लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३४१

← अध्यायः ३४० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३४१
[[लेखकः :|]]
अध्यायः ३४२ →

श्रीलक्ष्मीरुवाच-
शालग्रामशिलां शंभुशिलां नदीं च गण्डकीम् ।
शालद्रुं मुनिसालंकं श्रुत्वा सतीं च तूलसीम् ।। १ ।।
मानसं मे न च तृप्तिमायाति श्रवणस्पृहम् ।
तीर्थानि वद शालग्रामक्षेत्रस्थानि केशव ।। २ ।।
यच्छ्रवणेन पापानामप्युद्धारो भविष्यति ।
यत्करणेन चात्रापि धनदारादिमान् भवेत् ।। ३ ।।
श्रीनारायण उवाच-
अहो भाग्यमहो पुण्यं शालग्रामकथाश्रुतिः ।
अहो दैवमहो मुक्तिः शालग्रामशिलार्चनम् ।। ४ ।।
अहो स्वर्गमहो राज्यं शालग्रामस्थलस्थितिः ।
अहो स्मृद्धिरहो तृप्तिर्गण्डकीवारिसेवनम् ।। ५ ।।
जीवानां बहुपुण्यानामुदये सति पद्मजे! ।
शालग्रामस्थलयोगो जायते न ततोऽन्यथा ।। ६ ।।
शालग्रामस्थलं गत्वा करिष्ये गण्डकीजले ।
स्नानतर्पणमित्येवं संकल्पयत ऐहिकी ।। ७ ।।
पितॄणामपि तृप्तिर्वै जायते कुर्वतो नु किम् ।
पापानां पापनाशार्थं स्वर्गार्थे पुण्यशालिनाम् ।। ८ ।।
सकामानां समृद्ध्यर्थं मुक्त्यर्थं भक्तिशालिनाम् ।
सृष्ट्यारंभे मया शालग्रामक्षेत्रं विनिर्मितम् ।। ९ ।।
शालग्रामशिला मूर्तिः प्रतिमा मे मया कृता ।
षोडशवस्तुभिः पूजाकर्त्रे भुक्तिं च मोक्षणम् ।। 1.341.१ ०।।
ददामि चान्यदिष्टं यद् धनदारागृहादिकम् ।
कृपयैव मया प्राण्युद्धारार्थं तद्विनिर्मितम् ।। ११ ।।
शृणु लक्ष्मि! स्थले तत्र यानि तीर्थानि सन्ति च ।
यथा यथा च जातानि तानि वक्ष्यामि सर्वशः ।। १ २।।
सालंकायनतीर्थे वै शालग्रामाख्यपर्वतः ।
सोमेन स्थापितस्तत्र हरः सोमेश्वरः प्रभुः ।। १३ ।।
सोमेश्वरगिरिश्चापि गण्डकी कथितानि ते ।
सोमेशाद् दक्षिणे भागे बाणेनाऽद्रिं विभिद्य च ।। १४।।।
रावणेन तपः कृत्वा जलधाराऽतिपुण्यदा ।
प्रकाशिता बाणगंगा तीर्थे परमपावनम् ।। १५ ।।
सोमेशात्पूर्वतस्तत्र रावणस्य तपोवनम् ।
तत्र रावणनृत्येन प्रख्यातो नर्तनाचलः ।। १६ ।।
तस्य नृत्येन सन्तुष्टः शंभुर्वरं ददौ तदा ।
बाणेश्वरं बाणगंगा तीर्थे स्वर्गप्रदं शुभम् ।। १७।।
तत्र स्थित्वा त्रिरात्रेण तपसः फलमाप्नुयात् ।
स्नात्वा गंगास्नानफलं दृष्ट्वा पूजाफलं लभेत् ।। १८।।
अथ त्रिवेणीतीर्थं वै तीर्थानामुत्तमं तथा ।
यत्र वै देविकानाम्नी सरित् मिलति गण्डकीम् ।। १ ९।।
तपस्यतां तु देवानां तपोनियमनाय सा ।
समुद्भूता नदी सा वै देवानां मोक्षदायिनी ।। 1.341.२० ।।
अथ पुलस्त्यपुलहाश्रमाच्च देविकाऽपरा ।
गण्डक्या सह मिलिता त्रिवेणी गण्डकीति सा ।।२ १ ।।
कामिकं तन्महत्तीर्थं पितॄणां तृप्तिदं परम् ।
त्रिवेणीति समाख्यातं शृणु साऽऽख्यानमत्र तत् ।। २२।।
