मयं वापि सौवर्णं कारयित्वा प्रपूजयेत् ।।५१ ।।
संस्नाप्य शतरुद्रेण पृथक् पंचामृतैर्जलैः ।
श्वेतचन्दनसौगन्ध्यैरालिप्याऽक्षतपुष्पकैः ।।५२।।
श्वेतैर्धत्तूरपुष्पैश्च फलैर्बिल्वसुपत्रकैः ।
पूजयित्वा च नैवेद्ये मिष्टान्नानि समर्पयेत् ।।५३।।
नीराजयित्वा नत्वा च क्षमाप्याथ विसर्जयेत् ।
नरो नारी व्रतं कृत्वा भोगान्ते शिवतां व्रजेत् ।।५४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकषष्ठीव्रतेषु कार्तिकस्वामिजयन्तीदिवाकरव्रतस्कन्द-
शरजन्मोत्सवसूपौदनाशनव्रतकल्किजयन्तीललिता-हरिप्राप्तिव्रतचन्दनषष्ठीकपिलाषष्ठीकात्यायनी-व्रतदेवसेनाव्रततारकवधकृत्स्कन्दव्रतचम्पा-
षष्ठीविष्णुजयन्तीसूर्यजयन्तीवरुण-जयन्त्यादिव्रतनिरूपणनामैकसप्तत्यधिकद्विशततमोऽध्यायः ।। २७१ ।।