लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३७८

← अध्यायः ३७७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३७८
[[लेखकः :|]]
अध्यायः ३७९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां चान्यां गृहगोधाप्रकीर्तिताम् ।
पातिव्रत्यस्य धर्मस्य पुष्टिदां प्राक्प्रवर्तिताम् ।। १ ।।
रुक्मांगदोऽभवद् राजा रैवताद्रौ विहारवान् ।
अश्वारूढः पश्यति स्म गिरेः शोभामनुत्तमाम् ।। ।।
निखनन् स्वखुरेणोर्वीमश्वो याति स्थलीं स्थलीम् ।
तस्य दारयतः पृथ्वीं सुतीक्ष्णेन खुरेण हि ।। ३ ।।
भूभागान्तर्गता काचिद् भूमिगोधा प्रकर्तिता ।
विदीर्यमाणां नृपतिरपश्यत्स दयापरः ।। ४ ।।
शीतलेन जलेनाऽभ्यषिंचत्ता स विमूर्छिताम् ।
अवाप चेतनां लक्ष्मि! शीतवारिप्रसेचनात् ।। ५ ।।
राजानमग्रतो वीक्ष्य गोधा वचनमब्रवीत् ।
रुस्मांगद महाबाहो निबोध मम चेष्टितम् ।। ६ ।।
शाकले नगरे पूर्वं भार्याऽहं त्वग्रजन्मनः ।
रूपयौवनसम्पन्नाऽप्यासं न तस्य सुप्रिया ।। ७ ।।
सदा विद्वेषसंयुक्तो मयि निष्ठुरजल्पकः ।
ततोऽहं क्रोधसंयुक्ता वशीकरणमन्त्रकम् ।। ८ ।।
सर्ववश्यकरं प्राप्तुं गता काचित्तु तापसीम् ।
तत्राऽहं प्रणता भूत्वा पद्भ्यां न्यस्यांऽगुलीयकम् ।। ९ ।।
निवेद्य मम भर्तुस्तु विमाननं स्थिराऽभवम् ।
तयोक्ताऽहं तदा राजन् प्रयोगार्थं समन्त्रकम् ।। 1.378.१ ०।।
चूर्णो रक्षान्वितो ह्येषः सर्वभूतवशंकरः ।
त्वया भर्तरि संयोज्यो दुग्धपाने च मस्तके ।। ११ ।।
भविष्यति पतिर्वश्यो द्वेषं नैव करिष्यति ।
चूर्णरक्षां गृहीत्वाऽहं प्राप्ता भर्तारमेकला ।। १२।।
प्रदोषे शिरसि भर्तू रक्षाचूर्णं प्रयोजितम् ।
पाने तु पयसा सार्धं प्रदोषे तत्र चार्पितम् ।। १ ३।।
यदा स पीतचूर्णस्तु भर्ता तद्रात्रितः खलु ।
द्रागेव क्षयरोग्येव जातः क्षीणो दिने दिने ।। १४।।
हततेजा मम भर्ता मामुवाचाऽतिनिर्बलः ।
शोकं कुर्वन् दिवारात्रौ दासोऽस्मि तव शोभने ।। १५।।
त्राहि मां शरणं प्राप्तं मरणं निकटे मम ।
श्रुत्वाऽहं तापसीं याता निवेदितवती पुनः ।। १६।।
भर्ता मे वशगो जातः कथं जीवेद् भवेत् सुखी ।
तयौषधं पुनर्दत्तं स्वस्थोऽभूत्तेन मे पतिः ।। १७।।
पूर्वचूर्णाद्भवो दाहः शान्तस्तेनौषधेन वै ।
ततः प्रभृति मे भर्ता वश्योऽभूद् वचने स्थितः ।। १८।।