पुरा विष्णुस्तपस्तेपे लोकानां हितकाम्यया ।
हिमालये तदा कालो यातो दीर्घतमो यदा ।।२३।।
तन्मूर्तेरनलस्तीव्रः प्रादुरासीद्धरेस्तदा ।
तस्योष्मणा समुत्पन्नः स्वेदपूरस्तु गण्डयोः ।।२४।।
तेन जाता धुनी दिव्या गण्डकी सा सरिद्वरा ।
देविकाख्या नदी योगं तया सह गता तदा ।।२५।।
देवानां तपसा तत्रोत्पन्ना सा देविका मता ।
पुलस्त्यपुलहयोस्तपोभिर्जाताऽपरा नदी ।।२६।।
सृष्टिज्ञानं तत्र लब्धं ताभ्यां वै तपसा ततः ।
तृतीया सा ब्रह्मपुत्रीनाम्नी नदी यशस्विनी ।।२७।।
गण्डक्या तत्र मिलिता त्रिवेणीति प्रकीर्तिता ।
तत्र स्नानात् तपश्चर्याफलं प्राप्नोति मानवः ।।२८।।
अथान्यत्ते प्रवक्ष्यामि तत्र त्रिवेणिकास्थले ।
गजेन्द्रमोक्षणं ग्राहमोक्षणं कृतवान् हरि ।।२९।।।
पुरा वेदनिधेः पुत्रौ जयविजय इत्युभौ ।
हरिं प्रसाद्य संजातौ पार्षदौ भगवद्गृहे ।।1.341.३० ।।
तावेव राधिकाशापात् पुनः कल्पान्तरे भुवि ।
समायातौ पृथिव्यां च तृणबिन्दोः सुतावुभौ ।।३ १।।
जातौ यज्ञकरौ वेदविद्यावेदांगपारगौ ।
पूजयन्तौ हरिं भक्त्या तन्निष्ठेन्द्रियमानसौ ।।३२।।
पूजाकाले हरिर्नित्यं तयोः सान्निध्यमृच्छति ।
मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि ।।३३।।
राज्ञा समाप्तयज्ञेन तोषितौ दक्षिणादिभिः ।
विभागं कर्तुमारब्धौ धनादेस्तौ परस्परम् ।।३४।।
पस्पर्धाते समो भागः कार्यो ज्येष्ठोऽभ्यभाषत ।
विजयस्त्वब्रवीच्चैनं येन लब्धं हि तस्य तत् ।।३५।।
अहं वै कुशलस्तस्मान्मया लब्धं विशेषतः ।
त्वं तथा न समर्थोऽसि न दास्ये समभागतः ।।३६।।
जयोऽब्रवीदसामर्थ्यं मन्वानो मा ब्रवीषि किम् ।
न ददासि गृहीत्वा यत् तस्माद् ग्राहत्वमाप्नुहि ।।३७।।।
विजयोऽप्यब्रवीन्नूनमन्धोभूतोऽसि वै धनैः ।
गजो भव मदान्धस्त्वमिति तौ शापतः पृथक् ।।३८।।
गजग्राहावभूतां वै जातिस्मरौ जयो गजः ।
त्रिवेणीक्षेत्रकारण्ये विजयस्तु जलान्तरे ।। ३९।।
ग्राहोऽभवद् वने तत्र गजं स्नातुं समागतम् ।
जलमध्यगतग्राहो जग्राह वैरमास्मरन् ।।1.341.४० ।।
तयोर्युद्धं समभवदनेकाब्दं विकर्षणैः ।
वरुणेन ततो विज्ञापितो भक्तिवशो हरिः ।।४१ ।।
हस्तिकमलदानेन त्रिवेणीं प्रसमाययौ ।
सुदर्शनेन चक्रेण ग्राहास्यं समपाटयत् ।।४२।।
गजस्यापि कृता मुक्तिर्ग्राहस्यापि प्रमोक्षणम् ।
सुदर्शनप्रघट्टनक्रियया प्रस्तरादिषु ।।४३।।
चक्रचिह्नानि जातानि महिमा ते प्रकीर्तितः ।
एवमेतन्पुण्यतीर्थं तारकं देहिनां परम् ।।४४।।
जलेश्वरो महादेवस्तत्र विराजते प्रिये! ।
मया चक्रं यदा क्षिप्तं पृथ्व्यां सलिलमागतम् ।।४५।।
तत्स्थानं वै त्वभूच्चक्रमयं तीर्थं जलेश्वरम् ।
पञ्चदिनं वसेत् तत्र भुक्तिं मुक्तिं लभेज्जनः ।।४६।।
सालकायनपौत्रोऽभून्नन्दीश्वरो गणः पुरा ।
