लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३१२

← अध्यायः ३११ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१२
[[लेखकः :|]]
अध्यायः ३१३ →


श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! कथा प्राक्सृष्टिसंभवा ।
वसुधानाख्यनृपतेः राध्यासायाश्च योषितः ॥ १ ॥
पूर्वसृष्ट्यन्तिमे काले नृपो बभूव दक्षिणे ।
वसुधानो महाभक्तो महादेवस्य सेवकः ॥ २ ॥
राध्यासा तस्य पत्नी च महादेवस्य सेविका ।
आराधनां महादेवात्मकस्य स्वामिनः सदा ॥ ३ ॥
करोत्यभिन्नभावेन पातिव्रत्यपरायणा ।
नित्यं प्रातः स्वयं स्नात्वा पतिं स्नापयति प्रभुम् ॥ ४ ॥
महादेवं विविधैस्तु जलैर्दुग्धादिभिस्तथा ।
पत्रं पुष्पं फलं वस्त्रं सर्पं च शर्करां जलम् ॥ ५ ॥
आरार्त्रिकं चन्दनं च धूपं दीपं समर्प्य सा ।
वसुधानस्य सेवायां दासीव समतिष्ठति ॥ ६ ॥
राजाऽपि प्रातराज्ञाय त्यक्त्वा निद्रां मुहूर्तकम् ।
ध्यात्वा श्रीशंकरं ब्रह्म स्नानं पूजां करोति च ॥ ७ ॥
हृदि ध्यानं तथा पूजां शंभोः कृत्वा विभज्य च ।
अन्नादिकं त्वाश्रितेभ्यो भुंक्तेन्नं स्त्रीयुतो नृपः ॥ ८ ॥
राज्यकार्ये प्रजाकार्यं कुरुतस्तौ कृपान्वितौ ।
देवकार्यं दानकार्यं कुरुतो नित्यमात्मवत् ॥ ९ ॥
ददतोऽन्नं भिक्षुकेभ्यो वस्त्राणि तदपेक्षिणे ।
पात्राणि दानपात्राय धनानि च फलानि च ॥ १० ॥
दानशब्दस्तयोर्द्वारि विरामं याति नैव ह ।
दानक्रियापि च शान्ता नैव भवत्यहर्निशम् ॥ ११ ॥
यज्ञानां ब्राह्मणानां च साध्वीनां च सतामपि ।
तयोर्गृहेऽर्हणां शंभोरहर्निशं प्रजायते ॥ १ २ ॥
गवां दानं रसदानं मिष्टदानं पुनः पुनः ।
कुरुतस्तौ पतिपत्न्यौ तुष्टा यथाऽर्थिनस्तथा ॥ १३ ॥
न तद्राज्येऽवग्रहोस्ति वत्सरो न क्रतुं विना ।
न चोत्सवा विना कृष्णं विना शंभुं न कीर्तनम् ॥ १४ ॥
प्रवर्तयामासतुस्तौ राज्ये धर्मान् शिवस्य वै ।
शिवालयेषु सर्वेषु पूजां कारयतश्च तौ ॥ १५॥
ग्रामाधीशान् समाहूय सर्वाँस्तौ विषयस्थितान् ।
आज्ञापयामासतुस्तौ पूजा देया शिवालये ॥ १६॥
अन्यथा सत्यमेवेदं स नौ दण्ड्यो भविष्यति ।
पूजादानाच्छिवस्तुष्टो भविष्यति शिवायुतः ॥ १७॥
घृतदीपास्त्वखण्डा वै तत्र देवाः शिवालये ।
यस्य यस्याभितो ग्रामं यावन्तश्च शिवालयाः ॥ १८॥
तत्र तत्राऽखण्डदीपो द्योतनीयो नृपाज्ञया ।
नृपाज्ञाभंगकर्तुस्तु शिरश्छेदो भविष्यति ॥ १९॥