कालेनाऽहं मृता राजन् गता नरकयातनाम् ।
ताम्रभ्राष्ट्रे त्वहं दग्धा कृत्वा खण्डानि वै मुहुः ।। १ ९।।
युगकालोत्तरं जाता पृथिव्यां पापजातिका ।
भूमिगोधा स्थिता चात्र गृहगोधाभिजातिका ।।1.378.२०।।
वर्षसहस्रं तस्माद्या नारी पतिं वशं चरेत् ।
वृथाधर्मा वृथाचारा दह्यते ताम्रभ्राष्ट्रके ।।२ १ ।।
भर्ता नाथो गतिर्भर्ता दैवतं गुरुरेव च ।
तस्य वश्यं चरेद् या तु सा कथं सुखमाप्नुयात् ।।२२।।
तिर्यग्योनिशतं याति कृमिकुष्ठसमन्विता ।
तस्माद् भूपाल! कर्तव्यं स्त्रीभिर्भर्तृवचः सदा ।।२३।।
पातिव्रत्यं परो धर्मस्तारको योषितां शुभः ।
सापत्न्यं चापि यद्वैरं भर्तरि नैव योजयेत् ।।२४।।
इष्टा या भूपते! भर्तुस्तस्या या दुष्टमाचरेत् ।
सा पत्नी नरकं याति यावद् वै ब्रह्मणो दिनम् ।।२५ ।।
सापत्नभावं या कुर्याद् भर्तृस्नेहेष्टया सह ।
तत्फलं प्राप्यते याम्ये तापनं ताम्रभ्राष्ट्रके ।।२६ ।।
यथा सुखं भवेद् भर्तुस्तथा कार्यं हि भार्यया ।
अनुकूलं हितं तस्या इष्टाया भर्तुराचरेत् ।।२७।।
पतिं यथा तथा तां च संपश्येद् वै पतिव्रता ।
हीनायाश्चापि शुश्रूषां कृत्वा याति त्रिविष्टपम् ।। २८।।
सर्वान् भोगानवाप्नोति भर्तुरिष्टं करोति या ।
ईर्ष्याभावपरित्यागात् सर्वेश्वरपदं लभेत् ।।२९ ।।
सपली या सपत्न्यास्तु शुश्रूषां कुरुते सदा ।
भर्तुरिष्टां सन्निरीक्ष्य तस्या लोकोऽक्षयो भवेत् ।।1.378.३ ०।।
शृणु राजन्मया दृष्टा पतिसेवापरायणा ।
गणिका पद्मिनीनाम्नी तत्कथां कथयामि ते ।।३ १ ।।
पूर्वे मम गृहपार्श्वे शूद्रोऽभूद् भार्यया युतः ।
नाम्ना भालुक इत्यस्य पत्नी नाम्ना तु माटुली ।। ३२।।
रूपयौवनसम्पन्ना पातिव्रत्यपरायणा ।
भालुकस्याऽभवत् त्विष्टा शूद्रा गणिका पिङ्गली ।।३३ ।।
शूद्रजातेः सुदुष्टस्य परित्यक्तक्रियस्य च ।
आचरद् वेश्यया सार्धं सेवां पतिव्रता सती ।।३४।।
प्रक्षालनं द्वयोः पादानामुच्छिष्टाशना द्वयोः ।
उभयोरप्यधः शेते तूभयोर्वै हिते रता ।।३५ ।।
वेश्यया वार्यमाणाऽपि सदाचारपथे स्थिता ।
एवं शुश्रूयन्त्यास्तु भर्तारं वेश्यया सह ।।३६ ।।
जगाम सु महान् कालः स्थितायाः पतिसेवने ।
अथैकदा तु तद्भर्ता माहिषं मूलकान्वितम् ।।३७।।
अभक्षयत्तु निष्पावं दुर्मेधास्तैलमिश्रितम् ।
तदपथ्यभुजस्तस्य चाऽवमन्य पतिव्रताम् ।।३८।।।