वृन्दावने स वसति गोधनं चारयन् सदा ।।४७।।
एकदा गाः समादाय हरिक्षेत्रं जगाम सः ।
नन्दी हरः स्वयं प्रोक्तो हरिक्षेत्रं जगाम सः ।।४८।।
गण्डक्याः स तटे वासं चकार बहुरात्रिकम् ।
गाश्चरन्ति शाद्वलानि यत्र क्षेत्रे दिवानिशम् ।।४९।।
तद्दिनादेव तत्ख्यातं क्षेत्रं हरिहरात्मकम् ।
देवानामटनाच्चैव देवाट-इत्यपि स्मृतम् ।।।1.341.५०।।
एकदा भगवान् शंभुरास्थितः पीठमुत्तमम् ।
शंभोस्तत्र त्रिजटाभ्योऽभवँस्तिस्रः प्रवाहिकाः ।।५ १ ।।
गंगा च यमुना पुण्या तथा सरस्वती नदी ।
एतत् त्रैधारिकं तीर्थं यत्र शंभुः सदा स्थितः ।।५२।।
दिशन् ज्ञानं स्वभक्तानां संसाराद् येन मोक्षणम् ।
स्नात्वा सन्तर्ज्य पितॄन् संपूज्य देवान् प्रमुच्यते ।।५३।।
तस्यैव पूर्वदिग्भागे हंसतीर्थं हि विद्यते ।
काकास्तत्र कदाचिद्वै समुत्पेतुर्बुभुक्षिताः ।।५४।।
अन्नं गृहीत्वा काकं वै यान्तं काकोऽपरस्तदा ।
दृष्ट्वा युयुधे तौ तत्र कुण्डे निपेततुस्ततः ।।५५।।
हंसौ भूत्वा विनिर्यातौ गतौ वै मानसंसरः ।
इत्याश्चर्यमयं तद्वै हंसतीर्थमिति कृतम् ।।५६।।
मुक्तिक्षेत्राद्धंसतीर्थं क्षेत्रं द्वादशयोजनम् ।
तैर्थिकानां भोगमोक्षोभयदं ३ मयाश्रितम् ।।५७।।
अथ सालंकायनर्षिर्यत्र तपोऽचरद्धि तत् ।
सालवृक्षसमूहः सः शालग्रामोऽभवत्प्रथः ।।५८।।
तत्र तीर्थनि गुप्तानि भवन्ति दश पञ्च च ।
तत्र बिल्वप्रभं नाम क्षेत्रं कुंजचतुःश्रयम् ।।९९।।
तत्र नद्यां जनः स्नात्वा दिवानिशं निवासतः ।
चतुर्ण्णामश्वमेधानां फलं प्राप्नोति मानवः ।।1.341.६०।।
अथाऽपरं चक्रस्वामितीर्थं चक्रशिलामयम् ।
त्रियोजनप्रविस्तारं त्रिरात्रं निवसेज्जनः ।।६१।।
त्रिरात्रयज्ञपुण्यं वै प्राप्नोत्येव सुतीर्थकृत् ।
प्राणत्यागे तु संजाते वाजपेयफलं लभेत् ।।६२।।
अथ विष्णुपदं क्षेत्रं धारास्तिस्रो हिमाचलात् ।
पतन्ति यत्र तत्रैव स्नानात् तीर्थफलं लभेत् ।।६३ ।।
प्राणत्यागेऽतिरात्राणां त्रयाणां पुण्यभाग् भवेत् ।
तत्र कालीह्रदो नाम तीर्थं परमपावनम् ।।६४।।
बदरीवृक्षमूलाद्वै ह्रदस्रोतो वहत्यपि ।
स्नानात् तत्र नरमेधफलं प्राप्य विमुच्यते ।।६५।।
अथ शंखप्रभं तीर्थं द्वादश्यामर्धरात्रके ।
श्रूयन्ते शंखशब्दाश्च श्रोतारो मुक्तिभागिनः ।।६६।।
अथ गदाख्यकुण्डे वै तीर्थे दक्षिणस्रोतसि ।
स्नात्वा वेदान्तविद्यादि फलं प्राप्नोति मानवः ।।६७।।
अथाऽग्निसुप्रभं तीर्थं जलं प्रागुत्तरं शुभम् ।
हेमन्ते चोष्णकं वारि ग्रीष्मे भवति शीतलम् ।।६८।।
धारारूपेण पतति स्नात्वा पचाग्निषोमभाग् ।
अथ सर्वायुधं तीर्थं सप्तस्रोतोमयं हि तत् ।।६९।।
स्नात्वा भवेन्महान् राजा सप्तदिनानि संवसेत् ।
अथ देवप्रभं तीर्थं चतुर्धारासमन्वितम् ।।1.341.७० ।।