नृपपूजा प्रदातव्या षोडशोपसुवस्तुभिः ।
न्यूनकर्तुस्तथा राजा शिरश्छेत्स्यत्यसंशयम् ॥२०॥
इति सर्वत्र ताभ्यां वै लक्ष्मि! पूजा विनिर्मिता ।
तयोस्तु भयतो दीपा दीप्ता प्रतिशिवालयम् ॥२१॥
जग्मतुस्तौ महाशंभु रात्र्यां दर्शनहेतवे ।
व्योमयानेन सर्वत्र राज्ये यत्र शिवालयाः ॥२२॥
आप्रातस्तौ तु सर्वत्र विधायाऽर्चनदर्शनम् ।
पुनरायात आवासं कुरुतः स्नानपूजनम् ॥२३॥
चिकीर्षतः पारणा तौ निषीदत स्म यावता ।
तावत्तत्र समायातौ भिक्षुकौ तु शिवाशिवौ ॥२४॥
ज्ञात्वा वै क्षुधितौ साधू ददतस्तौ सुभोज्यकम् ।
रिक्तं तुलसीपत्रेण वीक्ष्याऽऽहतुस्तु तावुभौ ॥२५॥
नारायणप्रसादश्चेद् भोक्ष्यावहे पवित्रकम् ।
वैष्णवौ वैष्णवश्रेष्ठौ शिवाशिवौ न भोक्ष्यतः ॥२६॥
यदि प्रासादिकं न स्याच्छ्रीपुरुषोत्तमाऽर्पितम् ।
वैष्णवः परमो धर्मो वैष्णवत्वं परं तपः ॥२७॥
वैष्णवैस्तु कृतं दत्तं गृह्णीवोऽतीव भावतः ।
यदि वैष्णवदत्तं न गृह्णीवो न तु वै क्वचित् ॥२८॥
युवाभ्यामर्प्यते नित्यं पूजाभोजनदीपकम् ।
पश्यावो न तु गृह्णीवो गृह्णीवो ब्रह्मणेऽर्पितम् ॥२९॥
आत्मनिवेदिभक्तानां धर्मोऽयं सर्वदा मतः ।
ब्रह्मणेऽनर्पितं यत् तद्भोज्यं पेयं न वै क्वचित् ॥३०॥
वस्त्रं पत्रं फलं पुष्पं पयश्चान्नं तथाऽऽसनम् ।
औषधं कणमात्रं वा चूर्णं चर्वणमित्यपि ॥३ १॥
अद्य स्वाद्यं तथा खाद्यं भोग्यं धार्यं ममाऽर्घ्यकम् ।
मर्द्यं देयं तथाऽर्प्यं च सर्वं यद् ब्रह्मणेऽर्पितम् ॥ ३२॥
तद् गृह्णीवो न चाऽन्यद्वै धर्मोऽयं त्वावयोः सदा ।
सर्वं ब्रह्मार्पणं ग्राह्यं गृहवस्त्रधनादिकम् ॥३३ ॥
जडं यद्वा चेतनं वा स्वकीयं यद्धि मन्यते ।
तद्वै भगवते दत्वा शिष्टं भुञ्जीत भक्तराट् ॥ ३४॥
गृहस्तंभेषु वै वारि कुंभीषु मञ्जुलासु च ।
पेषणीषु च खट्वासु पर्यंकादिष्वपि गृहे ॥३५॥।
तुलसीकण्ठिकां बद्ध्वा तूपयोक्तव्यमेव तत्।
पशूनां पक्षिणां हर्म्यशाखिनां शकटस्य च ॥ ३६॥
वैष्णवत्वं विना नैव कर्तव्यमुपयोजनम् ।
अन्नानां त्वथ वस्त्राणां चक्राणां वाहनस्य च ॥ ३७॥
जीविकालोहभस्त्राणां कोशानां पण्यकस्य च ।
वैष्णवत्वमृते नैव कर्तव्यमुपयोजनम् ॥ ३८॥
वाद्यानां चापि शस्त्राणां हेतीनां वस्तुनामिनाम् ।
आत्मनिवेदिना कार्या भगवच्चिह्नयोगिता ॥ ३९॥
सुतः सुता धन दारा दासा दास्यो गृहाणि च ।
पत्नी पतिः कुटुम्बं च सर्वं वै हरयेऽर्पयेत् ॥४० ॥
अभक्ष्यं तदभोग्यं यद्धरये नाऽर्पितं भवेत् ।