अभवद् दारुणो रोगो गुदे तस्य भगंदरः ।।
सन्दह्यमानोऽतितरां दिवारात्रौ स भूरिशः ।।३९।।
अथ वेश्या तस्य वित्तं समादाय जगाम वै ।
अन्यस्मै सा ददौ प्रीत्या यूने कामपरायणा ।।1.378.४०।।
ततः शूद्रो दीनमना व्रीडयाऽति प्रधर्षितः ।
उवाच प्ररुदन् भार्यां परिपालय मां प्रिये! ।।४१ ।।
न मयोपकृतं किंचित् तव सुन्दरि! पापिना ।
वेश्याऽऽसक्तेन दुष्टेन बहूनब्दान् पतिव्रते ।।४२।।
यो भार्यां प्रणतां पापो नानुमन्येत गर्वितः ।
सोऽशुभानि समाप्नोति जन्मानि दश पंच च ।।।४३ ।।
दिवाकीर्तिगृहे तस्माज्जन्म प्राप्स्यामि गर्हितम् ।
तवाऽपमानतो पत्नि! पतिसेवापरायणे ।।४४।।
इति भर्तृवचः श्रुत्वा भार्या भर्तारमब्रवीत् ।
पुराकृतानि पापानि दुःखानि प्रभवन्ति हि। ।।४५।।
तानि संक्षमते विद्वान् क्षमयाऽन्तो भविष्यति ।
एवमुक्त्वा समाश्वस्य भर्तारमनुशिष्य च ।।४६ ।।
आनीतवती जनकाद् वित्तं करोति सेवनम् ।
नारायणस्वरूपं तं मन्यते स्म सती पतिम् ।।४७।।
दिवा दिवा त्रिर्यत्नेन भगन्दरविशोधनम् ।
करोति सेवनं तस्य पवनं च ददात्यपि । ।४८।।
न सा रात्रौ स्वपित्यपि न दिवा च पतिव्रता ।।
भर्तृदुःखेन सन्तप्ता त्वपश्यज्ज्वलितं जगत् ।।४९।।
यद्यस्ति वसुधा देवी पितरो देवतास्तथा ।
कुर्वन्तु रोगहीनं मे भर्तारं गतकल्मषम् ।।1.378.५०।।
चण्डिकायै प्रदास्यामि श्रीफलं माहिषं तथा ।
नवरात्रव्रतं चापि भर्तुरारोग्यहेतवे ।।५ १ ।।
सादरं तु करिष्यामि ह्युपवासान् दशैव च ।
शरीरं स्थापयिष्येऽहं सूक्ष्मकण्टकसंस्तरे । ।५२।।
नोपभोक्ष्यामि मधुरं नोपभोक्ष्यामि वै घृतम् ।
बाह्याभ्यंगविहीनाऽहं संस्थास्ये बहुवासरान् ।।५३।।
जीवतां रोगहीनो हि भर्ता मे शरदां शतम् ।
एवं निश्चययुक्ता सा कृष्णबुद्ध्या प्रसेवते ।।५४।।
पतिस्तस्याः पातिवत्यप्रतापेनापि सर्वथा ।
रोगहीनस्तु संजातः सुखदो योषितेऽन्वहम् ।।५५।।
बहुकाले गते पश्चाद् त्रिदोषज्वरपीडितः ।
व्यजायत कदाचित्तु कालगत्याऽन्तिकाऽन्तकः ।।५६ ।।
त्रिकटुं प्रददौ भर्त्रे यत्नेन महताऽपि सा ।
शीतार्तः कम्पमानोऽसौ पत्न्यंगुलिमखण्डयत् ।।।५७।।
उभयोर्दन्तयोः श्लेषः सुदृढः समपद्यत ।
अगुल्याः खण्डमास्येऽस्य स्थितमेवापि सुन्दरी ।।।५८।।।
सिषेवे परया प्रीत्या प्राणाँस्तत्याज सोपि वै ।