स्नात्वा तत्र लभेद् वेदचतुष्टयविबोधनम् ।
अथ विद्याधरं तीर्थं पञ्चधारासमन्वितम् ।।७ १ ।।
स्नात्वा विद्याधरलोकं प्रयात्येव न संशयः ।
तत्र पुण्यनदीतीर्थं शिलाकुंजलतावृतम् ।।७२।।।
तत्र स्नानं प्रकुर्वीत सप्तद्वीपाधिपो भवेत् ।
एकधारे तु गान्धर्वतीर्थे स्नात्वा सुखी भवेत् ।।७३ ।।
मोदते लोकपालेषु मम लोकं च गच्छति ।
अथ देवह्रदस्तीर्थं यत्र मत्स्याः सचक्रकाः ।।७४।।
सौवर्णानि च पद्मानि दृश्यन्ते भास्करोदये ।
तत्र स्नाता दिवं यान्ति शुद्धा वाक्कायनैर्मलैः । ।७५ ।।
दशानामश्वमेधानां फलमाप्नोति मानवः ।
यत्र यत्र देवनद्यो संगमो जायते प्रिये! । ।७६। ।
तत्र देवाश्च देव्यश्च तिष्ठन्ति तीर्थरूपिणः ।
गन्धर्वाऽप्सरसः पर्यो नागकन्याः सहोरगैः ।।७७। ।
देवर्षयश्च मुनयः सर्वेऽपि च सुरेश्वराः ।
सिद्धाः सन्तः किन्नराश्च स्वर्गादवातरन्ति हि ।।७८।।
हिमालये च नेपाले पशुपतेर्भुवोऽत्र वै ।
तेभ्यस्तेभ्यश्च स्थानेभ्यो नद्यो वहन्ति भूतलम् । ।७९। ।
श्वेतगंगया संभूय नानानद्यो वनानुगाः ।
गण्डक्या कृष्णया चैव संगमाप्ताः शिवोद्भवाः ।।1.341.८० ।।
त्रिशूलगंगा सा जाता सर्वतीर्थकदम्बकम् ।
सिद्धाश्रमस्तथा तीर्थं पावनं पुण्यवर्धनम् । ।८ १।।
शंभोस्तपोवनं चापि पुण्यनद्योश्च संस्रवे ।
स्नानाच्छताश्वमेधानां फलं तत्र भवेद् ध्रुवम् ।।८२।।
वैशाख्ये तत्र चाप्लाव्य गोसहस्रफलं लभेत् ।
माघमासे पुनः स्नात्वा प्रयागस्नानजं फलम् । ।८३ ।।
कार्तिके सतुलारवौ स्नानान्मुक्तिर्न संशयः ।
त्रिरात्रस्नानतस्तत्र राजसूयफलं लभेत् ।।८४।।
यज्ञो दानं तपो होमः श्राद्धं पूजा ह्यनन्तकम् ।
शालग्रामे महाक्षेत्रे देवनद्योश्च संस्रवे । ।८५।।
अहं लक्ष्मि! पूर्वमुखः सदा वसामि मुक्तिदः ।
शिवो मे दक्षिणे पार्श्वे ब्रह्मा वामे सदा स्थितः ।।८६। ।
हरिहरात्मकं विष्णुब्रह्मात्मकं स्थलं तु तत् ।
मृता मुक्तिं प्रयान्त्येव स्वर्गं वै शाश्वतं ध्रुवम् ।।८७।।
मुक्तिक्षेत्रं तु प्रथमं रुरुखण्डस्ततः परम् ।
संभेदो देवनद्योश्च त्रिवेणी च ततः परम् ।।८८।।
गण्डकीक्षेत्रमेवेदं गंगया मिलितं तु यत् ।
गण्डकी यत्र मिलिता भागीरथ्या तु गंगया ।।८९।।
क्षेत्रं हरिहराख्यं तन्महिमा सुरदुर्लभः ।
पठनाच्छ्रवणाच्चापि तीर्थस्नानफलं भवेत् ।।1.341.९०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शालग्रामक्षेत्रस्थसालंकायनसोमेश्वरगण्डकीबाणगंगात्रिवेणी-देविकाब्रह्मपुत्रीगजग्राहतीर्थजलेश्वरत्रैधारिकतीर्थहंसतीर्थशालग्रामतीर्थचक्रस्वामितीर्थविष्णुपदशंखप्रभगदाकुण्डाऽग्निप्रभसर्वायुधदेवप्रभविद्या-
धरैकधारदेवह्रदत्रिशूलगंगाहरिहरक्षेत्रादितीर्थप्रदर्शननामैकचत्वारिंशदधिकत्रिशततमोऽध्यायः ।। ३४१ ।।