भक्ष्यं भोग्यं तथा पेयं हरयेऽर्पितमेव यत् ॥४१ ॥
निबोधत युवां तद्वै बदर्याश्रममुत्तमम् ।
प्रागहं प्राप्तवाँस्तत्र नारायणात्समन्त्रकम् ॥४२ ॥
वैष्णवत्वं ततो देव्यै पार्वत्यै च समन्त्रकम् ।
वैष्णवत्वं मया दत्तं गणेभ्यश्चापि सर्वथा ॥४३॥
मम पुत्रो गणेशस्तु श्रीकृष्णांशोऽस्ति वैष्णवः ।
स्कन्दोऽपि वैष्णवो जातो रुद्रा अपि च वैष्णवाः ॥४४॥
देव्यश्च वैष्णवीश्रेष्ठा नारायणपरायणाः ।
कैलासः सर्वथाऽभीष्टो वैष्णवोऽस्ति मया कृतः ॥४५॥
बदर्याश्रमयोगेन हिमालयोऽपि वैष्णवः ।
पितरो वैष्णवास्तेषां कन्या मेनाऽपि वैष्णवी ॥४६॥
क्षीरोऽपि सागरो विष्णुधारको वैष्णवः सदा ।
तत्पुत्री श्रीः रमा लक्ष्मीश्चन्द्रश्चैतेऽपि वैष्णवाः ॥४७॥
वामनस्य पदांगुष्ठस्पर्शा गंगापि वैष्णवी ।
वासुकिः शेषबन्धुश्च वैष्णवोऽस्ति मया धृतः ॥४८॥
त्रिशूलं सूर्यतो जातं द्वादशो विष्णुरर्कराट् ।
वृषभो गोकुलात्प्राप्तो गोलोके कृष्णभक्तराट् ॥४९ ॥
सिंहो नृसिंहवंशो यः स चास्ति वैष्णवो महान् ।
मेघा वैराजकेशाश्च वैष्णवा यज्ञपोषिताः ॥५० ॥
मयूरो मेघमित्रं च पिच्छं मुकुटसंश्रितम् ।
कृष्णयोगान्मेघयोगाद् वैष्णवत्वं सदाऽस्ति वै ॥५१ ॥
किम्वधिकं प्रवक्ष्ये वै नृसिंहमस्तकं गले ।
दधन् वै वैष्णवश्चास्मि विष्णुभक्तोऽस्मि सर्वथा ॥५२॥
विष्णुर्वै व्यापकं ब्रह्म यत्तेजोऽहं सदाशिवः ।
बाणरूपोऽस्मि सञ्जातो ध्यायँस्तं मूर्तिमानपि ॥५३॥
सर्वात्मकं परब्रह्म नारायणः परात्परः ।
तस्मादहं तथा सर्वं जायते तत्र लीयते ॥५४॥
ततो राजन् गृहाण त्वं वैष्णवं मनुमादरात् ।
अहं शंभुः प्रददामि राज्ञ्यै दास्यति पार्वती ॥५५ ॥
इत्यादिष्टो वसुधानो जग्राहाऽष्टाक्षरं मनुम् ।
कृष्णनारायणोऽव्यान्मामिति जग्राह शंकरात् ॥५६ ॥
तं च जग्राह राध्यासा राज्ञी वै पार्वतीमुखात् ।
जगृहतुश्च तुलसीकण्ठीं चन्द्रार्ध्वपुण्ड्रकम् ॥५७॥
नारायणार्चनवारि प्रसादं चाच्युतस्य वै ।
आददति तु तौ तत्र प्रजातौ वैष्णवौ ततः ॥५८॥
विष्णवे भोजनं पेयं तुलसीपत्रमिश्रितम् ।
निवेदयामासतुश्च ददतुश्चापि शंभवे ॥५९ ॥
पार्वत्यै ददतुश्चाऽथ जगृहतुश्च तौ मुदा ।
आदतुर्वारिपानं च चक्रतुर्वै सुखान्वितौ ॥६ ० ॥
तृप्तौ बभूवतुश्चाति हर्षितौ वै शिवाशिवौ ।
आशीर्वादान् ददतुश्च धनवन्तावखण्डितौ ॥६ १ ॥
सुस्मृद्धौ शाश्वतराज्यौ भवतां भृत्यकोटिकौ ।