अथ विक्रीय वलयं क्रीत्वा काष्ठानि भूरिशः ।।१९।।
चितां सर्पियुतां चक्रे मध्ये धृत्वा पतिं तदा ।
अवरुह्य च बाहुभ्यां पादेनाकृष्य पावकम् ।।1.378.६०।।
मुखे मुखं समाधाय हृदये हृदयं तथा ।
जघने जघनं देवी त्वात्मनः सन्निधाय च ।।६१ । ।
दाहयामास कल्याणी भर्तुर्देहं पतिव्रता ।
आत्मना सह चार्वंगी ज्वलिते जातवेदसि ।।६२।।
विमुच्य देहं सहसा जगाम स्वामिना सह ।
देवलोकं शोधयित्वा महापापादिसञ्चयान् ।।६ ३ ।।
इतिदृष्टं मया साक्षाद् राजन् शूद्राणिकाव्रतम् ।
स्वर्गदं सुखदं तस्माद् विद्विषेन्न पतिप्रियाम् ।।६४।।
स्वहस्तेन प्रियां भर्तुर्भार्यां संभोजयेत् सती ।
सपत्नीं तु सपत्नी हि किंचिदन्नं ददाति यत् ।।६५।।
तदनन्तं भवेद् राजन् फलं चानन्तकं भवेत् ।
पतिव्रता च सा ज्ञेया योनिसंरक्षणा सदा ।।६६।।
नारीणां भर्तृशुश्रूषा पुत्राणां पितृसेवनम् ।
शूद्राणां लोकसेवा च लोकरक्षा महीभृताम् ।।६७।।
पातिव्रत्यं च तत्प्रोक्तं रक्षणं स्वामिनश्चरेत् ।
यस्या दुःखी भवेद् भर्ता भार्याया बहुभार्यकः ।।६८।।
समृद्धायाः सपापायास्तस्याः प्रोक्ता ह्यधोगतिः ।
सा याति नरकं पापा पूयाख्यं युगमेव यत् ।।६९।।
ततश्छुन्छुन्दरी स्याच्च सप्तजन्मानि पर्वते ।
ततः काकी ततः श्याली गोधा गोत्वेन शुद्ध्यति ।।1.378.७०।।
भर्तुरर्थे तु या वित्तं विद्यमानं न यच्छति ।
जीवितं वा स्वदेहं वा विष्ठायां सा भवेत् कृमिः ।।७१ ।।
कृमियोनिर्विनिर्मुक्ता काष्ठीला जायते ततः ।
काष्ठीलया पुरा प्रोक्तं श्रुतं मया वदामि ते ।।७२।।
मम कौमारभावे तु मद्ग्रामे काष्ठपाटकः ।
चुल्लिकायोग्यकाष्ठानि प्तइत्यं पाटयति गृहे ।।।७३।।
तत्र दृष्टा मया मुण्डा काष्ठीला दारुनिर्गता ।
नवनीतमृदुदेहा कनिष्ठांगुलिकाप्रभा ।।७४।।
मुखे त्वञ्जनसद्रूपा स्थौल्ये त्वंगुलिमानिका ।
तां पतितां भुवि दृष्ट्वा जग्धुं काकः समागतः ।।७५।।
यावत् चञ्च्वा प्रगृह्णाति तावन्मया तु कंकरैः ।
लोष्ठक्षेपणकैश्चापि सद्यः काको निवारितः ।।७६।।
सा मुक्ता सक्षता तुण्डताडिता न पलायितुम् ।
समर्था ह्यभवद् राजन्! वेपमानाऽतिमूर्छिता ।।७७।।
सिक्ता मया जलेनाथ स्वास्थ्यं ज्ञानमुपागता ।
ततः सा मानुषीवाचा पूर्वं जन्म जगाद माम् ।।७८।।
सुमन्तुनाम्नो हि मुनेः सर्वज्ञस्य सुताऽभवत् ।
पत्नी चासीद् गुणयुक्ता कौण्डिन्यस्य सुदर्पिता ।।७९।।
जनन्या बन्धुवर्गस्य पितुरिष्टतया ह्यहम् ।
पित्रा दत्तं यौतकं मे श्वशुरेणापि चार्पितम् ।।1.378.८०।।
अयुतं च सुवर्णानामुपवस्तुबहूत्तमम् ।
पितृश्वशुरवित्ताभ्यां सुसमृद्धाऽभवं तदा ।।८ १ ।।
गोमहिष्यादिसंयुक्ता धनधान्यसमन्विता ।
इष्टा श्वशुरयोश्चाऽहं सौशील्येन जनस्य च ।।८२।।
कालेन पञ्चतां प्राप्तः श्वशुरो मेऽतिधार्मिकः ।
मृतं तं पतिमादाय श्वश्रूरग्निं विवेश सा ।।८३।।
अथ मासद्वये याते भर्ता मे राजमन्दिरम् ।
यज्ञकार्यप्रसिद्ध्यर्थं गतो वेश्याः ददर्श सः ।।८४।।
रूपाढ्या यौवनोपेतास्तासां मध्यात्तु वै द्वयम् ।
वेश्यारत्नं समादाय रक्षयामास वै गृहे ।।८५।।
तयोर्वित्तमशेषं तु क्षयं नीतं निषेवणात् ।
वर्षत्रये गते निःस्वो जातः पतिर्ममाऽथ सः ।।८६।।
प्रार्थयामास मां वित्तं देहि मेऽङ्गविभूषणम् ।
तन्मया नहि दत्तं तु भर्त्रे व्यसनिने तदा ।।८७।।
किन्तु सर्वं समादाय गताऽहं पितृमन्दिरम् ।
पतिना गृहवस्त्वादि विक्रीतं क्षयितं च तत् ।।८८।।
श्वशुरस्यापि यद्द्रव्यं यत्र क्वापि स्थितं त्वभूत् ।
सर्वं तत् क्षयितं तेन क्षेत्रभाण्डपरिच्छदम् ।।८९।।
अथ नावं समारुह्य द्रव्यार्थं कृतमानसः ।
गतः समुद्रमार्गेण दूरं यावत्तदाऽनिलैः ।।1.378.९०।।
प्रभंजनैर्वशं नीता नौका विशीर्णता गता ।
अन्ये मृताः पतिर्मे तु दैवात् काष्ठं समाश्रितः ।।९१ ।।
वायुना शुभपुण्येनाऽऽससाद द्वीपमल्पकम् ।
यत्र सामुद्ररत्नानि चाऽभवन् कोटिशः खलु ।।९२।।
तत्तीरं स मुहूर्तं तु विशश्राम क्षुधान्वितः ।
पक्ववृक्षफलान्यत्त्वा पीत्वा जलं सुखान्वितः ।।९३।।
सालवृक्षस्य मूले स रात्रौ सुष्वाप वै श्रमी ।
अभ्यगाद् राक्षसो घोरः कन्यामादाय सुन्दरीम् ।।९४।।
शुभां काशीपतेः पुत्रीं नाम्ना रत्नावलीं सतीम् ।
जहार राजसौधात् तां भक्ष्यार्थं स्वीययोषितः ।।९५।।
राक्षसः प्राह पत्नीं च मद्भक्ष्य ंतु गुहामुखे ।
नररूपं समास्ते वै तमानय च मा चिरम् ।।९६।।
इत्युक्ता सा ययौ गुहाद्वारं मम पतिं प्रति ।
उवाच तु पतिं मे सा त्वां पतिं कर्तुमागता ।।९७।।
शक्तिं ददामि ते हस्ते मत्पतिं हन्तुमेव वै ।
यदि त्वमनया शक्त्या न हिंससि राक्षसम् ।।९८।।
खादयिष्यति दुर्मेधास्त्वां च मां च न संशयः ।