इति कृत्वा कथयित्वाऽदृश्यौ जातौ शिवाशिवौ ॥६ २॥
राज्ञा रात्र्या च नित्यं श्रीकृष्णनारायणः प्रभुः ।
शिवात्माऽयं चेति भक्त्या पूज्यते वैष्णवीदिशा ॥६ ३ ॥
एवं ताभ्यां सदा कृष्णे पूजिते पुरुषोत्तमः ।
मासोऽतिदिव्यसमयः प्राप्तो व्येति दिनाद्दिनम् ॥६४॥
तावत् ताभ्यां परपक्षपञ्चम्यां दुन्दुभिः श्रुतः ।
शृण्वन्तु देवतनवो राजदेहाश्च मानवाः ॥६५ ॥
सुरा दिव्यसमृद्धाश्च स्थावरा जंगमाश्च ये ।
पुरुषोत्तममासस्याऽस्मि दुन्दुभिर्हरेः प्रियः ॥६६ ॥
हर्याज्ञयोद्धोषयामि मणिं कपर्दिकाफलम् ।
मासेऽत्रैकदिनकृच्छ्रात् प्राप्नुवन्तु वसुन्धराम् ॥६७॥
अलकां हेमनगरीं तथा भूमिं च कांचनीम् ।
गोलोकस्थां तथाऽन्येषां दिक्पालानां तु हाटकीम् ॥६८॥
राजधानीं तथा स्वर्णपुरीं हिरण्मयीं तनुम् ।
साम्राज्यं चापि वाऽन्यद्वै यथेष्टं यान्तु वै हरेः ॥६९॥
रसाधिपत्यं सौर्यं वा चान्द्रं गौर पदं च वा ।
बार्हस्पत्यं तथैशानं त्वाग्नेयं वान्यदेव वा ॥७०॥
येषामिष्टं तु यद्वै स्याद् दास्ये तन्नात्र संशयः ।
अधिमासे तु सम्पूर्ण पाक्षिकं दैनिकं च वा ॥७१ ॥
व्रतं प्रपूजनं कृत्वाऽर्जयन्तु परमं सुखम् ।
परमेष्ठिपदं वापि वैराजं सत्यमित्यपि ॥७२॥
रौद्रं शैवं च वा ब्राह्मं वैष्णवं धाम चैत्यपि ।
गृह्णन्तु कृपया मेऽद्य पञ्चमीव्रतमात्रतः ॥७३॥
इत्युक्त्वा दुन्दुभिस्तत्र विररामाऽथ तावुभौ ।
नत्वा तं दुन्दुभिं ध्यात्वा श्रीकृष्णं पुरुषोत्तमम् ॥७४॥
पुपूजतुस्तं वाद्यं वै पुष्पाक्षतैस्तु कानकैः ।
अर्थयामासतुस्तत्र कांचनेयं पदं महत् ॥७५॥
तथास्त्वेवं दुन्दुभिश्च विचिन्त्य हृद्ये तदा ।
अन्यत्र प्रययौ तौ पञ्चमीव्रतं प्रचक्रतुः ॥७६॥
प्रातः स्नात्वा हरिं ध्यात्वा शंभुं नत्वा तथाऽऽदरात् ।
गुरुं प्रपूज्य विधिवच्चक्रतुर्नैत्यकार्चनम् ॥७७॥
मूर्तिं विधाय सौवर्णीं पुरुषोत्तमरूपणीम् ।
आवाह्य तत्र च कृष्णनारायणं पुमुत्तमम् ॥७८ ॥
आचमनं प्रदायैव पञ्चामृतेन वारिणा ।
स्नापयामासतुस्तौ च मार्जयामासतुस्तथा ॥७९॥
मर्दयामासतुश्चैतौ चन्दनार्द्रसुगन्धिभिः ।
धारयामासतुश्चैव वस्त्राणि कानकान्यपि ॥८ ० ॥
भूषयामासतुश्चापि मुकुटादि विभूषणैः ।
शृंगारयामासतुश्च कज्जलैः केसरादिभिः ॥८ १ ॥
सुगन्धयामासतुश्च पुष्पधूपादिसारकैः ।
प्रकाशयामासतुश्च दीपनीराजनादिभिः ॥८२॥
प्रसादयामासतुश्च स्तुतिप्रदक्षिणादिभिः ।
क्षमापयामासतुश्चापराधानर्घ्यकार्पणैः ॥८३ ॥