या गतिर्ब्रह्महत्यायां कुत्सिता प्राप्यते जनैः ।।९९ ।।
तां गतिं हि प्रपद्येऽहं वच्मि चेदनृतं यदि ।
इत्युक्त्वा ब्राह्मणं नीत्वा गुहायां राक्षसं प्रति ।। 1.378.१०० ऽ।
गता सा प्राह विप्रं तं प्रक्षिपस्व सुशक्तिकाम् ।
श्रत्वा द्रागेव तां शक्तिं मुमोच राक्षसं प्रति ।। १०१ ।।
कृत्वा भस्मावशेषं सा राक्षसं गगनं गता ।
अथोवाच द्विजं हृष्टा भोगान् भुंक्ष्वाऽत्र कान्त! मे ।। १ ०२।।
कान्तो मया हतो नैव किन्तु पापाद् वियोजितः ।
ब्राह्मणश्च कृतः कान्तो ब्राह्मणी च भवामि वै ।। १ ०३।।
कन्यात्वध्वंसको मा स्यात् पतिश्चैव विनाशितः ।
यत्र तेऽस्ति गृहं तत्राऽऽगच्छामि कन्यया सह ।।१ ०४।।
इत्युक्त्वा राक्षसी सर्वं संप्रगृह्य गुहाधनम् ।
करेणुरूपिणी भूत्वा पृष्ठे कृत्वा पतिं मम ।। १ ०५।।
ययावाकाशमार्गेण काशीराजगृहं प्रति ।
पृष्ठात् करेणुरूपिण्याः सकन्योऽवातरद् द्विजः ।। १०६ ।।
करेणुश्चाऽभवत्कन्या मानुषी द्विजपत्निका ।
रत्नावली ययौ पितृगृहं वृत्तं जगौ तदा ।। १ ०७।।
तल्पस्था रक्षसा रात्रौ स्वपुरस्था हृताऽप्यहम् ।
जीवमानाऽक्षता प्राप्ता समाश्वसिहि मत्कृते ।। १ ०८।।
अविप्लुताऽस्मि च पितः! राक्षस्या रक्षिताऽनया ।
ब्राह्मणः रक्षितश्चापि देह्यस्मै ब्राह्मणाय माम् ।। १ ०९।।
अनेनैकासना जाता स मे भर्ता भवेदतः ।
सुद्युम्नस्तां ददौ तस्मै विप्राय विधिना ततः ।। 1.378.११० ।।
कन्यां च राक्षसीं पत्नीद्वयमादाय वाडवः ।
महोदयपुरं प्रायात्। करिणीवाहनः क्षणात् ।। १११ ।।
भर्ता पूर्वं परित्यक्तो यः स पत्नीद्वयान्वितः ।
सुसमृद्धः श्रुतश्चाद्य तेन चाऽऽकारिताऽप्यहम् ।। १ १२।।
भर्तुर्गृहं पुनः प्राप्ता तेन मुख्यैव मानिता ।
सर्वं धनं तथा पत्नीद्वयं मह्यं समर्पितम् ।। ११ ३।।
अहं वै स्वल्पसमये भाग्यहीना मृताऽभवम् ।
पत्युर्द्रोहाद् याम्यकुण्डाननुभूयाऽस्मि वै तरौ ।। १ १४।।
काष्ठीलां चातिदुःखार्ता जाता यास्यामि पाशवीम् ।
योनिं च पक्षिजन्मानि पुनरेव सहस्रशः ।। १ १५।।
या भर्तुर्नाऽर्पयेद्वित्तं जीवितं च शुभानना ।
साऽपीदृशीमवस्थां वै यास्यत्येव न संशयः ।। १ १६।।
एवं ज्ञात्वाऽनिशं रक्षेत्पत्युर्वित्तं च जीवितम् ।
पतिर्माता पिता वित्तं जीवितं च गुरुर्गतिः ।। १ १७।।
पत्यौ प्रसन्ने पद्मेशः प्रसन्नो जायते ध्रुवम् ।