सन्तर्पयामासतुश्च मिष्टान्नपायसादिभिः ।
सन्तोषयामासतुश्च ताम्बूलैलादिचर्वणैः ॥८४॥
एवं मध्याह्नसमये पूजयामासतुस्तथा ।
भोजयामासतुश्चापि निश्यप्येवं प्रचक्रतुः ॥८५॥
मण्डपं कदलीस्तंभैः पाल्लवैस्तोरणैस्तथा ।
सुमनोहारकैश्चापि कलशैर्दीपकैस्तथा ॥८६ ॥
रचयामासतू रम्यं पूरयामासतुश्च तौ ।
मण्डलं सर्वतोभद्रं मध्ये धान्यैर्नवैर्नवैः ॥८७॥
संस्थापयामासतुश्च सौवर्णं कलशं ततः ।
तत्र घटे पञ्चरत्नं जलं फलं तथाऽम्बरम् ॥८८ ॥
विन्यस्य तिलपूर्णां च स्थालीं दध्यतुरादरात् ।
तत्र मूर्तिं प्रतिष्ठाप्य पुपूजतुः सुवस्तुभिः ॥८९॥
स्नानं वस्त्रं चन्दनं कुंकुमं पुष्पाणि चाक्षतान् ।
विभूषणानि हाराँश्च धूपं दीपं फलानि च ॥ ९० ॥
आरार्त्रिकं स्तुतिं प्रदक्षिणां मिष्टान्नभोजनम् ।
जलं ताम्बूलकं पुष्पांजलिं चक्रतुरर्थनाम् ॥९१ ॥
नर्तनं गीतिकां वाद्यसहितां चक्रतुस्तदा ।
ततो जागरणे तत्र मध्यरात्रौ पुमुत्तमः ॥९२॥
कृष्णनारायणः साक्षाल्लक्ष्मीश्रीराधिकापतिः ।
पार्वतीमाणिकीस्वामी प्रभेशः पुरुषोत्तमः ॥९३॥
प्रेयसीश्रेयसीपाता श्रीजयाललितापतिः ।
अक्षराऽधिपतिर्मुक्तपतिर्गोपीपतिः प्रभुः ॥९४॥
सर्वपतिश्चान्तरात्मा मंगलायतनो हरिः ।
प्रादुर्बभूव सहसा विहसन् काशयन् दिशः ॥९५॥
प्राहाऽस्म्यतिप्रसन्नोऽहं पञ्चम्या व्रतवर्तनात् ।
वरदानं प्रयच्छामि वृणुत यद्यथेप्सितम् ॥९६ ॥
भक्तौ मे वैष्णवौ जातौ तेनाऽस्म्यतिप्रतोषितः ।
ददामि मम सर्वस्वं किमन्यन्यत् सुदुर्लभम् ॥९७॥
श्रुत्वा नत्वा दण्डवच्च प्राहतुः पुरुषोत्तमम् ।
वसुधानश्च राध्यासा प्रभो नाऽविदितं तव ॥९८॥
चतुर्दशानां लोकानां धनाधिपत्यमल्पकम् ।
कांक्षावहे न तत्स्वामिन् रंकतुष्टिकरं हि तत् ॥९९॥
पारमेष्ठ्यपदं स्वामिन् कुंभकारक्रियामयम् ।
नेच्छावस्तत्पदं तस्मादैन्द्रं दैत्यप्रपीडनम् ॥ १०० ॥
तत्पदानि न कांक्षावः कांक्षावस्तत्परं तु यत् ।
यावतामीश्वराणां वैराजादीनां परं तु यत् ॥ १० १॥
महाविष्णोः परं यच्च हिरण्याधिपतेः पदम्।
श्रीपुराख्यात्परं यच्च तेजो वैकुण्ठतः परम् ॥ १०२॥
विष्णोर्वै स्थानतः श्रेष्ठं हिरण्याधिपतेः पदम् ।
माहाकौबेरकं पुंसो भूम्नः कोशमयं तु यत् ॥ १ ०३॥
ईश्वराणां तु कोटौ तद् वर्तते यन्महत्तमम् ।
अनन्ताऽण्डकुबेराणां तृप्तिस्तस्य कणेन वै ॥ १ ०४॥
जायते तन्महाराज्यं भूम्नः कोशाधिपात्मकम् ।