जीवितेनापि वित्तेन भर्तारं वञ्चयेत्तु या ।। १ १८।।
कृमियोनिशतं गत्वा पुल्कसी जायते तु सा ।
सुरतं याचमानाय पयेवित्तं मानिनी ।। ११ ९।।
या न यच्छति दुष्टा सा काष्ठीला जायते ध्रुवम् ।
वित्तं देहं तथा पुत्रं यच्चान्यद्वा भवेद्धनम् ।। 1.378.१२०।।
न्यक्कारं च भवेत् सर्वं स्त्रीणामेकं पतिं विना ।
तस्याऽर्थे वा त्यजेद् वित्तं जीवितं च समन्ततः ।। १२१ ।।
धनं त्यजेत् त्यजेद् दासान् दारान् जीवं गृहं त्यजेत् ।
त्यजेद्देशं तथा भूपं स्वर्गं मित्रं गुरुं त्यजेत् ।। १ २२।।
त्यजेत्तीर्थं त्यजेद्धर्मं त्यजेदत्यन्तसुप्रियम् ।
त्यजेद् योगं त्यजेद् दानं यानं पुण्यक्रियां त्यजेत् ।। १ २३।।
तपस्त्यजेत् त्यजेद् विद्यां सिद्धिं मोक्षं त्यजेत्तथा ।
न त्यजेत् स्वस्वामिसेवां तत्सर्वेभ्योऽधिकां सती ।। १ २४।।
वेदैः शुश्रूषणं भर्तुः स्त्रीणां धर्मः प्रकीर्तितः ।
यद्ब्रवीति पतिः किञ्चित् तत्कार्यमविशंकया ।। १ २५।।
शुक्लं शुक्लमिति ब्रूयात् शुक्लं वै पतिसेवनम् ।
तदग्रे सर्वमेवेति कृष्णं पतिव्रताकृते ।। १२६ ।।
काष्ठीलया स्वकं वृत्तं सर्व मे कथितं ततः ।
मोक्षार्थं प्राह सा कष्टं प्राप्ता प्राणान्तगामिनी ।। १ २७।।
देहि मे पुण्यमत्रैव करे धृत्वा जलं स्वसः! ।
एकदिनस्य सेवायाः पत्युः पुण्यं च यद्भवेत् ।। १ २८।।
तत्पुण्यं मे प्रदेह्यत्र येनाऽस्माद् वपुषो म्रिये ।
प्राप्स्ये जन्मान्तरं चाथ करिष्ये भर्तृसेवनम् ।। १ २९।।
स्वर्ग गमिष्ये तत्पश्चान्मोक्षं यास्ये हि सेवया ।
इत्युक्ताऽहं ददौ तस्यै दिनैकं भर्तृसेवया ।। 1.378.१३ ०।।
यल्लब्धं वै मया पुण्यं पूर्वं तेनैव सा मृता ।
सा च लब्ध्वा यथाकर्म जनुं काले च मानुषी ।। १३१ ।।
भूत्वा ययौ परं श्रेयः पतिसेवापरायणा ।
अहं राजन् भूमिगोधा मोक्तुमिच्छामि वर्ष्म यत् ।। १३ २।।
देहि राजँस्तव पत्न्या सन्ध्यावल्या कृतं तु यत्। ।
एकस्याऽह्नः पतिसेवाजन्यं पुण्यं सुखप्रदम् ।। १३३।।
पत्नीकृतेऽपि पुण्ये वै पत्युर्भोगोऽस्ति सर्वथा ।
त्वया दत्तं तव पत्न्या दत्तमेव भविष्यति ।। १ ३४।।
इत्युक्तः स च रुक्मांगदाख्यः पुण्यं ददौ तदा ।
गोधादेहं परित्यज्य ययौ शुभ्रां गतिं तदा ।। १३५।।
इति ते कथितं लक्ष्मि! पतिसेवनकर्मणा ।
पुण्यमुद्धारकं नार्या प्राप्यते मोक्षणं तथा ।। १३६ ।।
पठनाच्छ्रवणाच्चास्य पतिसेवाफलं भवेत् ।
पतिद्रोहकृतं पापं नश्यत्येव न संशयः ।। १३७।।
उद्धरेत्पापिनीं नारीं पतिसेवैकवासरा ।
किं पुनराजीवनं तु कृता किं किं न दास्यति ।। १ ३८।।
पतिर्वेश्यापरो वापि व्यसनी वा विमार्गगः ।
पतिरेव पतिर्नार्या नान्यः प्रतिनिधिर्भवेत् ।। १ ३९।।
अन्यत्र स्यात्प्रतिनिधिः प्रतिनिधिर्न मैथुने ।
अन्यान्यंगानि पश्यन्ति मानवाश्चान्ययोषितः ।। 1.378.१४० ।।
योन्यंगं दर्शनाऽयोग्यं दृश्यं नान्यैः पतिं विना ।
प्रमत्तो वार्धको वाऽथ पाशवो राक्षसोऽथवा ।। १४१ ।।
दैत्योऽस्पृश्योऽथ चाण्डालो मलिनः पूयपूरितः ।
दुर्गन्धो विष्टया लिप्तो रुग्णः कृमिप्रपूरितः ।। १४२ ।।
यादृशस्तादृशो वापि योनिद्रष्टा स एव सः ।
नाऽन्यो देवोऽथवा सम्राड् योनियोग्यो हि धर्मतः ।। १४३ ।।
धर्मतो योनिरूपं स लीनमर्थं हि गच्छति ।
लीनो भूत्वा धातुरूपः पुत्रात्मा जायतेऽपि सः ।। १४४।।
पतिरूपेण पाताऽस्ति पुत्ररूपेण पास्यति ।
परलोके प्रपाता च पतिरेव मतो हि सः ।। १४५।।
तत्कृते वर्तितं यद्यत् सर्वं नार्याः प्रमोक्षकृत् ।
इति ज्ञात्वा सदा लक्ष्मि! पातिव्रत्यं समाचरेत् ।। १४६। ।
हरिर्यथाऽर्चितो भक्तैर्भक्तानुद्धरति स्वयम् ।
पतिस्तथाऽर्चितः पत्न्या पत्नीमुद्धरति स्वयम् ।। १४७।।
मलिना वा विचित्ता वा रुग्णा पूयप्रपूरिता ।
दुर्गन्धा वा कुरूपा वा वृका जडा सजन्तुका ।। १४८।।
मद्यमांसरता वा दुर्वाणी दुष्टा मलान्विता ।
यादृशी तादृशी वा स्याद् राक्षसी वा पिशाचिका ।।१४९।।
भूती प्रेती च वेताली डाकिनी कालिकापि वा ।
पत्न्यां तस्यामेव पतिः रन्तुमिच्छति वै गृहे ।। 1.378.१५० ।।
अभयं रमणं यत्र स वै धर्मः सनातनः ।
सभयं रमणं यत्राऽधर्मः सम्परिकीर्तितः ।। १५१ ।।
अभयं रमणं रमयितारौ तारयेद् भयात् ।
पत्नीव्रतं ततः पातिव्रत्यमुद्धारकं सदा ।। १५२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये रुक्मांगदराज्ञे गृहगोधया स्वभर्तृवशीकारो, भालुकमाटुलीपिङ्गलीवृत्तान्तः, सुमन्तुसुताकौण्डिन्यपत्नीकाष्ठीलावृत्तान्तः, काशीराजपुत्री वृत्तान्तः, भर्तृसेवैकदिनजपुण्यदानेन तासां मुक्तिः, पतिव्रतानां विशेषता पतिं प्रति चेत्यादि निरूपणनामाऽष्टसप्तत्यधिकत्रिशततमोऽध्यायः ।। ३७८ ।।