सर्वेशानां तु वै दिव्यहिरण्याऽऽत्तिर्यतोऽस्ति वै ॥ १०५॥
तद्धिरण्याधिपत्यं वै समिच्छावः कृपाऽस्तु ते ।
भक्तानां तु कृते किञ्चिदधिकं स्वामिनोऽस्ति न ॥१० ६॥
यद्ययुक्तं वाञ्च्छितं चेत् क्षम्यतां पुरुषोत्तम ।
नान्यत् कांक्षावहे कृष्ण तुष्टो यत्पुरुषोत्तमः ॥ १०७॥
इत्यभ्यर्थ्य पादयोस्तौ पतितौ श्रीहरेस्तदा ।
तथास्त्विति हरिः प्राह प्राहापि पुनरेव तौ ॥ १०८॥
वर्तमानस्य हैरण्याधिपतेरायुषः क्षये ।
सर्गान्तरे भवन्तो वै भविष्यथस्तथाविधौ ॥ १०९॥
इत्युक्त्वा भगवान् कृष्णस्तिरोबभूव तत्स्थलात् ।
अनन्तानां हिरण्याधिपतीनां तत्र संक्षयः ॥ ११ ०॥
जायते वासुदेवस्य दिने दिने न संशयः ।
तत्रैकस्य हिरण्याधिपतेर्नाशोऽभवत्तदा ॥ १११ ॥
वसुधानं च राध्यासां निनाय तत्पदं प्रभुः ।
महाकौबेरकं चैशं पदं ताभ्यां ददौ हरिः ॥ १ १२॥
हिरण्याधिपतिर्भूत्वा राजते वसुधानकः ।
राध्यासाऽपीश्वरी श्रेष्ठा कुबेराणी विराजते ॥ १ १३॥
यदस्य ब्रह्मणश्चतुर्मुखस्य पद्मजस्य वै ।
पिता विराट् तस्य पिता महाविष्णुस्ततः परः ॥ १ १४॥
यो नाम पूरुषश्च भूमनारायणाभिधः ।
तस्य कोशेश्वरो भूत्वा वसुधानो नराधिपः ॥ १ १५॥
वर्ततेऽयं भूमकोशाधिपः सर्वाधिपो यथा ।
प्राकृतप्रलयं यावद् वर्तिष्यते धनाधिपः ॥ १ १६॥
साक्षात्प्रत्यक्षदर्शित्वाद् वेद्म्यहं पुरुषोत्तमः ।
लक्ष्मि! प्रिये! न चान्योऽस्ति सर्वज्ञो मां विना यतः ॥ १ १७॥
परब्रह्मस्वरूपोऽहं वेद्मि सर्वज्ञसर्ववित् ।
इत्येवं वै मया ताभ्यां पूर्वसृष्ट्यन्तकालिकम् ॥ १ १८॥
पञ्चम्यास्तु व्रतस्यान्ते फलं दत्त हि शाश्वतम् ।
इदृग्विधं फलं दातुं शक्तः कः स्याद्धि मां विना ॥ १ १९॥
सर्वे वै कालकवलाः ऋते नारायणं खलु ।
सर्वं सृष्ट्वा प्रविशामि वसामि विरमामि च ॥ १२० ॥
तथाऽप्यकुण्ठविज्ञानो भवाम्येको न चापरः ।
तदत्र कथितः पूर्वसृष्टिवृत्तान्त एव ते ॥ १२१॥
पञ्चम्यां व्रतकर्तुर्हि नरस्यापि स्त्रियास्तथा ।
श्रोतुर्वक्तुः फलं तादृगस्य वै भवते ध्रुवम् ॥ १२२॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये द्वितीयपक्षस्य पञ्चम्यां व्रतकर-णेन शिवभक्तयोः पूर्वसृष्टिस्थयोः राध्यासाराज्ञीवसुदान-नृपयोः शिवप्रदत्तवैष्णवत्वोत्तरं वेधःपितृवैराजा-दप्यूर्ध्वमीश्वरसृष्टौ वर्तमानसृष्टौ हिरण्यकोशाधि-पतित्वात्मकमहाकौबेरपदप्राप्तिवर्णननामा द्वादशाधिकत्रिशततमोऽध्यायः ॥१.३१२॥